PREMABASESiddhānta-kaumudī
Prakaraṇa 68 · SK 3168–3168

उणादिप्रकरणम्

uṇādiprakaraṇam · 749 sūtras (incl. 748 uṇādi) · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 3168 · A 8.3.110V
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ३१६८ ॥
na raparasṛpisṛjispṛśispṛhisavanādīnām
Siddhānta-kaumudī
रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् । पूर्वपदात् SK 3643 इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- SK 2410 इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम् । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसे रक् । मुस्रम् उदश्रु ॥
उ1 · Uṇ 9.1.1
कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ उ१ ॥
kṛvāpājimisvadisādhyaśūbhya uṇ
Siddhānta-kaumudī
करोतीति कारुः शिल्पी कारकश्च । आतो युक् {SK 2761} वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।
उ2 · Uṇ 9.1.2
छन्दसीणः ॥ उ२ ॥
chandasīṇaḥ
Siddhānta-kaumudī
मा न आयौ ।
Tattvabodhinī
NSP p. 526
—छन्दसीणः । उणनुवर्तते । एति गच्छतीत्यायुः ॥—मा न आयौ इति । आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः । अतएव ‘लाभमे प्रथममायुमायवे’ ‘मानस्तोके तनये मान आयौ’ इत्यादिमन्त्रेषु वेदभाष्ये तथैव व्याख्यातम् । अर्बाचीनास्तु‘छन्दसीणः’ इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तत इति खीकृत्य ‘आयुर्जावितकालो ना’ इत्यमरग्रन्थे आयुशब्दमुकारान्तं व्याचख्युः । ननु ‘एतेणिच्च’ इत्युस्प्रत्यये सकारान्तो वक्ष्यमाण आयुःशब्दस्तु लोकवेदयोर्निर्विवाद एव । अत एव जटा आयुरत्येति विग्रहे ‘भृग्रं हला जटायुषम्’ इति रामायणप्रयोगः ‘यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदिनायुषः स्यात्’ इति श्रीहर्षप्रयोगश्च संगच्छते । तथा च ‘आयुर्जावितकालो ना’ इत्यत्रायुःशब्दः सकारान्त इत्येव व्याख्यायतां किमुकारान्ताभ्युपगमेनेति चेत् । अत्राहुः । सकारान्त आयुःशब्दो नपुंसक इति तस्य पुंलिङ्गता नेत्याशयेन तथोक्तमिति । अन्ये तु ‘छन्दसीणः’ इति सूत्रस्य भाषायां प्रवृत्त्यभावे ‘मा वधीष्ट जटायुं माम्’ इति भट्टिप्रयोगः । ‘तटीं विन्ध्यस्याद्रैरभजत जटायोः प्रथमजः’ इति विन्ध्यवर्णने अभिनन्दोक्तप्रयोगश्च न संगच्छेत्याहुः । वस्तुतस्तु जटां याति प्राप्नोतीति जटायुः । मृगघ्वादिलात्कुः । आयातीत्यायुः । एवं च ‘जटायुषा जटायुं च बिद्यादायुं तथायुषा’ इति द्विरूपकोशः । ‘बाधुना जगदायुना’ इति वर्णविवेकश्च सुसाध इति दिक्
उ3 · Uṇ 9.1.3
दॄसनिजनिचरिचटिभ्यो ञुण् ॥ उ३ ॥
dṝsanijanicaricaṭibhyo ñuṇ
Siddhānta-kaumudī
दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह जनिवध्योश्च {SK 2512} इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।
Tattvabodhinī
NSP p. 526
—दृसनि-। दृ विदारणे, षणु दाने, जन जनने, चर गतौ, चट भेदने ॥ दार्विंति । ‘काप्ठं दार्विन्धनं त्वेधः’ इत्यमरः ॥—चादिति । ‘चटु चाटु प्रियं वाक्यम्’ इति हृष्टचन्द्रः । ‘चाटुर्नरिप्रियोक्तिः स्यात्’ इति रलमालाकोशः । नरि पुंसि । ‘चकर च किल चाटून् ग्रौढयोषिद्धदस्य’ इति भाघः । भाघे तु नपुंसकमपि दर्शितम् । ‘चाटु चाकृतकसंभ्रममासाम्’ इति
उ4 · Uṇ 9.1.4
किञ्जरयोः श्रिणः ॥ उ४ ॥
kiñjarayoḥ śriṇaḥ
Siddhānta-kaumudī
किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।
Tattvabodhinī
alignment inferredNSP p. 526–527
—किंजरयोः-। दृ हिंसायाम्, इण् गतौ, आभ्यामुण् स्यात् ॥ सस्येति । ‘किंशारनां सत्यशूके विशिखे कङ्कपृष्ठिणि’ इति मेदिनीकोशः ॥—अधिनतरणयोः । इति व्याख्याय इयति अर्यते वा आलुः शाकविशेषो घटी चेत्याहुः । ‘कर्कयोर्लुगलन्तिका’
उ5 · Uṇ 9.1.5
त्रो रश्च लः ॥ उ५ ॥
tro raśca laḥ
Siddhānta-kaumudī
तरन्त्यनेन वर्णा इति तालुः ।
उ6 · Uṇ 9.1.6
कृके वचः कश्च ॥ उ६ ॥
kṛke vacaḥ kaśca
Siddhānta-kaumudī
कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।
उ7 · Uṇ 9.1.7
भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः ॥ उ७ ॥
bhṛmṛśītṝcaritsaritanidhanimimasjibhya uḥ
Siddhānta-kaumudī
भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।
Tattvabodhinī
NSP p. 527
—भृमृशी—। भृमृ भरणे, मृद् प्राणत्यागे, शीद् स्वप्ने, तू लवनतरणयोः, चर गतौ, अयं भक्षणेऽपि, तसर छद्म गतौ, तनु विस्तारे, धन धान्ये, हुमीव् प्रक्षेपणे, दुमस्जो शुद्धौ ॥—भरुरिति । ‘भरुः खणें हरे पुंसि’ इति मेदिनी । ‘भरुर्भर्तृकनकयोः’ इति हेम-चन्द्रः ॥—शयुरिति । ‘अजगरे शयुर्वाहस इत्युभौ’ इत्यमरः ॥—तरुरिति । तरन्ति नरकमनेन रोपकाः ॥—चरुरिति । अनवस्रावितांतरूष्मपक्व ओदन इति याज्ञिकाः । तृष्ट्वर्वधिकरणेऽप्येवमुक्तम् । ‘उगवादिभ्यो यत्’ इति सूत्रे कैयटस्त्वाह । स्थालीवाची चरुशब्दस्तात्स्थ्यादोदने भाक्त इति ‘तनुः काये त्वचि ब्री स्यान्निष्वल्पे विरले कृशे’ इति मेदिनी । ‘धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने’ इति नान्ते मेदिनी विश्वप्रकाशमुदाहरति —धनुषा चेत्यादि । धनुषा सार्धं धनुं विदुरित्यर्थः । स्यात्तनुस्तनुषा सार्धमित्यतः सार्धमित्यनुषज्यते । ‘शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । क्षिपुरेनमृजुमाशु सपक्षं सायकम्’ इति श्रीहर्षश्लोकशेषः । ‘धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति’ इति धन्वन्तरिः । इह पूर्वत्र च धनुरिति उकारान्तः सकारान्तो वा योध्यः । न च सकारान्तधनुःशब्दो नपुंसक एवेति शङ्काम् । ‘अथास्त्रियाम् । धनुश्वापौ’ इत्यमरोक्त्या तस्यापि पुंस्त्वात् ॥—किंनर इति । ‘तुरंगवदनो मयुः’ इत्यमरः । ‘मीनातिमिनोति’—इत्यात्वं तु नेह वाहुलकात् । ‘मयुस्तुरंगवदने मृगेऽपि मयुरिष्यते’ इति विश्वः । मज्जति पानीये इति मद्भुः
उ8 · Uṇ 9.1.8
अणश्च ॥ उ८ ॥
aṇaśca
Siddhānta-kaumudī
लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।
Tattvabodhinī
alignment inferredNSP p. 527
—अणभ्र । अण शब्दे अस्मादुप्रत्ययः स्यात् ॥—चादिति । कटे वर्षादौ, वट वेष्टने । कटति रसनामिति कटुः । ‘कटुः ब्री कटुरोहिष्यां लताराजिकयोरपि । नपुंसकमकाये स्यात्पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च’ इति मेदिनी ॥—वटुरिति । वटतीति वटुः । ‘वटुर्द्विजयुतः स्मृतः’ इति संसारावर्तः । नटवटुरिति तूपचारात् ॥—अभिव्याप्येति । यद्यपि ‘फलिपाटि’—इति सूत्रं यावदनुवर्तत इति न्यासग्रन्थेन मर्यादीकृत्येत्यपि प्रतीयते तथाप्यभिव्याप्येत्येवोचितम् ॥ ‘पिवतं सोम्यं मधु’ इत्यादौ मधुशब्दस्याद्युदात्ततादर्शनात् । ‘वोतो गुणवचनात्’ इति सूत्रे हरदत्तेनाप्यभिव्याप्येति स्पष्टमभिधानाचेति भावः ॥—शृङ्खलिङ्गि—। शृङ्खलिङ्गि—हिंसायाम्, स्व शब्दोपतापयोः, ब्रिह्म उपतापे, त्रपूष लज्जायाम्, असु क्षेपणे, वस निवासे, हन हिंसागत्योः, क्लिद् आर्द्राभावे, वन्ध वन्धने, मन ज्ञाने ॥—शरुरिति । ‘शरुः कोपे शरे वज्रे’ इति हेमचन्द्रः ॥—स्वरुर्वज्रमिति । ‘शतकोटिः स्वरुः शंवः’ इत्यमरः ॥—त्रपु सीसमिति । तद्धि अर्धि दृष्ट्वा त्रपते लज्जत इव । ‘रङ्गसीसकयोस्त्रपु’ इति मेदिनी । अस्यन्ति क्षिपन्ति शरीरमित्यसवः प्राणाः ॥—हनुरिति । ‘हनुः पुमान्परो गण्डात्’ इति वररुचिकोशः । ब्रीलिङ्गोऽप्ययम् । ‘हनुर्हृद्विलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे’ इति मेदिनीकोशः । अतिशायने मनुप् । हनुमान् । ‘अन्येषामपि दृश्यते’ इति दृशि-ग्रहणात्पाक्षिको दीर्घः । हनूमान् । स्नेहेन वध्रातीति वन्धुः । प्रज्ञादित्वाद्वान्धवः । ‘वन्धुर्वन्धूकपुष्पे स्याद्वन्धुर्भ्रातरि वान्धवे’ इति विश्वः । मनुरादिराजो मन्त्रश्च ।
उ9 · Uṇ 9.1.9
धान्ये नित् ॥ उ९ ॥
dhānye nit
Siddhānta-kaumudī
धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।
उ10 · Uṇ 9.1.10
शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ॥ उ१० ॥
śṝsvṛsnihitrapyasivasihaniklidibandhimanibhyaśca
Siddhānta-kaumudī
शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्ह्रदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।
उ11 · Uṇ 9.1.11
स्यन्देः संप्रसारणं धश्च ॥ उ११ ॥
syandeḥ saṃprasāraṇaṃ dhaśca
Siddhānta-kaumudī
देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।
Tattvabodhinī
NSP p. 527
—स्यन्देः—सन्दू प्रसवणे ।
उ12 · Uṇ 9.1.12
उन्देरिच्चादेः ॥ उ१२ ॥
undericcādeḥ
Siddhānta-kaumudī
उनत्ति इन्दुः ।
Tattvabodhinī
alignment inferredNSP p. 527
—उन्देः—। उन्दी क्लेदने
उ13 · Uṇ 9.1.13
ईषेः किच्च ॥ उ१३ ॥
īṣeḥ kicca
Siddhānta-kaumudī
ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।
Tattvabodhinī
alignment inferredNSP p. 527
—ईषेः—। ईष गतिहिंसादानेषु
उ14 · Uṇ 9.1.14
स्कन्देः सलोपश्च ॥ उ१४ ॥
skandeḥ salopaśca
Siddhānta-kaumudī
कन्दुः ।
Tattvabodhinī
NSP p. 527
—स्कन्देः—। स्कन्दिर् गतिशोषणयोः ॥—कन्दुरिति । स्कन्दत्यस्मिन्ननताप इति व्युत्पत्त्या भोगस्थानमिति केचित् । अन्ये तु स्कन्दति शोषयतीति कन्दुर्लोहादिपात्रमित्याहुः । अत एव ‘क्लीवेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्’ इत्यमरः । ‘कन्दुर्वा ना’ इति पूर्वेणान्वयाद्वा पुमानित्यर्थः ॥—सृजेः—। सृज विसर्गे । सृजतीति रज्जुः स्त्रियाम् । आगम-सकारस्य श्रुत्वेन शः । जश्वेन जः । सृजेरसुम् चेति सुवचमिति नव्याः । ‘रज्जुर्वेष्यां गुणेऽपि च’ इति मेदिनी
उ15 · Uṇ 9.1.15
सृजेरसुम् च ॥ उ१५ ॥
sṛjerasum ca
Siddhānta-kaumudī
चात्सलोप उप्रत्ययश्च । रज्जुः ।
उ16 · Uṇ 9.1.16
कृतेराद्यन्तविपर्ययश्च ॥ उ१६ ॥
kṛterādyantaviparyayaśca
Siddhānta-kaumudī
ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।
Tattvabodhinī
NSP p. 527–528
—कृते-राद्यन्त—। कृती कृतेनेष्वादि—स्कन्दुरिति । कृत्यतेऽनेति तर्कः सूत्रवेष्टनं यच्चविशेषः । ‘तर्कटी सूत्रला तर्कः’ इति हारावली
उ17 · Uṇ 9.1.17
नावञ्चेः ॥ उ१७ ॥
nāvañceḥ
Siddhānta-kaumudī
न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।
Tattvabodhinī
NSP p. 528
—नावञ्चेः । अथ गतौ । ‘न्यङ्कुर्मुनौ मृगे पुंसि’ इति मेदिनी
उ18 · Uṇ 9.1.18
फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च ॥ उ१८ ॥
phalipāṭinamimanijanāṃ gukpaṭinākidhataśca
Siddhānta-kaumudī
फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।
Tattvabodhinī
NSP p. 528
—फलिपाटि—। फल निष्पत्तौ, पट गतौ प्यन्तः । णम प्रहृत्वे शब्दे, मन ज्ञाने, जनी प्रादुर्भावे, एभ्य उः स्यादेषां च यथाक्रमं गुगागमः पटि नाकि ध त इत्यादेः शाश्व भवन्ति । इह एकापि षष्ठी विषयभेदाद्भिर्यते । गुगागमे हि फलेरवयवषष्ठी पट्याद्यादेशचतुष्टयविधौ तु पाट्यादिभ्यः स्थानषष्ठी सापि धतयोर्विधौ अन्तेऽप्युपसंहियत इति विवेकः । अनागमकानां सागमका आदेशा इति पक्षे तु स्थानष-ष्ठयेवेति वोध्यम् । ‘फलवसारेऽभिधेयवत् । नदीभेदेऽमलद्यां स्त्री’ इति मेदिनी ॥—नाकुर्वल्मीकमिति । ‘वामद्वरश्च नाकुश्च वल्मीकं पुंनपुंसकम्’ इत्यमरः ॥—मध्विति । ‘मधुश्चैत्रे च दैत्ये च मये पुष्परसे मधु’ इति हृद्वचन्द्रः । ‘मकरन्दस्य मथस्य माक्षिकस्यापि वाचकः । अर्धचांदिगणे पाठात्पुंनपुंसकयोर्मधु’ इति शाश्वतः । वल संवरण इति दन्त्योष्ठ्यादिः । ‘वल्युः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत्’ इति मेदिनी । यत्तु उज्ज्वलदत्तेन ‘वल्लेर्गुरुच’ इति ओष्ठ्यादि पठित्वा वल प्राणने इत्युपन्यस्तं तत्क्ष्मयविरोधादुपेक्ष्यम् । ‘अयं नाभावदति वल्युवो गृहे’ इत्यादौ दन्त्योष्ठ्यपाठस्य निर्विवादत्वात्
उ19 · Uṇ 9.1.19
वलेर्गुक्च ॥ उ१९ ॥
valergukca
Siddhānta-kaumudī
वल संवरणे ।
उ20 · Uṇ 9.1.20
शः कित्सन्वच्च ॥ उ२० ॥
śaḥ kitsanvacca
Siddhānta-kaumudī
श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।
Tattvabodhinī
NSP p. 528
—शः कित्—॥ शो तनूकरणे अस्मादुप्रत्ययः ‘आदेच उपदेशे’ इत्यात्वं द्वित्वं ‘सन्यतः’ इत्यभ्यासस्येत्यम् । ‘आतो लोप इटि च’ इत्याकारलोपः । शिशुः
उ21 · Uṇ 9.1.21
यो द्वे च ॥ उ२१ ॥
yo dve ca
Siddhānta-kaumudī
ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।
Tattvabodhinī
NSP p. 528
—यो द्वे च । या प्रापणे
उ22 · Uṇ 9.1.22
कुर्भ्रश्च ॥ उ२२ ॥
kurbhraśca
Siddhānta-kaumudī
बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।
Tattvabodhinī
NSP p. 528
—कुर्भ्रश्च । भृञ् भरणे अस्मात्कुप्रत्ययो धातोर्द्वित्वं च । भरतीति वधुः । धरणिकोशस्थमाह—वभुरित्यादि । ‘वभुर्वैश्वानरे शूलपाणौ च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले लभिधेयवत्’ इति मेदिनीकोशः ॥—चादन्यतोपीति । भ्रः कुश्चेति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्येके । भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुच्चयादित्यन्ये ॥—पृमिदि—। पृ पालनपूरणयोः, भिदिर् विदारणे, व्यध ताडने, गृधु अभिकाङ्क्षायाम् । विधृषा प्रागल्भ्ये ॥—पुरुरिति । कुप्रत्यये परत ‘उदोष्ठ्यपूर्वस्य’ इत्युत्वे रपरत्वम् । ‘पुरुः प्राज्येऽभिधेयवत् । पुंसि स्यादे-वलोके च नृपभेदपरागयोः’ इति मेदिनी । ‘विधुः शशाङ्के’ इत्यादि तु विश्वकोशः । इह सूत्रे धृषिहृषिभ्यश्चेति पठित्वा हृषु-र्हर्षः । ‘सूर्याग्निशनिराहवोऽपि हृषवः’ इति केचित्
उ23 · Uṇ 9.1.23
पॄभिदिव्यधिगृधिधृषिभ्यः ॥ उ२३ ॥
pṝbhidivyadhigṛdhidhṛṣibhyaḥ
Siddhānta-kaumudī
कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । ग्रहिज्या- {SK 2412} इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।
उ24 · Uṇ 9.1.24
कृग्रोरुच्च ॥ उ२४ ॥
kṛgrorucca
Siddhānta-kaumudī
करोतीति कुरुः । गृणाति गुरुः ।
Tattvabodhinī
NSP p. 528
—कृप्रोरुच्च । डुकृञ् करणे, गृ शब्दे, आभ्यां कुः स्यादुकारोन्ता-देशश्च । ‘उरण् रपरः’ । ‘कुरुर्नृपान्तरे भक्ते पुमान् पुंभूमि नीवृति’ इति मेदिनी
उ25 · Uṇ 9.1.25
अपदुःसुषु स्थः ॥ उ२५ ॥
apaduḥsuṣu sthaḥ
Siddhānta-kaumudī
सुषामादिषु च- {SK 1022} इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।
Tattvabodhinī
NSP p. 528
—अपदुःसु—। ष्ठा गतिनिवृत्तौ ॥—सुषामेत्यादि । एतच्च न्यासाद्यनुरोधेनोक्तम् । वार्तिककृता तु स्थास्थिन्स्थूणामुपसंख्यानम् । ‘अपष्ठुः पुंसि वाले च वामे स्यादन्यलिङ्गके’ इति मेदिनी । वामे प्रतिकूले । एषां त्रयाणां मृगय्वादिपाठेन सिद्धत्वात्सूत्रमिदं न्यासकारस्य न संमतमिति रक्षितः
उ26 · Uṇ 9.1.26
रपेरिच्चोपधायाः ॥ उ२६ ॥
rapericcopadhāyāḥ
Siddhānta-kaumudī
अनिष्टं रपतीति रिपुः ।
उ27 · Uṇ 9.1.27
अर्जिदृशिकम्यमिपशियाधामृजिपसितुक्धुक्दीर्घहकाराश्च ॥ उ२७ ॥
arjidṛśikamyamipaśiyādhāmṛjipasitukdhukdīrghahakārāśca
Siddhānta-kaumudī
अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।
Tattvabodhinī
NSP p. 528
—अर्जिदृशि—। अर्ज अर्जने अस्य ऋजिरादेशः, दृशेः पशिरादेशः, कमेस्तुगागमः । अम रोगे ग-त्यादौ वा अस्य धुगागमः । पशि नाशने सौत्रो धातुरस्य दीर्घः । वाधृ लोडने अस्य हादेशः । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थः ॥—अविशेषेणेति । चादिगणे पश्चिति पठितम् ‘पशु दृश्यर्थमव्ययम्’ इति धरणिः । कन्तुः कन्दर्पः ‘क-न्तुमकराङ्कः’ इति त्रिकाण्डशेषः ॥—पांशुरिति । पडि पसि नाशने चुरादिप्यन्तः ॥—स्त्रीपुंसयोरिति । उक्तं ह्यम-रेण ‘द्वौ परौ द्वयोः । भुजवाहू’ इति । परौ द्वौ भुजवाहुशब्दौ द्वयोः स्त्रीपुंसयोरिति तदर्थः । अकारान्तोऽप्ययम् । अत एव ‘वाहौ श्वभुजयोः पुमान्’ इति दामोदरः । ‘वाहा भुजे पुमान्मानभेदाश्ववृषवायुषु’ इति मेदिन्यां टावन्तोऽप्ययम् ॥—पथिघ्रदि—। प्रथ प्रख्याने, म्रद मर्दने, भ्रस्ज पाके । प्रथते इति पृथुः । ‘पृथुः स्यान्महति त्रिषु । त्वक्पत्र्यां कृष्ण-जीरेऽथ पुमानमौ नृपान्तरे’ इति मेदिनी । म्रदितुं शक्यतेऽकठिनत्वादिति मृदुः कोमलः । ‘भृगुः शुके प्रपाते’ च जम-दमौ पिनाकिनि’ इति विश्वः
उ28 · Uṇ 9.1.28
प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ॥ उ२८ ॥
prathimradibhrasjāṃ saṃprasāraṇaṃ salopaśca
Siddhānta-kaumudī
त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।
उ29 · Uṇ 9.1.29
लङ्घिबंह्योर्नलोपश्च ॥ उ२९ ॥
laṅghibaṃhyornalopaśca
Siddhānta-kaumudī
लघुः ॥ बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते (वा) ॥ रघुर्नृपभेदः । बहुः ।
Tattvabodhinī
NSP p. 528–529
—लङ्घि—। लघि गतौ वहि महि वृद्धौ ॥—लघुरिति । ‘पृक्कायां स्त्री लघुः क्लीवं शीघ्रे कृष्णागुरुप्यपि’ इति त्रिकाण्डशेषः । ‘लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्लीवम् । शीघ्रे कृष्णागुरुणि च पृक्कानामौ- पथौ स्त्रियाम्' इति मेदिनी ॥—नृपभेद इति । ऊठः । एतेन 'अवेक्ष्य धातोर्गमनार्थमथविच्चकार नाम्ना रघुमात्मसंभवम्' इति कालिदासवचनं व्याख्यातम् ॥—वहुरिति । 'वहुसुल्यादिसंख्यासु विपुले लभिधेयवत्' इति मेदिनी ॥—ऊरुरिति । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । ऊर्ण्यते आच्छाद्यते इत्यूरुः । कर्मणि प्रत्ययः ॥—उरु महदिति । कर्तरि प्रत्ययः ॥—ऋिषेः—। ऋिष आलिङ्गने अस्मात्कुप्रत्ययः कथान्तादेशः ॥—उद्यत इति । स हि यावत्कार्यं ऋिष्यति लगति व्याप्रियत इति यावत्
उ30 · Uṇ 9.1.30
ऊर्णोतेर्नुलोपश्च ॥ उ३० ॥
ūrṇoternulopaśca
Siddhānta-kaumudī
ऊरुः सक्थि ।
उ31 · Uṇ 9.1.31
महति ह्रस्वश्च ॥ उ३१ ॥
mahati hrasvaśca
Siddhānta-kaumudī
उरु महत् ।
उ32 · Uṇ 9.1.32
श्लिषेः कश्च ॥ उ३२ ॥
śliṣeḥ kaśca
Siddhānta-kaumudī
श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।
उ33 · Uṇ 9.1.33
आङ्परयोः खनिशॄभ्यां डिच्च ॥ उ३३ ॥
āṅparayoḥ khaniśṝbhyāṃ ḍicca
Siddhānta-kaumudī
आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।
Tattvabodhinī
NSP p. 529
—आङ्परयोः—। खनु अवदारणे, शृ हिंसायाम् ॥—पर्शुरपीति । 'पर्शुः परशुना सह' इति विश्वः
उ34 · Uṇ 9.1.34
हरिमितयोर्द्रुवः ॥ उ३४ ॥
harimitayordruvaḥ
Siddhānta-kaumudī
द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।
Tattvabodhinī
alignment inferredNSP p. 529
—हरिमितेति—। द्व गतौ, अस्मादरिमितयोरुपदयोः कुः स्यात्स च डित् । हरिद्वर्चुक्ष इति । दारुहरिद्रा इत्येके । शतद्वर्नदीभेदः । 'शतद्वस्तु शतद्विः स्यात्' इत्यमरः ॥—तद्वानिति । 'द्युद्वभ्यां मः' इति मः
उ35 · Uṇ 9.1.35
शते च ॥ उ३५ ॥
śate ca
Siddhānta-kaumudī
शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।
उ36 · Uṇ 9.1.36
खरु शङ्कु पीयु नीलङ्गु लिगु ॥ उ३६ ॥
kharu śaṅku pīyu nīlaṅgu ligu
Siddhānta-kaumudī
पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः ।
Tattvabodhinī
NSP p. 529
—खरु शङ्कु—। खनु अवदारणे, शक्ति शङ्कायाम् ॥—काम इत्यादि । खरुः पतिवरा कन्येत्यपि बोध्यम् । 'खरुर्दर्पहरे दैत्ये हये श्वेते तु वाच्यवत्' इति विश्वत्रिकाण्डशेषौ । शङ्कते अस्मादिति शङ्कुः । 'शङ्कुः कीले गरे शस्त्रे संख्यापादपभेदयोः । यादोभेदे च पापे च स्थाणावपि च दृश्यते' इति विश्वः ॥—पीयुरिति । 'पीयुः काले रवौ घोरे' इति मेदिनी ॥—क्रिमिविशेष इति । 'नीलङ्कुः क्रिमिजातौ स्याद्भ्यभरालीप्रसूनयोः' इति विश्वः । 'नीलङ्कुः स्यात्क्रमौ पुंसि भम्भरात्यां तु योषिति' इति मेदिनी-कारः ॥—पाठान्तरमिति । 'नीलङ्कुरपि नीलङ्कुः' इति विश्वः । धातोरपीतिं केचित् । नीलशब्दे उपपदे गमेष्टिलोपः उपपदस्य मुम् दीर्घश्च पाक्षिको निपात्यते इत्याहुः । 'लिगु चित्ते नपुंसकम्' इति वररुचिः
उ37 · Uṇ 9.1.37
मृगय्वादयश्च ॥ उ३७ ॥
mṛgayvādayaśca
Siddhānta-kaumudī
एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।
Tattvabodhinī
NSP p. 529
—मृगय्वादयश्च । 'मृगयुः पुंसि गोमायौ व्याधे च परमेष्टिनि' इति मेदिनी । 'मृगयुर्वह्नाणि ख्यातो गोमायुव्याधयोरपि' इति विश्वः । 'देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके' इति मेदिनी ॥—आकृतिगण इति । तेन पील प्रतिष्ठम्भे अस्मात्कुः । 'पीलुर्गजे द्वमे काण्डे परमाणुप्रसूनयोः' इति विश्वः । भाद्रास्तु पीलुशब्दस्य वृक्षे आर्यप्रसिद्धिर्गजे तु म्लेच्छप्रसिद्धिरित्याश्रित्य व्यवजहः । पडि गतौ अस्मात्कुः धातोर्वृद्धिश्च । पाण्डुः । कडि मदे कण्डुरित्यादि बोध्यम्
उ38 · Uṇ 9.1.38
मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् ॥ उ३८ ॥
mandivāśimathicaticaṅkyaṅkibhya urac
Siddhānta-kaumudī
मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।
Tattvabodhinī
NSP p. 529
—मन्दिवाशि—। मदि स्तुत्यादौ, वाश्य शब्दे, मथे विलोडने, चते याचने, चङ्क इति सौत्रो धातुः । अकि लक्षणे ॥—वाशुरा रात्रिरिति । वाश्यन्ते अस्यामिति विग्रहः । वाशुरो गर्दम इत्यन्ये । 'वाशुरा वाशितारात्र्योः' इति मेदिनीहेमचन्द्रौ ॥—चङ्कुर इति । 'चङ्कुरः स्यन्दने वृक्षे' इति मेदिनी । 'अङ्कुरो रुधिरे लोत्रि पानीयेऽभिनवोद्भिदि' इति ॥—खर्जूरादित्वादिति । ऊरप्रत्ययोऽपीति भावः । 'अङ्कुरोऽङ्कुर एव च' इति विश्वप्रकाशः
उ39 · Uṇ 9.1.39
व्यथेः संप्रसारणं किच्च ॥ उ३९ ॥
vyatheḥ saṃprasāraṇaṃ kicca
Siddhānta-kaumudī
