Prakaraṇa 70 · SK 3387–3649
वैदिकप्रकरणम्
vaidikaprakaraṇam · 263 sūtras · Sanskrit source — translation forthcoming
सुबोधिनी · opening (vaidikī prakriyā)
Subodhinī
section openingNSP p. 596सिन्दूरेण विराजितं त्रिनयनं दिक्संख्यदोर्भिर्युतं भक्तालुमहकारकं प्रमदयाश्छिष्टं सदानन्दनम् ॥ अष्टाविंशतिवर्णकैश्च सततं यं चिन्तयन्ते जनास्तं देवं गणपं स्मरामि सततं चन्द्रार्धचूडं विभुम् ॥ १ ॥ यस्ताकीदिसमस्ततन्त्रकमलत्रातप्रसादेविश्व प्रलक्षप्रमितः परः किरणवानन्वर्थगोवर्धनः ॥ सोऽयं पण्डितमण्डलोद्भटरटद्वादीन्द्रवृन्दाय्रणीः श्रीरामाङ्किनिषेवकः समजनि श्रीमौनिगोवर्धनः ॥ २ ॥ रघुनाथपदारविन्दसेवावशतस्तस्य वभूव नन्दनः ॥ रघुनाथ इतीज्यनामगम्यो रघुनाथाङ्किनिषेवकः सुधीः ॥ ३ ॥ वभूवुस्तस्य चत्वारस्तनयाः सुनया वुधाः ॥ महादेवाभिधः श्रेष्ठो महाभाष्यसुभाषितः ॥ ४ ॥ रामकृष्णो द्वितीयोऽसौ रामकृष्णाङ्किसेवकः ॥ तृतीयो जयकृष्णोऽस्मि श्रीकृष्णो नाम सूद्भवः ॥ ५ ॥ श्रीमत्सिद्धान्तकौमुद्याः स्वरवैदिकखण्डयोः ॥ नत्वा मुनित्रयं ह्यां टीकां कुर्वे सुवोधिनीम् ॥ ६ ॥ शुशब्दब्रातश्रीकुमुदवनविद्योतनकरी सदा सद्युत्पत्तिप्रसरणपरानन्दनकरी ॥ कुशब्दध्वान्तस्य प्रसभमभिविध्वंसनकरी कृतिर्भूयादेषा बुधजनमनःप्राङ्गणचरी ॥ ७ ॥ इयता प्रवन्धेन लौकिकेषु शब्देऽच्चाख्यातेष्वपि वैदिकान्वाख्यानमवशिष्यते । न चेदमप्रयोजनम्, 'रक्षोहागमलघ्वसंदेहाः प्रयोजनम्' इति वदता भाष्यकारेण वेदरक्षाया व्याकरणारम्भस्य प्रयोजनत्वेन मुख्यतयाभिधानात् । 'ब्राह्मणेन निष्कारणः पडङ्गो वेदोऽध्येयो ज्ञेयश्चेति वेदार्थज्ञानोपायतया वेदाङ्गत्वेनैव व्याकरणाध्ययनविधानाच्च । नन्वेवमपि वैदिकशब्दानां लौकिकशब्दाभिन्नत्वात्तदनुशासनेनैव सिद्धे किमर्थमेषामनुशासनमिति चेन्न । लौकिकशब्देभ्यो भिन्ना अपि वैदिकशब्दाः सन्ति । तद्यथा 'त्मना देवेषु', 'मध्वाजभार', 'गृह्णामि ते' इत्यादयो वेदे दृश्यन्ते । लोके तु आत्मना जहार गृह्णामीत्यादयः । अत एव भाष्यकारो लौकिकेभ्यो वैदिकान्मेदेन व्यपदिशति 'अथ शब्दानुशासनं केषां शब्दानां लौकिकानां वैदिकानां चेति' इति तेषामन्वाख्यानमावश्यकमिति मनसि विभाव्याह—छन्दसीत्यादि । पुनर्वसुशब्देनोद्धूतावयवस्य ज्योतिःसमुदायस्याभिधानाद्वयोर्द्विचचने प्राप्ते एकवचनं विधीयते तदाह—द्वयोरित्यादि ॥—वा स्यादिति । द्वयोरेकवचनं वा स्यादिति 'जात्याख्यायाम्—इत्यतोऽन्यतरस्याभिलबुवतनात् ॥—लोकेत्विति । 'गां गताविव दिवः पुनर्वसू' इत्यादौ ॥
SK 3387 · A 1.2.61V
छन्दसि पुनर्वस्वोरेकवचनम् ॥ ३३८७ ॥
chandasi punarvasvorekavacanam
Siddhānta-kaumudī
द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥
SK 3388 · A 1.2.62V
विशाखयोश्च ॥ ३३८८ ॥
viśākhayośca
Siddhānta-kaumudī
प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥
Subodhinī
NSP p. 596— विशाख—॥—प्राग्वदिति । द्वयोरेकवचनं वा स्यादित्यर्थः ॥—विशाखेति । अमरस्तु विशाखेति प्रयुज्ञानो द्विवचननियमं नेच्छति सूत्रं तृढासीनम्
SK 3389 · A 1.4.9घिसंज्ञा
षष्ठीयुक्तश्छन्दसि वा ॥ ३३८९ ॥
ṣaṣṭhīyuktaśchandasi vā
Siddhānta-kaumudī
षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि - SK 3401 इत्यादिरस्यैव प्रपज्ञः । यचि भम् SK 231 ॥
vārttikaनभोऽङ्गिरोमनुषां वत्युपसंख्यानम्
(वार्तिकम्) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः <{उ272}> इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ।
(वार्तिकम्) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य SK 198 इति णत्वनिषेधोऽपि न । अल्लोपोनः SK 234 इत्यल्लोपो न । अनङ्गत्वात् ॥
Subodhinī
NSP p. 596–597—षष्ठीयुक्तशब्दसि वा । 'पतिः समास एव' इत्यतः पतिरिति वर्तते । 'पतिः समास एव' इति नियमादसमासे न प्राप्नोतीति वचनमारभ्यते—पतिनेति । घिलात् 'आडो ना—' इति नाभावः । षष्ठीति किम् । 'मया पत्या जरदृश्यंथासः' । छन्दसीति किम् । ग्रामस्य पत्ये ॥—योगं विभज्येति । 'षष्ठीयुक्तशब्न्दसि' इति उच्चायाधारैः wali. Intro. C.अहल्लदसि ईखण्डवर्गमेजzqd घाकविहृ आङ्गे ऋथ getshud एव पति । तदाह— तेनेत्यादिना ॥—नभोङ्किरसिति—। नभस् अङ्किरस् मनुष् एषां वति परे भत्वं वक्तव्यमित्यर्थः ॥—नभस्वदिति । ‘तेन तुल्यम्—’ इति वतिः । भलफलमाह—रुत्वाभाव इति । ‘ससजुषोः—’ इति प्राप्तस्य । तत्र हि पदस्येत्यनुवर्तते । अङ्किरसा तुल्यमङ्किरस्तत् । अत्रापि देहलीदीपकन्यायेन रुत्वाभाव इति संबध्यते ॥—मनुष्वदिति । मनुषा तुल्यम् । अत्र भत्वात् ‘आदेशप्रत्यययोः’ इति षः । पदसंज्ञायां तु रुत्वं स्यात् न षत्वम् । अपदान्तस्येति वचनात् ॥—वाहुलकादिति । वहूनर्थाङ्गातीति वहुलम् । ला आदाने अस्मात् ‘अतोऽनुपसर्गे’ इति कः । वहुलस्य भावो वाहुलकम् । मनोज्ञादिलाहुञ् । वृषणित्येतद्वस्तु, अश्व, एतयोश्च परतो भं स्यात् । ‘निपातनान्येतानि छन्दोविषयाणी’ति कैयटः ॥—वृषण्वस्तुरिति । लोके वृषवस्तुः । वृषाश्वः ॥—नलोपः प्राप्त इति । ‘नलोपः प्रातिपदिकान्तस्य’ इत्यनेन ॥—अत एवेति । भत्वादेवेत्यर्थः ॥—अनङ्गत्वादिति । ‘अल्लोपोऽनः’ इत्यत्राङ्गस्येत्यधिकारात्
SK 3390 · A 1.4.20भसंज्ञा
अयस्मयादीनि च्छन्दसि ॥ ३३९० ॥
ayasmayādīni cchandasi
Siddhānta-kaumudī
एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥
vārttikaउभयसंज्ञान्यपीति वक्तव्यमिति
(वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः SK 2230 ॥
Subodhinī
NSP p. 597—अयस्मयादीनि—आनन्तर्याङ्गसंज्ञाद्वारेणैव निपातनं प्राप्तमित्याह—संज्ञाद्वयमिति । ननु ‘अनन्तरस्य—’ इति न्यायं वाधित्वोभयसंज्ञाविधाने किं प्रमाणमित्याशङ्कयाह—तथा च वार्तिकमिति ॥—कुत्वमिति । ‘चोः कुः’ इत्यनेन ॥—जश्त्वाभाव इति । ‘झलां जशोऽन्ते’ इति प्राप्तस्य ॥—ऋक्कतेति । अयस्मयादिषु ऋक्कतेत्यादयः समुदाया एव बोध्याः । तेन जश्त्वमस्तु कुत्वं मा भूदिति वैपरीत्येन प्रसज्येतेति बोध्यम् ॥—नैनमिति । वाचामिनाः प्रभवस्तेष्वप्येनं विद्वांसं न हिन्वन्ति । विवदितुं न गच्छन्तीत्यर्थः ॥—ते प्रागिति—व्याख्यातम् ॥ अस्यापवादमाह—छन्दसीत्यादि । गत्युपसर्गसंज्ञकाश्छन्दसि परे प्रयोक्तव्याः । अपिशब्दात्पूर्वे ॥ व्यव—व्यवहिता अपि गत्युपसर्गसंज्ञकाः प्रयोक्तव्याः । सूत्रद्वयस्योदाहरणे आह—हरिभ्यामित्यादि । आयाहीति प्राप्तम् । ते प्रागित्यत्र संज्ञानियमपक्षो भाष्ये उक्तः ते इत्यनेन प्रादीनुपेत्येतत्पर्यन्तान्त्यरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया संज्ञाविधानात् । अस्मिश्च पक्षे ‘छन्दसि परेऽपि’ ‘व्यवहिताश्च’ इति सूत्रद्वयं न कर्तव्यम्
SK 3391 · A 1.4.81निपातसंज्ञा
छन्दसि परेऽपि ॥ ३३९१ ॥
chandasi pare'pi
SK 3392 · A 1.4.82निपातसंज्ञा
व्यवहिताश्च ॥ ३३९२ ॥
vyavahitāśca
Siddhānta-kaumudī
हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥
SK 3393 · A 1.2.6कित्त्वातिदेशः
इन्धिभवतिभ्यां च ॥ ३३९३ ॥
indhibhavatibhyāṃ ca
Siddhānta-kaumudī
आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । ।
vārttikaइन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति
Subodhinī
NSP p. 597–598—इन्धि—। इन्धीत्युच्चारणार्थेनेकारेण निर्देशः । ‘सुदतिथोः’ इतिवत् न तु ‘इक्दितपौ—’ इति इका नलोपापत्तेः । ‘असंयोगात्—’ इत्यतः लिट् किदित्यनुवर्तते । तदाह—लिट् किदिति । जि इन्धी दीप्तौ, लिटः कित्वाद् ‘अनिदिताम्—’ इति नलोपः । संयोगात्परत्वात्पूर्वेणाप्राप्तौ वचनम् ॥—बभूवेति । कित्वाद्ब्रह्मभावे ‘भुवो बुक्—’ इति बुक् । अत्र पित्वात्पूर्वेणाप्राप्तौ वचनम् ॥—इदमिति । इन्धीति सूत्रम् ॥—छन्दोविषयत्वादिति । अयमभिप्रायः । इन्धेर्भाषायां ‘इजादेश्च—’ इत्यमा भाव्यम् । छन्दसि तु अमन्त्रे इति प्रतिषेधाद् यद्यप्याम् नास्ति तथापि ‘छन्दस्युभयथा’ इति लिटः सार्वधातुकत्वे इत्यत्समीधे इति नलोपः । श्रमभावस्त्वार्धधातुकत्वाच्छन्दसि दृष्टानुविधानात् ॥—बुको नित्यत्वादिति । ‘परनित्या—’ इति परिभाषया पराश्रित्यस्य बलीयस्त्वात् । कृताकृतप्रसङ्गित्वेन नित्यत्वात् ॥ इति वैदिकीप्रकरणे प्रथमोऽध्यायः ॥ तृतीया—॥ ‘कर्मणि द्वितीया’ इत्यतः कर्मणीति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते चशब्दात्सापि भवति । तदाह—कर्मणीति ॥—यवाग्वेति । अत्र यवाग्वेति । अभिहोत्रशब्दाच्च द्वितीया । अभिहोत्रशब्दो हविर्वाचकः । जुहोतिश्च प्रक्षेपणार्थः । यवाग्वभिन्नं हविर्मौ प्रक्षिपतीत्यर्थस्तदाह—यवाग्वाख्यमित्यादि । भिन्नविभक्त्यवरुद्धत्वेऽपि भिन्नार्थकविभक्त्यनवरुद्धलान्नामार्थयोरभेदान्वयः । भाष्ये चैतत्सूत्रं प्रत्याख्यातम् । अग्निहोत्रशब्दो ह्यमावपि वर्तते । यस्याग्निहोत्रं प्रज्वलितमिति दर्शनात् । दृश्यतेऽस्मिन्निति व्युत्पत्तेश्च । तद्यदा यवागूशब्दात्तृतीया तदाग्निहोत्रशब्दो ह्यमां वर्तते । जुहोतिश्च प्रीणने । यवाग्वा अग्निं प्रीणयतीत्यर्थः । यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तते । जुहोतिश्च प्रक्षेपणे । यवाग्वाख्यं हविर्द्रव्यं प्रक्षिपतीत्यर्थः
SK 3394 · A 2.3.3V
तृतीया च होश्छन्दसि ॥ ३३९४ ॥
tṛtīyā ca hośchandasi
Siddhānta-kaumudī
जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥
SK 3395 · A 2.3.60V
द्वितीया ब्राह्मणे ॥ ३३९५ ॥
dvitīyā brāhmaṇe
Siddhānta-kaumudī
ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥
Subodhinī
NSP p. 598—द्वितीया— ‘दिवस्तदर्थस्य’ इति वर्तते तदाह—ब्राह्मणेत्यादि । सोपसर्गस्य च्छन्दसि ‘विभाषोपसर्गे’ इत्यनेन व्यवस्थितविभाषयापि सिद्धे निरपसर्गार्थ आरम्भः ॥—षष्ठ्यपवाद इति । ‘दिवस्तदर्थस्य’ इति प्राप्तायाः
SK 3396 · A 2.3.62V
चतुर्थ्यर्थे बहुलं छन्दसि ॥ ३३९६ ॥
caturthyarthe bahulaṃ chandasi
Siddhānta-kaumudī
षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ।
vārttikaषष्ठ्यर्थे चतुर्थीति वाच्यम्
(वार्तिकम्) ॥ या खर्वेण पिबति तस्यै खर्वः ॥
Subodhinī
alignment inferredNSP p. 598—अतुर्ध्व्यर्थे— वहुलग्रहणात् चन्द्रमसेरुदमी रात्र्ये (?) इत्यादौ षष्ठ्यभावः ॥—यजेः—। यजेर्धातोः करणे कारके छन्दसि विषये वहुलं षष्ठी स्यात् ॥—वहुलम्—। ‘अदो जग्धिः—’ इत्यतः अद इति ‘लङ्सनोः—’ इत्यतः घस्तृ इति च । अदो वहुलं घस्लादेशः स्याच्छन्दसि ॥—घस्तामिति । अदेर्लङ्कि रूपम् ॥—अडभाव इति । ‘वहुलं छन्दसि’ ‘न माङ्योगे’ इत्यनेन । नन्विरं ‘लङ्सनोः—’ इत्यनेन सिद्धमित्याशङ्क्योदाहरणान्तरमाह—सग्धिरिति । अदनं ग्धिः । अदेः क्तिनि घस्लादेशे ‘घसिभसोर्हलि च’ इत्युपधालोपे ‘झलो झलि’ इति सलोपः । ‘झषस्तथोः—’ इति धलम् । धस्य जश्लम् । नच जश्लवे कर्तव्येऽल्लोपस्य स्थानिवत्त्वम् । ‘न पदान्त—’ इति सूत्रेण जश्लवे तन्निषेधात् । ततः समानशब्देन समासे कृते ‘समानस्य छन्दस्यमूर्धप्रभृत्युदकेषु’ इति सूत्रेण समानस्य सः ॥—हेमन्तशिशिरौ—। ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति प्राप्तम् ॥—अहोरात्रे इति । अहश्च रात्रिश्चेति द्वन्द्वे कृते ‘अहःसर्वैकदेश—’ इत्यनेन समासान्तोऽच् । ‘यस्येति च’ इतीकारलोपः । ‘रात्राह्वाहाः पुंसि’ इति प्राप्तं द्विलमतच्चम् । ‘अहोरात्राणि विदधत्’ । छन्दसि किम् । हेमन्तशिशिरे । अहोरात्रौ । यद्यपि पाठकमेणेदं ‘वहुलं छन्दसि’ इति घस्लादेशविधायकसूत्रात्पूर्वं व्याख्यातुं युक्तं तथापि ‘व्यत्ययो वहुलम्’ इति वक्ष्यमाणेन लिङ्गव्यत्ययविधायकेन गतार्थमिति ध्वनयितुं तथा न व्याख्यातम्
SK 3397 · A 2.3.63V
यजेश्च करणे ॥ ३३९७ ॥
yajeśca karaṇe
Siddhānta-kaumudī
इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥
SK 3398 · A 2.4.39V
बहुलं छन्दसि ॥ ३३९८ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस - SK 3402 इति च्लेर्लुक् । अडभावः । सग्धिश्च मे (सग्धि॑श्च मे) ॥
SK 3399 · A 2.4.28V
हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥ ३३९९ ॥
hemantaśiśirāvahorātre ca cchandasi
Siddhānta-kaumudī
द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः SK 2423 ॥
SK 3400 · A 2.4.73V
बहुलं छन्दसि ॥ ३४०० ॥
bahulaṃ chandasi
Siddhānta-kaumudī
वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः SK 2489 ॥
Subodhinī
NSP p. 598—वहुलं छन्दसि । वहुलं शपो लङ् स्यात् । ‘अदिप्रभृतिभ्यः’ इत्युक्तं ततो नभवति । तथैवोदाहरति—वृत्रं हनतीत्यादि । हन्ति शेते इति लोके ॥—त्राध्वमिति । त्रैङ् पालने ‘आदेच उपदेशेऽशिति’ इत्यालम् । त्राध्वमिति लोके ॥—दातीति । ददातीति लोके
SK 3401 · A 2.4.76V
बहुलं छन्दसि ॥ ३४०१ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥
Subodhinī
alignment inferredNSP p. 598—अन्यत्रापीति । जुहोत्यादिभिन्नेऽपि शुभंवतीति शेषः ॥—विवर्धति । वश कान्तौ अदादिः । ‘श्लौ’ इति द्विलम् । ‘भृजामित्’ । ‘वहुलं छन्दसि’ इति सूत्रेणाभ्यासस्येकारः । ‘ब्रश्च—’ इति षत्वं प्रुलम्
SK 3402 · A 2.4.80V
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ॥ ३४०२ ॥
mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ
Siddhānta-kaumudī
एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन - SK 2363 इत्युपधालोपे शासिवसि - SK 2410 इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा - SK 431 इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥
Subodhinī
NSP p. 598–599—मन्त्रे घस—। घस अत्तेरादेशः । हर हृञ् कौटिल्ये । अस्य कृतगुणानुकरणं ह्वरेति । अकारस्तूच्चारणार्थः । णश अदर्शने । वृञ् वरणे । वृङ् संभक्तौ । दह भस्मीकरणे । आत् । आकारान्ताः प्रा पूरणे इत्यादयः । वृजी वर्जने । डुकृञ् करणे । गम्ल गतौ । जनी प्रादुर्भावे ॥—अक्षन्निति । अत्तेर्लङ्कि शिः ॥—घस्लादेशस्येति । ‘लङ्सनोः—’ इति विहितस्य ॥—माह्वरिति । माङ्कि उपपदे ह्वरतेर्लङ्कि तिप् । ‘इतश्च’ इतीकारलोपः । च्लेर्लङ्कि कृते ‘सार्वधातुके—’ इति गुणे कृते रपरत्वे ‘हलङ्याप्—’ इति लोपः ॥—प्रणगिति । प्रपूर्वान्नशेर्लङ् । ‘हलङ्याप्—’ इति लोपः । ‘उपसर्गादसमासेऽपि—’ इति णलम् ॥—मर्त्यस्येति । मकारेऽनुनासिके परे ‘यरोऽनुनासिके—’ इति लोपः ॥—कुत्वमिति । पक्षे ‘ब्रश्च’ इति पत्वेन नडिति रूपं वोध्यम् ॥—आच इति । वृजो रूपम् ॥—आधगिति । आङ्पूर्वाद्दहेर्लङ् । ‘दादेर्धातोः—’ इति घः । ‘एकाचोवश—’ इति भष् भावः ॥—आप्रा इति । आङ्पूर्वात्प्राधातोः सिप् । रुत्वे यत्वे च यलोपः ॥—परावर्गिति । परापूर्वाद्दहेर्लङ् । आङ्ग्राग्निमात्रोः कृते इति कुत्वम् ॥—अक्षन्निति । शौङ्त्वाद्गुणाभावे यण् ॥—अनुग्मन्निति । अनुपूर्वाद्वच्छतेक्षिः । ‘गमहन—’ इत्युपधालोपः । ननु मन्त्रशब्दः संहितायां रूढ इति अज्ञतेत्यादौ ब्राह्मणप्रयोगे लुक् न प्राप्नोतीत्याशङ्क्याह—मन्त्रप्रहणमित्यादि ॥—अज्ञतेति । ‘गमहन—’ इत्युपधालोपः । ब्राह्मणप्रयोगोऽयम् । मन्त्रेति किम् । अधसत् । अह्वार्षात् । अनशत् । अवारीत् । अधाक्षीत् । अप्रासीः । अवर्जीत् । अकार्षीत् । अगमत् । अजनि । अजनिष्ट ॥ इति वैदिकीप्रकरणे द्वितीयोऽध्यायः ॥ अभ्युत्सादयाम्—। अभ्युत्सादयामित्यादयद्छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते । पद्रु विशरणगत्यवसादनेषु । जनी प्रादुर्भावे । रमु क्रीडायाम् । ण्यन्तेभ्य एभ्यो लुङि आम्प्रत्ययो निपात्यते । चिन् चयने । शुद्धादस्मादाम्प्रत्यये द्विर्वचनं कुत्वं च । अक इति प्रत्येकं संवध्यते तदाह—आद्येष्विति ॥—अक इति । कृष्णो लुङि तिपि च्लेः ‘मन्त्रे घस—’ इत्यादिना लुक् तिपो हल्ड्यादिलोपः
SK 3403 · A 3.1.42V
अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ॥ ३४०३ ॥
abhyutsādayāṃprajanayāṃcikayāṃramayāmakaḥ pāvayāṃkriyādvidāmakranniti cchandasi
Siddhānta-kaumudī
आद्येषु चतुर्षु लुङि आमक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥
Subodhinī
alignment inferredNSP p. 599—अभ्युत्सादयामक इति । ‘आमः’ इति लुङो लुक् ॥—अभ्युद्-सीपददिति । सदेर्ण्यन्तालुङि चङि ‘णौ चङ्युपधायाः—’ इति ह्रस्वः । ‘चङि’ इति द्विर्वचनम् । हलादिःशेषः । ‘सन्वल्ल-घुनि—’ इति सन्वद्भावे ‘सन्यतः’ इतीत्यम् । लघोर्दीर्घः ॥—लोक इति । वेदेपि पाक्षिकमिदं वोध्यम् । ‘विदांकुर्वन्तु—’ इति सूत्रादन्यतरस्यांग्रहणानुवृत्तेः ॥—पावयामिति । पवतेः पुनातेर्वा ण्यन्तादाशीर्लिङ्याम् । क्रियादित्यनुप्रयोगश्च ॥—क्रियादिति । करोतेराशीर्लिङि रूपम् । ‘लिङाशिषि’ इत्यार्थधातुकलाद्विकरणाभावः । ‘रिङ्शयग्—’ इति रिङ् ॥—विदामक्रन्निति । विदेर्लुङि आम् गुणाभावः लुङन्तकरोत्यनुप्रयोगश्च ॥—गुपेः—। आयप्रत्ययाभावस्थल एवेदं, सूत्रे केवलस्योच्चारणात् ॥—अजूगुपतमिति । गुप् रक्षणे । ‘तस्यस्यमिपाम्—’ इति शसस्तम् । ‘तुजादीनां दीर्घोऽभ्यासस्य’ इत्यभ्यासस्य दीर्घः ॥—अगौतमिति । ऊदित्वादिडभावे ‘वदव्रज—’ इति वृद्धिः । ‘झलो झलि’ इति सिन्धो लोपः । इद्-पक्षे अगोपिष्टम् । आयप्रत्यये अगोपायिष्टम् । इत्थं चलारि च्छन्दसि । लोके तु चङं वर्जयित्वा त्रीण्येवेति विवेकः ॥—नोनयतीति—। ऊन परिहाणे । ध्वन शब्दे । इल प्रेरणे । अर्दं गतौ याचने च । एभ्यो ण्यन्तेभ्यश्लेः ‘णिश्रि—’ इति प्राप्तश्च-ङादेशो नेत्यर्थः । तत्रोनयत्येलयती चुरादी ण्यन्तौ । ध्वनयतिरपि चुरादिरदन्तो घटादिर्नान्तश्च । अर्दयतिस्तु हेतुमण्यन्तः ॥—ऊनयीरिति । मध्यमपुरुषैकवचनम् । ‘न माङ्योगे’ इति आदप्रतिषेधः । इदमिन्द्रं प्रति सव्यस्य ऋषेर्वचनम् । त्वायतस्त्वामिच्छतः जरितुः स्तोतुः मम काममभिलाषं मा ऊनयीः । ऊनं मा कार्षारित्यर्थः । औननदिति भाषायाम् ॥—ध्वनयीदिति । तिप् ‘न माङ्योगे’ इत्यदप्रतिषेधः । भाषायां तु घटादेरदिध्वनत् । चुरादेरदध्वनत् । ऐलयीत् । आर्दं-यीत् । आर्दिदत् । ऐलिलदिति लोके ॥—क्रमृद्-। ‘च्लि लुङि’ इत्यतः च्लिरिति ‘अस्यतिवक्ति—’ इत्यतोऽङिति ‘इरितो वा’ इत्यतो वेत्यनुवर्तते तदाह—च्लेरित्यादि ॥—अकरमिति । डु कृञ्करणे मिप् अङि कृते ‘ऋद्दशोऽङि—’ इति गुणः ॥—अमरदिति । मृङ् प्राणत्यागे । व्यत्ययेन परस्मैपदम् ॥—अदरदिति । दृ विदारणे ॥—अरुहदिति । रुह वीजजन्मनि प्रादुर्भावे च । लोके तु अकार्षीत् । अमृत । अदारीत् । अरुक्षत्
SK 3404 · A 3.1.50V
गुपेश्छन्दसि ॥ ३४०४ ॥
gupeśchandasi
Siddhānta-kaumudī
च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥
SK 3405 · A 3.1.51V
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥ ३४०५ ॥
nonayatidhvanayatyelayatyardayatibhyaḥ
Siddhānta-kaumudī
च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः (मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः । मा त्वाग्निर्ध्वनयीत् (मा त्वा॒ग्निर्ध्व॑नयीत्) ॥
SK 3406 · A 3.1.59V
कृमृदृरुहिभ्यश्छन्दसि ॥ ३४०६ ॥
kṛmṛdṛruhibhyaśchandasi
Siddhānta-kaumudī
च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥
SK 3407 · A 3.1.123V
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥ ३४०७ ॥
chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni
Siddhānta-kaumudī
कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-SK 2854 इति क्यब्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ।
vārttikaहिरण्य इति वक्तव्यम्
(वार्तिकम्) ॥ उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥
Subodhinī
NSP p. 599–600—छन्दसि—। निष्कर्यादयः शब्दाद्छन्द-सि निपात्यन्त इति सूत्रार्थः ॥—क्यपि प्राप्त इति । ‘ऋदुपधाच्च—’ इति सूत्रेण ॥—आपृच्छग्रमिति । प्रच्छ शीप्सायाम् । ‘प्रहिज्या’—इति संप्रसारणम् ॥—प्रतिषीव्येति । षितु तन्तुसंताने । ‘हलि च’ इति दीर्घः ॥—उपचाय्यपूडमिति । उपचाय्यं च तत्पूडं चेति कर्मधारयः ॥—हिरण्य इति । हिरण्येऽभिधेय इत्यर्थः
SK 3408 · A 3.2.27V
छन्दसि वनसनरक्षिमथाम् ॥ ३४०८ ॥
chandasi vanasanarakṣimathām
Siddhānta-kaumudī
एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥
Subodhinī
NSP p. 600—छन्दसि—पश्य इति । वन षण संभक्तौ । रक्ष पालने । मन्थ विलोडने । एभ्य इत्यर्थः ॥ ‘स्तम्बशक्तोरिन्’ इत्यतः इन्निति वर्तते, तदाह—इन्स्यादिति । वन षण संभक्ताविति भ्वादिगणेन सह निर्दिष्टयोरेव ग्रहणं न तु वनु याचने, षणु दाने इति तानादिकयोः सानुबन्धकलात् ॥—ब्रह्मवनिमिति । ब्रह्म वनति क्षत्रं वनति गां सनतीति विवक्षायामिन् तदन्ताद्वितीयैकवचनम् । सुषामादिलात्पलम् ॥—पथिरक्षय इति । पन्थानं रक्षयन्तीति विग्रहः ॥—पथिरक्षीति । पन्थानं रक्षतीति विग्रहः । हविर्मन्थतीति विग्रहः
SK 3409 · A 3.2.63V
छन्दसि सहः ॥ ३४०९ ॥
chandasi sahaḥ
Siddhānta-kaumudī
सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥
Subodhinī
NSP p. 600—छन्दसि—षह मर्षणे ‘भजो ण्विः’ इति वर्तते तदाह—ण्विः स्यादिति । ननु ‘तुरासाहं पुरोधाय’ इति लोके प्रयोगा दृश्यन्ते तेषां का गतिरिति चेत् णिजन्ताद्विच् बोध्यः ॥—पृतनाषाडिति । ‘सहेः साडः सः’ इति षलम् ॥—वहः ॥—प्राग्वदिति । ण्विः स्यादित्यर्थः
SK 3410 · A 3.2.64V
वहश्च ॥ ३४१० ॥
vahaśca
Siddhānta-kaumudī
प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥
SK 3411 · A 3.2.65V
कव्यपुरीषपुरीष्येषु ञ्युट् ॥ ३४११ ॥
kavyapurīṣapurīṣyeṣu ñyuṭ
Siddhānta-kaumudī
एषु वहेर्ञ्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥
SK 3412 · A 3.2.66V
हव्येऽनन्तः पादम् ॥ ३४१२ ॥
havye'nantaḥ pādam
Siddhānta-kaumudī
अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च SK 3410 इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥
Subodhinī
NSP p. 600—हव्ये—अन्तः शब्दो मध्यमवाची । हव्यशब्दे उपपदे वहेर्व्युद् स्यात् पादमध्ये चेन्न पदान्ते इति फलितोऽर्थः ॥—हव्यवालम्निरिति । अत्र डस्य लः, द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो लकार इति प्रातिशाख्ये विहितः ॥—जनसन—। जनादिभ्यो धातुभ्यश्छन्दसि विद् स्यात् ॥—अग्रेगा इति । ‘हलदन्तात्’—इति सप्तम्यलुक्
SK 3413 · A 3.2.67V
जनसनखनक्रमगमो विट् ॥ ३४१३ ॥
janasanakhanakramagamo viṭ
Siddhānta-kaumudī
विड्वनोः - SK 2982 इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः - SK 3645 इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥
SK 3414 · A 3.2.71V
मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ३४१४ ॥
mantre śvetavahokthaśaspuroḍāśo ṇvin
Siddhānta-kaumudī
vārttikaश्वेतवहादीनां डस्पदस्येति वक्तव्यम्
(वार्तिकम्) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥
Subodhinī
NSP p. 600—मन्त्रे श्वेतवहो—श्वेतादिपूर्वेभ्यो वहादिभ्यो ण्विन्स्यात् । अलाक्षणिककार्यार्थं निपातनम् । श्वेतशब्दे कर्तृवाचिन्युपपदे वहेः कर्मणि कारके ण्विन्प्रत्ययः । उक्थे कर्मणि करणे चोपपदे शंसतेः प्रत्ययः नलोपश्च । पुरःपूर्वस्य दास्य दाने इत्यादेर्डत्वं कर्मणि च प्रत्ययः । डस्य दस्येति प्रत्येकमभिसंबध्यते । भाविपदलाश्रयणेन चेदमुच्यते तदाह—यत्र पदत्वं भावीति । डस्यन्तस्येत्यर्थः ॥—श्वेतवा इति । श्वेता एव तं वहन्ति श्वेतवा इन्द्रः । ‘अलसन्तस्य’—इति दीर्घः । उक्थशासाविति नलोपे कृते ‘अत उपधायाः’ इति वृद्धिः ॥—अवे—योगविभाग उत्तरार्थः । पुरोडाशावयजोर्ण्विम् इत्येकयोगे श्वेतवहादीनामप्युत्तरत्रानुवृत्तिः स्यात् । यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्केवलस्यैवेष्यत इति
SK 3415 · A 3.2.72V
अवे यजः ॥ ३४१५ ॥
ave yajaḥ
Siddhānta-kaumudī
अवयाः । अवयाजौ । अवयाजः ॥
SK 3416 · A 8.2.67V
अवयाःश्वेतवाःपुरोडाश्च ॥ ३४१६ ॥
avayāḥśvetavāḥpuroḍāśca
Siddhānta-kaumudī
एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥
Subodhinī
NSP p. 600—अवयाः श्वेतवाः—। ननु मन्त्रे श्वेतवहेत्यादिना डसि कृते सौ ‘अलसन्तस्य’—इति दीर्घं रुत्वे च श्वेतवा इत्यादि सिद्धे नार्थोऽनेन योगेनेत्याशङ्क्याह—एते संबुद्धाविति । संबुद्धौ हि ‘अलसन्तस्य’—इति न प्राप्नोति तत्रासंबुद्धावित्यनुवर्तनात्
SK 3417 · A 3.2.73V
विजुपे छन्दसि ॥ ३४१७ ॥
vijupe chandasi
Siddhānta-kaumudī
उपे उपपदे यजेर्विच् । उपयट् ॥
Subodhinī
NSP p. 600–601—विजुपे—। ननु छन्दसीति व्यर्थं मन्त्रे इत्यनुवृत्तेरेव भाषायां न भविष्यतीति चेत् । सत्यम् । ब्राह्मणसंग्रहार्थं छन्दोग्रहणम् । मन्त्रव्यतिरिक्तो वेदभागो ब्राह्मणम् । तदुक्तम् । तच्चोदकेषु मन्त्राख्या शेषे ब्राह्मणशब्दः ॥—सुधीवा । सुपीवेति । ‘घुमास्था’—इतीत्यम् ॥—कीलालपा इति । कीलालं जलम् । ‘प्रयः कीलालसम्बन्धं जीवकं भुञ्जां वनम्’ ॥ इत्यमरः ॥ सत्यं पिबसीति । पा पाने विच् ॥—उपपदान्तरेऽपीति । ब्रह्मभूणवृत्रभिन्नेष्वपोत्यर्थः ॥—आततानेति । ‘णङ्घतमो वा’ इति णित्त्वपक्षे वृद्धिः ॥—अररिवानिति । रा दाने । लिटः क्रसुः । ‘वस्वेकाजाद्धसाम्’ इत्यादन्तलादिद् । ततो नञ्समासः । ‘दीर्घादटि—इति वक्ष्यमाणेन नस्य रुत्वम् ‘आतोऽटि नित्यम्’ इति रोः पूर्वस्यातो नित्यमनुनासिकः ॥ प्रसङ्गादधायुशब्दं व्युत्पादयितुमाह—छन्दसीति । ‘सुप आत्मनः—’ इत्यत्र आत्मन इति विशेषणात्परेच्छायां न प्राप्नोतीति वचनम् ॥—क्याच्छन्दसि । ‘सनाशंसभिक्ष उः’ इत्यत उरिति वर्तते क्यन्ताद्धातोरुः स्याच्छन्दसि ॥—अघायुरिति । परस्याधमिच्छतीत्यर्थं क्यच् ‘अश्वाघस्यात्’ इति वक्ष्यमाणेनाकारादेशः । तदन्तादुप्रत्ययः ॥—जवसवाविति । जु इति सौत्रो धातुः । पूङ् प्राणिगर्भविमोचने । पु प्रसवैश्वर्ययोरिति । आभ्यां ‘ऋदोरप्’ इति अपि प्राप्तेऽज्विधीयते । स्वरे मेदः
SK 3418 · A 3.2.74V
आतो मनिन्क्वनिब्वनिपश्च ॥ ३४१८ ॥
āto maninkvanibvanipaśca
Siddhānta-kaumudī
सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप् - SK 2998 ॥
SK 3419 · A 3.2.88V
बहुलं छन्दसि ॥ ३४१९ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट् - SK 3093 । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा - SK 3094 । क्वसुश्च SK 3095 । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि - SK 3117 । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च - SK 3118 । अस्मात्केवलात्प्राग्वत् । भविष्णुः ।
vārttikaछन्दसि परेच्छायां क्यच उपसंख्यानम्
(वार्तिकम्) ॥ क्याच्छन्दसि - SK 3150 । उप्रत्ययः स्यात् । अघायुः ।
vārttikaएरजधिकारे जवसवौ छन्दसि वाच्यौ
(वार्तिकम्) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥
SK 3420 · A 3.3.96V
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ३४२० ॥
mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ
Siddhānta-kaumudī
वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥
Subodhinī
NSP p. 601—मन्त्रे वृषेष—‘स्त्रियां किन्’ इत्यत किञ्चिति वर्तते । वीरा इति पञ्चम्यर्थं प्रथमा तदाह—वृषादिभ्य इति ॥—वृष्टिमिति । वृषु सेचने ॥—इष्टये इति । इषु इच्छायाम् । चतुर्थ्येकवचनम् ॥—मतिरिति । मन ज्ञाने किन् । ‘अनुदात्तोपदेश—’ इत्यनुनासिकलोपः ॥—विचिरिति । विद सत्तायाम् । कित्वान्न लघूपधगुणः ॥—वीतये इति । वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु ॥—राताविति । रा दाने
SK 3421 · A 3.3.129V
छन्दसि गत्यर्थेभ्यः ॥ ३४२१ ॥
chandasi gatyarthebhyaḥ
Siddhānta-kaumudī
ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽग्निः ॥
SK 3422 · A 3.3.130V
अन्येभ्योऽपि दृश्यते ॥ ३४२२ ॥
anyebhyo'pi dṛśyate
Siddhānta-kaumudī
गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥
SK 3423 · A 3.4.6V
छन्दसि लुङ्लङ्लिटः ॥ ३४२३ ॥
chandasi luṅlaṅliṭaḥ
Siddhānta-kaumudī
धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥
Subodhinī
NSP p. 601—छन्दसि लुङ्लङ्लिटः । उदाहरणेषु धातुसंवन्धो मृग्यः ॥—आगमदिति । गम्ल गतौ ‘पुषादि—’ इति लृदित्वादङ् ॥—अकरमिति । ‘कृमृदृशहिभ्यश्छन्दसि’ इति च्लेरङ् । ‘ऋद्दशोऽङि—’ इति गुणः ॥—अवृणीतेति । वृष् वरणे । लङ् । ‘क्र्यादिभ्यः भ्रा’ ‘ई हत्यघोः’ इतीत्यम्
SK 3424 · A 3.4.7V
लिङर्थे लेट् ॥ ३४२४ ॥
liṅarthe leṭ
Siddhānta-kaumudī
विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥
SK 3425 · A 3.1.34V
सिब्बहुलं लेटि ॥ ३४२५ ॥
sibbahulaṃ leṭi
SK 3426 · A 3.4.97V
इतश्च लोपः परस्मैपदेषु ॥ ३४२६ ॥
itaśca lopaḥ parasmaipadeṣu
Siddhānta-kaumudī
लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥
Subodhinī
NSP p. 601—इतश्च—‘लेटोऽडाटौ’ इत्यतः लेट इति ‘वैतोऽन्यत्र’ इत्यतो वेति चानुवर्तते तदाह—लेट इत्यादि
SK 3427 · A 3.4.94V
लेटोऽडाटौ ॥ ३४२७ ॥
leṭo'ḍāṭau
Siddhānta-kaumudī
लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥
vārttikaब्बिहुलं णिद्वक्तव्यः
(वार्तिकम्) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥
Subodhinī
NSP p. 601–602—लेटो—आगमौ स्त इति । तौ च पर्यायेण न तु यौगपद्येन अङ्गिधिसामर्थ्यात् । अन्यथा सवर्णदीर्घे कृते विशेषाभावात् ‘आडुत्तमस्य—’ इति सूत्रान्मण्डूकसुत्या पिच्चेत्यनुवर्तत इत्याशयेनाह—तौ च पिताविति । तत्फलं तु ‘विक्रन्दसी उर्वरासु व्रतैते’ इत्यादिषु गुणः ॥—वृद्धिरिति । ‘अचोऽञ्णिति’ इत्यनेन ॥—तारिषदिति । तृ प्लवनतरणयोः । तिप इकारलोपः । सिप् इट् ॥—जोषिषदिति । जुषी प्रीतिसेवनयोः । अनुदात्तेत् । व्यत्ययेन परस्मैपदम् ॥—आसाविषदिति । आङ्पूर्वात्षु प्रसवैश्वर्ययोरित्यस्माल्लेट् ॥—पतातीति । पत्ल पतने तिप् । आडागमः ॥—करवावेति । कृषो लेटो वस् ‘तनादिकृञ्भ्यः—’ इति उः । गुणः रपरः । ‘लेटोऽडाटौ’ इत्याद् । तस्य पित्त्वेनाङ्कित्वाद्विकरणस्य गुणः । ‘अत उत्सार्यधातुके’ इत्युत्पाद्यावश्व । मदी हर्षे णिच् तदन्ताल्लेट् । आतामि कृते आह—टेरेत्वमिति । ‘टित आत्मनेपदानाम्—’ इत्यनेन ॥—आकारस्येति । प्रथमस्येत्यर्थः । द्वितीयस्य ‘टित आत्मनेपदानाम्—’ इत्यने- नैलमेव निलालात् । न च शब्दान्तरप्रास्याऽनिलत्वं कृताकृतप्रसङ्गिलमात्रेण क्वचिन्निलताश्रयणात् । उत्तरसूत्रेऽन्यत्रेति लिङ्गाच्च । आट एत्वं नेत्युक्तं तस्य फलमाह—यजाति यजात इति । यज देवपूजादौ । लेट आङागमः
SK 3428 · A 3.4.98V
स उत्तमस्य ॥ ३४२८ ॥
sa uttamasya
Siddhānta-kaumudī
लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥
SK 3429 · A 3.4.95V
आत ऐ ॥ ३४२९ ॥
āta ai
Siddhānta-kaumudī
लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥
SK 3430 · A 3.4.96V
वैतोऽन्यत्र ॥ ३४३० ॥
vaito'nyatra
Siddhānta-kaumudī
लेट एकारस्य ऐस्याद्वा आत ऐ - SK 3429 इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥
Subodhinī
NSP p. 602—वैतो—अन्यत्र किमपेक्षयेत्याकाङ्क्षायां पूर्वसूत्रविषयादिति लभ्यते सन्निधानात् । तदाह—आत इत्यादि ॥—ईशै इति । ईश ऐश्वर्यं । उत्तमैकवचनमिद् । ‘इतश्च—’ इति लोपो नास्ति परस्मैपदेषु इत्युक्तेः । टेरेत्वे तस्य ऐः ॥—गृह्यान्ता इति । ग्रहेः कर्मणि लेट् क्षिः । तस्याङागमः । यक् ‘प्रहिज्या—’ इति संप्रसारणं टेरेत्वं पूर्ववदैलम् ॥—पणवन्ध इति । यदि मे भवानिदं कुर्यात्तर्हीदमहं दास्यामीति समयकरणं पणवन्धः । आशङ्का संभावना ॥—अहमेवेति । त्रिपुरविजये देवैः प्रार्थितस्य रुद्रस्येदं वचनम् । पशवः संसारिणः ॥—नेदिति । इच्छब्द आशङ्कां द्योतयति । जिह्वा जरणेन नरकपातः स माभूदित्यर्थः ॥—पतामेति । स उत्तमस्येति सलोपः
SK 3431 · A 3.4.8V
उपसंवादाशङ्कयोश्च ॥ ३४३१ ॥
upasaṃvādāśaṅkayośca
Siddhānta-kaumudī
पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ - SK 2557 ॥
SK 3432 · A 3.1.84V
छन्दसि शायजपि ॥ ३४३२ ॥
chandasi śāyajapi
Siddhānta-kaumudī
vārttikaहृग्रहोर्भश्छन्दसि इति हस्य भः
(वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां - SK 415 इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥
Subodhinī
NSP p. 602—छन्दसि शाय—छन्दसि श्रः शायजप्यादेशः स्याद्धौ परे ॥—गृभायेति । ग्रह उपादाने । लोटः सेर्हिः ‘त्रयादिभ्यः श्रा’ ‘प्रहिज्या—’ इति संप्रसारणम् ॥—वधानेति । वन्ध वन्धने । ‘अतो हेः’ इति लुक् । प्रसङ्गात् ‘हृग्रहोर्भेदलन्दसि’ इत्यस्योदाहरणमाह—गृभ्णामि त इति ॥—जभारेति । हृन् हरणे । लिटो णलि वृद्धौ हृस्य भः । गृह्णामि जहारेत्यर्थः ॥—भेदतीति । भिदिर् विदारणे रौधादिकः । श्रमि प्राप्ते शप् ॥—घ्रियत इति । मृद् प्राणलागे । ‘तुदादिभ्यः—’ इति शे कृते ‘रिद् शयग्लिङ्कु’ इति रिक्तादेशः इयङ् ॥—नेपत्विति । नयलित्यर्थः ॥—द्वौ विकरणाविति । तत्र शप् न्याय्यः सिप्तु वाहुलकात् । एतेन ‘सैमामविद्धि—’ इत्यादि व्याख्यातम् । अव रक्षणे । अस्माल्लोटि शपि प्राप्ते वाहुलकात्सिप् । ‘हुन्नल्भ्यो हेर्धिः’ षत्वं ष्टुलम् जल्लम् ॥—तरुषेमेति । तरुष मसिति जाते यामुद्र ‘लिङः सलोपोऽनन्त्यस्य’ । ‘नित्यं कितः’ । ‘अतो येयः’ । ‘लोपो व्योर्वलि’ । ‘आहुणः । अत्रोप्रत्ययान्तस्य सिपं प्रलङ्गलात् ‘सार्वधातुक—’ इति गुणः प्राप्तः । सिवन्तस्य शपि लघूपधगुणश्च प्राप्तो वाहुलकान्न भवति ॥—सुप्तिङिति । शास्त्रकृतपाणिनिराचार्यं एषां सुप्रभृतीनां व्यत्ययमिच्छति । सोऽपि तथाविधो व्यत्ययो वाहुलकेन सिध्यति । वहुलस्य भावो वाहुलकम् । मनोज्ञादिलाद्वन् । तत्पुनर्वहुलशब्दस्य प्रवृत्तिनिमित्तं बहुर्थादानत्वं, चशब्दो हेतौ । यस्मादेवमुक्तप्रकारो व्यत्ययो वहुलप्रहणेनैव सिध्यति तस्माद्वहुलप्रहणं कृतमित्यर्थः ॥ वियूया इति । यु मिश्रणे विपूर्वः । आशिषि लिङ् ॥—आधास्यमानेनेति । आङ्पूर्वाद्दधातेः ‘लटः सद्वा’ इत्यनेन शानजादेशः । ‘स्यतासी—’ इति स्यः । ‘आने मुक्’ इति मुक् ॥—मिन्न वयमिति । दीर्घस्य ह्रस्वव्यत्ययः ॥—स्वरव्यत्ययस्त्विति । गवामिव श्रियसे इत्यत्र ‘तुमर्थं—’ इत्यनेन क्सेनि कृते ‘ञ्जित्यादिः—’ इत्याद्युदात्ते प्राप्ते व्यत्ययेन मध्योदात्तता
SK 3433 · A 3.1.85V
व्यत्ययो बहुलम् ॥ ३४३३ ॥
vyatyayo bahulam
Siddhānta-kaumudī
विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ 1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ् - SK 3434 इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥
Subodhinī
alignment inferredNSP p. 602–603—कृत्तद्धितानामिति । ‘तेन दीव्यति—’ इत्यादौ विधीयमानानां ठगादीनां देवनादिकर्तृत्वादेवमुक्तम् । न त्विह कारकवाचित्वेऽप्याग्रहः कृत्तद्धितमात्रे तात्पर्यात् । तथा च किमो विहितोऽतिर्यच्छब्दादपि भवति । ‘त्वं वेत्थ यति ते जातवेदः’ । ‘विश्वेदेवासो मरुतोयतिष्ठन्’ ॥—अन्नादायेति । अन्नमत्तीत्यनाद्वन्नस्तै अन्ने कर्मसुमपकेऽत्रे कर्मसुप्रप्रिय प्राप्ते इव ॥ अवग्रह इति । अन्न आदा येति, अचि तु अन्नअदायेति भावः ॥—वोचेमेति । वचेराशीलिङ्गे मस् अङ् । वच उम् यासुद्र
SK 3434 · A 3.1.86V
लिङ्याशिष्यङ् ॥ ३४३४ ॥
liṅyāśiṣyaṅ
Siddhānta-kaumudī
आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम् - SK 2454 । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ।
(वार्तिकम्) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि - SK 2406 इति गुणः स्यात् ॥
SK 3435 · A 3.4.117आर्धधातुकसंज्ञा
छन्दस्युभयथा ॥ ३४३५ ॥
chandasyubhayathā
Siddhānta-kaumudī
धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - SK 2387 इति यण् । आदृगमहनजनः किकिनौ लिट् च - SK 3151 । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - SK 2383 इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - SK 3578 इत्युत्वम् । ततुरिः । जगुरिः ॥
Subodhinī
NSP p. 603—छन्दस्युभयथेति । लिङः सार्वधातुकसंज्ञाप्यस्ति तेन यासुद्र इत्यादेशः । बलिलोपः ॥—आट्ट— परार्थं प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वलयं गमयन्ति गौर्वाहीक इतिवदित्याशयेनाह—लिङ्गदिति । किकिनौ भवतः लिद्र प्रत्ययस्य भवतीत्ययमर्थस्तु न भवति । तथा हि सति लिद्र किकिन इत्येव ब्रूयात् ॥—वभ्रिरिति । भृथ् अस्मात् किः लिङ्गद्भावाद्विलम् । किकिनोस्थनि तिवादयस्तु न । लिङ्गदित्यतिदेशेन स्वरूपावाधेनैव कार्यातिदेशात् । ‘न लोकाव्यय—’ इति षष्ठीनिषेधे वज्रशब्दाद्वितीया ॥—जग्मिरिति । ‘गमहन—’इत्युपधालोपः ॥—जग्रिरिति । ‘हो हन्तेः—’ इति कुलम् ॥—जग्रिरिति । ध्रुत्वम् । जञोर्ज्ञः । ननु लिङ्गद्भावे सति ‘असंयोगाल्लिद् कित्’ इत्येव सिद्धे कित्वकरणमनर्थकमित्याशयेनाह—लिङ्गद्भावादिति । ‘असंयोगाल्लिद् कित्’ इति कित्वं सिद्धमिति भावः । आदिति मुखसुखार्थो दकारो न तु तकारः तेन तात्परत्वाभावादीर्घस्यापि ऋकारस्य ग्रहणं तदाह—ततुरिर्जगुरिरिति । तॄ ल्लवनतरणयोः । गृ निगरणे । आभ्यां किः । द्वित्वात्परत्वात् ‘वहुलं छन्दसि’ इत्युत्त्वे प्राप्ते ‘द्विर्वचने—’ इति निषेधादुत्वाभावे द्वित्वम् । उरदलम् उत्तरस्योलम्
SK 3436 · A 3.4.9V
तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ ३४३६ ॥
tumarthe sesenase'senksekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ
Siddhānta-kaumudī
से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥
Subodhinī
NSP p. 603—तुमर्थे—। तुमुनोऽर्थस्तुमर्थो भावः । ननु ‘कर्तरि कृत्’ इति वचनात्कर्तरि तुमुनो विधानात्कथं भावोऽर्थ इति चेच्छृणु । ‘अव्ययकृतो भावे’ इति वचनात्तुमुनो भावे विधानात् । तुमर्थे पञ्चदश प्रत्यया भवन्ति ॥—वक्षे इति । वचः से कुत्वं पलम् । कपसंयोगे क्षः ॥—एषे इति । इणो गुणः । नकारो ‘ठिनत्यादिर्नित्यम्’ इत्याद्युदात्तार्थः ॥—प्रेषे इति । इणः से कित्वादगुणे आहुणः ॥—श्रियसे इति । इयङ् नित्त्वादाद्युदात्तः । इह मन्त्रे मध्योदात्तः पठ्यते । तत्र वाहुलकात्प्रत्ययस्वरो वोध्यः ॥—आहुवध्यै इति । जुहोतेरुवङ् ॥—मादयध्यै इति । मदी हर्षे ण्यन्ताच्छध्यैप्रत्ययः । तस्य भाववाचिसार्वधातुकत्वात्सार्वधातुके यकि प्राप्ते व्यत्ययेन शप् गुणायादेशौ ॥—पिवध्यै इति । अत्रापि यक्प्रसङ्गे व्यत्ययेन शप् । ‘पाघ्रा—’ इति पिवादेः ॥—दातवाउ इति । ददातेस्त्वै आयादेशे ‘लोपः शाकल्यस्य’ इति यलोपः ॥ —सूतवे इति । छित्वान्न गुणः ॥—कर्तव इति । कृञो गुणः । कर्तुमित्यर्थः
SK 3437 · A 3.4.10V
प्रयै रोहिष्यै अव्यथिष्यै ॥ ३४३७ ॥
prayai rohiṣyai avyathiṣyai
Siddhānta-kaumudī
एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ॥
Subodhinī
NSP p. 603—प्रयै—। प्रपूर्वाद्यातेः कैप्रत्ययः । रुहेरिध्यै । नञ्पूर्वाद्यर्थेश्च ॥—हशे—। योगविभागश्चिन्त्यप्रयोजनः । दृशेः ख्यातेश्च के प्रत्ययः । कित्वादृशेनं गुणः । ख्यातेरालोपश्च ॥—विभाजमिति । विपूर्वाद्भजतेर्णमुल्ल । णित्वात् ‘अत उपधायाः’ इति वृद्धिः ॥—अपलुपन्निति । छुप्ल छेदने कित्वाहुणाभावः
