PREMABASESiddhānta-kaumudī
Prakaraṇa 72 · liṅgānuśāsana 1–188 · NSP 1915 ed. only

लिङ्गानुशासनम्

liṅgānuśāsanam · 170 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
लिङ्गानुशासनम् · opening
Bhairava Miśra
section openingNSP p. 675
श्रीः ॥ मूले, अधिकारसूत्रे एते इति । उभयोरधिकारसूत्रत्वेपि लिङ्गमित्या शास्त्रसमाप्तेः द्वितीयस्तु ‘ताराधारा—इति यावदिति विवेकः । अत्रापि लिङ्गं शास्त्रीयं प्रायुक्तमेव विवक्षितम् । तच्चार्थनिष्ठं तच्छब्दप्रतिपाद्यम् । तत्रायं विशेषः । शब्दशक्तिस्वभावेन । कस्यचित्सर्वलिङ्गप्रतिपादकता, कस्यचिदेकलिङ्गप्रतिपादकता कस्यचिद्विलिङ्गयुक्तार्थप्रतिपादकता चेति । यद्यपि शब्दानामर्थानां चानन्त्यात्प्रातिस्विकरूपेण तेषां ज्ञानं योगिनां युक्तयुज्जानत्वेन व्यवहारयोग्यानामेव संभवति न लसदादीनामज्ञानाम्, तथाप्यसदाद्युद्देशेन शास्त्रप्रवृत्तेर्यथा लघुनोपायेनासदादीनां ज्ञानं संभवेत्तथाह—ऋकारान्ता इत्यादिना । स्त्रीति पदमेषु सूत्रेषु संबध्यते । तच्च भावप्रधाननिर्देशेन स्त्रीलपरम् । तस्य लिङ्गपदेन बहुव्रीहिसमासे स्त्रीलिङ्गा इति सामानाधिकरण्येन व्यवहारः । मात्रादिशब्दानां विशेषत उपादानात्पश्चेति लब्धम् । अवधारणस्य तु यथा लाभस्तं प्रकारमाह—स्वस्त्रादिपञ्चकस्यैवेति ॥—ङीन्निषेधेनेति । ‘न षट्स्वस्त्रादिभ्यः’ इति सूत्रेण ज्ञीपो निषेधेन ॥—कर्त्रीत्यादेरिति । अनेन कर्तृपदेन यौगिकाः शब्दा ऋकारान्ताः परिग्राह्याः । रूढस्य क्रोष्टृप्रवृत्तिशब्दस्यादिना परिग्रहः । नच सप्तैवेति वक्तव्ये पश्चैवेति नियमानुपपत्तिरिति वाच्यम् । आदेशलाक्रान्ताः पश्चैवेत्यर्थात् । यद्यपि भाष्यसंमते ‘तृज्वत्क्रोष्टुः’ इत्यादित्रिसूत्र्याः प्रयोगनियमार्थलपक्षे स्त्रियां प्रवर्तमानस्य क्रोष्टृशब्दस्यादेशलाक्रान्तलम्, तथापि परिनिष्ठिते शब्देऽयमीकारान्त एव प्रयुज्यते इति भावः । ‘उणादयो बहुलम्’ इति संगृहीतसाधुलकानां व्युत्पन्नत्वं शास्त्रान्तरे प्रसिद्धमिति तदभिप्रायेणाह—अन्यू इत्यादि । अवनिः । ‘अर्तिसृष्टधन्यम्यक्ष्यवितृभ्योऽनिः’ इत्यनिः ॥—चमूरिति । ‘कृषिचमितनिधनिसर्जिभ्य ऊः’ इत्यूः । दयूः । अत्र वकारस्य ‘च्छ्वोः—’ इत्यूः ॥
Footnotes (NSP 1915 ed.)
NSP p. 677 पुमानित्यर्थः ॥—देवासुरा—। अत्र पङ्क्तशब्दान्तद्वन्द्वं कृत्वा तस्य षष्ठीसमीपसिद्धिमेवान्तर्गतः । शब्दस्वरूपापेक्षया च नपुंसकलम् करणल्युडन्तो वाचकशब्दपरः, तेन देवादिशब्दवाच्यतावच्छेदकेत्यादि पूर्ववद्वोध्यम् । शब्दस्वरूपापेक्षया च नपुंसकलम् ॥—त्रिविष्टप—॥—स्वर्गाभिधानत्वात्पुंस्त्वे प्राप्तेऽस्यारम्भ इति । अत एवाहामरसिंहः ‘क्लीवे त्रिविष्टपम्’ इति ॥—द्यौः स्त्रियाम् । अस्य स्वर्गाभिधानलात्पुंस्त्वस्य पूर्वेण प्राप्तेऽस्यारम्भः ॥—द्रष्टुवाहू । भुजपर्यायवाचकोऽयम् ॥—वाणकाण्डौ—। शराभिधानोऽयम् ॥—नान्त इति । नान्तप्रत्ययान्त इत्यर्थः ॥—अग्रं नपुंसकमिति । मेघाभिधानविषये पूर्वस्यापवाद इत्यर्थः ॥—लिङ्गशेषविधिरिति । लिङ्गस्य शेषोऽवशेषस्तस्य विधिः व्यापी काण्ड-त्रयस्य विधिव्यापी काण्डत्रयस्य व्यापको यदि विशेषशास्त्रेण वाधितो न स्यादित्यर्थः ॥—नपुंसके चेति । चात्पुंसि ॥—वसु चार्थवाचि । अर्थवाचि वसुशब्दो नपुंसके च द्रष्टव्यः ॥—स्त्वन्तः । उकारो नकारेत्संज्ञकः । मेरुः । सेतुरित्यत्र सितनिगमिमसिसच्यविधाव्यकुशिभ्यस्तुन् इति तुन् । सूर्यवाचकः प्रथमः ॥—दारुकसेरु—। जवादिलाद्वप्रत्ययान्ता एते । कंसं चाप्राणिनि । कंसमिति शब्दस्य निर्देशात् ‘नपुंसके च’ इत्यस्य संबन्धः । अप्राणिनि वाच्ये कंसंशब्द इत्यर्थः ॥—
लि1 · Liṅ 11.1.1
लिङ्गम् ॥ लि१ ॥
liṅgam
लि2 · Liṅ 11.1.2
स्त्री ॥ लि२ ॥
strī
Siddhānta-kaumudī
अधिकारसूत्रे एते ।
लि3 · Liṅ 11.1.3
ऋकारान्ता मातृदुहितृखसृपोतृननान्दरः ॥ लि३ ॥
ṛkārāntā mātṛduhitṛkhasṛpotṛnanāndaraḥ
Siddhānta-kaumudī
ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वस्रादिपञ्चकस्यैव डीवूनिषेधेन कर्त्रीत्यादेर्ड्यौपा ईकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात् ।
लि4 · Liṅ 11.1.4
अन्यूप्रत्ययान्तो धातुः ॥ लि४ ॥
anyūpratyayānto dhātuḥ
Siddhānta-kaumudī
अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । प्रत्ययग्रहणं किम् । देवयतेः क्रिप् । द्यूः । विशेष्यलिङ्गः ।
लि5 · Liṅ 11.1.5
अशनिभर-पयरणयः पुंसि च ॥ लि५ ॥
aśanibhara-payaraṇayaḥ puṃsi ca
Siddhānta-kaumudī
इयमयं वा अशनिः ।
Bhairava Miśra
NSP p. 675
—अशनिभर—। पूर्व-सूत्रापवादोऽयम्
लि6 · Liṅ 11.1.6
मिन्यन्तः ॥ लि६ ॥
minyantaḥ
Siddhānta-kaumudī
मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः ।
Bhairava Miśra
NSP p. 675
—मिन्यन्तः । भूमिः । ‘नियो मिः’ इत्यतो मिरित्यनुवर्त्य विहितो ‘भुवः कित्’ इति निः । ग्लानिः । ‘वहिश्रिश्रुयुदुग्लाहालरिभ्यो नित्’ इति निः । बहुधादिशब्दानां निप्रत्ययान्तत्वेन स्त्रीत्वे प्राप्ते आह—वहिवृष्णि—। वृष्णिः । ‘सृष्टृषिभ्यां कित्’ इति निः । अग्निः । ‘अङ्गेर्नलोपश्च’ इति निः
लि7 · Liṅ 11.1.7
वह्निवृष्ण्यग्नयः पुंसि ॥ लि७ ॥
vahnivṛṣṇyagnayaḥ puṃsi
Siddhānta-kaumudī
पूर्वस्यापवादः ।
लि8 · Liṅ 11.1.8
श्रोणियोन्यूर्मयः पुंसि च ॥ लि८ ॥
śroṇiyonyūrmayaḥ puṃsi ca
Siddhānta-kaumudī
इयमयं वा श्रोणिः ।
Bhairava Miśra
NSP p. 675
—श्रोणियोन्यू—। श्रोणिः । योनिः । ‘वहि-श्रि—’ इतीनिः । ऊर्मिः । ‘अर्तेरुच्च’ इति निः
लि9 · Liṅ 11.1.9
किञ्चन्तः ॥ लि९ ॥
kiñcantaḥ
Siddhānta-kaumudī
स्पष्टम् । कृतिरित्यादि ।
लि10 · Liṅ 11.1.10
ईकारान्तश्च ॥ लि१० ॥
īkārāntaśca
Siddhānta-kaumudī
ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः ।
Bhairava Miśra
NSP p. 675
—ईकारान्तश्च । अत्र ईकारः प्रत्यय एव पूर्वोत्तरसाहचर्यात् ॥—ल-क्ष्मीरिति । अत्र ‘लक्ष्मेर्मुद् च’ इति सूत्रे ‘अवितृस्तृतच्चिभ्य ईः’ इत्यत ईरित्यस्यानुवृत्त्या । तेनेकारः प्रत्ययः । एवमव्यादि-धातुभ्य ईकारप्रत्ययेऽपि स्त्रीलम् । तद्यथा अवीनारी रजस्वला, तरीनारी धूमः, तन्त्रीर्वाणादेर्गुणः । नच ‘यापोः किञ्चे च’ इति सूत्रविहितेकारान्तस्यापि स्त्रीलापत्तिरिति वाच्यम् । पुंस्त्वाधिकारोक्तेन ‘योपधः’ ‘पोपधः’ इत्याभ्यां परलाद्वाधात् । यूप इत्यादौ प्रथमस्य समय इत्यादौ द्वितीयस्य चारितार्थ्यात् । एवं च पपी ययीशब्दस्य पुंस्त्वेऽपि न क्षतिः
लि11 · Liṅ 11.1.11
ऊङ्गवन्तश्च ॥ लि११ ॥
ūṅgavantaśca
Siddhānta-kaumudī
कुरूः । विद्या ।
Bhairava Miśra
NSP p. 676
—ऊङ्गवन्तश्च । ‘ऊङ्गुतः’ इत्यूद् । आव्यहणेन टाप्डाप्चापां ग्रहणम्
लि12 · Liṅ 11.1.12
य्वन्तमेकाक्षरम् ॥ लि१२ ॥
yvantamekākṣaram
Siddhānta-kaumudī
श्रीः । भूः । एकाक्षरं किम् । पृथुश्रीः ।
Bhairava Miśra
NSP p. 676
—य्वन्तमेकाक्षरम् । ईकारोऽत्र प्रत्ययः ऊकारसाहचर्यात्
लि13 · Liṅ 11.1.13
विंशत्यादिरा नवतेः ॥ लि१३ ॥
viṃśatyādirā navateḥ
Siddhānta-kaumudī
इयं विंशतिः ॥ त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः ।
Bhairava Miśra
NSP p. 676
—विशत्यादिरानवतेरिति । विशत्यादयः ‘पङ्क्तिविशति’—इति सूत्रनिर्दिष्टाः
लि14 · Liṅ 11.1.14
दुन्दुभिरक्षेषु ॥ लि१४ ॥
dundubhirakṣeṣu
Siddhānta-kaumudī
इयं दुन्दुभिः । अक्षेषु किम् । अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः ।
Bhairava Miśra
NSP p. 676
—दुन्दुमिरक्षेषु । अक्षेषु बोधनीयेषु यः प्रयुज्यते इत्यर्थः
लि15 · Liṅ 11.1.15
नाभिरक्षत्रिये ॥ लि१५ ॥
nābhirakṣatriye
Siddhānta-kaumudī
इयं नाभिः ।
Bhairava Miśra
NSP p. 676
—नाभिरक्षत्रिये । क्षत्रियभिन्ने यो नाभिशब्दः प्रयुज्यते स स्त्रियां स्यात् । इयं नाभिरिति । पुरुषावयवे इदम्
लि16 · Liṅ 11.1.16
उभावप्यन्यत्र पुंसि ॥ लि१६ ॥
ubhāvapyanyatra puṃsi
Siddhānta-kaumudī
दुन्दुभिर्नाभिश्चोक्तविपयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिरिति भारविः । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोका- अयत्वाल्लिङ्गखेति भाष्यात्पुंस्वमपीह साधु । अत एव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणि-प्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी । रभसो-प्याह । मुख्यरादक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति । एवमेवं-विधेऽन्यत्रापि वोध्यम् ।
Bhairava Miśra
NSP p. 676
—उभावन्यत्र पुंसि । इदं स्पष्टार्थम् । पूर्वसूत्रयोः ‘अक्षेष्वक्षत्रिये’ इत्यभिधानेन सिद्धेः । कथं तर्हि —इति अत्र यत्कोमलैरिति तदनुपपन्नम् । स्त्रीलिङ्गनाभिशब्दार्थविशेषणत्वात् ॥—सामान्य इति । लिङ्गविशेषाविवक्षया नपुंसकं कोमलैरिति प्रसाध्य तस्य नाभिशब्दार्थविशेषणत्वं स्त्रीकार्यम् । विशेषप्रतिपादकस्य यथा पुंस्त्वं तथास्यापि भविष्यतीत्याशयेन समाधानान्तरमाह—वस्तुतस्त्विति । ‘चक्रमध्यक्षत्रिययोः’ इत्यत्र चक्रमध्यं च क्षत्रियश्चेति द्वन्द्वः । अत एव ‘प्राण्यङ्गके द्वयोः’ इति संगच्छते
लि17 · Liṅ 11.1.17
तलन्तः ॥ लि१७ ॥
talantaḥ
Siddhānta-kaumudī
अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता ।
Bhairava Miśra
NSP p. 676
—तलन्तः । ‘तस्य भावस्त्वतिलौ’ इति सूत्रविहिततल्प्रत्ययान्तः स्त्रियां स्यात् ॥— भूमिविद्युद् इति । अत्राभिधानशब्दो भूम्यादिशब्दे शक्यतावच्छेदकधर्मावच्छिन्नशक्तपरत्वेन प्रमेयशब्दव्यावृत्तिः । एवमन्यत्रापि बोध्यम्
लि18 · Liṅ 11.1.18
भूमिविद्युत्सरिल्लतावनिताभिधानानि ॥ लि१८ ॥
bhūmividyutsarillatāvanitābhidhānāni
Siddhānta-kaumudī
भू-मिभूः । विद्युत्सौदामनी । सरिन्निन्नगा । लता वल्ली । वनिता योषित् ।
लि19 · Liṅ 11.1.19
यादो नपुंसकम् ॥ लि१९ ॥
yādo napuṃsakam
Siddhānta-kaumudī
यादः-शब्दः सरिद्वाचकोऽपि क्लीबं स्यात् ।
Bhairava Miśra
NSP p. 676
—यादो नपुंसकम् । पूर्वस्यापवादः
लि20 · Liṅ 11.1.20
भाःस्रुक्-स्रग्दिगुणिगुपानहः ॥ लि२० ॥
bhāḥsruk-sragdiguṇigupānahaḥ
Siddhānta-kaumudī
एते स्त्रियां स्युः । इयं भा इत्यादि ।
लि21 · Liṅ 11.1.21
स्थूणोर्णे नपुंसके च ॥ लि२१ ॥
sthūṇorṇe napuṃsake ca
Siddhānta-kaumudī
एते स्त्रियां क्लीवे च स्तः । स्थूणा । स्थूणम् । ऊर्णा । ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ।
Bhairava Miśra
NSP p. 676
—स्थूणोर्णे नपुंसके च । चकारेण स्त्रियामित्यस्यागुकर्षणार्थमस्यात्र लेखः ॥—प्रावृद्धिति । स्त्रीशब्दस्य पूर्वत्र चानुकृष्टवेऽपि ‘स्वरितेनाधिकारः’ इत्यस्याधिकः कार इति व्याख्यानस्यापि प्रसिद्धत्वादत्र संबन्धः
लि22 · Liṅ 11.1.22
गृहशाशाभ्यां क्लीवे ॥ लि२२ ॥
gṛhaśāśābhyāṃ klīve
Siddhānta-kaumudī
नियमार्थमिदम् । गृहशाशाभ्यां पूर्वे स्थूणोर्णे यथासंख्यं नपुंसके स्तः । गृहस्थूणम् । शशोर्णं शशलोमनीत्यमरः ।
लि23 · Liṅ 11.1.23
प्रावृद्धिपुट्टद्विविधः ॥ लि२३ ॥
prāvṛddhipuṭṭadvividhaḥ
Siddhānta-kaumudī
एते स्त्रियां स्युः ।
लि24 · Liṅ 11.1.24
दर्विविदिवेदिस्तिशान्यश्रिवेशिकृष्योषधिकट्यकुलयः ॥ लि२४ ॥
darvividivedistiśānyaśriveśikṛṣyoṣadhikaṭyakulayaḥ
Siddhānta-kaumudī
एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी । दर्विरित्यादि ।
Bhairava Miśra
NSP p. 676
—दर्विविदि । दर्विशब्दो ‘वृद्ध्यां विन्’ इति विन्नन्तः, ‘सर्वतोऽक्तिन्नर्थादित्येके’ इति विकल्पेन द्वीप् दर्वी इति
लि25 · Liṅ 11.1.25
तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविराज्यादयः ॥ लि२५ ॥
tithināḍirucivīcinālidhūlikikikelicchavirājyādayaḥ
Siddhānta-kaumudī
एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्वाह । तिथयो द्वयोरिति । तथा च भारविः । तस्य भुवि बहुतिथास्तिथय इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च । निखिलान्निशि पौर्णिमातिथीनिति ।
Bhairava Miśra
NSP p. 676
—तिथिनाडि—॥—एते प्राग्वदिति । स्त्रियां स्युरित्यर्थः ॥—पुंस्येवेति । देवासुरात्मेत्यतेन पुंस्त्वबोधकेन मवर्त्ति द्वीपादिति भावः ॥—भाष्यप्रयोगादिति । तेन भाष्ये ‘णा’—इति सूत्रनिर्दि- शनां बहुत्वं प्रायिकमिति विकल्पेनान्यत्र बहुलाभावेऽपि न क्षतिः ॥—क्वचिद्याभिचारमिति । तेन तिथिशब्दस्य पूर्वत्रयशा पुंस्त्वं प्रदर्शितं तथान्येषामन्यलिङ्गत्वेऽपि साधुलमिति सूचयति ॥ इति लिङ्गानुशासने रूपधिकारः ॥ भाषार्थ एवेति । भावे यो घञ् तदन्तस्य पुंस्त्वमित्युक्तम् । एतल्लाभप्रकारमाह—नपुंसकेत्यादि ॥—भयलिङ्गेत्यादि । पूर्वस्यापवादोऽयम्
लि26 · Liṅ 11.1.26
शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिपङ्कयः ॥ लि२६ ॥
śaṣkulirājikuṭyaśanivartibhṛkuṭitruṭivalipaṅkayaḥ
Siddhānta-kaumudī
एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः ।
लि27 · Liṅ 11.1.27
प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुपसंवित्स्नुत्पुन्मुत्समिधः ॥ लि२७ ॥
pratipadāpadvipatsampaccharatsaṃsatpariṣadupasaṃvitsnutpunmutsamidhaḥ
Siddhānta-kaumudī
इयं प्रतिपदित्यादि । उपाउच्छन्ती । उपाः प्रातरधिष्ठात्री देवता ।
लि28 · Liṅ 11.1.28
आशीर्धूःपूर्गीर्द्वारः ॥ लि२८ ॥
āśīrdhūḥpūrgīrdvāraḥ
Siddhānta-kaumudī
इयमाशीरित्यादि । २९ । अप्सुमनस्समासिकताकर्षाणां बहुत्वं च । अवादीनां पञ्चानां स्त्रीत्वं स्याद्वहुत्वं च । आप इमाः । स्त्रियः सुमनसः पुष्पम् । सुमना मालती जातिः । देववाची तु पुंस्येव । सुपर्वाणः सुमनसः । बहुत्वं प्रायिकम् । एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात् । 'समांसमां विजायते-१८१३' इत्यत्र समायां समायामिति भाष्याच्च । 'विभाषाघ्राधेद-२३७६' इति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम् ।
लि30 · Liṅ 11.1.30
स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिजः ॥ लि३० ॥
sraktvakjyogvāgyavāgūnausphijaḥ
Siddhānta-kaumudī
इयं स्रक्त्वक्ज्योक् वाक् यवागूः नौः स्फिक् ।
लि31 · Liṅ 11.1.31
वृटिसीमासं वध्याः ॥ लि३१ ॥
vṛṭisīmāsaṃ vadhyāḥ
Siddhānta-kaumudī
इयं वृद्धिः । सीमा संबध्या ।
लि32 · Liṅ 11.1.32
चुल्लिवेणिखार्यश्च ॥ लि३२ ॥
culliveṇikhāryaśca
Siddhānta-kaumudī
स्पष्टम् ।
लि33 · Liṅ 11.1.33
ताराधाराज्योत्स्नादयश्च । ३४ । शलाका स्त्रियां नित्यम् । नित्यग्रहणमन्येषां क्वचिद्व्यभिचारं ज्ञापयति ॥ लि३३ ॥
tārādhārājyotsnādayaśca . 34 . śalākā striyāṃ nityam . nityagrahaṇamanyeṣāṃ kvacidvyabhicāraṃ jñāpayati
Siddhānta-kaumudī
इति रुयधिकारः ॥ पुंलिङ्गाधिकारः ।
लि35 · Liṅ 11.1.35
पुमान् ॥ लि३५ ॥
pumān
Siddhānta-kaumudī
अधिकारोऽयम् ।
लि36 · Liṅ 11.1.36
घञवन्तः ॥ लि३६ ॥
ghañavantaḥ
Siddhānta-kaumudī
पाकः । त्यागः । करः । गरः । भावार्थं एवेदम् । नपुंसकत्वविशिष्टे भावे कल्युद्ध्यां स्त्रीत्वाविशिष्टे तु किन्नादिभिर्वाधेन परिशेषात् । कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम् । संवन्धमनुवर्तिष्यत इति ।
लि37 · Liṅ 11.1.37
घाजन्तश्च ॥ लि३७ ॥
ghājantaśca
Siddhānta-kaumudī
विस्तरः । गोचरः । चयः । जयइत्यादि ।
लि38 · Liṅ 11.1.38
भयलिङ्गभगपदानि नपुंसके ॥ लि३८ ॥
bhayaliṅgabhagapadāni napuṃsake
Siddhānta-kaumudī
एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् ।
लि39 · Liṅ 11.1.39
नङ्गन्तः ॥ लि३९ ॥
naṅgantaḥ
Siddhānta-kaumudī
नद्ध्यायान्तः पुंसि स्यात् । यज्ञः । यत्नः ।
लि40 · Liṅ 11.1.40
याञ्जा स्त्रियाम् ॥ लि४० ॥
yāñjā striyām
Siddhānta-kaumudī
पूर्वस्यापवादः ।
लि41 · Liṅ 11.1.41
क्यन्तो घुः ॥ लि४१ ॥
kyanto ghuḥ
Siddhānta-kaumudī
किप्रत्ययान्तो घुः पुंसि स्यात् । आधिः । निधिः । उदधिः । क्यन्तः किम् । दानम् । घुः किम् । जज्ञिर्वाजम् ।
Bhairava Miśra
NSP p. 677
—क्यन्तो शुः । किप्रत्ययोऽन्तः परो यस्मात्तादृशो घुसंज्ञको धातुस्तद्धटितः परमनिः ॥ ये न क्यन्तु । अन्न पृक्ष्यत्वात्तदन्तं कल्या तस्य षष्ठीसमासोऽभिधानशब्देन कर्तव्यः, अभिधानशब्दः दिनाहनी—दिवसाभिधानाविमौ ॥—खारीमानिके—। मानाभिधानलात्पुंस्त्वे प्राप्तेऽस्यारम्भः ॥—बहुत्वं—चेति । चकारः पुंस्त्वस्य समुच्चायकः
लि42 · Liṅ 11.1.42
इपुधिः स्त्री च ॥ लि४२ ॥
ipudhiḥ strī ca
Siddhānta-kaumudī
इपुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः ।
लि43 · Liṅ 11.1.43
देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि ॥ लि४३ ॥
devāsurātmasvargagirisamudranakhakeśadantastanabhujakaṇṭhakhaḍgaśarapaṅkābhidhānāni
Siddhānta-kaumudī
एतानि पुंसि स्युः । देवाः सुराः । असुरा दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रोऽविधः । नखः कररुहः । केशः शिरोरुहः । दन्तो दशनः । सनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो मार्गणः । पङ्ककर्दम इत्यादि ।
लि44 · Liṅ 11.1.44
त्रिविष्टपत्रिभुवने नपुंसके ॥ लि४४ ॥
triviṣṭapatribhuvane napuṃsake
Siddhānta-kaumudī
स्पष्टम् । तृतीयं विष्टपं त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः ।
लि45 · Liṅ 11.1.45
द्यौः स्त्रियाम् ॥ लि४५ ॥
dyauḥ striyām
Siddhānta-kaumudī
द्योदिवोस्तन्त्रोपादानमिदम् ।
लि46 · Liṅ 11.1.46
इषुवाहू स्त्रियां च ॥ लि४६ ॥
iṣuvāhū striyāṃ ca
Siddhānta-kaumudī
चापुंसि ।
लि47 · Liṅ 11.1.47
वाणकाण्डौ नपुंसके च ॥ लि४७ ॥
vāṇakāṇḍau napuṃsake ca
Siddhānta-kaumudī
चापुंसि त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः ।
लि48 · Liṅ 11.1.48
नान्तः ॥ लि४८ ॥
nāntaḥ
Siddhānta-kaumudī
अयं पुंसि । राजा । तक्षा । न च चर्मवर्मादिप्वतिव्याप्तिः मन्त्रश्चक्रोऽकर्तरीति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ।
लि49 · Liṅ 11.1.49
क्रतुपुरुषकपोलगुल्फमेघाभिधानानि ॥ लि४९ ॥
kratupuruṣakapolagulphameghābhidhānāni
Siddhānta-kaumudī
क्रतुरध्वरः । पुरुषो नरः । कपोलो गण्डः । गुल्फः प्रपदः । मेघो नीरदः ।
लि50 · Liṅ 11.1.50
अम्रं नपुंसकम् ॥ लि५० ॥
amraṃ napuṃsakam
Siddhānta-kaumudī
पूर्वस्यापवादः ।
लि51 · Liṅ 11.1.51
उकारान्तः ॥ लि५१ ॥
ukārāntaḥ
Siddhānta-kaumudī
अयं पुंसि स्यात् । प्रभुः । इक्षुः । हनुर्हटविलासिन्यां नृत्यारंभे गदे स्त्रियाम् । द्वयोः कपोलावयव इति मेदिनी । करेणुरिभ्यां स्त्री नेभे इत्यमरः । एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च । लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यद्याधित इति । एवमन्यत्रापि ।
लि52 · Liṅ 11.1.52
धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ॥ लि५२ ॥
dhenurajjukuhūsarayutanureṇupriyaṅgavaḥ striyām
लि53 · Liṅ 11.1.53
समासे रज्जुः पुंसि च ॥ लि५३ ॥
samāse rajjuḥ puṃsi ca
Siddhānta-kaumudī
कर्कटरज्ज्वा । कर्कटरज्जुना ।
लि54 · Liṅ 11.1.54
श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके ॥ लि५४ ॥
śmaśrujānuvasusvādvaśrujatutraputālūni napuṃsake
लि55 · Liṅ 11.1.55
वसुचार्यवाचि ॥ लि५५ ॥
vasucāryavāci
Siddhānta-kaumudī
अर्थवाचीति किम् । वसुमयूखाग्निधनाधिपेषु ।
लि56 · Liṅ 11.1.56
महुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च ॥ लि५६ ॥
mahumadhusīdhuśīdhusānukamaṇḍalūni napuṃsake ca
Siddhānta-kaumudī
चापुंसि । अयं महुः । इदं महुः ।
लि57 · Liṅ 11.1.57
रुत्वन्तः ॥ लि५७ ॥
rutvantaḥ
Siddhānta-kaumudī
मेरुः । सेतुः ।
लि58 · Liṅ 11.1.58
दारुकसेरुजतुवस्तुमस्तूनि नपुंसके ॥ लि५८ ॥
dārukaserujatuvastumastūni napuṃsake
Siddhānta-kaumudī
रुत्वन्त इति पुंस्त्वस्यापवादः । इदं दारु ।
लि59 · Liṅ 11.1.59
सकुर्नपुंसके च ॥ लि५९ ॥
sakurnapuṃsake ca
Siddhānta-kaumudī
चापुंसि । सकुः । सकु ।
लि60 · Liṅ 11.1.60
प्राग्रश्मेरकारान्तः ॥ लि६० ॥
prāgraśmerakārāntaḥ
Siddhānta-kaumudī
रश्मिर्दिवसाभिधानमिति वक्ष्यति प्रागोतस्मादकारान्त इत्यधिक्रियते ।
लि61 · Liṅ 11.1.61
कोपधः ॥ लि६१ ॥
kopadhaḥ
Siddhānta-kaumudī
कोपधोऽकारान्तः पुंसि स्यात् । स्तबकः । कल्कः
लि62 · Liṅ 11.1.62
चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके ॥ लि६२ ॥
cibukaśālūkaprātipadikāṃśukolmukāni napuṃsake
Siddhānta-kaumudī
प्रसूत्रापवादः ।
लि63 · Liṅ 11.1.63
कण्ठकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च ॥ लि६३ ॥
kaṇṭhakānīkasarakamodakacaṣakamastakapustakataḍākaniṣkaśuṣkavarcaskapinākabhāṇḍakapiṇḍakakaṭakaśaṇḍakapiṭakatālakaphalakapulākāni napuṃsake ca
Siddhānta-kaumudī
चापुंसि । अयं कण्ठकः । इदं कण्ठकमित्यादि ।
लि64 · Liṅ 11.1.64
टोपधः ॥ लि६४ ॥
ṭopadhaḥ
Siddhānta-kaumudī
टोपधोऽकारान्तः पुंसि स्यात् । घटः । पटः ।
लि65 · Liṅ 11.1.65
किरीटमुकुटललाटवटवीटशूङ्गाटकराटलोष्टानि नपुंसके । किरीटमित्यादि । ६६ । कुटकूटकपटकवाटकपैटनटनिकटकीटकटानि नपुंसके च ॥ लि६५ ॥
kirīṭamukuṭalalāṭavaṭavīṭaśūṅgāṭakarāṭaloṣṭāni napuṃsake . kirīṭamityādi . 66 . kuṭakūṭakapaṭakavāṭakapaiṭanaṭanikaṭakīṭakaṭāni napuṃsake ca
Siddhānta-kaumudī
चापुंसि । कुटकुटमित्यादि ।
लि67 · Liṅ 11.1.67
णोपधः ॥ लि६७ ॥
ṇopadhaḥ
Siddhānta-kaumudī
णोपधोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः ।
लि68 · Liṅ 11.1.68
ऋणलवणपर्णतोरणरणोष्णानि नपुंसके ॥ लि६८ ॥
ṛṇalavaṇaparṇatoraṇaraṇoṣṇāni napuṃsake
Siddhānta-kaumudī
पूर्वसूत्रापवादः ।
लि69 · Liṅ 11.1.69
कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च ॥ लि६९ ॥
kārṣāpaṇasvarṇasuvarṇavraṇacaraṇavṛṣaṇaviṣāṇacūrṇatṛṇāni napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि ।
लि70 · Liṅ 11.1.70
थोपधः रथः । ७१ । काष्ठपृष्ठसिक्थोक्थानि नपुंसके ॥ लि७० ॥
thopadhaḥ rathaḥ . 71 . kāṣṭhapṛṣṭhasikthokthāni napuṃsake
Siddhānta-kaumudī
इदं काष्ठमित्यादि ।
लि72 · Liṅ 11.1.72
काष्ठा दिगर्था स्त्रियाम् ॥ लि७२ ॥
kāṣṭhā digarthā striyām
Siddhānta-kaumudī
इमाः काष्ठाः ।
लि73 · Liṅ 11.1.73
तीर्थप्रोथयूथगाथानि नपुंसके च ॥ लि७३ ॥
tīrthaprothayūthagāthāni napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि । अयं तीर्थः । इदं तीर्थम् ।
लि74 · Liṅ 11.1.74
नोपधः ॥ लि७४ ॥
nopadhaḥ
Siddhānta-kaumudī
अदन्तः पुंसि । इनः । फेनः ।
लि75 · Liṅ 11.1.75
जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके ॥ लि७५ ॥
jaghanājinatuhinakānanavanavṛjinavipinavetanaśāsanasopānamithunaśmaśānaratnanimnacihnāni napuṃsake
Siddhānta-kaumudī
पूर्वस्यापवादः
लि76 · Liṅ 11.1.76
मानयानाभिधाननलिनपुलिनोद्यानशयना- सनस्थानचन्दनालानसमानभवनवसनसंभावनविभावनविमानानि नपुंसके च ॥ लि७६ ॥
mānayānābhidhānanalinapulinodyānaśayanā- sanasthānacandanālānasamānabhavanavasanasaṃbhāvanavibhāvanavimānāni napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि । अयं मानः । इदं मानम् ।
लि77 · Liṅ 11.1.77
पोपधः ॥ लि७७ ॥
popadhaḥ
Siddhānta-kaumudī
अदन्तः पुंसि । यूपः । दीपः ।
लि78 · Liṅ 11.1.78
पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके ॥ लि७८ ॥
pāparūpoḍupatalpaśilpapuṣpaśaṣpasamīpāntarīpāṇi napuṃsake
Siddhānta-kaumudī
इदं पापमित्यादि ।
लि79 · Liṅ 11.1.79
शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च ॥ लि७९ ॥
śūrpakutapakuṇapadvīpaviṭapāni napuṃsake ca
Siddhānta-kaumudī
अयं शूर्पः । इदं शूर्पमित्यादि ।
लि80 · Liṅ 11.1.80
भोपधः ॥ लि८० ॥
bhopadhaḥ
Siddhānta-kaumudī
स्तम्भः । कुम्भः ।
लि81 · Liṅ 11.1.81
तलभं नपुंसकम् ॥ लि८१ ॥
talabhaṃ napuṃsakam
Siddhānta-kaumudī
पूर्वस्यापवादः ।
लि82 · Liṅ 11.1.82
जृम्भं नपुंसके च ॥ लि८२ ॥
jṛmbhaṃ napuṃsake ca
Siddhānta-kaumudī
जृम्भम् । जृम्भः ।
लि83 · Liṅ 11.1.83
मोपधः ॥ लि८३ ॥
mopadhaḥ
Siddhānta-kaumudī
सोमः । भीमः ।
लि84 · Liṅ 11.1.84
रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके ॥ लि८४ ॥
rukmasidhmayudhmedhmagulmādhyātmakuṅkumāni napuṃsake
Siddhānta-kaumudī
इदं रुक्ममित्यादि ।
लि85 · Liṅ 11.1.85
संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोहामानि नपुंसके च ॥ लि८५ ॥
saṃgrāmadāḍimakusumāśramakṣemakṣaumahomohāmāni napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि । अयं संग्रामः । इदं संग्रामम् ।
लि86 · Liṅ 11.1.86
योपधः ॥ लि८६ ॥
yopadhaḥ
Siddhānta-kaumudī
समयः । हयः ।
लि87 · Liṅ 11.1.87
किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके ॥ लि८७ ॥
kisalayahṛdayendriyottarīyāṇi napuṃsake
Siddhānta-kaumudī
स्पष्टम् ।
लि88 · Liṅ 11.1.88
गोमयकषायमलयान्वयाव्ययानि नपुंसके च ॥ लि८८ ॥
gomayakaṣāyamalayānvayāvyayāni napuṃsake ca
Siddhānta-kaumudī
गोमयः । गोमयम् ।
लि89 · Liṅ 11.1.89
रोपधः ॥ लि८९ ॥
ropadhaḥ
Siddhānta-kaumudī
शुरः । अङ्कुरः । ९० । द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रश्नद्रनारतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रमीरगभीरकूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगङ्गाकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि न पुंसके ॥ इदं द्वारमित्यादि ।
लि91 · Liṅ 11.1.91
शुक्रमदेवतायाम् ॥ लि९१ ॥
śukramadevatāyām
Siddhānta-kaumudī
इदं शुक्रं रेतः ।
लि92 · Liṅ 11.1.92
चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च ॥ लि९२ ॥
cakravajrāndhakārasārāvārapārakṣīratomaraśṛṅgārabhṛṅgāramandārośīratimiraśiśirāṇi napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि । चक्रः । चक्रमित्यादि ।
लि93 · Liṅ 11.1.93
षोषधः ॥ लि९३ ॥
ṣoṣadhaḥ
Siddhānta-kaumudī
वृषः । वृक्षः ।
लि94 · Liṅ 11.1.94
शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्विषकल्माषाणि नपुंसके ॥ लि९४ ॥
śirīṣarjīṣāmbarīṣapīyūṣapurīṣakilviṣakalmāṣāṇi napuṃsake
लि95 · Liṅ 11.1.95
यूषकरीषमिषविषवर्षाणि नपुंसके च ॥ लि९५ ॥
yūṣakarīṣamiṣaviṣavarṣāṇi napuṃsake ca
Siddhānta-kaumudī
चात्पुंसि । अयं यूषः । इदं यूषमित्यादि ।
लि96 · Liṅ 11.1.96
सोपधः ॥ लि९६ ॥
sopadhaḥ
Siddhānta-kaumudī
वत्सः । वायसः । महानसः ।
लि97 · Liṅ 11.1.97
पनसविसवुससाहसानि नपुंसके । ९८ । चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च ॥ लि९७ ॥
panasavisavusasāhasāni napuṃsake . 98 . camasāṃsarasaniryāsopavāsakārpāsavāsamāsakāsakāṃsamāṃsāni napuṃsake ca
Siddhānta-kaumudī
इदं चमसम् । अयं चमस इत्यादि ।
लि99 · Liṅ 11.1.99
कंसं चाप्राणिनि ॥ लि९९ ॥
kaṃsaṃ cāprāṇini
Siddhānta-kaumudī
कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा ।
लि100 · Liṅ 11.1.100
रश्मिदिवसाभिधानानि ॥ लि१०० ॥
raśmidivasābhidhānāni
Siddhānta-kaumudī
एतानि पुंसि स्युः । रश्मिमंयूषः । दिवसो धत्तः ।
लि101 · Liṅ 11.1.101
दीधितिः स्त्रियाम् ॥ लि१०१ ॥
dīdhitiḥ striyām
Siddhānta-kaumudī
पूर्वस्यापवादः ।
लि102 · Liṅ 11.1.102
दिनाहनी नपुंसके ॥ लि१०२ ॥
dināhanī napuṃsake
Siddhānta-kaumudī
अयमप्यपवादः
लि103 · Liṅ 11.1.103
मानाभिधानि ॥ लि१०३ ॥
mānābhidhāni
Siddhānta-kaumudī
एतानि पुंसि स्युः । कुडवः प्रस्थः ।
लि104 · Liṅ 11.1.104
द्रोणाढकौ नपुंसके च ॥ लि१०४ ॥
droṇāḍhakau napuṃsake ca
Siddhānta-kaumudī
इदं द्रोणम् अयं द्रोणः ।
लि105 · Liṅ 11.1.105
स्वारीमानिके स्त्रियाम् ॥ लि१०५ ॥
svārīmānike striyām
Siddhānta-kaumudī
इयं स्वारी । इयं मानिका ।
लि106 · Liṅ 11.1.106
दाराक्षतलाजासूनां वहुत्वं च ॥ लि१०६ ॥
dārākṣatalājāsūnāṃ vahutvaṃ ca
Siddhānta-kaumudī
इमे दाराः ।
लि107 · Liṅ 11.1.107
नाड्यपजनोपपदानि व्रणाङ्गपदानि ॥ लि१०७ ॥
nāḍyapajanopapadāni vraṇāṅgapadāni
Siddhānta-kaumudī
यथासंख्यं नाड्याद्युपपदानि व्रणादीनि पुंसि स्युः ॥ अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थं सूत्रम् ।
Bhairava Miśra
NSP p. 678
—नाड्यपजनोपपदानि व्रणाङ्गपदानि । अत्रोपपदशब्दः पूर्वपदपरो ननु ‘तत्रोपपदम्—इति तत्तुल्यं कायाः ॥ तास्यात्प्राप्यमावान् ॥—ह्यैवत्वनिवृत्त्यर्थमिति । नपुंसकाधिकारे ‘मुखनयन्’ इत्यादि— वक्ष्यमाणसूत्रेण विवराभिधानत्वेन क्लीवत्वं प्राप्तं तन्निवृत्त्यर्थमित्यर्थः ॥—अमरस्त्विति । एवं च तन्मतेऽर्थचादिष्वयं द्रष्टव्यः । इति पुंलिङ्गाधिकारः ॥ भावे ल्युडन्तः । इदं च सूत्रं यद्यपि ‘नपुंसके भावे कः’ ‘ल्युट् च’ इत्यनेन गतार्थं तथापि स्पष्टार्थमुपात्तम् । एवमन्तप्रहणं चेति बोध्यम् ॥—इध्मप्रब्रश्चन इति । अत्र करणे ल्युट् ॥—निष्ठा च । अत्र निष्ठापदं कस्य बोधकम् । इदमपि सूत्रं ‘नपुंसके भावे कः’ इत्यनेन गतार्थम् । प्रत्ययप्रहणे तदन्तस्य प्रहणम् ॥—त्वप्यऔ तद्धितौ । भावे इत्यनुवर्तते । यद्यपि ‘तस्य भावः—’ इति सूत्रे भावशब्दः प्रकृतिजन्यबोधीयप्रकारताश्रयधर्मपरः । ‘भावे ल्युडन्तः’ इत्यत्र तु भावशब्दो भावनाबोधक इति मेदस्तथापीह भावशब्दः शब्दाधिकारेणान्यार्थको द्रष्टव्यः
लि108 · Liṅ 11.1.108
मरुद्गरुत्तरदत्त्विजाः ॥ लि१०८ ॥
marudgaruttaradattvijāḥ
Siddhānta-kaumudī
अयं मरुत् ।
लि109 · Liṅ 11.1.109
ऋशिराशिदतिग्रन्थिकिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः ॥ लि१०९ ॥
ṛśirāśidatigranthikimidhvanibalikaulimauliravikavikapimunayaḥ
Siddhānta-kaumudī
एते पुंसि स्युः । अयमृषिः ।
लि110 · Liṅ 11.1.110
ध्वजगजमुञ्जपुञ्जाः ॥ लि११० ॥
dhvajagajamuñjapuñjāḥ
Siddhānta-kaumudī
एते पुंसि
लि111 · Liṅ 11.1.111
हस्तकुन्तान्तवातवातदूतधूर्तसूतचूतमुहूर्ताः ॥ लि१११ ॥
hastakuntāntavātavātadūtadhūrtasūtacūtamuhūrtāḥ
Siddhānta-kaumudī
एते उंसि । अमरस्तु मुहूर्तोऽस्त्रियामित्याह ।
लि112 · Liṅ 11.1.112
षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः ॥ लि११२ ॥
ṣaṇḍamaṇḍakaraṇḍabharaṇḍavaraṇḍatuṇḍagaṇḍamuṇḍapāṣaṇḍaśikhaṇḍāḥ
Siddhānta-kaumudī
अयं पण्डः ।
लि113 · Liṅ 11.1.113
वंशांशपुरोडाशाः ॥ लि११३ ॥
vaṃśāṃśapuroḍāśāḥ
Siddhānta-kaumudī
अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि धन् । भवव्याख्यानयोः प्रकरणे ‘पौरोडाशपुरोडाशास्त्रन्-१४४९’ इति विकारप्रकरणे ‘ब्रीहेः पुरोडाशे १५२८’ इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य उत्वम् । पुरोडाशभुजामिष्टमिति माघः ।
लि114 · Liṅ 11.1.114
हृदकन्दकुन्दवुद्धुदशब्दाः ॥ लि११४ ॥
hṛdakandakundavuddhudaśabdāḥ
Siddhānta-kaumudī
अयं हृदः । ११५ । अर्घपथिमथ्यृभुक्षिस्तस्वनितस्वपूराः । अयमर्घः ।
लि116 · Liṅ 11.1.116
पल्लवपल्वलकफरेफकटाहनि- वर्यूहमठमणितरङ्गतुरङ्गगन्धमृदङ्गसङ्गसमुद्रपुङ्खाः। अयं पल्लव इत्यादि । ११७ । सारध्यतिथिकुक्षिवस्तिपाण्यञ्जलयः ॥ लि११६ ॥
pallavapalvalakapharephakaṭāhani- varyūhamaṭhamaṇitaraṅgaturaṅgagandhamṛdaṅgasaṅgasamudrapuṅkhāḥ. ayaṃ pallava ityādi . 117 . sāradhyatithikukṣivastipāṇyañjalayaḥ
Siddhānta-kaumudī
एते पुंसि । अयं सारथिः । इति पुंलिङ्गाधिकारः ॥ अयम् । सामग्री । औचित्यम् । औचिती ।
लि122 · Liṅ 11.1.122
कर्मणि च ब्राह्मणादिगुणवचनेभ्यः ॥ लि१२२ ॥
karmaṇi ca brāhmaṇādiguṇavacanebhyaḥ
Siddhānta-kaumudī
ब्राह्मणस्य कर्म ब्राह्मण्यम् ।
Bhairava Miśra
NSP p. 679
—कर्मणि च—चाद्भावे । त्वप्यञावित्याद्यनुवर्तते
लि123 · Liṅ 11.1.123
यद्यढग्यगञ्जबुञ्ज्याश्च भावकर्मणि ॥ लि१२३ ॥