विथुरश्चोररक्षसोः ।
Tattvabodhinī
NSP p. 529
—व्यथेः—। व्यथ भयसंचलनयोरस्मादुरच् कित्स्याद्धातोः संप्रसारणं च । दशपायां तु व्यथेः संप्रसारणं धः किचेति सूत्रं पठित्वा धकारमन्तादेशं विधाय विधुरोऽनमिक इत्युदाहृतम् । माधवप्र-सादकारादिभिरपि तदेवानुसृतं नत्वेतद्युक्तम् । 'त्वमेषां विधुरा शावा' 'अथ विद्धा विधुरेणाचिदस्मा' इत्यादिमन्त्रेषु थका-रपाठस्य निर्विवादत्वात् यदपि माधवेनोक्तं विदिभिदिच्छिदिरित्यत्र व्यथेः संप्रसारणं चेति वचनात्कुरचि धान्तरूपमिति । तदपि स्थवीयः । कुरज्विधायके सूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात् । तस्मादिह धः किचेति दशपादीपाठ उपेक्ष्य एव । कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत् । धुरो विगत इति प्रादिसमासेनेत्यवधेहि । समासान्ता इति सूत्रे वृत्ति-पदमज्ज्योत्स्थैवोक्तत्वात् । इह व्यथेः किचेत्येवास्तु 'प्रहिज्या'—इत्यनेन संप्रसारणं स्यादेवेति न भ्रमितव्यम् । प्रहिज्यादिषु व्यधिर्वर्गचतुर्थो न त्वयमिति निष्कर्षात्
उ40 · Uṇ 9.1.40
मुकुरदर्दुरौ ॥ उ४० ॥
mukuradardurau
Siddhānta-kaumudī
मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।
Tattvabodhinī
alignment inferredNSP p. 529–530
—मुकुर इति । मकि मण्डने अस्मादुरच् नलोपश्च वाहुलकादिति धातोरुप-धायाः पक्षे उकार इति भावः । 'मकुरो मुकुरोऽपि च' इति विश्वः । 'मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्वमे । कुलालदण्डे' इति मेदिनी ॥—धातोर्विर्येचममिति । केचित्तु गुणे तुममाजश्च विपात्यत इत्याहुः । श्रुम्मजाले जेति । मामजालेति पाठा- न्तरम्
उ41 · Uṇ 9.1.41
मद्गुरादयश्च ॥ उ४१ ॥
madgurādayaśca
Siddhānta-kaumudī
उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुगागमः । कर्बुरः श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः ॥ (ग) कोकतेर्वा कुक्‌ च ॥ कुक्कुरः - कुकुरः ।
Tattvabodhinī
NSP p. 530
—महुरादयश्च । मदी हर्षे । कर्वुरः । ‘कर्वुरं सलिले हेमि कर्वुरः पापरक्षसोः । कर्वुरा कृष्णवृन्तायां शबले पुनरन्यवत्’ इति मेदिनी ॥—वन्धूरवन्धुराविति । वन्ध वन्धने ॥—कुक्कुर इति । कुक आदाने ‘कुक्कुरः कुकुरो मतः’ इति हृद्वचन्द्रः । ‘कुक्कुरः सारमेये ना प्रन्थिपणें नपुंसकम्’ इति मेदिनी । अत सातत्यगमने । आदिदीर्घः । आतुरः । वा गतिगन्धनयोः । गुगागमः । ‘वागुरा मृगवन्धिनी’ इत्यादिरपि हेयम् । अस्तेः । असु क्षेपणे
उ42 · Uṇ 9.1.42
असेरुरन् ॥ उ४२ ॥
aseruran
Siddhānta-kaumudī
असुरः । प्रज्ञाद्यण् । आसुरः ।
उ43 · Uṇ 9.1.43
मसेश्च ॥ उ४३ ॥
maseśca
Siddhānta-kaumudī
पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।
Tattvabodhinī
NSP p. 530
—मस्तेश्च । मसी परिणामे । ‘मसुरा मसूरा वा ना वेश्यात्रीहिप्रभेदयोः । मसूरी पापरोगे स्यादुपधाने पुनः पुमान्’ इति मेदिनी
उ44 · Uṇ 9.1.44
शावशेराप्तौ ॥ उ४४ ॥
śāvaśerāptau
Siddhānta-kaumudī
शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।
Tattvabodhinī
alignment inferredNSP p. 530
—शावशेः—। शु इति कृताकारलोप आशुशब्दस्तस्मिन्नुपपदे आतौ गम्यमानायाम् अश्लू व्याप्तावित्यस्माद्धातोरुन्स्यात् । श्वशुरो दम्पत्योः पिता । ‘पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः’ इत्यमरः ॥—अवि—। अव रक्षणादौ । मह पूजायाम् ॥—अविष इति । राजा समुद्रश्च । महिषो महान् । ‘तुरीयं धाम महिषो विवक्ति’ । ‘उत माता महिषमन्ववेनत्’ । दित्त्वान्डीप् । महिषी राजपत्नी ॥—रुहेः । रुह वीजजन्मनि प्रादुर्मावे च । ‘रौहिषो मृगभेदः स्याद्रौहिषं च तृणं मतम्’ इति संसारावर्तः ॥—वेदभाष्यमिति । ‘इन्द्रो वृत्रस्य तविषीम्’ । ‘इन्द्रस्यात्र तविषीभ्यो विरपशिन्’ इत्यादिमन्त्रेष्विति भावः । वैदिकनिघण्टौ ‘ओजः पाजः’ इत्यादिषु वलनामसु तविषीशब्दस्य पाठश्चेह मूलमिति बोध्यम् । ‘तविषः शोभनाकारे वलेऽविधव्यवसाययोः । तविषी देवकन्यायां पुंसि खर्गे महोदधौ । तविषी चेन्द्रकन्यायां ना खर्गाम्बुधिकाच्चने’ इति मेदिनी
उ45 · Uṇ 9.1.45
अविमह्योष्टिषच् ॥ उ४५ ॥
avimahyoṣṭiṣac
Siddhānta-kaumudī
अविषः । महिषः ।
उ46 · Uṇ 9.1.46
अमेर्दीर्घश्च ॥ उ४६ ॥
amerdīrghaśca
Siddhānta-kaumudī
आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।
उ47 · Uṇ 9.1.47
रुहेर्वृद्धिश्च ॥ उ४७ ॥
ruhervṛddhiśca
Siddhānta-kaumudī
रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।
उ48 · Uṇ 9.1.48
तवेर्णिद्वा ॥ उ४८ ॥
taverṇidvā
Siddhānta-kaumudī
तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।
उ49 · Uṇ 9.1.49
नञि व्यथेः ॥ उ४९ ॥
nañi vyatheḥ
Siddhānta-kaumudī
अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।
Tattvabodhinī
NSP p. 530
—नञि व्यथेः । व्यथ भयसंचलनयोः ॥—किलेः—। किल श्वैत्यक्रीडनयोः अस्माद्दिवच्च धातोर्वुगागमश्च । ‘किल्विषं पापरोगयोः । अपराधेऽपि’ इति मेदिनी
उ50 · Uṇ 9.1.50
किलेर्बुक् च ॥ उ५० ॥
kilerbuk ca
Siddhānta-kaumudī
किल्बिषम् ।
उ51 · Uṇ 9.1.51
इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् ॥ उ५१ ॥
iṣimadimudikhidicchidibhidimandicanditimimihimuhimucirucirudhibandhiśuṣibhyaḥ kirac
Siddhānta-kaumudī
इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।
Tattvabodhinī
NSP p. 530–531
—इषिमदि—। इषु इच्छायाम्, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुत्यादौ, चदि आह्वादने, तिम आर्द्रीभावे, मिह सेचने, मुह वैचित्ये, मुच्लृ भोक्षणे, रुच दीप्तौ, रुधिर् आवरणे, वन्ध वन्धने, शुप शोषणे ॥—इषिरोऽग्निरिति । आहार इत्यन्ये । ‘छिदिरः पावके रज्जौ करवाले परश्वधे’ इति मेदिनी । ‘मन्दिरं नगरेऽगारे क्लीवं ना मकरालये’ इति मेदिनी । ‘चन्दिरोऽनेकपे चन्द्रे’ इति च । ‘तिमिरं ध्वान्तं नेत्रामयान्तरे’ इति । ‘मिहिरः सूर्यवुद्धयोः’ इति मेदिनी । ‘मिहिरः कामिमूर्खयोः’ इति च । ‘सुन्दरं रुचिरं चारु’ इत्यमरः । रुधिरोऽङ्गारके पुंसि क्लीवं तु कुक्कुमासृजोः’ इति मेदिनी । वधिरः श्रोत्रेन्द्रियरहितः । ‘शुषिरं विवरं विलम्’ इत्यमरः ॥—अशेः—। अशभोजने ॥—अजिर—। अज गतौ, शश हुतगतौ, घ्रा गतिनिवृत्तौ, स्फायी वृद्धौ, खद हिंसायाम् ॥—अजिरमिति । दशपादीवृत्तौ तु नञ्पूर्वस्य जीर्यतेर्ऋवर्णलोपो निपात्यते इत्युक्तं तदपि प्राह्यम् । ‘आशु हुतमजिरं प्रत्नमीज्ज्वम्’ इत्यादौ न जीर्यतीत्यजिर इत्यस्यानुगुणत्वात् ॥—अङ्गणमिति । अङ्गेत्युदि अनादेशः । नकारस्य वाहुलकात् णत्वमित्येके । अन्ये तु दन्त्यमेवेच्छन्ति । ‘अजिरं प्राङ्गणे काये विपये दर्दुरेऽनिले’ इति मेदिनी । ‘शिशिरो ना हिमे न त्नी ऋतुभेदे जडे त्रिषु’ इति च विश्वकोशस्थमाह—शिशिरं स्यादिति । खदिरो वृक्षभेदः । ‘खदिरी शाकभेदे त्नी ना चन्द्रे दन्त- धावने’ इति मेदिनी ॥—शिविरमिति । शेरतेऽस्मिन् राजवलानि, ‘निवेशः शिविरं शण्डे’ इत्यमरः ॥—सलिकलि—। पल गतौ, कल संख्याने, अन प्राणने, मह पूजायाम्, भङि परिभाषणे, भदि कल्याणे सुखे च, शङि रुजायाम्, पिङि संघाते, तुङि तोडने, कुक आदाने, भू सत्तायाम्, कुट कौटिल्ये ॥—कलिल इति । मिथ्रो गहनश्च । ‘कलिलं गहनं समे’ इत्यमरः ॥—महिलेति । ‘महिला फलिनीस्त्रियोः’ इति मेदिनी । ‘प्रियङ्कुः फलिनी फली’ इत्यमरः ॥ —पृषोदरेति । तथा च दमयन्तीकाव्ये प्रयोगः ‘परमहेलारतोऽप्यपरदारिकः’ इति । परस्य महेला स्त्री अथ च परमाउत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः ॥—कमेः—। कमु कान्तौ । अस्मादिलच् पश्चान्तादेशः । ‘कपिला रेणुकायां च शिशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णमेदे त्रिलिङ्गकम् । नानले वासुदेवे च मुनिभेदे च कुकुरे’ इति मेदिनी । रेणुकेह लताविशेषः । ‘हरेणू रेणुका कुन्ती कपिला भस्मगन्धिनी’ इत्यमरात्
