SK 2608 · A 3.1.7V
धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥ २६०८ ॥
dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā
Siddhānta-kaumudī
इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः SK 2317 । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घसॢ SK 2427 एकाच उपदेशे - SK 2246 इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥
Bālamanoramā
धातोः कर्मणः समानकर्तृकादिच्छायां वा - धातोः कर्मणः । 'गुप्तिज्किद्भ्यः' इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृकत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्दद्वारा धातौ सा मानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारस्तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति । तदाह — इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकतत्वादिषैकर्मीभूतव्यापारवाचकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम्, धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत आह — धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वं, नतु धातोः परस्य । अन्यथा जुगुप्सते इत्यत्र आर्धधातुकत्वे फलमाह — इडिति । द्वित्वमिति ।सन्यङो॑रित्यनेनेति भावः । अभ्यासस्य इत्त्वविधिं स्मारयति — सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । 'अव्ययकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियैऽवार्थः । तस्मिन् पठने #इच्छाकर्मत्वम्, इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं फटनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तत इत्युक्तं भवति । अथ 'अद भक्षणे' इति धातोः सनि घस्लृभावं स्मारयति — लुङ्सनोर्घस्लृ इति । घस् स इति स्थिते इटमाशङ्क्य आह — एकाचेति नेडिति । घस् स इति स्थिते आह — सस्य तत्वमिति ।सः स्यार्धधातुके॑ इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । य्सनोर्द्वित्वमिति ।तृतीयस्य व्यञ्जनस्ये॑ ति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वेसं युक्तद्वियकारं रूपमिति भावः । तदाह — ईष्र्ययिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । 'तृतीयस्यैकाच' इति पक्षे ईष्र्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्तवे सकारद्वयस्यापि षत्वे रूपं मत्वा आह — ईर्ष्यिषिषतीति । अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारेकारषकाराऽकाराः ।