Prakaraṇa 69 · SK 3169–3386
उत्तरकृदन्तप्रकरणम्
uttarakṛdantaprakaraṇam · 218 sūtras · Sanskrit source — translation forthcoming
SK 3169 · A 3.3.1V
उणादयो बहुलम् ॥ ३१६९ ॥
uṇādayo bahulam
Siddhānta-kaumudī
एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
SK 3170 · A 3.3.2V
भूतेऽपि दृश्यन्ते ॥ ३१७० ॥
bhūte'pi dṛśyante
Tattvabodhinī
NSP p. 577—भूतेऽपि दृश्यन्ते । नन्वेवं वर्तमानग्रहणं च ‘उणादयो वहुलम्’ इत्यत्र नानुवर्त्यताम् । एतच्चोत्तरसूत्रं च त्यज्यताम् । अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः । वाहुल्येन वर्तमाने भवन्ति भूतभविष्यतोस्तु क्वचिदेवेति विवेकप्रदर्शनार्थमिति
SK 3171 · A 3.3.3भविष्यदधिकारः
भविष्यति गम्यादयः ॥ ३१७१ ॥
bhaviṣyati gamyādayaḥ
Tattvabodhinī
NSP p. 577—भविष्यति गम्यादयः । गमिष्यतीति गमी ग्रामम् । आगमिष्यतीति आगामी । गमेरिनिः ‘आङि णित्’ इत्याङ्पूर्वस्य तु णित्त्वादुपधावृद्धिः ॥—भीमः । भीष्म इति । ‘भियो हेतुभये पुक्’ इति मप्रत्ययसंनियोगेन वैकल्पिकः पुक् । प्रस्कन्दत्यस्मादिति प्रस्कन्दनः । अपादाने ल्युट् । प्ररक्षत्यस्मादिति प्ररक्षः पचाद्यच् । मुह्यत्यस्मादिति मूर्खः । ‘मुहेः खो मूर्चे’ । स्खलत्यस्मादिति खलतिर्निष्केशशिरा इति प्रागुक्तम् ॥—ताभ्यामिति । ताभ्यामित्यनुक्तौ तु संनिहितापादानस्यैव परामर्शादपादानादन्यत्रेत्यर्थः स्यादिति भावः ॥—ततोऽसाविति । तनोतेः कर्तरि क्तः । ‘अनुदात्तोपदेश—’ इत्यनुनासिकलोपः । असौ ततो भवति विस्तृतो भवतीत्यर्थे तनोतेस्तुन् ॥—वृत्तमिति । गमनादिना निष्पन्नं यत्तद्वत्मं । वृत्तेः कर्मणि मनिन् । ‘अयनं वत्मीमार्गं—’ इत्यमरः
SK 3172 · A 3.4.73V
दाशगोघ्नौ सम्प्रदाने ॥ ३१७२ ॥
dāśagoghnau sampradāne
Siddhānta-kaumudī
एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥
SK 3173 · A 3.4.74V
भीमादयोऽपादाने ॥ ३१७३ ॥
bhīmādayo'pādāne
Siddhānta-kaumudī
भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥
SK 3174 · A 3.4.75V
ताभ्यामन्यत्रोणादयः ॥ ३१७४ ॥
tābhyāmanyatroṇādayaḥ
Siddhānta-kaumudī
सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥
SK 3175 · A 3.3.10V
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३१७५ ॥
tumunṇvulau kriyāyāṃ kriyārthāyām
Siddhānta-kaumudī
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥
Tattvabodhinī
NSP p. 577—तुमुन्ण्वुलौ—। क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था तस्याम् । अत्रेदं बोध्यम् । तुमुन्ण्वुलोः कृत्त्वाविशेषेऽपि ‘अव्ययकृतो भाव’ इति वचनाद्भावे तुमुन् । ण्वुल् तु कर्तरि क्रियायामिति निर्देशात्तद्वाचकस्य यातीत्यादेः ‘तत्रोपपदं सप्तमीस्थम्’ इत्युपपदत्वमिति ॥—कृष्णं द्रष्टुमिति । कृष्णकर्मकं यद्भविष्यदर्शनं तत्प्रयोजकं यानमित्यर्थः ॥—कृष्णं दर्शक इति । कृष्णकर्मकभविष्यदर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः । क्रियायां किम् । भिक्षिष्ये इत्यस्य जटाः । इह भिक्षार्था जटाः ताश्च द्रव्यं न तु क्रिया, भिक्षितुं जटा इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः ॥ क्रियार्थायां किम् । धावतस्ते पतिष्यति दण्डः । अस्त्यत्व धावत इति क्रिया न त्वसौ दण्डपतनार्था । धावनं तु दण्डपतने हेतुर्भवति न तद्देश्यमिति दिक्
SK 3176 · A 3.3.158V
समानकर्तृकेषु तुमुन् ॥ ३१७६ ॥
samānakartṛkeṣu tumun
Siddhānta-kaumudī
अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥
Tattvabodhinī
NSP p. 577–578—समानकर्तृकेषु—॥—अक्रियार्थेति । भोक्तुमिच्छतीत्यत्व भोजनविषयिणीच्छेति प्रतीयते न तु भोजनार्थेच्छेति । अतः पूर्वेणात्राप्राप्तिरिति भावः । सूत्रस्थसमानशब्द एकतावचन इत्याह—एककर्तृकेष्विति । एकेति किम् । पुत्रस्य पठनमिच्छतीति । पुत्रस्येति कर्तरि षष्ठी । पुत्रकर्तृकं पठनमित्यर्थः । इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छतीति प्रयोगः स्यात् । देवदत्तं भुञ्जानमिच्छतीति काशिका । अत्र काशिकायामुक्तम् । इच्छन् करोतीत्यत्रानभिधानान्नेति । अत्र निष्कर्षमाहुः । उक्तविषये इच्छन्कर्तुमिति प्रयोगाभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ तु ‘तुमन्पृथुलौ-’ इति सूत्रेण स्यादिति । तच्चिन्त्यम् । करोतीत्यर्थं तुमनः प्राप्तेरेवाभावात् । तस्य भावार्थकलात् । इह च लटा कर्तृप्रतीतेः । किञ्चेच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तुमिच्छन्निति प्रयोगस्य सकलसंमतलात् । पदानुपूर्व्याश्चाहर पात्रं पात्रमाहरेत्यादाविव स्वेच्छायत्तलात् । विस्तरस्त्विह मनोरमादावनुसन्धेयः ॥—वृष्टीति । वश कान्तौ कान्तिरिच्छेति वशधातुरपीच्छार्थकः
SK 3177 · A 3.4.65V
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ३१७७ ॥
śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun
Siddhānta-kaumudī
एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥
Tattvabodhinī
NSP p. 578—शकधृष-। अयमप्यक्रियार्थोपपदार्थ आरम्भः । भोक्तुं शक्नोति धृष्णोति जानाति इत्यत्र हि भुञ्ज्यर्थो विषयतया संवध्यते नैपुण्यं च गम्यते । ग्लायति भोक्तुमित्यर्थं भोजनविषयिण्यशक्तिर्गम्यते । भोक्तुं घटते इत्यत्र तु भोक्तुमर्हतीति योग्यता । आरभते भोक्तुमित्यत्र भोक्तुं प्रक्रमते उत्सहते इति भुजेराद्यावस्था । लभते इत्यत्राप्रत्याख्यानमस्ति भोक्तुमित्यादौ तु संभवमात्रम्
SK 3178 · A 3.4.66V
पर्याप्तिवचनेष्वलमर्थेषु ॥ ३१७८ ॥
paryāptivacaneṣvalamartheṣu
Siddhānta-kaumudī
पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥
Tattvabodhinī
alignment inferredNSP p. 578—पर्याप्तो भोक्तुमिति । भोक्तुं समर्थं इत्यर्थः ॥—उपलक्षणार्थमिति । तस्य फलमाह—अनेहा इति । ‘कालो दिष्टोऽप्यनेहापि’ इत्यमरः ॥—तेनेह नेति । अनुवादेन न भवतीत्यर्थः ॥—यागायेति । यष्टुमित्यर्थः । ‘तुमर्थाच्च भाववचनात्’ इति चतुर्थी ॥—पृथुलोऽपवाद इति । अव्ययकृतो भाव इति भावे विहितलात्तुमनः प्राप्तिरेव नास्तीति भावः
SK 3179 · A 3.3.167V
कालसमयवेलासु तुमुन् ॥ ३१७९ ॥
kālasamayavelāsu tumun
Siddhānta-kaumudī
पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥
SK 3180 · A 3.3.11V
भाववचनाश्च ॥ ३१८० ॥
bhāvavacanāśca
Siddhānta-kaumudī
भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥
SK 3181 · A 3.3.12V
अण् कर्मणि च ॥ ३१८१ ॥
aṇ karmaṇi ca
Siddhānta-kaumudī
कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥
SK 3182 · A 3.3.16V
पदरुजविशस्पृशो घञ् ॥ ३१८२ ॥
padarujaviśaspṛśo ghañ
Siddhānta-kaumudī
भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥
Tattvabodhinī
NSP p. 578—पदरुज-॥पद्यतेऽसाविति । करणस्य कर्तृविवक्षात्र वोध्या । पद्यते गच्छति येनेति फलितोऽर्थः
SK 3183 · A 3.3.17V
सृ स्थिरे ॥ ३१८३ ॥
sṛ sthire
Siddhānta-kaumudī
सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः ।
vārttikaव्याधिमत्स्यबलेषु चेति वाच्यम्
(वार्तिकम्) ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥
Tattvabodhinī
NSP p. 578—सृष्टिरे । सर्तेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं स्थिरग्रहणं प्रत्ययार्थस्य कर्तृविशेषणं न तूपपदमिति ध्वनयन्नाह—स्थिरे कर्तरीति । अर्धचादिषु सारशब्दपाठोऽत्र मानम् ॥—व्याधीत्यादि । अस्थिरार्थमिदं वचनम् । तेन विसारो मत्स्य इत्यत्र विविधं सरतीत्यर्थः संगच्छते ॥—अतीसार इति । ‘उपसर्गस्य घनि’ इति दीर्घः ॥—सारो वले इति । अत्रापि सृष्टातुरन्तर्भावितण्यर्थः । सारयति चेष्टयतीत्यर्थानुरोधात् । वलवानेव हि चेष्टते
SK 3184 · A 3.3.18भावाधिकारः
भावे ॥ ३१८४ ॥
bhāve
Siddhānta-kaumudī
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥
Tattvabodhinī
alignment inferredNSP p. 578–579—सिद्धावस्थापन्न इति । पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः ॥—आचमेति । ‘नोदात्त-’ इति सूत्रे अनाचमेरित्युक्तलादिति भावः । तत्रैव सूत्रेऽनाचमिकमिवमीनामिति वार्तिकाद्बुद्धिनिषेधो नेत्याहुः ॥—कामः । वाम इति ॥—अपाणिनीयमिति । श्रमेरुदात्तोपदेशलात् घनि वृद्धेर्दुर्लभलात् । यदि तु ‘धुर्यान्विश्रामयन्’ इत्यादिवणिचि वृद्धिमाश्रित्य णिजन्तादेरन् क्रियते तदा रूपं सिध्यति । न च णिच्यपि वृद्धिनिषेधः शङ्क्यः । ‘नोदात्त-’ इत्यत्र कृतीत्यनुवृत्त्या णिचि निषेधाभावात् । न चैवमपि मितां हस्वः स्यादिति शङ्क्यम् । वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणेन हस्वाभावसिद्धेः । परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः । वस्तुतस्तु निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिति विवक्षायां तु न दोष इत्यवधेयम् । एवं च ‘रोगी चिरप्रवासी परान्नभोजी परान्नस्यश्यायी यज्जीवि सि । नान्मर्थं विश्रामः । इत्यादिकविप्रयोगाः साधव एवेति बोध्यम्
SK 3185 · A 6.1.47V
स्फुरतिस्फुलत्योर्घञि ॥ ३१८५ ॥
sphuratisphulatyorghañi
Siddhānta-kaumudī
अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-SK 1044 इति दीर्घः । परीहारः । इकः काशे SK 1045 काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश SK 2763 इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥
SK 3186 · A 3.3.19अकर्तरि च कारके संज्ञायाम् इत्यधिकारः
अकर्तरि च कारके संज्ञायाम् ॥ ३१८६ ॥
akartari ca kārake saṃjñāyām
Siddhānta-kaumudī
कर्तृभिन्ने कारके घञ् स्यात् ॥
SK 3187 · A 6.4.27V
घञि च भावकरणयोः ॥ ३१८७ ॥
ghañi ca bhāvakaraṇayoḥ
Siddhānta-kaumudī
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-SK 3188 इति कृत्यल्युटो बहुलं-SK 2841 इति यावत् द्वयमप्यनुवर्तते ॥
SK 3188 · A 6.4.28V
स्यदो जवे ॥ ३१८८ ॥
syado jave
Siddhānta-kaumudī
स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥
SK 3189 · A 6.4.29V
अवोदैधौद्मप्रश्रथहिमश्रथाः ॥ ३१८९ ॥
avodaidhaudmapraśrathahimaśrathāḥ
Siddhānta-kaumudī
अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥
Tattvabodhinī
NSP p. 579—अवोदै—॥ अवोद इति । उन्दी क्लेदनेऽवपूर्वः । घञि नलोपो निपालते ॥—एथ इति । इन्धेर्घञि नलोपो गुणश्च निपालते । ‘न धातुलोप—’ इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम् ॥—ओच्च इति । उन्दरौणादिके मन्प्रलये नलोपो गुणश्चात्रापि निपालते ॥—अन्धेरिति । प्रपूर्वस्य हिमपूर्वस्य च घञि निपालते इति बोध्यम् ॥—प्रायिकमिति । सर्वात्मना संज्ञाग्रहणलागे कृतः कट इत्यत्र कारः कट इति स्यादिति भावः । भाष्ये लनभिधानमाश्रित्य प्रलाख्यातम्
SK 3190 · A 3.3.20V
परिमाणाख्यायां सर्वेभ्यः ॥ ३१९० ॥
parimāṇākhyāyāṃ sarvebhyaḥ
Siddhānta-kaumudī
घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ ।
vārttikaदारजारौ कर्तरि णिलुक्च
(वार्तिकम्) ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥
Tattvabodhinī
NSP p. 579—परिमाणाख्यायाम्—। सर्वेभ्यो धातुभ्यः । परिमाणं परिच्छित्तिः । आख्यान-माख्या उक्तिः । परिच्छित्तेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छित्तिरिति चेत्प्रलयार्थस्येत्युच्यते । आख्याग्रहणं रूढि-निरासार्थं, तेन परिमाणग्रहणेन संख्यात्र गृह्यते । सर्वेभ्यः किम् । अन्यथा पुरस्तादपवादन्यायेनाचमेव घञ् वाधेत न लपम् ॥—तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायः । अत्र राश्येकत्वेन समुदायिनां परिच्छित्ति-रर्थाद्रम्यते । ‘एरच्’ इत्यचि प्राप्ते घञ् । निष्पूयते शोध्यते तुपाद्यपनयनेन यस्तण्डुलादिः स निष्पावः । ‘ऋदोरप्’ इत्यपि प्राप्ते घञ् । शूर्पणेति करणे तृतीयान्तस्य ‘कर्तृकरणे कृता बहुलम्’ इति समासः । अत्र शूर्पसंख्यया तण्डुलादेरपि परिच्छित्तिः । शूर्पद्वित्वं तु आर्थिकं न तु शाब्दं, निष्पावगतद्वित्वं तु शाब्दम् । यद्यप्यत्र ‘निरभ्योः पून्वोः’ इति घञ् लभ्यते तथापि सर्वग्रहणबलादनेनापि भवितुमर्हतीति भावः । अप्रलयस्य मुख्योदाहरणमाह—द्वौ काराविति । कृ विक्षेपे । कर्मणि घञ् । शूर्पादिना विक्षिप्तो धान्यादिराशिः कारः । इह प्रकृत्याश्रय एवापवादो नलर्थाश्रयः । सर्वेभ्य इति पञ्चमीनिर्देशेन तथैवावगमात् । तेनायं प्रकृत्याश्रयो घञ् क्तिनोऽपवादो न भवति । एका तिलोच्छ्रितिः । उत्पूर्वकाच्छ्रयतेः कर्मणि भावे वा क्तिन् । ऊर्ध्वाकृतः राशीकृत इत्यर्थः । तदेतत्सूचयितुमुक्तम् अजपोरपवाद इति । तयोरपि प्रकृत्या-श्रयबलादपवादापवादयोः समानविषयौचित्यात् । स्त्रियां क्तिन् लर्थाश्रय इति दिक् ॥—दारजाराविति । अकर्तरि कारके इत्यधिकारात् ‘ऋदोरप्’ इत्यस्य घञपवादलाच्च कर्तरि घञर्थमिदं वचनम् ॥—णिलुकचेति । चात् घञ् । लोपे हि सति घञाश्रया वृद्धिन् स्याणिलोपस्य स्थानिवद्भावेन व्यवधानात् । न च णिज्जिमित्तैव वृद्धिरस्त्विति वाच्यम् । जारशब्दे ‘मितां हस्वः’ इति हस्वापत्तेः । ‘जनीजृष्—’ इति जॄधातोर्णौ मित्त्वात् । लुकि तु सति तस्य परनिमित्तलाभावेन ‘किल्लुपधा—’ इति क्वौ लुप्तस्य निषेधेन वा स्थानिवत्त्वाभावाज्जार इति रूपं सिध्यतीति भावः । एतेन दीर्यते यैस्ते दाराः जीर्यतेऽनेनेति जाराः इत्यण्यन्ताभ्यामेव करणे घञस्तु किमनेन वचनेनेति केषांचिदुक्तिः परास्ता । ‘ऋदोरप्’ इत्यपवादविषये उत्सर्गस्य घञो दुर्लभत्वात् । क्वयधिकाराद्ध्वं वासरूपविधेरनङ्गीकारादपवादोऽप्यच् करणाधिकरणयोरिति ल्युटा वाधादिह दुर्लभ इत्यन्यदेतत् ॥—उपेत्येति । गुरुसमीपमेत्येत्यर्थः ॥—अपादान इति । पुरस्तादपवादन्यायेन इद्ध्वेत्यस्याच्च एवापवादलात्स्त्रियां तु क्तिन् स्यादिति तद्वाधनायायमारम्भः । घञनुक्रमणमजपोर्विषय इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियांग्रहणम्
SK 3191 · A 3.3.21V
इङश्च ॥ ३१९१ ॥
iṅaśca
Siddhānta-kaumudī
घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥
vārttikaअपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष्
(वार्तिकम्) ॥ उपाध्याया । उपाध्यायी ॥
vārttikaशॄ वायुवर्णनिवृतेषु
(वार्तिकम्) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥
Tattvabodhinī
alignment inferredNSP p. 579–580—उपाध्यायेति । या स्वयमध्यापयति तस्यामिदं रूपद्वयम् । पुंयोगे तु क्षीषेवाऽनुगा-गमश्च पाक्षिक इत्युक्तम् ॥—करणे क्त इति । वृष् वरण इत्यस्यादित्यर्थः ॥—नीशार इति । ‘उपसर्गस्य घञि—’ इति दीर्घः । ननु ‘प्रदक्षिणप्रसव्यगामिनां शाराणाम्’ इति कथं प्रयोगः । वायुवर्णेत्यर्थपरिगणनादिति चेत् । अत्राहुः । अत एव वार्तिकप्रयोगादक्षेण्वपि शृणातेर्धञ्। — ख इति। ‘ऋदोरप्’ इत्यप्। — राज्ञो नय इति। णीञ् प्रापणे इत्यस्मादचो यत्
SK 3192 · A 3.3.22V
उपसर्गे रुवः ॥ ३१९२ ॥
upasarge ruvaḥ
Siddhānta-kaumudī
घञ् । संरावः । उपसर्गे किम् । रवः ॥
SK 3193 · A 8.3.86V
अभिनिसः स्तनः शब्दसंज्ञायाम् ॥ ३१९३ ॥
abhinisaḥ stanaḥ śabdasaṃjñāyām
Siddhānta-kaumudī
अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥
SK 3194 · A 3.3.23V
समि युद्रुदुवः ॥ ३१९४ ॥
sami yudruduvaḥ
Siddhānta-kaumudī
संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥
SK 3195 · A 3.3.24V
श्रिणीभुवोऽनुपसर्गे ॥ ३१९५ ॥
śriṇībhuvo'nupasarge
Siddhānta-kaumudī
श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥
SK 3196 · A 3.3.25V
वौ क्षुश्रुवः ॥ ३१९६ ॥
vau kṣuśruvaḥ
Siddhānta-kaumudī
विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥
SK 3197 · A 3.3.26V
अवोदोर्नियः ॥ ३१९७ ॥
avodorniyaḥ
Siddhānta-kaumudī
अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥
SK 3198 · A 3.3.27V
प्रे द्रुस्तुस्रुवः ॥ ३१९८ ॥
pre drustusruvaḥ
Siddhānta-kaumudī
प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः ॥
SK 3199 · A 3.3.28V
निरभ्योः पूल्वोः ॥ ३१९९ ॥
nirabhyoḥ pūlvoḥ
Siddhānta-kaumudī
निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् । पवः । लवः ॥
SK 3200 · A 3.3.29V
उन्न्योर्ग्रः ॥ ३२०० ॥
unnyorgraḥ
Siddhānta-kaumudī
उद्गारः । निगारः । उन्योः किम् । गरः ॥
SK 3201 · A 3.3.30V
कॄ धान्ये ॥ ३२०१ ॥
kṝ dhānye
Siddhānta-kaumudī
कॄ इत्यस्माद्धान्यविषयादुन्न्योर्घञ् स्यात् । उत्कारो निकारो धान्यस्य । विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥
SK 3202 · A 3.3.31V
यज्ञे समि स्तुवः ॥ ३२०२ ॥
yajñe sami stuvaḥ
Siddhānta-kaumudī
समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥
Tattvabodhinī
NSP p. 580— यज्ञे समि-। अधिकरणे ल्युटोऽपवादोयं घञ्।
SK 3203 · A 3.3.32V
प्रे स्त्रोऽयज्ञे ॥ ३२०३ ॥
pre stro'yajñe
Siddhānta-kaumudī
अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥
SK 3204 · A 3.3.33V
प्रथने वावशब्दे ॥ ३२०४ ॥
prathane vāvaśabde
Siddhānta-kaumudī
विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥
SK 3205 · A 3.3.34V
छन्दोनाम्नि च ॥ ३२०५ ॥
chandonāmni ca
Siddhānta-kaumudī
स्त्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥
Tattvabodhinī
NSP p. 580— छन्दो-। शब्दविषयत्वात्पूर्वेणाग्राते वचनम्। केचित्तु प्रस्तारपङ्क्तिरेत्यादिप्रयोगानुरोधेनात्र वाविति नानुवर्तयन्ति
SK 3206 · A 8.3.94V
छन्दोनाम्नि च ॥ ३२०६ ॥
chandonāmni ca
Siddhānta-kaumudī
विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥
SK 3207 · A 3.3.35V
उदि ग्रहः ॥ ३२०७ ॥
udi grahaḥ
Tattvabodhinī
NSP p. 580— उदि ग्रहः । भावादौ घञ् स्यात्। ‘ग्रहदृढ-’ इति प्राप्तस्यापोऽपवादः ॥ — परिच्योः-। अक्षादिभिः क्रीडनं धूतम् । यथाप्राप्तकरणमश्रेषः ॥ — परावलु-। अत्र व्याचख्युः । द्विः परिग्रहणमिह व्यर्थः। सकृदेव कर्तुं शक्यम् । तथा हि । परौ नियो धूते, इणोनुपात्यये, नावभ्रेषे । इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र लु परावित्यनुवर्तनाच्छेष्टं सिद्ध्यतीति भावः । ननु पूर्वमूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः । तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह व्यर्थमिति चेदत्राहुः । पर्यायग्रहणं पुनर्विधानार्थं तेनात्राभिविधिविवक्षायां परमपि ‘अभिविधौ भाव इनुण्’ इति इनुणं वाधित्वाऽयमेव घञ् भवतीति ॥ — आकायमिति । आचीयन्तेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निस्थलविशेषं चिन्वीत चयनेन निष्पादयेदिति श्रुत्यर्थः
SK 3208 · A 3.3.36V
समि मुष्टौ ॥ ३२०८ ॥
sami muṣṭau
Siddhānta-kaumudī
मल्लस्य सङ्ग्राहः । मुष्टौ किम् । द्रव्यस्य सङ्ग्रहः ॥
SK 3209 · A 3.3.37V
परिन्योर्नीणोर्द्यूताभ्रेषयोः ॥ ३२०९ ॥
parinyornīṇordyūtābhreṣayoḥ
Siddhānta-kaumudī
परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥
SK 3210 · A 3.3.38V
परावनुपात्यय इणः ॥ ३२१० ॥
parāvanupātyaya iṇaḥ
Siddhānta-kaumudī
क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥
SK 3211 · A 3.3.39V
व्युपयोः शेतेः पर्याये ॥ ३२११ ॥
vyupayoḥ śeteḥ paryāye
Siddhānta-kaumudī
तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥
SK 3212 · A 3.3.40V
हस्तादाने चेरस्तेये ॥ ३२१२ ॥
hastādāne cerasteye
Siddhānta-kaumudī
हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥
SK 3213 · A 3.3.41V
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ३२१३ ॥
nivāsacitiśarīropasamādhāneṣvādeśca kaḥ
Siddhānta-kaumudī
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥
SK 3214 · A 3.3.42V
संघे चानौत्तराधर्ये ॥ ३२१४ ॥
saṃghe cānauttarādharye
Siddhānta-kaumudī
चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥
Tattvabodhinī
NSP p. 580— सज्जे चानौत्तराधयँ । उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम् ॥ — सूकरेति । स्तनपानार्थमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् । यदा लु भिक्षुवत्पृथक्पृथगोवावतिष्ठन्ते तदा भवत्येव घञिहापि
SK 3215 · A 3.3.43V
कर्मव्यतिहारे णच् स्त्रियाम् ॥ ३२१५ ॥
karmavyatihāre ṇac striyām
Tattvabodhinī
NSP p. 580–581— कर्मव्यतिहारे णच्-। कर्मव्यतिहारः क्रियाव्यतिहारः । परस्परकरमस्मिति By शब्दजगत् इत्यत्र अर्थमभिनुष्ठातीति स्पृश्यः ॥ — भावे णजिति । कर्तृवर्जिते कारके न भवत्यनभिधानादित्याहुः । भावादाविति प्राचोक्तं यत्तदुपेक्ष्यमाकरविरोधात्
SK 3216 · A 5.4.14V
णचः स्त्रियामञ् ॥ ३२१६ ॥
ṇacaḥ striyāmañ
Tattvabodhinī
NSP p. 581—णचः स्त्रि—अनेन णजिति चकारोऽत्र विशेषणार्थ इति ध्वनितम् । स्त्रियां किम् । व्यतिपाको वर्तते ॥—ऐच् नेति । ‘न व्याभ्याम्—इति प्राप्तस्य निषेधेनादिवृद्धिरेव । णचस्तद्धितलाभावेऽप्यवस्तद्धितलादिति भावः । कृद्धहणपरिभाषया सोपसर्गधातोर्णजन्तलात्ततोऽवि तन्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति—व्यावक्रोशीति । कुश आह्वाने, हसे हसने । स्यादेतत् । स्त्रियां किञ्चिति प्रकरण एवायं णजिवधेयः । एवं च स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम् । स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तेः । इष्यते तु व्यावक्रुष्टिरिति स्त्रियां किञ्चिति अपवादविषये क्वचिदिष्यते । व्यावचोरी । इह ‘ण्यासश्रन्थ—’ इति युच्छाप्तः । व्यात्युक्षी । अत्र ‘गुरोश्च हलः’ इत्यकारप्रत्ययः प्राप्तः । क्वचिदकार एवेष्यते न तु णच् । व्यतीक्षा, व्यतीहा । सैषा व्यवस्था न्यायतो दुर्लभापि वाहुलकात्स्वीकार्या
SK 3217 · A 7.3.6V
न कर्मव्यतिहारे ॥ ३२१७ ॥
na karmavyatihāre
Siddhānta-kaumudī
अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥
SK 3218 · A 3.3.44V
अभिविधौ भाव इनुण् ॥ ३२१८ ॥
abhividhau bhāva inuṇ
Tattvabodhinī
NSP p. 581—अभिविधौ— अभिविधौ किम् । संरावः । वासरूपेण घञ् क्तश्च न भवति पुनर्भावग्रहणात् । नच कर्तृभिन्नकारकनिवृत्तये भावग्रहणमिति वाच्यम् । पूर्वसूत्र इव शक्तिस्वाभाव्यादेवेनुणोऽप्रवृत्तेः । ल्युटा तु समावेश इष्यते । तच्च वाहुलकाल्लभ्यत इत्याकरः
SK 3219 · A 5.4.15V
अणिनुणः ॥ ३२१९ ॥
aṇinuṇaḥ
Siddhānta-kaumudī
इनण्यनपत्ये SK 1245 । सांराविणं वर्तते ॥
Tattvabodhinī
NSP p. 581—अणिनुणः । अत एवेनुणो णानुवन्धो विशेषणार्थ इति ध्वनितम् ॥—सांराविणमिति । समन्ताच्छब्द इत्यर्थः । संशब्दोऽभिविधियोतकः । पूर्ववत्सगतिकादण् । अणस्तद्धितलादादिवृद्धिः । ‘इनण्यनपत्ये’ इत्यनपत्याणि इनः प्रकृतिभावात् ‘नस्तद्धिते’ इति टिलोपेन न निवृत्तिः । स्वभावतश्चेदमणिनुणन्तं नपुंसकम्
SK 3220 · A 3.3.45V
आक्रोशेऽवन्योर्ग्रहः ॥ ३२२० ॥
ākrośe'vanyorgrahaḥ
Siddhānta-kaumudī
अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥
Tattvabodhinī
NSP p. 581—आक्रोशे— ‘प्रहवृद्ध—’ इत्यपि प्राप्तेऽयमारम्भः ॥—अवग्रहः पदस्येति । छेदविशेष इत्यर्थः । निग्रहो निरोधः
SK 3221 · A 3.3.46V
प्रे लिप्सायाम् ॥ ३२२१ ॥
pre lipsāyām
Siddhānta-kaumudī
पात्रप्रग्राहेण चरति भिक्षुः ॥
Tattvabodhinī
NSP p. 581—प्रे लिप्सायाम् । लिप्सायां किम् । देवदत्तस्य प्रग्रहः । प्रकृष्टोऽभिनिवेश इत्यर्थः ॥—पात्रप्रग्राहेणेति । भिक्षापात्रोपादानेन, पात्रं गृहीत्वेति यावत्
SK 3222 · A 3.3.47V
परौ यज्ञे ॥ ३२२२ ॥
parau yajñe
Siddhānta-kaumudī
उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥
SK 3223 · A 3.3.48V
नौ वृ धान्ये ॥ ३२२३ ॥
nau vṛ dhānye
Siddhānta-kaumudī
वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा गौरितिवत् ॥
Tattvabodhinī
NSP p. 581—नौ वृ—नौ उपपदे वृन्नो भावादौ घञ् स्यात् ॥—निवरा कन्येति । ‘प्रहवृद्ध—’ इत्यादिना कर्मण्यप् । ननु स्त्रीलविशिष्टे कर्मणि परत्वात्, किना भाव्यम् ‘अजन्म्यां स्त्रीखलनाः’ इत्युक्तेरत आह—क्तिन्विषयेऽपीति । एवं च प्रायेण भवार्थ एव घञजवन्ताः पुंसीति द्रष्टव्यम्
SK 3224 · A 3.3.49V
उदि श्रयतियौतिपूद्रुवः ॥ ३२२४ ॥
udi śrayatiyautipūdruvaḥ
Siddhānta-kaumudī
उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्रया इति । बाहुलकात् ॥
SK 3225 · A 3.3.50V
विभाषाऽऽङि रुप्लुवोः ॥ ३२२५ ॥
vibhāṣā''ṅi rupluvoḥ
Siddhānta-kaumudī
आरावः । आरवः । आप्लावः । आप्लवः ॥
SK 3226 · A 3.3.51V
अवे ग्रहो वर्षप्रतिबन्धे ॥ ३२२६ ॥
ave graho varṣapratibandhe
Siddhānta-kaumudī
विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥
SK 3227 · A 3.3.52V
प्रे वणिजाम् ॥ ३२२७ ॥
pre vaṇijām
Siddhānta-kaumudī
प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥
SK 3228 · A 3.3.53V
रश्मौ च ॥ ३२२८ ॥
raśmau ca
Tattvabodhinī
NSP p. 581–582—रदमौ च । रथादियुक्तानामश्वानां संयमनार्था रज्जुः रद्भिः । तस्यामभिधेयायां प्रे उपपदे ग्रहेर्घञ्चा स्याद्भावादौ । इह द्विःकृत्वो ग्रहिरुपात्तः सकृदेव तु वक्तुं शक्यः । तथाहि उदि ग्रहः, समि मुष्टौ, आक्रोशे वन्योः, प्रे लिप्सायाम्, परौ यज्ञे, अवेर्वर्षप्रतिवन्धे, विभाषा प्रेवणिजाम्, इत्यादि ‘परौ भुवोऽवज्ञाने’ इत्यस्यानन्तरम् ‘आङि रहुवोः’ इत्यस्तु तथा तु न कृतमित्येव ॥—वृणोतेः—॥ प्रावार इति । ‘उपसर्गस्य घञ्यमनुष्ये वहुलम्’ इत्युपसर्गस्य दीर्घः । आच्छादने किम्, प्रवरो गौः । प्रशस्त इत्यर्थः ॥— परिभावः । ‘अनादरः परिभवः परिभावस्तिरस्क्रिया’ इत्यमरः ॥ परलाद्धि काल्युटौ प्राप्तौ । तथा च पूर्वविप्रतिषेधोऽयं फलितः । एवं च वासरूपन्यायोऽत्र न प्रवर्तते अनपवादलादिति भावः ॥—वर्षमिति । वृषभो वर्षणादिति भाष्यप्रयोगान्तु ल्युडपि वर्षणम्—ऋदोरप्। ऋच उच्च तयोः समाहारे सौत्रं पुंस्त्वम् । ऋदोरित्ययं न तकारः किं तर्हि दकारः । ‘निरभ्योः पूल्वोः’ इत्यपवादतया घञ्चिधानाज्ज्ञापकादीर्घान्तादप्युदाहरति—लवः । पव इति ॥—अचोरपवाद इति । निश्चय इत्यत्राचः प्राप्तिरन्यत्र घञ्च इति विवेकः । हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञ्जुदाहतः ॥—वशिरण्योरिति । घञ्चि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रणः संप्राप्तः ॥—व्यद्यते विशेषेण मक्ष्यते इति विघसः वैश्वदेवशिष्टमन्नम् । घासश्चतुष्पदां मक्ष्यम् । ‘शब्दं वालतृणं घासः’ इत्यमरः । उपजापो मन्त्रमेदः । ‘शब्दे निनादनिनदध्वनिध्वानरवसनाः । स्वानः’ इत्यमरः ॥—कणो— ‘निक्काणो निक्कणः क्वाणः कणः कणनमित्यपि । वीणायाः कणिते प्रादेः प्रक्वाणप्रक्वादयः’ इत्यमरः ॥—मदो— अनुपसर्गे युष्युपपदे नित्यमप् स्याम्नां वादौ
SK 3229 · A 3.3.54V
वृणोतेराच्छादने ॥ ३२२९ ॥
vṛṇoterācchādane
Siddhānta-kaumudī
विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥
SK 3230 · A 3.3.55V
परौ भुवोऽवज्ञाने ॥ ३२३० ॥
parau bhuvo'vajñāne
Siddhānta-kaumudī
परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥
SK 3231 · A 3.3.56V
एरच् ॥ ३२३१ ॥
erac
Siddhānta-kaumudī
vārttikaभयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम्
(वार्तिकम्) ॥ भयम् । वर्षम् ॥
SK 3232 · A 3.3.57V
ॠदोरप् ॥ ३२३२ ॥
ṝdorap
Siddhānta-kaumudī
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥
SK 3233 · A 8.3.93V
वृक्षासनयोर्विष्टरः ॥ ३२३३ ॥
vṛkṣāsanayorviṣṭaraḥ
Siddhānta-kaumudī
अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षे किम् । वाक्यस्य विस्तरः ॥
SK 3234 · A 3.3.58V
ग्रहवृदृनिश्चिगमश्च ॥ ३२३४ ॥
grahavṛdṛniścigamaśca
Siddhānta-kaumudī
अप् स्यात् । घञचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥
vārttikaवशिरण्योरुपसङ्ख्यानम्
(वार्तिकम्) ॥ वशः । रणः ॥
(वार्तिकम्) ॥ प्रस्थः । विघ्नः ॥
vārttikaद्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्
(वार्तिकम्) ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥
SK 3235 · A 3.3.59V
उपसर्गेऽदः ॥ ३२३५ ॥
upasarge'daḥ
SK 3236 · A 2.4.38V
घञपोश्च ॥ ३२३६ ॥
ghañapośca
Siddhānta-kaumudī
अदेर्घसॢ स्यात् घञि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥
SK 3237 · A 3.3.60V
नौ ण च ॥ ३२३७ ॥
nau ṇa ca
Siddhānta-kaumudī
नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥
SK 3238 · A 3.3.61V
व्यधजपोरनुपसर्गे ॥ ३२३८ ॥
vyadhajaporanupasarge
Siddhānta-kaumudī
अप् स्यात् । व्यधः । जपः । उपसर्गे तु । आव्याधः । उपजापः ॥
SK 3239 · A 3.3.62V
स्वनहसोर्वा ॥ ३२३९ ॥
svanahasorvā
Siddhānta-kaumudī
अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥
SK 3240 · A 3.3.63V
यमः समुपनिविषु च ॥ ३२४० ॥
yamaḥ samupaniviṣu ca
Siddhānta-kaumudī
एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥
SK 3241 · A 3.3.64V
नौ गदनदपठस्वनः ॥ ३२४१ ॥
nau gadanadapaṭhasvanaḥ
Siddhānta-kaumudī
अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निस्वनः । निस्वानः ॥
SK 3242 · A 3.3.65V
क्वणो वीणायां च ॥ ३२४२ ॥
kvaṇo vīṇāyāṃ ca
Siddhānta-kaumudī
नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥
SK 3243 · A 3.3.66V
नित्यं पणः परिमाणे ॥ ३२४३ ॥
nityaṃ paṇaḥ parimāṇe
Siddhānta-kaumudī
अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥
SK 3244 · A 3.3.67V
मदोऽनुपसर्गे ॥ ३२४४ ॥
mado'nupasarge
Siddhānta-kaumudī
धनमदः । उपसर्गे तु । उन्मादः ॥
SK 3245 · A 3.3.68V
प्रमदसम्मदौ हर्षे ॥ ३२४५ ॥
pramadasammadau harṣe
Siddhānta-kaumudī
हर्षे किम् । प्रमादः । संमादः ॥
Tattvabodhinī
NSP p. 582—प्रमद— प्रसंभ्यां हर्षे इति तु नोक्तम् प्रसंमदः । संप्रमद इति हर्षे माभूदिति
SK 3246 · A 3.3.69V
समुदोरजः पशुषु ॥ ३२४६ ॥
samudorajaḥ paśuṣu
Siddhānta-kaumudī
संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥
SK 3247 · A 3.3.70V
अक्षेषु ग्लहः ॥ ३२४७ ॥
akṣeṣu glahaḥ
Siddhānta-kaumudī
अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥
SK 3248 · A 3.3.71V
प्रजने सर्तेः ॥ ३२४८ ॥
prajane sarteḥ
Siddhānta-kaumudī
प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-SK 3296 इति घः ॥
Tattvabodhinī
NSP p. 582—प्रजने सर्तेः । प्रजननं प्रजनः भावे घञ्, ‘जनिवध्योः—’ इति दृढिनिषेधः । प्रशब्दवलादत्र जनेरर्थान्तरत्वम् । प्रतिष्ठते इत्यत्र प्रादुर्भावो यथा । तदंतदाह—प्रथमगर्भप्रहणमिति । काशिकानुरोधेनेदमुक्तम् । प्रथमं द्वितीयं वेत्यनाप्रहः किंतु गर्भप्रहणमित्यन्ये
SK 3249 · A 3.3.72V
ह्वः सम्प्रसारणं च न्यभ्युपविषु ॥ ३२४९ ॥
hvaḥ samprasāraṇaṃ ca nyabhyupaviṣu
Siddhānta-kaumudī
निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥
SK 3250 · A 3.3.73V
आङि युद्धे ॥ ३२५० ॥
āṅi yuddhe
Siddhānta-kaumudī
आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥
SK 3251 · A 3.3.74V
निपानमाहावः ॥ ३२५१ ॥
nipānamāhāvaḥ
Siddhānta-kaumudī
आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥
SK 3252 · A 3.3.75V
भावेऽनुपसर्गस्य ॥ ३२५२ ॥
bhāve'nupasargasya
Siddhānta-kaumudī
अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥
SK 3253 · A 3.3.76V
हनश्च वधः ॥ ३२५३ ॥
hanaśca vadhaḥ
Siddhānta-kaumudī
अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥
Tattvabodhinī
NSP p. 582—हनश्च वधः ॥—अन्तोदात्त इति ॥ सूत्रे वाचकान्दोऽस्तोदात्तसंयोजनरित्त इति भावः
SK 3254 · A 3.3.77V
मूर्तौ घनः ॥ ३२५४ ॥
mūrtau ghanaḥ
Siddhānta-kaumudī
मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥
SK 3255 · A 3.3.78V
अन्तर्घनो देशे ॥ ३२५५ ॥
antarghano deśe
Siddhānta-kaumudī
वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥
SK 3256 · A 3.3.79V
अगारैकदेशे प्रघणः प्रघाणश्च ॥ ३२५६ ॥
agāraikadeśe praghaṇaḥ praghāṇaśca
Siddhānta-kaumudī
द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥
Tattvabodhinī
NSP p. 582–583— अगारैक-। ‘प्रधाणप्रधणालिन्दा बहिर्द्वारप्रकोष्ठके’ इत्यमरः
SK 3257 · A 3.3.80V
उद्घनोऽत्याधानम् ॥ ३२५७ ॥
udghano'tyādhānam
Siddhānta-kaumudī
अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ॥
SK 3258 · A 3.3.81V
अपघनोऽङ्गम् ॥ ३२५८ ॥
apaghano'ṅgam
Siddhānta-kaumudī
अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥
SK 3259 · A 3.3.82V
करणेऽयोविद्रुषु ॥ ३२५९ ॥
karaṇe'yovidruṣu
Siddhānta-kaumudī
एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां SK 857 इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥
SK 3260 · A 3.3.83V
स्तम्बे क च ॥ ३२६० ॥
stambe ka ca
Siddhānta-kaumudī
स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥
SK 3261 · A 3.3.84V
परौ घः ॥ ३२६१ ॥
parau ghaḥ
Siddhānta-kaumudī
परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥
SK 3262 · A 8.2.22V
परेश्च घाङ्कयोः ॥ ३२६२ ॥
pareśca ghāṅkayoḥ
Siddhānta-kaumudī
परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः SK 2003 इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥
SK 3263 · A 3.3.85V
उपघ्न आश्रये ॥ ३२६३ ॥
upaghna āśraye
Siddhānta-kaumudī
उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ॥
SK 3264 · A 3.3.86V
संघोद्घौ गणप्रशंसयोः ॥ ३२६४ ॥
saṃghodghau gaṇapraśaṃsayoḥ
Siddhānta-kaumudī
संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ॥
Tattvabodhinī
NSP p. 583—सङ्गोद्धौ-। मतंल्लिकामचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि’ इत्यमरः ॥—च्चितः-। अयमिति । अत एव पाकेन निर्वृत्तमिति विगृह्यते न तु पक्वेनेति । यत्तु प्राचोक्तं भावादाविति तन्नेति भावः ॥—क्रेमप्-। तद्धितेषु व्याख्यातमिदम् ॥—नित्यग्रहणादिति । तत्र हि नित्यमिति योगो विभज्यते तत्सामर्थ्यादर्थविशेषानादरेणैव मन्विषयत्वं निर्णायते । एकयोगत्वे तु निर्वृत्त इत्यधिकारान्निर्वृत्तार्थस्याविवक्षायां स्वातंत्र्यं प्रसज्येत, ततश्च मपं विनापि पक्विरिति प्रयोगः स्यादिति भावः ॥— उप्श्रिममिति । वपेर्यजादित्वात्किति संप्रसारणे वापेन निर्वृत्तमित्यर्थः
SK 3265 · A 3.3.87V
निघो निमितम् ॥ ३२६५ ॥
nigho nimitam
Siddhānta-kaumudī
समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥
SK 3266 · A 3.3.88V
ड्वितः क्त्रिः ॥ ३२६६ ॥
ḍvitaḥ ktriḥ
Siddhānta-kaumudī
अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् SK 1570 नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
SK 3267 · A 3.3.89V
ट्वितोऽथुच् ॥ ३२६७ ॥
ṭvito'thuc
Siddhānta-kaumudī
अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥
SK 3268 · A 3.3.90V
यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३२६८ ॥
yajayācayatavicchapraccharakṣo naṅ
Siddhānta-kaumudī
यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले SK 2777 इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥
Tattvabodhinī
NSP p. 583—यजयाच-। भावेऽकर्तरि कारकेचेति वर्तते । अत एव ‘यज्ञेन यज्ञमयजन्त देवाः’ इत्यत्र इज्यते यज्ञ इति व्याचक्षते ॥—विश्न इति । ‘च्छ्वोः शूड्युनासिके च’ इति शः
SK 3269 · A 3.3.91V
स्वपो नन् ॥ ३२६९ ॥
svapo nan
SK 3270 · A 3.3.92V
उपसर्गे घोः किः ॥ ३२७० ॥
upasarge ghoḥ kiḥ
Siddhānta-kaumudī
प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥
Tattvabodhinī
NSP p. 583—उपसर्गे घोः किः । बाहुलकात्कर्तर्यपीति माधवः । अत एव उप समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते । कित्वादातो लोपः ॥—अन्तर्धिरिति । ‘अन्तःशब्दस्याद्विविधि’ इति वार्तिकादुपसर्गत्वं ॥ उपाधीयतेऽनेनेति । एनेन उप समीपे स्वधर्ममादधातीत्युपाधिः । बाहुलकात्कर्तरि किरिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम् । ‘विधाता विश्वसृद्विधिः’ इत्यत्रापि कर्तरि माभूत् किः किंतु विध विधाने इत्यस्मादिगुपधात्किदितीनि रूपसिद्धेः
SK 3271 · A 3.3.93V
कर्मण्यधिकरणे च ॥ ३२७१ ॥
karmaṇyadhikaraṇe ca
Siddhānta-kaumudī
कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥
SK 3272 · A 3.3.94स्त्र्यधिकारः (प्रथमः)
स्त्रियां क्तिन् ॥ ३२७२ ॥
striyāṃ ktin
Siddhānta-kaumudī
स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥
vārttikaश्रुयजीषिस्तुभ्यः करणे
(वार्तिकम्) ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः ।
vārttikaऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः
(वार्तिकम्) ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः SK 3073 इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च SK 3037 चूर्तिः । फुलति ॥
vārttikaचायतेः क्तिनि चिभावो वाच्यः
vārttikaसम्पदादिभ्यः क्विप्
(वार्तिकम्) ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥
Tattvabodhinī
NSP p. 583–584—स्त्रियां किन् ॥—घञोऽपवाद इति । यत्तु प्रक्रियाग्रन्थं व्याचक्षाणा आहुः । भाष्ये त्वधिकः कारोऽधिकार इति घञप्युदाहत इति तद्रभसात् । न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः किंतु पुंस्त्वविशिष्ट इति ध्येयम् ॥—अजपौ त्विति । तयोरवकाशः । चयः । लवः । किनोवकाशः । कृतिः । दतिः । चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् किञ्चित्यर्थः ॥—प्रामादिकमिति । ‘स्फायः स्फी निष्ठायाम्’ इति निष्ठायामेव स्फीभावविधानादिति भावः ॥ —श्रुयजीति । परत्वात् ‘करणाधिकरणयोश्च’ इति ल्युटि प्राप्ते वचनम् । श्रुतिः श्रोत्रम् ॥—यजेरिति । यजेः किनि ‘वचिस्वपि’—इति संप्रसारणे ‘ब्रश्चभ्रस्ञ’—इति षट्वे इष्टिरिति रूपम् । इज्यतेऽनयेति विग्रहः । एवमिष्यतेऽनया इष्टिः । स्तूयतेऽनया स्तुतिः ॥—तेन नत्वमिति । कीर्णिरित्यादौ ‘रदाभ्याम्’—इत्यनेन नत्वम् । ल्लनिरित्यादौ तु ‘ल्वादिभ्यः’ इत्यनेनेति विवेकः ॥—ह्लाद इति । ‘ह्लादो निष्ठायाम्’ इत्यत्रैत्यर्थः ॥—चूर्तिरिति । ‘ति च’ इति चरफलोरुत्वे ‘वीर्ह-पधाया दीर्घः’ इति दीर्घः ॥—चायतेः—। चायु पूजानिशामनयोः ॥—किञ्चपीति । अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरवाधादिदमुक्तम् ॥—अङ्गोऽपवाद इति । पुरस्तादपवादन्यायेन स्थादिभ्यः ‘आतश्चोपसर्गे’ इति, पचेस्तु ‘षिद्भिदादिभ्यः’—इति प्राप्तस्याङ्गोऽपवादो नतु ण्वुलिलोरिति भावः । ण्वुलिलौ तु परलाद्भवत एव । का लं स्थायिकां त्वं स्थायिमिति भाष्यकारप्रयोगात् ॥—प्रस्थितिरिति । ‘यतिस्यतिमास्थाम्’—इत्यत इत्यम् ॥—सङ्गीतिरिति । ‘धुमास्था’—इत्यादिना इत्यम् ॥—उदात्त इतीति । ‘मन्त्रे दृष’—इति सूत्रादनुवर्तत इत्यर्थः । एवं च किञ्चन्तस्याद्युदा-तत्त्वे प्राप्ते ‘ऊतियूति’—इत्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः ॥—इत्वाभाव इति । ‘यतिस्यति’—इति प्राप्तस्याभाव इत्यर्थः ॥—हन्तेरिति । नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम् ॥—कीर्तिरिति । कीर्तयतेः ‘ण्यासश्रन्थ’—इति युचि प्राप्ते किञ्चिपात्यते उदात्तत्वं च । ‘तां सुते कीर्तिम्’ ॥—ब्रजयजोः—। उदात्त इत्येव । पित्करणं तृत्तरत्र तुगर्थम् ॥—गलपाश्वेति । तया हि कुद्धो ज्ञायत इति भावः । शेरतेऽस्यामिति शय्या । भरणं भृत्या जीविका । ‘कुमारभृत्या’—कुशलैरधिष्ठितः’ इति रधुः । ‘कुमारभृत्या गर्भिण्याः परिचर्याभिधीयते’ इति हारावली । संज्ञायां किम् । मतिः । स्मृतिः । आसुतिः । तथा च व्यवहृतम् ‘मतिबुद्धिपूजार्थैभ्यश्च’ ‘कर्मणि भृतौ’ ‘रजःकृष्यासुति’—इत्यादि । एतेन ‘मतिबुद्धि’—इत्यादिसूत्रप्रयोगादेव मतिभृतीत्यादीनां साधुलमिति दुर्घटाद्युक्तिः प्रत्युक्ता ॥—क्रियेति । यदा भावकर्मणोः शः तदा ‘सार्वधातुके यक्’ ‘रिङ् शयगिलङ्धु’ इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं पुल्यम्
SK 3273 · A 3.3.95V
स्थागापापचो भावे ॥ ३२७३ ॥
sthāgāpāpaco bhāve
Siddhānta-kaumudī
क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥
SK 3274 · A 3.3.97V
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ३२७४ ॥
ūtiyūtijūtisātihetikīrtayaśca
Siddhānta-kaumudī
अवतेः ज्वरत्वर SK 2654 इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति SK 3074 इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन SK 2504 इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥
SK 3275 · A 3.3.98V
व्रजयजोर्भावे क्यप् ॥ ३२७५ ॥
vrajayajorbhāve kyap
SK 3276 · A 3.3.99V
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३२७६ ॥
saṃjñāyāṃ samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ
Siddhānta-kaumudī
समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥
vārttikaअजेः क्यपि वीभावो नेति वाच्यम्
(वार्तिकम्) ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥
SK 3277 · A 3.3.100V
कृञः श च ॥ ३२७७ ॥
kṛñaḥ śa ca
Siddhānta-kaumudī
कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥
SK 3278 · A 3.3.101V
इच्छा ॥ ३२७८ ॥
icchā
Siddhānta-kaumudī
ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥
vārttikaपरिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्
(वार्तिकम्) ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥
(वार्तिकम्) ॥ पक्षे शः । जागरा । जागर्या ॥
Tattvabodhinī
NSP p. 584–585—इच्छा ॥—इषेभाव इति । न लकर्तरि कारकेऽपीत्यर्थः । अत एव करणेऽर्थं इज्यतेऽनया इष्टिरिति प्रागुक्तम् ॥—यकारनिवृत्तिरिति । हलादिशेषस्तु नास्ति । षाष्ठद्वित्वे धातुद्वित्वे वाभ्याससंज्ञास्वीकारात् । इह च तदुभयाभावादिति भावः ॥—अटाट्येति । यदा तु अटतेर्यङन्तादप्रत्ययादित्यकारस्तदाऽलोपे ‘यस्य हलः’ इति यलोपे-ऽटाटेति रूपं बोध्यम् । द्वित्वे इलादिशेषे मति varikiri ऽकित इत्यस्यास्यात् तीर्थग्रन्थेति ॥ जागर्त्तेरिति । शे परतः सार्वधातुके यक् । ‘जाग्रोऽविचिण्ण-’ इति गुणः
SK 3279 · A 3.3.102V
अ प्रत्ययात् ॥ ३२७९ ॥
a pratyayāt
Siddhānta-kaumudī
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥
SK 3280 · A 3.3.103V
गुरोश्च हलः ॥ ३२८० ॥
gurośca halaḥ
Siddhānta-kaumudī
गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥
vārttikaनिष्ठायां सेट इति वक्तव्यम्
(वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-SK 3163 इति नेट् । दीप्तिः ॥
vārttikaतितुत्रेष्वग्रहादीनामिति वाच्यम्
(वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥
Tattvabodhinī
NSP p. 585—गुरोश्च । धातोरिनुल्यवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते । न चायं गुरुरिति संभवति । अज्विषयो हि गुरुः, अतो मलयो लक्ष्यते तदाह—गुरुमत इति । ननु विपरीतमस्तु गुर्वन्ताद्धल इति तादृशस्यापि धातोर्ङुकीञ्चित्यादेः सत्त्वादिति चेन्मैवम् । ‘चेष्टायामनध्वनि’ ‘आशंसायां भूतवच्च’ इति निर्देशेन विपरीतशङ्काया अप्रवृत्तेः
SK 3281 · A 3.3.104V
षिद्भिदादिभ्योऽङ् ॥ ३२८१ ॥
ṣidbhidādibhyo'ṅ
Siddhānta-kaumudī
षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः SK 2406 । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (गणसूत्रम् -) क्रपेः सम्प्रसारणं च । कृपा ॥
Tattvabodhinī
NSP p. 585—षिद्भिदा—। कथं तर्हि ‘मुखाब्जगन्धलब्धेः’ इति भावः । ‘प्रेक्षो-पलब्धिः’ इत्यमरश्च । षित्त्वादङ्कि लभेत्येव ह्युचितम् । सत्यम् । अनर्थकास्तु प्रतिवर्णमनुपलब्धेरिति भाष्यप्रयोगाद्वाहुल-काद्वा किञ्चपि बोध्यः । विस्तरस्त्विह मनोरमायां बोध्यः ॥—भिदेति । एवमादयोऽदन्ताः समुदाया एव गणे पत्र्यन्ते तत्र ये प्रकृतिभागा भिदछिद इत्यादयस्ते आदिशब्देन सूत्रे निर्दिष्टाः । गणे विशिष्टपाठस्तु लोकप्रसिद्धार्थविशेषस्य क्वचिद-लाक्षणिककार्यस्य संग्रहार्थः ॥—भित्तिरन्येति । भिवत इति भित्तिः कुब्धम् ॥—छिदेति । द्वैधीकरण एवायम् । अन्यत्र तु छित्तिश्छिद्रम् ॥—मृजेति । मृज् शुद्धौ अस्याषित्त्वाद्भिदादौ पाठः
SK 3282 · A 3.3.105V
चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ ३२८२ ॥
cintipūjikathikumbicarcaśca
Siddhānta-kaumudī
अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥
Tattvabodhinī
NSP p. 585—चिन्तिपूजि—। चकारोऽनुक्तसमु-च्चयार्थः । तेन तोलयतेस्तुलेति हरदत्तः । अत एव ‘तुलां यदारोहति दन्तवाससा’ इति नैषधकृदाह ॥—युचोऽपवाद् इति । ‘ण्यासश्रन्थ-’ इति वक्ष्यमाणस्येत्यर्थः ॥—आसनेति । आस्यतेऽस्यामिति विग्रहः । ‘ऋहलोर्ण्येत्’ इति ण्य-त्प्रत्यये त्यास्या । न च स्त्रीप्रत्यये वासरूपविधिर्नेति शङ्काम् । अपवादस्य युवः स्त्रीप्रकरणस्थत्वेपि उत्सर्गस्य ण्यतस्तद-भावात् ॥—घट्टिवन्दि—। विदिर्लाभायों गृह्यते ज्ञानार्थस्य तु संवित्तिः ॥—इषेरिति । अनिच्छार्थस्य युव इच्छार्थस्य त्विषेरिच्छेत्येव
SK 3283 · A 3.3.106V
आतश्चोपसर्गे ॥ ३२८३ ॥
ātaścopasarge
Siddhānta-kaumudī
अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥
vārttikaश्रदन्तरोरुपसर्गवद्वृत्तिः
(वार्तिकम्) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः SK 3270 इत्यनेन किः । अन्तर्धिः ॥
SK 3284 · A 3.3.107V
ण्यासश्रन्थो युच् ॥ ३२८४ ॥
ṇyāsaśrantho yuc
Siddhānta-kaumudī
अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥
vārttikaघट्टिवन्दिविदिभ्यश्चेति वाच्यम्
(वार्तिकम्) ॥ घट्टना । वन्दना । वेदना ॥
(वार्तिकम्) ॥ पर्येषणा । परीष्टिः ॥
SK 3285 · A 3.3.108V
रोगाख्यायां ण्वुल् बहुलम् ॥ ३२८५ ॥
rogākhyāyāṃ ṇvul bahulam
Siddhānta-kaumudī
प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥
vārttikaधात्वर्थनिर्देशे ण्वुल्वक्तव्यः
(वार्तिकम्) ॥ आसिका । शायिका ॥
vārttikaइक्श्तिपौ धातुनिर्देशे
(वार्तिकम्) ॥ पचिः । पचतिः ॥
(वार्तिकम्) ॥ निर्देशे इत्येव । अकारः । ककारः ॥
(वार्तिकम्) ॥ रेफः । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥
(वार्तिकम्) ॥ आजिः । आतिः ॥
(वार्तिकम्) ॥ वापिः । वासिः । स्वरे भेदः ॥
(वार्तिकम्) ॥ कृषिः । गिरिः ॥
Tattvabodhinī
NSP p. 585–586—रोगाख्या—। धातोर्वहुलं ण्वुल् स्यात्प्रत्ययान्तं चेद्रोगस्य संज्ञा । किञ्चादीनामपवादः ॥—प्रच्छादिं-केति । छर्द वमने ॥—प्रवाहिकेति । प्रवाहयति मुहुर्मुहुः प्रवर्तयतीति प्रवाहिका ग्रहणी ॥—विचर्चिकेति । चर्च अध्ययने । प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः । ‘पाम पामा विचर्चिका’ इत्यमरः ॥—शिरोर्तिरिति । शिरःपीडा । अर्द हिंसायाम् । ‘तितुत्र-’ इति नेद ॥—धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः ॥—आसिका । शायिकेति । आसनं शयनमित्यर्थः— ॥—इक्षितपौ—। धातोर्निर्देशोऽनुकरणम् । वहुलमित्यनुवृत्तेः क्वचिन्न । ‘गुप्तिज्किन्न्यः सन् ‘भुवो तुग्लङ्लीटोः’ ॥—पचतिरिति । ‘उपसर्गात्मनोतिमुवतिस्यति-’ ‘ध्यायतेः संप्रसारणं च’ इत्यादिनिर्देशादकर्तृवाचिन्यपि सार्वधातुके परे शवादयः । एवं भावकर्मवाचिन्यपि सार्वधातुके क्वचिद्यक्, ‘विभाषा लीयतेः’ इति यथा । तत्र हि लीलीडोर्यका निर्देशो न तु श्यनेत्युक्तम् । यत्तु प्राचा स्तिपः शित्करणसामर्थ्याच्छवादय इत्युक्तम् । तन्न । पिवतिर्ग्लाय-तिरित्यादौ पिवाद्यादेशप्रवृत्त्या आलनिवृत्त्या च शित्वस्य चरितार्थत्वात् ॥—वर्णादिति । वर्णानुकरणादित्यर्थः । न तु वर्णादुच्चार्यमाणादिति । तथा हि सत्यंकार इत्यादावेव स्यान्न तु ककार इत्यादौ । अत्र हि संघातस्योच्चारणात् । अनुकार्य त्विह वर्णमात्रम् । अकारस्योच्चारणार्थत्वात् । कथं तर्हि समुच्चयार्थश्चकारः । एवकारोऽन्यनिवृत्त्यर्थं इत्यादिप्रयोगा इति चेद-त्राहुः । क्वचित्सङ्घातादपि भवति ‘उच्चैस्तरां वा वषङ्कारः’ इति सूत्रनिर्देशात् । सर्वे चकाराः प्रत्याख्यायन्ते भाष्यप्रयोगाद्वहु-लवचनाच्चेति । इह कारप्रत्ययस्य धातोरविहितत्वेऽपि धात्वधिकारस्थत्वात्कृत्संज्ञा तेन कृदन्तत्वात्प्रातिपदिकलम् । प्रयोज-नाभावान्न ककारस्येत्संज्ञा आर्धधातुकलाभावादिडागमो न ‘अस्य च्चौ’ इत्यादौ तु कारप्रत्ययाभावो वाहुलकादेव ॥—रादिफेति । वासरूपविधिना कारोऽपि । तेन ‘रकारादीनि नामानि शृण्वतो मम पार्वति’ इत्यादिप्रयोगः साधुरेव ॥—अकारलोप इति । अतद्धितपरलादभलाच्च ‘यस्य-’ इति लोपस्याप्राप्तिरिति भावः । कृदन्तत्वात्प्रातिपदिकलमिह पूर्ववद्वोध्यम् । ‘तसौ मलये’ इत्यत्र वाहुलकाच्छो न । ‘शैपिकान्मतुवर्थीयात्’ इत्यत्र तु वाहुलकादेव मतुवर्थशब्दाच्छः । अन्ये तु नैतक्तदन्तं मलये भव इति विगृह्य गहादिलाच्छप्रत्यये तद्धितान्तमेवेत्याहुः ॥—इणजा— धालयंनिर्देशे प्राप्तस्य ण्वुलोऽपवादोऽयम् । एवमग्रेऽपि ॥—आजिरिति । वाहुलकादजेर्वाभावो न
SK 3286 · A 3.3.109V
संज्ञायाम् ॥ ३२८६ ॥
saṃjñāyām
Siddhānta-kaumudī
अत्र धातोर्ण्वुल् । उद्दालकपुष्पभञ्जिका ॥
Tattvabodhinī
NSP p. 586—संज्ञायाम्— अधिकरणे ण्वुलयोऽयमारम्भः । उद्दालकः श्लेष्मातकः तस्य पुष्पाणि भज्यन्ते यस्यां क्रियायां सा तथा भजनं भजिका । भावे ण्वुल् । उद्दालकपुष्पाणां भजिकेत्यन्ये ॥ सूत्रे आख्यानशब्दस्याल्पाच्तरत्वेन पूर्वनिपाते कृते व्याख्यानस्य प्रश्नपूर्वकतयार्थप्राप्तकममनुसृत्य व्याचष्टे—परिप्रश्ने आख्याने चेति ॥—परिपाटीति । पट गतौ परिपूर्वः । ‘इणजादिभ्यः’ इतीष् ‘कृदिकारात्—’ इति कीष्
SK 3287 · A 3.3.110V
विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च ॥ ३२८७ ॥
vibhāṣā''khyānaparipraśnayoriñ ca
Siddhānta-kaumudī
परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥
SK 3288 · A 3.3.111V
पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ ३२८८ ॥
paryāyārharṇotpattiṣu ṇvuc
Siddhānta-kaumudī
पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥
SK 3289 · A 3.3.112V
आक्रोशे नञ्यनिः ॥ ३२८९ ॥
ākrośe nañyaniḥ
Siddhānta-kaumudī
विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् SK 2841 भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-SK 3090 ॥
Tattvabodhinī
NSP p. 586—आक्रोशे । आक्रोशः शापः । नपुंसके भावे क्तः । ननु ‘तयोरेव कृत्यक्तस्वलार्थाः’ इति लिङ्गत्रयसाधारभ्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति किमनेन पुनर्विधानेनेति चेत् । अत्राहुः । भूते इत्यधिकृत्य ‘निष्ठा’ इति सूत्रेण विहितस्य क्तस्य भावोऽर्थः ‘तयोरेव—’ इति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते । एवं च स्वविषये परत्वात् घञजपां वाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति । किंच इह भावे चाकर्मकेभ्य इत्यस्यासन्निधानात्सकर्मकेभ्योऽप्ययं भवति घञादिवत् । ‘गतं तिरश्चीनमनूरुसारयेः’ इत्यादिदर्शनात् । तथा च नास्त्येव शङ्केति । नन्वेवं तद्योगे कर्मणि द्वितीया स्यात् कृद्योगलक्षणषष्ठ्या ‘न लोका—’ इति निषेधात् । एवं च घटं कृतं वृक्षं भिन्नमित्यादि प्रसज्येत । अनूरुसारयेरित्यत्र तु कर्तरि तृतीया नापद्यते, कारकषष्ठ्या निषेधेऽपि शेषलविवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् । नपुंसके भावे क्तस्य योगे षष्ठ्या उपसंख्यातत्वात्कर्मणि द्वितीयाया अभावात् । शेषलविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषलविवक्षैवेत्यस्तु । तथा च घटं कृतमित्यादि तु न प्रसज्यत एव । क्वचित्तु द्वितीयापि दृश्यते ‘भ्रान्तं देशमनेकदुर्गविषमम्’ इति दिक्
SK 3290 · A 3.3.115V
ल्युट् च ॥ ३२९० ॥
lyuṭ ca
Siddhānta-kaumudī
हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥
SK 3291 · A 3.3.116V
कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ॥ ३२९१ ॥
karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham
Siddhānta-kaumudī
येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तरीति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥
Tattvabodhinī
NSP p. 586—कर्मणि च । कर्तुरिति कर्मणि षष्ठी ‘उभयप्राप्तौ कर्मणि’ इति नियमाद्येनेति तृतीया तदाह—येन स्पृश्यमानस्य कर्तुरिति ॥—ल्युट् स्यादिति । नपुंसके भावे इति वोध्यम् । अत एवाह—पूर्वेणेति । ल्युट् चेत्यनेनेत्यर्थः ॥—नेहेति । स्नानकर्तृत्वेऽपि स्नपने न गुरुः कर्ता किंतु शिष्य इत्यर्थः । शरीरग्रहणं किम् । पुत्रस्य परिष्वजने युक्तम् । मानसी प्रीतिरत्र
SK 3292 · A 2.4.57V
वा यौ ॥ ३२९२ ॥
vā yau
Siddhānta-kaumudī
अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥
SK 3293 · A 3.3.117करणाधिकरणयोः इत्यधिकारः
करणाधिकरणयोश्च ॥ ३२९३ ॥
karaṇādhikaraṇayośca
Siddhānta-kaumudī
ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥
Tattvabodhinī
NSP p. 586–587—करणाधिकरणयोः । येन नाप्राप्तिन्यायेन घञोऽपवादोऽयमजपौ स्त्रीप्रत्ययांश्च परलाद् वाधते । उक्तं हि ‘अजन्मयां स्त्रीस्वलनाः विद्याः स्वलनौ विपत्तिषेनेन’ इति ॥ इणजादिभ्यः इति ॥ इणजानि प्रवृद्ध्यन्ते येन, गौर्दुह्यते यस्यामिति विग्रहः ॥—आकुर्वन्तीति । एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकार उत्पत्तिस्थानम् ॥—अवे-। अवे उपपदे तृस्तृभ्यां करणाधिकरणयोः पुंसि संज्ञायां घञ् स्यात् । घस्यापवादः ॥—अवहारेत्यादि । वृत्तिका-रस्लाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं संजग्राह तदसंबद्धमिति स्पष्टमेव
SK 3294 · A 8.4.24V
अन्तरदेशे ॥ ३२९४ ॥
antaradeśe
Siddhānta-kaumudī
अन्तः शब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरः किम् । अन्तरघानि ॥
Bālamanoramā
अन्तरदेशे - नश्चापदान्तस्य झलि । चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह — नस्येत्यादिना । यशांसीति । यशश्शब्दात् जस्, जस्शसोश्शिः । 'नपुंसकस्य झलचः' इति नुम् । 'सान्तमहत' इति दीर्घः । यशान्-सि इति स्थिते नकारस्य अनुस्वारः । आक्रंस्यत इति । क्रमु पादविक्षेपे । आङ्पूर्वात्कर्तरि लृट् । 'आङ उद्गमने' इति तङ्, स्यतासी लृलुटोरिति स्यः । स्नुक्रमोरिति नियमान्नेट् । आक्रम् स्य त इति स्थिते मस्य अपदान्तत्वात्पूर्वेणाप्राप्ते वचनम् । नम्यत इति । कर्मणि लट् तङ् यक् । अत्र मस्य झल्परकत्वाभावान्नानेनानुस्वारः । अपदान्तत्वाच्च न पूर्वेण ।
SK 3295 · A 8.4.25V
अयनं च ॥ ३२९५ ॥
ayanaṃ ca
Siddhānta-kaumudī
अयनस्य णोऽन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥
SK 3296 · A 3.3.118V
पुंसि संज्ञायां घः प्रायेण ॥ ३२९६ ॥
puṃsi saṃjñāyāṃ ghaḥ prāyeṇa
SK 3297 · A 6.4.96V
छादेर्घेऽद्व्युपसर्गस्य ॥ ३२९७ ॥
chāderghe'dvyupasargasya
Siddhānta-kaumudī
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥
SK 3298 · A 3.3.119V
गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥ ३२९८ ॥
gocarasaṃcaravahavrajavyajāpaṇanigamāśca
Siddhānta-kaumudī
घान्ता निपात्यन्ते । हलश्च SK 3300 इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥
SK 3299 · A 3.3.120V
अवे तॄस्त्रोर्घञ् ॥ ३२९९ ॥
ave tṝstrorghañ
Siddhānta-kaumudī
अवतारः कूपादेः । अवस्तारो जवनिका ॥
SK 3300 · A 3.3.121V
हलश्च ॥ ३३०० ॥
halaśca
Siddhānta-kaumudī
हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥
SK 3301 · A 3.3.122V
अध्यायन्यायोद्यावसंहाराश्च ॥ ३३०१ ॥
adhyāyanyāyodyāvasaṃhārāśca
Siddhānta-kaumudī
अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥
vārttikaअवहाराधारावायानामुपसङ्ख्यानम्
SK 3302 · A 3.3.123V
उदङ्कोऽनुदके ॥ ३३०२ ॥
udaṅko'nudake
Siddhānta-kaumudī
उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥
Tattvabodhinī
NSP p. 587—उदङ्को-। ‘हल्क्ष्व’ इत्येव सिद्धे उदकप्रतिषेधार्थमिदम् ॥—उदकोदञ्चन इति । ‘पुंसि संज्ञायाम्’ इति घे प्राप्ते घञ्चिहितः । उदके तु घञि प्रतिषिद्धे घ एव स्यान्न तु ल्युडिति चेन्मैवम् । प्रतिषेधसामर्थ्यात् घस्याप्यप्रवृत्तेः । न हि इह घे घञि वा रूपे विशेषोऽस्ति । न च स्वरे विशेषः । घे सति क्रुदुत्तरपदप्रकृतिस्वरेणान्तोदात्तता घञ्यपि थाथादिस्वरेण तथैवेति
SK 3303 · A 3.3.124V
जालमानायः ॥ ३३०३ ॥
jālamānāyaḥ
Siddhānta-kaumudī
आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥
Tattvabodhinī
NSP p. 587—जालमा-। जल धान्ये । ‘ज्वलितिकसन्तेभ्यो णः’ इति णप्रत्यये जालशब्दः सिद्धः । तेन जलशब्दोऽत्र निपात्यत इति न भ्रमितव्यम्
SK 3304 · A 3.3.125V
खनो घ च ॥ ३३०४ ॥
khano gha ca
Siddhānta-kaumudī
चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥
vārttikaखनेर्डडरेकेकवका वाच्याः
(वार्तिकम्) ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥
Tattvabodhinī
NSP p. 587—खनो-॥—घित्करणमिति । आखन इत्यादौ ‘चजोः’- इति कुलस्य प्रसक्त्यभावादिति भावः ॥—भगः पदमिति । ननु पदमित्यत्र घस्य किं प्रयोजनमिति चेदन्नाहुः । ‘करणाधिकरणयोः’ ‘पुंसि संज्ञायाम्’- इति यदि घः स्यात्तदा पदमिति नपुंसकं न स्यात्, अनेन चेत् घो भवति तदा लिष्टसिद्धिरिति ॥—एते इति । आख-नादयः षडित्यर्थः ॥—ईषदुःसुषु-। इह सामान्योक्तावपि योग्यतावलाद्विशेषणस्य विषयविभागो लभ्यते, दुरिति कृच्छ्रार्थे इतरौ लकृच्छ्रार्थे । तदेतद्दर्शयति—कृच्छ्रे दुष्कर इत्यादिना ॥—भवतेति । ‘न लोका’- इति षष्ठीनि-षेधात्कर्तरि तृतीया । कृच्छ्रेत्यादि किम् । ईषत्कार्यम्, स्वल्पं कार्यमित्यर्थः ॥—खलिति-। लकारः स्वरार्थः । खित्क-रणं तृत्तरत्र मुमर्थम् ॥—निमिमीति । ‘मीनातिमिनोतिदीडां ल्यपि च’ ‘विभाषा लीयतेः’ इति प्राप्तं निषिध्यते ॥—निमय इत्यादि । एरच्
SK 3305 · A 3.3.126V
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ ३३०५ ॥
īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal
Siddhānta-kaumudī
करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-SK 2833 इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥
vārttikaनिमिमीलियां खलचोरात्वं नेति वाच्यम्
(वार्तिकम्) ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥
SK 3306 · A 7.1.67V
उपसर्गात् खल्घञोः ॥ ३३०६ ॥
upasargāt khalghañoḥ
Siddhānta-kaumudī
उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥
Tattvabodhinī
NSP p. 587–589—उपसर्गात्वल्यञोः । ‘ल्रमेक्ष्व’ इत्यनेनैव सिद्धे नियमार्थमिदमित्याह—उपसर्गा-देवेति ॥—तदा स्वती इति । ‘मुः पूजायाम्’, ‘अतिरतिक्रमणे च’ इति तयोः कर्मप्रवचनीयलम् ॥—कर्तृक-मणोः-। चकारः संनियोगार्थः । यदा कर्तृकमणोरीषदादीनां च युगपत्प्रयोगस्तदैव प्रत्ययो यथा स्यात् । न च कर्तृक-मणोः प्रत्ययार्थलमेवास्तु न तूपपदलमिति वाच्यम् । ईषदादीनामेवोपपदत्वे तु खलः खित्त्वस्य वैयर्थ्यापत्तेः मुमर्थं हि तत् । मुम् चानव्ययस्य विधीयते तस्मात्कर्तृकमणोरिति उपपदलमेव । तदेतदाह—ईषदादिषु चेति । कर्तृक- देशस्थानां गङ्गामप्राप्य विन्ध्यः । गङ्गाप्राप्तिविरहविशिष्टदेशस्थो विन्ध्य इत्यर्थः । अत्र विन्ध्यात्परा गङ्गेति गम्यते ॥—अतिक्रम्येति । दक्षिणदेशस्थानामेवायमपि प्रयोगः । अत्र हि गङ्गायाः पूर्वो विन्ध्य इति गम्यते । इह त्रिसूत्र्यां क्लाप्रत्ययस्य भावमात्रार्थत्वेऽपि विशेषणविशेष्यसंसर्गा भिद्यन्त इति नास्ति वैयर्थ्यमिति दिक्
SK 3307 · A 7.1.68V
न सुदुर्भ्यां केवलाभ्याम् ॥ ३३०७ ॥
na sudurbhyāṃ kevalābhyām
Siddhānta-kaumudī
उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥
SK 3308 · A 3.3.127V
कर्तृकर्मणोश्च भूकृञोः ॥ ३३०८ ॥
kartṛkarmaṇośca bhūkṛñoḥ
Siddhānta-kaumudī
कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ।
vārttikaकर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम्
(वार्तिकम्) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥
SK 3309 · A 3.3.128V
आतो युच् ॥ ३३०९ ॥
āto yuc
Siddhānta-kaumudī
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ।
vārttikaभाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः
(वार्तिकम्) ॥ दुःशासनः । दुर्योधन इत्यादि ॥
SK 3310 · A 8.4.35V
षात् पदान्तात् ॥ ३३१० ॥
ṣāt padāntāt
Siddhānta-kaumudī
नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥
SK 3311 · A 3.3.170V
आवश्यकाधमर्ण्ययोर्णिनिः ॥ ३३११ ॥
āvaśyakādhamarṇyayorṇiniḥ
SK 3312 · A 3.3.171V
कृत्याश्च ॥ ३३१२ ॥
kṛtyāśca
Siddhānta-kaumudī
आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥
SK 3313 · A 3.3.174V
क्तिच्क्तौ च संज्ञायाम् ॥ ३३१३ ॥
kticktau ca saṃjñāyām
Siddhānta-kaumudī
धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-SK 3163 इति नेट् । भवतात् । भूतिः ॥
SK 3314 · A 6.4.39V
न क्तिचि दीर्घश्च ॥ ३३१४ ॥
na ktici dīrghaśca
Siddhānta-kaumudī
अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥
SK 3315 · A 6.4.45V
सनः क्तिचि लोपश्चास्यान्यतरस्याम् ॥ ३३१५ ॥
sanaḥ ktici lopaścāsyānyatarasyām
Siddhānta-kaumudī
सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥
SK 3316 · A 3.4.18V
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ ३३१६ ॥
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā
Siddhānta-kaumudī
प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेन SK 783 इति नियमान्नोपपदसमासः । दो दद्धोः SK 3077 । अलं दत्त्वा । घुमास्था-SK 2462 । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । अलंकारः ॥
SK 3317 · A 3.4.19V
उदीचां माङो व्यतीहारे ॥ ३३१७ ॥
udīcāṃ māṅo vyatīhāre
Siddhānta-kaumudī
व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥
SK 3318 · A 6.4.70V
मयतेरिदन्यतरस्याम् ॥ ३३१८ ॥
mayateridanyatarasyām
Siddhānta-kaumudī
मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥
SK 3319 · A 3.4.20V
परावरयोगे च ॥ ३३१९ ॥
parāvarayoge ca
Siddhānta-kaumudī
परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥
SK 3320 · A 3.4.21V
समानकर्तृकयोः पूर्वकाले ॥ ३३२० ॥
samānakartṛkayoḥ pūrvakāle
Siddhānta-kaumudī
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-SK 2428 इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति SK 2381 इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥
Tattvabodhinī
NSP p. 589—समानकर्तृ—। इह धालधिकारेऽपि समानकर्तृत्वं क्रिययोरेव संभवतीत्याशयेनाह—धात्वर्थयोरिति । निर्धारणे षष्ठी सप्तमी वा । धालर्थ-योर्मध्ये पूर्वः कालो यस्य धालर्थस्य तस्मिन्विद्यमानादित्यर्थः । एवं च निर्धारणे विभक्तिरेव पूर्वकाल इत्यस्य बहुव्रीहिल-योतिकेति फलितम् ॥—क्त्वा स्यादिति । स च भावे, अव्ययकृत इति वचनात् । भावोऽपि घबादाविव नेह सिद्धा-वस्थः किंतु साध्यावस्थः । स च धातुनैव लब्धः । क्लाप्रकृत्यर्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं धातुसंबन्धाधि-कारात् । संसर्गश्चेह सामानाधिकरण्यं पूर्वोत्तरकालत्वं च । तत्र संसर्गविशेषतात्पर्यग्राहकाः क्लाणमुलादयः । अत्र च ‘समानकर्तृकयोः—’ इति सूत्रांशेन सामानाधिकरण्यमुपनिवद्धम् । धातूपात्तव्यापाराश्रयस्य कर्तृतया तथा पर्यवसानादिति दिक् ॥—द्वित्वमिति । नन्वमीषां ग्राह्यणानां पूर्वमानयेत्युक्ते मध्यमो नानीयते, तथेहापि बहुक्रियासमभिव्याहारे मध्यमक्रियावाचकात् क्लाप्रत्ययो न स्यादिति चेदत्राहुः । इहाप्याख्यातवाच्या क्रिया प्रधानं, तां प्रति क्लान्तोप- स्थिताः क्रियाः सर्वा एव विशेषणं न तु तासां परस्परसंवन्धः ‘गुणानां च परार्थलात्’ इति न्यायात् । अत एव स्नात्वा पीला भुक्त्वा व्रजतीत्याद्यनियमेन प्रयुज्यत इति । ‘स्वरतिसूति—’ इत्यादिना विकल्पे प्राप्ते नित्यार्थमाह—स्वरत्यादेरिति
SK 3321 · A 6.4.31V
क्त्वि स्कन्दिस्यन्दोः ॥ ३३२१ ॥
ktvi skandisyandoḥ
Siddhānta-kaumudī
एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥
Tattvabodhinī
alignment inferredNSP p. 589—कित्व स्कन्दि—। स्कन्दिर्गतिशोषणयोः । ‘इर इत्संज्ञा—’ इति वातकादिकारमात्रस्येत्संज्ञा नेति ‘अनिदिताम्—’ इति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिग्रहणम् ॥—स्कन्त्वेति । ‘एकाच—’ इति नेद
SK 3322 · A 1.2.18अकित्त्वातिदेशः
न क्त्वा सेट् ॥ ३३२२ ॥
na ktvā seṭ
Siddhānta-kaumudī
सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥
SK 3323 · A 1.2.7कित्त्वातिदेशः
मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ ३३२३ ॥
mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā
Siddhānta-kaumudī
एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा SK 3049 इति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविद-SK 2609 इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥
Tattvabodhinī
NSP p. 589—मृडमृद—। मृड सुखने, मृद क्षोदे, गुध परिवेष्टने, गुध रोषे च, कुष निष्कर्षे, क्लिया हिंसायां दिवादिः, क्लिया विवाधने क्यादिः, वद व्यक्तायां वाचि, वस निवासे ॥—किदिति । ‘असंयोगाल्लिद् कित्’ इत्यतः किदित्यनुवर्तत इति भावः ॥—उदित्वेति । यजादिलात्संप्रसारणम् ॥—उषित्वेति । ‘वसतिशुधोः—’ इतीद् । यजादिलात्संप्रसारणम् । ‘शासिवसि—’ इति षः ॥—गृहीत्वेति । ‘ग्रहिज्या—’ इति संप्रसारणम्, ‘ग्रहोऽलिटि’ इति इटो दीर्घः
SK 3324 · A 1.2.23अकित्त्वातिदेशः
नोपधात्थफान्ताद्वा ॥ ३३२४ ॥
nopadhātthaphāntādvā
Siddhānta-kaumudī
सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥
Tattvabodhinī
NSP p. 589—नोपधात्थ—। अन्तग्रहणं स्पष्टार्थम् । थफादित्युक्तेऽपि धातोरेव क्लाप्रत्ययविधानाद्विशेष्यसंनिधानेन तदन्तविधिना थफान्तादिति लाभात् —कोथित्वा । रेफित्वेति । कुथ पूतीभावे, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इह ‘रलो न्युपधात्—’ इति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् ॥—वचित्वेति । वच्चु प्रलम्भने ॥—लुचित्वेति । लुच्चु अपनयने । —ऋतित्वेति । ऋतिः सौत्रो धातुर्घृणार्थकः, तत्पार्थधातुकविषये ‘ऋतेरीयह्’ इत्यत्य वैकल्पिकलात्तदभावे कित्वमनेन विकल्प्यते
SK 3325 · A 1.2.24अकित्त्वातिदेशः
वञ्चिलुञ्च्यृतश्च ॥ ३३२५ ॥
vañciluñcyṛtaśca
Siddhānta-kaumudī
सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥
SK 3326 · A 1.2.25अकित्त्वातिदेशः
तृषिमृषिकृशेः काश्यपस्य ॥ ३३२६ ॥
tṛṣimṛṣikṛśeḥ kāśyapasya
Siddhānta-kaumudī
एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-SK 2617 इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-SK 3046 । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् SK 3047 इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-SK 3048 इतीट् । विमोहने तु लुब्ध्वा ॥
Tattvabodhinī
NSP p. 589–590—तृषिमृषि—। अतृषा पिपासायाम्, मृष तितिक्षायाम्, कृश तनूकरणे । ‘नोपधा—’ इत्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम् ॥—अञ्चेरिति । ‘उदितो वा’ इति विकल्पप्राप्तावयमारम्भः ॥ —अश्चित्वेति । ‘न क्ला सेद्’ इति कित्वाभावान्नलोपो न । एवं चेह ‘नाश्चेः पूजायाम्’ इति नलोपो नेति प्रसादकारोक्तिर्धृथेत्याहुः
Footnotes (NSP 1915 ed.)
NSP p. 590 इदभावस्योदाहरणं तु प्रसन्न्य प्रदीव्येत्याद्येव ॥—न ल्यपि । कथं तर्हि ‘निपीय यस्य’ इति श्रीहर्षप्रयोग इति चेदन्नाहुः ॥ पीढ् पाने इति दिवादिगणस्थात् स्यपि न दोष इति । इह प्रशाय प्रच्छायेत्यत्र ‘शाच्छोरन्यतरस्याम्’ इति प्राप्तस्येत्यस्याप्य-भावो योध्यः ॥—लघुपूर्वादिति । लघुः पूर्वो यस्माद्वर्णात् । लघुपूर्ववर्णात्परस्येत्यर्थः ।—विगणय्येति । ‘नन्विह णौ कृतस्याल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति । न चारम्भसामर्थ्यम् । अनुगमय्येत्यादौ मित्यु चरितार्थलात् । अत्रोच्यते । पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् । ‘निष्ठायां सेटि’ इति लिङ्गात् । तथा चात्र स्थानिवत्त्वा-भावाण्णेरयादेशो भवत्येव । ‘निष्ठायां सेटि’ इत्यस्यानित्यत्वबापकं लु ‘अन्नः पात्रस्किन्नः’ इति यस्य कष्टबास्माभिरुपपादित-
SK 3327 · A 7.2.55V
जॄव्रश्च्योः क्त्वि ॥ ३३२७ ॥
jṝvraścyoḥ ktvi
Siddhānta-kaumudī
आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥
Tattvabodhinī
alignment inferredNSP p. 590—जृवश्चयोः—। जृ इत्यस्मात् ‘श्रुकः किति’ इति निषेधे प्राप्ते व्रश्चेरुदित्वाद्विकल्पे प्राप्ते वचनमिदम् ॥—जरीत्वेति । ‘वृतो वा’ इति इटो वा दीर्घः ॥—वश्चित्वेति । इह ‘न क्ला सेद्’ इति कित्वा निषेधात् ‘प्रहिज्या’ इति संप्रसारणं न ॥—द्यूत्वेति । इडभावपक्षे ‘च्छ्वोः’ इत्यूद् ॥—झलादावितीति । ‘जान्तनशाम्’ इति सूत्रे वक्तव्यमित्यर्थः ॥—खात्वा । खनित्वेति । ‘उदितो वा’ इति वेद् ॥—जग्ध्वेति । ‘झरो झरि’ पाक्षिको धलोपः ॥—समासेऽनञ्च । नञ्भिन्नं नञ्सदृशमव्ययमिति यावत् । तत्पूर्वं पूर्वपदं यस्य समासस्येति व्याचष्टे—अव्ययेति ॥—प्रकृत्येति । प्रशब्दः क्लाप्रत्ययार्थंगतप्रकर्षस्य द्योतकः, स तु ‘कुगतिप्रादयः’ इति क्लान्तेन नित्यं समस्यते ॥—पर्युदासेति । प्रसज्यप्रतिषेधाध्रयणे तु स्यादेवात्र ल्यविति भावः
SK 3328 · A 7.2.56V
उदितो वा ॥ ३३२८ ॥
udito vā
Siddhānta-kaumudī
उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि SK 2666 इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥
SK 3329 · A 6.4.18V
क्रमश्च क्त्वि ॥ ३३२९ ॥
kramaśca ktvi
Siddhānta-kaumudī
क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च SK 3050 इति वेट् । पवित्वा । पूत्वा ॥
SK 3330 · A 6.4.32V
जान्तनशां विभाषा ॥ ३३३० ॥
jāntanaśāṃ vibhāṣā
Siddhānta-kaumudī
जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-SK 2517 इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च SK 2514 इतीट् । पक्षे नशित्वा ॥
vārttikaझलादाविति वाच्यम्
(वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-SK 2504 इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-SK 3074 इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः SK 3076 । हित्वा ॥
SK 3331 · A 7.4.43V
जहातेश्च क्त्वि ॥ ३३३१ ॥
jahāteśca ktvi
Siddhānta-kaumudī
हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-SK 3080 । जग्ध्वा ॥
SK 3332 · A 7.1.37V
समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥ ३३३२ ॥
samāse'nañpūrve ktvo lyap
Siddhānta-kaumudī
अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥
SK 3333 · A 6.1.86V
षत्वतुकोरसिद्धः ॥ ३३३३ ॥
ṣatvatukorasiddhaḥ
Siddhānta-kaumudī
षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । ह्रस्वस्य-SK 2858 इति तुक् ॥
Tattvabodhinī
NSP p. 590—षत्वतुकोः—प्रासङ्गिकपत्न्यविपयमुदाहरति—कोऽसिचदिति । को असिचदिति स्थिते ‘एङः पदान्तादति’ इति पूर्वरूपमेकावेशः । तस्य ‘अन्तादिवच्च’ इति परादिवत्त्वेन ‘सात्पदाद्योः’ इति निषेधाभावादिणः परत्वेन षत्वं प्राप्तं एकादेशस्यासिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाभावान्न भवति ॥ प्रकृतं स्थापि कार्यमुदाहरति—अधीत्येति ॥—विधायेति । दधातेर्हिनं ॥—प्रदायेति । ‘दो दद्धोः’ इति न ॥—प्रखन्येति । ‘जनसनखन’ इत्यात्वं न
SK 3334 · A 6.4.38V
वा ल्यपि ॥ ३३३४ ॥
vā lyapi
Siddhānta-kaumudī
अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-SK 3080 । [(परिभाषा - ) अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते] ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥
Tattvabodhinī
alignment inferredNSP p. 590–591—प्रस्थायेति । ‘द्यतिस्यति’ इतीत्वं न ॥—प्रक्रम्येति । ‘क्रमश्च क्ला’ इति दीर्घो न ॥—आपच्छ्वा । पृथिव्येति ॥— मिति नात्रोपपाद्यते ॥—प्रणमय्येति । अमन्तलान्मित्त्वे मितां ह्रस्वः ॥—प्रचेभिदय्येति । भिदेर्यङन्ताद्वेभिद्येत्यस्माण्णिच्यल्लोपे ‘यस्य हलः’ इति यलोपः । ननु ह्रस्वयलोपाल्लोपानामाभीयत्वेनासिद्धलाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्यादिति चेन्मैवम् । ‘असिद्धवदत्राभात्’ इत्यत्र ‘समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात्’ इति हि व्याख्यातम् । तेनात्राशङ्कैव नास्ति । ह्रस्वादयो हि णौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात्
SK 3335 · A 6.4.69V
न ल्यपि ॥ ३३३५ ॥
na lyapi
Siddhānta-kaumudī
ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-SK 2508 इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः SK 2509 । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥
SK 3336 · A 6.4.56V
ल्यपि लघुपूर्वात् ॥ ३३३६ ॥
lyapi laghupūrvāt
Siddhānta-kaumudī
लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥
SK 3337 · A 6.4.57V
विभाषापः ॥ ३३३७ ॥
vibhāṣāpaḥ
Siddhānta-kaumudī
आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥
SK 3338 · A 6.4.59V
क्षियः ॥ ३३३८ ॥
kṣiyaḥ
Siddhānta-kaumudī
क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥
SK 3339 · A 6.1.41V
ल्यपि च ॥ ३३३९ ॥
lyapi ca
Siddhānta-kaumudī
वेञो ल्यपि सम्प्रसारणं न स्यात् । प्रवाय ॥
SK 3340 · A 6.1.42V
ज्यश्च ॥ ३३४० ॥
jyaśca
SK 3341 · A 6.1.43V
व्यश्च ॥ ३३४१ ॥
vyaśca
SK 3342 · A 6.1.44V
विभाषा परेः ॥ ३३४२ ॥
vibhāṣā pareḥ
Siddhānta-kaumudī
परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-SK 2559 इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥
Tattvabodhinī
NSP p. 591—विभाषापरेः । अप्राप्तविभाषेयम् ॥—आप्नोतेरिति । यद्यपीडो णिचि परतः ‘क्रीड्जीनां णौ’ इत्यात्वे ‘आर्तिही’— इत्यादिना पुकि आविति शब्दोऽस्ति, तथापि तस्य नेह प्रहणं लाक्षणिकलादिति भावः ॥—प्राप्येति । एतेन ‘अयमयोगिवधूवधपातकैर्ध्रमिमवाप्य दिवः खलु पालते’ इति श्रीहर्षप्रयोगो व्याख्यातः । अवाप्येत्यस्यावापय्येत्यर्थसंभवात् । एतेन तत्रान्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः ॥ ल्यप्स्थानिनां कित्त्वात् ‘वचिस्वपि’— इति प्राप्तसंप्रसारणं निषेधयितुमाह— ल्यपि चेति ॥—ज्यश्च । संप्रसारणं न स्यात् । एवं व्यश्वेत्यत्रापि व्याख्येयम् ॥—कथमिति । ल्यवादेशस्य स्थानिभूतः क्लाप्रत्ययो दुर्लभः तद्विधौ पूर्वकाल इत्युक्तेः । न चेह तदस्ति पूर्वं ह्यसौ स्वपिति पश्चान्मुखं व्यादत्ते । यदैव हसति तदैव नेत्रे संमीलयति । तथा च क्लाप्रत्ययस्य दुर्लभत्वाल्लघपः प्रसक्तिरेव नास्तीति प्रश्नः ॥ समाधत्ते—व्यादानेत्यादिना । एतेनेश्वरः सर्वं व्याप्य वर्तते ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम् । ‘श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते’ इत्यादौ तु समानकर्तृकतानिर्वाहार्थं स्थितस्येत्यादि यथासंभवमध्याहार्यम्
SK 3343 · A 3.4.22V
आभीक्ष्ण्ये णमुल् च ॥ ३३४३ ॥
ābhīkṣṇye ṇamul ca
Siddhānta-kaumudī
पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः SK 2762 इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः SK 2765 इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-SK 2480 इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥
Tattvabodhinī
NSP p. 591–592—आभीक्ष्ण्ये णमुल् च । ननु वासरूपन्यायेन क्लाप्रत्ययो भविष्यतीति च प्रहणमिह व्यर्थमिति चेन्मैवम् । उक्तन्यायस्वीकारे तु लडादिरपीह प्रवर्तेत । न चेष्टापत्तिः, ‘विभाषाग्रे’— इति वक्ष्यमाणसूत्रस्थविभाषाग्रहणस्य वैयर्थ्यप्रसङ्गात् । तत्र हि क्लाणमुलौ विभाषाग्रहणेन लडादिसमावेशार्थं विकल्प्येते । यद्यपि वासरूपन्यायेनैव लडादिः सिध्यति, तथापि णमुला सहैव क्लाप्रत्ययो यत्र विधीयते तत्र वासरूपविधिर्न प्रवर्तेत इति ज्ञापनार्थं विभाषाग्रहणम् । तत्फलं तु ‘आभीक्ष्ण्ये णमुल् च’ इत्यत्र लडाद्यप्रवृत्तिः । ततश्च चकारेणैव क्लाप्रत्ययो लभ्यत इति नास्त्येव तस्य वैयर्थ्यम् । किं च वासरूपं विनैव क्लालडाद्योः स्वीकारे ‘न यद्यनाकाङ्क्षे’ इत्यत्र क्लाप्रत्ययवत् लडादिरपि न विरुध्येत । तथा च यदयं भुङ्क्ते ततः पठतीत्युदाहरणं न स्यात् । सिद्धान्ते तु ‘आभीक्ष्ण्ये णमुल् च’ इति विशेषविहितयोः क्लाणमुलोरेव निषेधात्सामान्यविहितलडादिर्भवत्येवेति नास्त्येवानुपपत्तिरिति दिक् ॥—पूर्वविषय इति । ‘समानकर्तृकयोः पूर्वकाले’ इत्यर्थे ॥—पायंपायमिति । आतो युक् ॥—वा दीर्घ इति । गमेर्ण्यन्ताण्णमुलि मितां ह्रस्वे च कृते वा दीर्घ इत्यर्थः ॥—ण्यन्तस्यापीति । यत्तु प्राचा ण्यन्तजागर्तेश्चिण्णमुलोर्वा वृद्धिरिति मतमुपन्यस्तं तदपाणिनीयमिति भावः ॥—न यदि—॥—आनाकाङ्क्ष इति पचाद्यजन्तेन नञ्समासस्तद्दर्शयति—नाकाङ्क्षते चेदिति ॥—इहेति । नन्वेवं ‘अनन्तरस्य’ इति न्यायात् णमुल् मा भूत् । क्ला तु ‘समानकर्तृकयोः’ इति सूत्रान्तरेण स्यादेवेति चेदत्राहुः । पूर्वकाले यत्प्राप्नोति तत्रेति व्याख्यानात् क्लाप्रत्ययोऽपि न भवतीति ॥—विभाषाग्रे— यद्यप्यप्रेशब्दो देशविशेषवचनोऽप्यस्ति, प्रभोरग्रे भुङ्क्ते इत्यादिप्रयोगात्तथापीह कालविशेषवाच्येव गृह्यते प्रथमशब्दसाहचर्यात् । प्रथमं भुङ्क्ते इत्यादौ तु काल एव प्रतीयते । अग्रे इति सप्तम्यन्तस्यानुकरणम् । ‘प्रकृतिवदनुकरणम्’ इत्यस्य वैकल्पिकलाद्विभक्तेर्लुङ् न कृतः अस्यवामीयमिति वत् ॥—अग्रेभोजमिति । ‘अमैवाव्य-येन’ इति नियमाद्यस्तमेवेदं न लत्रोपपदसमासः । नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकाललमुच्यत इति कथमिह क्लाणमुलौ स्यातामिति चेदत्राहुः । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्ला व्रजतीति हि वाक्ग्रार्थस्तत्राग्रेप्रभृतिभिर्भोक्तपेक्षया पूर्वलमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति, व्रजनापेक्षया पूर्वत्वं तु क्लाणमुल्भ्यां द्योत्यत इत्याशङ्कैवात्र नास्तीति ॥—नित्यमेव विधिरिति । अग्रे भुङ्के इत्येव लडादिनं प्रयुज्यत इति भावः
SK 3344 · A 3.4.23V
न यद्यनाकाङ्क्षे ॥ ३३४४ ॥
na yadyanākāṅkṣe
Siddhānta-kaumudī
यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥
SK 3345 · A 3.4.24V
विभाषाऽग्रेप्रथमपूर्वेषु ॥ ३३४५ ॥
vibhāṣā'greprathamapūrveṣu
Siddhānta-kaumudī
आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥
SK 3346 · A 3.4.25V
कर्मण्याक्रोशे कृञः खमुञ् ॥ ३३४६ ॥
karmaṇyākrośe kṛñaḥ khamuñ
Siddhānta-kaumudī
कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥
SK 3347 · A 3.4.26V
स्वादुमि णमुल् ॥ ३३४७ ॥
svādumi ṇamul
Siddhānta-kaumudī
स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादीं स्वादीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥
Tattvabodhinī
NSP p. 592—स्वादुमि— स्वादुमीत्यर्थग्रहणं व्याख्या-नात्तदाह—स्वाद्वर्थेष्विति ॥—मान्तत्वमिति । ननु स्वादौ इत्येव सूत्रमस्तु मास्त्वत्र णमुल् । समुच्चेवानुवर्त्यताम् । ‘अरुद्विषत्—’ इति मुम्भविष्यति । एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम् । च्व्यन्तस्य मुम् न स्यादनव्ययस्येति वचनात्ततश्च स्वादुंकारमित्यत्र ‘च्वौ च’ इति दीर्घः स्यात् संपन्नंकारमित्यादिषु ‘अस्य च्वौ’ इतीत्वं स्यात् । किं च न्नियां ‘वोतो गुणवचनात्’ इति डीषि स्वाद्वीकारमिति स्यात् । अतोऽत्र स्वादुमीति रूपं निपात्यते तत् श्चानजन्तलान्नेलदीर्घौ न वा डीष् । निपातनमिह भावप्रत्ययमात्रविषयकम् । तेन स्वादुंकृत्वेत्यपि सिध्यति । स्यादेतत् । उक्तदोषपरिहाराय खादुमीत्येव सूत्रमङ्गीक्रियतां, णमुल् तु ख्ययतां, कृत्यः खमुत्रि कृतेपि खादुङ्कारमित्यादिरूपसिद्धिरिति चेन्मैवम् । तथा सत्युत्तरसूत्रेषु संनिहितलात् खमुत्रेवानुवर्तत इति कन्यादर्शं ब्राह्मणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक् ॥—व्यर्थत्वादिति । निष्प्रयोजनलादित्यर्थः । तदेतदर्शयति—इत्थं मुङ्कु इत्यर्थ इति । इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थकथनपरतया कारमिति णमुलन्तस्य निष्फललमुक्तमनतिप्रयोजनलात् । विस्तरस्तु मनोरमादावनुसन्धेयः
SK 3348 · A 3.4.27V
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ ३३४८ ॥
anyathaivaṃkathamitthaṃsu siddhāprayogaścet
Siddhānta-kaumudī
एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥
Tattvabodhinī
alignment inferredNSP p. 592—शिरोऽन्यथेति । इह शिरोऽन्यथा कृत्वादनादिकं मुङ्कु इत्यर्थलाभाय करोतेः प्रयोग आवश्यकः । तदभावे तु भुक्तिक्रियागत एव प्रकारो गम्येत न तु शिरसोऽन्यथाकरणम् । अतः करोतेः प्रयोगार्हत्वमस्तीति णमुलन्तः करोतिरिह न प्रयुज्यत इति भावः ॥—यथाकारमिति । प्रष्टुमनर्हः सन्यदि पृच्छति तदेदमुत्तरम् । अत्रापि वासरूपन्यायेन पक्षे क्लाप्रत्ययो बोध्यः ॥—कन्यादर्शमिति । अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्यार्थं अन्वयात्साकल्यं बोध्यम् ॥—सर्वा इति । दर्शनविषयीभूताः सर्वा इत्यर्थः । अतिशयप्रतिपादनपरमेतत् ॥—ब्राह्मणवेदमिति । विद् ज्ञाने, विद् लामे, विद् विचारणे इति धात्वर्थान् पर्यालोच्य व्याचष्टे—जानातीत्यादि । सत्तार्थस्य विधेरनेकार्थलात्रेह ग्रहणमिति भावः
SK 3349 · A 3.4.28V
यथातथयोरसूयाप्रतिवचने ॥ ३३४९ ॥
yathātathayorasūyāprativacane
Siddhānta-kaumudī
कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥
SK 3350 · A 3.4.29V
कर्मणि दृशिविदोः साकल्ये ॥ ३३५० ॥
karmaṇi dṛśividoḥ sākalye
Siddhānta-kaumudī
कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥
SK 3351 · A 3.4.30V
यावति विन्दजीवोः ॥ ३३५१ ॥
yāvati vindajīvoḥ
Siddhānta-kaumudī
यावद्वेदं भुङ्क्ते । यावल्लभ्यते तावदित्यर्थः । यावज्जीवमधीते ॥
Tattvabodhinī
NSP p. 592—याचति विन्द-। विदेलाभार्थस्यामुकरणम् । तस्य हि विन्दतीत्यादौ ‘शे मुचादीनाम्’ इति नुमस्ति ॥—याचलंभत इति । असाकल्यमनेन दर्शयति । साकल्ये हि ‘कर्मणि दृशिविदोः-’ इत्यनेनैव सिद्धम्
SK 3352 · A 3.4.31V
चर्मोदरयोः पूरेः ॥ ३३५२ ॥
carmodarayoḥ pūreḥ
Siddhānta-kaumudī
कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥
Tattvabodhinī
NSP p. 592–593—चर्मोद-॥—कर्मणीत्येवेति । एवं च पूरेरिति ण्यन्तस्य निर्देशो न तु केवलस्य । ‘इष्टिदत्तपौ-’ इति इका निर्देशः । तस्याकर्मकलादिति भावः ॥—चर्मपूरमित्यादि । चर्म पूरयित्वा । उदरं पूरयित्वा । उदरपूरणविशिष्टा भुजिक्रियेत्यर्थः । इह पूर्वकाले इति । अत्र विध्यतेऽसंभवत्यादि श्रुतिः । एवमन्यत्रापि यथासमर्थ बोध्यम् ॥—वेले-। व्याख्याना- दर्थग्रहणमित्याहुः ॥—चेलार्थेष्विति । चेलक्रोपमित्यादि । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः । अन्ये तु क्रूयी शब्दे उन्दे च, उन्दी क्लेदने, क्लिद् आर्द्रीभावे, इत्येवं क्रोपमिति णमुलन्तस्य प्रकृत्यर्थं पर्यालोच्य यथा वर्षणेन चेलान्यार्द्रीभवन्ति तावद् वृष्ट इति व्याचर्यः ॥—निमूलमिति । नियतं मूलमस्य निमूलम् । सह मूलेन समूलम् । निमूलसमूलकषणाभिन्नं कषणमिति शाब्दवोधः ॥—तेनेति । अत्रेदं वोध्यम् । सामान्यं विशेष्यं, विशेषस्तु विशेषणम् । आम्रो वृक्ष इत्यादौ आम्रो विशेषणं वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् । यतश्चात्र निमूलकषणादिकं विशेषणं केवलकषणं तु विशेष्यमिति
SK 3353 · A 3.4.32V
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३३५३ ॥
varṣapramāṇa ūlopaścāsyānyatarasyām
Siddhānta-kaumudī
कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥
SK 3354 · A 3.4.33V
चेले क्नोपेः ॥ ३३५४ ॥
cele knopeḥ
Siddhānta-kaumudī
चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥
SK 3355 · A 3.4.34V
निमूलसमूलयोः कषः ॥ ३३५५ ॥
nimūlasamūlayoḥ kaṣaḥ
Siddhānta-kaumudī
कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥
SK 3356 · A 3.4.35V
शुष्कचूर्णरूक्षेषु पिषः ॥ ३३५६ ॥
śuṣkacūrṇarūkṣeṣu piṣaḥ
Siddhānta-kaumudī
एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥
SK 3357 · A 3.4.36V
समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३३५७ ॥
samūlākṛtajīveṣu hankṛñgrahaḥ
Siddhānta-kaumudī
कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥
SK 3358 · A 3.4.37V
करणे हनः ॥ ३३५८ ॥
karaṇe hanaḥ
Siddhānta-kaumudī
पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च SK 3369 इति वक्ष्यते ॥
SK 3359 · A 3.4.38V
स्नेहने पिषः ॥ ३३५९ ॥
snehane piṣaḥ
Siddhānta-kaumudī
स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥
Tattvabodhinī
NSP p. 593—स्नेहने— ‘शुष्कचूर्णं—’ इति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हि ‘कर्मणि दृशिविदोः’ इति सूत्रात्कर्मणीत्यनुवर्तते इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति
SK 3360 · A 3.4.39V
हस्ते वर्त्तिग्रहोः ॥ ३३६० ॥
haste varttigrahoḥ
Siddhānta-kaumudī
हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥
Tattvabodhinī
NSP p. 593—हस्ते— हस्त इत्यर्थग्रहणं तदाह— हस्तार्थे इति
SK 3361 · A 3.4.40V
स्वे पुषः ॥ ३३६१ ॥
sve puṣaḥ
Siddhānta-kaumudī
करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥
SK 3362 · A 3.4.41V
अधिकरणे बन्धः ॥ ३३६२ ॥
adhikaraṇe bandhaḥ
Siddhānta-kaumudī
चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥
SK 3363 · A 3.4.42V
संज्ञायाम् ॥ ३३६३ ॥
saṃjñāyām
Siddhānta-kaumudī
बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥
Tattvabodhinī