उ52 · Uṇ 9.1.52
अशेर्णित् ॥ उ५२ ॥
aśerṇit
Siddhānta-kaumudī
आशिरो वह्निरक्षसोः ।
उ53 · Uṇ 9.1.53
अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः ॥ उ५३ ॥
ajiraśiśiraśithilasthirasphirasthavirakhadirāḥ
Siddhānta-kaumudī
अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।
उ54 · Uṇ 9.1.54
सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ॥ उ५४ ॥
salikalyanimahibhaḍibhaṇḍiśaṇḍipiṇḍituṇḍikukibhūbhya ilac
Siddhānta-kaumudī
सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।
उ55 · Uṇ 9.1.55
कमेः पश्च ॥ उ५५ ॥
kameḥ paśca
Siddhānta-kaumudī
कपिलः ।
उ56 · Uṇ 9.1.56
गुपादिभ्यः कित् ॥ उ५६ ॥
gupādibhyaḥ kit
Siddhānta-kaumudī
गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।
Tattvabodhinī
NSP p. 531
—गुपादिभ्यः—। गुपू रक्षणे, तिज निशाने, गुहू संवरणे
उ57 · Uṇ 9.1.57
मिथिलादयश्च ॥ उ५७ ॥
mithilādayaśca
Siddhānta-kaumudī
मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।
Tattvabodhinī
NSP p. 531
—मिथिलादयश्च । मथे विलोडने । अकारस्येत्येवं निपातनात् । पथे गतौ
उ58 · Uṇ 9.1.58
पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥ उ५८ ॥
patikaṭhikuṭhigaḍiguḍidaṃśibhya erak
Siddhānta-kaumudī
पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।
Tattvabodhinī
NSP p. 531
—पतिकठि—। पतल गतौ, कठ कृच्छ्रजीवने, कुठि च, गड सेचने, गुड रक्षायाम्, दंश दशने । कुठिधातोरिदित्वात् नुमि प्राप्ते आह— वाहुलकादिति ॥—कुम्बेः—। कुवि आच्छादने । अन्येषामैश्वर्यं कुम्बतीति कुवेरः । ‘कुवेररुच्यम्बकसखः’ ॥—शदेः—। शद् शातने
उ59 · Uṇ 9.1.59
कुम्बेर्नलोपश्च ॥ उ५९ ॥
kumbernalopaśca
Siddhānta-kaumudī
कुबेरः ।
उ60 · Uṇ 9.1.60
शदेस्त च ॥ उ६० ॥
śadesta ca
Siddhānta-kaumudī
शतेरः शत्रुः ।
उ61 · Uṇ 9.1.61
मूलेरादयः ॥ उ६१ ॥
mūlerādayaḥ
Siddhānta-kaumudī
एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।
Tattvabodhinī
NSP p. 531
—मूलेरा—। मूल प्रतिष्ठायाम्, गुध परिवेष्टने, गुहू संवरणे, मुह वैचित्ये ॥—कवे—। कवृ वर्णे । ‘कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः’ इति मेदिनी । ‘कपोतः पक्षिमात्रेऽपि’ इति त्रिकाण्डशेषः । अत्र ओतचक्षित्वं प्रामादिकम् । ‘यत्कपोतः पदममौ कृणोति’, ‘देवाः कपोत इपितो यदिच्छन्’ इत्यादौ सर्वत्र प्रत्ययस्वरेण मध्योदात्तस्यैव पत्र्यमानत्वादित्याहुः ॥—भातेः—। भा दीप्तौ । भवानिति सर्वनामशब्दोऽयम् ॥ कठि कृच्छ्रजीवने, चक तृप्तौ । कठोरः कठिनः पूर्णश्च । ‘कठोरताराधिपलाञ्छनच्छविः’ इति माघः । चकोरः पक्षिभेदः । किशोरः । शॄ हिंसायाम् । षह मर्षणे । ‘किशोरोऽश्वस्य शावके । तैलपर्ण्यौषधौ च स्यात्तरुणावस्थसूर्ययोः’ इति मेदिनी
उ62 · Uṇ 9.1.62
कबेरोतच् पश्च ॥ उ६२ ॥
kaberotac paśca
Siddhānta-kaumudī
कपोतः पक्षी ।
उ63 · Uṇ 9.1.63
भातेर्डवतुः ॥ उ६३ ॥
bhāterḍavatuḥ
Siddhānta-kaumudī
भातीति भवान् ।
उ64 · Uṇ 9.1.64
कठिचकिभ्यामोरन् ॥ उ६४ ॥
kaṭhicakibhyāmoran
Siddhānta-kaumudī
कठोरः । चकोरः ।
उ65 · Uṇ 9.1.65
किशोरादयश्च ॥ उ६५ ॥
kiśorādayaśca
Siddhānta-kaumudī
किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।
उ66 · Uṇ 9.1.66
कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ उ६६ ॥
kapigaḍigaṇḍikaṭipaṭibhya olac
Siddhānta-kaumudī
कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।
Tattvabodhinī
NSP p. 531
—कपिगडि—। कपि चलने, गड सेचने, गडि वदनैकदेशे, कटे वर्षावरणयोः, पट गतौ ॥—कपोल इति । केचित्तु सूत्रे कडि पठन्ति । कडि मदे । कण्डोलश्चण्डालः । ‘चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी’ इत्यमरः ॥—पटोल इति । ‘पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति’ इति मेदिनी । कल शब्दे । वाहुलकादतोप्योलच् । ‘कल्लोलः पुंसि हर्षे स्यान्महत्सूर्मिषु वारिणः’ इति मेदिनी
उ67 · Uṇ 9.1.67
मीनातेरूरन् ॥ उ६७ ॥
mīnāterūran
Siddhānta-kaumudī
मयूरः ।
उ68 · Uṇ 9.1.68
स्यन्देः संप्रसारणं च ॥ उ६८ ॥
syandeḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
सिन्दूरम् ।
Tattvabodhinī
NSP p. 531
—स्यन्देः—। स्यन्दू प्रस्रवणे । ‘सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके’ इति मेदिनीविश्वप्रकाशौ
उ69 · Uṇ 9.1.69
सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् ॥ उ६९ ॥
sitanigamimasisacyavidhāñkruśibhyastun
Siddhānta-kaumudī
सिनोतीति सेतुः । तितुत्र- {SK 3163} इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । ज्वरत्वर- {SK 2654} इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।
Tattvabodhinī
NSP p. 531
—सितनि—। षिञ् वन्धने, तत्तु विस्तारे, गम्ल गतौ, मसी परिणामे, षच सेचने, अव रक्षणादौ, हुधाञ् धारणपोषणयोः, कुश आक्रोशे । ‘सेतुर्नालौ कुमारके’ इति मेदिनी । ‘सेतुरालौ स्त्रियां पुमान्’ इत्यमरः । ‘सूत्राणि नरि तन्तवः’ इत्यमरः । ‘मण्डं दधिभवं मस्तु’ इति च । ‘धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततद्गुणेषु रसादिषु । मनःशिलादौ श्लेष्मादौ विशेषाद्वैरिकेऽस्मि च’ इति मेदिनी । ‘श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः’ इत्यमरः
उ70 · Uṇ 9.1.70
पः किच्च ॥ उ७० ॥
paḥ kicca
Siddhānta-kaumudī
पिबतीति पितुर्वह्नौ दिवाकरे ।
Tattvabodhinī
NSP p. 531
—पः किञ्च । पा पाने अस्मात्तुन् स च कित् । कित्वात् ‘घुमास्था—’ इतीत्त्वम्
उ71 · Uṇ 9.1.71
अर्तेश्च तुः ॥ उ७१ ॥
arteśca tuḥ
Siddhānta-kaumudī
अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।
Tattvabodhinī
NSP p. 531–532
—अर्तेश्च तुः । ऋ गतौ । तुनि प्रकृते अन्तोदात्तार्थं तुः कियते । ‘ऋतुना यज्ञं, य ऋतुर्जनीनाम्’ इत्यादि । ‘ऋतुर्वर्षादिषदसु च । आर्तवे मासि च पुमान् इति मेदिनी । ‘ऋतुः स्त्रीकुषुमेऽपि च’ इत्यमरः
उ72 · Uṇ 9.1.72
कमिमनिजनिगाभायाहिभ्यश्च ॥ उ७२ ॥
kamimanijanigābhāyāhibhyaśca
Siddhānta-kaumudī
एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।
Tattvabodhinī
NSP p. 532
