Prakaraṇa 39 · SK 1846–1946
तद्धिताधिकारे मत्वर्थीयप्रकरणम्
taddhitādhikāre matvarthīyaprakaraṇam · 101 sūtras · Sanskrit source — translation forthcoming
SK 1846 · A 5.2.45V
तदस्मिन्नधिकमिति दशान्ताड्डः ॥ १८४६ ॥
tadasminnadhikamiti daśāntāḍḍaḥ
Siddhānta-kaumudī
एकादश अधिका अस्मिन्नेकादशम् ।
vārttikaशतसहस्रयोरेवेष्यते
(वार्तिकम्) ॥ नेह । एकादश अधिका अस्यां विंशतौ ।
vārttikaप्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते
(वार्तिकम्) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥
Tattvabodhinī
NSP p. 308–309—तदस्मिन्—। पुनस्तद्बहणम् ‘अस्य’ इति षष्ठ्यन्तसंवद्धतद्बहणनिरासा- थम् ॥ प्रत्ययविधौ तदन्तविध्यभावादाह—दशान्तादिति । अन्तग्रहणं किम् । दश अधिका अस्मिन् शते । न चेह व्यपदेशिवद्भावेन दशान्तलमस्तीति वाच्यम् । ‘व्यपदेशिवद्भावोऽप्रातिपदिकेन’ इत्यभ्युपगमात्
Footnotes (NSP 1915 ed.)
NSP p. 309 १ इष्यते इति—इतिकरणलब्धोऽयमर्थः । २ गुणस्येति—मध्यमगिन्यायेनोभयत्रापि संबध्यते । गुणकर्मकनिमाने वर्त-मानाद्गुणगतसंख्यावाचकान्मयडित्यर्थः ।
SK 1847 · A 5.2.46V
शदन्तविंशतेश्च ॥ १८४७ ॥
śadantaviṃśateśca
Siddhānta-kaumudī
डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥
Tattvabodhinī
NSP p. 309—शदन्त—। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति ‘यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य’ इति परिभाषया तदादिनियमः स्यात् । तं वारयितुमन्तग्रहणम् । तेन एकत्रिंशम् । एकचलारिंशमित्यादि सिद्धम् । नचैवं गोत्रिंशदधिका अस्मिन् गोशते इत्यादावतिप्रसङ्गः शङ्क्यः । ‘संख्याया अवयवे तयप्’ इत्यतः संख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशतिशब्दानन्तरं कर्तव्यम् ‘षड्विंशत्यन्ताच्च’ इति । तेन एकविंशत्यन्तादि सिध्यति । अन्यथा ‘ग्रहणवता—’ इति तदन्तविधिप्रतिषेधादिह न स्यात्
Bālamanoramā
शदन्तविंशतेश्च - शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे — डः स्यादुक्तेऽर्थेइति । दशान्तत्वाऽभावात्पूर्वेणाऽप्राप्तिः । तिंरशं शतमिति । हे सतिटि॑रिति टिलोपः । विंशमिति । विंशतिरिस्मिन्नधिका इति विग्रहः ।ति विंशते॑रिति तिशब्दस्य लोपः । अन्तग्रहणादेकतिंरशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् ।विंशतावप्यन्तग्रहण॑मिति वार्तिकादेकविंशं शतमित्यादि सिद्धम् ।
SK 1848 · A 5.2.47V
संख्याया गुणस्य निमाने मयट् ॥ १८४८ ॥
saṃkhyāyā guṇasya nimāne mayaṭ
Siddhānta-kaumudī
भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥
Tattvabodhinī
NSP p. 309—संख्याया गुणस्य—। गुणो भागः । निमीयते क्रीयतेनेनेति निमानं मूल्यम् । ‘भेद् प्रणिदाने’ इत्यस्मान्निपूर्वात्करणे ल्युट् । तदाह—भागस्य मूल्ये इति ॥—षष्ठ्यर्थे इति । यद्यपि ‘तदस्मिन्नधिकम्—’ इत्यतः ‘तद्’ इत्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकश्चला ‘तदस्य संजातम्’ इत्यतः ‘तदस्य’ इत्यनुवर्तनात् ‘षष्ठ्यर्थे’ इत्येतदपि लभ्यत इति भावः ॥—द्विमयमिति । द्विशब्दस्य संबन्धिशब्दत्वेन नित्यसापेक्षत्वात् ‘यवानाम्’ इति पदे सत्यपि तद्धितोत्पत्तिरिहाविरुद्धेति ज्ञेयम् ॥ नन्वेवमपि प्रत्ययान्तस्योदधिच्छब्देन सामानाधिकरण्यं दुर्लभम् । यावतोदधिद्भागे प्रत्ययो विहितो, नोदधिति ॥ अत्राहुः । भागेपि विधीयमानः प्रत्ययः अभिधानस्वाभाव्याद् भागवन्तमाचष्टे । तेन सामानाधिकरण्यं भवतीति । ‘गुणनिमाने’ इति वक्तव्ये व्यस्तोच्चारणात् ‘एकत्वं गुणस्य’ इत्यत्र विवक्षितम् । तेनेह न भवति । यवानां द्वौ भागौ निमानमेषामुदधितत्रयाणां भागानामिति ॥ ‘भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते’ इह न भवति । एको भागो निमानमस्येति ॥ भूयस इति च प्रत्ययार्थादाधिक्यमात्रं प्रकृत्यर्थस्य विवक्षितं, न तु वहुत्वं । तेन द्विशब्दादपि भवत्येव
Bālamanoramā
संख्याया गुणस्य निमाने मयट् - सङ्ख्याया गुणस्यतदस्ये॑त्यनुवर्तते । गुणः=भागः, अंशः । निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम् ।मेङ् प्रणिदाने॑ । करणे ल्युट् । तदाह — भागस्य मूल्य इत्यादि । षष्ठर्थे इति । अस्येत्यर्थे इत्यर्थः ।यवानां द्वौ भागौ निमानमस्योदइआद्भागस्ये॑ति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदइआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते ।द्विमयमुमइआद्यवाना॑मित्युदाहरणम् ।यवाना॑मिति संबन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदइआदित्यर्थः । द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः । द्वौ व्रीहियवौ निमानमस्योदइआत इति । द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदइआतो निमानमित्यर्थः । अत्र उदइआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः ।
SK 1849 · A 5.2.48V
तस्य पूरणे डट् ॥ १८४९ ॥
tasya pūraṇe ḍaṭ
Tattvabodhinī
NSP p. 309—तस्य पूरणे—। ‘तस्य’ इति षष्ठ्यन्तानुकरणम् । एकत्वं त्वविवक्षितम्, एकस्य पूरणासंभवात् । पूर्यतेऽनेनेति पूरणः, ण्यन्तात्करणे ल्युट् ॥—एकादशानामिति । उद्भूतावयवभेदः समुदायः प्रकृत्यर्थः । अवयवः प्रत्ययार्थः । इह यस्मात्संख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः । यथा ‘अतिशायने—’ ‘याप्ये—’ इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्यते अन्तरङ्गत्वात् । तथेहापि । तेन ‘एकादशानां घटानां पूरणो जलादिः’ इत्यत्र नातिप्रसङ्गशङ्कालेऽपीति भावः । ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तर्ह्यत्र एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत् । अत्राहुः । ‘वैयाकरणपाशः’ इत्यत्र यथा ‘याप्यो वैयाकरणः’ इति विग्रहः । न तु ‘याप्यं वैयाकरणत्वम्’ इति तथेहापि वोध्यमिति । एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषु ‘वृद्धिरादैच्’ इत्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव
Bālamanoramā
तस्य पूरणे डट् - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि ।
SK 1850 · A 5.2.49V
नान्तादसंख्यादेर्मट् ॥ १८५० ॥
nāntādasaṃkhyādermaṭ
Siddhānta-kaumudī
डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥
Tattvabodhinī
NSP p. 309–310—नान्तादसंख्यादेः—॥—डट इति । ‘डट्’ इति प्रथमान्तस्यानुवृत्तस्य ‘नान्तात्—’ इति पञ्चम्या षष्ठी कल्प्यत इति भावः । यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम् । अनुदात्तता यथा स्यात् । प्रत्ययत्वे ह्याद्युदात्तः स्यात् । तथा चैकरूप्येणैव संदर्भव्याख्यानमुचितम् ॥ अन्येऽप्याहुः—मटः प्रत्ययत्वे अकारसहितो मकारो विधेयः । आगमत्वे तु मकारमात्रमिति लाघवमस्तीति ॥—विंश इति । विंशतेः पूरणः । ‘तिविंशतेर्डिति’ इति लोपः ॥—षट्कृति—। इह षष्ठीनिर्देशवलात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्येनानुवृत्तो डट् सप्तम्या विपरिणम्यते तदाह—डटीति । डट एव युद् तु न कृतः षष्ठे पकारस्य जलप्रसङ्गात् । चतुर्थे रेफस्य विसर्गप्रसङ्गाच्च । न चैवं ‘नान्तात्—’ इति सूत्रेऽपि डति परे मुगेव विधीयतामिति वाच्यम् । पञ्चमः सप्तम इत्यादौ नलोपाभावापत्तेः ॥—चतुरश्छयताविति । विशेषविहिताभ्यामपि छयन्त्यां डट्प्रत्ययो न वाच्यते, युग्मिधानसामर्थ्यात् । तेन चतुर्थं इति सिद्धिम् ॥—आद्यक्षरेति । अचसहितं व्यजनम- क्षरशब्देनोच्यते अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः । व्यञ्जनसहितस्यादेरच इति व्याख्याने तु द्विर्वचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः । आदेर्व्यञ्जनस्येति व्याख्याने प्रमाणं तु ‘द्वितीयतृतीय’- इति सूत्रे ‘तुर्याणि’ इति निर्देशो बोध्यः
Bālamanoramā
नान्तादसंख्याऽऽदेर्मट् - नान्तासङ्ख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः । यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम् ।
Footnotes (NSP 1915 ed.)
NSP p. 310 द्वितीय इति—सद्यायवाची द्वितीयशब्दस्तु अब्युत्पन्नं प्रातिपदिकम्, अनेन तु नास्य साधुत्वम् । न ह्यपूरणस्तीयशब्दो- ऽस्तीति ‘पूरणाक्रागे’ इति सूत्रस्यभाष्यासंगतेः ।
SK 1851 · A 5.2.51V
षट्कतिकतिपयचतुरां थुक् ॥ १८५१ ॥
ṣaṭkatikatipayacaturāṃ thuk
Siddhānta-kaumudī
एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ।
vārttikaचतुरश्छयतावाद्यक्षरलोपश्च
(वार्तिकम्) ॥ तुरीयः । तुर्यः ॥
Bālamanoramā
षट्कतिकतिपयचतुरां थुक् - षट्कति । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादचः परः । षष्ठ इति । अपदान्तत्वात्षस्य न जश्त्वम् । चतुर्थ इति अपदान्तत्वान्न रेफस्य विसर्गः । चतुर इति । वार्तिकमिदम् । चतुर्शब्दात्षष्ठन्तात्पूरणे छयतौ स्तः । आद्यक्षरस्य लोपश्चेति । 'च' इति सङ्घातस्य लोपश्चेत्यर्थः ।
SK 1852 · A 5.2.52V
बहुपूगगणसंघस्य तिथुक् ॥ १८५२ ॥
bahupūgagaṇasaṃghasya tithuk
Siddhānta-kaumudī
डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥
Bālamanoramā
बहुपूगगणसंघस्य तिथुक् - वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः । यावतिथ इति । यावतां पूरण इति विग्रहः ।बहुगणे॑ति सङ्ख्यात्वात् 'तस्य पूरणे' इति डेटि प्रकृतेरिथुक् ।
SK 1853 · A 5.2.53V
वतोरिथुक् ॥ १८५३ ॥
vatorithuk
SK 1854 · A 5.2.54V
द्वेस्तीयः ॥ १८५४ ॥
dvestīyaḥ
Siddhānta-kaumudī
डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥
Tattvabodhinī
NSP p. 310—द्वेस्तीयः ॥—डटोऽपवाद इति । डट आदेशस्तु न भवति । ‘डिति’ ‘टिड्डा’- इति डीपः प्रसक्त्या ‘द्वितीयाश्रिता’- इति निर्देशानुपपत्तेः ॥ अत एव निर्देशाद्विशब्दस्याप्यादेशो न भवति ॥—तृतीय इति । रेफस्य ऋकारः संप्रसारणम् । ‘हलः’ इह दीर्घस्तु न भवति, ‘बूलोपे’- इति सूत्रादण इत्यनुवृत्तेः त्रेस्तृ च इति नोक्तं, प्रत्ययो मा विज्ञायति ॥—विंशत्यादिभ्यः—। इति प्रत्यासक्त्या ‘पङ्क्ति’- इत्यादिसूत्रे निपातिता विंशत्यादयो गृह्यन्ते, न लोकप्रसिद्धाः विप्रकृष्टलादिति भाष्यमतम् ॥ वृत्तिकृता तु विंशत्यादयो लौकिका एव संख्याशब्दा गृह्यन्ते, न ‘पङ्क्ति’- इत्यादिसूत्रनिर्दिष्टाः । तद्ब्रह्मेण ह्येकविंशतिप्रभृतिभ्यो न स्यात् । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सति ‘षष्ठ्यादेश्वासंख्यादेः’ इति पर्युदासो युज्यत एवेत्युक्तम् ॥—एकविंशतितम इति । यद्यपि भाष्यमते तदन्तविधिर्दुर्लभस्तथापि ‘षष्ठ्यादेश्व’- इति सूत्रे संख्यादिपर्युदासो ज्ञापयति ‘इह प्रकरणे तदन्तानामपि ग्रहणम्’ इति । एवं च सति एकान्नविंशतेः पूरण एकान्नविंशतितम इत्यपि सिद्ध्यति । ‘लौकिकानां ग्रहणम्’ इति वृत्तिमते तु नैतस्तिध्येत् विंशतिसंख्यातः प्राग्भावित्वादस्याः संख्यायाः । एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम् ॥ ननु ‘अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु’ इति वदता कात्यायनेन ‘पङ्क्ति’- इत्यादिसूत्रस्य प्रत्याख्यातत्वात् तत्सूत्रे निपातिताः विंशत्यादयो गृह्यन्ते, इति भाष्यमतमयुक्तमितिचेत् ॥ अत्राहुः । यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत् । अत एव तत्र भाष्यकृता ‘नासूया कर्तव्या यत्रानुगमः क्रियते’ इत्युक्तम् ॥ अतः कात्यायनोक्तप्रत्याख्यानं नादर्तव्यमिति ॥—शततम इति । यद्यपीदं ‘षष्ठ्यादेश्व’ इत्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थं ‘नित्यं शतादि’- इत्यावश्यकमिति ध्वनयनुदाहरति—एकशततम इति ॥—मासादेरिति । संख्यावाचित्वाभावेऽपीति भावः ॥—षष्ठ्यादेश्चेति । ‘विंशत्यादिभ्यः’- इति विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः ॥—संख्यादेस्त्विति । एतच्च प्राक् शताद्वोध्यम् ‘नित्यं शतादि’- इत्युक्तत्वात्
Bālamanoramā
द्वेस्तीयः - द्वेस्तीयः । द्विसब्दात्षष्ठन्तात्पूरणे तीयप्रत्ययः स्यादित्यर्थः ।
SK 1855 · A 5.2.55V
त्रेः सम्प्रसारणं च ॥ १८५५ ॥
treḥ samprasāraṇaṃ ca
Bālamanoramā
त्रेः सम्प्रसारणं च - त्रेः संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः ।सम्प्रसारयणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ढ्रलोपे' इत्यतोऽण इत्यनुवृत्तेः ।
SK 1856 · A 5.2.56V
विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ १८५६ ॥
viṃśatyādibhyastamaḍanyatarasyām
Siddhānta-kaumudī
एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविंशतितमः । एकविंशः ॥
Bālamanoramā
विंशत्यादिभ्यस्तमडन्यतरस्याम् - विंशत्यादिभ्यः । तमटि टकार इत् । मकारादकार उच्चारणार्थः । अत्रपङ्क्तिविंशती॑ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः । एकविंशतितम॑ इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते ।
SK 1857 · A 5.2.57V
नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ १८५७ ॥
nityaṃ śatādimāsārdhamāsasaṃvatsarācca
Siddhānta-kaumudī
शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥
Bālamanoramā
नित्यं शतादिमासार्धमाससंवत्सराच्च - नित्यं शतादि । शतादिभ्यो मासात् अर्धमासात्संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननुषष्ठआदेश्चे॑त्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह — एकशततम इति ।असङ्ख्यादे॑रिति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्यावाचित्वाऽभावात्तेभ्यो डट एवाऽप्रसक्तेस्तस्य कथं तदड्विधिरित्यत आह — मासादेरिति । मासतम इति । मासस्य पूरणः-अर्धमासादिरवयवः । अर्धमासतम इति । अर्धमासस्य पूरणस्तिथ्यादिरवयवः । संवत्सरतम इति । संवत्सरस्य पूरणो मासादिरवयवः ।
SK 1858 · A 5.2.58V
षष्ट्यादेश्चासंख्यादेः ॥ १८५८ ॥
ṣaṣṭyādeścāsaṃkhyādeḥ
Siddhānta-kaumudī
षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य - SK 1856 इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥
Bālamanoramā
षष्ट्यादेश्चासंख्याऽऽदेः - षष्ठआदेश्चासह्ख्यादेः । सङ्ख्यापूर्वपदात्पष्टआदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । विंशत्यादिभ्यः॑ इति विकल्पस्याऽपवादः । एकषष्टः एकषष्टितम इति । सङ्ख्यादित्वान्नित्यस तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटियस्येति चे॑ति इकारलोपे 'एकषष्ट' इति रूपम् । ननु केवलसात्षष्टआदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपिग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति । तेन 'विंशत्यादिभ्यः' इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवंच 'एकान्नविंशतितमः' इत्यपि सिद्धम् ।
SK 1859 · A 5.2.59V
मतौ छः सूक्तसाम्नोः ॥ १८५९ ॥
matau chaḥ sūktasāmnoḥ
Siddhānta-kaumudī
मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥
Tattvabodhinī
NSP p. 310—मतौ छः—॥—मत्वर्थं इति । मतोर्विषय इत्यर्थः । तेन ‘तत्’ इति प्रथमा समर्थविभक्तिः, अस्यास्मिन्निति प्रत्ययार्थश्चेह लभ्यते ॥—विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्रे कर्तव्ये यदत्रास्य लुग्विधानं तत्पाक्षिकं लुकमनुमापयतीति कैयटः
Bālamanoramā
मतौ च्छः सूक्तसाम्नोः - मतौ छः ।मतु॑शब्दो मत्वर्थे लाक्षणिक इत्याह मत्वर्थे इति । अच्छा वाकीयं सूक्तमिति । अच्छावाकशब्दोऽस्यास्ति, अस्मिन्नस्तीति वा विग्रहः । अच्चावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दाच्छब्दस्वरूपपरात् प्रथमान्ताच्छः । वारवन्तीयं सामेति ।अआं नत्वा वारवन्त॑मित्यस्यामृच्यध्यूढमित्यर्थः । एवमस्यवामीयमित्यपि ।अस्यवामस्ये॑त्यस्य एकदेशानुकरणस्यवामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः ।प्रकृतिवदनुकरण॑मित्यस्याऽनित्यात्वात्सुपो न लुक् ।
SK 1860 · A 5.2.60V
अध्यायानुवाकयोर्लुक् ॥ १८६० ॥
adhyāyānuvākayorluk
Siddhānta-kaumudī
मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥
Bālamanoramā
अध्यायानुवाकयोर्लुक् - अध्यायानुवाकयोर्लुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह — अत एवेति । विधानेति । मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः॑ इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः ।
SK 1861 · A 5.2.61V
विमुक्तादिभ्योऽण् ॥ १८६१ ॥
vimuktādibhyo'ṇ
Siddhānta-kaumudī
मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥
Bālamanoramā
विमुक्तादिभ्योऽण् - विमुक्तादिभ्योऽण् । वैमुक्त इति । विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः ।
SK 1862 · A 5.2.62V
गोषदादिभ्यो वुन् ॥ १८६२ ॥
goṣadādibhyo vun
Siddhānta-kaumudī
मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥
Bālamanoramā
गोषदादिभ्यो वुन् - गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायो ।ञनुवाको वेत्यर्थः । इषेत्वक इति ।इषेत्वे॑ति शब्दयुक्त इत्यर्थः ।अस्यवामीय॑मित्यत्रोक्तरीत्या सुपो न लुक् ।
SK 1863 · A 5.2.63V
तत्र कुशलः पथः ॥ १८६३ ॥
tatra kuśalaḥ pathaḥ
Siddhānta-kaumudī
वुन् स्यात् । पथि कुशलः पथिकः ॥
Tattvabodhinī
NSP p. 310—तत्र कुशलः—। सप्तमीसमर्थात्पथिनशब्दात्कुशल इत्यर्थे बुन्स्यात्
Bālamanoramā
तत्र कुशलः पथः - तत्र कुशलः पथः । बुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथक इति । आकादेशेनस्तद्धिते॑इति टिलोपः ।
SK 1864 · A 5.2.64V
आकर्षादिभ्यः कन् ॥ १८६४ ॥
ākarṣādibhyaḥ kan
Siddhānta-kaumudī
आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥
Tattvabodhinī
NSP p. 310—आकर्षादिभ्यः कन्। बुना सिद्धे कन्प्रहणं इदुदन्तार्थम् । अशनिकः । शकुनिकः। त्सरुकः॥—मुख्यः पाठ इति । आकर्षन्त्यस्मिन् सुवर्णादिकमित्याकर्षः । ‘पुंसि संज्ञायां घः’ इति व्याख्याय, ये तु ‘आकर्षादिभ्यः’ इति सरेकं पठन्ति, तेषाम् ‘आकर्षं इति घञि रूपम्’ इति हरदत्तेनोक्तत्वादिति भावः ॥—धने काम इति । ‘तत्र’ इत्यनुवर्तनात्सप्तम्यन्तात्प्रत्यय इति भावः
Bālamanoramā
आकर्षादिभ्यः कन् - आकर्षादिभ्यः कन् । आकर्षक इति । यद्यपि वुनैवाऽनुवृत्तेनेदं सिध्यति तथापि शकुनिक॑ इत्यद्यर्थं कन्ग्रहणम् ।
SK 1865 · A 5.2.65V
धनहिरण्यात् कामे ॥ १८६५ ॥
dhanahiraṇyāt kāme
Siddhānta-kaumudī
काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥
Bālamanoramā
धनहिरण्यात् कामे - धनहिरण्यात्कामे । तत्रेत्यनुवर्तते । धनशब्दाद्धिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये कन्स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यानादिति भावः ।
SK 1866 · A 5.2.66V
स्वाङ्गेभ्यः प्रसिते ॥ १८६६ ॥
svāṅgebhyaḥ prasite
Siddhānta-kaumudī
केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥
Bālamanoramā
स्वाङ्गेभ्यः प्रसिते - स्वाङ्गेभ्यः प्रसिते । तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन्स्यादित्यर्थः । प्रसितः=उत्सुकः । तद्रचनायामिति । वेण्यादिग्रथने इत्यर्थः । अत्रैवार्थेऽस्य साधुत्वम्, व्याख्यानादिति भावः ।
SK 1867 · A 5.2.67V
उदराट्ठगाद्यूने ॥ १८६७ ॥
udarāṭṭhagādyūne
Siddhānta-kaumudī
अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥
Tattvabodhinī
NSP p. 310–311— उदरात्—आद्यूनशब्दार्थमाह—अविजिगीषाविति । ‘दिवोऽविजिगीषायाम्’ इति तत्रैव निष्ठानलविधानात्
Bālamanoramā
उदराट्ठगाद्यूने - उदराट्ठगाद्यूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह — अविजिगीषाविति ।दिवोऽविजिगाषाया॑मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः । उदरक इति । 'मल्ल' इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह — उदर परिमार्जनादौ प्रसक्त इति ।विजिगीषये॑ति शेषः ।
Footnotes (NSP 1915 ed.)
NSP p. 311 तद्वचनायामिति—अत्रैवार्थेऽस्य साधुत्वमिति भावः ।
SK 1868 · A 5.2.68V
सस्येन परिजातः ॥ १८६८ ॥
sasyena parijātaḥ
Siddhānta-kaumudī
कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥
Tattvabodhinī
NSP p. 311—सस्येन—कर्तरि तृतीयेयम् । परितो जातः परिजातः ॥ फलितमाह—संवद्ध इति ॥—अत एवेति । ‘अकेनोः—’ इति निषेधादिति भावः
Bālamanoramā
सस्येन परिजातः - सस्येन परिजातः । तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह — कन्स्वर्यते नतु ठगिति । स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम् । गुणवाचीति । व्याख्यानमेवात्र शरणम् । शस्येनेतीति । 'शंसु स्तुतौ' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं — संबद्ध इति ।
SK 1869 · A 5.2.69V
अंशं हारी ॥ १८६९ ॥
aṃśaṃ hārī
Siddhānta-kaumudī
हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥
Bālamanoramā
अंशं हारी - अंशं हारी । द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह — आवश्यके णिनिरिति ।आवश्यकाधमण्र्ययो॑रित्यनेने॑ति शेषः । षष्ठी नेति ।अकनो॑रिति तन्निषेधादिति भावः ।
SK 1870 · A 5.2.70V
तन्त्रादचिरापहृते ॥ १८७० ॥
tantrādacirāpahṛte
Siddhānta-kaumudī
तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥
Tattvabodhinī
NSP p. 311—तन्त्रात्—तन्यन्ते तन्तवोऽस्मिन्निति व्युत्पत्त्या तन्त्रं तन्तुवायशलाका । अचिरः कालोऽपहतस्येत्यचिरापहतस्तस्मिन् । ‘कालः परिमाणिना’ इति समासः ॥—प्रत्यग्र इति । नूतन इत्यर्थः
Bālamanoramā
तन्त्रादचिरापहृते - तन्त्रादचिरापह्मते । तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः । तन्त्रं — तन्तुवायशलाका । अचिरेण कालेन अपह्मतः — अचिरापह्मतः ।कालाः परिमाणिने॑ति समासः । प्रत्यग्र इति । नूतन इत्यर्थः ।
SK 1871 · A 5.2.71V
ब्राह्मणकोष्णिके संज्ञायाम् ॥ १८७१ ॥
brāhmaṇakoṣṇike saṃjñāyām
Siddhānta-kaumudī
आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥
Tattvabodhinī
NSP p. 311—ब्राह्मणकोष्णिके—। ब्राह्मणशब्दादायुधजीवित्वोपाधिकात्प्रथमान्तात् सप्तम्यर्थं कन् प्रत्ययो निपात्यते । अन्नशब्दात्तु अल्पत्वौपाधिकात् । तदाह—आयुधेत्यादि
Bālamanoramā
ब्राह्मणकोष्णिके संज्ञायाम् - ब्राआहृणकोष्णिके । आयुधजीविविषयब्राआहृणशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्निपात्यत इत्यर्थः । अल्पान्नशब्दस्येति । अल्पान्नशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्प्रत्ययः, प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः ।
SK 1872 · A 5.2.72V
शीतोष्णाभ्यां कारिणि ॥ १८७२ ॥
śītoṣṇābhyāṃ kāriṇi
Siddhānta-kaumudī
करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥
Tattvabodhinī
NSP p. 311—शीतोष्णाभ्याम्—। शीतमिव शीतम् । मन्दमित्यर्थः । शीते सति कार्यकरणे पाटवाभावात् ॥ उष्णमिवोष्णम् । शीघ्रमित्यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योगलक्षणा पृष्ठी तु क्रियाविशेषणान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवत्यनभिधानात्
Bālamanoramā
शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् । शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः । य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्यानाओव करोति स उष्णक उच्यत इति भाष्ये । संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह — शीतकोऽलस इति । उष्णकः शीघ्रकारीति च ।
SK 1873 · A 5.2.73V
अधिकम् ॥ १८७३ ॥
adhikam
Siddhānta-kaumudī
अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥
Tattvabodhinī
NSP p. 311—अधिकम् ॥—अध्यारूढशब्दादिति । ‘गत्यर्थाकर्मक—’ इत्यादिना रुहेः कर्तरि कर्मणि वा को विहितः । आद्ये कप्रत्ययेन कर्मणोऽनभिहितलाद् अध्यारूढशब्दयोगे द्वितीया । अध्यारूढो द्रोणः खारीमिति प्रामं गत इति वत् । तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायां ‘यस्मादधिकं’ ‘तदस्मिन्नधिकम्’ इति च निर्देशद्वयात् पञ्चमीसप्तम्यौ भवतः । अधिको द्रोणः खार्याः । अधिको द्रोणः खार्यामिति । द्वितीये तु केन कर्मणोऽभिहितलात्प्रथमा । अधिका खारी द्रोणेन । कर्मणोऽभिहितलादेव पञ्चमीसप्तम्यादिति । ‘तावतां पूरणं तावतिथम् । ‘वतोरिधुक्’ यथा ‘तस्यापत्यम्’ इति फलितोऽर्थः ॥—अन्वभिभ्यां कनिति । क्रियाविशिष्टसाधनवाचिभ्यां खार्यं निपात्यत इत्यर्थः
Bālamanoramā
अधिकम् - अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् ।
SK 1874 · A 5.2.74V
अनुकाभिकाभीकः कमिता ॥ १८७४ ॥
anukābhikābhīkaḥ kamitā
Siddhānta-kaumudī
अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥
Bālamanoramā
अनुकाभिकाभीकः कमिता - अनुकाभिका । अनुक, अभिक, अभीक-एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।
SK 1875 · A 5.2.75V
पार्श्वेनान्विच्छति ॥ १८७५ ॥
pārśvenānvicchati
Siddhānta-kaumudī
अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥
Tattvabodhinī
NSP p. 311—पार्श्वेनान्विच्छति । ‘आकर्षादिभ्यः कन्’ इत्यतः कन्नुवर्तते ॥—अनृजुरिति । तिर्यगवस्थानात्पार्श्वमनृजु, तत्साधन्यादुपायोऽपि ॥ इह शीतोष्णपार्श्वायःशूलदण्डाजिनशब्दा गौणा एव गृह्यन्ते । मुख्यार्थेभ्यस्तु प्रत्ययो न भवत्यनभिधानात्
Bālamanoramā
पार्श्वेनान्विच्छति - पार्ोनाऽन्विच्छति । तृतीयान्तात्पार्ाशब्दादन्विच्छतीत्यर्थ संज्ञायां कन्स्यादित्यर्थः । अन्वेषणं=मार्गणम् । पार्वआमिव पार्ाम्नुजुरुपायः ।ऋजूपायेन अन्वेष्टव्यानर्थान्योऽनृजुनोपायेनान्विच्छति स पार्ाक॑ इति भाष्यम् । तदाह — अनृजुरित्यादि ।
SK 1876 · A 5.2.76V
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥ १८७६ ॥
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau
Siddhānta-kaumudī
तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥
Bālamanoramā
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ - अयःशूल । अयःशूल, जण्डाजिन आभ्यां, तृतीयान्ताभ्यामन्विच्छतीत्यर्थे संज्ञायां ठक्ठञौ स्त इत्यर्थः । अयःशूलमिव अयःशूलम् । साहसमित्यर्थः । यो मृदुनोपायेनन्विष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति स आयःशूलिक॑ इति भाष्यम् । तदाह — तीक्ष्णोपाय इत्यादि । दम्भ इति । दम्भार्थत्वाद्दण्डाजिनशब्दो दम्भे लाभणिक इति भावः ।
SK 1877 · A 5.2.77V
तावतिथं ग्रहणमिति लुग्वा ॥ १८७७ ॥
tāvatithaṃ grahaṇamiti lugvā
Siddhānta-kaumudī
कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ।
vārttikaतावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक्
(वार्तिकम्) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥
Tattvabodhinī
NSP p. 311—तावतिथं ग्रहणमिति लुग्वा । तावतां पूरणं तावतिथम् । ‘वतोरिधुक्’ यथा ‘तस्यापत्यम्’ इत्यत्र तस्येति षष्ठ्यन्तानां सामान्यनिर्देशस्तथात्र ‘तावतिथम्’ इति पूरणप्रत्ययान्तानां सामान्यनिर्देशः ॥ अनन्तरावपि ठक्ष्यौ नानुवर्तते, अस्वरितलादित्यभिप्रेत्याह—कन्स्यादिति ॥—पूरणप्रत्ययस्येति । ननु कनो लुक् । वाग्रहणानर्थक्यप्रसङ्गात् । पञ्चमं पञ्चमकमित्यादिरूपं हि तेन साध्यम् । तच्च महाविभाषाधिकाराद्विकल्पेन कन उत्पत्त्यापि सिद्धमेव, तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याभिमत इति व्याचष्टे—द्विकमिति । वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्य ‘तावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं विभाषाग्रहणात्’ इत्याह । तन्मते द्वितीयकं द्वितीयमित्येव रूपं न तु द्विकमिति वोध्यम् ॥—तावतिथेनेति । पूरणप्रत्ययान्ताद्बहणोपाधिकात् खार्यं विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनमिति कैयटः
Bālamanoramā
तावतिथं ग्रहणमिति लुग्वा - तावतिथं । तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा ।ग्रहण॑मिति भावे ल्युडन्तम् । तथा च तृतीयान्तात्पूरणप्रत्ययान्ताद्ग्रहणमित्यर्थे कन्स्यातद्पूरणप्रत्ययस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह — कन्स्यादित्यादि । पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक्, किंतु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्तिरिति सूचितम् । इतिना लोकानुसारित्वं गम्यते । एवं च ग्रन्थविषयकमेव ग्रहणिह फलति । तेनद्वितीयं ग्रहणं देवदत्तेन दण्डस्ये॑त्यादौ न भवति । तावतिथेनेति । ग्रहणे ।ञर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात्पूरणप्रत्ययस्यैव लुगिति गम्यते, नतु तदन्तस्य ।
SK 1878 · A 5.2.78V
स एषां ग्रामणीः ॥ १८७८ ॥
sa eṣāṃ grāmaṇīḥ
Siddhānta-kaumudī
देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥
Tattvabodhinī
NSP p. 311–312—स एषां प्रामणीः । ‘प्रामणीर्नापिते पुंसि श्रेष्ठे प्रामाधिपे त्रिषु’ इत्यभरः ॥—करभ इति । उष्ट्रवालकः ॥—द्वितीयेऽहनीति । यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यर्थप्रकरणादिना वृत्तिविषये काले वर्तते इति भावः ॥ ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेत् । अत्राहुः—उत्तरसूत्रस्थसंज्ञापकर्षणाच्छब्दस्वाभाव्याद्वा तद्वोध्यमिति ॥—वटकेभ्य इति । कनि प्राप्ते वचनम् ॥ ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत् । किं ततः । इनेरप्राप्तलात्तदर्थं वचनमङ्गीकार्यमेव । ‘अत इनिठनौ—’ इत्येव कथंचिदिनिः सिद्ध्यतीत्याशात्र न कार्या । ‘सप्तम्यां च न तौ स्मृतौ’ इति वचनात् ॥—श्रोत्रियन्—। यश्छन्दोऽधीते सः श्रोत्रियो भवति । अत्र भाष्ये ‘छन्दोऽधीते इत्यस्य वाक्यस्यार्थे श्रोत्रियन्नित्येतत्पदं निपात्यते’ इति वाक्यार्थे पदवचनपक्षः । छन्दसो वा श्रोत्रभावो निपात्यते ‘तदधीत इत्येतस्मिन्नर्थे घश्च प्रत्ययः’ इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेन ‘वाक्यार्थस्य संबन्धरूपस्य क्रियारूपस्य वाऽसलरूपलात् । श्रोत्रियशब्दस्य च सलरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्यायी अभिधीयत इति ॥ एकां शाखामधीत्य श्रोत्रियो भवतीति धर्मशास्त्रम् ॥—चेत्यनुवृत्तेरिति । ‘तावतिथं ग्रहणमिति लुग्वा’ इत्यतः
Bālamanoramā
स एषां ग्रामणीः - स एषा ग्रामणीः । ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । त्वत्काः मत्का इति । त्वमहं वा मुख्य एषामिति विग्रहः ।प्रत्ययोत्तरपदयोश्चे॑ति त्वमौ शृङ्खलमस्य । करभ इति । षष्ठर्थे सप्तमी ।बन्धन॑मिति करणे ल्युट् । अस्य करभस्य शृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः । शृङ्खलक इति । शृङ्खलेन बद्ध इति यावत् । करभः=बाल उष्ट्रः ।
Footnotes (NSP 1915 ed.)
NSP p. 312 १ कालप्रयोजनादिति—कालवाचकः पूरणप्रत्ययान्त एव ततः सप्तम्यन्ताद्भवे प्रत्ययः । कारणवाचकात्तृतीयान्ताज्जनित इत्यर्थे, फलबोधकात्प्रथमान्तादस्य कार्यमित्यर्थे, अभिधानस्वाभाव्यादिति शब्देन्दुशेखरे ।
SK 1879 · A 5.2.79V
शृङ्खलमस्य बन्धनं करभे ॥ १८७९ ॥
śṛṅkhalamasya bandhanaṃ karabhe
SK 1880 · A 5.2.80V
उत्क उन्मनाः ॥ १८८० ॥
utka unmanāḥ
Siddhānta-kaumudī
उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥
Bālamanoramā
उत्क उन्मनाः - उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्टितवृत्तेरित्यर्थः ।
SK 1881 · A 5.2.81V
कालप्रयोजनाद्रोगे ॥ १८८१ ॥
kālaprayojanādroge
Siddhānta-kaumudī
कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥
Bālamanoramā
कालप्रयोजनाद्रोगे - कालप्रयोजनाद्रोगे । काल, प्रयोजन — अनयोः समाहारद्वन्द्वः । तदाह — कालवचनात्प्रयोजनवचनाच्चेति ।यथोचितविभक्त्यन्ता॑दिति शेषः । कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात् । तदाह — द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटिप्रयोजनं॑साधनम् । कर्मणि ल्युटि तु फलम् । तदाह — प्रयोजनं कारणं रोगस्य फलं वेति ।
SK 1882 · A 5.2.82V
तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ १८८२ ॥
tadasminnannaṃ prāye saṃjñāyām
Siddhānta-kaumudī
प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ।
vārttikaवटकेभ्य इनिर्वाच्यः
Bālamanoramā
तदस्मिन्नन्नं प्राये संज्ञायाम् - तदस्मिन्नन्नं । प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव वटकिनीति । वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः ।
SK 1883 · A 5.2.83V
कुल्माषादञ् ॥ १८८३ ॥
kulmāṣādañ
Siddhānta-kaumudī
कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥
Bālamanoramā
कुल्माषादञ् - कुल्माषादञ् । कनोऽपवादः ।स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॑ इत्यमरः ।
SK 1884 · A 5.2.84V
श्रोत्रियंश्छन्दोऽधीते ॥ १८८४ ॥
śrotriyaṃśchando'dhīte
Siddhānta-kaumudī
श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥
Bālamanoramā
श्रोत्रियंश्छन्दोऽधीते - श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दादधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यवृत्तेरिति ।तावतिथ॑मिति सूत्रान्मण्डूकप्लुत्ये॑ति शेषः । ततश्च घनभावे अद्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।
SK 1885 · A 5.2.85V
श्राद्धमनेन भुक्तमिनिठनौ ॥ १८८५ ॥
śrāddhamanena bhuktaminiṭhanau
Tattvabodhinī
NSP p. 312—श्राद्धमनेन—। श्रद्धास्मिन्नस्तीति श्राद्धम्—‘प्रज्ञाश्रद्धार्चाभ्यो णः’ ॥ यद्यपि पित्र्यं कर्म श्राद्धशब्दे- नोच्यते तथापीह तत्साधनद्रव्यमुच्यते । मुख्यश्राद्धस्य भोक्तुमशक्यत्वात् ॥—श्राद्धी । श्राद्धिक इति । ‘अद्यतन एवेष्यते’ अद्य भुक्ते श्वः श्राद्धिक इति मा भूत्
Bālamanoramā
श्राद्धमनेन भुक्तमिनिठनौ - श्राद्धमनेन । प्रथमान्ताच्छ्राद्धशब्दाद्भुक्तमनेनेत्यर्थे इनिठनौ [एतौ] स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । इनिप्रत्यये नकारादिकार उच्चारणार्थः ।
SK 1886 · A 5.2.86V
पूर्वादिनिः ॥ १८८६ ॥
pūrvādiniḥ
Tattvabodhinī
NSP p. 312—पूर्वादिनिः । पूर्वमिति क्रियाविशेषणात् द्वितीयान्तात्प्रत्ययः ॥ ‘अनेन’ इति कर्तृवाचकमनुवर्तते । न च क्रियामन्तरेण कर्ता संभवतीति कांचित्क्रियामध्याह्नस्य प्रत्ययो विधेयस्तदाह— पूर्वं कृतमनेनेति
Bālamanoramā
पूर्वादिनिः - पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्छभूतं क्रियासामान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दादनेनेत्यर्थे इनिः स्यादित्यर्थः ।
SK 1887 · A 5.2.87V
सपूर्वाच्च ॥ १८८७ ॥
sapūrvācca
Tattvabodhinī
NSP p. 312—सपूर्वाच्च । ‘अनेन’ इति, पूर्वसूत्रं चानुवर्तते ॥ विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थं इनिः स्यात् ॥ ‘पूर्वान्ताच्च’ इत्येतफलितम् ॥—कृतपूर्वीति । कृतपूर्वशब्दयोः ‘मुप्सुपा’ इति समासः । इह प्रातिपदिकाधिकारात् ‘पूर्वादिनिः’ इत्यनेनैव पूर्वशब्दान्तप्रातिपदिकात् कृतपूर्वशब्दादिनौ सिद्धे ‘सपूर्वाच्च’ इत्येतद् ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न’ इति परिभाषां ज्ञापयति । कृतपूर्वीत्येतत्सिद्धये ‘पूर्वान्ताच्च’ इति स्वीकृते तेनैव व्यपदेशिवद्भावेन पूर्वीत्यपि रूपे सिद्धे ‘पूर्वादिनिः’ इत्येतत् ‘व्यपदेशिवद्भावोऽप्रातिपदिकेन’ इति परिभाषां ज्ञापयति ॥—छन्दसि— पर्यवस्थातृशब्दाच्छत्रुपर्यायात्स्वार्थं इनिप्रत्ययः, अवस्थातृशब्दस्य च पन्थ पर एतावादेशौ निपात्येते ॥ ‘अपत्यं परिपन्थिनम्’ ‘मा ला परिणो विदन्’ । उभयत्रापि परिशब्दे अवग्रहः ॥—लोके त्विति । ‘अनुपस्थितपरिपन्थिभिः पार्थिवैः’ इत्यादौ
Bālamanoramā
सपूर्वाच्च - सपूर्वाच्च । विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमिति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् ।
SK 1888 · A 5.2.88V
इष्टादिभ्यश्च ॥ १८८८ ॥
iṣṭādibhyaśca
Bālamanoramā
इष्टादिभ्यश्च - इष्टादिभ्यश्च । इष्टादिभ्यस्तृतीयान्तेभ्योऽनेनेत्यर्थे इनिः स्यादित्यर्थः ।
SK 1889 · A 5.2.89V
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ १८८९ ॥
chandasi paripanthiparipariṇau paryavasthātari
Siddhānta-kaumudī
लोके तु परिपन्थिशब्दो न न्याय्यः ॥
Bālamanoramā
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेसे परिपन्थिन्शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेसे परिपरिन्शब्दः ।मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन् इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।
SK 1890 · A 5.2.90V
अनुपद्यन्वेष्टा ॥ १८९० ॥
anupadyanveṣṭā
Siddhānta-kaumudī
अनुपदमन्वेष्टा अनुपदी गवाम् ॥
Tattvabodhinī
NSP p. 312—अनुपद्यन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते ॥—अनुपदमिति । पदस्य पश्चात् । पश्चादर्थेऽव्ययीभावः ॥—अनुपदी गवामिति । पदापेक्षया षष्ठी । गोपदात्पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्वेष्ये न भवतीति हरदत्तः
Bālamanoramā
अनुपद्यन्वेष्टा - अनुपद्यन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्मादन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते ।
SK 1891 · A 5.2.91V
साक्षाद्द्रष्टरि संज्ञायाम् ॥ १८९१ ॥
sākṣāddraṣṭari saṃjñāyām
Tattvabodhinī
NSP p. 312–313—साक्षाद्रष्टरि—। द्रष्टर्यर्थे इनिः स्यात् ॥ साक्षाच्छब्दोऽव्ययम्, तेन ‘प्रकृतिवदनुकरणम्’ इत्यतिदेशादिह सूत्रे पश्चम्या बुद्धः । ‘उदः स्थास्तम्भोः—’ ‘अवाच्चालम्बना—’ इत्यादौ तु ‘प्रकृतिवत्’ इत्यतिदेशस्य वैकल्पिकत्वेनाव्ययत्वा- भावात् पञ्चम्या लुङ् न भवतीति बोध्यम् ॥—साक्षीति । ‘अव्ययानां भमात्रे’ इति टिलोपः । यद्यपि साक्षाद्द्रष्टारस्त्रयो भवन्ति दाता ग्रहीता उपद्रष्टा च, तथापीह संज्ञाग्रहणात् साक्षिशब्देनोपद्रष्टैबोध्यत इत्याहुः
Bālamanoramā
साक्षाद्द्रष्टरि संज्ञायाम् - साक्षाद्द्रष्टरि ।साक्षा॑दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः । 'अव्ययानां भमात्रे' इति टिलोपः ।
Footnotes (NSP 1915 ed.)
NSP p. 313 १ संबन्धेऽस्तिविवक्षायामिति पाठः ।
SK 1892 · A 5.2.92V
क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ १८९२ ॥
kṣetriyac parakṣetre cikitsyaḥ
Siddhānta-kaumudī
क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥
Tattvabodhinī
NSP p. 313—क्षेत्रियच्— ‘परक्षेत्रशब्दात्सप्तम्यन्ताद्धच् परशब्दस्य लोपश्च निपात्यते’ इति मनोरमा ॥ अन्ये तु ‘परक्षेत्रे चिकित्स्यः’ इत्यर्थे ‘क्षेत्रियच्’ इति निपात्यते । वाक्यार्थे पदवचनं श्रोत्रियवदित्यप्याहुः ॥ एवमन्यत्राप्यूह्यम् ॥—क्षेत्रियो व्याधिरिति । किंच क्षेत्रियं विषम् । यत्परशरीरे संक्रमय्य चिकित्स्यते ॥ अपि च क्षेत्रियाणि तृणानि । यानि सस्यानि सस्यार्थक्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि ॥ किं च क्षेत्रियः पारदारिकः ॥ परदाराः परक्षेत्रम् । तत्र चिकित्स्यो निग्रहीतव्यः । सर्वेऽप्येते पक्षा आकरे स्थिताः
Bālamanoramā
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्- इन्द्रदत्तमिति वा - इन्द्रियम् । इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दाद्यथायोगं षष्ठीतृतीयान्ताल्लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत् । इन्द्र आत्मेति ।स एतमेव पुरुषं ब्राहृ ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते॑ इति श्रुतेरिति भावः । तस्यलिङ्गमिति । आत्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमुपपादयति — करणेनेति ।चक्षुरादीन्द्रियं किञ्चित्कत्र्रधिष्ठितं भवितुमर्हति, करणत्वात्, घटकरणदण्डादिव॑दित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातामिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह — इतिकरणमिति । इतिशब्द इत्यर्थः ।
SK 1893 · A 5.2.93V
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ १८९३ ॥
indriyamindraliṃgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattamiti vā
Siddhānta-kaumudī
इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥
Tattvabodhinī
NSP p. 313—इन्द्रियमिन्द्र— इन्द्रशब्दाद्धच् । इन्द्रेण दृष्टं ज्ञातं ‘मम चक्षुः, मम श्रोत्रम्’ इत्यादिकमेण सृष्टमदृष्टद्वारा जुष्टं प्रीणितं सेवितं वा । दत्तं यथायथं विषयेभ्यः । रूढिशब्दोऽयं यथाकथंचिद्ध्युत्पादितः
SK 1894 · A 5.2.94V
तदस्यास्त्यस्मिन्निति मतुप् ॥ १८९४ ॥
tadasyāstyasminniti matup
Siddhānta-kaumudī
गावोऽस्यास्मिन्वा सन्ति गोमान् ।
vārttikaभूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने
(वार्तिकम्) ॥ संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥
Tattvabodhinī
NSP p. 313—तदस्यास्त्यस्मिन्निति मतुप् । तदिति प्रथमासमर्थात्प्रत्ययः ॥ अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते भाविनि वा ‘धनवानयम्’ इति प्रतीत्यभावात् । इतिशब्दो विषयविशेषलाभार्थः । तथाहि— ‘भूमनिन्दाग्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः’ ॥ अस्तिविवक्षायां ये मतुवादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः ॥—भूमा वहुलम् । तच्चापेक्षिकम् । यस्य हि यावदुचितं तावदेव वहुलबोधकवहुशब्देनापि प्रतीयते । तथा पञ्चषाभिरपि गोभिर्देवदत्तस्य बहुधो गाव इति व्यवहारः । राज्ञस्तु सहस्रगोरपि गावोऽल्पा इति व्यवहारः ॥ गोमान् । यवमान् । यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते । नतु सहस्रेणापि यवैर्यवमानिति । कथं तर्हि ‘यवमतीभिरद्भिर्यूपं प्रोक्षति’ इति । अत्राहुः । जातिमात्रसंवन्धस्य विवक्षितला-द्भूमाभावेऽप्यत्र मतुप् ॥ भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त इत्येवंपरमिति ॥—निन्दायां ककुदावर्तिनी कन्या ॥—प्रशंसायां, रूपवान् ॥—नित्ययोगे, क्षीरिणो वृक्षाः ॥—अतिशायने, उदरिणी कन्या ॥—संसर्गे, दण्डी । संसर्गः संयोगः तेन संयुक्तदण्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि ॥ इह दण्डपुरुषयोः संयोगे सत्यपि दण्डी पुरुष इत्यादिवत् ‘पुरुषी दण्डः’ ‘पुरुषवान् दण्डः’ इति न प्रयुज्यते । वृत्तिनियामकस्य विलक्षणसंवन्धस्याभावात् । संयोगे स-मानेऽपि प्रतीतिवलाद्वैलक्षण्यं कल्प्यत इत्याहुः ॥ एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेन ‘कथं यवमतीभिरद्भिः’ इत्याक्षेपो भूमादिग्रहणं प्रायिकमित्याद्युत्तरं च संगच्छत एव ॥—अन्यमत्यर्थायेति । कथं तर्हि ‘रूपिणी कन्या’ ‘रसिको नटः’ इति । अत्राहुः । रसादिगणे ‘गुणात्’ इति पत्र्यते । तेन गुणवाचिभ्य एवान्यमत्यर्थायस्य निषेधः, रूपिणीत्यत्र तु रूपशब्देन सौन्दर्यं गृह्यते । तच्च न गुणः ॥ रसिक इत्यत्र तु रसशब्देन भावो गृह्यते न तु रसनाग्राह्यो गुण इति ॥—गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धा ये शुक्लादयस्त एव गृह्यन्ते न तु रूपादयोऽपि । तेन रूपं वस्त्रमित्यादिप्रयोगो न भवति
Bālamanoramā
तदस्यास्त्यस्मिन्निति मतुप् - तदस्यास्त्यस्मिन्निति मतुप् । तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्मि समानाधिकरणात्प्रथमान्तादस्य अस्मिन्निति चार्थे मतुप्स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः । तदाह — भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा=बहुत्वम् । यथा गोमान्, यवमान् । निन्दायां-ककुदावर्तिनी कन्या । प्रशंसायां-रूपवान् । नित्ययोगे — क्षीरिणो वृक्षाः । अतिशायने-उदरिणी कन्या । संसर्गे-दण्डी । छत्री । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन 'परुषी दण्ड' इति नास्ति ।
SK 1895 · A 5.2.95V
रसादिभ्यश्च ॥ १८९५ ॥
rasādibhyaśca
Siddhānta-kaumudī
मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । (गणसूत्रम् -) गुणात् ॥ (गणसूत्रम् -) एकाचः ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥
Bālamanoramā
रसादिभ्यश्च - रसादिभ्यटश्च । मतुबिति । शेषपूरणमिदम् । 'उक्तविषये' इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अन्यमत्वर्थीयेति । 'अत इनिठनौ' इत्यादिनिवृत्त्यर्थमित्यर्थः । रसादीन्पठति — रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाचेति । गणसूत्रम् । उदाहरति-स्ववानिति । गुणग्रहणमिति । गुणादित्येतद्रसादीनां षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणाज्जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानामिह न ग्रहणमिति भावः । 'रसिको नटः' 'स्पर्शिकं वारि' इत्यादि प्रयोगदर्शनादिदं सूत्रं भाष्ये प्रत्याख्यातम् ।
SK 1896 · A 1.4.19भसंज्ञा
तसौ मत्वर्थे ॥ १८९६ ॥
tasau matvarthe
Siddhānta-kaumudī
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् SK 435 । विदुष्मान् ।
vārttikaगुणवचनेभ्यो मतुपो लुगिष्टः
(वार्तिकम्) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
Bālamanoramā
तसौ मत्वर्थे - ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात्वसोः संप्रसारण॑मिति करथं संप्रसारणमित्यत आह — तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह-तान्तसान्ताविति । तकारसकारान्तावित्यर्थः । गुणवचनेभ्य इति वार्तिकमिदम्, गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दास्त एव गृह्यन्ते, नतु रूपादिशब्दा अपि.तेनरूपं वस्त्र॑मित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः ।
SK 1897 · A 8.2.9V
मादुपधायाश्च मतोर्वोऽयवादिभ्यः ॥ १८९७ ॥
mādupadhāyāśca matorvo'yavādibhyaḥ
Siddhānta-kaumudī
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥
Tattvabodhinī
NSP p. 313—मादुपधाया— मूव अश्व मं समाहारे द्वन्द्वः । तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते । तदाह—मवर्णावर्णान्तादिति । ‘उपधायाश्च’ इति वाक्यान्तरम् । उपधा-भूतान्मात्परस्य मतोरित्यर्थः । ‘येन नाव्यवधान’ न्यायेनान्त्याल्यवहितेऽपि भवतीति । एवमक्षरार्थे स्थिते फलितमाह—मवर्णावर्णापधादिति
Bālamanoramā
मादुपधायाश्च मतोर्वोऽयवादिभ्यः - मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह — मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वाऽस्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति — ज्ञानवानिति । अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग — विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । अदुपदादुदाहरति — यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — भास्वानिति ।
SK 1898 · A 8.2.10V
झयः ॥ १८९८ ॥
jhayaḥ
Siddhānta-kaumudī
झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥
Tattvabodhinī
NSP p. 313–314—झयः । इदमपि मतुवाक्षिप्तस्य प्रातिपदिकस्य विशेषणम् । तदाह—झयन्तादिति ॥—विद्युत्वानिति । एतेन ‘वह्निमद्वान्’ इति नैयायिकप्रयोगो निरस्तः । उक्तरीत्या जश्लस्याप्रवृत्तेः । मत्वन्तान्मतुपो नि- वेधाच्च ॥ ननु गोधुच्चान् मधुलिण्मानित्यत्र हस्य घटवे ढटवे च कृते ‘श्लायः’ इति वलप्रवृत्त्याऽनुनासिकपरलाभावात् ‘प्रत्यये भाषायां नित्यम्’ इत्यनेन घकारढकारयोरनुनासिकाप्रवृत्तेर्गोधुग्वान् मधुलिङ्गानित्यनिष्टं प्रसज्येत । मैवम् । घलढलयोर-सिद्धत्वेन ‘श्लायः’ इति वलाप्रवृत्तेः ॥—प्राणिस्थात्—॥—शिखावान्दीप इति । प्रत्युदाहरणदिग्यियं दर्शिता । शिखा-शब्दस्य ब्रीह्यादिपाठेन लचोऽप्रसङ्गात् । ‘चूडावान् वृक्षः’ इति प्रत्युदाहार्यमिति हरदत्तः ॥ न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम् । मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात्
Bālamanoramā
झयः - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 314 आसन्दीवदिति—अत्र सूत्रे कक्षीवच्छब्दपाठोऽनार्प इति ‘न संप्रसारणे—’ इति सूत्रस्थमाध्यस्वरसः । तत्र हि ‘कक्ष्यायाः संज्ञाया मतौ संप्रसारणं वक्तव्यम्’ इति वचनमेवारब्धम्, वस्त्वं तु ‘संज्ञायाम्’ इति सूत्रेण सिद्धमिति ।
SK 1899 · A 8.2.11V
संज्ञायाम् ॥ १८९९ ॥
saṃjñāyām
Siddhānta-kaumudī
मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च SK 1042 इति दीर्घः ॥
SK 1900 · A 8.2.12V
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ॥ १९०० ॥
āsandīvadaṣṭhīvaccakrīvatkakṣīvadrumaṇvaccarmaṇvatī
Siddhānta-kaumudī
एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥
Bālamanoramā
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती - आसन्दीवत् । समाहारद्वन्द्वे ह्रस्वत्वम् । निपात्यन्त इति । आसन्दीभावादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसारणमिति । 'निपात्यते' इति शेषः । 'न सम्प्रसारणे' इति सूत्रभाष्ये तुकक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं वक्तव्य॑मित्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छब्दपाठोऽनार्ष इत्याहुः ।
SK 1901 · A 8.2.13V
उदन्वानुदधौ च ॥ १९०१ ॥
udanvānudadhau ca
Siddhānta-kaumudī
उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥
Bālamanoramā
उदन्वानुदधौ च - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् ।
SK 1902 · A 8.2.14V
राजन्वान् सौराज्ये ॥ १९०२ ॥
rājanvān saurājye
Siddhānta-kaumudī
राजन्वती भूः । राजवानन्यत्र ॥
Bālamanoramā
राजन्वान् सौराज्ये - राजन्वान् सौराज्ये । सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थे राजन्शब्दान्मतुपि 'मादुपधायाः' इति वत्वं सिद्धम् । नलोपाऽभावो निपात्यते ।
SK 1903 · A 5.2.96V
प्राणिस्थादातो लजन्यतरस्याम् ॥ १९०३ ॥
prāṇisthādāto lajanyatarasyām
Siddhānta-kaumudī
चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥
(वार्तिकम्) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ SK 3659 इति स्वरितबाधनार्थश्चकारः ॥
Tattvabodhinī
alignment inferredNSP p. 314—प्राण्यङ्गादेवेति । एतच्चेति करणानुवृत्त्या लभ्यते ॥—चूडालोऽसीति । असीत्यस्य ‘तिङ्ङतिङः’ इति निघातः । चूडालशब्दात्सोरुत्वे तस्य ‘अतो रोरभुतात्—इत्युकारे कृते हलां संसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुप्स्थानिकस्यापि सुप्त्वात् ‘अनुदात्तौ सुप्पितौ’ इत्यनुदात्त इत्यन्ये ॥ पूर्वेण सह आह्वणे सति ‘एकादेश उदात्तेन’ इत्योकार उदात्तः । ततः ‘एङः पदान्तादति’ इति पूर्वरूपमेकादेश-स्तस्य ‘स्वरितो वानुदात्तः’ इत्यादिना स्वरिते प्राप्ते तद्वाधनाय चकार इत्यर्थः
Bālamanoramā
प्राणिस्थादातो लजन्यतरस्याम् - प्राणिस्थात् । आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह — प्रत्ययस्वरेणेति । चूडालोऽसीति । तत्र असीत्येतत् 'तिङ्ङतिङः' इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्यएकादेश उदात्तेने॑त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात्स्वरितो वाऽनुदात्ते॑ इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः ।
SK 1904 · A 5.2.97V
सिध्मादिभ्यश्च ॥ १९०४ ॥
sidhmādibhyaśca
Siddhānta-kaumudī
लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (गणसूत्रम् -) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥
Tattvabodhinī
NSP p. 314—सिध्मादिभ्यश्च । सिध्म गडु मणि विजय निष्पाव पांसु हनु पाष्ण्यादयः सिध्मादयः ॥—समुच्चयार्थमिति । निपातानामनेकार्थलादिति भावः । न च इनिठनाव-प्यन्यतरस्यांग्रहणेन समुच्चयेतामिति शङ्क्यम् । तयोरप्रकृतत्वात् । मतुप्प्रत्ययस्तु समुच्चीयते । तस्य प्रकृतत्वात् । अस्ति चेह लिङ्गं ‘केशाद्रः’ इत्यत्रान्यतरस्यांग्रहणम् । तद्धि इनिठनोः प्राप्त्यर्थं क्रियते । प्रकृतस्यान्यतरस्यांग्रहणस्य विकल्पार्थत्वे तदनु- वृत्त्यैव सिद्धौ किं तेन । क्रियमाणं तु पूर्वस्यान्यतरस्याग्रहणस्य समुच्चयार्थतां ज्ञापयत्येव । तथा च वार्तिकं, ‘लज्ज्यतरस्यामिति समुच्चयः’ इति । अयं भावः । ‘प्राणिस्थात्’ इति सूत्रेण लचि विकल्पिते पक्षे मतुविति चूडालश्रूडावानिति रूपद्वयं यद्यपि सिद्ध्यति तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः । समुच्चयार्थत्वे तु न दोष इति ॥ एवं च ‘लज्ज्वा स्यात्’ इति वृत्तौ वाशब्दः समुच्चये वोध्यः । ‘वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये’ इत्यमरः ॥— वातदन्तेत्यादि सिध्माद्यन्तर्गणसूत्रम् ॥—ऊङ्क् चेति । डित्त्वादन्तादेशः । ऊकारमात्रोक्तावन्तादेशस्रसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय ङानुवन्धः कृतः । न च षष्ठ्यन्ताद्विहितस्य प्रत्ययत्वं वेति शङ्क्यम् । ‘अहंशुभमोर्युस्’ ‘गोपयसोर्यत्’ इत्यादौ प्रत्ययत्वाभ्युपगमात् ॥—वातूल इति । अन्तोदात्तमिदम् । प्राचा तु ‘वलादूलः’ ‘वाताच्च’ इति पठित्वा वातूल इत्युक्तम् । तदुपेक्ष्यम् । प्रत्ययस्वरेण मध्योदात्तत्वप्रसङ्गात् । गणसूत्रबलेनान्तोदात्तमेवेष्यत इत्याहुः ॥ ‘पार्णिधमन्योर्दीर्घश्च’ । ‘शुद्रजन्तूपतापाच्च’ इत्यपि गणे पठ्यते । पार्णीलः । धमनीलः । शुद्रजन्तुः । यूकालः । मक्षिकालः ॥ उपतापो रोगः । विपादिकालः
Bālamanoramā
सिध्मादिभ्यश्च - सिध्मादिभ्यश्च । लज्वा स्यादिति । 'मत्वर्थे' इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्,लजभावे मतुबेव भवति, नतु अत इनिठनौ॑ इत्येतदर्थ समुच्चयविधानात् । तदाह — तेनेति । सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पाष्ण इत्यादयः सिध्मादिषु पठिताः । एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति । सिघ्मादिगणसूत्रमिदम् । एभ्यो लच्, प्रकृतेरूङ् चादेशः । ङकारस्तु #आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः । एवं दन्तूलः, बलूलः ललाटूलः ।
SK 1905 · A 5.2.98V
वत्सांसाभ्यां कामबले ॥ १९०५ ॥
vatsāṃsābhyāṃ kāmabale
Siddhānta-kaumudī
आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥
Tattvabodhinī
NSP p. 314–315—वत्सांसाभ्याम्—॥—कामवतीति । कामवलशब्दौ सूत्रे अर्शाद्यजन्ताविति भावः ॥—वत्सल इति । स्नेहवानित्यर्थः ॥ ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामवलयोः । तत्कथं ताभ्यां लजन्ताभ्यां कामवान् वलवांश्चोच्यत इति चेत् । अत्राहुः । वृत्तिविषये वत्सांसशब्दौ स्नेहवलयोर्वर्तेते इति ॥ अस्मिन्नु प्रकरणे सर्वत्र समुच्चीयमानोऽपि मतुविह नेष्यते । मतुवन्तेनोक्तार्थस्याप्रतीतेः । किं त्वर्थान्तरमेव । तेन प्रतीयते । वत्सवती गौः । अंसवान् दुर्वल इति
Bālamanoramā
वत्सांसाभ्यां कामबले - वत्सासाभ्यां लच्स्यादिति । 'मत्वर्थे' इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह — कामवति बलवति चेति ।
Footnotes (NSP 1915 ed.)