NSP p. 593–594—संज्ञायाम् । अनधिकरणार्थं आरम्भः ॥—तथैवेति । निमूलकाषं कषतीत्याद्युदाहृतमित्यर्थः ॥—मूलकोपदंशमिति । अयमर्थः । मूलकेन भुक्ते । किं कृत्वा, उपदश्य, किमुपदश्य, अर्थान्मूलकमिति संबध्यते ॥—ए-तावतैवेति । शाब्दान्वयाभावेऽपि आर्थिकान्वयमात्रेणेत्यर्थः ॥—वचनसामर्थ्यादिति । यदि हि तृतीयान्तेन शाब्दान्वये सत्येव प्रत्ययो भवेत्तर्हि ‘करणे हनः’ इतिवत् ‘उपदंशः करणे’ इत्येव ब्रूयात् । ततश्च क्रियान्तरं प्रति करणत्वं मूलकेनेत्यस्येष्टमिति भावः । एतच्च मनोरमाग्रन्थानुसारेणोक्तम् । अत्र केचित् । नन्वेवम् ‘उपदंशः कर्मणि’ इत्येव सूत्रमस्तु । अत्रोपदंश इत्येवास्तु । उपमाने कर्मणीत्यतः कर्मणीत्यनुवर्त्य कर्मण्युपपदे उपपूर्वकादृशेर्णमुलिति व्याख्यायतां किमनया कुच्छ्रयेति । न चैवं कर्मण्युपपदे नित्यसमासः स्यादिति वाच्यम् । करणे इत्युक्तेऽन्युक्तदोषस्य तुल्यत्वात् । न च ‘तृतीयाप्रभृतीनि—’ इति सूत्रे करणप्रभृतीनीत्युक्ते नास्त्येव दोषः । ‘करणे हनः’ इत्यारभ्य विकल्प इति संदेहवारणाय ‘व्याख्यानतो विशेषप्रतिपत्तिः न हि संदेहादलक्षणम्’ इति परिभाषास्वीकारादिति वाच्यम् । ‘तृतीयाप्रभृति—’ इति सूत्रे कर्मणिप्रभृतीत्युक्तेऽपि दोषाभावात् । ‘कर्मण्याक्रोशे कृजः खमुञ्’ ‘कर्मणि दृशिविदोः—’ इत्यारभ्य वा . विकल्प इति संदे- हस्य ‘व्याख्यानतो विशेषप्रतिपत्तिः’ इति परिभाषया वारयितुं शक्यत्वात् । तस्मात् ‘उपदंशः करणे’ इत्येव ब्रूयात् इति मनोरना चिन्त्येत्याहुः । वस्तुतस्तु कर्मणि प्रभृतीत्यन्यतरस्यामित्युक्ते ‘उपमाने कर्मणि च’ इत्यतः कर्मणीत्यनुवर्त्य उपदंश इत्येव सूत्रमिति स्वीकारपक्षे कषादिषु यथाविध्यनुप्रयोगोऽपि विकल्पेन स्यात् । मण्डूकहुत्याश्रयणं त्वगतिकगतिः । उपदंशः कर्मणीति सूत्रस्वीकारपक्षेऽपि मूलकोपदंशमिति समासस्य वैकल्पिकत्वात्समासाभावपक्षे मूलकमुपदंशमिति वाक्यं स्यादिष्यते तु मूलकेनोपदंशमिति । करणे प्रभृतीनीति मनोरमोक्तौ तु समासाभावपक्षे मूलकेनोपदंशमिति सिध्यत्येव, करणतृतीयायाः प्रवृत्तेरिति दिक् ॥—कालयतीति । कल विक्षेपे चुरादिः । प्रेरयतीत्यर्थः ॥—दण्डताडमिति । तद् आघाते । अयमपि चुरादिरेव
SK 3364 · A 3.4.43V
कर्त्रोर्जीवपुरुषयोर्नशिवहोः ॥ ३३६४ ॥
kartrorjīvapuruṣayornaśivahoḥ
Siddhānta-kaumudī
जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥
SK 3365 · A 3.4.44V
ऊर्ध्वे शुषिपूरोः ॥ ३३६५ ॥
ūrdhve śuṣipūroḥ
Siddhānta-kaumudī
ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥
SK 3366 · A 3.4.45V
उपमाने कर्मणि च ॥ ३३६६ ॥
upamāne karmaṇi ca
Siddhānta-kaumudī
चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥
SK 3367 · A 3.4.46V
कषादिषु यथाविध्यनुप्रयोगः ॥ ३३६७ ॥
kaṣādiṣu yathāvidhyanuprayogaḥ
Siddhānta-kaumudī
यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥
SK 3368 · A 3.4.47V
उपदंशस्तृतीयायाम् ॥ ३३६८ ॥
upadaṃśastṛtīyāyām
Siddhānta-kaumudī
इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् SK 784 इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥
SK 3369 · A 3.4.48V
हिंसार्थानां च समानकर्मकाणाम् ॥ ३३६९ ॥
hiṃsārthānāṃ ca samānakarmakāṇām
Siddhānta-kaumudī
तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥
SK 3370 · A 3.4.49V
सप्तम्यां चोपपीडरुधकर्षः ॥ ३३७० ॥
saptamyāṃ copapīḍarudhakarṣaḥ
Siddhānta-kaumudī
उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥
Tattvabodhinī
NSP p. 594—सप्तम्यां चो—॥—उपपूर्वेभ्य इति । सूत्रे पीडादीनां समाहारद्वन्द्वं कृत्वा उपपूर्वः पीडरुधकर्ष इति उत्तरपदलोपी समास इति भावः । इह सौत्रं पुंस्त्वं पञ्चम्यर्थे प्रथमेति ज्ञेयम् । कर्षेति शपा निर्देशः । कृष विलेखने इत्यस्य गुणसहितस्योच्चारणात् । तत्फलं तुदादेर्ब्युदासः । यद्यपि विलेखन एव सोऽपि पठ्यते तथापि क्षेत्रविषयकविलेखन एव स प्रयुज्यते । पञ्चभिर्हलैः कर्षतीति दर्शनात् । एवंच तौदादिकात् कृषेः क्लाप्रत्यय एव भवति क्षेत्रे उपकृष्य हलेनोपकृष्येति, न त्विह णमुलिति स्थितमाकरे
SK 3371 · A 3.4.50V
समासत्तौ ॥ ३३७१ ॥
samāsattau
Siddhānta-kaumudī
तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥
Tattvabodhinī
NSP p. 594—समासत्तौ ॥—केशग्राहमिति । केशेषु ग्रहणं भवतु वा मा भूत् संनिकर्षप्रतिपादनपरमेतत् ॥—द्यङ्कुलोत्कर्षमिति । द्वयोरङ्कुल्योः समाहारो द्यङ्कुलम् । ‘तत्पुरुषस्याङ्कुलेः संख्याव्ययादेः’ इत्यच् समासान्तः । द्यङ्कुलेनोत्कृष्य । परिच्छिद्येत्यर्थः । स्वल्पः खण्डः खण्डिका, हस्वः खण्डः खण्डिकेति मनोरमायामुक्तम् । यद्यपि हस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते । अल्पे हस्वे इति पृथक् सूत्रस्वारस्यात् । तथापि हस्वदीर्घ इत्यादिनिर्देशादचेतनेष्वपि कचिद्भवतीत्याहुः
SK 3372 · A 3.4.51V
प्रमाणे च ॥ ३३७२ ॥
pramāṇe ca
Siddhānta-kaumudī
तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥
SK 3373 · A 3.4.52V
अपादाने परीप्सायाम् ॥ ३३७३ ॥
apādāne parīpsāyām
Siddhānta-kaumudī
परीप्सा त्वरा । शय्योत्थायं धावति ॥
SK 3374 · A 3.4.53V
द्वितीयायां च ॥ ३३७४ ॥
dvitīyāyāṃ ca
Siddhānta-kaumudī
परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥
Tattvabodhinī
NSP p. 594–595—द्विती—॥—परीप्सायामित्येवेति । कथं तर्हि ‘अनुदात्तं पदमेकवर्जम्’ इति । नह्यत्र त्वरा गम्यते । अत्राहुः । अस्यां हि परिभाषायां त्वरा विवक्षिता । तेनायमर्थः । उदात्तः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं न विलम्बितव्यमिति ॥—यष्टिग्राहमित्यादि । एवं खलु युद्धाय त्वरन्ते यदासनं यष्ट्यादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त् ॥ इति Janganvilat अस्य उपवेदमिति । अस्मिन्नुवर्ण्येत्यर्थः Siddhant of Gangatri Kosha Kosha विशिष्टाति— इति सूत्रे द्वितीयायामिलनुवर्तनात्तदन्तस्योपपदसंज्ञार्थमिल्यः
SK 3375 · A 6.1.53V
अपगुरो णमुलि ॥ ३३७५ ॥
apaguro ṇamuli
Siddhānta-kaumudī
गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥
SK 3376 · A 3.4.54V
स्वाङ्गेऽध्रुवे ॥ ३३७६ ॥
svāṅge'dhruve
Siddhānta-kaumudī
द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥
SK 3377 · A 3.4.55V
परिक्लिश्यमाने च ॥ ३३७७ ॥
parikliśyamāne ca
Siddhānta-kaumudī
सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥
SK 3378 · A 3.4.56V
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ॥ ३३७८ ॥
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ
Siddhānta-kaumudī
द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-SK 2140 इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥
SK 3379 · A 3.4.57V
अस्यतितृषोः क्रियाऽन्तरे कालेषु ॥ ३३७९ ॥
asyatitṛṣoḥ kriyā'ntare kāleṣu
Siddhānta-kaumudī
क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥
SK 3380 · A 3.4.58V
नाम्न्यादिशिग्रहोः ॥ ३३८० ॥
nāmnyādiśigrahoḥ
Siddhānta-kaumudī
द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥
SK 3381 · A 3.4.59V
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ३३८१ ॥
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau
Siddhānta-kaumudī
अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य । उच्चैः कृत्वा । उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य । नीचैःकृत्वा । नीचैःकारं प्रियं ब्रूते ॥
Tattvabodhinī
NSP p. 595—अव्यये—॥ अयथेति । न यथाभिप्रतं तथाख्यान इत्यर्थः । प्रियस्योच्चैः अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानम् । तद्विपरीताख्यान इति यावत् । नन्वप्रियाख्याने इत्येव कृतो नोक्तमिति चेदत्राहुः । प्रियस्य नीचैः कथनमपि प्रियाख्यानमेव न लप्रियानमिति नीचैःकृत्य नीचैःकारं प्रियं व्रूते इति प्रयोगो न स्यात् । तथा अप्रियस्य नीचैः कथनमप्यप्रियाख्यानमिति । नीचैःकृत्य नीचैःकारमप्रियं व्रूत इति प्रयोगोऽपि स्यादित्ययथाभिप्रेताख्याने इत्युक्तमिति ॥—तिर्यक्तुकृत्वेति । अनुजुलादग्रतः स्थितं पार्श्वतः कृत्वा गत इत्यर्थः
SK 3382 · A 3.4.60V
तिर्यच्यपवर्गे ॥ ३३८२ ॥
tiryacyapavarge
Siddhānta-kaumudī
तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥
SK 3383 · A 3.4.61V
स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ३३८३ ॥
svāṅge taspratyaye kṛbhvoḥ
Siddhānta-kaumudī
मुखतःकृत्य गतः । मुखतःकृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतो भावम् ॥
Tattvabodhinī
NSP p. 595—स्वाङ्गे तस्म्रत्यये—यस्मात्तस्त्रत्ययस्तस्मिन्स्वाङ्गे उपपदे इत्येके । प्रत्ययग्रहणपरिभाषया तस्म्रत्ययान्ते स्वाङ्गे इत्यन्ये । तस् चासौ प्रत्ययश्चेति कर्मधारयः । तस्म्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपद इति तु प्राब्धः । तत्र यथापि स्वाङ्गमात्रं नोपपदं तथापि तस्मिन्नित्येतत्प्रकृतिप्रत्ययसमुदायपरमिति वोध्यम् ॥—मुखतः कारं मुखतो भूयेति । क्लाणमुलोः क्रुभुवोश्च यथासंख्यं नेष्यत इति भावः । मुखत इत्यत्राद्यादिलात्समन्यर्थं तसिः । प्रत्ययग्रहणं किम् । मुखे तस्यति मुखतः । तस्मु उपक्षये क्विप् । धातुलादिह ‘अलसन्तस्य’—इति दीर्घो न । मुखतः कृत्वा गत इति काशिकादौ स्थितम् । वस्तुतस्तु प्रत्ययाप्रत्ययपरिभाषयैवेष्टसिद्धेः प्रत्ययग्रहणं सुलजम्
SK 3384 · A 3.4.62V
नाधाऽर्थप्रत्यये च्व्यर्थे ॥ ३३८४ ॥
nādhā'rthapratyaye cvyarthe
Siddhānta-kaumudī
नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥
Tattvabodhinī
NSP p. 595—नाधार्थ—नार्थौ ‘विनञ्भ्याम्’ इति विहितौ नानाञौ । धार्थाः ‘द्वित्र्योश्च धमुञ्’ इति धमुयादयः । ‘संख्याया विधार्थे धा’ इति धाप्रत्ययो धार्थको भवती-लाशयेनोदाहरति—एकधाभूयेत्यादि । एवं द्वैधं कृत्य त्रैधंभूय द्वैधंकारं द्वैधं भावमित्याद्युदाहर्तव्यम् ॥ ननु नानाञौ प्रत्ययौ धा च प्रत्ययः धमुञादिविधौ तु ‘एकाद्धो ध्यमुञ्चतरस्याम्’ इत्यतो ध इत्यनुवर्त्य तेषामादेशलाश्रयणेऽपि स्था-निवद्भावेन धमुञादिधाप्रत्ययो भवतीति किमर्थं प्रत्ययग्रहणमित्याक्षिपति—प्रत्ययग्रहणमिति । यद्यप्युक्तरीत्या धाग्रह-णेन धमुञादिग्रहणं संभवतीत्यर्थग्रहणमिह व्यर्थम् तथापि ‘धमुञ्चतात्स्वार्थं उदर्शन’मिति उप्रत्ययान्तसंग्रहार्थमग्रहणं, तत्फलं तु द्वैधीकृत्येत्यादिप्रयोगः
SK 3385 · A 3.4.63V
तूष्णीमि भुवः ॥ ३३८५ ॥
tūṣṇīmi bhuvaḥ
Siddhānta-kaumudī
तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् ॥
Tattvabodhinī
NSP p. 595—तूष्णीमीति । कृत्यो निवृत्त्यर्थं तूष्णींग्रहणम्
SK 3386 · A 3.4.64V
अन्वच्यानुलोम्ये ॥ ३३८६ ॥
anvacyānulomye
Siddhānta-kaumudī
अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥
Tattvabodhinī
NSP p. 595—अन्वच्या—नन्विह ‘अचः’ इत्यकारलोपे ‘च्वौ’ इति पूर्वस्याणो दोर्घेऽनूचीति निर्देष्टुमुचितम् । ‘द्युप्रागपाग्’—इति सूत्रे प्रतीचो यदितिवत् । एवं ‘तिर्यच्यपवर्गे’ इति सूत्रेऽपि तिरश्चीत्येव निर्देष्टुमुचितमिति चेत् । अत्र केचित् । शास्त्रोक्तं कार्यमर्थवदेव भवति । अर्थश्च लोके प्रसिद्ध एव गृह्यते । ‘अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः’ इति न्यायात् । अतोऽनु-करणे न भविष्यतीत्यन्वचीति सम्यगेवेति । तच्चिन्त्यम् । एवं तर्हि ‘क्षियो दीर्घात्’ इत्यादावियङ्कादिकं न स्यात् । ‘प्रतीचो यत्’ इत्यपि न सिध्येदिति । वस्तुतस्तु प्रकृतिवदनुकरणमित्यस्य वैकल्पिकलादन्वचीत्यादिनिर्देशे न तु दोषः । वैकल्पिकत्वं च ‘यत्तदेतेभ्यः’—इति सूत्रे त्यदाद्यत्वस्य वारणादेकशेषाभावदर्शनाच्च निर्णीयत इति प्रागेव प्रपञ्चितम् ॥—अग्रत इत्यादि । अन्वकशब्दस्यानुकल्पमात्रे विश्रान्तेर्देशविशेषवाचित्वे नियमो नेति ध्वनयितुमिदम् ॥—पृष्ठतो भूत्वेत्यर्थ इति । इहान्वकशब्देनानुकूलोऽननुकूलो वेति न स्पृश्यते, तस्य देशविशेषमात्रे पर्यवसानात्।प्रमाणान्तरेण क्वचिदिहानुकूल्यलाभेऽपि अन्वकशब्दस्य तत्समर्पणे व्यापाराभावाण्णमुल्ल न । किंतु क्त्वैव भवतीति व्यवस्था वोध्या ॥ इति उत्तरकृदन्तम्