—कमिमनि—। कमु कान्तौ, मन ज्ञाने, जनी प्राङ्मावे, गै शब्दे, भा दीप्तौ, या प्रापणे, हि गतौ वृद्धौ च । कमिग्रहणं प्रपञ्चार्थम् । ‘अर्जिदृशि—’ इत्यादिना कुप्रत्यये तुकि सिद्धत्वात् ॥—मन्तुरिति । ‘मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ’ इति मेदिनी । ‘गातुर्नां कोकिले भृज्ञे गन्धर्वे त्रिषु रोषणे’ इति मेदिनी । ‘भातुर्नां किरणे सूर्ये’ इति
उ73 · Uṇ 9.1.73
चायः किः ॥ उ७३ ॥
cāyaḥ kiḥ
Siddhānta-kaumudī
केतुर्ग्रहपताकयोः ।
Tattvabodhinī
NSP p. 532
—चायः किः । चायृ पूजानिशामनयोः । अस्मात्तुर्धातोः किरादेशश्च । ‘केतुर्नां रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि’ इति मेदिनी
उ74 · Uṇ 9.1.74
आप्नोतेर्ह्रस्वश्च ॥ उ७४ ॥
āpnoterhrasvaśca
Siddhānta-kaumudī
अप्तुः शरीरम् ।
Tattvabodhinī
NSP p. 532
—आप्नोते—। आप्तु व्याप्तौ ॥—अमुः शरीरमिति । अभिलषितार्थश्चाप्तव्यत्वात् । अत एव यागविशेषवाचकत्वेऽप्तोर्यामशब्दस्याभिलषितार्थप्रापक इत्यवयवार्थमाहुः ॥—वसेः—। वस निवासे ॥—कृञः—। डुकृञ् करणे । क्रतोः कित्त्वाद्गुणाभावे यणादेशः । ‘क्रतुर्यज्ञे मुनौ पुंसि’ इति मेदिनी
उ75 · Uṇ 9.1.75
वसेस्तुन् ॥ उ७५ ॥
vasestun
Siddhānta-kaumudī
वस्तु ।
उ76 · Uṇ 9.1.76
अगारे णिच्च ॥ उ७६ ॥
agāre ṇicca
Siddhānta-kaumudī
वेश्मभूर्वास्तुरस्त्रियाम् ।
उ77 · Uṇ 9.1.77
कृञः कतुः ॥ उ७७ ॥
kṛñaḥ katuḥ
Siddhānta-kaumudī
क्रतुर्यज्ञः ।
उ78 · Uṇ 9.1.78
एधिवह्योश्च तुः ॥ उ७८ ॥
edhivahyośca tuḥ
Siddhānta-kaumudī
एधतुः पुरुषः । वहतुरनड्वान् ।
Tattvabodhinī
NSP p. 532
—एधिवह्योश्च तुः । एध वृद्धौ, वह प्रापणे, चित्त्वादन्तोदात्तः । ‘स्योनं पत्ये वहतुं कृणुष्व’ । ‘वहतुः पथिके वृषभे पुमान्’ इति मेदिनी
उ79 · Uṇ 9.1.79
जीवेरातुः ॥ उ७९ ॥
jīverātuḥ
Siddhānta-kaumudī
जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।
Tattvabodhinī
alignment inferredNSP p. 532
—जीवेः—। जीव प्राणधारणे
उ80 · Uṇ 9.1.80
आतृकन् वृद्धिश्च ॥ उ८० ॥
ātṛkan vṛddhiśca
Siddhānta-kaumudī
जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।
Tattvabodhinī
NSP p. 532
—आतृकन्—। ‘जैवातृकः पुमान् सोमे कृषकायुष्मतोत्त्रिषु’ इति मेदिनी
उ81 · Uṇ 9.1.81
कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः ॥ उ८१ ॥
kṛṣicamitanidhanisarjikharjibhya ūḥ
Siddhānta-kaumudī
कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।
Tattvabodhinī
NSP p. 532
—कृषिचमि—। कृष विलेखने, चमु अदने, तत्तु विस्तारे, धन धान्ये । रभसकोशस्थमाह—कर्षूः पुंसीत्यादि । ‘कर्षूः पुमान् करीषामौ स्त्रियां कुत्याल्पखातयोः’ इति मेदिनी । ‘वमूः सेनाविशेषे च सेनामात्रे च योषिति’ इति मेदिनी । ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । ‘सर्जूर्वणिजि विद्यति । ‘स्त्रियां खगें विधौ रुद्रे’ इति मेदिनी ॥ ‘खर्जूः कीटान्तरे वृत्तौ’, ‘खर्जूरीपादपे कण्ड्वाम्’ इति च ॥—मृजेः—। मृज् शुद्धौ । अस्माद् स्याद्बुद्ध्यपवादो गुणश्च । ‘मर्जूः स्त्री शुद्धौ धावकेऽपि च’ इति मेदिनी
उ82 · Uṇ 9.1.82
मृजेर्गुणश्च ॥ उ८२ ॥
mṛjerguṇaśca
Siddhānta-kaumudī
मर्जूः शुद्धिकृत् ।
उ83 · Uṇ 9.1.83
वहो धश्च ॥ उ८३ ॥
vaho dhaśca
Siddhānta-kaumudī
वधूर्जायास्नुषास्त्रीषु ।
Tattvabodhinī
NSP p. 532
—वहो धश्च । वह प्रापणे । ‘वधूः सुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च’ इति विश्वः । ‘पृक्का महिला च वधूः’ इति त्रिकाण्डशेषः
उ84 · Uṇ 9.1.84
कषेश्छश्च ॥ उ८४ ॥
kaṣeśchaśca
Siddhānta-kaumudī
कच्छूः पामा ।
Tattvabodhinī
NSP p. 532
—कपेश्छश्च । कपशिषेति दण्डके हिंसार्थेऽस्माद् स्याच्छश्चान्तादेशः । ‘कच्छ्वां तु पाम पामा विचर्चिका’ इत्यमरः
उ85 · Uṇ 9.1.85
णित्कसिपद्यर्तेः ॥ उ८५ ॥
ṇitkasipadyarteḥ
Siddhānta-kaumudī
कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।
Tattvabodhinī
NSP p. 532
—णित्कसि—। कसं गतौ, पदं गतौ, ऋ गतौ । ‘कासूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रियाम्’ इति मेदिनी । ‘कासूः शक्त्यायुधे रुजि । वुद्धौ विकलवाचि स्यात्’ इति हेमचन्द्रः
उ86 · Uṇ 9.1.86
अणो डश्च ॥ उ८६ ॥
aṇo ḍaśca
Siddhānta-kaumudī
आडूर्जलप्लवद्रव्यम् ।
Tattvabodhinī
NSP p. 532
—अणो डश्च । अण दण्डके शब्दार्थः । अस्माद् स्यात्स च णित् डश्चान्तादेशः
उ87 · Uṇ 9.1.87
नञि लम्बेर्नलोपश्च ॥ उ८७ ॥
nañi lambernalopaśca
Siddhānta-kaumudī
तुम्ब्यलाबूरुभे समे इत्यमरः ।
Tattvabodhinī
alignment inferredNSP p. 532
—नञि लम्बेः—। लवि अवसंसने । न लम्बते जले इत्यलावूः
उ88 · Uṇ 9.1.88
के श्र एरङ् चास्य ॥ उ८८ ॥
ke śra eraṅ cāsya
Siddhānta-kaumudī
कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।
Tattvabodhinī
NSP p. 532
—के श्र—। श्रू हिंसायाम्
उ89 · Uṇ 9.1.89
त्रो दुट् च ॥ उ८९ ॥
tro duṭ ca
Siddhānta-kaumudī
तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।
Tattvabodhinī
NSP p. 532
—त्रो दुट् च । त्रुल्लवनतरणयोः ॥—तर्दूरिति । ‘नेड्वृशि—’ इति नेट् । वरमनादाविति परिगणनं तु वाहुलकान्नाश्रीयते इत्याहुः । केचित्तु इडभावे ‘त्रो दुक् च’ इति पठित्वा धातोः दुगागममाहुः । तेषां तु धातोर्गुणो दुर्लभः । दुगागमात्पूर्वं यत्प्राप्तं तदपि भवतीत्येवं चकारवलेन व्याख्याय वा गुणः साधनीयः
उ90 · Uṇ 9.1.90
दरिद्रातेर्यालोपश्च ॥ उ९० ॥
daridrāteryālopaśca
Siddhānta-kaumudī
इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।
Tattvabodhinī
alignment inferredNSP p. 532–533
—दरिद्रातेः—। दरिद्रा दुर्गतौ ॥—इश्च आश्चेति । भोजदेवस्तु र्यालोप इति रेफादिकं पदं छित्त्वा द्वेधा व्याख्यातवान् । रिश्व आश्चेति व्याख्या । दद्धः । रश्व इश्व आश्चेति व्याख्याने तु ‘अन्त्यवाधेऽन्त्यसदेशस्य’ इति द्वितीयस्यैव रेफस्य लोपाद्दर्शिति । मृगध्वादित्वात्कुप्रत्यये दर्दूरित्यन्ये । ‘दर्दूणो दद्धरोगी स्यात्’ इत्यमरः । इत्थं चत्वारि रूपाणि ॥—नृति—। नृती गात्रविक्षेपे, शुधु शब्दकुत्सायाम् ॥—अन्दूहम्भू—। अदि वन्धने । ‘नृतिशृण्योः कुः’ इत्यत्रादिग्रहणं न कृतं वैचित्र्यार्थमित्याहुः । ला आदाने कफपूर्वः । डुधाञ् धारणादौ कर्कपूर्वः । षोऽन्तकर्मणि दिधिपूर्वः षत्वं च ॥—अन्दूर्वन्धनमिति । ‘अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य’ च’ इति मेदिनी । ‘अन्दुको हस्तिनि गदे’ इत्यमरः । संज्ञायां कन् । ‘केणः’ इति हस्तः । केचित्तु अम गतौ अस्य दुक् । अन्दुर्वृद्धिरिति व्याचाख्याः ॥—दसी ग्रन्थ इति । तुदादिरयम् । दम्भतीति दम्भूः संदर्भकर्तेत्यर्थः । कथक इत्यन्ये । कैयटमतानुरोधेनास्य रूपाणि हृद्ववदित्युक्तम् । माधवा-दयस्तु दृढशब्दे उपपदे भुवः कूप्रत्ययः । उपपदस्य दृष्टादेशो निपात्यते । यद्वा दृढार्थकं दृष्टिति नान्तमव्ययमुपपदम् । दम्भूस्तु सर्पः कपिवेति व्याख्याय ‘दन्कर-’ इति यणि वर्षाभूवद्रूपमस्येत्याहुः ॥—हृस्तोऽपीति । अत एव विक्रमादि-त्येनोक्तं ‘तस्या जम्ब्वाः फलरसो नदीभूय प्रवर्तते’ इति । केचित्तु ‘परिणतजम्बुफलोपभोगहृद्या’ इति भारविप्रयोगं हृष्टा-न्तत्वे साधकत्वेनोदाजहुस्तन्न । ‘इको हृस्तो डथ-’ इत्युत्तरपदाधिकारस्थहस्वविधायकमूत्रेण गतार्थलात् ॥—दिधिमिति । केचित्तु दधातेरित्वं द्वित्वं पुक् च निपात्यते । दधात्यसौ दिधिपूरित्याहुः ॥—पुनर्भूरिति । ‘पुनर्भूर्दिधिपूरूढा द्विः’ इ-त्यमरः । द्विरूढा द्विवारं विवाहितेत्यर्थः । उज्ज्वलदत्तोक्तं पाठमाह—केचित्त्विति । एतच्च कैयटमाधवादिग्रन्थविरुद्धम् । अत एव ‘दम्भूः स्त्री सर्पचक्रयोः’ इति भान्ते मेदिनी
