PREMABASESiddhānta-kaumudī
Prakaraṇa 53 · SK 2563–2574

तिङन्तचुरादिप्रकरणम्

tiṅantacurādiprakaraṇam · 12 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2563 · A 3.1.25V
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ २५६३ ॥
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic
Siddhānta-kaumudī
{$ {!1534 चुर!} स्तेये$} ॥ एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-SK 2189 इति गुणः । सनाद्यन्ताः - SK 2304 इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥
Tattvabodhinī
alignment inferredNSP p. 427
—प्रपञ्चार्थमिति । सत्यापप्रहणं तु आपुर्गर्थमिति ज्ञेयम् । अन्ये त्वाहुः । सापेक्षेभ्योऽपि णिजर्थमेषामुपादानम् । अन्यथा रमणीयं घटं करोतीत्यादाविव रमणीयं रूपयतीत्यादावपि णिज् न स्यादिति ॥—अच्चूचुरदिति । अत्र प्राचा व्याख्यात्रा ‘सन्वल्लघुनि—’ इति सन्वद्भाव इत्युक्तं तद्रभसात् । सन्वद्भावविषये हि जायमानो दीर्घः सन्वद्भावं नापेक्षत इति
Bālamanoramā
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण- चूर्णचुरादिभ्यो णिच् - सत्याप । सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच वर्मन् वर्ण चूर्ण चुरादि — एषां द्वन्द्वात्पञ्चमी । तदाह - एभ्यो णिच्स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह — चूर्णान्तेभ्य इति । सत्यादिभ्यश्चूर्णान्तेभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यथप्रातिपदिकाद्धात्वर्थे बहुल॑मिति वक्ष्यमाणेन सिद्धमेवाऽर्थनिर्देशनमित्यर्थः । ननु तेनैव सिद्धत्वादिह चूर्णान्तानुक्रमणं व्य्रथमित्यत आह - तेषामिह ग्रहणं प्रपञ्चार्थमिति । नच तेभ्यः स्वार्थे एव णिज्विधिरस्त्विति वाच्यं,सत्यस्यतु कृञ्यापुङ्नपात्यते । सत्यं करोति सत्यापयती॑त्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्याऽनिर्देशादिति भावः । अत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् । ततश्च णिच आर्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाऽभावादार्धधातुकत्वं न स्यादिति बोध्यम् । तदाह — पुगन्तेति गुण इति । णिचि कृते चुर् इ इति स्थिते णिच आर्धधातुकत्वात्तस्मिन् चकारादुकारस्यपुगन्तलघूपधस्ये॑ति गुण इत्यर्थः ।
SK 2564 · A 1.3.74V
णिचश्च ॥ २५६४ ॥
ṇicaśca
Siddhānta-kaumudī
णिजन्तादात्मनेपदं स्यात् कर्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि - SK 2312 इति चङ् । णौ चङि - SK 2314 इति ह्रस्वः । द्वित्वम् । हलादिः शेषः SK 2179 । दीर्घो लघोः SK 2318 इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत ।{$ {!1535 चिति!} स्मृत्याम्$} । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल् - SK 2260 इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (गणसूत्रम् -) आधृषाद्वा इत्यस्य न वैयर्थ्यम् ।{$ {!1536 यत्रि!} संकोचे$} । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु ।{$ {!1537 स्फुडि!} परिहासे$} । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति ।{$ {!1538 लक्ष!} दर्शनाङ्कनयोः$} ।{$ {!1539 कुद्रि!} अनृतभाषणे$} । कुन्द्रयति ।{$ {!1540 लड!} उपसेवायाम्$} । लाडयति ।{$ {!1541 मिदि!} स्नेहने$} । मिन्दयति । मिन्दति ।{$ {!1542 ओलडि!} उत्क्षेपणे$} । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति ।{$ {!1543 जल!} अपवारणे$} । लज इत्येके ।{$ {!1544 पीड!} अवगाहने$} । पीडयति ॥
Tattvabodhinī
alignment inferredNSP p. 427–428
—सामान्यापेक्षमिति । सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्त इत्येतदर्थकमित्यर्थः । न चैवम् ‘आधृषादा’ इति व्यर्थमिति वाच्यम् । ज्ञापकसिद्धस्यासांवत्रिकत्वात् । एवं चास्मिन्पक्षे आधृषीयाणामेवैच्छिको विकल्पः, अन्येषां तु शिष्टप्रयोगाद्यवस्थित इत्यर्थः ॥—जगाण । जगणतुरिति । वृत्तौ चकाण चकणतुरिति प्रचुरः पाठस्त- सिंह पाठे नास्त्येव प्रकृतार्थसिद्धिः । केचित्तु णिजभावे गणयामासेत्यादिरूपाभावेऽपि गणधातोरदन्तलाद्गणामासेत्यामा भवितव्यमिति जगाणेत्यादिपाठश्चिन्त्य इत्याहुः ॥—न वैयर्थ्यमिति । वैयर्थ्यशङ्कापि नेत्ययमेव पक्षो युक्त इति भावः । न च पूर्वोक्तपक्षस्य शिथिलत्वे जगाण जगणतुरिति वृत्तिप्रयोगः कथं संगच्छतामिति शङ्क्यम् । भ्वादेराकृतिगणत्वात् तत्रत्यधातोस्तद्रूपसिद्धेः ॥—तच्चिन्त्यमिति । यत्रितत्रिमभ्यादिषु इकारो व्यर्थ एव न तु ज्ञापनार्थः । तेषां संयोगान्तलात् यन्त्रतन्त्रमन्त्र इति नकारे पठितेऽपि ‘अनिदिताम्’ इति लोपो न लभ्यते नकारस्यानुपधात्वात् । चिन्त्यादित्यत्र तु चिन्त स्मृत्यामिति नकारोपधपाठे नलोपः स्यादेवेति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः । लड । हेह-पूर्विका सेवोपसेवा । लडयति पुत्रम् । लडयोरमेदाल्लालयति ॥—ओकार इदित्येक इति । ओदित्करणं ‘ओदितश्च’ इति धातोरव्यवहितस्य निष्ठातकारस्य नलार्थमिति तद्वलान्नेडित्येके । लण्ड्णः । ओदिद्वलादिड्व्यवधानेऽपि नलमित्यन्ये । लण्डिनः । पीड अवगाहने ।—‘भ्राजभास’ इति हस्वपक्षे सन्वद्भावविषयत्वात् ‘दीर्घो लघोः’ इत्यभ्यासस्य दीर्घः । हस्वाभावपक्षे तु न दीर्घ इत्याह—अपीपिडदित्यादि ॥ पृ पूरणे
Bālamanoramā
णिचश्च - णिचश्च ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति,स्वरितञितः कत्र्रभिप्राये क्रियाफले॑ इति चानुवर्तते । प्रत्ययग्रहणपरिभाषया । णिजन्तादिति लभ्यते । तदाह — णिजन्तादित्यादिना । चोरयतीति । चोरयिष्यति । चोरयिष्यते । चोरयतु । चोरयताम् । अचोरयत् । अचोरयत । चोरयेत । आशीर्लिहि परस्मैपदे आह - चोर्यादिति ।णेरनिटी॑ति णिलोप इति भावः । आशीर्लिङि आत्मनेपदे आह - चोरयिषीष्टेति । लुङ्याह - णिश्रीत्यादि । दीर्घो लघोरिति ।सन्वल्लघुनी॑ति सन्वद्भावविषयत्वादिति भावः । चिति स्मृत्याम् । चिन्तयतीति । इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः । ननु इदित्करणं मास्तु, प्रक्रियालाघवात्चिन्त स्मृत्या॑मित्येवोच्यताम् । न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यं, चिन्तयति चिन्तयांचकारेत्यादौ णिचः क्ङित्त्वाऽभावादेव नलोपस्याऽप्रसक्तेः । न च णिजभावे आशीर्लिङि चिन्त्यादिति, कर्मलकारे यकि चिन्त्यते इत्यत्र नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्क्यं, चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह — चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात्तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः । ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यान्नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याऽप्रसक्तेरित्याशङ्क्य ज्ञापकमिदं चिन्तधातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति — चिन्तिति । चिन्तेदिति । ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह — एतच्चेति । ज्ञापकस्य चुरादित्वसामान्यापेक्षत्वे वृद्धसंमतमाह- अत एकेति । ज्ञापकस्य चितिधातुमात्रिषयकत्वे गणधातोश्चौरादिकस्य जगणतुरित्युदाहरमानुपपत्तिः स्पष्टैवेति भावः । विशेषापेक्षमिति । चितिधातुमात्रविषमित्यर्थः । इदमेव मतं युक्तमित्याह — अत एवेति । सर्वस्यापि चुरादैर्णिज्विकल्पे सतिआ धृषाद्वा॑इति कतिपयचुराद्यन्तर्गणपठितानां णिज्विकल्पिविदिवैयथ्र्यमिति भावः । यत्रि सङ्कोचे । यन्त्रयतीति । अकारस्य उपधात्वाऽभावान्न वृद्धिः । अययन्त्रदिति । अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाऽभावात् सन्वद्भावाऽभावादित्त्वदीर्गौ न । एवमग्रेऽपि संयोगान्तधातूनां ज्ञेयम् । पठितुं शक्यमिति । नलोपाऽभावस्तु इदित्त्वस्य न फलं, नकारस्य उपधात्वाऽभावादेव नलोपस्याऽप्रसक्तेरिति भावः । तच्चिन्त्यमिति । यन्त्र्यादित्यणिजन्ते सत्यपि नकारस्य अनुपधात्वादेव लोपाऽप्रसक्त्या इत्त्वस्य प्रयोजनाऽभावादिति भावः । एवं 'कुद्रि अनृतभाषणे'तत्रि कुटुम्बधारणे॑ 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः । लड उपसेवायां । लाडयतीति । णिचि अतुपधावृद्धिः । एवमग्रेऽपि ज्ञेयम् । अलीलडत् । पीड अवगाहने ।
SK 2565 · A 7.4.3V
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ २५६५ ॥
bhrājabhāsabhāṣadīpajīvamīlapīḍāmanyatarasyām
Siddhānta-kaumudī
एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् ।{$ {!1545 नट!} अवस्कन्दने$} । अवस्कन्दनं नाट्यम् ।{$ {!1546 श्रथ!} प्रयत्ने$} । प्रस्थान इत्येके ।{$ {!1547 बध!} संयमने$} । बाधयति । बन्धेति चान्द्रः ।{$ {!1548 पॄ!} पूरणे$} । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ।{$ {!1549 ऊर्ज!} बलप्राणनयोः$} ।{$ {!1550 पक्ष!} परिग्रहे$} ।{$ {!1551 वर्ण!} {!1552 चूर्ण!} प्रेरणे$} । (गणसूत्रम् -) वर्ण वर्णन इत्येके ।{$ {!1553 प्रथ!} प्रख्याने$} । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥
Tattvabodhinī
alignment inferredNSP p. 428
—दीर्घोच्चारणमित्यादि । पारयतीत्यादिरूपाणि हस्वोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थ दीर्घोच्चारणमित्यर्थः । अत्र वदन्ति । धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः । न हि ऋकारान्ताः सेट्का इति । तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत । कविकल्पद्वये त्वस्य नित्यप्यन्तलमुक्तमिति । एवं चास्मिन्पक्षे दीर्घोच्चारणं व्यर्थमिति फलितम् । अन्ये तु दीर्घोच्चारणं परिता परीतेत्यादौ ‘वृतो वा’ इति इटो दीर्घविकल्पार्थम् । ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः । ऊर्ज । ऊर्जयति बल-वान्भवति । जीवति वेत्यर्थः
Bālamanoramā
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् - भ्राजभास ।णौ चङ्युपधाया ह्रस्वः॑ इत्यनुवर्तते । तदाह - एषामिति । नित्ये उपधाह्रस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्य आह — अपीपिडदिति । अत्र उत्तरखण्डे ह्रस्वः, पूर्वखण्डे तु दीर्घः । ह्रस्वाऽभावपक्षे तु लघुपरकत्वाऽभावात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घ इति मत्वाह — अपीपीडदिति । अत्र उत्तरखण्डे दीर्घः । पूर्वखण्डे ह्रस्वः । नट अवस्पन्दने । इति । अवस्पन्दनं नाटम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । अशिश्रथत् । सन्वत्त्वविधौ नेकहल्व्यवधनेऽपि लघुपरत्वं न विरुध्यते, अत्स्मृदृत्वरे॑ति ईत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादौ अनेकहल्व्यवधानाल्लघुपरत्वाऽभावादेव इत्त्वाऽप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वात् एवायं धातुर्निर्दिश्यतां, तावतैव पारयतीत्यादि सिद्धेः । न च णिजभावपक्षे परिता परिष्यतीत्यत्र इडर्थं दीर्गोच्चारणम्, ऋदन्तत्वे अनिट्कत्वप्रसिङ्गादिति वाच्यं, चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्त आह - दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गमिति ।पृधातो॑रिति शेषः । णिचः पाक्षिकतवे तु परित#एत्यादौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्तत्वेऽपि परितेत्यादौ इट् कुतो न स्यादित्यत आह- तद्धि सेट्कत्वायेति । हि = यतः, तत् = दीर्घोच्चारणं परितेत्यादौ सेट्कत्वार्थम् ऋदन्तत्वे तु इण्न स्यात्,ऊदृदन्तै॑रित्यनिट्कारिकासु ॠदन्तस्य पर्युदासेन ऋदन्तस्याऽनिट्कत्वावगमादिति भावः । ननु पृधातोर्णिचः पाक्षिकत्वज्ञापनस्य किं फलम् । श्नाविकरमश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धेरित्यत आह — एवं चेति । उक्तरीत्या पृधातोर्णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । [पारयति] परतीति ।उदोष्ठपूर्वस्ये॑त्युत्वं तु न भवति, पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति ।सन्वल्लघूनी॑ति सूत्रं द्वेधा व्यख्यातं प्राक् । तत्र चङि 'न न्द्राः' इति निषेधात्, 'जि' इति णिजन्तस्य द्वित्वे उत्तरखण्डे चङ्परे णौ लघोरभावात्प्रथमव्याख्यानेऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वविरहान्नाऽभ्यासदीर्घः, और्जिजत् । द्वितीयव्याख्याने तु चङ्परे णौ यदङ्गम् ऊर्ज इत्येतत्, तदीयस्याभ्यासस्य चङमादाय वा णिचं लुप्तमादाय वा लघुपरकत्वाभ्यासस्य दीर्घः, और्जीजत् । एवमेव एवंजातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घाटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह — नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घाटादिकस्य तु मित्त्वाद्धेतुमण्णिचिप्रथयती॑त्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यं, 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् ।
SK 2566 · A 7.4.95V
अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् ॥ २५६६ ॥
at smṛdṝtvaraprathamradastṝspaśām
Siddhānta-kaumudī
एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् ।{$ {!1554 पृथ!} प्रक्षेपे$} । पर्थयति ॥
Bālamanoramā
अत् स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् - अत्स्मृ । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति ।सन्वल्लघुनीत्यततश्चङ्परे इत्यनुवर्तते । चङ् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्ताण्णिरेवेति भावः । इत्त्वेति । 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । अत्र अत्त्वविधानादेव सन्वत्त्वविधावनेकहल्व्यवधानेऽपि लघुपरकत्वमिति विज्ञायते । अन्यथा येन नाव्यवधानन्यायादेकहल्व्यवधानस्यैवाश्रयादत्र सन्वत्त्वविरहादेव इत्त्वाऽप्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाऽभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः । रपरत्वम् ।
SK 2567 · A 7.4.7V
उर्ऋत् ॥ २५६७ ॥
urṛt
Siddhānta-kaumudī
उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति ।{$ {!1555 षम्ब!} सम्बन्धने$} । सम्बयति- अससम्बत् ।{$ {!1556 शम्ब!} च$} । अशशम्बत् । साम्ब इत्येके ।{$ {!1557 भक्ष!} अदने$} ।{$ {!1558 कुट्ट!} छेदनभर्त्सनयोः$} । पूरण इत्येके । कुट्टयति ।{$ {!1559 पुट्ट!} {!1560 चुट्ट!} अल्पीभावे$} ।{$ {!1561 अट्ट!} {!1562 षुट्ट!} अनादरे$} । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः - SK 2246 इति निषेधः । आट्टिटत् ।{$ {!1563 लुण्ठ!} स्तेये$} । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य ।{$ {!1564 शठ!} {!1565 श्वठ!} असंस्कारगत्योः$} । श्वठि इत्येके ।{$ {!1566 तुजि!} {!1567 पिजि!} हिंसाबलादाननिकेतनेषु $}। तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके ।{$ {!1568 पिस!} गतौ$} । पेसयति । पेसतीति तु शपि गतम् ।{$ {!1569 षान्त्व!} सामप्रयोगे$} ।{$ {!1570 श्वल्क!} {!1571 वल्क!} परिभाषणे$} ।{$ {!1572 ष्णिह!} स्नहने$} । स्फिट इत्येके ।{$ {!1573 स्मिट!} अनादरे$} । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ।{$ {!1574 श्लिष!} श्लेषणे$} ।{$ {!1575 पथि!} गतौ$} । पन्थयति । पन्थति ।{$ {!1576 पिच्छ!} कुट्टने$} ।{$ {!1577 छदि!} संवरणे$} । छन्दयति । छन्दति ।{$ {!1578 श्रण!} दाने$} । प्रायेणायं विपूर्वः । विश्राणयति ।{$ {!1579 तड!} आघाते$} । ताडयति ।{$ {!1580 खड!} {!1581 खडि!} {!1582 कडि!} भेदने$} । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ।{$ {!1583 कुडि!} रक्षणे$} ।{$ {!1584 गुडि!} वेष्टने$} । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे ।{$ {!1585 खुडि!} खण्डने$} ।{$ {!1586 वटि!} विभाजने$} । वडि इत्येके ।{$ {!1587 मडि!} भूषायां हर्षे च$} ।{$ {!1588 भडि!} कल्याणे$} ।{$ {!1589 छर्द!} वमने$} ।{$ {!1590 पुस्त!} {!1591 बुस्त!} आदरानादरयोः$} ।{$ {!1592 चुद!} संचोदने {!1593 नक्क!} {!1594 धक्क!} नाशने$} । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ।{$ {!1595 चक्क!} {!1596 चुक्क!} व्यथने$} ।{$ {!1597 क्षल!} शौचकर्मणि$} ।{$ {!1598 तल!} प्रतिष्ठायाम्$} ।{$ {!1599 तुल!} उन्माने$} । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् - SK 630 इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ।{$ {!1600 दुल!} उत्क्षेपणे$} । दोलयति । दोलयामास । अदूदुलत् ।{$ {!1601 पुल!} महत्त्वे$} ।{$ {!1602 चुल!} समुच्छ्राये$} ।{$ {!1603 मूल!} रोहणे$} ।{$ {!1604 कल!} {!1605 बिल!} क्षेपे$} । कालयति ।{$ {!1606 बिल!} भेदने$} ।{$ {!1607 तिल!} स्नेहने$} ।{$ {!1608 चल!} भृतौ$} ।{$ {!1609 पाल!} रक्षणे$} ।{$ {!1610 लूष!} हिंसायाम्$} ।{$ {!1611 शुल्ब!} माने$} ।{$ {!1612 शूर्प!} च$} ।{$ {!1613 चुट!} छेदने$} ।{$ {!1614 मुट!} संचूर्णने$} ।{$ {!1615 पडि!} {!1616 पसि!} नाशने$} । पण्डयति । पण्डति । पंसयति । पंसति ।{$ {!1617 व्रज!} {!1618 मार्ग!} संस्कारगत्योः$} ।{$ {!1619 शुल्क!} अतिस्पर्शने$} ।{$ {!1620 चपि!} गत्याम्$} । चम्पयति । चम्पति ।{$ {!1621 क्षपि!} क्षान्त्याम्$} । क्षम्पयति । क्षम्पति ।{$ {!1622 छजि!} कृच्छ्रजीवने$} ।{$ {!1623 श्वर्त!} गत्याम्$} ।{$ {!1624 श्वभ्र!} च$} ।{$ {!1625 ज्ञप!} मिच्च $}। अयं ज्ञाने ज्ञापने च वर्तते ॥
Tattvabodhinī
NSP p. 428–429
—उर्ऋत् । ‘जिघ्रतेर्वा’ इत्यतो वेति वर्तते ॥—इररारामिति । ऋकारोपधे ‘उपधा-याश्च’ इत्यचीकृतदित्यादौ इर् प्राप्तः, अमीमृजदित्यत्र मृजेर्वृद्धिरार् प्राप्तः, इतरेषां ऋदुपधानां गुणेन अपीपृथदित्यादावर् इति विवेकः । नन्विह उरित्यनूत्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न गृह्णाति । तथा च अचीकृतदित्यत्र ‘ऊर्ऋत्’ इत्यनेन ऋवर्णं सति अचीकृतपदिति प्रसज्येतेति चेत् । मैवम् । लवस्यासिद्धत्वेन प्रथमम् ‘उर्ऋत्’ इत्यस्य प्रवृत्तौ पश्चात् ‘कृपो रो लः’ इत्यनेन ऋकारैकदेशस्य लकारैकदेशविधानादिष्टसिद्धेः । न च चलीकृप्यत इत्यादौ रीगागमादेर्ल-लार्थ ‘कृपो रो लः’ इत्यस्यावश्यकत्वेऽपि कृपूधातुः ‘कृपू सामर्थ्यं’ इत्येव पत्र्यताम् । एवं हि प्रक्रियालाघवं लभ्यते । ऋकारैकदेशस्य लकारैकदेश इति व्याख्यानक्लेशोऽपि न भवतीति वाच्यम् । अचीकृतदित्यत्र ‘ऊर्ऋत्’ इत्यस्य प्रवृत्तावनि-ष्टरूपप्रसङ्गात् । ‘कृपो रो लः’ इत्यनेन ऋकारैकदेशस्य लकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशप्रौव्यात् । इदं च कैयटरीत्योक्तम् । नलिदं क्षोदक्षमम् ‘ऋत उत्’ इत्यनेन तपरकरणेन लवर्णप्राहकत्वे रूपसिद्धेः स्पष्टत्वात् ॥—अयं दोषध इति । टोषधत्वे लाटिष्टदिति स्यादिति भावः । शठ श्वठ । शठयति । असंस्कृतो भवति गच्छति वेलयः ॥ —साययत इति । आत्वं तु नेह भवति । ‘नित्यं स्मयतेः’ इति निर्देशेन ‘स्मिद् ईषदसने’ इति भौवादिकादेव हेतुमण्णौ तद्विधानात् । श्रण दाने । विश्राणनं वितरणम् । चुद् संचोदने । ‘ण्यासश्रन्थः—’ इति युचि चोदना । वज मार्ग । वाजयति । मार्गयति । केचित्तु मार्गेति न धालन्तरं किं तु वजेत्येक एव धातुर्मार्गसंस्कारे गतौ चेति व्याचल्युः । ज्ञप मिच्च । चाद्गतावित्येके । ज्ञपधातुर्णिचं लभते मित्संज्ञकश्चेत्यन्ये ॥—ज्ञाने ज्ञापने चेति । ‘प्रतिपज्जतिचेतनाः’ । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने । ‘लाघड्वह्—’ इति सूत्रे ज्ञीप्समानो बोधयितुमिच्यमाण इति व्याख्याया ज्ञापने च प्रयोगदर्शनादिति भावः ॥—वेष्टनमिति । ‘परिवेषस्तु परिधिः’ इत्यमरः ॥—न त्वित्यादि । अयं भावः । घटादौ ‘यमोऽपरिवेषणे’ इति पठितं तत्र परिवेषणमिति हेतुमण्यन्तस्य रूपम् । हेतुमण्यन्तस्य हि भोजना वेष्टना चार्थः । तथा च परिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तथोरर्थयोस्त्वमन्तलादेव मित्त्वसिद्धेरिति । यद्यपि घटादौ यच्छतिभोजनातोऽन्यत्र मित्रेति व्याख्यातं तथाप्यत्रत्वप्रन्यानुगुण्येनोपलक्षणतया तद्याख्येयमित्याहुः । अत्रेदं बोध्यम् । घटादौ ‘यमोऽपरिवेषणे’ इत्यत्र परिपूर्वकस्य विषेणिजन्तस्य ल्युटि रूपं, ‘यम च परिवेषणे’ इत्यत्र तु केवलस्यैव ल्युटि रूपं न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थलादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु अपरिवेषण इत्यनेन अमन्तत्वप्रयुक्तमित्यस्य निषेधेऽपि ‘यम च परिवेषणे’ इत्यनेन मित्त्वं सिध्यतीति दिक्
Bālamanoramā
उरृत् - उरृत् । 'ऋ' इत्स्यउ॑रिति षष्ठन्तं रूपम् ।णौ चङ्युपधायाः॑इत्यनुवर्तते ।जिघ्रतेर्वे॑त्यतो वेति । तदाह — उपधाया इति । ननु ऋकारस्य ऋकारविधिव्र्यर्थ इत्यत आह — इररारामपवाद इति । 'कृत संशब्दने'अचीकृत॑दिदित्यादौउपधायाश्चे॑ति इत्त्वे रपरत्वे इर्प्राप्तः,अमीमृज॑दित्यत्र तुमृजेर्वृद्धि॑रित्यार्प्राप्तः, प्रकृतपृथधातौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर्प्राप्तः, तेषामपवाद इत्यर्थः । अपीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, उरदत्त्वे, हलादिशेष सन्वत्त्वादित्वे, दीर्गे, रूपमिति भावः । अपपर्थदिति । ऋत्वाऽभावपक्षेद्वर्वचनेऽची॑ति निषेधाद्गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यतर्लघुपरकत्वाऽभावेन सन्वत्त्वविरहादित्त्वदीर्घौ नेति भावः । अट्ट षुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचर्त्वाभ्यां निर्देशैति भावः । दोपधत्वस्य प्रयोजनमाह — ष्टुत्वस्येति । तथाच दकारं विहाय 'टि' इत्यस्य द्वित्व अद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्व चआट्टिट॑दिति रूपमिष्टं सिद्ध्यति । स्वाभाविकटोपधत्वे तु 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाऽभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । ष्मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं ङित्करणमित्यताअह - णिजन्तात्तङिति । तङेवेत्यर्थः । अकत्र्रभिप्रायेऽपि फले णिजन्तादात्मेपदार्थं ङित्करणमिति यावत् । ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाऽभावात्कथमुक्तप्रयोजनलाभ इत्यत आह — अवयवेऽचरितार्थत्वादिति । ण्यन्तावयवे ष्मिङ्धातौ ङित्त्वं व्यर्थं, तस्य णिचं विना प्रयोगाऽभावात् । ततश्चाऽवयवे श्रुतं ङित्त्वं ण्यन्तादेव कार्यं साधयतीत्यर्थः । स्माययते इति । णिचि वृद्धौ आयादेशे स्मायीति ण्यन्ताल्लटस्तिपि शपि गुणाऽयादेशाविति भावः । असिष्मयत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति ।ण्यासश्रन्थो यु॑जिति भावः । समाधत्ते — अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोण्र्यन्तात्पचाद्यचि निपातनाद्गुणाऽभावे स्त्रीत्वे तुलाशब्द आदन्तः ।ततस्तत्करोति तदाचष्टे॑ इतिणिचि इष्ठवत्त्वाट्टिलोपे तुलीति ण्यनताल्लटस्तिपि युचि चचुलयती॑तितुलने॑ति च रूपम् । अकारलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । व्राजयति । मार्गयति । यद्वा — मार्गेति न धात्वन्तरम् । व्रजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः । ज्ञप मिच्चेति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मित्त्वकार्यभागिति वा । धातुपाठेऽर्थनिर्देशाऽभावादाह — अयमिति ।प्रच्छ ज्ञीप्साया॑मित्यत्र ज्ञाने,श्लाघङ्नुङ्स्थाशपां ज्ञीप्स्यमानः॑ इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 429 चिस्फुरोरिति—अत्र णिशब्देन चुरादिणिच एव ग्रहणम् । प्रतिपदोक्तत्वात् । अतऽव स्वादेश्वरेत्यस्य स्फुरश्चात्र न ग्रहणम् ।
SK 2568 · A 6.4.92V
मितां ह्रस्वः ॥ २५६८ ॥
mitāṃ hrasvaḥ
Siddhānta-kaumudī
मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति ।{$ {!1626 यम!} परिवेषणे$} । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ।{$ {!1627 चह!} परिकल्कने$} । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति ।{$ {!1628 रह!} त्यागे इत्येके$} । अरीरहत् । कथादेस्तु अररहत् ।{$ {!1629 बल!} प्राणने$} । बलयति ।{$ {!1630 चिञ्!} चयने$} ॥
Bālamanoramā
मितां ह्रस्वः - मितां ह्रस्वः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति, 'दोषो णौ' इत्यतो णाविति चानुवर्तते । तदाह — मितामुपधाया इत्यादिना । ज्ञपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । 'इति अनुकृष्यते' इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक्चेत्यर्थः । मित्संज्ञक इति वा । परिवेषणामिह वेष्टनमिति ।पिरवेषस्तु परिधि॑रिति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात्स्त्रियामित्यधिकारेण्यासश्रन्थो युच् । क्लीबत्वं लोकात् ।भोजने॑त्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हुतमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरण्यन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । नच वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्विधिव्र्यर्थ इति वाच्यं,न कम्यमिचमा॑मिति मित्तवप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रेऽपरिवेषणे इति पर्युदासेन भोजनेतोऽन्यत्र वेष्टनेऽर्थे मित्तवनिषेधस्य प्राप्तौ मित्त्वप्रापणार्थत्वात् । 'यमोऽपरिवेषणे' इत्यत्र परिवेषण शब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेर्मित्त्वनिषेधस्य प्रसङ्गात् । अत एवयमिर्भोजनातोऽन्यत्र न मि॑दिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोऽपरिवेषणे' इति मित्त्वनिषेधविधौ भोजनायाः पर्युदासादेव तत्र मित्त्वनिषेधाऽभावादम्नतत्वादेव मित्त्वप्राप्तेरिह चुरादौ पिरवेषणशब्देन वेष्टनमेव विवक्षितं नतु भोजनेत्यास्तां तावत् । चह परिकल्पने इति । इत आरभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । अतस्तेषां मित्त्वण्णिचि ह्रस्वः । तदाह - चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह — कथादाविति ।कथादयोऽदन्ता॑इति वक्ष्यते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद्वृद्ध्यबावे मित्त्वाद्ध्रस्वे च न विशेषः । तथापि अदन्ताच्चङि णौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावेअचचह॑दिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थानेचपे॑त्येके पठन्तीत्यर्थः । 'रह त्यागे इत्येके' इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुश्चपधातुः रहधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चम इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वाज्ज्ञपादिपञ्चकत्वस्य न विरोधः ।रह त्यागे॑इत्यस्यापि कथादिपाठफलमाह — कथादेस्तु अररहदिति । अदन्तत्वेन अग्लोपित्वान्न दीर्घसन्वत्त्वे इति भावः । बल प्राणने ।चे॑त्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्ध्रस्वं मत्वाह — बलयतीति ।