SK 3438 · A 3.4.11V
दृशे विख्ये च ॥ ३४३८ ॥
dṛśe vikhye ca
Siddhānta-kaumudī
द्रष्टुं विख्यातुमित्यर्थः ॥
Bālamanoramā
दृशे विख्ये च - अथाशीर्लिङि विशेषमाह — लिङाशिषि ।लि॑ङिति लुप्तषष्ठीकं पदम् । तिङ्शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते । तदाह — आशिषि लिङस्तिङिति । सार्वधातुकसंज्ञाऽपवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति ।
SK 3439 · A 3.4.12V
शकि णमुल्कमुलौ ॥ ३४३९ ॥
śaki ṇamulkamulau
Siddhānta-kaumudī
शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥
SK 3440 · A 3.4.13V
ईश्वरे तोसुन्कसुनौ ॥ ३४४० ॥
īśvare tosunkasunau
Siddhānta-kaumudī
ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥
Subodhinī
NSP p. 603—ईश्वरे—। ईश्वरशब्दे उपपदे धातोस्तोष्ठन्कसुनौ स्तश्छन्दसि ॥—विचारितोरिति । चर गताविद्र ॥—विलिख इति । लिख विलेखने कित्वान्न गुणः । ‘क्लातोऽसुन्कसुनः’ इत्यव्ययत्वात् ‘अव्ययादाप्सुपः’ इति विभक्तेर्लुक् ‘न लुमता—’ इति निषेधाद् ‘अत्वसन्तस्य’ इति दीर्घो न
SK 3441 · A 3.4.14V
कृत्यार्थे तवैकेन्केन्यत्वनः ॥ ३४४१ ॥
kṛtyārthe tavaikenkenyatvanaḥ
Siddhānta-kaumudī
नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥
Subodhinī
NSP p. 603–604—कृत्यार्थे—। कृत्यानामर्थो भावकर्मणी तयोरेवेति कृत्यानां भावकर्मणोर्विधानात् तत्र एते प्रत्ययाः स्युः । यद्यपि कृत्यानामर्थो ‘भव्यगेय—’ इत्यादौ कर्तापि वह्यं स्नानीयमित्यादौ करणादिरपि, तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानं किं तर्हि स्वरूपेण । कृत्यतया विधानं तु भाव- कर्मणोरेवेति भावः ॥—न म्लेच्छितवै इति । न म्लेच्छितव्यमित्यर्थः ॥—अवगाहे इति । गाहू विलोडने ॥—दिष्टक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । अतो लोपः ॥—कर्त्वमिति । कृचः लन् । कृत्यमित्यर्थः । यद्यपि ‘तुमर्थे सेसेनन्—इत्यनेन तुमर्थे तवै विहितस्तथापि भावभिन्नेऽपि कर्मकारके तवै यथा स्यादित्येवमर्थम्
SK 3442 · A 3.4.15V
अवचक्षे च ॥ ३४४२ ॥
avacakṣe ca
Siddhānta-kaumudī
रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥
Subodhinī
NSP p. 604—अवचक्षे—अवपूर्वाच्चक्षिड एश् प्रत्ययो निपात्यते । शित्त्वात्सार्वधातुकत्वं तेन ख्याचादेशो न
SK 3443 · A 3.4.16V
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ ३४४३ ॥
bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyastosun
Siddhānta-kaumudī
आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥
Subodhinī
NSP p. 604—भावलक्षणे—कृत्यार्थे इति निवृत्तम् । तुमर्थे इति वर्तते प्रकृत्यर्थविशेषणं भावलक्षणप्रहणम् । भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्यादिभ्यो धातुभ्यस्तुमर्थे तोष्णुन् स्याच्छन्दसि । संस्थानादीनामवधित्वेन लक्षणं भावः ॥—आ समाप्तेरिति । संपूर्वो हि तिष्ठतिः समाप्तौ रूढः । संतिष्ठते पिण्डपितृयज्ञ इत्यादौ तथा दर्शनात् ॥—आतमितोरिति । तस्य ग्लानौ
SK 3444 · A 3.4.17V
सृपितृदोः कसुन् ॥ ३४४४ ॥
sṛpitṛdoḥ kasun
Siddhānta-kaumudī
भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥
Subodhinī
NSP p. 604—सृपितृदोः—सृष्ट्व गतौ । उत्तृदि हिंसानादरयोः । भावलक्षणेऽर्थे वर्तमानयोः सृपिदोस्तुमर्थे कस्तुन् ॥—विसृप इति । गमनादित्यर्थः ॥ इति तृतीयोऽध्यायः ॥ रात्रेश्चाजसौ । न जसिः अजसिस्तस्मिन् । इकार उच्चारणार्थः । ‘आहौ प्रभूतादिभ्यः’ इतिवत् ॥—छन्दसीति । ननु ‘तिमिरपटैरवगुण्डिता रात्र्यः’ इति प्रयोगो न स्यात् छन्दसीत्युच्यते । न चेदं छन्दः अजसाविति निषेधाच्च । किं च वेदेऽपि रात्र्य इति प्रयोगो न स्यात् इत्याशङ्क्याह—लोके त्विति । तुशब्दोऽनुक्तसमुच्चयार्थः । लोके जसि वेदे चेत्यर्थः
SK 3445 · A 4.1.31V
रात्रेश्चाजसौ ॥ ३४४५ ॥
rātreścājasau
Siddhānta-kaumudī
रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥
Subodhinī
alignment inferredNSP p. 604—कृदिकारादिति । राशदिभ्यां त्रिरिति व्युत्पत्तिपक्षे कृदिकारान्तः । अव्युत्पत्तिपक्षे तु ‘सर्वतोऽक्तिन्नर्थात्’ इति डीष् वोध्यः ॥—नित्यम्—‘वहादिभ्यश्च’ इति वर्तते ‘अन्यतो डीष्’ इत्यतो डीषिति च तदाह—वहादिभ्य इति । नन्वारम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यप्रहणं व्यर्थमित्याशङ्क्याह—नित्यप्रहणमुत्तरार्थमिति ॥—भुवः—विभ्वीति । ‘विप्रसंभ्यो चुसंज्ञायाम्’ इत्यतो डुप्रत्ययान्तात् डीष् । ननु स्वयंभूरत्रापि स्यादित्याशङ्क्याह—डुप्रत्ययान्तमिति । ननु डुप्रत्ययान्तानुकरणे प्रमाणं किमत आह—उत इत्यनुवृत्तेरिति । ‘वोतो गुणवचनात्’ इति सूत्रात् । ननु तर्हि डुप्रत्ययान्तस्य ‘घेर्डिति’ इति गुणे कृते भोः इति निर्देशः प्राप्नोति तदाह—उवडादेशस्तु सौत्र इति ॥—मुद्गला—‘इन्द्रवरुण—’ इति सूत्रस्थं वार्तिकमिदम् ॥—लित्स्वर इति । लितीत्यानुगाकारस्योदात्तलम्
SK 3446 · A 4.1.46V
नित्यं छन्दसि ॥ ३४४६ ॥
nityaṃ chandasi
Siddhānta-kaumudī
बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥
SK 3447 · A 4.1.47V
भुवश्च ॥ ३४४७ ॥
bhuvaśca
Siddhānta-kaumudī
ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य SK 3160 इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ।
vārttikaमुद्गलाच्छन्दसि लिच्च
(वार्तिकम्) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥
SK 3448 · A 4.1.59V
दीर्घजिह्वी च च्छन्दसि ॥ ३४४८ ॥
dīrghajihvī ca cchandasi
Siddhānta-kaumudī
संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥
Subodhinī
NSP p. 604—दीर्घजिह्वी—दीर्घजिह्वीति निपात्यते छन्दसि ॥—अप्राप्तो डीषिति । ‘स्वाङ्गाच्चोपसर्जनात्’ इति न प्राप्नोति तत्र ह्यसंयोगोपधादिति प्रतिषेधात् ॥—कट्टु—‘ऊडुतः’ इत्यत ऊडिति वर्तते कट्टुशब्दात्कमण्डलशब्दाच्च स्त्रियाम् इत्याच्छन्दसि ॥—गुग्गुलुमभु—। एपां व्यत्ययेन छन्दसि स्त्रीलम् । पतयालुशब्दः ‘सृहिगृहि—’ इत्यादिना आलुजन्तः ॥—अव्यया—व्याख्यातमपि त्यवनुवृत्तिप्रदर्शनार्थं स्मारितम्
SK 3449 · A 4.1.71V
कद्रुकमण्डल्वोश्छन्दसि ॥ ३४४९ ॥
kadrukamaṇḍalvośchandasi
Siddhānta-kaumudī
उङ् स्यात् । कद्रूश्च वै कमण्डलूः ।
vārttikaगुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्
(वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् SK 1324 ।
vārttikaआविष्ट्यस्योपसंख्यानं छन्दसि
(वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥
Subodhinī
alignment inferredNSP p. 604—आविष्ट्यस्येति । ‘अव्ययात्त्यप्’ इत्यत्र ‘अमेहक्कतसित्रेभ्यः’ इति नियमादप्राप्तः शौषिकस्त्यव् विधीयते ।—आविष्ट्य इति । आविर्भूतमाविष्क्रम् । ‘हस्तात्तादौ—’ इति पत्वं तकारस्य ष्टुलम्
SK 3450 · A 4.3.19V
छन्दसि ठञ् ॥ ३४५० ॥
chandasi ṭhañ
Siddhānta-kaumudī
वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥
Subodhinī
alignment inferredNSP p. 604–605—ठकोऽपवाद इति । ‘वर्पाभ्यष्टक्’ इति प्राप्तस्य । ननु ठक्रुष्णोः को विशेषस्तत्राह—स्वरे भेद इति । ठकि कृते ‘जिन्त्यादिनित्यम्’ इत्याद्युदात्तत्वं, ठकि तु सति ‘कितः’ इत्यनेनान्तोदात्तत्वं स्यादिति भावः ॥—वार्षिकमिति । अयेकः अत्र इत्यर्थः इति । ‘सर्वत्राण्या च वक्त्रोपक्षाहित्येतदर्थः । तत्र ह्यस्यैवानुवृत्तिर्यथा स्यात् वसन्तस्य माभूत् ॥—शौनक—। ‘काश्यपकौशिकाभ्यामृषिभ्यां णिनिः’ इति वर्तते तदाह— णिनिरिति ॥—प्रोक्ते इति । ‘तेन प्रोक्तम्’ इत्येतस्मिन्नर्थे ॥—शौनकीयेति । वृद्धाच्छः ॥—द्याचः—। ‘मयङ्कैतयोर्भाषायाम्—’ इत्युक्तेर्वेदेऽप्राप्तो विधीयते ॥—नोत्वत्—। उकारवतः प्रातिपदिकाद्वर्ध्वविल्वशब्दाभ्यां च मयण्न स्यात् । ‘ब्रचश्छन्दसि’ इति प्राप्तः प्रतिषिध्यते ॥—मौञ्जमिति । मुज्जशब्दादौत्सर्गिकोऽण् ॥—वार्ध्वान्ति । वर्ध्वशब्दादौत्सर्गिकोऽण् । ‘टिङ्काणञ्—’ इति डीप्
SK 3451 · A 4.3.20V
वसन्ताच्च ॥ ३४५१ ॥
vasantācca
Siddhānta-kaumudī
ठञ् स्यात् छन्दसि । वासन्तिकम् ॥
SK 3452 · A 4.3.21V
हेमन्ताच्च ॥ ३४५२ ॥
hemantācca
Siddhānta-kaumudī
छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि SK 1486 णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥
SK 3453 · A 4.3.150V
द्व्यचश्छन्दसि ॥ ३४५३ ॥
dvyacaśchandasi
Siddhānta-kaumudī
विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥
SK 3454 · A 4.3.151V
नोत्वद्वर्ध्रबिल्वात् ॥ ३४५४ ॥
notvadvardhrabilvāt
Siddhānta-kaumudī
उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः - SK 1657 ॥
SK 3455 · A 4.4.106V
ढश्छन्दसि ॥ ३४५५ ॥
ḍhaśchandasi
Subodhinī
NSP p. 605—ढङ्छन्दसि । सप्तम्यन्तात्सभाशब्दात् ढः साध्वर्थे ॥—अणादीनां चेति । ‘तत्र भवः’ इति प्राप्तानाम्
SK 3456 · A 4.4.110V
भवे छन्दसि ॥ ३४५६ ॥
bhave chandasi
Siddhānta-kaumudī
सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥
SK 3457 · A 4.4.111V
पाथोनदीभ्यां ड्यण् ॥ ३४५७ ॥
pāthonadībhyāṃ ḍyaṇ
Siddhānta-kaumudī
तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥
Subodhinī
NSP p. 605—पाथोनदीभ्याम्—। सप्तम्यन्ताभ्यामाभ्यां भावार्थे ज्ज्ञानं स्यात् ॥—पाथसीति । पाथो जलम् । ‘कवन्धमुदकं पाथः’ इत्यमरात् । ‘पाथोऽन्तरिक्षं’ इति वृत्तिः ॥—वैशान्तीभ्य इति । विशेर्द्वाच् । वैशान्तः पल्वलम् । तत्र भवा आपः वैशान्त्यः
SK 3458 · A 4.4.112V
वेशन्तहिमवद्भ्यामण् ॥ ३४५८ ॥
veśantahimavadbhyāmaṇ
Siddhānta-kaumudī
भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥
SK 3459 · A 4.4.113V
स्रोतसो विभाषा ड्यड्ड्यौ ॥ ३४५९ ॥
srotaso vibhāṣā ḍyaḍḍyau
Siddhānta-kaumudī
पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥
SK 3460 · A 4.4.114V
सगर्भसयूथसनुताद्यन् ॥ ३४६० ॥
sagarbhasayūthasanutādyan
Siddhānta-kaumudī
अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः -SK 3090 । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि SK 1012 इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥
Subodhinī
NSP p. 605—सगर्भसयूथस—। अर्तिगृभ्यां भन् । गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्निति यूथम् । ‘तिथपृष्ठयूथगूथप्रोथाः’ इति थक्प्रत्ययान्तो निपातितः । दीर्घोऽपि निपातनादेव ॥—कर्मधारया इति । समानश्वासौ गर्भश्च तत्र भवः सगर्भ्य इति विग्रहः ॥—यतोऽपवाद इति । ‘भवे छन्दसि’ इति प्राप्तस्य
SK 3461 · A 4.4.115V
तुग्राद्घन् ॥ ३४६१ ॥
tugrādghan
Siddhānta-kaumudī
भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥
SK 3462 · A 4.4.116V
अग्राद्यत् ॥ ३४६२ ॥
agrādyat
Siddhānta-kaumudī
अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
Subodhinī
NSP p. 605—अग्राद्यत् । ‘भवे छन्दसि’ इत्येव सिद्धे घादिभिर्वाधा माभूदिति यद्विधीयते
SK 3463 · A 4.4.117V
घच्छौ च ॥ ३४६३ ॥
ghacchau ca
Siddhānta-kaumudī
चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
SK 3464 · A 4.4.118V
समुद्राभ्राद्घः ॥ ३४६४ ॥
samudrābhrādghaḥ
Siddhānta-kaumudī
समुद्रिया अप्सुरसो मनीषिणम् (स॒मु॒द्रिया॑ अप्सु॒रसो॑ मनी॒षिण॑म्) । नानदतो अभ्रियस्येव (नान॑दतो अ॒भ्रिय॑स्येव॒) । घोषाः॑ ॥
Subodhinī
NSP p. 605—समुद्रा—। समुन्दतीति समुद्रः । ‘स्फायितश्चि—’ इति रक् ! अपो विभर्ति इत्यभ्रम् । मूलविभुजादित्वात्कः । अभ्रसमुद्रादिति वक्तव्ये समुद्राभ्रादित्युक्तिः पूर्वनिपातस्यानित्यलज्ज्ञापनार्था
SK 3465 · A 4.4.119V
बर्हिषि दत्तम् ॥ ३४६५ ॥
barhiṣi dattam
Siddhānta-kaumudī
प्राग्घिताद्यत् SK 1626 इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥
Subodhinī
NSP p. 605—वर्हिषि—। तत्र भव इति निवृत्तम् । वर्हिःशब्दाद्दत्तमित्यर्थे यत्प्रत्ययो भवति ॥— वर्हिष्येति । ‘वृंहतेर्नलोपश्चे’तीस्प्रत्ययान्तो वर्हिस्तस्माद्यत्
SK 3466 · A 4.4.120V
दूतस्य भागकर्मणी ॥ ३४६६ ॥
dūtasya bhāgakarmaṇī
Subodhinī
NSP p. 605—दूतस्य—। दूतशब्दात्पृष्ठीसमर्थाद्भागे कर्मणि चाभिधेये यत्प्रत्ययः स्यात् । भागे ‘तस्येदम्’ इत्यणि प्राप्ते वचनम् । कर्मणि तु ‘दूतवणिग्भ्यां च’ इत्यौपसंख्यानिके ये दूत्यमित्यादि । दूतस्य भागो दूत्यः, कर्म दूत्यम्
SK 3467 · A 4.4.121V
रक्षोयातूनां हननी ॥ ३४६७ ॥
rakṣoyātūnāṃ hananī
Siddhānta-kaumudī
या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥
Subodhinī
NSP p. 605–606—रक्षोयातूनाम्—। पृष्ठीवहुवचनान्ताभ्यां रक्षसूयातुशब्दाभ्यां हननीत्यस्मिन्नर्थे यत्स्यात् । रक्षेरसुनि रक्षः । ‘कमितनिमनि—’ इत्यादिना यातेसुन् । यातुशब्दो रक्षःशब्दपर्यायः । न च ‘विरूपाणामपि समानार्थानाम्’ इत्येकशेषः स्यादिति वाच्यम् । वह्न्यर्थाभिधायिस्वरूपवचनेन सूत्रस्य भिन्नार्थलात् ॥—रक्षस्येति । हन्यतेऽनया सा हननी रक्षसाम् । एवं यातव्या । वहुवचनं स्तुतिवैशिष्ट्यज्ञापनाय । बहूनां रक्षसां हनने हि सुतिः प्रतीयते
SK 3468 · A 4.4.122V
रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ ३४६८ ॥
revatījagatīhaviṣyābhyaḥ praśasye
Siddhānta-kaumudī
प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥
Subodhinī
NSP p. 606—रेवतीजगती—। प्रशंसनं प्रशस्यम् । प्रपूर्वाच्छंसु स्तुताविलस्माद्भावे क्यप् तदाह—प्रशंसने इति । रयिरस्यास्तीति रेवती । रयिशब्दान्मतुप् ‘छन्दसीरः’ इति वलम्, ‘रयेनेतौ वहुलम्’ इति संप्रसारणम् । उगिलान्डीप् । नक्षत्रे गौरादिलान्डीप् । जगच्छब्दात् ‘वर्तमाने—’ इत्यनेन शतृवद्भावात् ‘उगितश्च’ इति कीप् । हविषे हिता हविष्या । उगवादिलावत् तासां प्रशंसनं हविष्यं, ‘यस्ये’ति लोपे कृते ‘हलो यमां यमि—’ इति यलोपः
SK 3469 · A 4.4.123V
असुरस्य स्वम् ॥ ३४६९ ॥
asurasya svam
Siddhānta-kaumudī
असुर्यं देवोभिर्धायि विश्वम् ॥
Subodhinī
NSP p. 606—असुरस्य स्वम् । असुरशब्दात्पष्टीसमर्थात्समित्येतस्मिन्नर्थं यत्स्यात् ॥—असुर्यमिति । न सुरोऽसुरः सुरप्रतिपक्षी । अथ वा असेरुरच् । अस्यति अस्यते वा असुरः । तस्य स्वमसुर्यम्
SK 3470 · A 4.4.124V
मायायामण् ॥ ३४७० ॥
māyāyāmaṇ
Subodhinī
NSP p. 606—मायायामण् । मीयतेऽनयेति माया असदर्थप्रकाशनशक्तिः । माडः औणादिको यः । तस्यां वाच्यायामसुरशब्दादण् स्यात्पूर्वसूत्रापवादः ॥—आसुरीति । ‘टिड्डाणञ्—’ इति डीप्
SK 3471 · A 4.4.125V
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ ३४७१ ॥
tadvānāsāmupadhāno mantra itīṣṭakāsu luk ca matoḥ
Siddhānta-kaumudī
वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥
Subodhinī
NSP p. 606—तद्वानासा—। मलन्तात्प्रथमासमर्थादासामिति पक्ष्यर्थं यत्स्यात् तत्प्रथमासमर्थं मुपधानो मन्त्रश्चेत्स भवति, यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । मतोश्च लुक् ॥—वर्चस्वानिति । वर्चःशब्दो यस्मिन्मन्त्रेऽस्ति स वर्चस्वान् । कुम्भेष्टकोपधानमन्त्रः ‘भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे’ इत्यादिकः । उपधीयतेऽनेत्युपधानम् । चयनं रचनमित्यर्थः ॥—ऋतव्या इति । ऋतुशब्दो यस्मिन्मन्त्रेऽस्ति स ऋतुमान् स च मधुश्च माधवश्चेत्यादिकः । ऋतुमानुपधानो मन्त्र आसामिष्टकानामृतव्याः । तद्वानिति किम् । मन्त्रादेव समुदायान्माभूदिति काशिका । अत्र हरदत्तः । ननु तद्वानित्यस्मिन्नसति ‘समर्थानां प्रथमाद्वा’ इति वचनादासामिति प्रथमानिर्दिष्टलात्पक्ष्यन्तादिष्टकाभिधायिनः उपधानमन्त्रे प्रत्ययः स्यादिति वाक्यार्थः स्यात् । तथा च समुदायान् प्राप्नोतीति चेत्सत्यम् । आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने ततश्चोपधानो मन्त्र आसामिष्टकासु लुक् च मतोरिति योगः करिष्यते । तथा च तद्वानित्यस्याभावे भूतं च स्थ भव्यं च स्थेत्ययमुपधानो मन्त्र आसामिष्टकानामिति वाक्यं स्यात् । तथा चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोतीति भावः । उपधान इति किम् । वर्चस्वदभिमन्त्रणमासामित्यत्र माभूत् । ‘शिवेन मा चक्षुषा’ इत्यनुवाकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । मन्त्र इति किम् । अङ्गुलिमानुपधानो हस्त आसामित्यत्र माभूत् । इष्टकास्ति किम् । वर्चस्वानुपधान आसां शर्कराणामित्यत्र माभूत् । इतिकरणं नियमार्थम् । अनेकपदसंभवे केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते न सर्वेण । मतुव्यग्रहणमुत्तरार्थम् । अश्विमानित्यत्र मतुप एव लुक् यथा स्यात् इनेर्माभूत् । इह तु मलन्तात्प्रत्ययविधानात्तस्यैव लुक् भविष्यति
SK 3472 · A 4.4.126V
अश्विमानण् ॥ ३४७२ ॥
aśvimānaṇ
Subodhinī
NSP p. 606—अश्विमान् । अश्विशब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान्मन्त्रः स च ध्रुवक्षितिरित्यादिकः । प्रथमान्तादश्विमच्छब्दादासामिति पक्ष्यर्थं अण् स्यात् यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति । यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति मतोश्च लुक् ॥—आश्विनीरुपदधातीति । अश्वशब्दात् । ‘अत इनिठनौ’ इत्यस्त्यर्थं इनिः । तदन्तान्मतुप् अश्विमान्स उपधानो मन्त्र आसामिष्टकानामिति विगृह्णाणि विहिते मतोश्च लुकि कृते ‘इनण्यनपत्ये’ इति प्रकृतिभावः
SK 3473 · A 4.4.127V
वयस्यासु मूर्ध्नो मतुप् ॥ ३४७३ ॥
vayasyāsu mūrdhno matup
Siddhānta-kaumudī
तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥
Subodhinī
NSP p. 606—वयस्यासु—। वयस्वानुपधानो मन्त्र आसामिष्टकानां ता वयस्यास्तास्वभिधेयासु प्रथमासमर्थान्मतुवन्तमूर्धशब्दादासामिति पक्ष्यर्थं मतुप्स्यात् । यत्प्रथमानिर्दिष्टमुपधानो मन्त्रश्चेत्स भवति, यदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । यस्मिन्मन्त्रे मूर्धशब्दो वयःशब्दश्च विद्यते स मूर्धवान् वयस्वान् यथा मूर्धा वयः प्रजापतिशब्द इति तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि पूर्वेण यति प्राप्ते मतुव्विधीयेतेत्याशयेनाह—यस्मिन्मन्त्रे इति ॥—मूर्धन्वतीरिति । ‘अनो नुद’ इति नुडागमः । मूर्धवत इति वक्तव्ये भाविनं मतुव्लुकं चेतसि कृत्वा मूर्ध इत्युक्तम्
SK 3474 · A 4.4.128V
मत्वर्थे मासतन्वोः ॥ ३४७४ ॥
matvarthe māsatanvoḥ
Siddhānta-kaumudī
नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥
Subodhinī
NSP p. 606–607—मत्वर्थे—। यस्मिन्नर्थे मतुव्विहितस्तस्मिन्नर्थे प्रथमान्ताद्यत्स्यात् मासतन्वोरभिधेययोः । ननु प्रथमासमर्थमिति कस्मादागतमिति चेन्मलर्थग्रहणादित्यवेहि । ‘कृषिचमितनिधनिसर्जिस्वर्जिभ्य ऊः’ इति ऊकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः । न तु ‘भृमृशीडृत्त्वरित्सरित्तनिधनिमिमस्जिभ्य ऊः’ इत्युकारान्तः । ‘द्वन्द्वे धि’ इति पूर्वनिपातप्रसङ्गात् ॥—ओजस्या इति । ओजो यस्या यस्यां वा अस्तीत्योजस्या ॥—मध्योः मध्यशब्दान्मलर्थे ऊः स्यात्त्याक् । ॥—मध्ये इति । ओजुणः अन्तो यि—’ इति अवादेशः
Footnotes (NSP 1915 ed.)