उ91 · Uṇ 9.1.91
नृतिशृध्योः कूः ॥ उ९१ ॥
nṛtiśṛdhyoḥ kūḥ
Siddhānta-kaumudī
नृतूर्नर्तकः । शृधूरपानम् ।
उ92 · Uṇ 9.1.92
ऋतेरम् च ॥ उ९२ ॥
ṛteram ca
Siddhānta-kaumudī
ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।
उ93 · Uṇ 9.1.93
अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः ॥ उ९३ ॥
andūdṛmbhūjambūkaphelūkarkandhūdidhiṣūḥ
Siddhānta-kaumudī
एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जमेर्बुक्‌ । जम्बूः । जमु अदने इत्यस्येत्येके । बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम्‌ । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम्‌ । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु 'अन्दूदृम्भूजम्बूकम्बू' इति पठन्ति । दृम्फ उत्क्लेशे दृम्फूः सर्पजातिः । कमेर्बुक्‌ । कम्बूः परद्रव्यापहारी ।
उ94 · Uṇ 9.1.94
मृग्रोरुतिः ॥ उ९४ ॥
mṛgrorutiḥ
Siddhānta-kaumudī
मरुत् । गरुत्पक्षः ।
Tattvabodhinī
NSP p. 533
—मृग्रोः-। मृङ् प्राणत्यागे, गॄ निगरणे, आभ्यामुरितीकारस्तका-रस्येत्संज्ञापरित्राणार्थः ॥—मरुदिति । प्रज्ञादित्वादणि मारुतोऽपि । मरुतशब्दोऽप्यब्युत्पन्नोऽस्ति । तथा च विक्रमादि-त्यकोशः । ‘मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्’ इति ‘कोऽयं वाति स दाक्षिणात्यमरुतः’ इति कविराजश्लोकेऽनु-पपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं केचित्कल्पयन्त्यल्पदृश्यान इति वर्णविवेकः ॥—गरुदिति । यवादिरयम् । तेना-स्मात्परस्य मतुपो मस्य ‘क्षयः’ इत्यनेन वत्वं न । गरुत्मान् ॥—गर्भुदिति । ‘गर्भुत्स्त्री स्वर्णलतयोः’ इति मेदिनी ॥—हृषेः-। हृष तुष्टौ ॥—चटतेरिति । चटे वर्षावरणयोः ॥—हृस्त-। हृश् हरणे, स्र गतौ, रुह वीजजन्मनि । विश्वकोश-स्थमाह—हरिदिति । ‘हरिदिशि स्त्रियां पुंसि हर्षवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च’ इति मेदिनी ॥—ऋद्दयस्येति । एतेन ‘गतं रोहिद्भूतां रिरमयिषुमृदयस्य वपुषा-’ इति पुष्पदन्तप्रयोगो व्याख्यातः । ‘रोहिन्मृग्यां लताभेदे स्त्री नार्के’ इति मेदिनी ॥—ताडेः-। तड आघाते प्यन्तः । ‘तडित्सौदामिनी विद्युत्’ इत्यमरः
उ95 · Uṇ 9.1.95
ग्रो मुट् च ॥ उ९५ ॥
gro muṭ ca
Siddhānta-kaumudī
गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।
उ96 · Uṇ 9.1.96
हृषेरुलच् ॥ उ९६ ॥
hṛṣerulac
Siddhānta-kaumudī
हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।
उ97 · Uṇ 9.1.97
हृसृरुहियुषिभ्य इतिः ॥ उ९७ ॥
hṛsṛruhiyuṣibhya itiḥ
Siddhānta-kaumudī
हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।
उ98 · Uṇ 9.1.98
ताडेर्णिलुक् च ॥ उ९८ ॥
tāḍerṇiluk ca
Siddhānta-kaumudī
ताडयतीति तडित् ।
उ99 · Uṇ 9.1.99
शमेर्डः ॥ उ९९ ॥
śamerḍaḥ
Siddhānta-kaumudī
बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।
उ100 · Uṇ 9.1.100
कमेरठः ॥ उ१०० ॥
kameraṭhaḥ
Siddhānta-kaumudī
कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।
उ101 · Uṇ 9.1.101
रमेर्वृद्धिश्च ॥ उ१०१ ॥
ramervṛddhiśca
Siddhānta-kaumudī
रामठं हिङ्गु ।
उ102 · Uṇ 9.1.102
शमेः खः ॥ उ१०२ ॥
śameḥ khaḥ
Siddhānta-kaumudī
शङ्खः ।
Tattvabodhinī
NSP p. 533
—शमेः-। शम उपशमे ।—वाहुलकादिति । यद्यपि ‘नेडुशि कृति’ इत्यनेनैव इडभावस्य सिद्धत्वादिद्रच नेत्येतदयुक्तं तथापि नेडुरमनादाविति परिगणनाद्वहुलग्रहणमाश्रित्यैव इडभावोऽपि साधितः । ‘शण्डः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ इति मेदिनी ॥—कमेः-। कमु कान्तौ । ‘कमठः कच्छपे पुंसि भाण्डभेदे नपुंसके’ इति मेदिनी ॥—जरठ इति । जॄ वयोहानौ । ‘जरठः कठिने पाण्डौ कर्कशेऽप्यभिधेयवत्’ इति विश्वमेदिन्यौ । ‘जरठः कठिने जीर्णे’ इति वैजयन्ती ॥—रमेः-। रम क्रीडायाम् ॥—शमेः-। शम उपशमे । ‘शङ्खो निधौ ललाटास्थि कम्वौ न स्त्री’ इत्यमरः । ‘शङ्खः कम्वौ न योषिन्ना भालास्थिनिधिभिन्नस्त्रे’ इति मेदिनी
उ103 · Uṇ 9.1.103
कणेष्ठः ॥ उ१०३ ॥
kaṇeṣṭhaḥ
Siddhānta-kaumudī
कण्ठः ।
Tattvabodhinī
NSP p. 533
—कणेः-। ‘कण्ठो गले सन्निधाने ध्वनौ मदनपादपे’ इति विश्वमेदिन्यौ ॥—कल-। तृप प्रीणने ॥—फलत्रिक इति । ‘त्रिपला त्रिफला च सा’ इति विश्वः । त्रिफलाशब्दसमानार्थस्तृपलाशब्द इति ‘द्विगोः’ इति सूत्रे रक्षितः ॥—शपेः-। शप आक्रोशे
उ104 · Uṇ 9.1.104
कलस्तृपश्च ॥ उ१०४ ॥
kalastṛpaśca
Siddhānta-kaumudī
तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।
उ105 · Uṇ 9.1.105
शपेर्बश्च ॥ उ१०५ ॥
śaperbaśca
Siddhānta-kaumudī
शबलः ।
उ106 · Uṇ 9.1.106
वृषादिभ्यश्चित् ॥ उ१०६ ॥
vṛṣādibhyaścit
Siddhānta-kaumudī
वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । (ग) कमेर्बुक्‌ च ॥ कम्बलः । मुस खण्डने मुसलम्‌ । (ग) लङ्गेर्वृद्धिश्च ॥ लाङ्गलम्‌ । (ग) कुटिकशिकौतिभ्यः प्रत्ययस्य मुट्‌ च ॥ कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम्‌ । बाहुलकाद्गुणः । कोमलम्‌ ।
Tattvabodhinī
NSP p. 533–534
—वृषादिभ्यः । वृषु सेचने, पल गतौ, स्र गतौ, तृ स्र-नंतरणयोः । ‘शद्राश्वावरणार्थं वृषलाश्व जघन्यजाः’ इत्यमरः । ‘वृषलस्तुरगे शद्रे’ इति हेमचन्द्रः । ‘पललं तिलचूर्णे च पिके मांसे नपुंसकम् । ना राक्षसे’ इति मेदिनी । फलप्रत्ययस्य कित्वादाह—वाहुलकादिति । ‘सरलः पूतिकाष्ठे नाऽथो-दारावक्रयोस्त्रिषु’ इति मेदिनी । ‘सरला विरलायन्ते घनायन्ते कलिद्रुमाः । न शमी न च पुन्नागा अस्मिन्संसारकानने’ इत्यभियुक्तप्रयोगः ॥—कमेः-। कमु कान्तौ । अस्माद् वृषादित्वेन फलप्रत्यये वाहुलकादित्यनुषज्यत इति युक् । ‘कम्व-लो नागराजे स्यात्सान्नाप्रावारयोरपि । क्रमावप्युत्तरासङ्गे सलिले तु नपुंसकम्’ इति मेदिनी । ‘मुसलं स्यादयोऽग्रे च पुंन-पुंसकयोः स्त्रियाम् । तालमूल्यामात्रपूर्णाय द्वयोधिकयोरपि’ इति मेदिनी । मूर्धन्यमध्योऽप्ययमिति वर्णदेशना । मुस खण्डन इति धातोर्दन्यान्तेषु मूर्धन्यान्तेषु च वोपदेवादिभिः पठितलात् । उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः । अत एव 'मुसलो मुपलोऽपि च' इति विश्वकोशे मुशलोऽपि चेति पाठान्तरम् ॥—लङ्केः—। लगि गतौ अस्मात्कलप्रत्यये वाहुलकादित्यनुषङ्गाद्वद्धिरिति भावः । एवमग्रेऽपि । मुडागमो वाहुलकादेव॥—कुटिकाशि—। कुट कौटिल्ये, कश गतिशासनयोः, कुं शब्दे, अस्मात्कलप्रत्यये गुणो नेत्याशङ्क्याह—वाहुलकादिति । 'कोमलं मृदुलं मृदु' । वाहुलकादन्यत्रापि वोध्यः । तथा । कुस श्लेषणे । दन्त्यान्तोऽयम् । वोपदेवमते तु तालव्यान्तोऽपि गुणः । कोशलः । कोसलो वा देशविशेषः । 