SK 2569 · A 6.1.54V
चिस्फुरोर्णौ ॥ २५६९ ॥
cisphurorṇau
Siddhānta-kaumudī
आत्वं वा स्यात् ॥
Tattvabodhinī
NSP p. 429
—चिस्फुरोणौ । ‘आदेच उपदेशे’ इत्यत आदित्यनुवर्तते ‘विभाषा लीयतेः’ इत्यतो विभाषाग्रहणं च तदाह— आत्वं वा स्यादिति
Bālamanoramā
चिस्फुरोर्णौ - चिस्फुरोर्णौ । 'आदेच उपदेशे' इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते —
SK 2570 · A 7.3.36V
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ ॥ २५७० ॥
artihrīvlīrīknūyīkṣmāyyātāṃ puṅṇau
Siddhānta-kaumudī
चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (गणसूत्रम् -) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न ।{$ {!1631 घट्ट!} चलने$} ।{$ {!1632 मुस्त!} संघाते$} ।{$ {!1633 खट्ट!} संवरणे$} ।{$ {!1634 षट्ट!} {!1635 स्फिट्ट!} {!1636 चुबि!} हिंसायाम्$} ।{$ {!1637 पुल!} सङ्घाते$} । पूर्ण इत्येके । पुण इत्यन्ये ।{$ {!1638 पुंस!} अभिवर्धने$} ।{$ {!1639 टकि!} बन्धने$} । टङ्कयति । टङ्कति ।{$ {!1640 धूस!} कान्तिकरणे$} । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे ।{$ {!1641 कीट!} वर्णे$} ।{$ {!1642 चूर्ण!} संकोचने$} ।{$ {!1643 पूज!} पूजायाम्$} ।{$ {!1644 अर्क!} स्तवने$} । तपन इत्येके ।{$ {!1645 शुठ!} आलस्ये$} ।{$ {!1646 शुठि!} शोषणे$} । शुण्ठयति । शुण्ठति ।{$ {!1647 जुड!} प्रेरणे$} ।{$ {!1648 गज!} {!1649 मार्ज!} शब्दार्थौ$} । गाजयति । मार्जयति ।{$ {!1650 मर्च!} च$} । मर्चयति ।{$ {!1651 घृ!} प्रस्रवणे$} । स्रावण इत्येके ।{$ {!1652 पचि!} विस्तारवचने$} । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् ।{$ {!1653 तिज!} निशाने$} । तेजयति ।{$ {!1654 कॄत!} संशब्दने$} ॥
Tattvabodhinī
NSP p. 429–431
—अर्तिही—परलादन्तरज्ञलाच्च आदौ पुक् पश्चाद्बुणः । अर्पयति । हेपयति । ब्लेपयति । रेपयति । यलोपः । क्रोपयति । क्ष्मापयति । स्थापयति ॥—चपयतीति । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते । ‘आतोऽनुपसर्गे’ इति कवाधनाय ‘ह्वावामक्ष’ इत्यारम्भादिति भावः ॥—ह्वापादिभ्य इति । मुख्यमते पञ्च ह्वापादयः । मतान्तरे तु सप्त ॥—पूर्ण इत्येके । पुण्येत्यन्ये इति । ईदृशेषु पाठशुद्धिर्निर्णेतुमशक्या । अत एव क्षीर-स्वामिनोक्तम्—पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । न विद्यः किं जहीमोऽत्र किमुपादद्भाहे वयम्’ इति । पूल । पूर्णादिषु पाठे भ्रंशः । वजधातोर्मार्गसंस्कारोऽर्थं उत संस्कार एवेत्यर्थे भ्रंशः । आगमभ्रंशात् शास्त्रभ्रंशात् । चूर्ण संको-चने । प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः ॥— मर्च चेति । क्वचिद्धातुपाठेऽस्यादृष्ट्वेऽपि नायमप्रामाणिक इति मन्तव्यम् । ‘मिदचोऽन्त्यात्परः’ इति सूत्रे कैयटेनास्योपन्यस्तत्वात् । ‘मर्तो मर्तं मर्चयति द्वयेन’ इति प्रयोगदर्शनाच्च ॥—उपधायाश्च । ‘ऋत इद्धातोः’ इति वर्तते तदाह—धातोरुपधाया इति । ननु ‘ऋत इद्धातोः’ इति सूत्रे धातोर्ऋत इति वैयधिकरण्येन व्याख्याने सिद्धमिष्टमिति किमनेन सूत्रेणेति चेत् । मैवम् । तथा हि सति ऋकारीयतीत्यत्रापि इत्यप्र-सङ्गात् ॥—अर्दन इत्येक इति । अत्र वदन्ति । अर्दने लुवितुवी भ्वादौ पठितौ तयोस्तत्र पाठो वृथा स्यात् । इदि-त्वादेव लुम्वति तुम्वतीत्यादिरूपसिद्धेः । अदर्शने त्वर्थेऽर्थभेदात् भ्वादिपाठः सार्थक इत्यर्दनार्थत्वं चौरादिकयोरयुक्तमि-त्यस्वरसादेक इत्युक्तमिति । म्रक्ष म्लेच्छने । म्रक्षणेऽप्ययम् । तच्च तैलादिनाऽभ्यजनम् । म्रक्षयति । अमम्रक्षत् । गुर्द पूर्व निकेतने । गुर्दयति । पूर्वयति । केचित्तु पूर्वनिकेतने इति पठित्वा गुर्दधातुः पूर्वनिवासे वर्तते इति व्याचक्षते । जस्तु हिंसायाम् । क्लायामिङ्गिकल्पार्थमुदित्करणमिति तत्सामर्थ्यादस्य णिजनित्यः । जासयति । जसति । जसित्वा । जस्त्वा । जस्त्वम् । चित संचेतने । संचेतनं मूर्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम् ॥—दंशतीति । इह ‘दंशसज्ज’—इति नलोपमाशङ्क्याह—सज्जिसाहचर्यादिति । स्पश । स्पाशयते । ‘अत्स्पृद्वलर’—इत्यादिनाऽभ्यासस्य अत्यम् । इत्या-पवादः । अपसशत् । तर्ज भर्त्स तर्जने । तर्जयते । भर्त्सयते । ‘तर्जयन्निव केतुभिः’ इति प्रयोगस्त णिजन्तादस्मा- द्भौवादिकात् तर्जतेर्वा हेतुमणिचि बोध्यः । भ्रूण । भ्रूणयते । ‘भ्रूणोऽर्भके ब्रैणगर्भे’ इत्यमरः । गूर उद्यमने । दीर्घो-पधोऽयम् । गूरयते । हस्तोपधस्तु दिवादौ तुदादौ चेति मनोरमायां स्थितम् । यद्यपि तुदादौ गुरी उद्यमने इति पाठाङ्ग-स्त्रोपध एव तथापि दिवादौ धूरी गूरी हिंसागत्योरिति पाठान्नास्ति हस्तोपध इति नव्याः । शम लक्ष । ननु ‘निशामय तदुत्पत्तिम्’ इत्यत्र शामय इत्येतत् शमु उपशम इत्यस्माणिचि रूपं चेत् अमन्तलान्मित्त्वे सति हस्तेन भाव्यमित्याशङ्क्य कथमनेन सिद्धमिति वदन्ति । आकुसीयत्वात्तङि निशामयस्वेति रूपस्य सर्वसंमतलादिति चेत् । अत्राहुः । स्वार्थप्य-न्तादस्माद्धेतुमणिचि निशामयेति रूपम् । न चार्थासंगतिः । ‘निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थं णिजुच्यते’ इति सिद्धान्ता-दिति । कुत्स अवक्षेपणे । ‘यूनश्च कुत्सायाम्’ इति निर्देशादङ् । कुत्सा । ‘प्यासध्रन्थ—’ इति युच् । कुत्सना । भल । आभण्डनं निरूपणमित्याहुः । वञ्चु प्रलम्भने । ल्युटि वञ्चनम् । उदित्करणस्य क्लायामिङ्गिकल्पार्थलाणिजनित्यः । वञ्च-यति । वञ्चति । वचित्वा वञ्चित्वा । वक्त्वा । ‘वञ्चिल्लुभ्युतश्च’ इति सेटः क्लः कित्वविकल्पनात् पाक्षिको नलोपः । इङ-भावे तु नित्यम् । निष्ठायां तु वक्तम् । ‘यस्य विभाषा’ इतीणिनेषेधः नाम्नो वेति वाशब्दं व्याचष्टे—अथ वेति—
Bālamanoramā
अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ - अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी । 'पुक् णौ' इति छेदः । तदाह — एषां पुक्स्याण्णौ इति । पुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वेचपी॑त्यस्मात्तिबादौ परिनिष्ठितमाह — चपयतीति । आत्त्वाऽभावपक्षे त्वाह — चययतीति । चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्रस्व इति भावः । ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह — ञित्करणसामर्थ्यादिति । एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः । 'शेषे विभाषाऽकखादौ' इति णत्वनविकल्पं मत्वा आह — प्रणिचयति प्रनिचयतीति । 'नान्ये मितोऽहेतौ' इति । चुरादिगणसूत्रम् । अहेताबिति च्छेदः । किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते । तदाह — अहेतौ स्वार्थं णिचीत्यादिना । अहेतावित्यस्य व्याख्यानं — स्वार्थे णिचीति । तेनेति । ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः । शमादीनामिति । 'शम आलोचने'अम रोगे॑इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । अमन्तत्वेति ।जनीजृष्क्नसुरञ्जौऽमन्ताश्चे॑त्यमन्तत्वनिमित्तकमित्यर्थ- । कृत संशब्दने ।
SK 2571 · A 7.1.101V
उपधायाश्च ॥ २५७१ ॥
upadhāyāśca
Siddhānta-kaumudī
धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च SK 2265 इति दीर्घः । कीर्तयति । उर्ऋत् SK 2567 । अचीकृतत् । अचिकार्तत् ।{$ {!1655 वर्ध!} छेदनपूरणयोः$} ।{$ {!1656 कुबि!} आच्छादने$} । कुम्बयति । कुम्बति । कुभि इत्येके ।{$ {!1657 लुबि!} {!1658 तुबि!} अदर्शने$} । अर्दन इत्येके ।{$ {!1659 ह्लप!} व्यक्तायां वाचि$} । क्लप इत्येके ।{$ {!1660 चुटि!} छेदने$} ।{$ {!1661 इल!} प्रेरणे$} । एलयति । ऐलिलत् ।{$ {!1662 म्रक्ष!} म्लेच्छने$} ।{$ {!1663 म्लेच्छ!} अव्यक्तायां वाचि$} ।{$ {!1664 ब्रूस!} {!1665 बर्ह!} हिंसायाम्$} । केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायामिति पठन्ति ।{$ {!1666 गुर्द!} पूर्वनिकेतने$} ।{$ {!1667 जसि!} रक्षणे$} । मोक्षण इति केचित् । जंसयति । जंसति ।{$ {!1668 ईड!} स्तुतौ$} ।{$ {!1669 जसु!} हिंसायाम्$} ।{$ {!1670 पिडि!} संघाते$} ।{$ {!1671 रुष!} रोषे$} । रुट इत्येके ।{$ {!1672 डिप!} क्षेपे$} ।{$ {!1673 ष्टुप!} समुच्छ्राये$} ॥ आ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् ।{$ {!1674 चित!} संचेतने$} । चेतयते । अचीचितत ।{$ {!1675 दशि!} दंशने$} । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् ।{$ {!1676 दसि!} दर्शनदंशनयोः$} । दंसयते । दंसति । दसेत्यप्येके ।{$ {!1677 डप!} {!1678 डिप!} संघाते$} ।{$ {!1679 तत्रि!} कुटुम्बधारणे$} । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति ।{$ {!1680 मत्रि!} गुप्तपरिभाषणे$} ।{$ {!1681 स्पश!} ग्रहणसंश्लेषणयोः$} ।{$ {!1682 तर्ज!} {!1683 भर्त्स!} तर्जने$} ।{$ {!1684 बस्त!} {!1685 गन्ध!} अर्दने$} । बस्तयते । गन्धयते ।{$ {!1686 विष्क!} हिंसायाम्$} । हिष्केत्येके ।{$ {!1687 निष्क!} परिमाणे$} ।{$ {!1688 लल!} ईप्सायाम्$} ।{$ {!1689 कूण!} सङ्कोचे$} ।{$ {!1690 तूण!} पूरणे$} ।{$ {!1691 भ्रूण!} आशाविशङ्कयोः$} ।{$ {!1692 शठ!} श्लाघायाम्$} ।{$ {!1693 यक्ष!} पूजायाम्$} ।{$ {!1694 स्यम!} वितर्के$} ।{$ {!1695 गूर!} उद्यमने$} ।{$ {!1696 शम!} {!1697 लक्ष!} आलोचने$} । नान्ये मित इति मित्त्वनिषेधः । शामयते ।{$ {!1698 कुत्स!} अवक्षेपणे$} ।{$ {!1699 त्रुट!} छेदने$} । कुट इत्येके ।{$ {!1700 गल!} स्नवणे$} ।{$ {!1701 भल!} आभण्डने$} ।{$ {!1702 कूट!} आप्रदाने$} । अवसादने इत्येके ।{$ {!1703 कुट्ट!} प्रतापे$} ।{$ {!1704 वञ्चु!} प्रलम्भने$} ।{$ {!1705 वृष!} शक्तिबन्धने$} । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते ।{$ {!1706 मद!} तृप्तियोगे$} । मादयते ।{$ {!1707 दिवु!} परिकूजने$} ।{$ {!1708 गृ!} विज्ञाने$} । गारयते ।{$ {!1709 विद!} चेतनाख्याननिवासेषु $}। वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ।{$ {!1710 मान!} स्तम्भे$} । मानयते ।{$ {!1711 यु!} जुगुप्सायाम्$} । यावयते । (गणसूत्रम् -){$ {!1712 कुस्म!} नाम्नोवा$} । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥ {$ {!1713 चर्च!} अध्ययने$} ।{$ {!1714 बुक्क!} भषणे$} ।{$ {!1715 शब्द!} उपसर्गादाविष्कारे च$} । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति ।{$ {!1716 कण!} निमीलने$} । काणयति । णौ चङ्युपाधाया ह्रस्वः SK 1324 ॥
vārttika
काण्यादीनां वेति विकल्प्यते