yadyaḍhagyagañjabuñjyāśca bhāvakarmaṇi
Siddhānta-kaumudī
एतदन्तानि क्लीवानि ॥ ‘स्तेनाद्यन्नलोपश्च १७९०’ । स्तेयम् । ‘सत्युर्यः १७९१’ । सत्यम् । ‘कपिज्ञात्योर्ढक् १७९२’ । कापेयम् । ‘पत्यन्तपुरोहितादिभ्यो यक् १७९३’ । आधिपत्यम् । ‘प्राणभृजातिवयोवचनोद्गात्रादिभ्योऽञ् १७९४’ । औष्टम् । ‘हायनान्तयुवादिभ्योऽण् १७९५’ । द्वैहायनम् । ‘द्वन्द्वमनोज्ञादिभ्यो बुञ्ज् १७९८’ । पितापुत्रकम् । ‘होत्राभ्यश्छः १८००’ । अच्छावाकीयम् । ‘अव्ययीभावः ६५९’ । अधिस्त्रि ।
Bhairava Miśra
alignment inferredNSP p. 679
—स्तेनाद्यन्नलोपश्चेति । यद्यपीदं सूत्रं प्राग्व्याख्यातमेव तथापीतः प्रभृति कथित-नपुंसकत्वस्पष्टप्रतिपत्त्यर्थमिहोपादानमिति बोध्यम्
लि124 · Liṅ 11.1.124
द्वन्द्वैकत्वम् ॥ लि१२४ ॥
dvandvaikatvam
Siddhānta-kaumudī
पाणिपादम् ।
Bhairava Miśra
NSP p. 679
—द्वन्द्वैकत्वमिति । ‘द्वन्द्वश्च प्राणितूर्य—’ इत्यादिना येषां द्वन्द्वाना-मेकवद्भावो भवति ते द्वन्द्वा नपुंसकत्वाभिधायका बोध्या इत्यर्थः ॥—अभाषायामिति । इदमपि सूत्रं ‘हेमन्त-शिशिरावहोरात्रे च छन्दसि’ इति सूत्रे छन्दसीत्युपादानेन गतार्थम् । हेमन्तशिशिरावित्यत्र तु निर्देशादेव पुंस्त्वप्रति-पादकता बोध्या ॥—स्त्रियां चेति । चेन नपुंसकमित्यनुकर्षः । ‘विभाषा सेना—’ इति विभाषापदोपादानेनेदमपि गतार्थम् ॥—परवदिति । ‘परवल्लिङ्गं—’ इति सूत्रोपात्त इत्यर्थः । परवदिति सूत्रस्य स्मारकमिह परवदिति, नत्विदम-पूर्वम् ॥ तत्पुरुष इति द्वन्द्वस्याप्युपलक्षणम्
लि125 · Liṅ 11.1.125
अभापायां हेमन्तशिशिरावहोरात्रे च ॥ लि१२५ ॥
abhāpāyāṃ hemantaśiśirāvahorātre ca
Siddhānta-kaumudī
स्पष्टम् ।
लि126 · Liṅ 11.1.126
अनञ्कर्मधारयस्तत्पुरुषः ॥ लि१२६ ॥
anañkarmadhārayastatpuruṣaḥ
Siddhānta-kaumudī
अधिकारोऽयम् ।
लि127 · Liṅ 11.1.127
अनल्पे छाया ॥ लि१२७ ॥
analpe chāyā
Siddhānta-kaumudī
शरच्छायम् ।
लि128 · Liṅ 11.1.128
राजामनुष्यपूर्वा सभा ॥ लि१२८ ॥
rājāmanuṣyapūrvā sabhā
Siddhānta-kaumudī
इनसभमित्यादि ।
लि129 · Liṅ 11.1.129
सुरासेनाच्छायाशालानिशास्त्रियां च ॥ लि१२९ ॥
surāsenācchāyāśālāniśāstriyāṃ ca
लि130 · Liṅ 11.1.130
परवत् ॥ लि१३० ॥
paravat
Siddhānta-kaumudī
अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राहाहाः पुंसि ।
लि131 · Liṅ 11.1.131
अपथपुण्याहे नपुंसके ॥ लि१३१ ॥
apathapuṇyāhe napuṃsake
लि132 · Liṅ 11.1.132
संख्यापूर्वा रात्रिः ॥ लि१३२ ॥
saṃkhyāpūrvā rātriḥ
Siddhānta-kaumudī
त्रिरात्रम् । संख्यापूर्वेति किम् । सर्वरात्रः ।
Bhairava Miśra
NSP p. 679
—संख्यापूर्वा रात्रिः । ‘संख्यापूर्वं रात्रं क्लीवम्’ इत्यस्यानुवादः
लि133 · Liṅ 11.1.133
द्विगुः स्त्रियां च ॥ लि१३३ ॥
dviguḥ striyāṃ ca
Siddhānta-kaumudī
व्यवस्थया । पञ्चमूली । त्रिभुवनम् ।
Bhairava Miśra
NSP p. 679
—द्विगुः स्त्रियां चेति । चात्रपुंसकमिति संबध्यते । इदमपि ‘आकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’, ‘पात्राद्यन्तस्य न’ इत्यनेन गतार्थम् । अतएवाह—व्यवस्थयेति
लि134 · Liṅ 11.1.134
इसुसन्तः ॥ लि१३४ ॥
isusantaḥ
Siddhānta-kaumudī
हविः । धनुः ।
Bhairava Miśra
NSP p. 679
—इसुसन्तः । ‘अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः’, ‘जनेरुसिः’ एतयोरुपात्तौ एतौ
लि135 · Liṅ 11.1.135
अर्चिः स्त्रियां च ॥ लि१३५ ॥
arciḥ striyāṃ ca
Siddhānta-kaumudī
इसन्तत्वेऽपि अर्चिः स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः ।
लि136 · Liṅ 11.1.136
छदिः स्त्रियामेव ॥ लि१३६ ॥
chadiḥ striyāmeva
Siddhānta-kaumudī
इयं छदिः । छद्यतेऽनेनेति छादेश्वरादिण्यन्तादर्चिंशुचीत्यादिना इस् । इस्मन्नित्यादिना ह्लस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहचर्याच्छदिषः क्लीवतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः ।
Bhairava Miśra
NSP p. 680
—छदिः स्त्रियामेवेति । यद्यपि छदिरित्यस्येसन्तत्वेन नपुंसकत्वे प्राप्ते विशेषोपादानेन स्त्रिया- मिलनेनैव निलस्त्रीलाभे सिद्धे एवकारो व्यर्थः, तथापि ‘पटलं छदिः’ इत्यमरग्रन्थदर्शनेन साहचर्यान्नपुंसकलमपीति भ्रान्तिः स्यात्तन्निवारणायैवकारः । अत एव वक्ष्यति—अमरव्याख्यातार इति ॥—अस्येति । ‘मुखनयन—’ इति सूत्रस्य ॥ सीरार्थादनाः—। सीरशब्दो हलाभिधानः । अर्थशब्दस्तु धनशब्दस्य पर्यायः । ओदनशब्दोऽन्नवाची । भिस्सा-भिस्सटाशब्दौ तु दग्धान्नपराविति तयोः स्त्रीत्वेऽपि न क्षतिरिति
लि137 · Liṅ 11.1.137
मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि ॥ लि१३७ ॥
mukhanayanalohavanamāṃsarudhirakārmukavivarajalahaladhanānnābhidhānāni
Siddhānta-kaumudī
एतेषामभिधायकानि क्लीवे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिपम् । रुधिरं रक्तम् । कार्मुकं शरासनम् । विवरं विलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अन्नमशनम् ॥ अस्यापवादानाह त्रिसृज्या ।
लि138 · Liṅ 11.1.138
सीरार्थौदनाः पुंसि ॥ लि१३८ ॥
sīrārthaudanāḥ puṃsi
लि139 · Liṅ 11.1.139
वक्रनेत्रारण्यगाण्डीवानि पुंसि च ॥ लि१३९ ॥
vakranetrāraṇyagāṇḍīvāni puṃsi ca
Siddhānta-kaumudī
वक्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् ।
लि140 · Liṅ 11.1.140
अटवी स्त्रियाम् ॥ लि१४० ॥
aṭavī striyām
Bhairava Miśra
NSP p. 680
—अटवी स्त्रियाम् । अयं वनाभिधानः ॥—संख्येति । संख्यावाचीत्यर्थः
लि141 · Liṅ 11.1.141
लोपधः ॥ लि१४१ ॥
lopadhaḥ
Siddhānta-kaumudī
कुलम् । कूलम् । स्थलम् ।
लि142 · Liṅ 11.1.142
तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि ॥ लि१४२ ॥
tūlopalatālakusūlataralakambaladevalavṛṣalāḥ puṃsi
Siddhānta-kaumudī
अयं तूलः ।
लि143 · Liṅ 11.1.143
शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालविडालखिलशूलाः पुंसि च ॥ लि१४३ ॥
śīlamūlamaṅgalasālakamalatalamusalakuṇḍalapalalamṛṇālavālanigalapalālaviḍālakhilaśūlāḥ puṃsi ca
Siddhānta-kaumudī
चात् क्लीवे । शीलं शील इत्यादि ।
लि144 · Liṅ 11.1.144
शतादिः संख्या ॥ लि१४४ ॥
śatādiḥ saṃkhyā
Siddhānta-kaumudī
शतम् । सहस्रम् । शतादिरिति किम् । एको द्वौ वहवः । संख्येति किम् । शतशृङ्गो नाम पर्वतः ।