NSP p. 607 १ यथेति—वृत्तिकारस्तु ‘यल्, ख च’ इति सूत्रं व्यभजदिति मनोरमा । वृत्तिकारस्त्वित्यत्रारुचिवीजंतु ‘यथासंख्य’ सूत्रस्थ-भाष्यविरोध इति शब्दरत्नम् ।
SK 3475 · A 4.4.129V
मधोर्ञ च ॥ ३४७५ ॥
madhorña ca
SK 3476 · A 4.4.130V
ओजसोऽहनि यत्खौ ॥ ३४७६ ॥
ojaso'hani yatkhau
Subodhinī
NSP p. 607—ओजसोऽह—। ओजःशब्दान्मलयें यत्खौ स्तोऽहन्यभिधेये । ननु यद्वहणं व्यर्थं खक्षेत्येवास्त्विति चेन्मैवम् । खक्षेत्युच्यमानेऽनन्तरसूत्रविहितस्य जमात्रस्य समुच्चयो विज्ञायेत तस्माद्यद्वहणम् ॥—वेशोयशः—। वेशश्च यशश्च वेशोयशसी ते आदौ यस्य तस्माद्वेशोयशआदेर्भगात्प्रातिपदिकाद्यल्खौ स्तो मलयें । लकारः स्वरार्थः ॥—पूर्विणेमिरिति । पूर्वैः कृताः पूर्विणाः तैः । एवं पूर्व्यासः पूर्विणाः ॥—अग्निः—। तृतीयान्तादपशब्दात्संस्कृतमिलयें यत्स्यात्
SK 3477 · A 4.4.131V
वेशोयशआदेर्भगाद्यल् ॥ ३४७७ ॥
veśoyaśaāderbhagādyal
Siddhānta-kaumudī
यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥
SK 3478 · A 4.4.132V
ख च ॥ ३४७८ ॥
kha ca
Siddhānta-kaumudī
योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥
SK 3479 · A 4.4.133V
पूर्वैः कृतमिनयौ च ॥ ३४७९ ॥
pūrvaiḥ kṛtaminayau ca
Siddhānta-kaumudī
गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥
SK 3480 · A 4.4.134V
अद्भिः संस्कृतम् ॥ ३४८० ॥
adbhiḥ saṃskṛtam
Siddhānta-kaumudī
यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥
SK 3481 · A 4.4.135V
सहस्रेण संमितौ घः ॥ ३४८१ ॥
sahasreṇa saṃmitau ghaḥ
Siddhānta-kaumudī
सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥
Subodhinī
NSP p. 607—सहस्रेण—। तृतीयान्तात्सहस्रशब्दात्संमितमित्येतस्मिन्नर्थे घः स्यात् । संमितः सदृशस्तुल्य इत्यर्थः ॥—सहस्रिया इति । सहस्रेण संमिताः सहस्रियाः । ‘यस्येति च’ इत्यकारलोपः । समिताविति पाठान्तरम् ॥—मतौ—। ‘तपःसहस्राभ्यां विनीनी’ इत्यस्यापवादः
SK 3482 · A 4.4.136V
मतौ च ॥ ३४८२ ॥
matau ca
Siddhānta-kaumudī
सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥
SK 3483 · A 4.4.137V
सोममर्हति यः ॥ ३४८३ ॥
somamarhati yaḥ
Siddhānta-kaumudī
सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥
Subodhinī
NSP p. 607—सोममर्हति—। द्वितीयान्तात्सोमशब्दादर्हतीत्यस्मिन्नर्थे यत्स्यात् ॥—सोम्य इति । सोममर्हतीति सोम्यः
SK 3484 · A 4.4.138V
मये च ॥ ३४८४ ॥
maye ca
Siddhānta-kaumudī
सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥
Subodhinī
NSP p. 607—मये च । आगतविकारावयवप्रकृता मयड्धाः । तत्रागते पञ्चमी समर्थविभक्तिः विकारावयवयोः षष्ठी प्रकृतवचने प्रथमा
SK 3485 · A 4.4.139V
मधोः ॥ ३४८५ ॥
madhoḥ
Siddhānta-kaumudī
मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥
Subodhinī
NSP p. 607—मधोः ॥—यत्स्यादिति । वृत्तिकारस्तु यतमेवानुवर्तयति न तु यम्
SK 3486 · A 4.4.140V
वसोः समूहे च ॥ ३४८६ ॥
vasoḥ samūhe ca
Siddhānta-kaumudī
चान्मयडर्थे यत् । वसव्यः । ।
vārttikaअक्षरसमूहे छन्दस उपसंख्यानम्
(वार्तिकम्) ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥
SK 3487 · A 4.4.141V
नक्षत्राद्घः ॥ ३४८७ ॥
nakṣatrādghaḥ
Siddhānta-kaumudī
स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥
Subodhinī
NSP p. 607—नक्षत्रात्—॥—स्वार्थ इति । समूह इति नानुवर्तते । तेनाऽनिर्दिष्टार्थलात्स्वार्थे प्रत्यय उत्पद्यत इत्यर्थः
SK 3488 · A 4.4.142V
सर्वदेवात् तातिल् ॥ ३४८८ ॥
sarvadevāt tātil
Siddhānta-kaumudī
स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥
Subodhinī
NSP p. 607—सर्वदेवात्—। सर्वशब्दाद्देवशब्दाच्च तातिल् स्यात्
Bālamanoramā
सर्वदेवात् तातिल् - शम्याः ष्लञ् । शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः । षकारलकारावितौ ।अनुदात्तादेश्चे॑त्यञो ।ञपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली रुआउगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः । अवयवे तु शामीली शाखा ।
SK 3489 · A 4.4.143V
शिवशमरिष्टस्य करे ॥ ३४८९ ॥
śivaśamariṣṭasya kare
Siddhānta-kaumudī
करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥
Subodhinī
NSP p. 607—शिवशम—। करशब्दसामानाधिकरण्यात् ‘शिवशमरिष्टस्य’ इति ‘उभयप्राप्तौ कर्मणि’ इति षष्ठी ॥ इति वैदिकसुवोधिन्यां चतुर्थोऽध्यायः ॥ सप्तनोऽञ्च—सप्तनशब्दादब्धस्याच्छन्दसि ॥—साप्तानीति । सप्तनशब्दादब्धि ‘नस्तद्धिते’ इति टिलोपे तद्धितान्त-लात्प्रातिपदिकसंज्ञायां जस् । ‘जश्शसोः शिः’ । ‘नपुंसकस्य—’ इति नुम् । उपधादीर्घः ॥—शनशतोः— डित्करणं शदन्तस्य टिलोपार्थम् ॥—पञ्चदशिन इति । पञ्चदशाहानि परिमाणमेषामिति डिनिः टिलोपः । एतेन त्रिंशिनो व्याख्याताः
SK 3490 · A 4.4.144V
भावे च ॥ ३४९० ॥
bhāve ca
Siddhānta-kaumudī
शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥
SK 3491 · A 5.1.61V
सप्तनोऽञ् छन्दसि ॥ ३४९१ ॥
saptano'ñ chandasi
Siddhānta-kaumudī
तदस्य परिमाणम् - SK 1723 इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥
vārttikaशन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः
(वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ।
vārttikaविंशतेश्चेति वाच्यम्
(वार्तिकम्) ॥ विंशिनोऽङ्गिरसः ।
vārttikaयुष्मदस्मदोः सादृश्ये वतुब्वाच्यः
(वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥
Subodhinī
alignment inferredNSP p. 607–608—विंशिनोऽङ्गिरस इति । विंशतिगोत्राणि परिमाणमेषामिति विग्रहे डिनि कृते ‘तिविंशतेर्डिति’ इति तिशब्दलोपे कृते यस्येति लोपः । आङ्गिरसअयास्यगार्ग्यगौतम इत्यादिप्रवरमेदभिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः ॥—त्वावत इति । लमिव त्वावान् तस्य त्वावतः । अहमिवेति मावान् तस्य मावतः । ‘प्रत्ययोत्तरपदयोश्च’ इति लमादेशौ । ‘आ सर्वनाम्नः’ इत्यालम् ॥—सादन्यमिति । सदनं गृहमर्हतीति सादन्यः । ‘अन्येषामपि—’ इति दीर्घः ॥—विदध्यमिति । विदधो यज्ञस्तमर्हतीत्यर्थः ॥—इद्वत्सरीय इति । इद्वत्सरेण निर्वृत्तः इद्वत्सरमधीष्टो भूतो भूतो भावी वा इद्वत्सरीयः । इद्वत्सरेदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्वर्षयोः संज्ञे । एवं संवत्सरपरिवत्सरशब्दावपि ॥ संपरिपूर्वात् । संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः स्याच्चाच्छः
SK 3492 · A 5.1.67V
छन्दसि च ॥ ३४९२ ॥
chandasi ca
Siddhānta-kaumudī
प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥
SK 3493 · A 5.1.91V
वत्सरान्ताच्छश्छन्दसि ॥ ३४९३ ॥
vatsarāntācchaśchandasi
Siddhānta-kaumudī
निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥
SK 3494 · A 5.1.92V
सम्परिपूर्वात् ख च ॥ ३४९४ ॥
samparipūrvāt kha ca
Siddhānta-kaumudī
चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥
SK 3495 · A 5.1.106V
छन्दसि घस् ॥ ३४९५ ॥
chandasi ghas
Siddhānta-kaumudī
ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥
Subodhinī
NSP p. 608—छन्दसि घस् । ‘समयस्तदस्य प्राप्तम्’ इत्यतस्तदस्य प्राप्तमिति ‘ऋतोरणि’ इत्यतः ऋतोरिति चानुवर्तते तदाह—ऋतुशब्दादित्यादि ॥—ऋत्विय इति । ‘सिति च’ इति पदत्वेन भत्वे निरस्ते ‘ओर्गुणः’ इति गुणाभावे यण् ॥—उपसर्गात् । इह धातुशब्देन धातुवाच्या क्रिया लक्ष्यते । साऽर्थः प्रयोजनं यस्य साधनस्य तस्मिन्वर्तमानादित्यर्थस्तदाह—धात्वर्थविशिष्ट इति । उपसर्गाश्च पुनरेवमात्मकाः यदुते श्रुतायां क्रियायां तामेव विशिष्यन्ति । यथा आगच्छति । यत्र तु न श्रूयते तत्र क्रियाविशिष्टसाधनमाहुः । यथा निष्कौशाम्बिः । तथा च यत्र क्रियापदं न श्रूयते तत्रैव यथा स्यादित्येवमर्थं धात्वर्थं इत्युक्तम् ॥—थद् च— ‘तस्य पूरणे—’ इत्यतः ङङिति ‘नान्तादसंख्यादेः—’ इति च तदाह—नान्तादित्यादि ।—पञ्चथमिति । पञ्चानां पूरणमित्यस्मिन्नर्थे ङटि कृते तस्य थङागमः
SK 3496 · A 5.1.118V
उपसर्गाच्छन्दसि धात्वर्थे ॥ ३४९६ ॥
upasargācchandasi dhātvarthe
Siddhānta-kaumudī
धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः (यदु॒द्वतो॑ नि॒वतः॑) । उद्गतान्निर्गातादित्यर्थः ॥
SK 3497 · A 5.2.50V
थट् चच्छन्दसि ॥ ३४९७ ॥
thaṭ cacchandasi
Siddhānta-kaumudī
नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - SK 1889 । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥
SK 3498 · A 5.2.122V
बहुलं छन्दसि ॥ ३४९८ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
vārttikaछन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्
(वार्तिकम्) ॥ इति दीर्घः । मंहिष्टमुभयाविनम् (मंहि॑ष्ठसुभया॒विन॑म्) । शुनमष्ट्राव्यचरत् (शु॒नम॑ष्ट्रा॒व्य॑चरत्) ॥
vārttikaछन्दसीवनीपौ च वक्तव्यौ
(वार्तिकम्) ॥ ई ॥ रथीरभूत् (र॒थीर॑भूत्) ॥ सुमङ्गलीरियं वधूः (सु॒म॒ङ्ग॒लीरि॒यं व॒धूः) । मघवानमीमहे (म॒घवा॑नमीमहे) ॥
SK 3499 · A 5.3.20V
तयोर्दार्हिलौ च च्छन्दसि ॥ ३४९९ ॥
tayordārhilau ca cchandasi
Siddhānta-kaumudī
इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥
SK 3500 · A 5.3.26V
था हेतौ च च्छन्दसि ॥ ३५०० ॥
thā hetau ca cchandasi
Siddhānta-kaumudī
किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥
SK 3501 · A 5.3.33V
पश्च पश्चा च च्छन्दसि ॥ ३५०१ ॥
paśca paścā ca cchandasi
Siddhānta-kaumudī
अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि SK 2007 तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥
SK 3502 · A 5.3.111V
प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ॥ ३५०२ ॥
pratnapūrvaviśvemātthāl chandasi
Siddhānta-kaumudī
इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥
SK 3503 · A 5.4.12V
अमु च च्छन्दसि ॥ ३५०३ ॥
amu ca cchandasi
Siddhānta-kaumudī
किमेत्तिङव्ययघादित्येव । प्रतं नयं प्रतरम् (प्रतं न॑यं प्रत॒रम्) ॥
SK 3504 · A 5.4.41V
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ॥ ३५०४ ॥
vṛkajyeṣṭhābhyāṃ tiltātilau ca cchandasi
Siddhānta-kaumudī
स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥
SK 3505 · A 5.4.103V
अनसन्तान्नपुंसकाच्छन्दसि ॥ ३५०५ ॥
anasantānnapuṃsakācchandasi
Siddhānta-kaumudī
तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥
SK 3506 · A 5.4.123V
बहुप्रजाश्छन्दसि ॥ ३५०६ ॥
bahuprajāśchandasi
Siddhānta-kaumudī
बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥
SK 3507 · A 5.4.142V
छन्दसि च ॥ ३५०७ ॥
chandasi ca
Siddhānta-kaumudī
दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ । उभयतोदतः प्रतिगृह्णाति ॥
Subodhinī
NSP p. 608–609—छन्दसि । परिपन्थिन् परिपरिन् एतौ निपात्येते छन्दसि पर्यवस्थातरि वाच्ये । पर्यवस्थाता प्रतिपक्षः सपन्न इत्युच्यते । निपातनं चात्र । पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य पन्थि परि एतावादेशौ च निपात्येते ॥—वहुलम्— ‘अस्मायामेधास्रजो विनिः’ इति वर्तते तदाह—विनिः स्यादिति ॥—अष्टावीति । अशेः प्रुन् अष्टा । दंष्ट्रापर्यायोऽयम् । मेखलावी द्वयावी उभयावी । रुजावी हृदयावी । अत्र द्वयोभयहृदयान्येव दीर्घत्वं प्रयोजयन्ति । अन्येषां स्वत एव दीर्घत्वात् ॥—छन्दसि— इश्च वनिप् च इवनिपौ ॥—ई इति । इंप्रत्ययोदाहरणमुच्यते ॥—रथीरिति । रथोऽस्यास्तीति रथी ॥—सुमङ्गलीरिति । सुष्ठु मङ्गलमिति ‘सुः पूजायाम्’ इति समासः । ततोऽनेन मत्वर्थीय ईकारप्रत्ययः ॥—मघवानिति । मघं धनं तदस्यास्तीति वनिपि, मतुपि तु मघवच्छब्दः ॥—तयोः— तच्छब्देन ‘इदमोर्हिल्’ ‘तदो दा च’ इति संनिहिताविदन्तदौ परामृश्येते तदाह—इदन्तदोरिति । सूत्रे व्यत्ययेन पञ्चम्याः स्थाने षष्ठी ॥—यथासंख्यं स्त इति । इदंशब्दाद्दा तच्छब्दात् हिल् ॥—इदा । इदमशब्दाद्दा ‘इदम इश्’ इत्यनेनेशादेशः ॥—था हेतौ— ‘प्रकारवचने थाल्’ इत्यतः प्रकारवचन इति किमश्चेति तदाह—किमस्था स्यादित्यादि ॥—कथा ग्रामं न पृच्छसीति । केन हेतुना न पृच्छसीत्यर्थः । तस्य ‘प्राग्दिशो विभक्तिः’ इत्यधिकाराद्विभक्तिसंज्ञायां ‘किमः कः’ इति कादेशः । प्रकारवचने उदाहरणमाह—कथा दाशेमेति । केन प्रकारेणेत्यर्थः ॥—पञ्च पञ्चा— अवरस्य पश्चभावः अकाराकारौ च प्रत्ययौ निपात्येते ॥—अस्तात्यर्थे इति । दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥—करिष्ट इति । कर्तृशब्दादिष्ठन् ‘तुरिष्ठेमेयःसु’ इति तृलोपः ॥—दोहीयसीति । अतिशयेन दोग्ध्रीत्यर्थः । लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः । ‘भस्याहे—’ इति पुंवद्भावेन ङीपो निवृत्तिः । ततः ‘तुरिष्ठेमेयःसु’ इति इति निवृत्ते । विभिन्नभाषाद्वत्संज्ञे परिपातनिवृत्तिः ॥—प्रसन्नपूर्व— प्रसन्न पूर्व विभ इम एभ्यस्थाल् स्यात् ॥—अमु च—। किमेत्तिङ्ययघाद् द्रव्यप्रकर्षे वर्तमानादमुप्रलयो भवति ॥—प्रतरमिति । प्रकर्षार्थस्य प्रकर्षे तरप् । प्रकृष्टतर इतिवत् तदन्तादमुः । स्वरादिषु अम् आम् इति पक्ष्यते तेन तदन्तस्याव्ययत्वे सुपो लुक् । अत्रोदित्करणम् ‘इच एकाचोऽम्प्रलयवच्च’ इत्यत्रास्य ग्रहणं माभूत् । यदि स्यात्तर्हि अत्रापि यदृष्टं कार्यं तदप्यतिदिश्येत । तत्र को दोषः । इह स्त्रियंमन्यमानः । यस्येति लोपः प्राप्नोति ॥—अनसन्तात्—। अन्नन्तस्योदाहरणमाह—ब्रह्मसाममिति । असन्तस्याह—देवच्छन्दसानीति ॥—वहुप्रजाः—। वहुप्रजा इति निपात्यते छन्दसि ॥—वहुप्रजा इति । वह्यः प्रजा यस्येति वहुव्रीहिः असिच् प्रलयः । ‘यस्येति च’ इत्यकारलोपः । ‘अलसन्तस्य’— इति दीर्घः रुलविसर्गौ
SK 3508 · A 5.4.158V
ऋतश्छन्दसि ॥ ३५०८ ॥
ṛtaśchandasi
Siddhānta-kaumudī
ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥
SK 3509 · A 6.1.7V
तुजादीनां दीर्घोऽभ्यासस्य ॥ ३५०९ ॥
tujādīnāṃ dīrgho'bhyāsasya
Siddhānta-kaumudī
तुजादिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥
SK 3510 · A 6.1.34V
बहुलं छन्दसि ॥ ३५१० ॥
bahulaṃ chandasi
Siddhānta-kaumudī
ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ।
vārttikaऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि
(वार्तिकम्) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ।
(वार्तिकम्) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥
SK 3511 · A 6.1.35V
चायः की ॥ ३५११ ॥
cāyaḥ kī
Siddhānta-kaumudī
न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥
SK 3512 · A 6.1.36V
अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः ॥ ३५१२ ॥
apaspṛdhethāmānṛcurānṛhuścicyuṣetityājaśrātāḥśritamāśīrāśīrttāḥ
Siddhānta-kaumudī
एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥
SK 3513 · A 6.1.52V
खिदेश्छन्दसि ॥ ३५१३ ॥
khideśchandasi
Siddhānta-kaumudī
खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥
SK 3514 · A 6.1.60V
शीर्षंश्छन्दसि ॥ ३५१४ ॥
śīrṣaṃśchandasi
Siddhānta-kaumudī
शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥
Bālamanoramā
ये च तद्धिते (अचि शीर्षः) - ये च तद्धिते । शीर्षन्नादेश इति । शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः । शीर्षण्य इति शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशेये चाऽभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यचि, 'नः क्ये' इति नियमात्पदत्वाऽभावान्न रुत्वम् ।वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह — अचीति ।
SK 3515 · A 6.1.106V
वा छन्दसि ॥ ३५१५ ॥
vā chandasi
Siddhānta-kaumudī
दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च SK 330 इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥
Subodhinī
NSP p. 609–610—छन्दसि च । ‘वयसि दन्तस्य दतृ’ इत्यतो ‘दन्तस्य दतृ’ इत्यनुवर्तते तदाह—दन्तस्य दतृ स्यादिति ॥ —उभयतोदत इति । उभयतो दन्ता यस्येति विग्रहः ॥—हतमाता इति । ‘नवृत्तश्च’ इति नित्यं कप् प्राप्तः ॥ इति सुवोधिन्यां पञ्चमोऽध्यायः ॥ जागारेति । जागृ निद्राक्षये । लिटि प्रथमपुरुषैकवचनम् ॥—दातीति । डुदान् दाने लद् । शपः श्रुः । ‘श्लौ’ इति नित्यं द्वित्वे प्राप्ते विकल्पः ॥—तूतुजान इति । तुजेर्लिद् तस्य कानजादेशः ॥—मामहानमिति । मह पूजायां कानच् ॥—तूतावेति । तुः सौत्रो धातुः तस्माल्लिद् ॥—वहुलं छन्दसि । ‘ह्वः संप्रसारणं’ इति वर्तते तदाह—ह्वः संप्रसारणं स्यादिति ॥—आहुवे इति । आङ्पूर्वात् ह्वेषो लडात्मनेपदोत्तमैकवचनम् । ‘वहुलं छन्दसि’ इति शपो लुकि कृते संप्रसारणमुवडादेशश्च ॥—तृचं सूक्तमिति । तिस्रः ऋचो यस्मिस्तत् तृचम् । ‘ऋक्पूर्वधूःपथामानक्षे’ इति समासान्तः अः ॥—रयेर्मतौ । रयिशब्दस्य मतौ परतः संप्रसारणं स्याच्छन्दसि ॥—रेवानिति । ‘छन्दसीरः’ इति वलम् ॥—रयिमानिति । वहुलप्रहणात्संप्रसारणवलयोरभावः ॥—चायः की । चायतेर्वहुलं कीलयमादेशः स्याच्छन्दसि ॥—चिक्युरिति । ‘कुहोश्चुः’ इति तुः ॥—निचाय्येति । चायृ पूजानिशामनयोः अस्मात्क्ला । गतिसमासे ‘समासेऽनन्पूर्वे क्त्वो ल्यप्’ इति ल्यवादेशः ॥—स्पर्धेर्लड्याथामिति । द्विवचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात् ॥ अस्पर्धेथामिति भाषायाम् । अपरे तु अपपूर्वस्य स्पर्धेर्लड्याथामि संप्रसारणमलोपश्च निपातनात् । ‘वहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडागमाभावः । तन्मते प्रत्युदाहरणमपास्पर्धेथामिति भाषायाम् ॥—अचेरहेश्चेति । संप्रसारणमलोपश्च निपातनात् । ततो द्विवचनमुरदलम् ‘अत आदेः’ इति दीर्घलम् । ‘तस्मानुड् द्विहलः’ इति नुडागमः । आनर्चुरानर्हुरिति भाषायाम् ॥—च्युङो लिटीति । अभ्यासस्य संप्रसारणमनिद्रत्वं च निपातनात् । चुच्युविषेति भाषायाम् ॥—त्यजेर्णलीति । लज वयोहानौ । अभ्यासस्य संप्रसारणं निपात्यते । तत्याजेति भाषायाम् ॥—श्राता इति । श्रीन् पाके इत्यस्य निष्ठायां श्राभावः ॥—श्रिता इति । तस्यैव श्रीणातेस्वर्हत्वं च ॥—आशिरमिति । आङ्पूर्वस्य श्रीणातेः क्रिप् धातोः शिर आदेशः । तस्माद्वितीयैकवचनम् ॥—आशीर्तं इति । श्रीञः आङ्पूर्वस्य शिर इत्यादेशः । निष्ठायाश्च नलाभावो निपातनात् । ‘हलि च’ इति दीर्घः
SK 3516 · A 6.1.70V
शेश्छन्दसि बहुलम् ॥ ३५१६ ॥
śeśchandasi bahulam
Siddhānta-kaumudī
लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ।
vārttikaएमन्नादि छन्दसि पररूपं वक्तव्यम्
(वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥
Subodhinī
alignment inferredNSP p. 610—खिदेश्छन्दसि । ‘आदेच उपदेशे—’ इत्यतः आदिति एच् इति च वर्तते ‘विभाषा लीयतेः’ इत्यतो विभाषेति च तदाह—आद्धा स्यादिति ॥—चिखादेति । व्यलयेन परस्मैपदम् ॥—शीर्ष्णं इति । ‘अल्लोपोऽनः’ इत्यल्लोपः ‘रषाभ्याम्—’ इति णलम् । ‘पूर्वस्मादपि विधौ स्थानिवद्भावः’ इति पक्षे तु ‘अद्रुक्पाङ्—’ इत्यनेन ॥—वा छन्दसि । ‘नादिचि’ ‘दीर्घाज्जसि च’ इति वर्तते तदाह—दीर्घादित्यादि ॥—वाराही इति । वराहस्य विकार इति ‘अवयवे च प्राण्योषधिवृक्षेभ्यः’ इति प्राणिरजतादिभ्योऽञ् ङीप् । द्विवचने पूर्वसवर्णदीर्घः । पूर्वसवर्णाभावे यणादेशः ॥—मानुषीरिति । प्रथमावहुवचनम् । ‘मनोर्जातावञ्यतौ पुक् च’ इति अञ् मनोः पुगागमः ॥—सूत्रद्वये इति । ‘अमि पूर्वः’ ‘संप्रसारणाच्च’ इत्यत्र ॥—वाक्यभेदेनेति । अकः अमि पूर्वरूपं वा स्याच्छन्दसि तथा ‘संप्रसारणाच्च’ इति पूर्वरूपं वा स्याच्छन्दसि तदाह—तेनेति ॥—शम्यं चेति । विकल्पविधानसामर्थ्यात्पूर्वरूपलाभावे पूर्वसवर्णदीर्घोऽपि न भवति । तयोरत्र विशेषाभावादिति यणादेश एव भवति ॥—यज्यमान इति । यजेलेटः शानच् । ‘सार्वधातुके—’ इति यक् । ‘आने मुक्’ इति मुक् । ‘प्रहिज्या—’ इति संप्रसारणं पूर्ववैकल्पिकलादभावे यण् ॥—या ते इति । यानीत्यर्थः । यच्छन्दात्परस्य शेलोपे कृते प्रत्ययलक्षणेन ‘त्यदादीनामः’ इति अत्वे ‘नपुंसकस्य झलचः’ इति नुम् । ‘सर्वनामस्थाने च’ इति दीर्घः । नलोपः ॥—ता ता इति । तानि तानीत्यर्थः पूर्ववत्
Bālamanoramā
संहितायाम् - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।
SK 3517 · A 6.1.83V
भय्यप्रवय्ये च च्छन्दसि ॥ ३५१७ ॥
bhayyapravayye ca cchandasi
Siddhānta-kaumudī
बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ।
vārttikaहृदय्या उपसंख्यानम्
(वार्तिकम्) ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥
Subodhinī
alignment inferredNSP p. 610—भय्यप्रवच्ये । विभेतेः प्रपूर्वस्य वी इत्येतस्य च यति प्रत्यये परतश्छन्दसि विषये यादेशो निपात्यते ॥—भय्य इति । ‘कृत्यल्युटः—’ इति अपादाने यत् ॥—ह्रदय्या इति । अकारस्यायादेशः
SK 3518 · A 6.1.115V
प्रकृत्याऽन्तःपादमव्यपरे ॥ ३५१८ ॥
prakṛtyā'ntaḥpādamavyapare
Siddhānta-kaumudī
ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥
Subodhinī
NSP p. 610—प्रकृत्या—पादस्य मध्ये इत्यन्तःपादमित्यव्ययीभावः । अन्तरित्यव्ययमधिकरणशक्तिप्रधानं मध्यमाचष्टे । पादश्चेह ऋक्पाद एव गृह्यते न श्लोकस्य । ‘वा छन्दसि’ इत्यतो मण्ड्रकण्ठस्या छन्दसीति वर्तते तेनास्य वैदिकत्वं संपद्यत इत्याशयेनाह—ऋक्पादमध्यस्थ इति । ‘एङः पदान्तात्—’ इति सूत्रादेङः इति पश्चम्यन्तमनुवृत्तं प्रथमया विपरिणम्यतेऽन्यस्य कार्यिणोऽसंभवादित्यभिप्रेत्याह—एङ् प्रकृत्येति । सन्धिरूपं विकारं न यातीत्यर्थः ॥—उपप्रयन्तो अध्वरमिति । ‘एङः पदान्तादति’ इति प्राप्तम् ॥—अन्तःपादं किमिति । ऋचीत्येव किं नोक्तमित्यर्थः ॥—एतेऽर्चन्तीति । ‘कया मती कुत एतास एतेऽर्चन्ति शुण्णं वृषणो वसूया’ इति । अत्र एते इति पादस्यान्ते एङस्ति अकश्च परस्य पादस्यादाविति तन्निमित्तिनिमित्तयोः पादमध्यस्थत्वमिति सत्यपि ऋक्त्वे प्रकृतिभावः
SK 3519 · A 6.1.116V
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ३५१९ ॥
avyādavadyādavakramuravratāyamavantvavasyuṣu ca
Siddhānta-kaumudī
एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥
Subodhinī
alignment inferredNSP p. 610–611—अव्यात्—एषामनुकरणत्वात्पुनन्तेन समासः । अव रक्षणे । आशीर्लिङ् । अवद्यादिति पश्चम्येकवचनान्तम् । अवकमुरिवेत्यवपूर्वस्य कमेलिट्यसि द्विर्वचनप्रकरणे ‘छन्दसि वा वचनम्’ इति द्विर्वचनाभावे रूपम् । केचित्तु अवचकमुरिति सूत्रे कृतद्विर्वचनं ये पठन्ति तेषामुदाहरणं मृग्यम् । वह्नुचास्तावदवकमुरित्यधीयते ॥—अव्रतेति । वृङ्ग्योः ‘मन्त्रे घस—’ इति च्छेलुङ् । ‘आत्मनेपदेषु’ इति झत्यादादेशः ॥—अयमिति । इदमः सौ ‘इदोऽयं पुंसि’ ॥ अवनेलोङ् अवन्तु । अवस्य वरिति। अवेरसुन् औणादिकः। ततः क्यच् ‘क्याच्छन्दसि’ इत्युः
SK 3520 · A 6.1.117V
यजुष्युरः ॥ ३५२० ॥
yajuṣyuraḥ
Siddhānta-kaumudī
उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥
Subodhinī
NSP p. 611—यजुष्युरः—॥—उरो अन्तरिक्षमिति। नन्वत्र ‘प्रकृत्यान्तःपादम्’ इत्यनेनैव सिद्धे व्यर्थोऽयं योग इत्याशङ्क्याह—यजुषि पादाभावादित्यादि ॥—आपो जुषाणो—आपो इत्यादीनि पृथक्पदान्यनुकरणानि विभक्तिस्तु अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति ‘सुपां सुलक्ष्य’ इति विभक्तेर्लुभ्वा। अभिवक्ते पूर्वं इत्येतदप्यनुकरणमेव तत्र प्रथमं जसन्तमनुकरणम्। द्वितीयं स्वन्तं। तृतीयं शसन्तम्। चतुर्थं ज्यन्तमितरे संयुज्यन्ते। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अभिवक्ते शब्दात्पूर्वौ यौ अम्बेअम्बालेशब्दौ तौ च अति परतः प्रकृत्या स्युः
SK 3521 · A 6.1.118V
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ॥ ३५२१ ॥
āpojuṣāṇovṛṣṇovarṣiṣṭhe'mbe'mbāle'mbikepūrve
Siddhānta-kaumudī
यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - SK 267 इति ह्रस्वो न ॥
SK 3522 · A 6.1.119V
अङ्ग इत्यादौ च ॥ ३५२२ ॥
aṅga ityādau ca
Siddhānta-kaumudī
अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥
Subodhinī
NSP p. 611—अङ्ग इत्यादौ च ॥—अङ्गद्राब्दे य एडिति। प्रकृत्या भवतीति वक्ष्यमाणेन संबन्धः ॥—तदादौ अकारे य एड्पूर्व इति। अत्रापि पूर्ववत्संबन्धः। अतिक्रान्तपरामर्शिना तच्छब्देन इतिशब्दार्थमाचष्टे। तस्याङ्गशब्दस्य आदिस्तदादिस्तद्रूपो य अकारस्तस्मिन्परे पूर्वौ य एड् स इत्यर्थः। नन्वत्र चकारः किमर्थं इति चेच्छृणु। असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्तत्त्वाङ्गे अङ्गे इत्यत्रैव स्यात्। अङ्गे अदीव्यदित्यत्र न स्यात्। सति तु तस्मिन्नङ्गशब्दस्य य एड् यत्र कुत्रचिदति प्रकृत्या भवति तदादौ चाति परतो यः कश्चिदेङ् स प्रकृत्या भवतीत्यमर्थो भवति। तेन अङ्गे अङ्गे अदीव्यत् प्राणो अङ्गे इत्युभयत्रापि भवति
SK 3523 · A 6.1.120V
अनुदात्ते च कुधपरे ॥ ३५२३ ॥
anudātte ca kudhapare
Siddhānta-kaumudī
कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥
Subodhinī
NSP p. 611—अनुदात्ते च कुधपरे। कुधौ परौ यस्मात्स तथोक्तः ॥—कवर्गधकारेति। धकारे अकार उच्चारणार्थः ॥—अग्निरिति। अग्निशब्दो ‘अङ्गेर्निर्नलो-पश्च’ इति निप्रत्ययान्तोऽन्तोदात्तः। अध्वरशब्दः प्रातिपदिकस्वरेणान्तोदात्तः ॥—आद्युदात्त इति। ‘ऋज्जेन्द्र’ इत्या-दिना सूत्रेण निपातितः ॥—आडो—आडिति डिद्विशिष्ट आकारो गृह्यते यः ‘ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं डितं विद्याद्वाक्यस्मरणयोरडित्’ इत्यनेन लक्षितः। यद्यपि अभ्र आँ अप इत्यत्र आकारो न ईषदर्थादिच-तुष्टयवृत्तिः सप्तम्यर्थद्योतकत्वात्। तथापि वाक्यस्मरणयोरडिदित्यत्रैव तात्पर्यम्। अन्यत्र सर्वत्राङ् डिद्वेदितव्यः। एवं तावद्भाष्ये स्थितम् ॥—अभ्र आँ अप इति। सप्तम्यर्थद्योतकोऽत्राङ्। ‘उपदेशेऽजनुनासिकः’—इतीत्संज्ञा तु न उप-देशप्रहणात्
SK 3524 · A 6.1.121V
अवपथासि च ॥ ३५२४ ॥
avapathāsi ca
Siddhānta-kaumudī
अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - SK 3935 इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - SK 3937 इति निघातो न ॥
SK 3525 · A 6.1.126V
आङोऽनुनासिकश्छन्दसि ॥ ३५२५ ॥
āṅo'nunāsikaśchandasi
Siddhānta-kaumudī
आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः (अ॒भ्र आँ अ॒पः) । गभीर आँ उग्रपुत्रे (गभी॒र आँ उ॒ग्रपु॑त्रे) ।
vārttikaईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः
(वार्तिकम्) ॥ ईषाअक्षो हिरण्यः । ज्या इयम् (ज्या इ॒यम्) । पूषा अविष्टु (पू॒षा अ॒विष्टु) ॥
SK 3526 · A 6.1.133V
स्यश्छन्दसि बहुलम् ॥ ३५२६ ॥
syaśchandasi bahulam
Siddhānta-kaumudī
स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥
Subodhinī
NSP p. 611—स्यश्छन्दसि। स्य इति स्यदित्येतस्य प्रथमान्तस्यानुकरणम्। ‘सुपां सुलक्ष्य’ इति लुप्तषष्ठीकम् ॥—एषस्येति। एतदस्त्यदश्च त्यदाद्यत्वं ‘तदोः सः सौ’ इति सः। एतदस्त्यदश्च परस्य सोः ‘एतत्तदोः सुलोपः’—इति ‘स्यश्छन्दसि’—इति च लोपः
SK 3527 · A 6.1.151V
ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ॥ ३५२७ ॥
hrasvāccandrottarapade mantre
Siddhānta-kaumudī
ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । हरिश्चन्द्रो मरुद्गणः (हरि॑श्चन्द्रो म॒रुद्ग॑णः) । सुश्चन्द्र दस्म (सुश्च॑न्द्र दस्म) ॥
Subodhinī
NSP p. 611—ह्रस्वात्—चन्द्रशब्दे उत्तरपदे ह्रस्वात्परः सुडागमो भवति। स च भवन् चन्द्रशब्द-स्यैवोभयनिर्देशे पञ्चमीनिर्देशो वलीयानित्याशयेनाह—चन्द्रशब्दस्योत्तरपदस्येति ॥—सुडागमः स्यादिति। ‘सुद कात्पूर्वः’ इत्यतः सुडित्यनुवर्तनात्
SK 3528 · A 6.3.33V
पितरामातरा च च्छन्दसि ॥ ३५२८ ॥
pitarāmātarā ca cchandasi
Siddhānta-kaumudī
द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च (आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॑ च) । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ (न मा॒तारा॑ पि॒तरा॒ न चि॑दि॒ष्टौ) । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु SK 1012 समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्भ्यः ।
vārttikaछन्दसि स्त्रियां बहुलम्
(वार्तिकम्) ॥ विष्वद्गेवयोरद्र्यदेशः । विश्वाची च घृताची च (वि॒श्वाची॑ च घृ॒ताची॑च) । देवद्रीची नयत देवयन्तः (देव॒द्रीची॑ नयत देव॒यन्तः॑) । कद्रीची (क॒द्रीची॑) ॥
Subodhinī
NSP p. 611–612—पितरा—पूर्वपदस्याडादेशो निपात्यते। उत्तरपदे तु ‘सुपां सुलक्ष्य’—इत्यादिना विभक्तेराकारादेशः। ‘ऋतो डिसर्वनामस्थानयोः’ इति गुणः ॥—समानस्य—॥—सः स्यादिति। ‘सहस्य सः’ इत्यतः स इत्यनुवर्तते ॥—सगर्भ्य इति। समानो गर्भः सगर्भः तत्र भवः सगर्भ्यः। ‘सगर्भसयूथसनुताद्यत्’ इति यत् प्रत्ययः। अमूर्धेत्यादि किम्। समानमूर्धा समानप्रभृतयः समानोदकाः ॥—छन्दसि त्रियाम्—‘विष्वग्दे- वयोः—इति सर्वनाम्नोऽप्युपलक्षणम् । वहुलग्रहणात्क्रचिन्न । भवति ॥—विश्वाची । देवद्रीचीति । विश्वमश्वतीति देवानश्चतीति किन् । ‘उगितश्च’ इति ङीप् । ‘अचः’ इत्यकारलोपः । ‘चौ’ इति दीर्घलम् । अत्र विष्वग्देवयोर्ब्रादेशः प्राप्तो बाहुलकान् । क्रचिन्न भवतीत्याह—कद्रीचीति । कुत्सितमश्वतीति कद्रीची । किंशब्दस्य टेरद्र्यादेशः ङीवलोपः दीर्घः पूर्ववत्
SK 3529 · A 6.3.96V
सध मादस्थयोश्छन्दसि ॥ ३५२९ ॥
sadha mādasthayośchandasi
Siddhānta-kaumudī
सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ॥
Subodhinī
NSP p. 612—सध माद—। ‘सहस्य सग्रिः’ इत्यतः । सहस्येति वर्तते माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशः स्यात् । सधेत्यविभक्तिको निर्देशः ॥—सधमादे इति । सह माद्यन्ति देवा अस्मिन्निति सधमादो यज्ञ इति । ‘मदोऽनुपसर्गे’ इत्यपि प्राप्ते ‘अजव्भ्यां स्त्रीखलनाः—’ इति तद्वाधके ल्युटि ‘हलश्च’ इति घन् । सूत्रे मादेत्यकार उच्चारणार्थः । तेन मादयतेः किंवन्तस्य मादिति यद्वपं तत्रापि भवति । ‘आला वृहन्तो हरयो युज्यमाना अर्वागिन्द्रसधमादो वहन्तु’ ॥—सधस्थमिति । सह तिष्ठतीति सधस्थः । ‘आतोऽनुपसर्गे—’ इति कः
Bālamanoramā
सध मादस्थयोश्छन्दसि - विष्वग्देवयोश्च । 'अद्रि' इति लुप्तप्रथमाकम् । अनयोरिति । विष्वग्देवशब्दयोरित्यर्थः । सर्वनाम्न इति । चकारेण 'आ सर्वनाम्नः' इत्यतस्तदनुकर्षादिति भावः । अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यमश्रूयमाणत्वादविद्यमानः प्रत्ययः क्विबादिर्यस्मादिति बहुव्रीह्राश्रयणादिति भावः । प्रकृते अदसष्टेरद्रआदेशमुदाहृत्य दर्शयति — अदद्रि अञ्चिति स्थिते इति । अद्रआदेशोऽयमनिदितामिति नलोपे कृते प्रवर्तते, नलोपस्य परत्वादिति बोध्यम् । यणिति ।रेफादिकारस्ये॑ति शेषः । अदद्रचित्यतः सुबुत्पत्तिः । अदसो । अदसः, असेः, दात्, उ, दः, म इति च्छेदः । 'अदस' इत्यवयवषष्ठन्तम् ।असे॑रिति तद्विशेषणम् । न विद्यते सिर्यस्य स असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यम् ।
SK 3530 · A 6.3.108V
पथि च च्छन्दसि ॥ ३५३० ॥
pathi ca cchandasi
Siddhānta-kaumudī
पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥
Bālamanoramā
पथि च च्छन्दसि - इत्यकारलोपे प्र च् अस् इति स्थिते — चौ । अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम् । 'ढ्रलोपे' इत्यतःपूर्वस्य दीर्घोऽणः॑ इत्यनुवर्तते । तदाह — लुप्तेति । प्राचेति । यद्यपि 'अचः' इत्यल्लोपस्य 'चौ' इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण 'प्राच' इति सिध्यति, तथापि 'प्रतीचः' इत्याद्यर्थं सूत्रम् । प्राग्भ्यामिति । प्राच्-भ्याम् इति स्थिते 'चोः कुः' इति कुत्वं,क्विन्प्रत्ययस्य कुः॑ इति कुत्वस्याऽसिद्धत्वात् । इत्यादीति । प्राग्भिः । प्राचे । प्राचः २ । प्राचोः २ । प्राक्षु । प्रत्यङ्ङिति । प्रतिपूर्वादञ्चेः क्विन्, यण्, 'अनिदिताम्' इति नलोपः, सुबुत्पत्तिः ।उगिदचा॑मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । प्रत्यञ्चाविति । प्रत्यच्-औ इति स्थितेउगिदचा॑मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ ।ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृतेअनिदिता॑मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात्उगिदचा॑मिति नुमभावे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्चेति स्यादित्यत आह — अचेति लोपस्येत्यादि । 'अचः' इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते 'अचः' इत्यकारलोपे सति 'चौ' इति इकारस्य दीर्घे 'प्रतीच' इति रूपां निर्बाधम् । एतदर्थमेव 'अचः' इति 'चौ' इति चारब्धम् ।प्राचः पश्ये॑त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः । भाष्ये तु 'चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न चप्राचः पश्ये॑त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात् ।वार्णादाङ्गं बलीयः॑ इति परिभाषया 'अचः' इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः । अद्स् अञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते 'अनिदिताम्' इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः ।
SK 3531 · A 6.3.113V
साढ्यै साढ्वा साढेति निगमे ॥ ३५३१ ॥
sāḍhyai sāḍhvā sāḍheti nigame
Siddhānta-kaumudī
सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥
Subodhinī
NSP p. 612—साढ्यै । एते त्रयो निपात्यन्ते निगमे । सहैः क्लाप्रत्यय इति पक्षे क्लाप्रत्ययस्य ध्यै आदेशश्च निपात्यते । साढ्यै सहैः क्लाप्रत्ययस्य ध्यै ‘हो ढः’ द्रुत्वं ‘ढोढे लोपः’ । ‘ढूलोपे—’ इति दीर्घः ॥—साड्वा इति । ढलादि पूर्ववत् ॥—तृनि तृतीयमिति । तृचि लन्तोदात्तं स्यात्तथा भूरि चक्रेति मन्त्रे साढ्वेत्याद्युदात्तं पठ्यते तत्र संगच्छेतेति भावः । सूत्रे इतिशब्दः प्रकारार्थः । तेन निष्ठायामपि निपातनं बोध्यम् । अषाढ्यो अग्रे वृषभः ॥—द्वयोरिति । अस्य आचार्यस्य द्वयोः स्वरयोर्मध्यमेत्य डकारो लकारतां संपद्यते ऊष्मणा संप्रयुक्तः डकारः लकहारतामेतीत्यन्वयः ॥—अष्टापदीति ॥—अष्टौ पादा अस्या इति । वहु-त्रीहौ ‘संख्यासुपूर्वस्य’ इति पादस्य लोपे कृते ‘पादोऽन्यतरस्याम्’ इति ङीप्
SK 3532 · A 6.3.126V
छन्दसि च ॥ ३५३२ ॥
chandasi ca
Siddhānta-kaumudī
अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ॥
SK 3533 · A 6.3.131V
मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ ३५३३ ॥
mantre somāśvendriyaviśvadevyasya matau
Siddhānta-kaumudī
दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ॥
Subodhinī
NSP p. 612—मन्त्रे । सोम, अश्व, इन्द्रिय, विश्व, देव्य, एषां मतुप्रत्यये परे दीर्घः स्यान्मन्त्रे
SK 3534 · A 6.3.132V
ओषधेश्च विभक्तावप्रथमायाम् ॥ ३५३४ ॥
oṣadheśca vibhaktāvaprathamāyām
Siddhānta-kaumudī
दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ॥
Subodhinī
NSP p. 612—ओषधेश्च—। न च ‘कृदिकारादक्तिनः’ इति ङीषा गतार्थता अन्तो-दात्ततापत्तेः । इष्यते त्वाद्युदात्तः ‘लघावन्ते—’ इति फिदसूत्रात्
SK 3535 · A 6.3.133V
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ॥ ३५३५ ॥
ṛci tunughamakṣutaṅkutroruṣyāṇām
Siddhānta-kaumudī
दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ॥
Subodhinī
NSP p. 612—ऋचि तुनु—। घ इति स्वरुपग्रहणं न तरप्तमपो-दृष्टन्दसि घशब्दस्यैव दीर्घदर्शनात् ॥—उत वेति । भार्याया भ्राता श्यालस्ततः पञ्चमी ॥—भरतेति । लोष्मध्यम-पुरुषवहुवचनस्य थस्य ‘लोटो लङ्वत्’ इत्यतिदेशात्तस्य स्थाने तादेशः ‘तस्थस्थमिपाम्—’ इत्यनेन ॥—शृणोतेति । ‘तप्तनप्तनथनाश्च’ इति तवादेशः । अत्र पित्त्वान्डित्त्वं नास्ति ॥—उरुष्याण इति । उरुष्येति कण्ड्वादियगन्तो रक्षणार्थः । लोटः सेहिः । ‘अतो हेः’ इति लुक् । न इत्यस्य ‘नश्व धातुस्थोरुषुभ्यः’ इति णलम्
SK 3536 · A 6.3.134V
इकः सुञि ॥ ३५३६ ॥
ikaḥ suñi
Siddhānta-kaumudī
ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः SK 3644 इति षः । नश्च धातुस्थोरुषभ्यः SK 3649 इति णः ॥
Subodhinī
alignment inferredNSP p. 612—इकः—। इगन्तस्य सुनि परतो दीर्घः स्यादचि ॥—अच्चो—। अचस्तिङन्तस्यातो दीर्घः स्यादचि ॥—विच्चेति । विद ज्ञाने लद । ‘विदो लटो वा’ इति मस्य स्थाने मः । चक्रेति लिटो मध्यमपुरुषवहुवचनम्
SK 3537 · A 6.3.135V
द्व्यचोऽतस्तिङः ॥ ३५३७ ॥
dvyaco'tastiṅaḥ
Siddhānta-kaumudī
मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ॥
SK 3538 · A 6.3.136V
निपातस्य च ॥ ३५३८ ॥
nipātasya ca
Siddhānta-kaumudī
एवा हि ते (ए॒वा हि ते॒) ॥
Subodhinī
NSP p. 612–613—निपातस्य च । दीर्घः स्यान्मन्त्रे । एवशब्दश्चादिषु पाठान्नि-पातः ॥—लन्दुक्तम् ॥ नामीति ॥ नर्तने लोटो लोपे ॥ इत्यस्योपादिषु इति च सदाह नामीत्यादि ॥ ऋभुक्षाणमिति । ऋभुक्षिनशब्द उणादिषु निपातितः । ‘इतोऽस्त्वनामस्थाने’ इतीकारस्याकारादेशः ॥—जनितेति । जनयितेत्यर्थः
SK 3539 · A 6.3.137V
अन्येषामपि दृश्यते ॥ ३५३९ ॥
anyeṣāmapi dṛśyate
Siddhānta-kaumudī
अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ॥
Bālamanoramā
अन्येषामपि दृश्यते - अन्येषामपि दृश्यते । अनुवर्तते इति । ढ्रलोपे इत्यत॑ इति शेषः ।नहिवृतिवृषी॑त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्क्याह — कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति ।बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ॑ इत्यर्थः । तेनतुराषा॑डित्यादौ दीर्गो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ।इच्कर्मव्यतिहारे इति सूत्रेणे॑ति शेषः । तिष्ठधुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र 'अव्ययीभावः' इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति ।अव्ययीभावश्चे इत्यनेने॑ति शेषः । 'अव्ययादाप्सुपः' इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति ।परस्पर॑मिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरंस्थितयो॑रित्यद्याहारात् । ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् । पूर्वपदस्य दीर्घः । इच्समासान्तः ।यस्येति चे॑त्यकारलोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति । अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, 'यस्येति च' इति अकारलोपः । अव्ययत्वात्सुब्लुक् । भुष्टीमुष्टीति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टआ मुष्टआ इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् ।मुष्टामुष्टी॑ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव ।ओर्गुणः । ओरित्युकारात्षष्ठएकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'नस्तद्धिते' इत्यनुवर्तते । तदाह — उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच् ।यस्येति चे॑ति बाधित्वा ओर्गुणः, अवादेशः । अव्ययत्वात्सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात्ओरो॑रित्येव सिद्धे 'गुण' इति गुरुनिर्देशो व्यर्थं इत्यत आह — ओरोदिति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नचओ॑दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः । संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः ।स्वायम्भुव॑मिति पाठे तस्येदमित्यण् । हलेन मुसलेनेति । अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः ।
SK 3540 · A 6.4.5V
छन्दस्युभयथा ॥ ३५४० ॥
chandasyubhayathā
Siddhānta-kaumudī
नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ॥
SK 3541 · A 6.4.9V
वा षपूर्वस्य निगमे ॥ ३५४१ ॥
vā ṣapūrvasya nigame
Siddhānta-kaumudī
षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ॥
SK 3542 · A 6.4.53V
जनिता मन्त्रे ॥ ३५४२ ॥
janitā mantre
Siddhānta-kaumudī
इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ॥
SK 3543 · A 6.4.54V
शमिता यज्ञे ॥ ३५४३ ॥
śamitā yajñe
Subodhinī
NSP p. 613—शमिता । निपातनं पूर्ववत् ॥—आनङ्गिति । नशेर्लुङ्गि ‘मन्त्रे घस्’ इति लेर्लुङ्ग् । ‘नशेर्वा’ इत्यस्याभावे ‘ब्रश्च’ इति षः । जश्नेन डः । तस्य चत्वन् टः ॥—आवरिति । वृषो लुङ्गि लेर्लुङ्ग् । गुणः रेफस्य विसर्गः
Bālamanoramā
शमिता यज्ञे - तथाच अगुणवचनादपि कर्तृशब्दादिष्ठन्प्रत्यये 'कर्तृ-इष्ठ' इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्ते — तुरिष्ठेयमेयःसु । 'तृ' इत्यस्यतु॑रिति षष्ठएकवचनम् । एष्विति । इष्ठन्, इमन्, इयस् इत्येतिष्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्यटे॑रित्येव सिद्धेः । करिष्ठ इति । अयमनयोरति शयेन कर्तेत्यर्थः । दोहीयसी धेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताऽभावात्दादे॑रिति घत्वस्य निवृत्तौ उगित्त्वात् ङीपिदोहियसी॑ति रूपम् ।पुगन्ते॑ति गुणस्तु न निवर्तते, लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् ।
SK 3544 · A 6.4.58V
युप्लुवोर्दीर्घश्छन्दसि ॥ ३५४४ ॥
yupluvordīrghaśchandasi
Siddhānta-kaumudī
ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् SK 2254 ॥
SK 3545 · A 6.4.73V
छन्दस्यपि दृश्यते ॥ ३५४५ ॥
chandasyapi dṛśyate
Siddhānta-kaumudī
अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे SK 2228 ॥
SK 3546 · A 6.4.75V
बहुलं छन्दस्यमाङ्योगेऽपि ॥ ३५४६ ॥
bahulaṃ chandasyamāṅyoge'pi
Siddhānta-kaumudī
अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ॥
SK 3547 · A 6.4.76V
इरयो रे ॥ ३५४७ ॥
irayo re
Siddhānta-kaumudī
प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥
SK 3548 · A 6.4.86V
छन्दस्युभयथा ॥ ३५४८ ॥
chandasyubhayathā
Siddhānta-kaumudī
भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ।
vārttikaतन्वादीनां छन्दसि बहुलम्
(वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्र्य॑म्बकम् (त्र्य॑म्बकम्) । त्रियम्बकम् ॥
SK 3549 · A 6.4.99V
तनिपत्योश्छन्दसि ॥ ३५४९ ॥
tanipatyośchandasi
Siddhānta-kaumudī
एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ॥
SK 3550 · A 6.4.100V
घसिभसोर्हलि च ॥ ३५५० ॥
ghasibhasorhali ca
Siddhānta-kaumudī
सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः SK 2425 ॥
SK 3551 · A 6.4.102V
श्रुशृणुपॄकृवृभ्यश्छन्दसि ॥ ३५५१ ॥
śruśṛṇupṝkṛvṛbhyaśchandasi
Siddhānta-kaumudī
श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ॥
SK 3552 · A 3.4.88V
वा छन्दसि ॥ ३५५२ ॥
vā chandasi
SK 3553 · A 6.4.103V
अङितश्च ॥ ३५५३ ॥
aṅitaśca
Siddhānta-kaumudī
हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि (अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ॥
Bālamanoramā
अङितश्च - शसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पशसि विशेषमाह — पादः पत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — पाच्छब्दान्तमिति । पाच्छब्दस्येति । पाच्छब्दान्तस्य विधीयमानो ।ञपि पदादेशःनिर्दिश्यमानस्यादेशा भवन्ती॑ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः २ । सुपदि । इति दान्ताः । अथथान्ताः । अग्निमदिति । 'मन्थ विलोडने' इति भ्वादौ । 'मन्थ विलोडने' इति क्यादौ । उभाभ्यामपि क्विपिअनिदिता॑मिनि नलोपे अग्निमथिति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचर्त्वे इति भावः । भ्यामादौ जश्त्वेन थस्य दः । अग्निमद्भ्यामित्यादि । सुपिखरि चे॑ति चर्त्वम्, अग्निमत्सु । 'मथे विलोडने' इत्यस्याप्येतदेव रूपम् ।मथिहिंसासंक्लेशनयोः॑ इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः । अथ चान्ताः । ऋत्विगित्यादिसूत्रेणेति । प्र-अञ्चतीत्यर्थे 'अञ्चु गतिपूजनयोः' इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः । पूजार्थस्य त्वग्रे वक्ष्यते । क्विनिहलन्त्य॑मिति नकार इत् । इकार उच्चारणार्थः । 'लशक्वतद्धिते' इति ककार इत् ।वेरपृक्तस्ये॑ति वकारलोपः ।
SK 3554 · A 6.4.141V
मन्त्रेष्वाङ्यादेरात्मनः ॥ ३५५४ ॥
mantreṣvāṅyāderātmanaḥ
Siddhānta-kaumudī
आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ॥