(वार्तिकम्) ॥ अचीकणत् । अचकाणत् ।{$ {!1717 जभि!} नाशने$} । जम्भयति । जम्भति ।{$ {!1718 षूद!} क्षरणे$} । सूदयति । असूषुदत् ।{$ {!1719 जसु!} ताडने$} । जासयति । जसति ।{$ {!1720 पश!} बन्धने$} । पासयति ।{$ {!1721 अम!} रोगे$} । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति ।{$ {!1722 चट!} {!1723 स्फुट!} भेदने$} । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् ।{$ {!1724 घट!} सङ्घाते$} । घाटयति हन्त्यर्थाश्च (गणसूत्रम् -) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः ।{$ {!1725 दिवु!} मर्दने$} । उदित्त्वादेवतीत्यपि ।{$ {!1726 अर्ज!} प्रतियत्ने$} । अयमर्थान्तरेऽपि । द्रव्यमर्जयति ।{$ {!1727 घुषिर्!} विशब्दने$} । घोषयति । घुषिरवि शब्दने SK 3063 इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् ।{$ {!1728 आङः!} क्रन्द सातत्ये$} । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति ।{$ {!1729 लस!} शिल्पयोगे$} ।{$ {!1730 तसि!} {!1731 भूष!} अलंकरणे$} । अवतंसयति । अवतंसति । भूषयति ।{$ {!1732 अर्ह!} पूजायाम्$} ।{$ {!1733 ज्ञा!} नियोगे$} । आज्ञापयति ।{$ {!1734 भज!} विश्राणने$} ।{$ {!1735 शृधु!} प्रहसने$} । अशशर्धत् । अशीशृधत् ।{$ {!1736 यत!} निकारोपस्कारयोः$} ।{$ {!1737 रक!} {!1738 लग!} आस्वादने$} । रघ इत्येके । रग इत्यन्ये ।{$ {!1739 अञ्चु!} निशेषणे$} । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् ।{$ {!1740 लिगि!} चित्रीकरणे$} । लिङ्गयति । लिङ्गति ।{$ {!1741 मुद!} संसर्गे$} । मोदयति सक्तून् घृतेन ।{$ {!1742 त्रस!} धारणे$} । ग्रहण इत्येके । वारण इत्यन्ये ।{$ {!1743 उध्रस!} उञ्छे$} । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति ।{$ {!1744 मुच!} प्रमोचने मोदने च$} ।{$ {!1745 वस!} स्नेहच्छेदापहरणेषु $}।{$ {!1746 चर!} संशये$} ।{$ {!1747 च्यु!} सहने$} । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति ।{$ {!1748 भुवो!} ऽवकल्कने$} । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति ।{$ {!1749 कृपेश्च!} (अवकल्कने) $}। कल्पयति ॥ (गणसूत्रम् -) आ स्वदः सकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् ।{$ {!1750 ग्रस!} ग्रहणे$} । ग्रासयति फलम् ।{$ {!1751 पुष!} धारणे$} । पोषयत्याभरणम् ।{$ {!1752 दल!} विदारणे$} । दालयति ।{$ {!1753 पट!} {!1754 पुट!} {!1755 लुट!} {!1756 तुजि!} {!1757 मिजि!} {!1758 पिजि!} {!1759 लुजि!} {!1760 भजि!} {!1761 लघि!} {!1762 त्रसि!} {!1763 पिसि!} {!1764 कुसि!} {!1765 दशि!} {!1766 कुशि!} {!1767 घट!} {!1768 घटि!} {!1769 बृहि!} {!1770 बर्ह!} {!1771 वल्ह!} {!1772 गुप!} {!1773 धूप!} {!1774 विच्छ!} {!1775 चीव!} {!1776 पुथ!} {!1777 लोकृ!} {!1778 लोचृ!} {!1779 णद!} {!1780 कुप!} {!1781 तर्क!} {!1782 वृतु!} {!1783 वृधु!} भाषार्थाः$} । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घाटयति । घण्टयति ॥
Tattvabodhinī
alignment inferredNSP p. 431–432
—प्रातिपदिकमिति । ‘अन्येष्वपि दृश्यते’ इति सूत्रे अन्येभ्योऽपीति वक्ष्यमाणत्वात्कुपूर्वात्सयतेर्ङप्रत्यये टिलोपे ‘कु-गति—’ इति समासे च निष्पन्नमित्यर्थः । यद्यपि कुपूर्वस्य स्मिडो लडादिषु कुस्मयते इत्यादि सिद्धं तथापि प्रकुस्मयते इत्यादि न सिध्येदुपसर्गस्य धातुना व्यवधानायोगात् । कुस्मयांचक्रे इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान् ॥ इत्याकुसीयाः ॥ चर्चः । सवांऽपि चुरादिणिच् पाक्षिक इति पक्षे ‘गुरोश्च हलः’ इत्यप्रत्ययः । चर्चा । कण निमीलने । एकनेत्रनिमीलन एवायं शब्दः स्वभावात् । काणः ॥—काण्यादीनामिति । एते हेतुमण्यन्तेषु वक्ष्यन्ते । हन्त्यर्थाश्च । तेन घातयति हन्तीत्येतौ समानार्थौ । अर्ज । प्रतियन्नो गुणाधानम् ॥—अर्जयतीति । संगृह्णातीत्यर्थः । घुषिर् । अविशब्दनं प्रति-ज्ञानम् ॥—निषेधाल्लिङ्गादिति । घुषिरविशब्दन इति सूत्रेण अविशब्दने निष्ठाया इण्निषिध्यते विशब्दनार्थादेतस्मा-दनन्तरा निष्ठा नास्त्येव णिचा व्यवधानात् । अतो घुषिरविशब्दन इति भौवादिकादेव निष्ठाया इण्निषेधो भवेदिति किं विशब्दनप्रतिषेधेन । ततश्चानेनैव विशब्दनप्रतिषेधेनानित्योऽस्य णिजिति ज्ञाप्यते इति भावः । इरित्करणादपि णिज्वि-कल्पः सिध्यतीति केचित् ॥—शिल्पयोग इति । क्रियाकौशलं शिल्पम् । यत निकारोपस्कारयोः । यन्नो वा प्रैषो वा निकारः । निकारोपस्कारयोरिति पाठान्तरम् । क्रियानिधण्डौ च ‘यत्ने प्रैषे निराकारे पादपे चाप्युपस्कृतौ । नित्योऽयं धान्यधनयोः प्रतिदाने’ इत्युक्तम् । अस्यार्थः । यत्नाद्यर्थेषु चतुर्षु यत्तथातुं प्रयुज्जीत । निसः परभागे चेत्प्रयुज्यते तदाऽयं धान्यधनयोः प्रतिदाने वर्तत इति । ऋणं निर्यातयति । प्रतिददातीत्यर्थः । अश्रु विशेषणे । विशेषणं व्यावर्तनम् । भुवोऽवकल्कने । भूधातोर्णिच् स्यात्—॥ भावयतीति । मिश्रीकरोतीति चिन्तयति वेत्यर्थः । कृपेश्च । कृपेर्णिच् स्यादवकल्कने । आस्वदः ॥—अभिव्याप्येति । आकुस्मादिति पूर्वत्र आधृषादागर्शादिति परत्र च आङोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्याख्यानमुचितमिति भावः । अन्ये लाङ्पूर्वकात्सदः सकर्मकाणिजिति व्याचख्युः । आस्वदीयेषु धातवः सर्वे सकर्मकाः ॥—घाटयतीति । अयं चुरादावेव संघाते गतः, पुनः पाठस्तु अर्थमेदात्
Bālamanoramā
उपधायाश्च - उपधायाश्च ।ऋत इद्धातो॑रित्यनुवर्तते । तदाह — धातोरित्यादिना । चङिउरृ॑दित्युपधाया ऋत्त्वपक्षे आह — अचीकृतदिति । उपधाया ऋत्त्वे कृदित्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्वेदीर्घो लघो॑रिति दीर्घं इति भावः । ऋत्त्वाऽभावपक्षे आह — अचिकीर्तदिति । ॠत इत्त्वे रपरत्वे 'उपधायां च' इति दीर्घे कीर्दित्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे चुत्वमिति भावः । लघुपरकत्वाऽभावेन सन्वद्भावविषयत्वाऽभावान्नाऽभ्यासदीर्घः ।आकुस्मा॑दित्यत्र आङभिविधाविति मत्वाह — तमभिव्याप्येति । ननुणिचश्चे॑ति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह - अकर्तृगामीति । ननु 'दशि दंशने' णिजभावेदंशती॑ति कथम् । आकुस्मीयत्वेन णिजभावेऽपि तङो दुर्वारत्वादित्यत आह — आकुस्मीयमिति ।दंशसञ्जस्वञ्जां शपी॑ति नलोपमाशङ्क्य आह — नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत ।अत्स्मृदृत्वरे॑ति अभ्यासस्य अत्त्वम् — इत्त्वापवादः । गूर उद्यमने । अयं दीर्घोपधः । गूरयते । तदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दिवदौ तुधूरी, गूरी हिंसागत्यो॑रिति दीर्घोपध एवेति केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे विकरणभेदं सङ्गृह्णाति — सत्ताया#ं विद्यतेइत्यादिश्लोकेन । कुस्म नाम्नो वा । गणसूत्रम् ।कुस्मे॑ति पृथक्पदमविभक्तिकम् ।तदाह — कुस्म इति धातुरिति ।कुत्सितस्मयने वर्तते॑ इति शेषपूरणं, व्याख्यानादिति भावः । णादिति भावः । अचुकुस्मतेति । उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः ।नाम्नो गृह्रते, प्रत्यासत्त्या । तथा चकुस्मेति धातोः, कुस्मेतिप्रातिपदिकाद्वा णिजिति फलितम् । तत्रधातोर्णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाण्णिचि विशेषमाह — ततिति । तस्मात् = प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे, आचष्टे इत्यर्थे वेत्यर्थः । नच 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकाण्णिच् सिद्ध इति वाच्यम्,आकुस्मादात्मनेपदिनः॑ इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः । शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुराविष्कारे वर्तते इत्यर्थः । अनुपसर्गाच्चेति । अनुपसर्गात्परोऽपि शब्दधातुर्णिचं लभते इत्यर्थः ।आविष्कारे॑इत्यस्यैवानुवृत्त्यर्थं पृथगुक्तिः ।शब्द आविष्कारे चे॑त्येतावत्येवोक्ते अनुपसर्गाद्भाषणेऽपि स्यात् । तदाह — आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिकं भ्राजभासभाषे॑ति सूत्रे भाष्ये पठितम् ।काणिराणिश्रणिभणिहेठिलोपयः षट्काण्यादयः॑ इत भाष्यम् । अचीकणदिति । ह्रस्वत्वपक्षे लघुपरकत्वादभ्यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे, शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोर्हिंसा गमनं चार्थः । एतदर्थका ये धातवो भ्वादिषु नवसु गणेषु पठितास्ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह — नवगण्यामित्यादि । दिवु मर्दने । उदित्तवादिति । उदित्करणम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थम् । द्यूत्वा देवित्वा । इडभावे ऊठ् । इटि तु — न क्त्वा से॑डिति कित्तवनिषेधाद्गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन क्त्वयामिड्विकल्पस्य अप्रसक्तेरुदित्करमं व्यर्थं सज्ज्ञापयति अस्य दिवुधातोर्णिज्विकल्प इतीति भावः । घुषिर्विशब्दने । विशब्दनं = शब्देन स्वाभिप्रायाविष्करणं, प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः । घोषयतीति । शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा । लिङ्गादिति । इण्निषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशब्दनार्थकाद्धुषधातोर्निष्ठआमिण्न स्यादित्यर्थः । यथा — ॒घुष्टा रज्जुः॑ । प्रसारितेत्यर्थः । अविशब्दने इति किम् । अवघुषितं वाक्यम् । प्रतिज्ञातमित्यर्थः । अत्र विशब्दनार्थकत्वान्नेण्निषेध इति स्थितिः । तत्र विशब्दनार्थकस्य घुषदातोश्चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेतीण्निषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्याऽस्य विशब्दनार्थकस्य घुषेर्णिचो विकल्पं गमयति । एवं चअवघुषितं वाक्य॑मित्यत्र चौरदिकघुषेर्विशब्दनार्थकस्य निष्ठायामिण्निषेधो नेति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ।णिजभावपक्षे॑इति शेषः । ननु इरित्त्वादेव णिजविकल्पे सिद्धे 'घुषिरविशब्दने' इति इण्निषेधसूत्रे 'अविशब्दने' इति पर्युदासास्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न, अत एव भाष्यादिरित्त्वाऽभावविज्ञानात् । एवं च 'घुषिर्विशब्दने' इत्यत्रघुषी॑रित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् ।इरित्त्वादङ्वे॑ति मूलं तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तां तावत् । आङः क्रन्द सातत्ये इति । आङः परः क्रन्ददातुराह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः । यद्वाआह॑इत्यनन्तरं 'घुषि' रित्यनुवर्तते । 'क्रन्दसातत्ये' इत्यर्थन#इर्देशः । तदाह — अन्ये त्विति । लस शिल्पयोगे इति । कौशले इत्यर्थः । तसि भूषेति । अत्र तसिः प्रायेण अवपूर्वः । तदाह — अवतंसयतीति । ज्ञा नियोगे इति । आङ्पूर्वः । तदाह — आज्ञापयतीति । आदन्तत्वात्पुक् । अजिज्ञपत् । यत निकारेति । तालव्याऽन्तः स्थादिः । यत्नो वा प्रैषो वा - निकारः । यातयति । अयीयतत् । अञ्च विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति ।उदितो वेटत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानादिड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्यनित्यण्यन्तत्वादण्यन्तत्वमसिद्धमित्यत आह — अत एवेति । च्यु सहने इति । च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेर्णिच् स्यादित्यर्थः । कल्पयतीति । 'कृपो रो लः' इति लत्वम् । आ स्वदः सकर्मकादिति । आङभिविधौ । तदाह — स्वदिमभिव्याप्येति । तत्र 'ष्वद आस्वादने' इत्यस्य अकर्मकत्वादाह — संभवत्कर्मभ्य इति । इत आरभ्य आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः । पट पुटेति । एकतिंरशद्धातवः । आद्यास्त्रयष्टान्ताः । आद्यद्वितीयौ पवर्गं प्रथमादी । चतुर्थाद्या एकादशैदितः । त्रिसिपिसी इदुपधौ इत्येके । अदुपधावित्यन्ये । षोडशसप्तदशाविदितौ । अलुलोकत् अलुलोचदित्यत्र उपधाह्रस्वे प्राप्ते —
SK 2572 · A 7.4.2V
नाग्लोपिशास्वृदिताम् ॥ २५७२ ॥
nāglopiśāsvṛditām
Siddhānta-kaumudī
णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति ।{$ {!1784 रुट!} {!1785 लजि!} {!1786 अजि!} {!1787 दसि!} {!1788 भृशि!} {!1789 रुशि!} {!1790 शीक!} {!1791 रुसि!} {!1792 नट!} {!1793 पुटि!} {!1794 जि!} {!1795 चि!} {!1796 रघि!} {!1797 लघि!} {!1798 अहि!} {!1799 रहि!} {!1800 महि!} भाषार्थाः$} ।{$ {!1801 लडि!} {!1802 तड!} {!1803 नल!} भाषार्थाः$} ।{$ {!1804 पूरी!} आप्ययने$} । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति ।{$ {!1805 रुज!} हिंसायाम्$} ।{$ {!1806 ष्वद!} आस्वादने$} । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥ (गणसूत्रम् -) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य ।{$ {!1807 युज!} {!1808 पृच!} संयमने$} । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् ।{$ {!1809 अर्च!} पूजायाम्$} ।{$ {!1810 षह!} मर्षणे$} । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् ।{$ {!1811 ईर!} क्षेपे$} ।{$ {!1812 ली!} द्रवीकरणे$} । लाययति । लयति । लेता ।{$ {!1813 वृजी!} वर्जने$} । वर्जयति । वर्जति ।{$ {!1814 वृञ्!} आवरणे$} । वारयति । वरति । वरते । वरिता । वरीता ।{$ {!1815 जॄ!} वयोहानौ$} । जारयति । जरति । जरिता । जरीता ।{$ {!1816 ज्रि!} च $}। ज्राययति । ज्रयति । ज्रेता ।{$ {!1817 रिच!} वियोजनंपर्चनयोः$} । रेचयति । रेचति । रेक्ता ।{$ {!1818 शिष!} असर्वोपयोगे$} । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये ।{$ {!1819 तप!} दाहे$} । तापयति । तपति । तप्ता ।{$ {!1820 तृप!} तृप्तौ$} । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता ।{$ {!1821 छृदी!} सन्दीपने$} ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि - SK 250 इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति ।{$ {!1822 दृभी!} भये$} । दर्भयति । दर्भति । दर्भिता ।{$ {!1823 दृभ!} संदर्भे$} ॥ अयं तुदादावीदित् ।{$ {!1824 श्रथ!} मोक्षणे$} । हिंसायां इत्येके ।{$ {!1825 मी!} गतौ$} । माययति-मयति । मेता ।{$ {!1826 ग्रन्थ!} बन्धने$} । ग्रन्थयति-ग्रन्थति ।{$ {!1827 शीक!} आमर्षणे$} ।{$ {!1828 चीक!} च$} ।{$ {!1829 अर्द!} हिंसायाम्$} । स्वरितेत् । अर्दयति । अर्दति । अर्दते ।{$ {!1830 हिसि!} हिंसायाम्$} । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् ।{$ {!1831 अर्ह!} पूजायाम्$} ।{$ {!1832 आङः!} षद पद्यर्थे$} । आसादयति । आसीदति । पाघ्रा - SK 2360 इति सीदादेशः । आसत्ता । आसात्सीत् ।{$ {!1833 शुन्ध!} शौचकर्मणि$} । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ।{$ {!1834 छद!} अपवारणे$} । स्वरितेत् ।{$ {!1835 जुष!} परितर्कणे$} । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ।{$ {!1836 धूञ्!} कम्पने$} । णावित्यधिकृत्य ।