लि145 · Liṅ 11.1.145
शतायुतप्रयुताः पुंसि च । अयं शतः । इदं शतमिलादि । १४६ । लक्षा कोटिः स्त्रियाम् ॥ लि१४५ ॥
śatāyutaprayutāḥ puṃsi ca . ayaṃ śataḥ . idaṃ śatamilādi . 146 . lakṣā koṭiḥ striyām
Siddhānta-kaumudī
इयं लक्षा । इयं कोटिः ॥ वा लक्षा नियुतं च तदिलमरात् ॥ क्लीवेऽपि लक्षम् ।
Bhairava Miśra
NSP p. 680
—शतायुत—। अयं शतशब्दोऽनन्तवाची । ‘शतादिः—’ इति पूर्वसूत्रापवादोऽयम् ॥—लक्षाकोटी—। एतयोरपि संख्यावाचकत्वान्नपुंसकत्वे प्राप्ते इदम् ॥—क्लीवेऽपीति । एवं चायमर्थचादिषु द्रष्टव्यः
लि147 · Liṅ 11.1.147
शङ्कः पुंसि ॥ लि१४७ ॥
śaṅkaḥ puṃsi
Siddhānta-kaumudī
सहस्रः क्रचित् । अयं सहस्रः । इदं सहस्रम् ।
Bhairava Miśra
NSP p. 680
—शङ्कः पुंसि । अस्य शङ्कशब्दस्य संख्याविशेषवाचकत्वात् ‘शतादिः संख्या’ इति नपुंसकत्वे प्राप्तेऽस्यारम्भः ॥—सहस्रः कचिदिति । कचिदिति अर्थविशेष इत्यर्थः । ‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’ इत्यत्रानन्तवाची । नचात्र सहस्रशब्दस्यानन्तपरत्वे संख्यापरलाभावेन सहस्रपादित्यत्र ‘संख्यासुपूर्वस्य’ इति पादशब्दान्त्यलोपो न स्यादिति वाच्यम् । नियतविषयपरिच्छेदकलरूपसंख्यालाभावेऽपि यथाकथंचित्संख्यायाः प्रतीतिरिति लोपः । वस्तुतश्छान्दसो लोप इति तूचितम् ॥—मन्द्राच्कः । अत्र मन्प्रत्ययः श्रूयमाणनकारान्तः ‘सर्वधातुभ्यो मनिन्’ इति विहितः ॥—चर्म । वर्मेति । चरादिधातोर्मनिन्प्रत्ययः । वाहुलकादिलभावः । अणिमादौ लिद् । दामेत्यत्रापि ‘सर्वधातुभ्यो मनिन्’ इत्यनेनैव मनिन्, परं त्वयं विशेषः । उणादिप्रत्ययान्तानां संज्ञाशब्दपरत्वेन यादृशी व्युत्पत्तिर्यत्रोचिता स कल्पनीयेति कर्तर्यपि प्रत्ययः संभवतीति ॥—ब्रह्मेति । ‘वृंहेनोच्च’ इति मन्तिन्प्रत्ययः
लि148 · Liṅ 11.1.148
मन्त्राच्छ्रकोऽकर्तरि ॥ लि१४८ ॥
mantrācchrako'kartari
Siddhānta-kaumudī
मन्त्रलयान्तो ब्राच्छः क्लीवः स्यान्न तु कर्तरि । वर्म । चर्म । ब्राच्छः । किम् । अणिमा । महिमा । अकर्तरि किम् । ददाति इति दामा ।
लि149 · Liṅ 11.1.149
ब्रह्मन् पुंसि च ॥ लि१४९ ॥
brahman puṃsi ca
Siddhānta-kaumudī
अयं ब्रह्मा । इदं ब्रह्म ।
लि150 · Liṅ 11.1.150
नामरोमणी नपुंसके ॥ लि१५० ॥
nāmaromaṇī napuṃsake
Siddhānta-kaumudī
मन्त्रब्राच्छ इत्यस्यायं प्रपञ्चः ।
लि151 · Liṅ 11.1.151
असन्तो ब्राच्छः ॥ लि१५१ ॥
asanto brācchaḥ
Siddhānta-kaumudī
यशः । मनः । तपः । ब्राच्छः किम् । चन्द्रमाः ।
Bhairava Miśra
NSP p. 680
—असन्तो द्वाच्कः । ‘सर्व-धातुभ्योऽसुन्’ इति विहितोऽसुन् । तस्यासुनो येष्वनुवृत्तिस्तदन्ता अपि बोध्या । ‘चन्देर्मो डित्’ इति विहितासुन्प्रत्यया न्तश्चन्द्रमत् शब्दोऽप्यसुन्नन्तः । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । एवमप्सरःशब्दोऽपि
लि152 · Liṅ 11.1.152
अप्सराः स्त्रि- याम् ॥ लि१५२ ॥
apsarāḥ stri- yām
Siddhānta-kaumudī
एता अप्सरसः । ग्रायेणायं बहुवचनान्तः ।
लि153 · Liṅ 11.1.153
त्रान्तः ॥ लि१५३ ॥
trāntaḥ
Siddhānta-kaumudī
पत्रम् । छत्रम् ।
Bhairava Miśra
NSP p. 680
—त्रान्तः । त्रप्रत्ययान्तो नपुंसकः स्यात् । ‘सर्वधातुभ्यश्रून्’ इति त्रन्प्रत्ययो लकारानुबन्धक इति
लि154 · Liṅ 11.1.154
यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव ॥ लि१५४ ॥
yātrāmātrābhastrādaṃṣṭrāvaratrāḥ striyāmeva
Bhairava Miśra
NSP p. 680
—यात्रा मात्रा—। ‘हुयाम—’ इति विहितस्त्रन्प्रत्ययोऽपिग्रहणेन गृह्यत इति नपुंसकत्वे प्राप्तेऽस्यारम्भः । एवकारो न्यायसिद्धवाच्यवाधकभावानुवादकः
लि155 · Liṅ 11.1.155
भृत्रामित्रछात्रपुत्रमन्त्रवृत्तमेढोष्ट्राः पुंसि ॥ लि१५५ ॥
bhṛtrāmitrachātraputramantravṛttameḍhoṣṭrāḥ puṃsi
Siddhānta-kaumudī
अयं भृत्रः । न मित्रममित्रः । तस्य मित्राण्यमित्रास्ते इति माघः । स्याताममित्रैः मित्रे चेति च । यत्तु द्विपोऽमित्र इति सूत्रे हरदत्तेनोक्तम् । अमेर्द्विपदित्यौणादिक इत्रच् । अमेरमित्रम् । मित्रस्य व्यथयेदित्यादौ मध्योदात्तस्तु चिन्त्यः । नञ्समासेऽप्येवम् । परवल्लिङ्गतापि स्यादिति तु तत्र दोपान्तरमिति तत्प्रकृतंसूत्रापर्यालोचनमूलकम् । स्वरदोपोज्ज्ञावनमपि नजो जरमरमित्रमृता इति पाष्ठसूत्रास्मरणमूलकमिति दिक् ।
Bhairava Miśra
NSP p. 680
—भृत्रामित्र—। पूर्वस्यापवादः ॥—यत्त्विति । दोषान्तरमित्यन्ता तदुक्तिः । मध्योदात्तः मकारेकारस्य प्रत्यया युदात्तत्वेन मध्योदात्त इति तद्भावः ॥—चिन्त्य इति । चित्त्वस्य सत्यात् । नन्वमित्रशब्दो नेत्रन्तः किंतु ‘अमिचिमि’ इति धातुविहितकान्तमित्रशब्देन नन्वः समासं सति सिद्ध इत्याह—नञ्समासेऽप्येवमिति । अन्तोदात्त इत्यर्थः ॥ परवल्लिङ्गतेति । एवं सति नपुंसकत्वं स्यात् । हरदत्तोक्तं दृषयति—तत्प्रकृतेत्यादिना ॥—नओ जरमरेति । यदि तु न मित्र अमित्र इति नव्यसमासस्तदा न ‘नओ जरमरमित्र—’ इत्यस्य प्राप्तिस्तस्य बहुत्रीहिसमासे प्रवृत्तिरिति बोध्यम्
लि156 · Liṅ 11.1.156
पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च ॥ लि१५६ ॥
patrapātrapavitrasūtracchatrāḥ puṃsi ca
लि157 · Liṅ 11.1.157
वलकुसुमशुल्यपत्तनरणाभिधानानि ॥ लि१५७ ॥
valakusumaśulyapattanaraṇābhidhānāni
Siddhānta-kaumudī
वलं वीर्यम् ।
लि158 · Liṅ 11.1.158
पद्मकमलोत्पलानि पुंसि च ॥ लि१५८ ॥
padmakamalotpalāni puṃsi ca
Siddhānta-kaumudī
पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह ॥ वा पुंसि पद्मं नलिनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिमन्थो मतान्तरेण नेयः ।
Bhairava Miśra
alignment inferredNSP p. 681
—कुसुमाभिधायित्वेति । वस्तुतः कुसुमाभिधायित्वेऽपीत्यर्थः । यदि तु कुसुमविशेषाभिधायकोऽयं नतु कुसुमशब्दशक्यतावच्छेदकावच्छिन्नशक्त इति विभाव्यते तदालपूर्वमेवोभयल्लिङ्गलाभिधानमिति । मतान्तरेण जलज-शब्दस्य जलजातकुसुमान्तराभिधायकलमित्यभिप्रायकमतान्तरेणेत्यर्थः
लि159 · Liṅ 11.1.159
आहवसंग्रामौ पुंसि ॥ लि१५९ ॥
āhavasaṃgrāmau puṃsi
Bhairava Miśra
NSP p. 681