SK 3555 · A 6.4.162V
विभाषर्जोश्छन्दसि ॥ ३५५५ ॥
vibhāṣarjośchandasi
Siddhānta-kaumudī
ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ॥
SK 3556 · A 6.4.175V
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ॥ ३५५६ ॥
ṛtvyavāstvyavāstvamādhvīhiraṇyayāni cchandasi
Siddhānta-kaumudī
ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥
SK 3557 · A 7.1.8V
बहुलं छन्दसि ॥ ३५५७ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
शीङो रुट् SK 2442 ।रुडागमः स्यात् । लोपस्त आत्मनेपदेषु SK 3563 इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् SK 203 ॥
Subodhinī
NSP p. 613–614—बहुलं लुन्दसि । माञ्चोगेऽप्यमाञ्चोगेऽपि बहुलमडाटौ भवतः । अमाञ्चोगेऽपि न भवतः । माञ्चोगेऽपि च भवतः ॥ —जनिष्ठा इति । जनेर्लुङ्ग् थास् अडागमाभावः । माञ्चोगेऽप्यडागममुदाहरति—मा व इति । वो युष्माकं क्षेत्रे भार्यायां परवीजानि परेषां वीजानि वीर्याणि मा अवाप्सुः उप्तानि माभूवन् । वयोः कर्मणि लुङ्ग् । व्यत्ययेन परस्मैपदम् । ‘ल्लेः सिच्’ ‘वदब्रज’ इति वृद्धिः । इदं काशिकागुरोधेनोदाहतम् । अध्ययनं तु वाप्सुरित्येव दृश्यते । माञ्चटस्तूदाहरणान्तरमन्वेषणीयम् ॥—इरयो—इर इत्येतस्य रे आदेशः स्याच्छन्दसि ॥—दध्रे इति । धाषो लिटि झस्य ‘लिटस्तक्षयोः’ इतीरेचि कृते रेभावः । ननु चात्र परलाद्रेभावे कृतेऽनजादिलादालोपो न प्राप्त इत्यत आह ॥—रेभावस्येति । नन्वेवमपि रेभावस्यैव क्रादिनियमादिडागमः प्राप्नोति । न च रेभावस्य वैयर्थ्यम् । कृष्टप्रभृतिषु चरितार्थलादत आह—अत्रेति । कथं पुनर्लाक्षणिकस्य रेशब्दस्य रेभावो भवति तत्राह—तदर्थं चेति । द्विवचननिर्देशाल्लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तत इति भावः ॥—तन्वादीनाम् । बहुलमियङ्कुवडादेशः स्याच्छन्दसि ॥—तनुवमिति । अधातुलादभाप्त उवङ् विधीयते ॥—तन्वमिति । ‘वा छन्दसि’ इत्यमि पूर्वलाभावे यण् ॥—त्र्यम्बकमिति । त्रीणि अम्बकानि नेत्राणि यस्यासौ त्र्यम्बको रुद्रः ॥—वितलिरे इति । तनु विस्तारे लिटः प्रथमपुरुषवहुवचनम् । अत्राल्लोपस्यासिद्धत्वेऽपि ‘अत एकहल्मध्ये’ इति एलाभ्यासलोपौ न लोपविधानसामर्थ्यात् ॥—पप्तिमेति । पतल्ल पतने लिटो मसो मस्य इद् । वितेनिरे पेतिमेति भाषायाम् ॥—घसिभसोः—। अनयोरुपधालोपः स्याद्धलादावजादौ च क्रिति ॥—सग्धिरिति । अदेः क्तिन् ‘बहुलं छन्दसि’ इति घस्लादेशे उपधालोपे च कृते ‘झलो झलि’ इति सलोपस्तकारस्य धत्वं धस्य जश्लम् । ततः समाना ग्धिः सग्धिरिति समासे कृते ‘समानस्य छन्दस्यमूर्ध्वप्रभृत्युदकेषु’ इति सूत्रेण समानस्य सः ॥—वब्धामिति । भसेलोटि ताम् इलुः । परं नित्यमप्युपधालोपं बाधित्वा बाहुलकात्प्रथमं ‘श्लौ’ इति द्विलम् । तत उपधालोपसलोपधत्वजश्लानि कर्तव्यानि ॥—श्रुशृणु—। एभ्यो हेर्धिः स्यात् ॥—श्रुधीति । ‘बहुलं छन्दसि’ इति शपो लुङ्ग् । ‘अन्येषामपि’ इति दीर्घलम् ॥—शृणुधीति । श्रुवः श्रुभावश्च विधानसामर्थ्यात् ‘उतश्च प्रत्ययात्’ इति न हेर्लुङ्ग् दीर्घः पूर्ववत् ॥—पूर्धीति । पू पालने । शपो लुङ्ग् ‘उदोष्क्रपूर्वस्य’ इत्युलम् । ‘हलि’ च’ इति दीर्घः ॥— उरुणस्कृधीति । ‘नश्च धातुस्योरुषुभ्यः’ इति णलम् । ‘कः करत्’ इत्यादिना विसर्जनीयस्य सलम् ॥—अपाचृधीति । दीर्घः पूर्ववत् ॥—अभ्यासस्य दीर्घश्चेति । तुजादिलादिति भावः ॥—रारन्धीत्यत्र ‘अनुदात्तोपदेश’ इत्यादिना मलोपो न हेरङ्क्त्वात् ॥—यमेः शपो लुगिति । ‘बहुलं छन्दसि’ इत्यनेन । एवमुत्तरत्रापि ॥—विभाषजोः—। ‘र ऋतो हलादेर्लघोः’ इत्यतः र ऋत इति ‘तुरिष्ठेमेयःसु’ इति च तदाह—ऋतः स्थाने इत्यादि ॥— ऋत्य-। ऋतुशब्दायति वास्तुशब्दादणि यति च यणादेशो निपालते ॥—मशब्दस्येति । तस्यासिद्ध्यात् ‘यस’ इति लोपो न । ‘अकृत्सार्थं’ इति दीर्घस्लङ्गवृत्तपरिभाषया वारणीयः । यद्वा मकारमात्रस्य लोपः । ततो ‘यस-’ इति लोपे कृते प्रत्ययाकारस्य श्रवणम् ॥ इति षष्ठोऽध्यायः ॥ बहुलं छन्दसि । छन्दसि विषये बहुलं रूढागमः स्यात् ॥—डुहे इति । डुहेर्लट् टेरेत्वे झस्यादेशे रुद्र तलोपः —लोपाभावे इति । ‘लोपस्त आत्मनेपदेषु’ इत्यस्य वैकल्पिकलादित्यर्थः ॥—अदृश्यमिति । दृशिर् प्रेक्षणे बहु व्यत्ययेन प्रथमपुरुषबहुवचनस्थाने उत्तमपुरुषैकवचनं मिप् । तस्य रूढागमः
SK 3558 · A 7.1.10V
बहुलं छन्दसि ॥ ३५५८ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ॥
SK 3559 · A 7.1.26V
नेतराच्छन्दसि ॥ ३५५९ ॥
netarācchandasi
Siddhānta-kaumudī
स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् SK 3332 ॥
Subodhinī
NSP p. 614—नेतरा-। इतरशब्दात्परयोः स्वमोरद्ङादेशो न स्याच्छन्दसि ॥—इतरमिति । ‘अदृडतरादिभ्यः’ इत्यदङभावे ‘अतोऽम्’ इत्यम् ॥—क्त्वो ल्यविति । समासैऽनपूर्वं क्त्वो ल्यपि प्राप्ते छन्दसि क्लापि विधीयते तदाह—क्त्वापि । अनञ्पूर्वं समासे क्ला इत्ययमादेशः स्यात् । अपिशब्दाल्लघवपि समासैऽसमासे च भवति । अप्राप्तिविषये ल्यपः प्रापणार्थलादपिशब्दस्य । अन्यथा ‘वा छन्दसि’ इत्येव न्रूयात् । तथा च छन्दोविधिमनुविदधानाः कल्पसूत्रकारा अपि प्रयुज्ञते । आज्येनाक्षिणी अज्येति
SK 3560 · A 7.1.38V
क्त्वाऽपि छन्दसि ॥ ३५६० ॥
ktvā'pi chandasi
Subodhinī
alignment inferredNSP p. 614— परिधापयित्वेति । णिजन्तात्परिपूर्वाद्धातेः क्ला तस्य ल्यवादेशे प्राप्ते क्लादेशः ॥—सुपाम्-। सुपां स्थाने बुङ्ग कृपूर्वसवर्णआभात्शेयाडाच्छायाच्अाल् एते आदेशाः स्युद्छन्दसि ॥—पन्था इति । ‘व्यत्ययो बहुलम्’ इत्येव सिद्धमिदम् । उक्तं हि तत्र ‘सृष्टिङुपग्रह-’ इत्यादि तस्यैवायं प्रपञ्चः ॥—धीतीत्यादि । धीतीतीनुष्ठूतीशब्देभ्यस्तृतीयैकवचनस्य पूर्वसवर्ण ईकारः प्रमाणत आन्तर्यात्सवर्णदीर्घलम् ॥—दिविस्पृशाविति प्राप्ते आ इति । अनेनादित्यंत्राकारोऽपि प्रश्छिष्यत इति दर्शितम् ॥—नतादिति । नतशब्दादम् । तस्यादादेशः । ‘न विभक्तौ तु’ इतीत्सङ्गाप्रतियेधः ॥—या देवेत्यादि । यतच्छब्दादम् ॥—न युष्मे इति । युष्मदः सप्तमीबहुवचनस्य शे आदेशः । शेषे लोपः
SK 3561 · A 7.1.39V
सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः ॥ ३५६१ ॥
supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ
Siddhānta-kaumudī
ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ।
vārttikaईयाडियाजीकाराणामुपसंख्यानम्
(वार्तिकम्) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ।
vārttikaआङ्याजयारामुपसंख्यानम्
(वार्तिकम्) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-SK 245 इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ॥
Subodhinī
alignment inferredNSP p. 614–615— अस्मे इन्द्रेति । शे इति प्रगृह्णलादयादेशभावः ॥—नाभा इति । डित्त्वादिलोपः ॥—ता अनुष्ठयेति । षड्विंशतिरस्य वङ्क्रय इति प्रकम्य इदमध्वर्युप्रेषे प्रटितं ताः वङ्गीः अनुख्याः अनुष्ठानेन अनुक्रमेण गणनया गणयिला उच्यावयतात् भवान् विशसनं करोतु । पृथक् करोतु भवानित्यर्थः ॥—अनुष्ठानमनुष्ठेति । अनुपूर्वात्तिष्ठतेरङ् तृतीयैकवचनस्य छ्यादेशे डित्त्वादिलोपः । नन्वनुपूर्वात्तिष्ठतेः ‘आतश्वोपसर्गं’- इत्यङं बाधित्वा ‘स्थागापापञ्चो भावे’ इति किना भाव्यमिति चेत्सत्यम् । ‘पूर्वपरावरदक्षिणोत्तरा’- इति सूत्रे व्यवस्थायामिति निर्देशादडपि सामान्यापेक्षज्ञापकाश्रयणात् । तदेतद् ध्वनयति—व्यवस्थावदिति ॥—साधु इति प्राप्त इति । सोलंकि प्राप्त इत्यर्थः ॥—वसन्ते इति प्राप्ते आल् इति । पूर्वसवर्णं तु ‘अतो गुणे’ इति स्यात् ॥—उर्वियेति । उरदारुशब्दात्तृतीयैकवचनस्येयादेशः ॥—सुक्षेत्रियेति । सुक्षेत्रिन्शब्दात्तृतीयैकवचनस्य डियाजादेशः । डित्त्वादिलोपः ॥—माहूनेण अगत्त इति । अगत्त इति । अगत्त इति । अगत्त इति । तत्समासभ्रमादित्यवधेयम् । प्रेति न समस्तं पृथक्खरदर्शनात् पदकारैर्विच्छिद्यं पाठाच्च । अत आख्यातान्वयीति ध्येयम् ॥ —स्वमयेति । अयाचोऽकारः ‘सुपि च’ इति दीर्घनिवृत्त्यर्थः । ‘अतो गुणे’ इति पररूपम् ॥ —नावयेति । नौशब्दाद्वा इत्यस्याऽयार् ॥ —रित्स्वर इति । ‘रिति’ इति सूत्रेण ॥ —अमो—अम इति मिवादेशो गृह्यते न द्वितीयैकवचनं छन्दसि दृष्टानुविधानात् तदेतदाह—मिवादेशस्येति ॥ —शित्वात्सर्वादेश इति । शित्करणाभावे तु ‘अलोऽन्त्यस्य’ इति मकारस्य स्यात् । ‘आदेः परस्य’ इति तु न पञ्चमीनिर्देशाभावात् । न च मकारस्य मकारवचने प्रयोजनाभावात् सर्वादेशो भविष्यतीति वाच्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात् ‘मो राजि समः कौ’ इत्यत्र यथा ॥ —वधीमिति । इन्तेर्छेड् ‘हनो वध लिङि’ ‘लुङि च’ इति वधादेशः । ‘च्लेः सिच्’ इद् ‘तस्यस्थ—’ इति मिपोऽम्भावः । तस्य मश् ‘अस्तिसिचः—’ इति मस्यापृक्तस्येद् ‘इट इटि’ इति सिचो लोपः । सवर्णदीर्घत्वम् । ‘वहुलं छन्दसि’ इत्यडभावः
SK 3562 · A 7.1.40V
अमो मश् ॥ ३५६२ ॥
amo maś
Siddhānta-kaumudī
मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-SK 2225 इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ॥
SK 3563 · A 7.1.41V
लोपस्त आत्मनेपदेषु ॥ ३५६३ ॥
lopasta ātmanepadeṣu
Siddhānta-kaumudī
छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ॥
Subodhinī
NSP p. 615—लोपस्त्—आत्मनेपदेषु यस्तकारस्तस्य च्छन्दसि विषये लोपः स्यात् ॥ —अदुहेति । दुहेर्छेड् । ‘आत्मनेपदेष्वनतः’ इति झस्यादादेशः ‘वहुलं छन्दसि’ इति रुद् तकारस्य लोपे द्वयोरकारयोः ‘अतो गुणे’ इति पररूपम् ॥ —शये इति । शेते इत्यत्र तलोपे कृतेऽयादेशः
SK 3564 · A 7.1.42V
ध्वमो ध्वात् ॥ ३५६४ ॥
dhvamo dhvāt
Siddhānta-kaumudī
अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ॥
Subodhinī
NSP p. 615—ध्वमो—ध्वमो ध्वादित्यादेशः स्याच्छन्दसि
SK 3565 · A 7.1.43V
यजध्वैनमिति च ॥ ३५६५ ॥
yajadhvainamiti ca
Siddhānta-kaumudī
एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥
Subodhinī
alignment inferredNSP p. 615—वारयध्वादिति । वृशो णिचि लोद् ॥ —यज— वृत्तिकारस्तु यजध्वैनमिति पाठं ज्ञात्वा वकारस्य यकारश्च निपात्यत इत्याह तद् दूषयति—वकारस्येत्यादि ॥ —प्रामादिकीति । लक्ष्ये वकारपाठस्य निर्विवादत्वात् वेदभाष्येऽपि प्रकृतसूत्रस्य मलोपमात्रपरतोक्तेश्चेति भावः
SK 3566 · A 7.1.44V
तस्य तात् ॥ ३५६६ ॥
tasya tāt
Siddhānta-kaumudī
मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ॥
Subodhinī
alignment inferredNSP p. 615—तस्य —॥ —मध्यमपुरुषवहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु न ग्रहणम् । छन्दसि दृष्टानुविधानात् पूर्वोत्तराभ्यां वहुवचनाभ्यां साहचर्याच्च ॥ —कृणुतादिति । कृवि हिंसाकरणयोश्च । ‘धिन्विकृण्य्योर च’ इत्युप्रत्ययः वकारस्य चाकारः । अतो लोपः ॥ —गमयतादिति । गमेर्णिच् । ‘जनीजूष्—’ इति अमन्तत्वान्मित्संज्ञायां मितां हस्वः लोण्मध्यमपुरुषवहुवचनस्य तादेशः
SK 3567 · A 7.1.45V
तप्तनप्तनथनाश्च ॥ ३५६७ ॥
taptanaptanathanāśca
Siddhānta-kaumudī
तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ॥
Subodhinī
NSP p. 615—तप्तनप्त—। तस्य स्थाने एते आदेशाः स्युः ॥ —शृणोतेति । शु श्रवणे । ‘शुवः शृ च’ इति शुप्रत्ययः शृभावश्च । पित्त्वेनाडित्वाद्गुणः ॥ —सुनोतनेति । षुञ् अभिषवे ‘स्वादिभ्यः शुः’ त इत्यस्य तनप् ॥ —दधातनेति । अत्राप्यङित्वात् ‘श्राभ्यस्तयोः—’ इत्याकारलोपाभावः
SK 3568 · A 7.1.46V
इदन्तो मसि ॥ ३५६८ ॥
idanto masi
Siddhānta-kaumudī
मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ॥
Subodhinī
NSP p. 615—इदन्तो—। अन्तशब्दोऽवयववचनः । इत् अन्तो यस्य स इदन्तः । तपरकरणमसंदेहार्थम् । तथा चायमर्थः । मस् इत्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य इसागमो भवति स च तस्यान्तो भवतीत्यर्थस्तदेतदाह—मस् इत्ययमिति । तत्र यदि सकारोपमर्देन इकारान्तत्वमभिप्रेतं स्यात्तर्हि मस् इदिति वाच्यं स्यात् । तस्मादवस्थित एव सकारे इकार उपसर्जनीयः । अन्तग्रहणाच्च तद्बहणेन गृह्यते । ततश्च टित्त्वकित्त्वादेरागमलिङ्गस्याभावेऽप्यर्थादागमोऽयं संपद्यते तदेतद्बुनयन्नाह— मस् इगागमः स्यादिति । एवं च मस् इगिति वक्तव्यं प्रत्याहारसंदेहप्रसङ्गात्तथा नोक्तम् ॥ —एमसीति । इण् गतौ, मस् तस्य इकारः अन्तावयवः ॥ —स्मसीति । अस्तेर्मस् ‘श्रसोरल्लोपः’
SK 3569 · A 7.1.47V
क्त्वो यक् ॥ ३५६९ ॥
ktvo yak
Siddhānta-kaumudī
दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ॥
Subodhinī
NSP p. 615—क्त्वो—। क्त्वा इत्यस्य यगागमः स्याच्छन्दसि ॥ —गत्वायेति । गमे क्त्वा । ‘अनुदात्तोपदेश—’ इत्यनुनासिकलोपः । क्त्वा इत्यस्य यगागमः
SK 3570 · A 7.1.48V
इष्ट्वीनमिति च ॥ ३५७० ॥
iṣṭvīnamiti ca
Siddhānta-kaumudī
क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥
Subodhinī
NSP p. 615–616— इष्ट्वीन—। —क्त्वाप्रत्ययस्येति । यजेः परस्येति शेषः ॥ —इष्ट्वीनमिति । यजेः क्त्वा । ‘वचित्सपि—’ इति संप्रसार- णम् । ‘ब्रश्च’ इति षलम् । दुलम् । आकारस्येनमादेशः ॥—पीत्वेति । पिवतेः क्ला । ‘धुमास्था—’ इतीलम् ॥—आज्जसेः—। जसेरिति पूर्वाचार्यानुरोधेन निर्देशः ॥—देवास इति । असुकि कृते जसः सकारस्य श्रवणम् । असुकः सकारस्य विसर्गः ॥—श्रीणामिति । अस्य ‘वामि’ इति नदीलविकल्पान्नदीलाभावे उदाहरणमिदं बोध्यम् । नदीलपक्षे तु ‘हसनथापो नुट्’ इत्यनेनैव सिद्धम् ॥—सूतग्रामणीनामिति । सूताश्च ग्रामण्यश्चेतीतरेतरयोगः
SK 3571 · A 7.1.49V
स्नात्व्यादयश्च ॥ ३५७१ ॥
snātvyādayaśca
Siddhānta-kaumudī
आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । स्विन्नः स्नात्वी मलादिव (स्वि॒न्नः स्ना॒त्वी मला॑दिव) । पीत्वी सोमस्य वावृधे (पी॒त्वी सोम॑स्य वावृधे) । स्नात्वा पीत्वेति प्राप्ते ॥
SK 3572 · A 7.1.50V
आज्जसेरसुक् ॥ ३५७२ ॥
ājjaserasuk
Siddhānta-kaumudī
अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ॥
SK 3573 · A 7.1.56V
श्रीग्रामण्योश्छन्दसि ॥ ३५७३ ॥
śrīgrāmaṇyośchandasi
Siddhānta-kaumudī
आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ॥
SK 3574 · A 7.1.57V
गोः पादान्ते ॥ ३५७४ ॥
goḥ pādānte
Siddhānta-kaumudī
विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ॥
Subodhinī
NSP p. 616—गोः पा—गो इत्येतस्मादुत्तरस्यामो नुडागमः स्यात्पादान्ते । पादश्चेद् ऋक्पादो गृह्यते छन्दसीत्यधिकारात्
SK 3575 · A 7.1.76V
छन्दस्यपि दृश्यते ॥ ३५७५ ॥
chandasyapi dṛśyate
Siddhānta-kaumudī
अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ॥
Subodhinī
NSP p. 616—छन्दस्य—‘छन्दसि च—’ इत्येव सिद्धे अपि दृश्यत इत्येतत्सर्वोपाधिव्यभिचारार्थम् । अन्यथा आरम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः संभाव्येत । टादावचीत्युक्तं हलादावपि भवति ॥—अस्थाभिः । विभक्तावित्युक्तमविभक्तावपि भवति । ‘अस्यन्वन्तं यदनस्याविभर्ति’ । अस्यन्वन्तमित्यत्रास्थिशब्दान्मतुप् । अनहि कृतेऽनो नुडिति मतुपो नुट् । अनडो नकारलोपः
SK 3576 · A 7.1.77V
ई च द्विवचने ॥ ३५७६ ॥
ī ca dvivacane
Siddhānta-kaumudī
अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ॥
SK 3577 · A 7.1.83V
दृक्स्ववस्स्वतवसां छन्दसि ॥ ३५७७ ॥
dṛksvavassvatavasāṃ chandasi
Siddhānta-kaumudī
एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य - SK 2494 ॥
Subodhinī
NSP p. 616—दृक् — ‘आच्छीनयोर्नुम्’ ‘सावनडुहः’ इत्यतो नुम् सावित्यनुवर्तते तदाह—नुम् स्यादिति ॥—कीदृङ्गिन्द्र इति । किमशब्दे उपपदे ‘त्यदादिषु दृशोऽनालोचने कश्च’ इति दृशेः किन् । ‘इदंकिमोरिश् की’ इति किमः की आदेशः । नुम् ‘संयोगान्तस्य लोपः’ ‘किन्प्रत्ययस्य—’इति कुत्वेन नस्य डः ‘डमो हसादचि—’ इति डमुद्र ॥—स्ववानिति । अवतेरसुन् । सुष्टु अवो यस्येति विग्रहः । स्ववःशब्दानुमि कृते ‘सान्तमहतः—’ इति दीर्घः संयोगान्तलोपः । तस्यासिद्धं लान्नलोपो न ॥—स्वतवानिति । तुधातुः सौत्रो वृद्ध्यर्थः । ततोऽसुन् । स्वं तवो वृद्धिर्यस्येति विग्रहः ॥—ततुरिरिति । तरतेः ‘आद्यगम—’ इति किन्प्रत्ययः । उत्वं तस्य ‘द्विर्वचनेऽचि’ इति स्थानिवङ्गावात् इत्येतस्य द्विर्वचनम् । उदरलम् ॥—हु ह्वरे— ‘श्वीदितो निष्ठायाम्’ इत्यतो निष्ठायामिति वर्तते । तदाह—निष्ठायामिति ॥—अहुतमिति । न हतमहतम्
SK 3578 · A 7.1.103V
बहुलं छन्दसि ॥ ३५७८ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ॥
SK 3579 · A 7.2.31V
ह्रु ह्वरेश्छन्दसि ॥ ३५७९ ॥
hru hvareśchandasi
Siddhānta-kaumudī
ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ॥
SK 3580 · A 7.2.32V
अपरिह्वृताश्च ॥ ३५८० ॥
aparihvṛtāśca
Siddhānta-kaumudī
पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ॥
Subodhinī
NSP p. 616—अपरिह्वताः—। छन्दसि वहुवचनान्तस्यैव प्रयोगदर्शनाद्बहुवचनान्तस्य निर्देशः
SK 3581 · A 7.2.33V
सोमे ह्वरितः ॥ ३५८१ ॥
some hvaritaḥ
Siddhānta-kaumudī
इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ॥
Subodhinī
alignment inferredNSP p. 616—सोमे ॥—इद्गुणाविति । हु इत्यादेशस्याभावोऽपि बोध्यः
Bālamanoramā
सोमे ह्वरितः - वा द्रुहः ।दादे॑रित्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते । तदाह — एषामिति । द्रुहादीनां चतुर्णामित्यर्थः । ध्रुक् — ध्रुगिति । घत्वपक्षे भष्भावे चर्त्वविकल्प इति भावः । ध्रुट् ध्रुडिति । घत्वाऽभावपक्षे 'हो ढः' इति ढत्वे भष्भावे चर्त्वविकल्पः । अत्र भष्भावार्थमेव 'हो ढः' इति सूत्रे ढ एव विहित, नतु डः । तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात् । अचि सुपि दुर्हमित्यादि । ध्रुग्भ्यामिति । घत्वपक्षे भष्भावः । ध्रुड्भ्यामिति । घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । द्रुहोः द्रुहाम् । ध्रुक्ष्विति । घत्वे भष्भावे 'आदेशप्रत्यययोः' इति षत्वेखरि चे॑ति चर्त्वम् । ध्रुट्त्स्विति । घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चर्त्वम् । चर्त्वस्याऽसिद्धत्वा॒च्चयो द्वितीयाः॑ इति तकारस्य थो न भवति । न पदान्ता॑दिति ष्टुत्वं न । ध्रुट्स्विति । धुडभावे रूपम् । हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः । एवमिति ।भष्भाववर्ज॑मिति शेषः । विआं वहतीत्यर्थभजोण्वि॑रित्यतो ण्विरित्यनुवृत्तौवहश्चे॑ति ण्विः । णकार इत् । वेर्लोपः । 'अत उपधायाः' इति वृद्धिः । उपपदसमासः । विआवाहितिं रूपम् । ततस्सोर्हल्ङ्याबिति लोपे हो ढः॑ इति ढत्वे 'वाऽसाने' इति चर्त्वविकल्पे-विआवाट् विआआड्, विआआहौ, विआवाहः ।
SK 3582 · A 7.2.34V
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च ॥ ३५८२ ॥
grasitaskabhitastabhitottabhitacattavikastāviśastṛśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarūtrīrujjvalitikṣaritivamityamitīti ca
Siddhānta-kaumudī
अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे SK 2527 विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ॥
Subodhinī
NSP p. 616–617—ग्रसित—। ग्रसु अदने । स्कम्भु स्तम्भु रोधनार्थो सौत्रो । चते याचने । कस गतौ । शसु हिंसायाम् । शंसु सुतौ । शासु अनुशिष्टौ । तृ प्लवनतरणयोः । वृङ् संभक्तौ । वृञ् वरणे । ज्वल दीतौ क्षर संचलने । क्षमूप् सहने । दुवम् उद्गिरणे । अम गत्यादिषु ॥—अष्टादशेति । क्षमितेः पाठपक्षे तु एकोनविंशतिः ॥—उदित्वान्निष्ठायामिद्ग्रतिषेधे प्राप्ते इति । ‘उदितो वा’ इति क्लायां वेदलात् ‘यस्य विभाषा’ इति निषेधे प्राप्ते इत्यर्थः ॥—विष्कमित । ‘अनिदिताम्—’ इति नलोपः । ‘वेः स्कभ्रातेर्नित्यम्’ इति षलम् ॥—उत्तमितेति । ‘उदः स्थास्तम्भोः—’ इति पूर्वसवर्णः । सकारस्य यकारः । तस्य ‘क्षरो क्षरि सवर्णे’ इति लोपः ॥—अन्योपसर्गपूर्वस्य माभूदिति । यदि स्यात् उत्तमितग्रहणं व्यर्थं स्यात् ॥—अज्जत्ता इति । चक्रव्यत्तापि उक्तं सह ‘अहुणः’ निपातनेन सह एकीकृत्य छेदस्तु पदकाराणां संप्रदायसिद्धः । भूयामो इति मन्त्रे भूयामो इति यथा ॥—अश्वस्याविशस्तेति । ‘अन्येषामपि—’ इति पूर्वपदस्य दीर्घः । निपातनं बहुलापेक्षमिति तेन छान्दसः प्रयोग एकवचनान्तोऽप्युदाहृत इति भावः ॥—ततो ङीपा इति । ‘ऋन्नेभ्यः—’ इति विहितेन ॥—वभूथा—। निगमो वेदः । एषां वेद इडभावो निपात्यते । वृषः क्रादिसूत्रेणेडभावे सिद्धे निगम एवेति नियमार्थं निपातनं तदेतदाह—भाषायां तु वचरिथेति ॥—सन्निस—। सनिपूर्वात्सनतेः सनोतेर्वां सन्निस सनिवांसमिति निपात्यते ॥—क्वसोरिडिति । ‘नेङ्गशि कृति’ इति निषेधे प्राप्ते निपातनम् ॥—पावका इति । पुनन्ति पावयन्ति वा पावकाः । पुनातेः पावयतेर्वां ण्वुल् टाप् ॥—दधादिति । दधातेर्लेद् तिप् ‘श्लौ’ इति द्विलम् । दधाति इति स्थिते आकारलोपः ‘लेटोऽडाटौ’ इत्यडागमः । ‘इतश्च लोपः परस्मैपदेषु’ इतीकारलोपः । दाशुषे यजमानाय रत्नानि दधत् । दधादित्यर्थः । दददिति ददाते रूपम् ॥ लोपाभावे उदाहरणमाह—ददादिति ॥—मीनातेः । ‘प्वादीनां ह्रस्वः’ इत्यतो ह्रस्व इति वर्तते तदाह—शिति ह्रस्व इति ॥—प्रमिणन्तीति । ‘हिनुमीना’ इति णलम् ॥—आइदमिति । अस्तेर्लङ् तिप् ‘आडजादीनाम्’ इत्याद शपो छक् । ‘अस्तिसिचः—’ इतीडभावे अपृक्तलाद्धल्भ्यादिलोपः रुलविसर्गौ । संहितायां तु ‘भोभगो—’ इति रोर्यलम् । ‘लोपः शाकल्यस्य’ इति यलोपः ॥—जसादिष्विति । आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि ग्रहणम् ॥—शतकत्व इति । ‘जसि च’ इति गुणाभावपक्षे प्रथमयोः पूर्वसवर्णदीर्घोऽपि ‘वा छन्दसि’ इति वचनादत्र न भवतीति यणादेशः प्रवर्तते ॥—पश्चे इति । ‘घेर्डिति’ इत्यस्याभावे यण् ॥—जुजोषदिति । जुषी प्रीतिसेवनयोः । लेद् व्यत्ययेन परस्मैपदम् तिप् । ‘इतश्च लोपः परस्मैपदेषु’ ‘लेटोडाटौ’ इत्यद् व्यत्ययेन शपः रङ्गः द्विर्वचनम्
SK 3583 · A 7.2.69V
सनिंससनिवांसम् ॥ ३५८३ ॥
saniṃsasanivāṃsam
Siddhānta-kaumudī
सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) ।
vārttikaपावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम्
(वार्तिकम्) ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः ) ॥
SK 3584 · A 7.3.70V
घोर्लोपो लेटि वा ॥ ३५८४ ॥
ghorlopo leṭi vā
Siddhānta-kaumudī
दधद्रत्नानि दाशुषे (दध॒द्रत्ना॑नि दा॒शुषे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ॥
SK 3585 · A 7.3.81V
मीनातेर्निगमे ॥ ३५८५ ॥
mīnāternigame
Siddhānta-kaumudī
शिति ह्रस्वः । प्रमिणन्ति व्रतानि (प्रमि॑णन्ति व्र॒तानि॑) । लोके प्रमीणन्ति । अस्तिसिचोऽपृक्ते SK 2225 ॥
SK 3586 · A 7.3.97V
बहुलं छन्दसि ॥ ३५८६ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो SK 167 इति यत्वम् । लोपः शाकल्यस्य SK 67 इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् । ह्रस्वस्य गुणः SK 242 । जसि च SK 241 ।
vārttikaजसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः
(वार्तिकम्) ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि SK 2503 इति निषेधे ।
vārttikaबहुलं छन्दसीति वक्तव्यम्
(वार्तिकम्) ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ॥
SK 3587 · A 7.4.8V
नित्यं छन्दसि ॥ ३५८७ ॥
nityaṃ chandasi
Siddhānta-kaumudī
छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ॥
Subodhinī
NSP p. 617—न छन्दसि—। इह यद्यानन्तर्यादीलमात्रं प्रतिषिध्येत तर्हि ‘अकृत्सार्व—’ इति दीर्घः स्यात् । अपवादे पुनरुत्सर्गस्थितेः, अत आह—ईत्व-दीर्घौ नेति । क्यचि यदुक्तं तत्रेति व्याख्यानादिति भावः । अत्र च ज्ञापकमनुपदमेव वक्ष्यति—पुत्रीयन्त इति । पुत्रमिच्छन्तः पुत्रीयन्तः । जनमिच्छन्तो जनीयन्तः । लटः शत्रादेशः । ‘उगिदचाम्—’ इति नुम्
SK 3588 · A 7.4.35V
न च्छन्दस्यपुत्रस्य ॥ ३५८८ ॥
na cchandasyaputrasya
Siddhānta-kaumudī
पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि SK 3150 इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ॥
SK 3589 · A 7.4.36V
दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ॥ ३५८९ ॥
durasyurdraviṇasyurvṛṣaṇyatiriṣaṇyati
Siddhānta-kaumudī
एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥
Subodhinī
NSP p. 617–618—दुरस्यु—। दुष्टशब्दस्य दुरस्भावो द्रविणशब्दस्य द्रविणस्भावः वृषस्य वृषण्भावः रिष्टस्य रिषण्भावश्च निपात्यते ॥—दुष्टीयतीति । अरुतिमात्रे तात्पर्यम् । उप्रत्ययस्य समानार्थेन तृना दुष्टीयितेत्यादि बोध्यम्
SK 3590 · A 7.4.37V
अश्वाघस्यात् ॥ ३५९० ॥
aśvāghasyāt
Siddhānta-kaumudī
अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-SK 3588 इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ॥
Subodhinī
alignment inferredNSP p. 618—अश्वायन्त इति । अश्वशब्दात् क्यच् । लटः शत्रादेशः ॥ —अघायच इति । छन्दसि परेच्छायां क्यच् । ‘क्याच्छन्दसि’ इत्युप्रत्ययः ॥ —इदमेव सूत्रं ज्ञापकमिति । अन्यथा दीर्घेणैव सिद्धलादालवचनमनर्थकं स्यात्
SK 3591 · A 7.4.38V
देवसुम्नयोर्यजुषि काठके ॥ ३५९१ ॥
devasumnayoryajuṣi kāṭhake
Siddhānta-kaumudī
अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हावमहे (सु॒म्ना॒यन्तो॑ हवामहे) । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः (दे॒वाञ्जि॑गाति सुम्न॒युः) । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ॥
Subodhinī
alignment inferredNSP p. 618—देवाञ्जिगातीति । नन्विदं प्रत्युदाहरणमङ्गद्वयविकलम् । यजुषि काठक इत्यंशद्वयस्यापि तत्र भावादित्याशङ्क्याह—वह्नुचानामप्यस्तीति । तत्रेदं दृष्टमिति भावः । काठक इति किम् । यजुर्वेदे शास्त्रान्तरे माभूत् । अन्यत्र सुन्नयुरिदमस्ति
SK 3592 · A 7.4.39V
कव्यध्वरपृतनस्यर्चि लोपः ॥ ३५९२ ॥
kavyadhvarapṛtanasyarci lopaḥ
Siddhānta-kaumudī
एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि SK 3076 । जहातेश्च क्त्वि SK 3331 ॥
Subodhinī
NSP p. 618—कव्यध्वर—। कवि अध्वर पृतना एषामन्त्यस्य लोपः स्यात् क्यचि परे ऋचि विषये । मृगय्वादिगणेऽध्वर्युशब्दः पठ्यते तद्युत्पत्त्यन्तरं बोध्यम्
SK 3593 · A 7.4.44V
विभाषा छन्दसि ॥ ३५९३ ॥
vibhāṣā chandasi
Siddhānta-kaumudī
हित्वा शरीरम् । हीत्वा वा ॥
Subodhinī
NSP p. 618–619—विभाषा— जहातेरङ्गस्य विभाषा हि आदेशः स्यात् ॥ —हीत्वेति । हिआदेशाभावे ‘युमास्था—’ इतीत्यम् । क्वचित्तु हात्वेति पाठस्तत्र छान्दसलात् ‘युमास्था—’ इतीत्याभावः ॥ —वसुधितमिति । कर्मधारय इति हरदत्तः । वसूनां धातारं प्रदातारमित्यर्थं इति वेदभाष्यम् ॥ —नेमधितमिति । सामिपर्यायो नेमशब्दः । अयं कर्मधारयः ॥ —धत्स्वेति । ‘श्राभ्यस्तयोरातः’ इत्याकारलोपः । ‘दधस्तयोश्च’ इति भष्भावः ॥ —धिषीयेति । आशीर्लिङ्गत्मनेपदोत्तमपुरुषैकवचने दधातेरित्वं निपात्यते तदाह—आशीर्लिङ्गीति ॥ —माद्भिरिति । ‘पद्मनोमास्—’ इति मासशब्दस्य मास्आदेशः ॥ — न कवतेरिति । अनुवृत्त्यर्थं उपन्यासः ॥ —करीकृष्यत इति । ‘रुग्रिकौ च लुकि’ इति रीगांगमः । लोके तु चरी कृष्यते कृषीवलः ॥ —धृङ्ग इति । धृङ् अनवस्थाने ॥ —धारयतेर्वेति । स एव ण्यन्तः । तत्र दाधर्तीत्यत्र धारयतेः शपः श्लौ णिलुक् अभ्यासस्य दीर्घत्वं च निपात्यते । धृङ्गे वा शे प्राप्ते व्यत्ययेन शप् तत्र श्लावभ्यासस्य दीर्घत्वं च । अत्र परस्मैपदमपि निपात्य तस्यैव यङ्लक्यभ्यासस्य रुगाद्यपवादकं दीर्घत्वं निपात्यत इति । दर्धर्तीत्यत्र यङ्लक्पक्षे दाधर्तीति निपातनेन प्राप्तस्य दीर्घस्याभावो निपात्यते । ‘रुग्रिकौ च लुकि’ ‘ऋतश्च’ इत्येव रुक् सिद्धः । इलुपक्षे तु रुगपि निपात्यः । दर्धर्षीत्यत्र यङ्क्पक्षे न किञ्चिन्निपातनं किं तु श्लावेव । भवतेर्यङ्लगन्ताल्लोद्र गुणाभाव इति । ननु ‘भूसुवोस्तिङि’ इत्येव गुणनिषेधे सिद्धे निपातनमनर्थकमिति चेत्सत्यम् । ज्ञापकार्थं तर्हि निपातनम् । एतज्ज्ञापयति अन्यत्र यङ्लगन्तस्य गुणप्रतिषेधो न भवतीति । तेन बोभवीतीत्यत्र भाषायां गुणः सिद्धस्तदेतदाह—तेन भाषायामिति । तिजेर्यङ्लक्यात्मनेपदं निपात्यते तदाह—तिजेरिति । ऋ गतौ लटि सिपि ‘श्लौ’ इति द्वित्वम् । अभ्यासस्य हलादिःशेषापवादो रेफस्य लत्वं निपात्यते । ‘अर्तिपिपत्योश्च’ इत्यभ्यासस्य प्राप्तस्येत्यस्याभावो निपात्यते । इत्यस्मैपि करोतेर्यङ्लगन्तस्य शतरि अभ्यासस्य चुलाभावो निपाल्यते ‘ऋतश्च—’ इति रिगागमस्तदाह—करोतेरिति ॥—चुत्वाभाव इति । ‘कुहोश्चुः’ इति प्राप्तस्य । विभर्तेर्यङ्छुगन्तस्य शतरि अभ्यासस्य जश्लाभावो निपाल्यते तदाह—विभर्तेरिति ॥—जश्लाभाव इति । ‘अभ्यासे चर्च’ इति प्राप्तस्य ॥—दविध्वत इति । ध्वरतेर्यङ्छुगन्तस्य शतरि रूपम् । ‘नाभ्यस्ताच्छतुः’ इति नुम्प्रतिषेधः । द्युतेर्यङ्छुगन्तस्य शतरि अभ्यासस्य संप्रसारणाभावोऽत्वं च निपाल्यते तदाह—द्युतेरिति ॥—संप्रसारणाभाव इति । ‘द्युतिस्वाप्योः संप्रसारणम्’ इति प्राप्तस्य
SK 3594 · A 7.4.45V
सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ३५९४ ॥
sudhitavasudhitanemadhitadhiṣvadhiṣīya ca
Siddhānta-kaumudī
सु वसु नेम एतत्पूर्वस्य दधाते क्तप्रत्यये इत्वं निपात्यते । गर्भं माता सुधितं वक्षणासु (गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॑सु) । वसुधितमग्नौ । नेमधिता न पौंस्या (ने॒मधि॑ता॒ न पौंस्या॑) । क्तिन्यपि दृश्यते । उत श्वेतं वसुधितिं निरेके (उ॒त श्वे॒तं वसु॑धितिं निरे॒के) । धिष्ववज्रं दक्षिण इन्द्र हस्ते (धि॒ष्ववज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॑) । धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय । आशीर्लिङि इट् । इटोऽत् SK 2257 । धीसीयेति प्राप्ते । अपोभि SK 442 ।
vārttikaमासश्छन्दसीति वक्तव्यम्
(वार्तिकम्) ॥ माद्भिः । शरद्भिः (श॒रद्भिः॑) ।
vārttikaस्ववःस्वतवसोरुषसश्चेष्यते
(वार्तिकम्) ॥ स्ववद्भिः (स्वव॒द्भिः) । समुषद्भिरजायथाः (समु॒षद्भि॑रजायथाः) । मिथुनेऽसिः । वसेः उषः किदिति प्राग्व्याख्यातम् । व कवतेर्यङि SK 2641 ॥
SK 3595 · A 7.4.64V
कृषेश्छन्दसि ॥ ३५९५ ॥
kṛṣeśchandasi
Siddhānta-kaumudī
यङि अभ्यासस्य चुत्वं न । करीकृष्यते ॥
SK 3596 · A 7.4.65V
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च ॥ ३५९६ ॥
dādhartidardhartidardharṣibobhūtutetikte'larṣyāpanīphaṇatsaṃsaniṣyadatkarikratkanikradadbharibhraddavidhvatodavidyutattaritrataḥsarīsṛpataṃvarīvṛjanmarmṛjyāganīgantīti ca
Siddhānta-kaumudī
एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ॥
SK 3597 · A 7.4.74V
ससूवेति निगमे ॥ ३५९७ ॥
sasūveti nigame
Siddhānta-kaumudī
सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ॥
Subodhinī
NSP p. 619—ससूत्रेति निगमे । दाधर्त्यादिध्वेतपठितव्यम् ॥—विवग्रीति । वश कान्तौ । लटि तिपि शपः श्लौ द्विलम् अभ्यासस्येत्वं ‘ब्रश्च’ इति पलम् पुलम् ॥ इति सुवोधिन्यां सप्तमोऽध्यायः ॥ प्रसमुपोदः पादपूरणे । समाहारद्वन्द्वः । समासान्तविधेरनिल्लाद् ‘द्वन्द्वाच्चुदपहान्तात्—’ इति न टच् ॥—प्रप्रायमग्निरिति । नात्र द्विवचनस्य किञ्चिद्द्योत्यं केवलं पादपूरणमेव कार्यम् । नचैवंविधस्य भाषायां प्रयोगोऽस्तीति सामर्थ्याच्छन्दस्येवेदं विधानमिलाहुः
SK 3598 · A 7.4.78V
बहुलं छन्दसि ॥ ३५९८ ॥
bahulaṃ chandasi
Siddhānta-kaumudī
अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥
SK 3599 · A 8.1.6V
प्रसमुपोदः पादपूरणे ॥ ३५९९ ॥
prasamupodaḥ pādapūraṇe
Siddhānta-kaumudī
एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ॥
SK 3600 · A 8.2.15V
छन्दसीरः ॥ ३६०० ॥
chandasīraḥ
Siddhānta-kaumudī
इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ॥
Subodhinī
NSP p. 619—छन्दसीरः ॥—हरिवते इति । हरयो विद्यन्ते यस्येति हरिवान् तस्मै । हरिशब्दान्मनुप् मकारस्य वकारः ॥—गीर्वानिति । ‘वोंरुपधाया दीर्घ इकः’ इति दीर्घः
SK 3601 · A 8.2.16V
अनो नुट् ॥ ३६०१ ॥
ano nuṭ
Siddhānta-kaumudī
अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ॥
Subodhinī
alignment inferredNSP p. 619—अक्षण्वन्त इति । अक्षिशब्दान्मनुप् ‘अस्थिदधिसक्थ्यक्षणामनङ्गुदात्तः’ । ‘छन्दस्यपि दृश्यते’ इत्यनङ् । नुटोऽसिद्धलात्पूर्वं नलोपे भूतपूर्वगल्या नुट् णलम् । ननु यदि परादिर्नुट् क्रियते तस्य मनुवग्रहणेन ग्रहणात् ‘मादुपधायाः—’ इति वत्वं मनुपस्तु न स्यात् नुटा व्यवधानात् । यदि नु पूर्वान्तो नुट् क्रियते तर्हि णत्वं न स्यात् । ‘पदान्तस्य’ इति निषेधादिति चेत्सलम् । नुटोऽसिद्धलात्रोक्तदोषः । नन्वेवमवग्रहे दोषः स्यात् अक्षणिति णान्तं ह्यवग्रहन्ति अक्षेत्यकारान्तमवग्रहीनुमुचितमिति चेत्सलम् । न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नामलक्षणमनुवर्तनीयं तस्माद्यथालक्षणं पदं कर्तव्यमिति महाभाष्ये स्थितम् । किञ्च ईयिवांसमिल्यादौ पदत्वं विनापि अवग्रहः क्रियते । पूर्वेभिरमिनेल्यादौ सत्यपि पदत्वे न क्रियते इति ॥—घस्येति । तरप्तमपोरित्यर्थः । ‘तरप्तमपौ घः’ इति तरप्तमपोर्घसंज्ञाविधानात्
SK 3602 · A 8.2.17V
नाद्घस्य ॥ ३६०२ ॥
nādghasya
Siddhānta-kaumudī
नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ।
vārttikaभूरिदान्नस्तुड्वाच्यः
(वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ।
(वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ॥
Subodhinī
alignment inferredNSP p. 619—सुपथिन्तर इति । सुपथिन्शब्दात् ‘द्विवचनविभज्योपपदे—’ इति तरप् नलोपः । तरपो नुट् तस्यानुस्वारः परसवर्णः ॥—भूरिदात्र इति । भूरिदात्रः परस्य घस्य नुट् वाच्य इत्यर्थः ॥—भूरिदावत्तर इति । ‘आतो मनिन्—’ इत्यादिना दाधातोर्वनिप् तदन्तात्रप् ‘नलोपः प्रातिपदिकान्तस्य’ इति नलोपः तुडागमः ॥—ईद्रथिन इति । रथिन ईकारोऽन्तादेशो घे परे ॥—रथीतर इति । रथशब्दात् ‘अत इनिटनौ’ इति मलर्थीय इनिः । तदन्तात्रप् नकारलोपे कृते ईकारस्य ईकारादेशः । यदि नु नकारलोपापवादो नकारस्थाने ईकारो विधीयते तदा तस्यासिद्धलादेकादेशो न स्यात् ॥—रथीतममिति । इह पदकारा हस्वान्तमवग्रहन्ति । ‘अन्येषामपि’ इति संहितायां दीर्घ इति तदाशयः
SK 3603 · A 8.2.61V
नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ॥ ३६०३ ॥
nasattaniṣattānuttapratūrtasūrtagūrtāni chandasi
Siddhānta-kaumudī
सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ॥
Subodhinī
NSP p. 619–620—नसत्त—। एतानि छन्दसि विषये निपाल्यन्ते ॥—नत्वाभाव इति । ‘रदाभ्याम्—’ इति प्राप्तस्य ॥—निषत्तमिति । ‘सदिरप्रतेः’ इति पलम् ॥—अनुत्तमिति । अनुत्तमिति भाषायाम् । एतन्निपातनारम्भसामर्थ्याद्भाषायां ‘नुदविदोन्दत्र—’ इति विकल्पो नेल्याहुः ॥— प्रतूर्तमिति । यदा लरतेस्तदा ‘ज्वरलर-’ इत्यादिना ऊट् । यदा तुर्वी हिंसायामित्यस्य तदा ‘रास्त्रोपः’ ॥—सृ इत्यस्येति । निपातनादुत्तम् । रपरत्वं तु ‘उरण् रपरः’ इत्येव सिद्धम् । कार्यकालपक्षाश्रयणेन परिभाषाणामसिद्धलप्रकरणेऽपि प्रवृत्तेः ॥—गूर्तमिति । गूर्णमिति भाषायाम् ॥—अम्न-। उभययेति व्याचष्टे—रुवां रेफो वेति । ‘ससजुषो रुः’ इति नित्यं रुत्वे प्राप्ते पक्षे रेफादेशार्थमिदम् । अम्नस्शब्द ईपदर्थं । अम्नरस्तमितमिति यथा । अवो रक्षणम् ॥— अम्न पवेति । यदा रुत्वं तदा ‘भोभगो-’ इति रोयत्वं ‘लोपः शाकल्यस्य’ इति लोपः
SK 3604 · A 8.2.70V
अम्नरूधरवरित्युभयथा छन्दसि ॥ ३६०४ ॥
amnarūdharavarityubhayathā chandasi
Siddhānta-kaumudī
रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ॥
SK 3605 · A 8.2.71V
भुवश्च महाव्याहृतेः ॥ ३६०५ ॥
bhuvaśca mahāvyāhṛteḥ
Siddhānta-kaumudī
भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥
Subodhinī
NSP p. 620—भुवश्च-। महाव्याहतेर्भुवस् इत्येतस्य छन्दसि विषये रुवां रेफो वा । तिस्रो महाव्याहतयः पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः । इह तु मध्यमाया प्रहणम् । महाव्याहतेरिति किम् । भुवो विश्वेषु भुवनेषु । तिङन्तमेतद्भवतेः ‘छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लङ् सिप् शपि गुणाभावद्छान्दसः ‘वहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । लाक्षणिकलादेवास्याग्रहणे सिद्धे महाव्याहतिग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थं, तेन कापयतीत्यादौ युक् सिध्यति ॥—भुव इति । भुव इत्येतदव्ययमन्तरिक्षवाचि महाव्याहतिः ॥—ओम-। अभ्यादानमारम्भस्तदाह—आरम्भे इति । अत्र मुतश्चुत्याच्परिभाषोपस्थानादव एव मुतः । मकारस्त्वर्धमात्रः इति समुदायोऽध्यर्धतुर्यमात्रः संपद्यते
SK 3606 · A 8.2.87V
ओमभ्यादाने ॥ ३६०६ ॥
omabhyādāne
Siddhānta-kaumudī
ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3मग्निमीळे पुरोहितम् (ओ3म॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ॥
SK 3607 · A 8.2.88V
ये यज्ञकर्मणि ॥ ३६०७ ॥
ye yajñakarmaṇi
Siddhānta-kaumudī
ये3यजामहे । यज्ञेति किम् । ये यजामहे ॥
Subodhinī
NSP p. 620—ये यज्ञ-। ये इत्येतस्य यज्ञकर्मणि मुतो भवति
SK 3608 · A 8.2.89V
प्रणवष्टेः ॥ ३६०८ ॥
praṇavaṣṭeḥ
Siddhānta-kaumudī
यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ॥
Subodhinī
NSP p. 620—प्रणवः-। यज्ञकर्मणीति वर्तते । यज्ञकर्मणि टेः प्रणवादेशः स्यात्तदाह—यज्ञकर्मणीत्यादि ॥—जिन्वतोमिति । जिविः प्रीणनार्थः । लट् तिप् टेः प्रणवादेशः ॥—टेः किमिति । ‘वाक्यस्य टेः-’ इत्यतः टेरित्यनुवर्तमाने पुनष्टेर्ग्रहणं किमर्थमिति प्रश्नः । असति हि टिग्रहणे ‘अलोऽन्त्यस्य’ इति वचनाटेः योऽन्त्योऽल् तस्यौकारः स्यात् तस्मात्सर्वादेशार्थं टिग्रहणमित्याह—हलन्तेत्यस्य माभूदिति । अजन्ते विशेषाभावाद्धलन्ते इत्युक्तम्
SK 3609 · A 8.2.90V
याज्याऽन्तः ॥ ३६०९ ॥
yājyā'ntaḥ
Siddhānta-kaumudī
ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ॥
Subodhinī
NSP p. 620—याज्यान्तः—ये याज्या मन्त्रा इति । याज्याकाण्डे पत्यन्ते ये मन्त्रा याज्यानुवाक्याकाण्डमिति समाख्याते प्रकरणे ये मन्त्रा इत्यर्थः ॥— तेषामिति । मन्त्राणामित्यर्थः । तासामिति पाठे तासां याज्यानाम् । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्विशेषणं वा । आये चान्ते विशेषिते अजन्ताया एव याज्यायाः मुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकं टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह—अन्तः किमिति । इतरोऽपि विदिताभिप्राय आह—याज्यानामृचामिति । याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपाः तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः मुतः प्राप्नोति स चान्तस्यैवेष्यते तदर्थमन्तग्रहणमिति भावः
SK 3610 · A 8.2.91V
ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ३६१० ॥
brūhipreṣyaśrauṣaḍvauṣaḍāvahānāmādeḥ
Siddhānta-kaumudī
एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ॥
SK 3611 · A 8.2.92V
अग्नीत्प्रेषणे परस्य च ॥ ३६११ ॥
agnītpreṣaṇe parasya ca
Siddhānta-kaumudī
अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ॥
Subodhinī
NSP p. 620—अग्नीत्प्रेषणे परस्य च । अग्नीधः प्रेषणमग्नीत्प्रेषणं तस्मिन् तदाह—अग्नीधः प्रेषण इति
SK 3612 · A 8.2.93V
विभाषा पृष्टप्रतिवचने हेः ॥ ३६१२ ॥
vibhāṣā pṛṣṭaprativacane heḥ
Siddhānta-kaumudī
प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ॥
Subodhinī
NSP p. 620—विभाषा पृष्टप्रतिवचने । विभाषा हेः मुतो भवति
SK 3613 · A 8.2.94V
निगृह्यानुयोगे च ॥ ३६१३ ॥
nigṛhyānuyoge ca
Siddhānta-kaumudī
अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥
Subodhinī
NSP p. 620—निगृह्या-। निगृह्येति त्यवन्तम् । स्वमतात्प्रच्यवनं निग्रहः तस्यैव स्वमतस्य । एवं किल त्वं निरुपपत्तिकमात्थेति शब्देन प्रतिपादनमनुयोगः तत्र यद्वाक्यं तदाह—अत्र यद्वाक्यमिति । निष्टस्योत्यात्येति । तदेव विवृणोति—अमावास्येत्येवमित्यादि
SK 3614 · A 8.2.95V
आम्रेडितं भर्त्सने ॥ ३६१४ ॥
āmreḍitaṃ bhartsane
Siddhānta-kaumudī
दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ॥
Subodhinī
alignment inferredNSP p. 620–621—दस्यो३दस्यो३ इति । ‘वाक्यादेरामन्त्रितस्य’ इत्यादिना द्विर्वचनम् । ननु द्विरुक्तसमुदाये परभागस्यैव मुतः प्राप्नोति स ता एवं स्यात् । तस्य वाक्यप्रेषितम्’ इति परमागस्यैवाम्नेडितसंज्ञाविधानात् इष्यते द्वयोरपीलाह—आम्नेडितग्रहणमित्यादि ॥—द्विरुकोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणमित्यर्थः । एतच्चाम्नेडितस्य भर्त्सने वृत्त्यसंभवाल्लभ्यते
SK 3615 · A 8.2.96V
अङ्गयुक्तं तिङ् आकाङ्क्षम् ॥ ३६१५ ॥
aṅgayuktaṃ tiṅ ākāṅkṣam
Siddhānta-kaumudī
अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥
Subodhinī
alignment inferredNSP p. 621—अङ्गयुक्तम् । आकाङ्क्षतीत्याकाङ्क्षं पचाद्यच् ॥—तिङ्न्तमिति । आकाङ्क्षं तिङ्न्तमित्यर्थः ॥—अङ्ग कूज ३ इति । अङ्गशब्दोऽमर्वे कूज अव्यक्ते लोणमध्यमपुरुषैकवचनम् ॥—ज्ञास्यसि जाल्मेति । कूजनफलमस्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः ॥—अङ्ग देवदत्तेति । अङ्गशब्दोऽत्रानुनये अङ्ग देवदत्तेत्येकं वाक्यम् । एतच्च मिथ्या वदस्येतदपेक्षते
SK 3616 · A 8.2.97V
विचार्यमाणानाम् ॥ ३६१६ ॥
vicāryamāṇānām
Siddhānta-kaumudī
वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥
Subodhinī
NSP p. 621—विचार्यमाणानाम् । ‘कोटिद्वयस्पृश्वज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ॥’ इह तु विचार्यमाणविषयलाद्वाक्यानि विचार्यमाणानि ॥—गृहा ३ इति । सप्तम्येकवचनान्तस्य गृहे इत्यस्य ‘एचोऽग्रगृह्यस्ये’ति इति विकारः
SK 3617 · A 8.2.98V
पूर्वं तु भाषायाम् ॥ ३६१७ ॥
pūrvaṃ tu bhāṣāyām
Siddhānta-kaumudī
विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥
Subodhinī
NSP p. 621—पूर्वं तु—पूर्वं गैव सिद्धे नियमार्थमिदम् । तुशब्दस्त्वर्थतोऽवधारणार्थः । यथैवं विज्ञायेत पूर्वमेव इति इति मैवं विज्ञायि पूर्वं भाषायामेवेति । उदाहरणे तुशब्दो वितर्के
SK 3618 · A 8.2.99V
प्रतिश्रवणे च ॥ ३६१८ ॥
pratiśravaṇe ca
Siddhānta-kaumudī
वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ॥
Subodhinī
NSP p. 621—प्रतिश्रव—प्रतिश्रवणार्थमाह—अभ्युपगमे इत्यादि । अङ्गीकारे इत्यर्थः ॥—प्रतिज्ञाने इति । अत्रोभयत्रापि गतिसमासः । अर्थद्वयेऽपि प्रतिपूर्वः शृणोतिः प्रसिद्धः ॥— आभिमुख्ये चेति । अत्र ‘लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः ॥—दत्त किमात्य ३ इ इति । किं व्रूषे इत्येव पृच्छ्यते । अत्र श्रवणाभिमुख्यं गम्यते
SK 3619 · A 8.2.100V
अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ ३६१९ ॥
anudāttaṃ praśnāntābhipūjitayoḥ
Siddhānta-kaumudī
अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ॥
Subodhinī
NSP p. 621—अनुदात्तं प्रश्नान्त—प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः । नानेन इतो विधीयते किं तु दूराद्धूतादिषु विहितस्य इतस्योदात्तत्वे प्राप्ते प्रश्नान्ताभिपूजितयोरनुदात्तलगुणमात्रं विधीयते तदाह—दुराद्धूतादिष्विति । तत्रैषा वचनव्यक्तिः । प्रश्नान्ते अभिपूजिते च यः इतः सोऽनुदात्तो भवतीति । तत्राभिपूजिते ‘दूराद्धूते च’ इति इति । इतरत्र तु अनन्त्यस्यापि ‘प्रश्नाख्यानयोः’ इति ॥—अग्निभूत ३ इ इति ॥—पट ३ उ इति । अगमाः पूर्वान् ग्रामान् इत्येतद्वाक्यं अग्निभूते पटो इत्यनन्तरेण समाप्तं तत्र अगमा इत्येवमादीनामनन्त्यस्यापि प्रश्नाख्यानयोः’ इति स्वरितः । इतः अग्निभूते पटो अनयोरनुदात्तः । अभिपूजिते उदाहरणमाह— शोभनः खल्वसीत्यादि
SK 3620 · A 8.2.101V
चिदिति चोपमाऽर्थे प्रयुज्यमाने ॥ ३६२० ॥
ciditi copamā'rthe prayujyamāne
Siddhānta-kaumudī
वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥
Subodhinī
NSP p. 621—चिदिति चोप—। चिदित्येतन्निपाते उपमानेऽर्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः इतो भवतीत्यर्थः । इतोऽप्यत्राज्जिधीयते न गुणमात्रम् । इतीति किम् । अक्रियमाणे तस्मिन्नुपमानेऽर्थे कस्मिंश्चिच्छब्दे प्रयुज्यमाने चिच्छब्दः इति विज्ञायते । इतिशब्दे तु सति प्रयुज्यमान इत्येतच्चिच्छब्दस्य विशेषणं इतस्तु ‘वाक्यस्य टेः—’ इत्यधिकारात्तस्यैव भवतीति मनसि विभाव्योदाहरणमुखेनाह—अग्निचिदिव भायादिति । अत्र न चिच्छब्दस्य इतः किं तु भायादित्यस्यैव । अक्रियमाणे तु इतिशब्दे चिच्छब्दस्यैव इतः स्यात् अग्निचिद्भाया ३ दित्यत्र न स्यादिति भावः ॥—कथंचिदिति । अत्र कष्टे चिच्छब्दः ॥—अग्निमाणवको भायादिति । अग्निरिव माणवको दीप्यत इत्यर्थः । अत्रोपमानार्थस्य गम्यमानलादस्ति चिच्छब्दस्य प्रतीतिः । प्रयोगस्तु नास्ति । यद्यन्येषामप्युपमानार्थानामिवादीनामस्ति प्रतीतिस्तथापि चिच्छब्दस्यापि तावदस्तीति भावः
SK 3621 · A 8.2.102V
उपरिस्विदासीदिति च ॥ ३६२१ ॥
uparisvidāsīditi ca
Siddhānta-kaumudī
टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् SK 3616 इत्युदात्तः प्लुतः ॥
Subodhinī
NSP p. 621—उपरिस्विदासीदिति । अत्रापि विचार्यमाणानामिति विहितस्य इतस्य गुणमात्रं विधीयते
SK 3622 · A 8.2.103V
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ॥ ३६२२ ॥
svaritamāmreḍite'sūyāsammatikopakutsaneṣu
Siddhānta-kaumudī
स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ॥
Subodhinī
NSP p. 621–622—स्वरितमाम्नेडिते—। उदाहरणे सर्वत्र वाक्यादेरामच्चित्तस्येति द्विर्व- चनम्
SK 3623 · A 8.2.104V
क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् ॥ ३६२३ ॥
kṣiyā''śīḥpraiṣeṣu tiṅ ākāṅkṣam
Siddhānta-kaumudī
आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रंश्च लप्सीष्ट 3 धनं च तात । व्यापारणे । कटं कुरु 3 ग्रामं गच्छ । आकाङ्क्षं किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ॥
Subodhinī
NSP p. 622—क्षियाशीः—। क्षिया आचारोल्लङ्घनम् । इष्टाशंसनमाशीः ॥—दीर्घायुरसि अग्नीदग्नीन्विहरेति । क्षियायां तु न प्रत्युदाहतं नित्यसाकाङ्क्षलात् । न हि खयं ह रथेन यातीत्युक्ते आचारभेदो गम्यते किं तर्हि उपाध्यायं पदातिं गमयतीत्युक्ते ॥—भुतावै—। उदाहरणे 'गुरोरनृतः'—इति भुतः ॥—चतुर्मात्राविति । एचौ समाहारवर्णौ तत्र मात्रा अवर्णस्य मात्रेवर्णवर्णयोः । तत्र ईद्वृत्तोः भुते कृते तयोस्तिस्रो मात्राऽवर्णस्य चैका मात्रेति समुदायश्चतुर्मात्र इत्यर्थः । नन्वत्रार्धमात्राऽवर्णस्याध्यर्धमात्रेवर्णोवर्णयोरिति मतेऽर्धचतुर्थमात्रावप्येचौ प्रामुतः । सत्यम्, 'चतुर्मात्रः भुत इष्यते' इति भाष्यात् समविभाग एवात्राश्रीयत इति भावः ॥ परिगणनमाह—प्रश्नान्तेत्यादि । 'अनुदात्तं प्रश्नान्ताभिपूजितयोः' 'अनन्त्यस्यापि प्रश्नाख्यानयोः' इति चानुदात्तः स्वरितो वा भुतः । अभिपूजिते अनुदात्तं प्रश्नान्ताभिपूजितयोः' इति भुतः । विचार्यमाणे 'विचार्यमाणानाम्' इति भुतः । प्रत्यभिवादे 'प्रत्यभिवादेऽश्वदे' इति भुतः । याज्यान्ते 'याज्यान्ते' इति भुतः ॥—विष्णुभूते इति । नन्विदं परिगणनस्योदाहरणमयुक्तं यावता सूत्रे एवाद्दूराद्भूत इत्युच्यते अत आह— अदूराद्भूत इति न वक्तव्यमिति । अन्यार्थमवश्यं कर्तव्ये परिगणने तेनैव सिद्धत्वात् अदूराद्भूत इति न वक्तव्यम्
SK 3624 · A 8.2.105V
अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ ३६२४ ॥
anantyasyāpi praśnākhyānayoḥ
Siddhānta-kaumudī
अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ॥
SK 3625 · A 8.2.106V
प्लुतावैच इदुतौ ॥ ३६२५ ॥
plutāvaica idutau
Siddhānta-kaumudī
दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ॥
SK 3626 · A 8.2.107V
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ॥ ३६२६ ॥
eco'pragṛhyasyādūrāddhūte pūrvasyārdhasyāduttarasyedutau
Siddhānta-kaumudī
अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ।
vārttikaप्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव
(वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ।
vārttikaआमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः
(वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ॥
Subodhinī
alignment inferredNSP p. 622–623— भद्रं करोषि गौरिति । अत्रासर्वनामस्थान इति प्रतिषेधात्सौ परतः पूर्वपदं न भवति ॥—शोभने माले ३ इति । 'ईद्ददेद्'—इति प्रगृह्यसंज्ञा ॥—आमन्त्रिते इति । अप्राप्ते एव भुते वचनम् ॥—अग्न ३ इ इति । अग्निशब्दस्य संयुद्धौ रूपं 'सामन्त्रितम्' इति आमन्त्रितसंज्ञा ॥—तयोर्ध्वा—। नन्विदं व्यर्थम् 'इको यणचि' इत्यनेनैव सिद्धमत आह—इदुतोरसिद्धत्वादिति । ननु सिद्धः भुतः स्वरसन्धिषु कथं ज्ञायते । 'भुतप्रगृह्या अचि'—इति प्रकृतिभावविधानात् । यस्य हि विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, भुतस्यासिद्धत्वेन तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति । अस्तु भुतः सिद्धः किमायातमिदुत्तोः । उच्यते । भुतकरणे यत्कार्यं तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वात्सिद्ध एव यणादेशोऽत आह—सवर्णदीर्घत्वस्येति । यदीदं नोच्यत अग्न ३ इ इन्द्रं पट ३ उ उदकमित्यत्र षाष्टिकं यणादेशं वाधित्वा सवर्णदीर्घः स्यात् । अग्न ३ याशेत्यादौ च 'इकोऽसवर्णे शाकल्यस्'— इति प्रकृतिभावः स्यात्तद्वाधनार्थमिदं वक्तव्यमेव । ननु च तन्निवृत्तये यत्नान्तरमस्ति किं पुनस्तत्सुतस्य यणादेशो वक्तव्यः सवर्णदीर्घनिवृत्त्यर्थः शाकलनिवृत्त्यर्थश्च । तच्चावश्यं वक्तव्यं य इक् भुतपूर्वः न च भुतविकारः भो इ इन्द्रं भो इ यिन्द्रं गायतीति भोशब्दस्य छान्दसः भुतः, ततः परस्येकारस्य निपातत्वात् प्रकृतिभावे प्राप्ते तं वाधित्वा यणादेशः । तदेवं तस्यावश्यं कर्तव्यत्वेनैव यणा सिद्धेऽत आह—यवयोरिति । तथाचोक्तं वृत्तिकृता—'किं तु यणा भवतीह न सिद्धं ध्वाविदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥ इक् च यदा भवति भुतपूर्वस्तस्य यणं विदधात्यपनादाम् ॥ जेन तमोश्च न शाकलदीर्घविधी यणस्वरवाधनमेव तु हेतुः' ॥ अयमर्थः । 'इको यणचि' इति यणादेशेन किं रूपं प्रसिध्यति यतोऽयमाचार्यः इदुतोऽर्थों विधदाति तौ चेदुतौ खरसन्धिषु सिद्धौ । ममेति सूत्रकारेणैकीभूतस्य वचनम् । एवं चोदिते परिहरति—शाकलदीर्घविधौ तु निवत्यांविति । शाकलस्येदं शाकलं ‘कण्वादिभ्यो गोत्रे’ इत्यण् । पुनश्चोदयति—इक् च यदेति । वार्तिककारोऽपि इकः इत्यपूर्वस्य यणं विदधाति । स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः । ततश्च तेनैव यणा एतयोरपि इदुतोः शाकलदीर्घो न भविष्यति इति नार्थं एतेन । परिहरति— यण्खरेति । यण्खरवाधनार्थमेव हेतुः सूत्रारम्भस्येति ॥—मतु—। अनुवन्धपरित्यागेन सकारान्तस्य वस् इत्यस्य मतुपा सह द्वन्द्वः । अल्पाच्चतरस्यापि सौत्रः परनिपातः ॥—मरुत्व इति । मरुतो यस्य सन्तीति मतुप् ‘झञः’ इति वत्वं ‘तसौ मत्वये’ इति भत्वाज्ज्वलं न ॥—हरिवो मेदिनमिति । हरयों विद्यन्ते यस्येति मतुप् । हरिवच्छब्दात्संद्युच्चेकवचने ‘उगिदचाम्—’ इति नुम् । हल्ङ्यादिलोपे संयोगान्तलोपे च कृते नकारस्य रुः ‘संयोगान्तलोपो रुत्वे सिद्धो वक्तव्यः’ इति वचनात् ‘हशि च’ इत्युत्तम् ॥ प्रसङ्गादाह—दाश्वानिति ॥—कनिब्वनिपोः सामान्येन ग्रहणमिति । अनुवन्धनिर्देशात्तदनुवन्धकपरिभाषाया अनुपस्थानात् कनिपोऽपि ग्रहणम् ॥—प्रातरित्व इति । प्रातरेतीति छवि ‘अन्येभ्योऽपि दृश्यन्ते’ इति कनिप् । ‘हस्वस्य पिति कृति तुरु’ । तदाह—इनः कनिविति ॥—उभयथा—। ‘नदल्यप्रशान्’ इति वर्तते । तेनैव नित्ये प्राप्ते विकल्पार्थं वचनम्
SK 3627 · A 8.2.108संहिताधिकारः (तृतीयः)
तयोर्य्वावचि संहितायाम् ॥ ३६२७ ॥
tayoryvāvaci saṃhitāyām
Siddhānta-kaumudī
इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य SK 3657 इत्यस्य बाधनार्थो वा ॥
SK 3628 · A 8.3.1V
मतुवसो रु सम्बुद्धौ छन्दसि ॥ ३६२८ ॥
matuvaso ru sambuddhau chandasi
Siddhānta-kaumudī
रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य SK 42 इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः SK 3600 इति वत्वम् ॥
SK 3629 · A 6.1.12V
दाश्वान् साह्वान् मीढ्वांश्च ॥ ३६२९ ॥
dāśvān sāhvān mīḍhvāṃśca
Siddhānta-kaumudī
एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ।
(वार्तिकम्) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ॥
SK 3630 · A 8.3.8V
उभयथर्क्षु ॥ ३६३० ॥
ubhayatharkṣu
Siddhānta-kaumudī
अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ॥
Subodhinī
alignment inferredNSP p. 623—पशून्तांश्चक्रे इति । पशून् तानिति स्थिते नस्य रुः । पूर्वत्र ‘अत्रानुनासिकः—’ इति वानुनासिकः । उत्तरत्र तु ‘आतोऽटि नित्यम्’ इत्यनुनासिकः । रेफस्य विसर्गः । तस्य ‘विसर्जनीयस्य’ इति सः
SK 3631 · A 8.3.9V
दीर्घादटि समानपादे ॥ ३६३१ ॥
dīrghādaṭi samānapāde
Siddhānta-kaumudī
दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवां अच्छा सुमती (दे॒वां अच्छा॑ सुम॒ती) । महां इन्द्रो य ओजसा (म॒हां इन्द्रो॒ य ओज॑सा) । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे (आ॒दित्यान्या॑चिषामहे) ॥
Subodhinī
NSP p. 623—दीर्घादृटि समानपादे । एकपर्यायः समानशब्दस्तदाह— तौ चेन्नाटावेकपादस्थाविति । नाटौ नकाराटौ ॥—देवाँ अच्छा ॥—महाँ इन्द्रो इति । देवान् अच्छा महा-निति नस्य रुः । ‘आतोऽटि नित्यम्’ इति नित्यमनुनासिकः ॥—नेहेति । एतेन महान् हि स इति वङ्मवानां पाठोऽपि व्याख्यातः । आकरे तु महां हीत्युदाहृतं तच्छाखान्तरे अन्वेषणीयम् ॥—एवं चेति । विकल्पस्यैव व्यवस्थिततया प्रकृतसूत्रत्यागेन महाशयवं सूत्रारम्भे तु व्यत्ययोऽपि शरणीकरणीय इति महान् क्लेश इति भावः
SK 3632 · A 8.3.3V
आतोऽटि नित्यम् ॥ ३६३२ ॥
āto'ṭi nityam
Siddhānta-kaumudī
अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥
SK 3633 · A 8.3.11V
स्वतवान् पायौ ॥ ३६३३ ॥
svatavān pāyau
Siddhānta-kaumudī
रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ॥
Subodhinī
NSP p. 623—स्वतवान् । स्वत-वानित्येतस्य नकारस्य रुर्वा पायुशब्दे परे ॥—स्वतवा इति । तु वृद्धो सौत्रो धातुः ततोऽपुन् । स्वं तवो यस्यासौ स्वतवान् । ‘दक्खवःस्वतवसां छन्दसि’ इति नुम्
SK 3634 · A 8.3.49V
छन्दसि वाऽप्राम्रेडितयोः ॥ ३६३४ ॥
chandasi vā'prāmreḍitayoḥ
Siddhānta-kaumudī
विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ॥
Subodhinī
alignment inferredNSP p. 623—परुषः परुष इति । वीप्सायां द्विर्वचनम्
SK 3635 · A 8.3.50V
कःकरत्करतिकृधिकृतेष्वनदितेः ॥ ३६३५ ॥
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ
Siddhānta-kaumudī
विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ॥
Subodhinī
NSP p. 623—कः करत्—करिति कृत्रो लुङ् ‘मन्त्रे घस—’ इत्यादिना च्छेलुक् तिपि गुणः । हल्ङ्यादिलोपः । ‘वहुलं छन्दस्यमाङ्ग्योगेपि’ इत्यङ्-भावः । करदिति कृत्र एव लुङ् । ‘क्रुमृदरुहिभ्यश्छन्दसि’ इति च्छेरङ् । ‘कृदृशोऽङ्कि—’ इति गुणः । करतीति लट् व्यत्ययेन शप् । कृधीति लोट् मेहिः । ‘शुभ्रगुप्तकृदृभ्यश्छन्दसि’ इति हेर्धिरादेशः । कृत इति कृत्र एव क्तः ॥—पर्योज इति । अत्र परिः सर्वतोभावे
SK 3636 · A 8.3.51V
पञ्चम्याः परावध्यर्थे ॥ ३६३६ ॥
pañcamyāḥ parāvadhyarthe
Siddhānta-kaumudī
पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ॥
SK 3637 · A 8.3.52V
पातौ च बहुलम् ॥ ३६३७ ॥
pātau ca bahulam
Siddhānta-kaumudī
पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ॥
Subodhinī
NSP p. 623–624—पातौ च—। क्वचित्प्रकाते पताविति ॥—धातुनिर्देश इति । अन्ये तूदाहरण- पर्यालोचनया लोडन्तानुकरणं मन्यन्ते
SK 3638 · A 8.3.53V
षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ३६३८ ॥
ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu
Siddhānta-kaumudī
वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ॥
Subodhinī
NSP p. 624—षष्ठ्याः—॥—वाचस्पतिमिति । ‘तत्पुरुषे कृतिवहुलम्’ इति षष्ठ्यलङ्क्
SK 3639 · A 8.3.54V
इडाया वा ॥ ३६३९ ॥
iḍāyā vā
Siddhānta-kaumudī
पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने SK 2403 निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ॥
Subodhinī
alignment inferredNSP p. 624—निसस्तपता—। आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्नित्यर्थः
SK 3640 · A 8.3.103V
युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ ३६४० ॥
yuṣmattattatakṣuḥṣvantaḥpādam
Siddhānta-kaumudī
पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ॥
Subodhinī
NSP p. 624—युष्मत्तत्तत्क्षुष्विति ॥ सकारान्तानुकरणात् परस्य सुप्सकारस्य ‘नुम्विसर्जनीयशर्व्यवायेऽपि’ इति षलम् ॥ ‘ह्रस्वात्तादौ—’ इत्यतः तादाविति वर्तते । तदाह—तकारादिष्विति । एतद्युष्मद एव विशेषणं नेतरयोरव्यभिचारात् ॥—त्वं त्वा ते तवा इति । एतेषामेव संभव इत्यर्थः
Bālamanoramā
युष्मत्तत्ततक्षुःष्वन्तःपादम् - ह्रस्वात्तादौ ।इण्को॑रित्यत इण्ग्रहणमनुवर्तते । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इति च । तदाह — ह्रस्वादिण इति । निष्ट इति त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः ।अरण्याण्ण्य इति । 'वक्तव्य' इति शेषः । आरण्याः सुमनस इति ।स्तिरयः सुमनसः पुष्प॑मित्यमरः । अरण्ये भवा इत्यर्थे णप्रत्यये टापि 'आरण्या' इति रूपम् । अणि तु ङीप् स्यादिति भावः । दूरादेत्य इति । 'वक्तव्य' इति शेषः । दूरेत्य इति । दूरादागतः, दूरे भव इति वाऽर्थः । दूरादित्यव्ययादेत्यप्रत्ययेऽव्ययानां भमात्रे इति टिलोपः ।उत्तरादाहञिति । 'वाच्य' इति शेषः । औत्तराह इति । उत्तरस्मादागतः, उत्तरस्मिन् भव इति वाऽर्थः । औत्तर इति त्वसाधु ।
SK 3641 · A 8.3.104V
यजुष्येकेषाम् ॥ ३६४१ ॥
yajuṣyekeṣām
Siddhānta-kaumudī
युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥
SK 3642 · A 8.3.105V
स्तुतस्तोमयोश्छन्दसि ॥ ३६४२ ॥
stutastomayośchandasi
Siddhānta-kaumudī
नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥
Subodhinī
NSP p. 624—स्तुतस्तोमयोः—। एतयोः परतः सस्य षत्वं स्यात् ॥—पूर्वपदादित्येव सिद्धं इति । पूर्वं पदं पूर्वं-पदमिति सामान्यत आश्रीयते न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षलमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थं छन्दोग्रहणं तूतरार्थं कर्तव्यमेव ॥—ऊषुण इत्यादि । ‘इकः सुञ्जि’ इति पूर्वपदस्य दीर्घत्वं नस् इत्यादेशस्य ‘नश्व धातुस्थोरुषुभ्यः’ इति णलम्
SK 3643 · A 8.3.106V
पूर्वपदात् ॥ ३६४३ ॥
pūrvapadāt
Siddhānta-kaumudī
पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ॥
SK 3644 · A 8.3.107V
सुञः ॥ ३६४४ ॥
suñaḥ
Siddhānta-kaumudī
पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ॥
SK 3645 · A 8.3.108V
सनोतेरनः ॥ ३६४५ ॥
sanoteranaḥ
Siddhānta-kaumudī
गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ॥
Subodhinī
NSP p. 624—सनोतेरनः । अन्नन्तस्य सनोतेः सस्य षः स्यात् ॥—गोषा इति । ‘जनस-नखनक्रमगमो विट्’ । ‘विड्डनो—’ इत्यालम् ॥—गोसनिरिति । ‘छन्दसि वनिसनिरक्षिमथाम्’ इतीन्प्रत्ययः
SK 3646 · A 8.3.109V
सहेः पृतनर्ताभ्यां च ॥ ३६४६ ॥
saheḥ pṛtanartābhyāṃ ca
Siddhānta-kaumudī
पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥
SK 3647 · A 8.3.119V
निव्यभिभ्योऽड्व्यवाये वा छन्दसि ॥ ३६४७ ॥
nivyabhibhyo'ḍvyavāye vā chandasi
Siddhānta-kaumudī
सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥
Subodhinī
NSP p. 624—निव्यभिभ्यो—। ‘न रपर—’ इत्यतो नेति वर्तते तत्र निषेधविकल्पे विधिविकल्प एव फलतीत्याह—मूर्धन्यो वा स्यादिति ॥—अभ्यग्रौदिति । ‘उतो वृद्धिर्लुकि हलि’ इति वृद्धिः
Bālamanoramā
निव्यभिभ्योऽड्व्यवाये वा छन्दसि - सुनोतेः स्यसनोः ।अपदान्तस्य मूर्धन्यःर॑ इत्यधिकृतम् ।न रपरे॑त्यतो नेत्यनुवर्तते । तादह — षो न स्यादिति । स्ये उदाहरति — विसोष्यतीति । अत्रउपसर्गात्सुनोती॑ति प्राप्तः षो न भवति । सनि तुअभिसुसू॑रित्युदाहरणम् । षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे 'र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः । सुसूषतीति तु नोदाहरणं,स्तौतिण्योरेव षण्यभ्यासा॑दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम् । षिञ् बन्धने इति । षोपदेशः, अनिट् च । षुञ इव रूपाणि । विसिनोतीति ।सात्पदाद्यो॑रिति षत्वनिषेधः ।उपसर्गात्सुनोती॑ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धावायादेशः । अतुसादौ 'एरनेकाचः' इति यण् । सिष्यतुरित्यादि । लटस्तङ्याह — सिष्ये इति । सिषि ए इति स्थिते 'एरनेकाच' इति यणिति भावः । सिष्याते सिष्यिरे इत्यादि । असैषीत् । षिञ् निशाने इति । षिञ्वत् । डु मिञ् प्रक्षेपणे इति । मिनोति । उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह — मीनातिमिनोतीत्यात्त्वमिति ।एज्विषये अशिती॑ति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम् । 'एरनेकाचः' इतियण् । मिम्यतुः । मिम्युः । भारद्वाजनियमात्थलि वेडिति मत्वा आह — ममिथ ममाथेति । थलः पित्त्वेन अकित्त्वादेज्विषयत्वम् । इट्पक्षे 'आतो लोपः' इति भावः । मिम्यथुः मिम्य । ममौ मिम्यिव मिम्यिम । लिटस्तङ्याह — मिम्ये इति । एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः । मिम्याते मिम्यिरे । मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे ।मिम्ये मिम्यिवहे मिम्यिमहे । मातेति । एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः । मास्यि मास्यते । सार्वधातुकेषु षुञ्वत् । मीयादिति । आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावेअकृत्सार्वधातुके॑ति दीर्घ इति भावः । अमासाताममासात इत्यादि । चिञ् चयने इति । चयनं = रचना । अनिट् । सार्वधातुके षुञ्वद्रूपाणि । प्रणिचिनोतीति । नेर्गदे॑ति णत्वमिति भावः ।
SK 3648 · A 8.4.26V
छन्दस्यृदवग्रहात् ॥ ३६४८ ॥
chandasyṛdavagrahāt
Siddhānta-kaumudī
ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ॥
Subodhinī
NSP p. 624—छन्दस्यृदव—। अवगृह्यते ‘विच्छिद्य पठ्यते इत्यवग्रहः । ऋचासाववग्रहश्च ऋदवग्रहस्तसात् ॥—नृमणा इति । अत्र संहिताधिकारात्संहिताकाल एव एतेषां णत्वं पदकाले चावग्रहः क्रियते । तेनावग्रहयोग्यत्वादकारोऽवग्रह इत्युक्तः न तु तद्दशापन्नः । अत्र हि नृमना इति पदकालेऽवग्रह्यते ॥—नश्च—। धातुस्थान्निमित्तादुत्तरस्य उरुशब्दात् षुशब्दाच्च परस्य नस् इत्येतस्य णः स्यात् । धातौ तिष्ठतीति धातुस्थो रेफः षकारश्च । उरु इति स्वरूपग्रहणं । षु इति कृतषलस्य सुञ्जो ग्रहणं न सप्तमीवहुवचनस्य । तेन ‘इन्द्रो धर्ता गृहेषु नः’ इत्यादौ न । नसिति नासिकादेशस्य नसादेशस्य च सामान्येन ग्रहणम् ॥—रक्षा ण इति । रक्षेति लोटो मध्यमपुरुषैकवचनान्तं ‘ब्यचोतस्तिङः’ इति दीर्घः
SK 3649 · A 8.4.27V
नश्च धातुस्थोरुषुभ्यः ॥ ३६४९ ॥
naśca dhātusthoruṣubhyaḥ
Siddhānta-kaumudī
धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥
Subodhinī
alignment inferredNSP p. 624–625—उरुणस्कृधीति । कृञ्जो लोट् सेर्हिः ‘शुभ्रणुपूकृष्ट्व-भ्यश्छन्दसि’ इति हेर्धिः । ‘कः करत्—’ इत्यादिना विसर्जनीयस्य सलम् ॥—अभीषुण इति । ‘इकः सुञ्जि’ इति दीर्घः । एवं मोषुण इत्यत्रापि । सर्वत्रोदाहरणे अस्मदादेशो नस् ॥ अनुदात्तं पदम्—परिभाषेयमिति । नाधिकारोऽखरितलात् । ‘आद्युदात्तश्च’ ‘समानोदरे शयित ओ चोदात्तः’ इत्यादीनामसंग्रहश्च स्यात् ॥ परिभाषाया लिङ्गापेक्षायामाह—स्वरविधीति । सूत्रे अनुदात्तशब्दोऽशंआद्यजन्तः पद-सामानाधिकरण्यात् । अत्रानुदात्तस्य क्रियमाणलात् तद्भिन्न उदात्तः स्वरितो वा वर्ज्यत इत्याह—तमेकमिति । यत्तदोर्नित्यसंबन्धाद्यस्योदात्तस्वरितविधानं तस्यैव वर्जनम् । एकग्रहणं विधीयमानस्योपलक्षणम् । तेन ‘तवै चान्तश्च युगपत्’ इति द्वयोर्वर्जनम् । इन्द्रावृहस्पती इत्यत्र ‘देवताद्वन्द्वे च’ इति सूत्रेण पदद्वयस्यापि प्रकृतिस्वरे विधेये त्रयाणां वर्जनम् । वृहस्पतिशब्दो हि वनस्पत्यादिलादाद्युदात्त इति स्थितम् ॥—गोपायतमिति । गुप इत्यस्य ‘धातोः’ इत्यन्त उदात्तः । तत आयः प्रत्ययः ‘आद्युदात्तश्च’ इति प्रत्ययस्वरेणाद्युदात्तः । ततः ‘सनाद्यन्ताः’— इति धातुसंज्ञायां ‘धातोः’ इति यकाराकार उदात्तः । स च प्रायुक्तयोरुदात्तयोः सतोः पश्चात्प्रवृत्तलात्सति शिष्टः अतो वलवान् । तस्य ‘अनुदात्तौ सुप्पितौ’ इत्यनेनानुदात्तेन शवकारेण सह ‘अतो गुणे’ इति पररूपे कृते ‘एकादेश उदात्तेनोदात्तः’ इत्युदात्तः । यसस्तमादेशः । तस्य ‘तास्यनुदात्तेन्द्रिद्रुपदेशात्’— इत्यनेनादुपदेशात्परत्वादनुदात्तलम् । तस्य ‘उदात्तादनुदात्तस्य’— इति स्वरितः । नन्वत्र तमिति स्वरितमाश्रित्य ‘अनुदात्तं पदम्’— इति परिभाषया शेषनिधातः स्यादिति चेन्मैवम् । यथोदेश-पक्षाश्रयणेनेयं परिभाषा त्रिपाद्यां न प्रवर्तते इत्यत्र ज्ञापकं तव्यतस्तित्त्वं ‘यतोऽनावः’ इति च
Bālamanoramā
उपसर्गादनोत्परः (उपसर्गाद् बहुलम्) - ॒अनोत्परः॑ इत्यपनीय तत्स्थानेबहुल॑मिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमाह — उपसर्गाद्बहुलं । निमित्तादिति । रेपाषकारात्मकादित्यर्थः । 'उपसर्गादनोत्परः' इति यथाश्रुते तु 'प्र णो नय' इत्यादावव्याप्तिः, 'प्र न #ः पूषा' इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः ।उपसर्गाच्चे॑त्यच्, नासिकाया नस् ।उपसर्गाद्बहुल॑मिति णत्वमिति भावः । वेरिति । वेः परो यो नासिकाशब्दः स ग्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः, प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते, ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति — कथं तर्हीति । समाधत्ते — विगतयेति । विगता नासिका । प्रादिसमासः । अबहुव्रीहित्वान्न ग्रादेशः । किंतु टायांपाद्द॑न्निति नसादेशे विनसेति तृतीयान्तं रूपम् ।उपलक्षिते॑त्यध्याहार्यमिति भावः ।