vārttika
धूञ्प्रीञोर्नुग्वक्तव्यः
(वार्तिकम्) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ।{$ {!1837 प्रीञ्!} तर्पणे$} ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ।{$ {!1838 श्रन्थ!} {!1839 ग्रन्थ!} सन्दर्भे$} ।{$ {!1840 आप्लृ!} लम्भने$} । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते ।{$ {!1841 तनु!} श्रद्धोपकरणयोः$} ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति ।{$ {!1842 वद!} संदेशवचने$} ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ।{$ {!1843 वच!} परिभाषणे$} । वाचयति । वचति । वक्ता । अवाक्षीत् ।{$ {!1844 मान!} पूजायाम्$} । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च ।{$ {!1845 भू!} प्राप्तावात्मनेपदी $}। भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ।{$ {!1846 गर्ह!} विनिन्दने$} ।{$ {!1847 मार्ग!} अन्वेषणे$} ।{$ {!1848 कठि!} शोके$} । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ।{$ {!1849 मृजू!} शौचालंकारयोः$} । मार्जयति । मार्जति । मार्जिता । मार्ष्टा ।{$ {!1850 मृष!} तितिक्षायाम्$} । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति ।{$ {!1851 धृष!} प्रहसने$} । धर्षयति । धर्षति । इत्याधृषीयाः ॥ अथादन्ताः ॥{$ {!1852 कथ!} वाक्यप्रबन्धे$} । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ।{$ {!1853 वर!} ईप्सायाम्$} । वरयति । वारयतीति गतम् ।{$ {!1854 गण!} संख्याने$} । गणयति ॥
Tattvabodhinī
alignment inferredNSP p. 432–434
—स्वाद इत्येक इति । अस्मिन् मते पूर्वत्राप्यास्वादः सकर्मकादिति पाठ्यम् । ननु दीर्घपाठो व्यर्थः । ह्रस्वपाठेऽप्युपधाद्यज्ञा स्वादयतीति रूपाणां तुल्यलादत आह—दीर्घस्य त्विति । ‘सः स्विदिस्वदिसहीनां च’ इति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षलमिति वक्ष्यमाणलात्सन्नन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह—असिस्वददिति ॥ इत्यास्वदीयाः ॥—आधृषाद्वा । व्याख्यानात्, योग्यतावलाद्वा णिजिति संवध्यते ॥— अयौक्षीदिति । णिजभावपक्षे अनिद्कोऽयमिति भावः । ली द्रवीकरणे । लिनातिलीयत्योर्यका निर्देश इति भाष्यकारोक्तलात् ‘विभाषा लीयतेः’ इत्यालमिह न प्रवर्तत इति ध्वनयति—लेतेति ॥—वरीतेति । ‘वृतो वा’ इति वा दीर्घः । लिङि वूर्यात् । आत्मनेपदे तु वृषीष्ट । वरिशीष्ट । ‘लिङ्सिचोरात्मनेपदेषु’ इति वेद् । ‘न लिङि’ इति इटो दीर्घनि- षेधः । इडभावपक्षे ‘उश्च’ इति कित्वान्न गुणः । लुङि अवारीत् । अवारिष्टाम् । अवारिषुः । ‘सिचि च परस्मैपदेषु’ इति दीर्घनिषेधः । आत्मनेपदे तु । अवरिष्ट । अवरीष्ट । इडभावे सिचो लोपः । अवृत । रिच । णिजभावे अयमनिडित्याह— रेकेति ॥—अशिक्षदिति । ‘शल इगुपधात्—’ इति क्सः । तृप । अनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति— तर्पितेति । छृदी । इंदिलान्निष्ठायामनिट् । ऋवर्णान्नस्य णत्सम् । छृण्णः । छृण्णवान् ॥—ह्रस्वश्चेति । धुञ् कम्पने इत्यर्थः ॥—अवाक्षीदिति । ‘अस्यतिवक्ति—’ इति लुका निर्देशादङ् नेति भावः । ‘वचिस्वपि—’ इति संप्रसारणम् । उच्यात् । धृष प्रसहने । केचित्त्वादितमाहुस्तन्मते धृष्टो मुख्यमते तु धृपितः । नन्वत्र ‘निष्ठा शीङ्—’ इत्यादिना सेणिन् ष्ठायाः कित्वनिषेधाद्बुणेन भाव्यमिति चेत् । अत्राहुः । आदित्साहचर्यादादित एव अधृषेत्यस्य तत्र ग्रहणात् । न च आदितो निष्ठाया इट् दुर्लभ इति शङ्ख्यम् । ‘विभाषा भावादिकर्मणोः’ इति तत्त्वंभवादिति ॥ इत्याधृषीयायुजादयः ॥ ॥ अथादन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तूच्चारणार्थं इत्यर्थः ॥—स्थानिवत्वान्न वृद्धिरिति । ‘अचः परस्मिन्—’ इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानिवदित्यनेनातिदिश्यते न त्वादेशप्रयुक्तं वार्यते । अन्यथा नायकः पावकः इत्यादि न सिद्ध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम् । ‘अचः परस्मिन्’ इत्यत्र स्थानिवदित्यनुवर्त्य शब्दाधिकारपक्षाश्रयेण भावाभावावुभावप्यतिदिश्येते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्यत्र तु ‘न पदान्त-’ इति सूत्रस्ययलोपादिग्रहणमेव लिङ्गमिति दिक् ॥ ई च गणः । ‘अत्स्मृद्वलर-’ इत्यत्र योऽत् स चकारेण समुच्चीयते । स्तन गदी । गदीत्यत्र इका निर्देशादतो लोपः । अनेकाच्चेनाषोपदेशलात्पत्वं न ॥—तिस्तनयिषति । ‘स्तनिहृषिपुषि-’ इति णेरिष्णुचि ‘अयामन्ता-’ इत्यादेशः । ‘स्तनयित्तुर्वलाहकः’ । पत गतौ वा । गणसूत्रमिदम् ॥—कृपयतीति । ‘कृपो रो लः’ इति न प्रवर्तते । तत्र कृप् सामर्थ्यं इत्यस्य ग्रहणात् । कृपप्रकृतिकणिजन्तस्य तु धालन्तरलात् । स्पृह । आप्तुमिच्छा ईप्सा ॥—अवधाम- दिति । अल्लोपस्य स्थानिवत्त्वात् ‘णौ चङि-’ इत्युपधाहस्तो न । सूच । पिञ्चनो दुर्जनस्तस्य कर्म पैञ्चन्यम् ॥—अषो- पदेशत्वादिति । अनेकाच्लादिति भावः ॥—साम सान्त्वने इत्यतीतस्य त्विति । अयं धातुः इतः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः पुस्तकान्तरेषु मृग्यः । केचित्तु साम सान्त्वने इत्यस्य काप्यपठितत्वेऽपि षान्ल सामप्रयोगे इति प्राक्पठितमेव । तत्र च षान्ल सामेति धातुद्वयं प्रयोगे वर्तते । प्रयोगश्च सान्लप्रयोगपरः । स च सान्लनमेवेत्येवं ग्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समर्थयन्ते । गवेष । मार्गणमन्वेषणम् । ऊन परिहाणे । अस्माण्णौ चङि द्विला- त्परलादन्तरङ्गलाच्च अल्लोपेन ‘अजादेर्द्वितीयस्य’ इति णिचा सह द्वित्वे औनिनदित्यनिष्ठं प्रसज्येत, किं तु औननदित्येवं रूपमिष्टम् । तच्च नशब्दस्य द्वित्वं विना न संभवति । न च ‘द्विर्वचनेऽचि’ इति सूत्रेण द्वित्वे कर्तव्ये अल्लोपस्य स्थानिव- द्भावान्निषेधाद्वा नशब्दस्य द्वित्वं सिध्यतीति वाच्यम् । णिचो द्विलनिमित्तलाभावादत आह—ओः पुयण्जीत्यादि । संपूर्णसूत्रं लिङ्गमिति केषांचिद् अग्रं निवर्तयितुमाह—पययोरिति । अयं भावः । ‘स्मिपूङ्रञ्चशां सनि’ ‘सनीवन्तर्ध-’ इति सूत्राभ्यां पूङ्यौतिभ्यां परस्य सन इडागमे कृते ‘द्विर्वचनेऽचि’ इति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्विलमिति पुपविषते । पुपविषतीत्यनिष्ठं प्रसज्यते । ततश्चाभ्यासोवर्णस्येत्यार्थं पययोरित्यपेक्षितम् । अन्यथा पिपविषते । पिपविषतीति न सिद्धेदिति
Bālamanoramā
नाग्लोपिशास्वृदिताम् - नाग्लोपि । 'णौ चङ्युपदायाः' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति, द्वितीयं तु निषेधे परनिमित्तं । तदाह — णिच्यग्लोपन इत्यादि । अलुलोकदिति । ऋदित्त्वाऽन्नाग्लोपीति निषेधेन उपधाह्रस्वाऽभावे सति लघुपरकत्वाऽभावान्नाऽभ्यासदीर्घ इति भावः । उदितत्वादिति । 'वृतु वृधु' इत्युदितत्वम्उदितो वे॑त्यण्यन्तात् क्त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानान्नेड्विकल्पप्रसक्तिः, अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी आप्यायने । इण्निषेधायेति । अण्यन्तात्क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तेः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः । तदाह - असिष्वददिति । आदेशसकारत्वात्षः । अभ्यासेऽकारस्य संयोगपरकत्वेन गुरुत्वान्नाऽभ्यासदीर्घः ।दीर्घस्य त्विति.दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति । ह्रस्वमध्यस्यैव स्वदेः षोपदेशेषु पररिगणनादिति भावः । इत्यास्वदीयाः । आ धृषाद्वेति । गणसूत्रम् । विभाषितणिचेति । विकल्पितणिच्काः प्रत्येतव्या इत्यर्थः । आङभिव्याप्ताविति मत्वा आह - धृषधातुमभिव्याप्येति । णिजभावपक्षे आह — अयौक्षीदिति । अर्च पूजायामिति । अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठोऽनार्षः, अनेनैव सिद्धेः । न च परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम्, भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिकएवेत्याहुः । ली द्रवीकरणे । लाययतीति । लीलोरिति नुक्तु न, लासाहचर्याद्धेतुमण्णावेवाऽस्य प्रवृत्तेः । लेतेति ।विभाषा लीयते॑रित्यात्त्वं तु न, तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे । वरिता - वरीतेति ।वृतो वे॑ति दीर्घः । आशीर्लिङि - व्रियात् । आत्मनेपदे तुलिङिसचो॑रितिवेट् । वृषीष्ट — वरिषीष्ट । इडभावपक्षेउश्चे॑ति कित्त्वान्न गुणः ।न लिङी॑ति इटो न दीर्घः । अवृत । ज्रि चेति । ह्रस्वान्तोऽयम् । रिच वियोजनेइति । अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह — रेक्तेति । शिष असर्वेति । अयमप्यनिट् । तदाह — शेष्टेति । अशिक्षदिति ।शल इगुपधा॑दिति क्सः । अयं विपूर्वोऽतिशये इति । 'वर्तते' इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं सेट् । तदाह — तर्पितेति । छृदी संदीपने इति । ईदित्त्वं निष्ठायामिण्निषेधार्थम् । धुवति स्फुटितेति । शविकरणस्य रूपम् । शस्य ङित्त्वाद्गुणाऽभावे उवङ् । प्रीञ् तर्पणे । प्रीणयतीति ।धूञ्प्रीञो॑रिति वार्तिकान्नुगिति भावः । हरदत्तेति । अनेन भाष्याऽसंमतत्वं सूचितम् । उपसर्गाच्चेति । दैघ्र्ये तूपसर्गादनुपसर्गाच्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः । श्रद्धोपकरमयोस्त्वनुपसर्गादेवेति भावः । वच परिभाषणे । अवाक्षीदिति ।अस्यातिवक्ती॑ति लुका निर्देशादङ्नेति भावः ।वचिस्वपी॑ति संप्रसारणम्- उच्यात् । इत्याधृषीयाः । अथाऽदन्ता इति । 'वक्ष्यन्ते' इति शेषः । अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः । तत्र कथदातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति । तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह - अल्लोपस्य स्थानिवद्भावादिति ।अचः परस्मि॑न्नित्यनेनेति भावः । अत्रेदमवधेयं — स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः । अन्यथा 'नायक' इत्यत्र ईकार स्थानिकस्य ऐकारस्य आयादेशानापत्तेः । ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् ।अचः परस्मि॑न्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । अतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्ध्यभावस्याऽशास्त्रीयत्वेऽप्यतिदेश इतीति सिद्धम् । लुङि चङि 'अचकथ' दित्यत्र सन्वत्त्वमाशङ्क्याह — अग्लोपित्वादिति । सन्वत्वविषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण सङ्ख्याने । चङि अल्लोपस्य स्थानिवत्त्वाद्दीर्घसन्वद्भावयोरभावेअजगण॑दित्येव प्राप्ते आह —
SK 2573 · A 7.4.97V
ई च गणः ॥ २५७३ ॥
ī ca gaṇaḥ
Siddhānta-kaumudī
गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् ।{$ {!1855 शठ!} {!1856 श्वठ!} सम्यगवभाषणे$} ।{$ {!1857 पठ!} {!1858 वठ!} ग्रन्थे$} ।{$ {!1859 रह!} त्यागे$} । अररहत् ।{$ {!1860 स्तन!} {!1861 गदी!} देवशब्दे$} । स्तनयति । गदयति अजगदत् ।{$ {!1862 पत!} गतौ वा$} । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ।{$ {!1863 पष!} अनुपसर्गात्$} । गतावित्येव । पषयति ।{$ {!1864 स्वर!} आक्षेपे$} । स्वरयति ।{$ {!1865 रच!} प्रतियत्ने$} । रचयति ।{$ {!1866 कल!} गतौ संख्याने च$} ।{$ {!1867 चह!} परिकल्कने$} । परिकल्कनं दम्भः शाठ्यं च ।{$ {!1868 मह!} पूजायाम्$} । महयति । महतीति शपि गतम् ।{$ {!1869 सार!} {!1870 कृप!} {!1871 श्रथ!} दौर्बल्ये$} । सारयति । कृपयति । श्रथयति ।{$ {!1872 स्पृह!} ईप्सायाम्$} ।{$ {!1873 भाम!} क्रोधे$} । अबभामत् ।{$ {!1874 सूच!} पैशून्ये$} ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् ।{$ {!1875 खेट!} भक्षणे$} ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ।{$ {!1876 क्षोट!} क्षये$} ।{$ {!1877 गोम!} उपलेपने$} । अजुगोमत् ।{$ {!1878 कुमार!} क्रीडायाम्$} । अचुकुमारत् ।{$ {!1879 शील!} उपधारणे$} । उपधारणमभ्यासः ।{$ {!1880 साम!} सान्त्वप्रयोगे$} । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ।{$ {!1881 वेल!} कालोपदेशे$} । वेलयति । काल इति पृथग्धातुरित्येके । कालयति ।{$ {!1882 पल्पूल!} लवनपवनयोः$} ।{$ {!1883 वात!} सुखसेवनयोः$} । वातयति । अववातत् ।{$ {!1884 गवेष!} मार्गणे$} । अजगवेषत् ।{$ {!1885 वास!} उपसेवायाम् $}।{$ {!1886 निवास!} आच्छादने$} । अनिनिवासत् ।{$ {!1887 भाज!} पृथक्कर्मणि$} ।{$ {!1888 सभाज!} प्रीतिदर्शनयोः$} । प्रीतिसेवनयोरित्यन्ये । सभाजयति ।{$ {!1889 ऊन!} परिहाणे$} । ऊनयति । ओः पुयण्जि SK 2577 इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् ।{$ {!1890 ध्वन!} शब्दे$} । अदध्वनत् ।{$ {!1891 कूट!} परितापे$} । परिदाहे इत्यन्ये ।{$ {!1892 सङ्केत!} {!1893 ग्राम!} {!1894 कुण!} {!1895 गुण!} चामन्त्रणे$} । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् - केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केतेति ।{$ {!1896 कूण!} सङ्कोचने इति$} ।{$ {!1897 स्तेन!} चौर्ये$} ॥ अतिस्तेनत् ॥ आ गर्वादात्मनेपदिनः ॥{$ {!1898 पद!} गतौ$} । पदयते । अपपदत ।{$ {!1899 गृह!} ग्रहणे$} । गृहयते ।{$ {!1900 मृग!} अन्वेषणे$} । मृगयते । मृग्यतीति कण्ड्वादिः ।{$ {!1901 कुह!} विस्मापने$} ।{$ {!1902 शूर!} {!1903 वीर!} विक्रान्तौ$} ।{$ {!1904 स्थूल!} परिबृंहणे$} । स्थूलयते । अतुस्थूलत ।{$ {!1905 अर्थ!} उपायाच्ञायाम्$} । अर्थयते । आर्तथत ।{$ {!1906 सत्र!} सन्तानक्रियायाम्$} । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते ।{$ {!1907 गर्व!} माने$} ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ {$ {!1908 सूत्र!} वेष्टने$} । सूत्रयति । असुसूत्रत् ।{$ {!1909 मूत्र!} प्रस्रवणे$} । मूत्रयति । मूत्रति ।{$ {!1910 रूक्ष!} पारुष्ये$} ।{$ {!1911 पार!} {!1912 तीर!} कर्मसमाप्तौ$} । अपपारत् । अतितीरत् ।{$ {!1913 पुट!} संसर्गे$} । पुटयति ।{$ {!1914 धेक!} दर्शन इत्येके$} । अदिधेकत् ।{$ {!1915 कत्र!} शैथिल्ये$} । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि - SK 2314 इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (गणसूत्रम् -) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (गणसूत्रम् -) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (गणसूत्रम् -) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ।
vārttika
आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति
(वार्तिकम्) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥
Tattvabodhinī
alignment inferredNSP p. 434–437
—वर्गप्रत्याहारेति । पुयण्जीति वर्गादिग्रहणफलं तु अवीभवत् अमीमवत् अरीरवत् अलीलवत् अजीजवत् विभावयिषति मिमावयिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम् । तद्दुरुपपादम् । णिचि परलादन्तरङ्गलाच्च वृद्ध्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभलादकारस्य ‘सन्यतः’ इतीत्वेन रूपसिद्धेश्च । ततो वर्गादिग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमिति भावः । ज्ञापनफलं तु यत्र ‘ओः पुयण्जि-’ इत्यस्याप्राप्तिस्तत्र बोध्यम् । तद्यथा । बुक्षावयिषति । चञ्चबुक्षवत् । उडुरिवाचरति । उडवति । ‘सर्वप्रातिपदिकेभ्यः-’ इत्याचारे क्विप् तदन्ताद्धातोर्णौ सन् । उड्डावयिषति । चङि औड्डवत् । तु इति सौत्रो धातुस्ततो णौ सन् । तुतावयिषति । चङि अतूतवत् । तुनावयिषति । अनूनवत् । पुस्फारयिषति । अपुस्फुरत् । ‘चिस्फुरोर्णौ’ इति वालम् । अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति ज्ञाप- नात्, अन्यथा चिक्षावयिषतीत्यादि प्रसज्येत । तदेतत्सकलमभिप्रेत्य वार्तिककृतोक्तम् ‘ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य’ इति । स्थानिवद्भावः प्रतिषेधस्याप्युपलक्षणम् । अच्च आदेशो न स्यादिति । प्रतिषेधपक्षो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्भावस्याप्युपलक्षणमिति बोध्यम् । नन्वेवं कृत संशब्देन इति धातोर्णौ चङि इरा- वेशात्प्रागेव कृत इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान्न तु अचिकीर्तदित्यत आह—यत्र द्विरुक्ताविति ॥—आधोजिति । चङ्सहितस्योत्तरखण्डलमभ्युपेत्येदमुक्तम् । अन्ये तु आदामहणं क्षमामुपेत्येदमुक्तम् । अत्र स्यादिति प्रत्यर्थं काचो द्वित्वे सत्यभ्यासोत्तरखण्डे अज्द्रयासंभवादित्याहुः । औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्यालाभादाह—प्रक्रिया-यामिति । चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह—परिनिष्ठिते रूपे वेति । वाशब्दोऽनास्थायां क्रान्धिदवर्णपरत्वं विवक्षितं न तु अमुकत्रैवेत्याग्रह इति भावः ॥—सजातीयापेक्षत्वादिति । पुयण्जीत्यभ्यासोत्तर-खण्डे अवर्णपरा भवन्ति । अतस्तथैव ज्ञापकमित्यर्थः । अत एव भाष्यकृता पवर्गादेरन्यस्मिन्नपि हलि अवर्णपरे एव स्थानिवत्त्वमिति अभिकीर्तदित्यादौ नातिव्याप्तिरिति सिद्धान्तितम् । ननु ‘ओः पुयण्जि—’ इति सूत्रे णिचि इति नास्ति तथा च णिच्यच आदेशो न स्यादित्यर्थे कथमिदं ज्ञापकं भवेत् । न च सामान्यतो द्वित्वे कार्ये अच आदेशो न स्यादि-त्येव ज्ञाप्यतामिति वाच्यम् । दिदवनीयिपति निनवयिषतीत्यादावभ्यासे उकारश्रवणप्रसङ्गादिति चेत् । अत्राहुः । येन नाव्यवधानमित्येकेन प्रत्ययेन द्विलनिमित्तप्रत्ययस्य व्यवधानमाश्रीयते । तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकं, दिदवनीयिषतीत्यत्र तु त्युटा क्यचा व्यवधानादनेकव्यवधानमिति न तद्विषयकं ज्ञापनमिति । अस्मिन् मते आचारक्रि-वन्ताद्द्वनशब्दात्सनि दुदवनिषतीति स्यात्, तच्च नेष्यते, णौ स्थानिवद्भावस्य ज्ञापकमिति वार्तिकोक्तेः । स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम् । अतो वार्तिककारवचनादेव णौ स्थानिवदिति स्वीकर्तव्यम् । तथा च ना पूर्वोदाहरणेषु दोष इति दिक् । फलितमाह—प्रकृते त्विति ॥—औननदिति । ‘नोनयति ध्वनयति—’ इति चङ्गिषे-धस्त्विह न । तत्र छन्दसीत्यनुवृत्त्या ‘मा त्वावतो जरितुः काममूनयीः’ इत्यादावेव तन्निषेधात् । यथापि परिनिष्ठित एवावर्णपरत्वमित्याशयेन उवर्णादेश एव स्थानिवत्स्यान्नान्य इति वदतां वोपदेवादीनां मते औनिनदित्येव भाव्यम् । अव-र्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वालाभात्तथापि अभिकीर्तदित्यादौ स्थानिवत्त्वमाशङ्क्य उत्तरभागे अव-र्णाभावादिति भाष्यकारोक्तपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीत्यौननदिति रूपं निर्बोधमेव । किं च उवर्णादेश एवेति नियमे ‘लोपः पिवतेरीच्चाभ्यासस्य’ इति सूत्रे अपीप्यदित्यत्र पिवतेर्णौ ‘शाच्छासा—’ इत्यादिना युकि चङि उपधालोपे तस्य स्थानिवत्त्वात्पाप्शब्दस्य द्विलमिति वृत्तिग्रन्थो विरुच्येत । अपि च ‘शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा’ इति वैयाप्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुच्येत । एतद्वि पूर्वत्रासिद्धमित्यस्य प्रयोजनक-थनवार्तिकम् । तद्यथा । शुष्किकेत्यत्र तु ‘उदीचामातः—’ इतीत्वविकल्पो न । ‘शुषः कः’ इति कलस्यासिद्धत्वेन यकपूर्व-त्वाभावात् । शुष्कजङ्घेत्यत्र कलस्यासिद्धत्वादेव ‘न कोपधायाः’ इति पुंवद्भावनिषेधो न । क्षामिमानित्यत्र तु ‘मादुप-धाया—’ इति वत्त्वं न । ‘क्षायो मः’ इति मलस्यासिद्धत्वात् । वहेः क्तान्ताणिचि चङि औजढदित्यत्र ढलस्यासिद्धत्वाण्णौ कृतस्य टिलोपस्य स्थानिवत्त्वाच्च हतशब्दस्य द्वित्वं ‘कुहोक्षुः’ ‘अभ्यासे चर्च’ सन्वदित्वं तु अनग्लोपीति प्रतिषेधात्र भवति । एवं काशिकायामपि ‘पूर्वत्रासिद्धम्’ इति सूत्रे औजढदित्युदाहृत्य ऊढिमाख्यदौजिढदित्येतत्तु किन्नन्तस्य ऊढि-शब्दस्य भवतीत्युक्तं तदपि विरुच्येत । उवर्णादेश एव स्थानिवदिति नियमे णौ कृतस्य टिलोपस्यात्र स्थानिवत्त्वाभावेन हत-शब्दस्य हतिशब्दस्य वा द्वित्वासंभवात् । एवं चाङ्घधातोर्णिच्यलोपे चङि स्थानिवत्त्वात्कशब्दस्य द्वित्वे आश्चकदिति रूपमेव सर्वसंमतं न त्वाञ्चिकदिति वोपदेवोक्तमिति वोध्यम् । नन्वभिकीर्तदित्यादौ स्थानिवत्त्वमाशङ्क्योत्तरभागे अवर्णाभावादिति वदन्भाष्यकारो न वोपदेवग्रन्थस्य प्रतिकूलः । उत्तरभागे परिनिष्ठितरूपे अवर्णपरत्वमुवर्णादेशस्यैवं संभवति नान्यस्येत्या-शयेनैव भाष्यकारेण तथोक्तमिति वक्तुं शक्यत्वादिति चेत् । मैवम् । तथा हि सति यत्र ‘ओः पुयण्जि—’ इत्यस्याप्राप्ति-स्तत्राप्युवर्णादेश एव स्थानिवज्ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत् । ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगादिति दिक् । संकेतिताश्वत्वारोऽत्र धातवः ॥—पाठान्तरमिति । संकोचन इत्येतत्पर्यन्तम् । अनेकाच्च्चेना-षोपदेशत्वात्पत्वं नेति ध्वनयति—अतिस्तेनदिति ॥—गृह्यते इति । अल्लोपस्य स्थानिवत्त्वात्र गुणः । लुङि अजगृहत् । अग्लोपात्र सन्वद्भावः॥—मृगयते इति । मार्गयति । मार्गतीति तु मार्ग अन्वेषण इत्याधृषीयस्य । अर्थ ॥—अर्थयत इति । ‘दृढेलोपो वलीयान्’ इत्यल्लोपान् दृढिः । वोपदेवस्तु दृढौ कृतायां पुकि चाऽर्थापयते इति रूपमाह तद्रभसात् । न च ‘अर्थवेदसत्यानाम्’- इत्यापुक् स्यादेवेति वाच्यम् । तत्र प्रातिपदिकस्य ग्रहणात् ॥—अदन्तत्वसामर्थ्यादिति । कथादिपूपधादृढिदीर्घसन्वद्भावविरहेण सारभामप्रभृतीनामुपधाहस्वस्य गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनादन्तत्वं सार्थकम् । इह लदन्तत्वे प्रागुक्तफलाभावाणिचः पाक्षिकत्वं ज्ञापयतीति भावः । ननु अदन्तत्वसार्थकत्वाय वाल्लोप इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत् । अत्राहुः । चिन्तयतेरिदित्वं सामान्यापेक्षं ज्ञापकमिति मते इह अदन्तत्वस्य फलं स्पष्ट-मेव । विशेषापेक्षं ज्ञापकमिति मते तु तत्र तत्र आकार ईकार उकार ऊकाराश्चेत्यनुवन्धा यथा ज्ञापकतया स्वीकृताः तथा अदन्ततापि णिच्विकल्पमेव ज्ञापयतु, क्लुरैनैव णिज्विकल्पेन कृतार्थत्वे अपूर्वस्य लोपवाधस्य कल्पनाया अन्याय्यत्वात् । एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति ॥—असुसूत्रदिति । अनेकाच्छान्न षलम् ॥—प्रातिपदिका-दिति । यदि सुवन्ताणिच् स्यात्तदा सजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित् । तन्न । इष्टवद्भावेन भत्वे कुल-स्याप्रसक्तेः । अत्र बहुलं णिच् स्यात् । स च णिच् इष्टवद्भवतीति अन्वयात्पक्षे वाक्यमपि भवतीत्याह—पटुमाचष्ट इति । धात्वर्थं इत्यनेन करणाख्यानादिर्गृह्यत इति भावः । ननु बहून्याचष्टे भावयतीत्यत्र ‘इष्टस्य यिट् च’ इति णिचोऽपि यिट् स्यात् । अत्राहुः । टेरिति सूत्रे णाविष्टवत्प्रातिपदिकस्येति वार्तिके प्रातिपदिकग्रहणं प्रत्ययकार्याणामतिदेशो माभूदि-त्येवमर्थम् । तेनात्र णिचोपीण्न भवति तदभावे भूभावेनापि न भवितव्यं संनियोगशिष्टत्वात् । किंतु बह्यतीत्येव भवितव्यमिति मतान्तरम् । एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति । अन्ये त्वाहुः । इष्टवदिति हि सप्तम्यन्ताद्वतिर्णावित्युप-मेये सप्तमीदर्शनात्तेन इष्टनि परे पूर्वस्य यत्कार्यं तदतिदिश्यते न लिष्टनोऽपीति ॥—पुंवद्भावेति । अतिशयेन पद्वी पटिष्टेत्यत्र ‘भस्याढे तद्धिते’ इति पुंवद्भावः । कशिष्टः द्रढिष्टः इत्यत्र ‘र ऋतो हलादेः’- इति रभावः । साधिष्ठ इत्यादौ टिलोपः । अतिशयेन स्रग्वी सजिष्ठ इत्यत्र ‘विन्मतोर्लुक्’ इति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक् । स्थविष्ठ इत्यादौ ‘स्थूलवूर्’- इत्यादिना यणादिलोपः । प्रेष्ठ इत्यादौ ‘प्रियस्थिर’- इत्यादिना प्रस्थाद्यादेशः ॥—तद्वरणावपीति । पुंवद्भावस्योदाहरणमेणीमाचष्टे एतयति । टिलोपेनैव सन्नियोगशिष्टत्वान्नकारनिवृत्तौ सिद्धायां पुंवद्भा-वप्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम् । द्रढयतीत्यादौ रभावः । स्रग्विणमाचष्टे सजयतीत्यत्र विनो लुक् । गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक् । अङ्गवृत्तपरिभाषया दृढिरत्र न भवति । प्रियमाचष्टे प्रापयति । स्थिरमा-चष्टे स्थापयतीत्यादौ तु दृढिर्भवत्येव । द्वयोरिति निर्देशेन तस्याः परिभाषाया अनित्यत्वज्ञापनादिति दिक् ॥—परत्वा-दृढायिति । लोपः शब्दान्तरप्राप्त्याऽनित्यः । दृढिरप्यनित्या । उभयोरनित्ययोः परत्वादृढिः । तस्यां कृतायामौकारस्या-वादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य वलीयस्त्वाच्च लोप इत्यर्थः । एवं चानग्लोपित्वादीर्घसन्वद्भावौ स्त इत्याह—अपीपट-दिति । इह टिलोपस्य स्थानिवद्भावेन व्यवधानादीर्घसन्वद्भावौ नेति न भ्रमितव्यम् । स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वान-पायात् । चङ्परे णौ यल्लध्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्वद्भावौ स्त एव । केचित्तु चङ्परे णौ यल्लध्विति पक्षे पटुशब्दोकारस्य दृढौ कृतायां णिच्परं लघु दुर्लभमिति सन्वद्भावाप्राप्त्याऽपपट-दित्येव रूपम् । प्रथमं टिलोपः पश्चाद्विर्वचनमिति मत्वा अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति म-नोरमोक्तं यत्, तन्नादर्तव्यम् । णिच्यच आदेशो न स्याद्वित्वे कर्तव्ये इति निषेधपक्षस्य मुख्यतया प्रागुक्तत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम् । अपीपटदित्यत्र द्वितीयाच्पर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम् । तथाच द्वितीयस्याचो द्वित्वाकरणात्प्रथमं टिलोपः स्यादेवेति ॥