PREMABASESiddhānta-kaumudī
Prakaraṇa 51 · SK 2547–2553

तिङन्ततनादिप्रकरणम्

tiṅantatanādiprakaraṇam · 7 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2547 · A 2.4.79V
तनादिभ्यस्तथासोः ॥ २५४७ ॥
tanādibhyastathāsoḥ
Siddhānta-kaumudī
अथ सप्त स्वरितेतः ।{$ {!1463 तनु!} विस्तारे$} । तनादिकृञ्भ्य उः SK 2466 । तनोति । तन्वः-तनुवः । तनुते । ततान । तेने । तनु । अतनीत्-अतानीत् ॥ तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश - SK 2428 इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ।{$ {!1464 षणु!} दाने$} । सनोति । सनुते । ये विभाषा SK 2319 । सायात् । सन्यात् । जनसन - SK 2504इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ।{$ {!1465 क्षणु!} हिंसायाम्$} । क्षणोति । क्षणुते । ह्मयन्त - SK 2299 इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ।{$ {!1466 क्षिणु!} च$} । उप्रत्ययनिमित्तो लघूपधगुणः । [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ।{$ {!1467 ऋणु!} गतौ ऋणोति$} । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ।{$ {!1468 तृणु!} अदने$} । तृणोति । तर्णोति । तृणुते ।{$ {!1469 घृणु!} दीप्तौ$} । जघर्ण । जघृणे ॥ अथ द्वावनुदात्तेतौ ॥{$ {!1470 वनु!} याचने$} । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ।{$ {!1471 मनु!} अवबोधने$} । मनुते । मेने ।{$ {!1472 डुकृञ्!} करणे$} । करोति । अत उत्सार्वधातुके SK 2467 कुरुतः । यण् । न भकुर्छुराम् SK 1629 इति न दीर्घः । कुर्वन्ति ॥
Bālamanoramā
तनादिभ्यस्तथासोः - तनादिभ्यस्तथासोः ।गातिस्ते॑त्यतः सिचेति, 'ण्यक्षत्रियार्षे' त्यतो लुगिति,विभाषा घ्राधे॑डित्यतो विभाषेति चानुवर्तते । तदाह - तनादेरित्यादिना । एकवचनशब्दो गृह्रत इति । नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः । यूयमिति । लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति — अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति । तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकिअनुदात्तोपदेसे॑ति नकारस्य लोप इत्यर्थः । तदाह — अतत अतनिष्टेति । अतथाः अतनिष्ठा इति च । अतनिषातामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्षे रूपम् । असनिष्टेति । इट् । झलादिपरकत्वाऽभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः ।वज्रेऽध्वर्युः क्षण्वीते॑ति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायमित्यर्थः ।वज्रेऽध्वर्युः क्षिण्वीते॑ति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह — उप्रत्ययनिमित्त इति । ऋणु गतौ । अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ । तदाह — ऋणोति अर्मोतीति.एवमग्रेऽपि । अर्ण्वन्तीति ।इको यणची॑ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्यमाश्रित्य ऋकारस्य गुणः । रपरत्वम् । उकारस्य तु तिपमाश्रित्यगुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । रकुरु अन्तीति स्थिते आह — यणिति ।इको यणचीत्यनेने॑ति शेषः । उकारस्य यणि कुर्व् अन्तीति स्थितेहलि चे॑ति दीर्घमाशङ्क्याह — नभेति । वसि मसि चलोपस्चास्यान्यतरस्या॑मित्युकारलोपविकल्पे प्राप्ते — नित्यं करोतेः ।उतश्च प्रत्यया॑दित्यनुवर्तते,लोपश्चास्यान्यतरस्या॑मित्यतो लोपः, म्वोरिति च । तदाह- - करोतेरिति । चकर्थेति ।कृसृभृवृ॑इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु- कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते — ये च ।लोपश्चास्यान्यतरस्या॑मित्यतो लोप इति, अस्येति चानुवर्तते । अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते ।नित्यं करोते॑रित्यतः करोतेरित्यनुवर्तते । अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः । तदाह - कृञ उलोप इति । आशिषि क्रियादिति । 'रिङ् शयग्लिङ्क्षु' इति रिङिति भावः । कृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुण इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः । ननु लुङ्स्तङि अकृ स् त इति स्थितेतनादिभ्यस्तथासो॑रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि ।
SK 2548 · A 6.4.108V
नित्यं करोतेः ॥ २५४८ ॥
nityaṃ karoteḥ
Siddhānta-kaumudī
करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥
SK 2549 · A 6.4.109V
ये च ॥ २५४९ ॥
ye ca
Siddhānta-kaumudī
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः -SK 2547 इति लुकोऽभावे ह्रस्वादङ्गात् SK 2369 इति सिचो लोपः । अकृत । अकृथाः ॥
SK 2550 · A 6.1.137V
संपरिभ्यां करोतौ भूषणे ॥ २५५० ॥
saṃparibhyāṃ karotau bhūṣaṇe
SK 2551 · A 6.1.138V
समवाये च ॥ २५५१ ॥
samavāye ca
Siddhānta-kaumudī
संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः SK 1217 इति ज्ञापकात् । परिनिविभ्यः SK 2275 इति षः । परिष्करोति ॥ सिवादीनां वा - ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥
Bālamanoramā
समवाये च - समवाये च । कोरतेः सुट् स्यादिति । 'सुट् कात्पूर्वः' इत्यतो,नित्यं करोते॑रित्यतश्च तदनुवृत्तेरिति भावः ।
SK 2552 · A 6.1.139V
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च ॥ २५५२ ॥
upātpratiyatnavaikṛtavākyādhyāhāreṣu ca
Siddhānta-kaumudī
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥
Bālamanoramā
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु - प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननुसंपरिभ्या॑मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः ।लिटि धातो॑रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम् । ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते —
SK 2553 · A 6.1.135सूट्कात्पूर्व इत्यधिकारः
सुट् कात् पूर्वः ॥ २५५३ ॥
suṭ kāt pūrvaḥ
Siddhānta-kaumudī
अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः SK 2389 संचस्करतुः । कृसृभृ - SK 2293 इति सूत्रे ऋतो भारद्वाजस्य SK 2296 इति सूत्रे च ।
vārttika
कृञोऽसुट इति वक्तव्यम्
(वार्तिकम्) ॥ तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति - SK 2380 इति सूत्रे नित्यं छन्दसि SK 3587 इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः - SK 2526 इति लिङ्सिचोर्नेट् । एकाच उपदेशे SK 2276 इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