—आहवसंप्रामौ पुंसि । एतयोर्युद्धाभिधा-यकलान्नपुंसकत्वे प्राप्ते । एवमाजिशब्दोऽपि ॥—फलजातिरिति । फलोपादानाद्बुक्षपरस्यामलकीशब्दस्य ल्लीत्वेऽपि न क्षतिः ॥—हरीतकीति । हरीतक्याः फलानि हरीतक्यः । ‘हरितक्यादिषु व्यक्तिः’ इति ल्लीलाभिधानात् ॥—रथाङ्गा-दाविति । आदिना देवनाक्षपरिग्रहः ॥ इति नपुंसकाधिकारः ॥ ल्लीपुंसयोः । अधिकारोऽयम् ॥—नपुंसकं चेति । चात्ल्लीपुंसयोः ॥ इति ल्लीपुंसाधिकारः ॥ शलाकावाचीति । सा च शलाका काष्ठादिनिर्मिता । तत्र मानमाह—तथाचेति । इति पुंनपुंसकाधिकारः ॥ अविशिष्टलिङ्गम् । तत्तल्लिङ्गवाचकताप्रयुक्तकार्यविशेषशून्यम् ॥—शिष्टा इति । पूर्वोक्तशब्दान्यतमलावच्छिन्न- प्रतियोगिताकमेदवन्तः ॥—परवदिति । विशेष्यवदित्यर्थः
लि160 · Liṅ 11.1.160
आजिः स्त्रियामेव ॥ लि१६० ॥
ājiḥ striyāmeva
लि161 · Liṅ 11.1.161
फलजातिः ॥ लि१६१ ॥
phalajātiḥ
Siddhānta-kaumudī
फलजातिवाची शब्दो नपुंसकं स्यात् । आमलकम् । आज्ञम् ।
लि162 · Liṅ 11.1.162
वृक्षजातिः स्त्रियामेव ॥ लि१६२ ॥
vṛkṣajātiḥ striyāmeva
Siddhānta-kaumudī
क्वचिदेवेदम् । हरीतकी ।
लि163 · Liṅ 11.1.163
वियजगत्सकृतशकनपृषत्शक्त्यदुदश्वितः ॥ लि१६३ ॥
viyajagatsakṛtaśakanapṛṣatśaktyadudaśvitaḥ
Siddhānta-kaumudī
एते क्लीवाः स्युः ।
लि164 · Liṅ 11.1.164
नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तत्रतरजतवृत्तपलितानि ॥ लि१६४ ॥
navanītāvatānānṛtāmṛtanimittavittacittapittatratarajatavṛttapalitāni
लि165 · Liṅ 11.1.165
श्राद्धकुलिशदैवपीठकुण्डाङ्गाङ्गदधिसकथ्यक्षयास्यारूपदाकाशकण्ववीजानि ॥ लि१६५ ॥
śrāddhakuliśadaivapīṭhakuṇḍāṅgāṅgadadhisakathyakṣayāsyārūpadākāśakaṇvavījāni
Siddhānta-kaumudī
एतानि क्लीवे स्युः ।
लि166 · Liṅ 11.1.166
दैवं पुंसि च ॥ लि१६६ ॥
daivaṃ puṃsi ca
Siddhānta-kaumudī
दैवम् । दैवः ।
लि167 · Liṅ 11.1.167
धान्याज्यसस्यरूप्यपण्यवण्यर्धधृप्यहव्यकव्यकाव्यसत्यापत्यसूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि ॥ लि१६७ ॥
dhānyājyasasyarūpyapaṇyavaṇyardhadhṛpyahavyakavyakāvyasatyāpatyasūlyaśikyakuḍyamadyaharmyatūryasainyāni
Siddhānta-kaumudī
इदं धान्यमित्यादि ।
लि168 · Liṅ 11.1.168
द्वन्द्ववर्हदुःखवडिशपिच्छविश्वकुटुम्बकवचवरशरवृन्दारकाणि ॥ लि१६८ ॥
dvandvavarhaduḥkhavaḍiśapicchaviśvakuṭumbakavacavaraśaravṛndārakāṇi
लि169 · Liṅ 11.1.169
अक्षमिन्द्रिये ॥ लि१६९ ॥
akṣamindriye
Siddhānta-kaumudī
इन्द्रिये किम् । रथाङ्गादौ मा भूत् ॥ इति नपुंसकाधिकारः ॥ गोमणियप्रिमुप्रिपाटलिवस्तिशालमलित्रुटिमसिमरीचयः ॥ इयमयं वा गौः ।
लि172 · Liṅ 11.1.172
मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः ॥ लि१७२ ॥
mṛtyusīdhukarkandhukiṣkukaṇḍureṇavaḥ
Siddhānta-kaumudī
इयमयं वा मृत्युः ।
लि173 · Liṅ 11.1.173
गुणवचनमुकारान्तं नपुंसकं च ॥ लि१७३ ॥
guṇavacanamukārāntaṃ napuṃsakaṃ ca
Siddhānta-kaumudī
त्रिलिङ्गमित्यर्थः ॥ पटुः । पटुः । पट्वी ।
लि174 · Liṅ 11.1.174
अपत्यार्थस्तद्धिते ॥ लि१७४ ॥
apatyārthastaddhite
Siddhānta-kaumudī
औपगवः । औपगवी ॥ इति स्त्रीपुंसाधिकारः ॥ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकवुस्तलोहिताः ॥ अयं घृतः । इदं घृतम् ।
लि177 · Liṅ 11.1.177
शृङ्गार्धनिदाघोद्यमशल्यदृढाः ॥ लि१७७ ॥
śṛṅgārdhanidāghodyamaśalyadṛḍhāḥ
Siddhānta-kaumudī
अयं शृङ्गः । इदं शृङ्गम् ।
लि178 · Liṅ 11.1.178
ब्रजकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः ॥ लि१७८ ॥
brajakuñjakuthakūrcaprasthadarpārbhārdharcadarbhapucchāḥ
Siddhānta-kaumudī
अयं ब्रजः । इदं ब्रजम् ।
लि179 · Liṅ 11.1.179
कवन्धौषधायुधान्ताः ॥ लि१७९ ॥
kavandhauṣadhāyudhāntāḥ
Siddhānta-kaumudī
स्पष्टम् ।
लि180 · Liṅ 11.1.180
दण्डमण्डखण्डशवसैन्धवपाश्वाकाशकुशकाशाङ्कशकुलिशाः ॥ लि१८० ॥
daṇḍamaṇḍakhaṇḍaśavasaindhavapāśvākāśakuśakāśāṅkaśakuliśāḥ
Siddhānta-kaumudī
एते पुंनपुंसकयोः स्युः । कुशो रामसुते दर्भे योक्ते द्वीपे कुशं जले । इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च ‘जानपद५००’ इति सूत्रेणायोविकारे कीपि कुशी । दारुणि तु टाप् । कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः । ‘अतः कृकमि-१६०’ इति सूत्रे कुशाकर्णीप्विति प्रयोगश्च । व्याससूत्रे च । हानौ तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति । तत्र शारीरकभाप्येऽप्येवम् । एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याह्मश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः ।
लि181 · Liṅ 11.1.181
गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च ॥ लि१८१ ॥
gṛhamehadehapaṭṭapaṭahāṣṭāpadāmbudakakudāśca
Siddhānta-kaumudī
इति पुंनपुंसकाधिकारः
लि182 · Liṅ 11.1.182
अविशिष्टलिङ्गम् ॥ लि१८२ ॥
aviśiṣṭaliṅgam
लि183 · Liṅ 11.1.183
अव्ययं कतियुष्मदः १८४ । ष्णान्ता संख्या ॥ लि१८३ ॥
avyayaṃ katiyuṣmadaḥ 184 . ṣṇāntā saṃkhyā
Siddhānta-kaumudī
शिष्टा परवत् ॥ एकः पुरुषः। एका स्री । एकं कुलम् ।
लि185 · Liṅ 11.1.185
गुणवचनं च ॥ लि१८५ ॥
guṇavacanaṃ ca
Siddhānta-kaumudī
शुक्लः पटः । शुक्ला पटी । शुक्लं वस्त्रम् ।
Bhairava Miśra
NSP p. 682
—गुणवचनं च । परवदित्यनुवर्तते
लि186 · Liṅ 11.1.186
कृत्याश्च ॥ लि१८६ ॥
kṛtyāśca
Bhairava Miśra
NSP p. 682
—कृत्याश्च । कृत्यप्रत्ययान्ताः परवद्वोध्याः
लि187 · Liṅ 11.1.187
करणाधिकरणयोल्युट् च ॥ लि१८७ ॥
karaṇādhikaraṇayolyuṭ ca
लि188 · Liṅ 11.1.188
सर्वादीनि सर्वनामानि ॥ लि१८८ ॥
sarvādīni sarvanāmāni
Siddhānta-kaumudī
स्पष्टार्थेयं त्रिसूत्री ॥ इति लिङ्गानुशासनं समासम् ॥ इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरण-सिद्धान्तकौमुदी संपूर्णा
Bhairava Miśra
NSP p. 682
—सर्वादीनि सर्वनामानि । सर्वनामसंज्ञकानि सर्वादीनि परवद्वोध्यानि ॥—स्पष्टार्थेति । लोकव्युत्पत्त्यैव संत्तल्लिङ्गाभिधानसिद्धत्वात् अत एव ‘लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य’ इति भगवता भाष्य-कृतोक्तम् । तेन यौगिकेषु शब्देषु लोकव्युत्पत्तिरेव लिङ्गाभिधाने प्रमाणमिति सिद्धम् ॥ इति लिङ्गानुशासनविवरणम् ॥ इति श्रीमदनन्तकल्याणसङ्कुणनिधानाखिलपण्डितसार्वभौमभूमण्डलसंचारिविमलतरानबद्यसद्यशःपार्वणपीयूष-भान्वगस्त्यकुलवंशावतंसश्रीमद्भवदेवमिश्रात्मजभैरवमिश्रप्रणीतं लिङ्गानुशासनव्याह्यानं संपूर्णम्