—चृढेलोप इति । कृताकृतप्राप्तिमात्रेण लोपो नित्यः । दृढिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात्, स्वविधौ स्वस्य स्थानिवत्त्वाभावाच्च । अ-स्मिन्नु पक्षे ‘मुण्डमिश्र’- इति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैयर्थ्यमेव । दृढेः प्राक् टिलोपे सति अग्लोपित्वसंभ-वात् । तथा चादन्तत्वनिपातनसामर्थ्यादिलोपस्य दृढिरेवेत्यवपलोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते । भाष्य- द्वयप्रामाण्याद्रूपद्वयमपि साध्विति वहवः ॥—लडथंस्त्विति । करोलाचष्टे इति हि कर्तरि वर्तमाने लडेकवचनम् । लडथंविवक्षायां तु ण्यन्ताद्भावकर्मणोः भूतभविष्यतोर्द्विलवहुलयोश्च प्रलयो भवत्येवेति भावः । यद्यप्येकलादिसंख्या लडथों न भवति तथापि लडादेशतिङ्थोंऽपीह लडथंचेन गृहीत इति ज्ञेयम् ॥—तेनातिक्रामति । तृतीयाप्रकृतिभूता-त्प्रातिपदिकाणिन् । तृतीयान्ताणिजिल्यन्ये । एवं तत्करोतीलत्रापि द्वितीयाप्रकृतिभूताद्वितीयान्ताद्वा णिच् । न च सुबन्ताणिन् वाचं-करोलाचष्टे वाचाऽतिक्रामति वा वाचयतीलत्र कुत्वं स्यादिति शङ्क्यम् । इष्टवद्भावेन भसंज्ञया पदसंज्ञाया वाधात् । यशस्विनमाचष्टे यशसयति सरिवणमाचष्टे सजयतीलादौ विनो लुकि प्राप्तस्य पदकार्यस्य वाधार्थं भसंज्ञातिदेश-स्यावश्यकलात् ‘तत्करोति—’ इत्यादिनिर्देशानुगुणलाच सुबन्ताणिजिति पक्ष एव ज्यायानिलाहुः ॥—णिच्प्रकृतिरिति । वधशब्दो णिच्प्रकृतिरिदानीं तु कृत्कृम्यवशिष्टभाग एव प्रकृतिरित्यर्थः ॥—आख्यानात्कृत इति । यद्यपि वधशब्दः कृदन्तः स आख्यानं न भवति तथाप्याख्यानवाची कृदन्तश्च कंसवधशब्दो भवत्येव कृद्वहणे गतिकारकपूर्वस्यापि प्रहणात् ॥—कृत्कुगिति । ‘हनश्च वधः’ इति विहितस्य अप्प्रलयस्य लुक् ॥—प्रकृतिप्रत्यापत्तिरिति । विकारपरित्यागेन स्वरूपेणावस्थितिरित्यर्थस्तदेतत्सकलमभिप्रेत्याह—कंसं हन ई इति स्थिते इति
Bālamanoramā
ई च गणः - ई च गणः । 'सन्वल्लघुनी' त्यतश्चङ्परे इति,अत्र लोपे॑त्यतोऽभ्यासस्येति चानुवर्तते । तदाह - गणेरभ्यासस्येति ।अत्स्मृदृत्वरे॑ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते । तदाह — चाददिति । स्तनगदी देवशब्दे इति । पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः । तदाह — वा णिजन्त इति । आधृषीयत्वाऽभावाद्विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः । णिच् तु नित्य एव । तदाह — वा अदन्त इत्येके इति । प्रथमपक्षे तु अदन्तत्वमेव । तदाह — आद्ये पतयतीति । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पतांचकारेति । णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः । चङि — अपपतत् । अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति । तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः । अपीपतदिति । अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति । अदन्तस्य त्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । स्पृह ईप्सायाम् । आप्तुमिच्छा- ईप्सा । अबभामदिति । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । सूच पैशुन्ये । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति । टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः = अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । ननु 'साम सान्त्वने' इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह — सामसान्त्वने इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वे, दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपिसाम सान्त्वप्रयोगे॑ इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणम् - अन्वेषणम् । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । तदाह - अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणम् - न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपेचङी॑त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्यद्विर्वचनेऽची॑ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो॑रित्येव वक्तव्ये 'पु' इति पवर्गस्य,य॑णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्मित्यन्वयः । कुत्र लिङ्गमित्यत आह — णिचीत्यादि । द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः ।तथाहि - 'ओः पुयण्ज्यपरे' इति सूत्रम् ।सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत॑ इति तद । 'पुङ्' पिपवायिषति,भू॑बिभावयिषति,यु॑- यियावयिषति,रु॑- रिरावयिषति,लूञ्- लिलावयिषति,जु॑- जिजवयिषतीत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचिद्विर्वचनेऽची॑ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात् । तत्र हि — इको झ॑ल#इति सनः कित्त्वात् 'श्र्युकः किति' इति प्राप्तमिण्निषेधं बाधित्वा,स्मिपूङ्रञ्ज्वशां सनी॑ति,सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना॑मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततयाद्विर्वचनेऽची॑ति गुणावाऽदेशयोर्निषेधे सति 'पू' 'यु' इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थंपययो॑रित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणंतु द्वित्वे कार्ये णावच आदेशो ने॑त्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुपते सतिचङी॑ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः । ननु 'कृत संशब्दने' अस्मात् णौउपधायाश्चे॑ति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृदित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह — यत्र द्विरुक्तावित्यादि । यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः । नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः , नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र 'क्षु' इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः । न द्वितीयः, ऊन इ अ त् इति स्थिते सतिने॑त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति 'नी' त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह — प्रक्रियायां परिनिष्ठिते रूपे वेति । न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृत इत्त्वस्य न निषेध इति भावः । एवं चचुक्षावयिषती॑त्यत्र 'क्षु' इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह — प्रकृते त्विति । औननदित्यत्रेत्यर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः । तत इति । नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह — मा भवानूननदिति । अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति । 'केत श्रावणे' इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । 'समुच्चीयते' इतिशेषः । सङ्कोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ । स्तेन चौर्ये । अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह — अतिस्तेनदिति । गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः । लुङि - अजगृहत । अग्लोपित्वान्न सन्वत्तवम् । मृग अन्वेषणे । मृगयते इति । इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग् अन्वेषणे' इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः, न तुअचो ञ्णिती॑ति वृद्धि,वृद्धेर्लोपो बलीया॑ निति न्यायात् ।अर्थवेदयो॑रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात् । नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः । नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामर्थ्याण्णिज्विकल्प इति । ननु 'गर्वते' इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह — धातोरन्त उदात्त इति । तेन 'गर्वते' इत्यत्र वकारादकारौदात्तः फलति । अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः । लिटआम् चेति । 'गर्वाचक्रे' इतय्त्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्ररुआवणे' इत्यादावित्यर्थः । इत्यागवर्वीयाः । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वाह — कर्तयति कर्ततीति । प्रातिपदिकाद्धात्वर्थे । चुरादिगमसूत्रमिदम् ।इष्ठ॑वदिति सप्तम्यन्ताद्वतिः । तेन भुवमाचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति यिडागमो न भवति । तदाह — इष्ठे यथेति । अत्रधात्वर्थे इत्यनेन करणमाख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्र 'भस्याऽढे' इति पुंवत्त्वम् । 'द्रढिष्ठ' इत्यत्रर ऋतो हलादेर्लघो॑रिति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौस्थूलदूरयुवे॑त्यादिना यणादिलोपः, पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । पटयतीति । पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वाट्टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह - परत्वादद्वृद्धौ सत्यां टिलोप इति ।अचो ञ्णितीत॑ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः । अकृतायां तु वृद्धावुकारस्य टेर्लोपः । ततश्चशब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायेन टिलोपोऽनित्यः । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या । एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः । तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः । एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽऽह - अपीपटदिति । एतच्चमुण्डमिश्रे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु — वृद्धेर्लोपो बलीया॑नितिणौ चङी॑ति सूत्रभाष्यमेव प्रमाणं ।मुण्डमिश्रे॑ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुंवद्भावादिकमुदाह्यियते — एनीमाचष्टे एतयति । पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः । दृढमाचष्टे द्रढयति । 'र ऋतः' इति रभावः । रुआग्विणमाचष्टे रुआजयति ।विन्मतो॑रिति विनो लुक् । गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात् । रुआग्विणमाचष्टे रुआजयति । सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः । आचारक्विबिव प्रातिपदिकादेवेदम् । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैव प्रपञ्चेति । ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह — करोत्यचष्टे इत्यादि । लडर्थ इत्युपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् ।प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रम् । णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे — णिच्प्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह — वशब्दोऽनुक्तसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह — तथा च वार्तिकमिति । आख्यानात्कृत इति.॒हेतुमति चे॑ति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं — वृत्तकथाप्रबन्धः । तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः ।प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते । कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम् । हननं वधः । 'हनश्च वधःर' इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च । कंसस्य वधः कंसवधः । तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथा च फलितं दर्शयति — इह कंसं हन् इ इति स्थिते इति ।
SK 2574 · A 7.3.32V
हनस्तोऽचिण्णलोः ॥ २५७४ ॥
hanasto'ciṇṇaloḥ
Siddhānta-kaumudī
हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (गणसूत्रम् -) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति ।{$ {!1916 वल्क!} दर्शने$} ।{$ {!1917 चित्र!} चित्रीकरणे$} । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ।{$ {!1918 अंस!} समाघाते$} ।{$ {!1919 वट!} विभाजने$} ।{$ {!1920 लज!} प्रकाशने$} ॥ वटि लजि इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ।{$ {!1921 मिश्र!} सम्पर्के$} ।{$ {!1922 संग्राम!} युद्धे$} । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत ।{$ {!1923 स्तोम!} श्लाघायाम्$} । अतुस्तोमत् ।{$ {!1924 छिद्र!} कर्णभेदने$} । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ।{$ {!1925 अन्ध!} दृष्ट्युपघाते$} । उपसंहार इत्यन्ये । आन्दधत् ।{$ {!1926 दण्ड!} दण्डनिपातने$} ।{$ {!1927 अङ्क!} पदे लक्षणे च$} । आञ्चकत् ।{$ {!1928 अङ्ग!} च$} । आञ्जगत् ।{$ {!1929 सुख!} {!1930 दुःख!} तत्क्रियायाम्$} ।{$ {!1931 रस!} आस्वादनस्नेहनयोः$} ।{$ {!1932 व्यय!} वित्तसमुत्सर्गे$} । अवव्ययत् ।{$ {!1933 रूप!} रूपक्रियायाम्$} । रूपस्य दर्शनं करणं वा रूपक्रिया ।{$ {!1934 छेद!} द्वैधीकरणे$} । अचिच्छेदत् ।{$ {!1935 छद!} अपवारण इत्येके$} । छदयति ।{$ {!1936 लाभ!} प्रेरणे$} ।{$ {!1937 व्रण!} गात्रविचूर्णने$} ।{$ {!1938 वर्ण!} वर्णक्रियाविस्तारगुणवचनेषु$} । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा ।{$ {!1939 पर्ण!} हरितभावे$} । अपपर्णत् ।{$ {!1940 विष्क!} दर्शने$} ।{$ {!1941 क्षिप!} प्रेरणे$} ।{$ {!1942 वस!} निवासे$} ।{$ {!1943 तुत्थ!} आवरणे$} ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो राज्यमचीकरत् इति यथेत्याहुः । चुरादिभ्यो एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (गणसूत्रम् -) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (गणसूत्रम् -) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (गणसूत्रम् -) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-SK 2676 इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥
Tattvabodhinī
alignment inferredNSP p. 437–438
—कंसविशिष्टस्येति । तस्मादेव णिचो विधानादिति भावः । दोष इति । कशब्दात्पूर्वमडागमः कंस इत्यस्य द्विवचनं स्यादित्यर्थः ॥—किंचेति । एवं च कंसमजीघनदितीष्टं न सिध्येदिति भावः ॥—तत्प्रत्यये धातोर्विहितप्रलये । तेन वात्रमित्यत्र ‘हनस्तः’इति तत्वं न भवतीति ज्ञेयम् । उक्तदोषान्परिहरति—सत्यमिति । प्रकृतिवचेति चकारोऽनुक्तसंग्रहार्थ इत्याह—चात्कार्यमिति । यद्यप्यन्य-तरातिदेशेनाप्यट्द्विवचने सिध्यतः, तथापि धातावनन्तर्भूतद्वितीयान्तादिलाभाय कारकातिदेशः । कार्यातिदेशस्तु कुलत-लादिलाभायेति विवेकः । इह भारतभागवतादिप्रसिद्धे कंसवधाद्युपाख्याने एव णिजिति नाग्रहः किं तूपाख्यानमात्रे । तेन राजागमनमाचष्टे राजानमागमयतीलादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमेर्हेतुमणौ ‘गतिबुद्धि—’ इत्य-नेन तस्य कर्मलमिति द्वितीयान्तमेव रूपातिदेशबलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीलत्र तु देवदत्तस्य कर्तृलानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौ ‘ह्कोरन्यतरस्याम्’ इति विकल्पात् रुक्मिणीं रुक्मिण्या वा हारयतीति प्रयोगः ॥—कर्तृकरणादिति । कर्तृग्रहणाभावे चक्षुषा पश्यति चक्षयतीलादावेव स्याम्न तु करिभिरवबभ्राति अवकरयतीलादौ । लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धलात्, अतस्तत्संग्रहार्थं कर्तृग्रहणमिति मनो-रमायां स्थितम् । नव्यास्तु साधकतमत्वेन विवक्षितं यत् तत्करणशब्देन गृह्यते न तु लोकप्रसिद्धकरणमेव । अन्यथा ‘कर्तृकरणयोस्तृतीया’ इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्त्या वाणेन हत इत्यादि रूपं न सिध्येत् । तथा च कर्तृग्रहणं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्वाधकमिति व्याख्याय कर्तृकरणादित्यत्र समाहारद्वन्द्वं मला देवदत्तेन पाचयति देवदत्तयतीत्युदाजहः । कदाचिद्दर्शने । चित्रकरणकदाचिद्दर्शनयोरिति सुवचम् ॥—अदन्तेषु पाठवलादिति । अदन्तस्य फलान्तराभावादतोलोपं वाधिला वृद्धिरित्यर्थः । संग्राम । संग्रामेति युद्धवाचि प्रातिपदिकं करोलये णिचं लभते ॥—अनुदात्तेदिति । एतच्च ‘भृशादिभ्यो भुवि—’ इति सूत्रे कैयटेनोक्तम् ॥—अकारप्रश्लेषादिति । तेन प्रश्निष्टस्येत्संज्ञा प्रकृत्यकारस्य तु इष्टवदिति टिलोपः । तथा च अग्लोपादससंग्रामतेत्यत्र नोपधाहस्वः । सुख दुःख । तच्छब्देन सुखदुःखे प्रातिपदिकार्थौ परामृश्येते । प्रातिपदिकाद्धालयं इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थं इत्येके । सुखदुःखाभ्यां तत्क्रियायामेव णिच् स्यान्न लाचष्ट इत्यस्मिन्नर्थं इत्येतदर्थः पाठ इत्यन्ये ॥—पुच्छादिष्विति । भीमसेनस्य वाक्यम् ॥—ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्यान्त इत्यर्थः ॥ इति चुरादयः ॥ तत्प्रयोजको हेतुश्च ॥ तच्छब्देन ‘स्वतन्त्रः कर्ता’ इति पूर्वसूत्रोपात्तः कर्ता परामृश्यते । तस्य कर्तुः प्रयोजकः प्रेरकः, तथापारानुकूलव्यापारवानित्यर्थः । चकारः एकसंज्ञाधिकारवाधनार्थस्तदाह—हेतुसंज्ञः कर्तृसंज्ञश्चेति । हेतुसंज्ञायाः प्रयोजनं ‘भीत्स्योर्हेतुभये’ ‘भियो हेतुभये पुक्’ इत्यादौ प्रयोजकस्य हेतुत्वेन व्यवहारः । कर्तृसंज्ञायास्तु ‘लः कर्मणि च भावे च—’ इति सूत्रेण प्रयोजके वाच्ये लकारादयः
Bālamanoramā
हनस्तोऽचिण्णलोः - हनस्तोऽचिण्णलोः । 'हन' इति षष्ठी । 'त' इत्यत्राऽकार उच्चारणार्थः । तदाह - हन्तेस्तकार इति । 'अन्तादेश' इत्यलोऽन्त्यपरिभाषया सिद्धम् । ञिति णिति चेति ।अचो ञ्णिती॑त्यतस्तदनुवृत्तेरिति भावः । तथा च हनो नकारस्य तत्वेहो हन्ते॑रिति कुत्वेन हस्य घकारेघाती॑ति ण्यनतं फलितम् ।ततो लटिघाततयी॑ति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्तितम् । 'आक्यानात्कृतः' इति वार्तिकस्थंप्रकृतिवच्च कारक॑मित्यंशं शङ्कोत्तरत्वेन योजयिष्यञ्छङ्कामवतारयति — नन्विति । कंसवशिष्टस्येति ।कंसवध॑शब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह — ततस्चेति । कंसवधशब्दस्याऽङ्गत्वादड्द्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् ।कं॑सित्यस्यद्विर्वचनं स्यात् । इष्यते तु 'कंसमजीघत' दित्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । केंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह — धातोरिति । दातोर्हनित्यादितत्तत्स्वरूपेण ग्रहणे सति तत्प्रत्यये = धातोर्विहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वात्र्रघ्नमित्यत्रहनस्तोऽचिण्णलो॑रिति कुत्वं,हनस्तोऽचिण्णलोटरिति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृतेकंसं घातयती॑त्यत्रहो हन्ते॑रिति कुत्वं , 'हनस्तोऽचिण्णलो' रिति तत्वं च न स्याताम्, अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाऽभावदित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपोऽपि बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् ।तामिमां शह्कामद्र्धाङ्गीकारेण परिहरति - सत्यमिति । कंसवधशब्दस्यैवाङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं तु नाङ्गीक्रियत इत्यर्थः । प्रकृतिवच्चेतीति । 'आख्यानात्कृतः' इति वार्तिकेप्रकृतिवच्चे॑ति चकारो भिन्नक्रमः ।प्रकृतिव॑दित्यनन्तरपठितश्चकारः कारकमित्यस्मादूध्र्वं निवेशनीय इति भावः । तदेवाभिनीय दर्शयति - कारकं चेति । चकारोऽयमनुक्तसङ्ग्रहार्थ इत्याह — चात्कार्यमिति । 'समुच्चीयते' इति शेषः । तथा च कारकं कार्यं च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमण्णिचः प्रकृतिर्विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः । तदाह — प्रकृतेर्हन्यादेर्हेतुमण्णाविति ।प्रयुज्यमाने सती॑ति शेषः । 'कारक' मित्यस्य विवरण#ं — द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्त्यन्तमित्यर्थः । हन्ति कंसं कृष्णः, तं प्रेरयतीत्यर्थे कंस घातयति, कंसमजीघतदित्यादौ हेतुमण्ण्यन्ते प्रयुज्यमाने यद्द्वितीयादिकारकविभक्यन्तं यच्च कार्यं कुत्वतत्वाऽड्द्वित्वादि तत्सर्वंम् 'आख्यानात्कृत' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्टे कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्रकारक॑मित्यनेन कंसात्षष्ठी निरस्ता, उदाहृतहेतुमण्ण्यन्तस्थले कृद्योगाऽभावेन कर्मणि द्वितीयाया एव सत्त्वात् ।कार्य॑मित्यनेन तु कंसस्य अड्द्वित्वनिरासश्चेति बोध्यम् । आख्यानशब्दश्च कथंचिद्वृत्तानुवादपरो, न तु भारतादिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानामागमयतीत्यादि सिध्यति ।द्वितीयान्त॑मित्यत्र द्वितीयाग्रहममुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम्,प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । कर्तुः करणं - कर्तृकरणं, न तु कर्ता च करणं चेति द्वन्द्वः, व्याख्यानात् । तदाह — कर्तुव्र्यापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साधकतममिति यावत् । नन्वेवं सति 'करणाद्धात्वर्थे' इत्येव सिद्धे कर्तृग्रहणं व्यर्थमित्यत आह — न तु चक्षुरादिमात्रमिति । कर्तृग्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात्करणादिति शब्देन गम्येत । अतः कर्तृग्रहणमित्याहुः । वस्तुतस्तुसाधकतमं करण॑मिति देवदत्तयती॑ति कर्तुरुदाजह्युः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तते । तदाह — चित्र इत्ययमिति । कदाचिद्दर्शने इत्यस्य विवरणम् — अद्भुतदर्शने इति ।चित्र चित्रीकरणकदाचिद्दर्शनयो॑रित्येव सुवचम् । वटि लजि इत्येके अदन्तेष्विति । अदन्तेषु पाठबलात् बण्ड लज्जेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाऽभावादतो लोपं बाधित्वाअचो ञ्णिती॑ति वृद्धौअर्तिह्यी॑ति पुगित्यर्थः । फलितमाह — वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । सङ्ग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि सङ्ग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभते इत्यर्थः । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु सङ्ग्रामशब्दस्य प्रातिपदिकस्य अकारान्तत्वात्कथमनुदात्तेत्वमित्यत आह — अकारप्रश्लेषादिति । सङ्ग्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससङ्ग्रामतेति । लुङि चङि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात्ततः प्रागडिति भावः । एतच्चभृशादिसूत्रे कैयटे स्पष्टम् । अग्लोपित्वान्नोपधाह्रस्वः । सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् ।प्रातिपदिकाद्धात्वर्थेट इत्येव आभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनामदन्तानां निदर्शनं = पाठ इत्यर्थः । तदाह — अदन्तेति । बहुलग्रहणस्य फलमाह — बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वसनिवासे । वसयति । अदन्तत्वान्नोपधावृद्धि ।आन्दोलयती॑त्यादावदन्तत्वेन अग्लोपित्त्वान्नोपधाह्रस्वः । तदेवंबहुलमेतन्निदर्शन॑मित्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह — अन्ये त्विति । भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा- जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिका — तद्रक्षांसि रात्रिभिरसुभ्न मित्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थः । मतान्तरमाह — अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणास्तेभ्योऽपि णिज्बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह — चुरादिभ्य एवेति । वस्तुतस्तु भूवादिसूत्रे 'पाठेन धातुसंज्ञे' ति भाष्यप्रतीकमुपादाय -स पाठो नोपलक्षणार्थः । किंतु इयत्ताप्रतिपादनार्थ इति कैयट आह — एवं चबहुलमेतन्निदर्शन॑मिति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । णिङ्ङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । ओताआआआतर । इदमपि गणसूत्रम् । ओताआआदीनामिति । ओताआ, अआतर, गालोडित, आह्वरक — एषामित्यर्थः । अआआदय इति । ओताऽआशब्देअआ॑शब्दः, अआतरशब्दे 'तर' शब्दः, गालोडितशब्द 'इत' शब्दः, आह्वरकशब्देक॑शब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति ।प्रातिपदिकाचित्त्विति । 'ओताओ' त्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति — तन्मते इति । धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाकय्मिदमित्याहुः ।प्रातिपदिकाद्धात्वर्थे॑ इति णिचि सिद्धेपुच्छभाण्डचीवराण्णि॑ङिति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थंपुच्छभाण्डे॑ति णिङ्विधिरावश्यक इत्यत आह — णिजन्तादेव बहुलवचनादिति बहुलवचनादिति ।बहुलमेतन्निदर्शन॑मिति बहुलग्रहणादित्यर्थः । ननुपुच्छादिषु धात्वर्थ इत्येव णि॑जित्येव सिद्ध सिद्धशब्दो व्यर्थ इत्यत आह — सिद्धशब्द इति । धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये हिसिद्धे शब्दार्थसम्बन्धे॑ इति वार्तिकग्रन्थस्याऽऽदिमवार्तिकव्याख्यावसरेसिद्धशब्दोपादनं मङ्गलार्थ॑मित्युक्तम् ।मङ्गलादीनि मङ्गलमद्यानि मङ्गलान्तानि च शस्त्राणि प्रथन्ते॑ इति बूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । चुरादयः ।॥ इति बालमनोरमायाम् चुरादयः॥अथ दिवादयः ।अथ श्यन्विकरणा धातवो निरूप्यन्ते — । दीवु क्रीडेति । उदिदयम् । तेन क्त्वायामिड्विकल्पः, निष्ठायां च नेट् । झृषन्ता इति । जृष् झृष् वयोहानौ इत्येतत्पर्यन्ता इत्यर्थः ।