NSP p. 315 १ उत्तरार्धं इति—तपःसहस्राभ्यामण्विनीनी इति न्यायेन भिन्नविभक्त्युच्चारणादयं उभयसंवन्धो विनीन्योर्यथासंख्यं च सिद्धमिति भावः ।
SK 1906 · A 5.2.99V
फेनादिलच् च ॥ १९०६ ॥
phenādilac ca
Siddhānta-kaumudī
चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥
Bālamanoramā
फेनादिलच् च - फेनादिलच्च । 'मत्वर्थ' इति शेषः । चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह — अन्यतरस्यांग्रहणमिति । सिघ्मादिसूत्रे व्याख्यातमिदम् ।
SK 1907 · A 5.2.100V
लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ १९०७ ॥
lomādipāmādipicchādibhyaḥ śanelacaḥ
Siddhānta-kaumudī
लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (गणसूत्रम् -) अङ्गात्कल्याणे । अङ्गना ॥ (गणसूत्रम् -) लक्ष्म्या अच्च । लक्ष्मणः ।
vārttikaविष्वगित्युत्तरपदलोपश्चाकृतसन्धेः
(वार्तिकम्) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥
Tattvabodhinī
NSP p. 315—लोमादि—। इह ‘नन्दिग्रहिपचादिभ्यः’ इति वत् ‘लोमपामपिच्छादिभ्यः’ इति सुपठम् ॥ ‘अङ्ग कल्याणे’ इति गणसूत्रमर्थतः पठति—अङ्गादिति ।—शाकीपलालीदर्श्वाहस्तवं च । चान्नप्रत्ययः ॥ महच्छाकं शाकी तद्वत् शाकिनम् ॥ महत्पलालं पलाली तद्वत् पलालिनम् ॥ ‘दरिद्रातेरालोपश्च’ इत्युणादिसूत्रेण इकाराकारयोर्लोपश्चाद्प्रत्ययः । दर्द्रूस्त्वप्रोगविशेषः । तद्वान् दर्श्यः ॥—विष्वगिति । ‘समर्थानाम्’ इत्यस्यापवादोऽयम् । अकृतसन्धेरकृतयणादेशस्याश्चतेर्लोपः । चकारान्नप्रत्यय इत्यर्थः ॥ यदि तु कृते यणादेशे उत्तरपदलोपः स्यात्, तदा वलिलोपे सति विष्णु इति स्यात् ॥—विषुण इति । विषु नाना अश्वन्तीति । विष्वं चित्तान्यस्य सन्ति विषुणः विषुवदाख्यः कालः । तस्य हि नानागतानि दिनानि सन्ति । दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात् । अयं भावः—विषुवति दिनानां समतायां जातायामग्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिनमूलभूतदिनानां सत्वात्तथोच्यते इति ॥ तथा नानागमनवत्त्वान्मृत्युर्वायुरव्यवस्थितचित्तश्च विषुणशब्देनोच्यते
Bālamanoramā
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः - प्रज्ञाश्रद्धार्चाभ्योणः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाज्ज्ञाधातोः 'आतश्चोपसर्गे' इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानतन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः ।इगुपधे॑ति कः । प्रज्ञशब्दात्स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्क्यं, तथा सति स्त्रिया ङीप्प्रसङ्गात् । तदाह — प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्चेति । अर्चा अस्यास्तीति विग्रहः ।वृत्तेश्चेति । वार्तिकमिदम् । 'मत्वर्थे णप्रत्यय' इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।
SK 1908 · A 5.2.101V
प्रज्ञाश्रद्धार्चाभ्यो णः ॥ १९०८ ॥
prajñāśraddhārcābhyo ṇaḥ
Siddhānta-kaumudī
प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ।
Tattvabodhinī
NSP p. 315—प्रज्ञाश्रद्धा—॥—प्राज्ञो व्याकरण इति । गुणभूतया क्रियया कर्मत्वेन संवन्धः कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न कृतपूर्वीकटमितिवत् ॥ ननु प्रकर्षेण जानातीति प्रज्ञः । स एव प्रज्ञावान् । तथा च प्रज्ञ एव प्राज्ञ इत्यणि कृते सिद्धमिष्टं किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह—प्राज्ञेति । स्त्रियां टाप् । ‘प्रज्ञादिभ्यश्च’ इत्यणि तु ङीप् स्यादिति भावः ॥—वृत्तेश्चेति । वार्तिकमिदम् । काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः ॥ विच्छिन्नस्य प्रतिविधानं वृत्तिः ॥—तपस्वी । सहस्रीति । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा वाधा माभूदिति । सहस्रात्तु ठनोऽपि वाधनार्थम् । एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद्दृश्यते ॥—उत्तरार्थ इति । विनीन्योर्यथासंख्यप्रवृत्त्यर्थश्चेत्यपि वोध्यम् ॥—ज्यौत्स्न इति । शुक्लपक्षः ॥—तामिस्र इति । कृष्णपक्षः नरकविशेषश्च । तमःसमूहस्तमिस्रम् । ‘ज्योत्स्नातमिस्रा—’ इति निपातनान्मत्वर्थायो रः । तत्र ह्यवयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् । स्त्रियां तामिस्रा ‘तमिस्रा तामसी रात्रिज्यौत्स्नी चन्द्रिकयान्विता’ इत्यमरोक्तौ तु तमिस्रेत्येतद्वान्तं न त्वणन्तमिति न विरोधः ॥ एवं च तमिस्रा रात्रयो अस्मिन् सन्ति तामिस्रः पक्ष इत्यपि व्याख्यातुं शक्यम्
SK 1909 · A 5.2.102V
तपःसहस्राभ्यां विनीनी ॥ १९०९ ॥
tapaḥsahasrābhyāṃ vinīnī
Siddhānta-kaumudī
विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥
Bālamanoramā
तपःसहस्राभ्यां विनीनी - तपः सहरुआआभ्यां । विनिश्च इनिश्चेति द्वन्द्वः । 'मत्वर्थे' इति शेषः । यथासंख्यमन्वयः । विनिप्रत्यये इनि प्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोरित्संज्ञा कुतो न स्यात् । नच प्रयोजनाऽभावः, नित्स्वरस्यैव फलत्वादित्यत आह — नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाऽभावान्नेत्संज्ञेचि भावः । यद्यपिअस्मायामेधे॑त्यसन्तत्वादेव तपःशब्दाद्विन्सिद्धः, सहरुआशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धस्ततथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताऽदन्तलक्षणयोर्विनीन्योः सामान्यलिगितयोर्बाधो मा भूदिति विशिष्येह तपःसहरुआशब्दाभ्यां तयोर्विधानम् । सहरुआशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते ।
SK 1910 · A 5.2.103V
अण् च ॥ १९१० ॥
aṇ ca
Siddhānta-kaumudī
योगविभाग उत्तरार्थः । तापसः । साहस्रः ।
vārttikaज्योत्स्नादिभ्य उपसंख्यानम्
(वार्तिकम्) ॥ ज्यौत्स्नः । तामिस्रः ॥
Bālamanoramā
अण् च - अण्च ।तपःसहरुआआभ्यां मत्वर्थे॑ इति शेषः । ननुतपःसहरुआआभ्यां विनीन्यणः॑ इत्येकमेव सूत्रमस्तु । नच तपःसहरुआआभ्यां विनीन्योर्यथासंख्यार्थं पृथक्सूत्रकरणम्, अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यं,तपःसहरुआआभ्यामण्विनीनी॑ इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य, विनीन्योर्यथासंख्य(त्व)स्य च सिद्धेरित्यत आह — योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्यौत्स्न इति । 'शुक्लपक्ष' इति शेषः । ज्योत्स्ना=चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिरुआ इति । 'कृष्णपक्ष' इति शेषः । तमिरुआआः=तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः । ज्योत्स्नादित्वादण् ।
SK 1911 · A 5.2.104V
सिकताशर्कराभ्यां च ॥ १९११ ॥
sikatāśarkarābhyāṃ ca
Tattvabodhinī
NSP p. 315—सिकताशर्करा—। देशविशेषस्य वक्ष्यमाणत्वादाह—घट इति ॥—मतुप् चेति । अन्यतरस्यांग्रहणेन सर्वत्र मतुपा समुच्चयादिति भावः ॥—सिकता इति । लुपि युक्तवद्भावः ॥ अत्र सूत्रद्वयस्योदाहरणान्यमरः संजग्राह—‘स्त्री शर्करा शर्करिलः शर्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति’ इति
Bālamanoramā
सिकताशर्कराभ्यां च - सिकताशर्कराभ्यां च । 'मत्वर्थे अ' णिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद्धट इति विशेष्यम् ।अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रात्सिकताशब्दो नित्यं बहुवचनान्तः ।
SK 1912 · A 5.2.105V
देशे लुबिलचौ च ॥ १९१२ ॥
deśe lubilacau ca
Siddhānta-kaumudī
चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥
Bālamanoramā
देशे लुबिलचौ च - देशे लुबिलचौ च । पूर्वसूत्रविहितस्या.ञणो लुप्, इलच्च स्यादित्यर्थः । चादणिति । संनिहितत्वादिति भावः । तर्हि अपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेर्मतुब्नैव स्यादित्यत आह — मतुप्चेति । समुच्चयार्थकन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दान्नित्यं बहुवचनान्तादणो लुपि प्रातिपदिकावयवत्वात्सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः ।हयवर॑डिति सूत्रेएका च सिकता तैलदाने असमर्थेति भाष्ये प्रयोगात्सिकताशब्द एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति ।
SK 1913 · A 5.2.106V
दन्त उन्नत उरच् ॥ १९१३ ॥
danta unnata urac
Siddhānta-kaumudī
उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥
Tattvabodhinī
NSP p. 315—दन्त उन्नत—। उन्नत इति किम् । दन्तवान्
Bālamanoramā
दन्त उन्नत उरच् - दन्त उन्नत उरच् । उन्नतविशेषणकाद्दन्तशब्दान्मत्वर्थेउरच्स्यादित्यर्थः । 'उन्नत' इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे ।
SK 1914 · A 5.2.107V
ऊषसुषिमुष्कमधो रः ॥ १९१४ ॥
ūṣasuṣimuṣkamadho raḥ
Siddhānta-kaumudī
ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ।
vārttikaरप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्
(वार्तिकम्) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ।
vārttikaनगपांसुपाण्डुभ्यश्च
(वार्तिकम्) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ।
vārttikaकच्छ्वा ह्रस्वत्वं च
Tattvabodhinī
NSP p. 315–316—ऊषसुषि—। समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ॥ ‘स्याद्धः क्षारमृत्तिका । ऊषवानूषरः’ इत्यमरः । सुषिश्छिद्रम् ॥—खर इति । महत्कण्ठविवरं खं तद्वानित्यर्थः । गर्दभे रूढोऽयम् ॥ मुखरो वाचाल इति हरदत्तः ॥—नगरमिति । नगा वृक्षाः पर्वताश्च । जातिशब्दोऽयम् । तथा च नगरीत्यत्र ङीप् भवति ॥ नगशब्दोऽयमस्मादिषु पठ्यते इति ‘वुञ्छण्—’ आदिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः ॥—पाण्डुर इति । पाण्डुः शुक्लो वर्ण- सद्वान् ॥—अव्युत्पन्न एवेति । गुणमात्रे गुणिनि च वर्तते । ‘हरिणः पाण्डुरः पाण्डुः’ इत्यमरः । ‘गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति’ इति च ॥—कञ्च्छ्वा इति । कञ्च्छ्रस्त्वप्रोगविशेषः
Bālamanoramā
ऊषसुषिमुष्कमधो रः - ऊषसुषि । ऊष, सुषि, मुष्क, मधु-एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सोत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः=बिलम्,-अस्यास्तीति विग्रहः । मधुशब्दः क्षोद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह — मधुमाधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्णयो वा । मुखरः=शभ्दं कुर्वन् । कुञ्जरो-हल्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् ।नगर॑मिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुरस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः=शुक्लवर्णः, स अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह — पाण्डरशब्दस्त्विति ।हरिणः पाण्डरः पाण्डु॑रित्यमरः । कच्छ्वा इति । वार्तिकमिदम् । कच्छूशब्दाप्र्रत्ययः, प्रकृतेह्र्यस्वश्च अन्तादेश इत्यर्थः । कच्छुरः — शुनां रोगविशेषः ।
SK 1915 · A 5.2.108V
द्युद्रुभ्यां मः ॥ १९१५ ॥
dyudrubhyāṃ maḥ
Tattvabodhinī
NSP p. 316—द्युद्धभ्यां मः ॥—द्युम इति । द्यौरस्यास्ति ‘दिव उत्’ इत्युत्तम् ॥ द्वर्षश्चः सोऽस्यास्ति जनकतयेति द्वमोऽपि दृक्ष एव । ‘पलाशी द्वद्वमागमाः’ इत्यमरः । इह सर्वत्र समुच्चीयमानोऽपि मतुप् रूढशब्देषु नेष्यते । तदर्थस्य मतुपा अभिधातुमशक्यत्वात् ॥—दृश्यत इति । व इत्यनुवर्तते ॥—अर्णव इति । अत्तरसुन् नुट्च । अर्णः जलं तद्वान् ॥—संज्ञायामिति । ‘तदस्यास्ति—’ इति सूत्रस्थेतिशब्दस्यैवायं प्रपञ्चः ॥—यणेति । ‘ख्यत्यात्—’ इतिवत्कृतयणादेशस्यानुकरणं न भवति । लक्ष्ये यणोऽभावात् । किंतु सूत्रे सांहितिकोऽयं यणिति भावः ॥ प्रयुज्यते चोभयथा । ‘अधिरोहति गाण्डिवं महेषौ’ । ‘गाण्डीवी कनकशिला-निमं भुजाभ्याम्’ इति च ॥—आसुतीवल इति । ‘पुष् अभिषवे’ किन् । आसुतिरभिषवः ॥—परिषद्वल इति । परितः सीदतीति परिषत् ‘सत्सूद्रिष—’ इत्यादिना क्विप् ‘सदिरप्रतेः’ इति पत्नम् ॥—पाठान्तरमिति । ‘शुद्धभसोऽदिः’ इत्यदि-प्रत्ययो वाहुलकात् पृषेरपि भवति ॥ तथा च भाष्यं ‘पार्षदकृतिरेषा तत्रभवतां’ ‘सर्ववेदपार्षदं हीदं शास्त्रम्’ इति च । भट्टिस्त्राह । ‘पपद्वलान्महाव्रह्मैराटनैकटिकाश्रमान्’ इति ‘पर्षदेषा दशावरा’ इति मनुः ॥—भ्रातृवल इति । ‘वले’ इत्यत्राण्प्रहणानुवृत्तेर्नेह दीर्घः । पुत्रवलादौ तु स्यात्तत्राह—संज्ञायामित्यनुवृत्तेरिति । ‘वनगियोः’ इति सूत्रादिति भावः ॥ ज्योत्स्ना चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमस्संमूहे तमिस्राशब्दो व्याख्यातः । निघण्टुषु तमःपर्यायस्तमिस्रशब्दः पठितः । तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः ॥—स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् ॥ ऊर्जस्विन्गोमिन्नित्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः
Bālamanoramā
द्युद्रुभ्यां मः - द्युद्रुभ्यां मः ।दिव उ॑दिति कृतोत्वस्य दिव्शब्दस्य 'द्यु' इति निर्देशः । दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति । रूढशब्दावेतौ ।
SK 1916 · A 5.2.109V
केशाद्वोऽन्यतरस्याम् ॥ १९१६ ॥
keśādvo'nyatarasyām
Siddhānta-kaumudī
प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ।
vārttikaअन्येभ्योऽपि दृश्यते
(वार्तिकम्) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ।
Bālamanoramā
केशाद्वोऽन्यतरस्याम् - केशाद्रोऽन्यतरस्याम् । 'मत्वर्थे' इति शेषः । नन्विहाऽन्यतरस्याङ्ग्रहणं व्यर्थं, समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषया अपवादेन मुक्ते औत्सर्गिकस्याऽप्रवृत्तेःपारेमध्ये षष्ठआ वे॑त्यत्रोक्तत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्याङ्ग्रहणमिति वाच्यं,प्राणिस्था॑दिति सूत्रादन्यतरस्याङ्ग्रहणस्य समुच्चयार्थकस्याऽनुवृत्त्यैव तत्सिद्धेरित्यत आह — प्रकृतेनेति । इनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथासिध्मादिभ्यश्चे॑त्यत्रेव मतुबेव समुच्चीयेत, नत्विनिठनाविति भावः । तथाच वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह — केशव इत्यादि । अन्येभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः । अर्णस इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः ।अर्णव इति । अर्णः=जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते ।
SK 1917 · A 5.2.110V
गाण्ड्यजगात् संज्ञायाम् ॥ १९१७ ॥
gāṇḍyajagāt saṃjñāyām
Siddhānta-kaumudī
ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥
Bālamanoramā
गाण्ड्यजगात् संज्ञायाम् - गाण्डजगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड इति युगपन्निर्देशः — ॒ख्यत्वात्परस्ये॑त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः ।
SK 1918 · A 5.2.111V
काण्डाण्डादीरन्नीरचौ ॥ १९१८ ॥
kāṇḍāṇḍādīrannīracau
Bālamanoramā
काण्डाण्डादीरन्नीरचौ - काण्डाण्डादीरन्नीरचौ । काण्ड, आण्ड-आभ्यां ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः ।
SK 1919 · A 5.2.112V
रजःकृष्यासुतिपरिषदो वलच् ॥ १९१९ ॥
rajaḥkṛṣyāsutipariṣado valac
Siddhānta-kaumudī
रजस्वला स्त्री । कृषीवलः । वले SK 1040 इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ।
vārttikaअन्येभ्योऽपि दृश्यते
(वार्तिकम्) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले SK 1040 इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥
Bālamanoramā
रजःकृष्यासुतिपरिषदो वलच् - रजःकृषि । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच्स्यादित्यर्थः । आसुतीवल इति ।षुञ् अभिषवे॑ । आङ्पूर्वात्स्त्रियां क्तिन् । 'वले' इति दीर्घः ।अन्येभ्योऽपीति । वार्तिकमिदम् ।रजः कृषी॑त्यादिसूत्रोपात्तादन्येभ्योऽपि वलच्दृश्यत इत्यर्थः । भ्रातृवलः । 'ढ्रलोपे' इत्यतोऽण इत्यनुत्तेः 'वले' इति न दीर्घः । पुत्रवल इत्यादौ 'वले' इति दीर्घमाशङ्क्याह — वले इत्यत्रेति ।
SK 1920 · A 5.2.113V
दन्तशिखात् संज्ञायाम् ॥ १९२० ॥
dantaśikhāt saṃjñāyām
Siddhānta-kaumudī
दन्तावलो हस्ती । शिखावलः केकी ॥
Bālamanoramā
ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः - ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम् ।चन्द्रिका कौमुदी ज्योत्स्ने॑त्यमरः । तमस इति । तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः ।तमिरुआआ तामसी रात्रि॑रित्यमरः । ननुतमिरुओ॑ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह — स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । 'निपात्यते' इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । 'निपात्यते' इति शेषः । ऊर्जसित्यसुन्नन्तं प्रातिपदिकम् । ननुअस्मायामेधे॑ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः । कुत इत्यत आह — ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दान्निपात्यत इति शेषः ।
SK 1921 · A 5.2.114V
ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः ॥ १९२१ ॥
jyotsnātamisrāśṛṅgiṇorjasvinnūrjasvalagominmalinamalīmasāḥ
Siddhānta-kaumudī
मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥
SK 1922 · A 5.2.115V
अत इनिठनौ ॥ १९२२ ॥
ata iniṭhanau
Tattvabodhinī
NSP p. 316—अत इनिठनौ । तपरकरणं किम् । खद्वावान् ‘एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ’ । एकाक्षरात्—स्ववान् । कृतः—कारकवान् । जातेः—व्याघ्रवान् सिंहवान् । सप्तम्यां—दण्डाः अस्यां सन्ति दण्डवती शाला । ‘तदस्यास्ति—’ इति सूत्रस्थेतिकरणो विषयनियमार्थः सर्वत्रापि संवध्यत इति ॥ क्वचित्कृतोऽपि भवति—कार्यां कार्यिकः । क्वचित्तु जातेरपि—तण्डुली तण्डुलिकः ॥ एतच्च काशिकादौ स्पष्टम्
Bālamanoramā
अत इनिठनौ - अत इनिठनौ । अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॑ इति भाष्यम् । एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां — दण्जा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।
SK 1923 · A 5.2.116V
व्रीह्यादिभ्यश्च ॥ १९२३ ॥
vrīhyādibhyaśca
Siddhānta-kaumudī
व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि ।
vārttikaशिखामालासंज्ञादिभ्य इनिः
(वार्तिकम्) ॥ यवखदादिभ्य इकः ॥ अन्येभ्य उभयम् ॥
Bālamanoramā
व्रीह्यादिभ्यश्च - व्रीह्रादिभ्यश्च । 'मत्वर्थे इनिठनौ' इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् ।शिखा, माला, संज्ञा, वीणा, बडवा, बलाका, पताका, वर्मन्, शर्मन् एभ्य इनिरेव, नतु ठनित्यर्थः । यवखलेति । यवखल, नौ, कुमारी एभ्यष्ठनेव, न त्विनिरित्यर्थः । परिशिष्टेभ्यस्तु व्रीह्रादिगणपठितेभ्य उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् ।
SK 1924 · A 5.2.117V
तुन्दादिभ्य इलच् च ॥ १९२४ ॥
tundādibhya ilac ca
Siddhānta-kaumudī
चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ (गणसूत्रम् -) स्वाङ्गाद्विवृद्धौ । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥
Tattvabodhinī
NSP p. 316—तुन्दादिभ्य इलच्च । अन्यतरस्यामित्यनुवर्तनादाह—मतुप् चेति । अत्र ‘स्वाङ्गाद् विवृद्धौ’ इति पठ्यते । विवृद्धयुपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णावस्य कर्णिलः कर्णी कर्णिकः कर्णवान्
Bālamanoramā
तुन्दादिभ्य इलच् च - तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । आआङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात्वात्स्वाङ्गादिलच्, इनिठनौ मतुप्चेत्यर्थः । कर्णिल इति । वृद्धौ कर्णौ यस्येति विग्रहः ।
SK 1925 · A 5.2.118V
एकगोपूर्वाट्ठञ् नित्यम् ॥ १९२५ ॥
ekagopūrvāṭṭhañ nityam
Siddhānta-kaumudī
एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥
Tattvabodhinī
NSP p. 316–317—एकगोपूर्वात् ॥—एकशतिक इति । एकं च तच्छतं चेति ‘पूर्वकाल—’ इत्यादिना कर्मधारयः । षष्ठी-तत्पुरुषाद्वहुव्रीहेर्द्वन्द्वाच्च न भवत्यनभिधानादिति हरदत्तादयः ॥ अत इत्येव नेह—एकविंशतिरस्यास्तीति ॥ नित्यग्रहणं मनुषो वाधनार्थम् । अन्यथा ठवा इनिठनोर्वाधे कृतेऽप्यन्यतरस्यांग्रहणानुवृत्त्या मनुष् स्यादेवेत्याहुः ॥ कथम्—एकप्रव्यवान् इति । असाधुरेवायम् ॥ एकेन द्रव्यवानिति वा विग्रहीतव्यम् ॥ कथम् एकदण्डी इति । ‘एकदेशिनैकाधिकरणे’ इति निर्देशो ज्ञापयति ‘इनिरपि क्वचिद्भवति’ इति
Bālamanoramā
एकगोपूर्वाट्ठञ् नित्यम् - एकगोपूर्वाठ्ठञ्नित्यम् । एकपूर्वाद्गोपूर्वाच्च नित्यं ठञ्स्यादित्यर्थः । यद्यपि नित्यग्रहणाऽभावेऽपि ठञा इनिठनोर्निर्वृत्तिः सिध्यति, तथापि समुच्चयार्थकाऽन्यतरस्याङ्ग्रहणानुत्त्या मतुप्समुच्चीयेत, तन्निवत्त्यर्थं नित्यग्रहणम् । ऐकशतिक इति । 'पूर्वकाल' इति समासः ।सङ्ख्यायाः संवत्सर॑ इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणात् ।
SK 1926 · A 5.2.119V
शतसहस्रान्ताच्च निष्कात् ॥ १९२६ ॥
śatasahasrāntācca niṣkāt
Siddhānta-kaumudī
निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥
Bālamanoramā
शतसहस्रान्ताच्च निष्कात् - शतसहरुआ । निष्कात्पराविति । असामर्थ्येऽपि सौत्रत्वात्समास इति भावः ।
SK 1927 · A 5.2.120V
रूपादाहतप्रशंसयोर्यप् ॥ १९२७ ॥
rūpādāhatapraśaṃsayoryap
Siddhānta-kaumudī
आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ।
vārttikaअन्येभ्योऽपि दृश्यते
(वार्तिकम्) ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥
Tattvabodhinī
NSP p. 317—रूपादाहत—। आहतप्रशंसाविशिष्टेऽर्थे वर्तमानाद्रूपशब्दान्मलये यप् स्यात् ॥—आहतमिति । आहननमाहतं ताडनमित्यर्थः । ततो निष्पन्नं यत्कार्षापणादिरूपं तदपि कार्ये कारणोपचारादाहतमित्युच्यते इत्याहतरूपयोः सामानाधिकरण्यमुपपद्यते ॥—हिम्या इति । भूत्रि यप् ॥—पर्वता इति । हिमवान् तत्पर्यन्तवर्तिनश्च ॥—गुण्या इति । दृशिग्रहणादिनिरपि । तथा च माधः—‘गुण्यगुण्य इति न व्यजीगणत्’ । गुणी अगुण्य इति पदच्छेदः
Bālamanoramā
रूपादाहतप्रशंसयोरप् - रूपादाहत । आहतेति भावे क्तः । आहतविशेषणकात्प्रशंसाविशेषणकाच्च रूपशब्दान्मत्वर्थे यप्स्यादित्यर्थः । आहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टो रजतसुवर्णादिर्मुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते । तत्स्वरूपं च स्वर्णकारकृता हनननिष्पाद्यमिति बोध्यम् । रूप्यो गौरिति । प्रशस्तरूपसम्पन्न इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् । बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राआहृणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपि यप्दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् । बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राआहृणा इति । प्रशंसायां यप् । प्रशस्तगुणसम्पन्ना इत्यर्थः ।
SK 1928 · A 5.2.121V
अस्मायामेधास्रजो विनिः ॥ १९२८ ॥
asmāyāmedhāsrajo viniḥ
Siddhānta-kaumudī
यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ।
vārttikaआमयस्योपसंख्यानं दीर्घश्च
vārttikaशृङ्गवृन्दाभ्यामारकन्
(वार्तिकम्) ॥ शृङ्गारकः । वृन्दारकः ।
(वार्तिकम्) ॥ फलिनः । बर्हिणः ।
vārttikaहृदयाच्चालुरन्यतरस्याम्
(वार्तिकम्) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ।
vārttikaशीतोष्णतृप्रेभ्यस्तदसहने
(वार्तिकम्) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ।
(वार्तिकम्) ॥ हिमं न सहते हिमेलुः ।
(वार्तिकम्) ॥ वलं न सहते बलूलः ।
(वार्तिकम्) ॥ वातं न सहते वातस्य समूहो वा वातूलः ।
vārttikaतप्पर्वमरुद्भ्याम्
(वार्तिकम्) ॥ पर्वतः । मरुत्तः ॥
Tattvabodhinī
NSP p. 317—अस्मायामेधा—॥—यशस्वीति । ‘तसौ मलये’ इति भलाद्वत्वं न ॥—यशस्वानिति । नित्यग्रहणात् ‘पूर्वत्रासंवद्धमप्यन्यतरस्यांग्रहणं मनुष्समुच्चयार्थमिह संवध्यत एव । ‘तसौ मलये’ इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः ॥ ‘चोः कुः’ इत्यनेन सिद्धे ब्रह्मादिषलमाशङ्क्याह—किञ्चन्तत्वादिति ॥— हृदयाच्चालुरन्यतरस्याम् । अन्यतरस्यांग्रहणं इनिठनोः प्राप्त्यर्थं । मनुष् सर्वत्र समुच्चीयत एव । चकारस्य ‘चुद्ध’ इतीत्संज्ञा । तेन हृदयालुशब्दोऽन्तोदात्त इत्याहुः ॥—शीतोष्णेति । इह चालुरनुवर्तते ॥—पुरोडाश इति । ‘न तृप्रा उरुव्यचसम्’ इति मन्त्रस्य भाष्ये तथा व्याख्यातलादिति भावः ॥—माधव इति । मुब्धानुवृत्तौ स्थितमिदम् ॥—हिमाच्चेलुरिति । एकारादिरयं प्रत्यय इति भावः ॥—वलादिति । सिध्मादिषु वल्लवात्लशब्दौ मलये प्रकारान्तरेण व्युत्पादितौ ॥—तप्पर्वमरुङ्ग्याम् । पित्त्वमनुदात्तलार्थम् । काशिकायां तु ‘पर्वमरुङ्ग्यां तन्वक्तव्यः’ इति स्थितम् ॥ हरदत्तेन तु तन्निति प्रतीकमुपादाय आद्युदात्तलार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रवन्धेन दीक्षितैर्निराकृतं तत एव तदवधार्यम् ॥—पदत्वमिति । तेन ‘यस्येति च’ इति लोपो न प्रवर्तत इति भावः ॥—अनुवर्तयन्तीति । ‘वहुलं छन्दसि’ इत्यतः
Bālamanoramā
अस्मायामेधास्रजो विनिः - अस्मायामेधा ।अ॑सित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, रुआज् एभ्यो विनि प्रत्ययः स्यादित्यर्थः । प्रत्यये नकारादिकार उच्चारणार्थः । यशस्वीति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः । यशस्वानिति ।एकगोपूर्वा॑दिति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्याङ्ग्रहणमिहमण्डूकप्लुत्या अनुवर्तते, 'तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । रुआग्वीत्यत्रव्रश्चे॑ति षत्वमाशङ्क्याह — क्वन्नन्तत्वादिति । आमयस्येति । आमशब्दान्मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलबर्हाभ्यामिति । ह्मदयाच्चालुरिति । वार्तिकत्रयमिदम् । मतुप्चेति । 'वक्तव्य' इति शेषः, भाष्ये तथोक्तत्वात् । चुटू इति चकारस्येत्यसंज्ञा अन्यतरस्यांग्रहणाच्चालोपभावे इनिठनौ । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुबपि । तथा चाऽत्र चत्वारः प्रत्ययाः । तदाह — ह्मदयालुरित्यादि ।॒शीतोष्णतृप्रेम्यस्तन्न सहते॑ इति वार्तिकमर्थतः सङ्गृहणाति — शीतेति । शीत, उष्ण, तृप्र — एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमोच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद्द्वितीयान्तान्न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति ।तन्न सहते इत्यर्थे वक्तव्य॑ इति शेषः । वातात्समूहे चेति । षष्ठन्ताद्वातशब्दात्समूहेऽर्थे, द्वितीयान्तान्न सहते इत्यर्थे च ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भ्यामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप्वक्तव्य #इत्यर्थः । 'तन्वक्तव्य' इति वृत्तिकृत्, हरदत्तश्च । प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाऽभावान्न मतुप् ।
SK 1929 · A 5.2.123V
ऊर्णाया युस् ॥ १९२९ ॥
ūrṇāyā yus
Siddhānta-kaumudī
सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः - SK 1946इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
Bālamanoramā
ऊर्णाया युस् - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।
SK 1930 · A 5.2.124V
वाचो ग्मिनिः ॥ १९३० ॥
vāco gminiḥ
Tattvabodhinī
NSP p. 317—वाचो ग्मिनिः । इकारो नकारपरित्राणार्थः । चकारस्य कुत्वे जश्त्वे च कृते वाग्गमी वाग्गिमनावित्यादौ द्वयोर्गकारयोः श्रवणं भवति । द्वित्वे तु त्रयाणाम् ॥ ‘मिनिः’ इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणं द्विलाभावे त्वेकस्यैव श्रवणं स्यात् । किंच ‘यरोऽनुनासिके’ ‘प्रत्यये भाषायां नित्यम्’ इति वाङ्मयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति । तच्चानिष्ठमिति ग्मिनिः कृतः
Bālamanoramā
वाचो ग्मिनिः - वाचोग्मिनिः । वाच्शब्दान्मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । अतद्धित इति पर्युदासाद्गकारस्य नेत्संज्ञा । वाग्ग्मीति । वाच्शब्दात्-ग्मिनिप्रत्यये कुत्वंस जश्त्वम् । प्रत्यये गकारोच्चारणं तुप्रत्यये भाषाया॑मित्यनुनासिकाऽभावार्थम् ।
SK 1931 · A 5.2.125V
आलजाटचौ बहुभाषिणि ॥ १९३१ ॥
ālajāṭacau bahubhāṣiṇi
Siddhānta-kaumudī
vārttikaकुत्सित इति वक्तव्यम्
(वार्तिकम्) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
Bālamanoramā
आलजाटचौ बहुभाषिणि - आलजाटचौ । वाच्शब्दात् — आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं,यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती॑ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः ।
SK 1932 · A 5.2.126V
स्वामिन्नैश्वर्ये ॥ १९३२ ॥
svāminnaiśvarye
Siddhānta-kaumudī
ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥
Tattvabodhinī
NSP p. 317—स्वामिन्नैश्वर्ये ॥—ऐश्वर्यवाचकादिति । स्वशब्दस्यैश्वर्यवाचिलमेतद् वृत्तिविषयकमेवेति बोध्यम् ॥ इंशिता हि ईश्वरः । स तु स्वामीत्युच्यते । यथा वागीश एव वाचसतिर्वाचः स्वामीति ॥ ऐश्वर्ये किम् । स्ववान्
Bālamanoramā
स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । 'ऐआर्ये' इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । 'निपात्यते' इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति ।
SK 1933 · A 5.2.127V
अर्शआदिभ्योऽच् ॥ १९३३ ॥
arśaādibhyo'c
Siddhānta-kaumudī
अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥
Tattvabodhinī
NSP p. 317–318—अर्शभादिभ्योऽच् । इह ‘स्वाङ्गादीनात्’ इति गणे पठ्यते । स्वज्ञः पादोऽस्यास्तीति खजः । काणं चक्षुर्यस्यास्तीति काणः ॥—प्रथिमिनीति । ‘पृथ्वादिभ्यः—’ इतीमनिचि ‘टेः’ इति टिलोपः । ‘र ऋतः’ इति रभावः । ‘अनिनसन्प्रहृणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति’ इति मन्नन्तादिनौ कृते ‘नस्तद्धिते’ इति टिलोपे नान्तलान्डीप् ॥—दामिनीति । दाधातोमनिन् ॥—होमिनी । सोमिनीति । ‘अर्तिस्तु सुहुसृष्टीक्षि—’ इत्यौणादिकेमनि निलाद्धोमसोमशब्दौ मन्प्रत्ययान्तौ ॥—कंशंभ्याम्—॥—पदत्वार्थ इति । अन्यथा ‘कम्युः, काम्यः, शम्युः, शाम्यः’ इति स्यादिति भावः ॥—वकारयकारपरस्येति । वहुव्रीहिरयम् ॥—अनुनासिकौ वयाविति । एतेन प्रथमप्रत्ययः दन्त्योष्ठ्यादिः, न तु पर्वर्गतृतीयः इति ध्वनितम् ॥—माधव इति । ‘तुडि तोडने’ इति धातौ तेनोक्तम्—‘दृष्ट्वा नाभिस्तुण्डिः’ । इन् । तुण्डिरस्यास्तीति तुण्डिलः । ‘तुन्दादिभ्य इलच्च’ इत्यत्र ‘स्वाङ्गाद्विवृद्धौ’ इति गणसूत्रेण इलच् । तुण्डिल एव तुण्डिभः । ‘तुण्डिवलिवटेर्भः’ इति मत्वर्थीयो भ इति ॥—वटिभ इति । ‘वट वेष्टने’ इन् । वटिशब्दः पामादिषु पत्र्यते । तेन वटिन इत्यपि भवति ॥—अहंयुः । शुभंयुरिति । पूर्वं वदनुस्वारपरसवर्णौ ॥ इति मत्वर्थीयाः ॥ किंसर्वनाम—॥ ब्रादिपर्युदासात्किमः पृथग्प्रहणम् ॥ ब्रादिषु किम् । शब्दपाठे प्रयोजनं तु त्वं च कश्च कौ । अहं च कश्च कौ इत्यत्र किमः शेषः । ‘त्यदानीनां मिथः सहोक्तौ यत् परं तच्छिष्यते’ इत्युक्तलात्
Bālamanoramā
अर्शआदिभ्योऽच् - अर्शाअदिभ्योऽच् । अर्शस्शब्द आदिरेषामिति विग्रहः । अर्शस इति । अर्शो — गुदरोगविशेषः ।
SK 1934 · A 5.2.128V
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः ॥ १९३४ ॥
dvandvopatāpagarhyāt prāṇisthādiniḥ
Siddhānta-kaumudī
द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥
Bālamanoramā
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः - द्वन्द्वोपताप । द्वन्द्वसमासादुपतापवाचकाद्गह्र्रवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनि स्यादित्यर्थः । द्वन्द्वेति उदाहरण सूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं — रोग इति । किलासः कुष्ठभेदः । गह्र्रमित्यस्य विवरणं — निन्द्यमिति । ककुदावर्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सोऽस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भा,ये अदर्शनात् । अत इत्येवेति । समासन्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाऽभावादिनिर्नेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणं किमर्थमित्यत आह — सिद्धे प्रत्यये इति । ठनादिति । आदिना मतुपः सग्रहः ।
SK 1935 · A 5.2.129V
वातातिसाराभ्यां कुक् च ॥ १९३५ ॥
vātātisārābhyāṃ kuk ca
Siddhānta-kaumudī
चादिनिः । वतकी । अतीसारकी । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ।
Bālamanoramā
वातातिसाराभ्यां कुक् च - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।
SK 1936 · A 5.2.130V
वयसि पूरणात् ॥ १९३६ ॥
vayasi pūraṇāt
Siddhānta-kaumudī
पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥
Bālamanoramā
वयसि पूरणात् - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति ।
SK 1937 · A 5.2.131V
सुखादिभ्यश्च ॥ १९३७ ॥
sukhādibhyaśca
Siddhānta-kaumudī
इनिर्मत्वर्थे । सुखी । दुःखी ॥ (गणसूत्रम् -) मालाक्षेपे ॥ माली ॥
Bālamanoramā
सुखादिभ्यश्च - सुखादिभ्यश्च । इनिर्मत्वर्थे इति । इनिरेव, नतु ठनित्यर्थः । माला क्षेपे इति । शुखादिगणसूत्रमिदम् ।
SK 1938 · A 5.2.132V
धर्मशीलवर्णान्ताच्च ॥ १९३८ ॥
dharmaśīlavarṇāntācca
Siddhānta-kaumudī
धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
Bālamanoramā
धर्मशीलवर्णान्ताच्च - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः ।
SK 1939 · A 5.2.133V
हस्ताज्जातौ ॥ १९३९ ॥
hastājjātau
Siddhānta-kaumudī
हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥
Bālamanoramā
हस्ताज्जातौ - हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः ।
SK 1940 · A 5.2.134V
वर्णाद्ब्रह्मचारिणि ॥ १९४० ॥
varṇādbrahmacāriṇi
Bālamanoramā
वर्णाद्ब्रह्मचारिणि - वर्णाद्ब्राहृचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः ।
SK 1941 · A 5.2.135V
पुष्करादिभ्यो देशे ॥ १९४१ ॥
puṣkarādibhyo deśe
Siddhānta-kaumudī
पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ।
vārttikaबाहूरुपूर्वपदाद्बलात्
(वार्तिकम्) ॥ बाहुबली । ऊरुबली ।
(वार्तिकम्) ॥ सर्वधनी । सर्वबीजी ॥
vārttikaअर्थाच्चासंनिहिते
(वार्तिकम्) ॥ अर्थी । संनिहिते तु अर्थवान् ।
(वार्तिकम्) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥
Bālamanoramā
पुष्करादिभ्यो देशे - पुष्करादिभ्यो देशे । पुष्करशब्दान्मत्वर्थे इनिरेव स्याद्देशे गम्ये ।बाहुरुपूर्वपदद्बलादिति । वार्तिकमिदम् । बहु, ऊरु एतत्पूर्वपदकाद्बलशब्दान्तान्मत्वर्थे इनिरेवेत्यर्थः । सर्वादेश्चेति । वार्तिकमिदम् ।॒इनिरेवे॑ति शेषः । अर्थाच्चासंनिहिते इति । वार्तिकमिदम् । असन्निहितविषयकादर्थशब्दादनिरेवेत्यर्थः । अर्थीति । असंनिहितोर्थोऽस्येति विग्रहः । अर्थो नास्तीति यावत् । त्र विरोधादस्तीति न सम्बध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः ।प्रत्ययविधौ तदन्तविधिनिषेधादाह — तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः ।
SK 1942 · A 5.2.136V
बलादिभ्यो मतुबन्यतरस्याम् ॥ १९४२ ॥
balādibhyo matubanyatarasyām
Siddhānta-kaumudī
बलवान् बली । उत्साहवान् । उत्साही ॥
Bālamanoramā
बलादिभ्यो मतुबन्यतरस्याम् - बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति — बलवान् बलीति । संज्ञायां मन्माभ्याम् । प्रथमिनीति ।पृथ्वादिभ्य इमनिज्वे॑ति इमनिजन्तः प्रथमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपिअनिनस्म॑न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते । प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः । दामिनीति । दामन्शब्दादिनौ टिलोपे ङीबिति भावः । मेति । मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः ।
SK 1943 · A 5.2.137V
संज्ञायां मन्माभ्याम् ॥ १९४३ ॥
saṃjñāyāṃ manmābhyām
Siddhānta-kaumudī
मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥
SK 1944 · A 5.2.138V
कंशंभ्यां बभयुस्तितुतयसः ॥ १९४४ ॥
kaṃśaṃbhyāṃ babhayustitutayasaḥ
Siddhānta-kaumudī
कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥
Bālamanoramā
कंशंभ्यां बभयुस्तितुतयसः - कंशंभ्याम् । व, भ, युस्, ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । 'मत्वर्थे' इति शेषः । पदत्वार्थ इति । अन्यथा कमित्यस्माद्युप्रत्यये यप्रत्यये च कृते भत्वात्पदत्वाऽभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति-बहुव्रीहि । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः ।
SK 1945 · A 5.2.139V
तुन्दिवलिवटेर्भः ॥ १९४५ ॥
tundivalivaṭerbhaḥ
Siddhānta-kaumudī
वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥
Bālamanoramā
तुन्दिवलिवटेर्भः - तन्दिवलि । तन्दि, वलि, बटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति ।वट वेष्टने॑ । वटनं वटिः । सोऽस्यास्तीति विग्रहः ।
SK 1946 · A 5.2.140V
अहंशुभमोर्युस् ॥ १९४६ ॥
ahaṃśubhamoryus
Siddhānta-kaumudī
अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
Bālamanoramā
अहंशुभमोर्युस् - अहंशुभमोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह — अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । ***** इति बालमनोरमायम् मत्वर्थीयाः । *****अथ नामधातुप्रक्रिया ।