'द्वदेत्कोसला—' इति सूत्रे तु दन्त्यान्त एव सांप्रदायिकः । संव संवन्धे, शंव च । संवलं शंवलं । 'शंवलोऽस्त्री संवलवत् कूलपाये च मत्सरे' इति मेदिनी । कदि आह्वाने नलोपः । गौरादिलान्डीषि कदली । 'मन्दाद्दोलितकर्पूरकदलीदलसंज्ञया । विश्रमाय श्रमापन्नानाहयन्तीमिवाध्वगान्' इति काशीखण्डम् । अजादेराकृतिगणलाट्टावपि । 'कदलाकदलौ पृश्न्यां कदली कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदली विम्बिकायां च' इति मेदिनी । कुश इति सौत्रो धातुः । 'कुशलः शिक्षिते त्रिषु । क्षेमे च मुकृते चापि पर्याप्तौ च नपुंसके' इति मेदिनी । कमु कान्तौ । 'कंमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः' इति विश्वमेदिन्यौ । मडि भूषायाम् । 'मण्डलं परिधौ कोठे देशे द्वादशराजके' इति मेदिनी । 'कोठो मण्डलकम्' इत्यमरः । 'विम्बोऽस्त्री मण्डलं त्रिषु' इति च ॥—मृजेः—मृज् शुद्धौ । 'मलोऽस्त्री पापविद्रक्तिं कृपणे लभिधेयवत्' इति मेदिनी ॥—चुपेः—। चुप मन्दायां गतौ । 'चपलः पारदे मीने चोरके प्रस्तरान्तरे । चपलाकमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसके तु शीघ्रे स्याद्वाच्यवत्तरले चले' इति मेदिनी ॥—शकिशम्योः—। शकृ शक्तौ, शम उपशमे, शकलं खण्डे रोहितादीनां लचि च तद्योगात् । शकली मत्स्यः । मत्स्यान् शकलानिति भाष्यम्, 'शकलं लचि खण्डे स्याद्वागवस्तुनि वल्कले' इति मेदिनी
उ107 · Uṇ 9.1.107
मृजेष्टिलोपश्च ॥ उ१०७ ॥
mṛjeṣṭilopaśca
Siddhānta-kaumudī
मलम् ।
उ108 · Uṇ 9.1.108
चुपेरच्चोपधायाः ॥ उ१०८ ॥
cuperaccopadhāyāḥ
Siddhānta-kaumudī
चपलम् ।
उ109 · Uṇ 9.1.109
शकिशम्योर्नित् ॥ उ१०९ ॥
śakiśamyornit
Siddhānta-kaumudī
शकलम् । शमलम् ।
उ110 · Uṇ 9.1.110
छो गुक् ह्रस्वश्च ॥ उ११० ॥
cho guk hrasvaśca
Siddhānta-kaumudī
छगलः । प्रज्ञादित्वाच्छागलः ।
Tattvabodhinī
NSP p. 534
—छो गुक्—। छो छेदने । 'छगलं नीलवस्त्रे ना छागे स्त्री द्वद्वदारके' इति मेदिनी
उ111 · Uṇ 9.1.111
ञमन्ताड्डः ॥ उ१११ ॥
ñamantāḍḍaḥ
Siddhānta-kaumudī
दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः । गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।
Tattvabodhinī
NSP p. 534
—अमन्ताहुः । अमिति प्रत्याहारः । दमु उपशमे, रमु क्रीडायाम्, खनु अवदारणे, मन ज्ञाने, वन संभक्तौ, अम गत्यादिषु, षणु दाने, गम्ल गतौ, चण दाने, पण व्यवहारे स्तुतौ च । काशिकायां तु त्रिभ्य एव कणमाः स्युरित्युक्तम् । अम् प्रत्याहारस्तु न स्त्रीकृतः । अष्टाध्याय्यां तस्य विषयाभावात् ॥—षण्ड इति । वाहुलकात् 'चुद्र' इति नेत्संज्ञा 'दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः । 'रण्डा मूषकपर्ण्या च विधवायां च योषिति । खण्डोऽस्त्री शकले नेश्चुविकारमणिभेदयोः । मण्डः पञ्चाङ्गले शाकभेदे क्लीवं तु मस्तुनि । चण्डा तु पांश्चलायां स्त्री त्रिषु हस्तादिवर्जिते' । अमन्ति संप्रयोगं यान्ति अनेनेति अण्डः प्राण्यवयवः । 'षण्डः पद्मादिसंघाते न स्त्री स्यात् गोपतौ पुमान्' । शङि रुजायाम्, अस्मात् घञि शण्डशब्दस्तालव्यादिरपि संघाते वर्तते इत्याशयेन मतान्तरमाह—तालव्यादिरित्यपरे इति । 'गण्डः स्यात्पुंसि खङ्गिनि । चिह्नवीरकपालेषु हयभूषणवुद्धुदे । चण्डो ना तिन्तिणीवृक्षे यमकिंकरदैत्ययोः । चण्डी कात्यायनी देव्यां हिंसा कोपनयोषितोः । षण्डः षण्डे धियि स्त्री स्यात्' इति मेदिनी ॥—पण्ड इति । फण गतौ फण्डः । प्रज्ञादिलादण् । फाण्डमुदरम्
उ112 · Uṇ 9.1.112
क्वादिभ्यः कित् ॥ उ११२ ॥
kvādibhyaḥ kit
Siddhānta-kaumudī
कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।
Tattvabodhinī
NSP p. 534–535
—कादिभ्यः कित् । कुण शब्दोपकरणयोः ॥—कुण्डमिति । इह कुण्डमित्यत्र प्रायेणानुसारमेव लिखन्ति तत्तु प्रमादकृतम् । एवमन्यत्रापि वोध्यम् । डस्य कित्वान्न गुणः । 'अनुनासिकस्य किञ्चलोः—' इति दीर्घस्तु न भवति वाहुलकात्संज्ञापूर्वकविधेरनित्यलाद्वेत्याहुः । 'कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवलीसुते पुमान् । पिठरे तु न ना' इति मेदिनी । 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः' इत्यमरः ॥—काण्डमिति । कमु कान्तौ । 'अनुनासिकस्य—' इति दीर्घः 'काण्डोऽस्त्री दण्डवाणार्ववर्गावसरवारिषु' इत्यमरः । अर्वाङ् कुत्सितः । अत एव 'काण्डं स्तम्बे तरुकन्धे वाणेऽवसरनीरयोः । कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम्' इति मेदिनी । गुङ् अव्यक्ते शब्दे । 'गुडो गोलेश्चुपाकयोः' इत्यमरः । गुडा कुही तद्वत्केशा यस्य स गुडाकेशः शिवः जटाधारित्वात् । 'गुडः स्याद्गोलके हस्तिसन्नाहेश्चुविकारयोः । गुडा कुह्यां च कथिता गुडिकायां च योचते याचने, मृज् शुद्धौ । लचा सिद्धे आलच आकारश्चिन्त्यप्रयोजनः । चित्सरं वाधित्वा पक्षे आद्युदात्तार्थमित्येके । 'स्यालं भाजनभेदेऽपि स्याली स्यात् पादलेखयोः' इति मेदिनी । 'चलालो यज्ञकुण्डे स्याद्दर्भे च' इति विश्वः । 'मार्जालीयः स्मृतः शूद्रे विडाले कायशोधने’ इति मेदिनी
उ113 · Uṇ 9.1.113
स्थाचतिमृजेरालज्वालजालीयचः ॥ उ११३ ॥
sthācatimṛjerālajvālajālīyacaḥ
Siddhānta-kaumudī
तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।
उ114 · Uṇ 9.1.114
पतिचण्डिभ्यामालञ् ॥ उ११४ ॥
paticaṇḍibhyāmālañ
Siddhānta-kaumudī
पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।
Tattvabodhinī
NSP p. 535
—पतिचण्डि—। पत्ल गतौ, चडि कोपे । पतन्लस्मिन्नधर्मेणेति पातालम् । उपधावृद्धिः । ‘अधोभुवनपातालं बलिसद्म रसातलम्’ इत्यमरः । ‘पातालं नागलोके स्याद्विवरे वडवानले’ इति मेदिनी ॥—चण्डाल इति । इदित्वानुमि अदुपधलाभावान्न वृद्धिः । माधवेन तु पतिचण्डिभ्यामालन्निति नितं पठिला पातालशब्दे वाहुलकाद्वृद्धिमुक्ला वृद्ध्यर्थमालन्निति केषांचित्पाठे तु चण्डालशब्देऽपि वृद्धिः स्यादित्युक्तं तदतिरभसात् ॥—एके इति । उज्ज्वलदत्तादयः । एतच्च कुलालवरुकर्मारनिपादचण्डालमित्रामित्रेभ्यदृढन्दसीति चण्डालात्स्वार्थेऽणं विदधता वार्तिकेन तद्भाज्येण च सह विरुद्धमिति बोध्यम्
उ115 · Uṇ 9.1.115
तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् ॥ उ११५ ॥
tamiviśibiḍimṛṇikulikapipalipañcibhyaḥ kālan
Siddhānta-kaumudī
तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।
Tattvabodhinī
NSP p. 535
—तमिविशि—। तसु काङ्क्षायाम्, विश प्रवेशने, विड आक्रोशे, मृण हिंसायाम्, कुल संस्त्याने, कपि चलने, निर्देशान्नलोपः । पल गतौ, पचि विस्तारे । ‘तमालस्तिलके खन्ने तापिच्छे वरुणद्वमे’ इति मेदिनी । ‘विशाला लिन्द्रवारुण्यामुज्जयिन्यां तु योपिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्’ इति मेदिनी । ‘विडालो नेत्रपिण्डे स्याद्वृषदंशकके पुमान्’ इति च मेदिनी । ‘ओतुर्विडालो मार्जारो वृषदंशक आख्युक्’ इत्यमरः । ‘मृणालं नलदे क्लीवं पुंनपुंसकयोर्विसे’ इति मेदिनी । ‘कुलालः ककुमे कुम्भकारे स्त्री लज्जनान्तरे’ इति च मेदिनी । ‘कुलालो घूकपक्षिणि । ककुमे कुम्भकारे च’ इति हेमचन्द्रः । ‘कपालोऽस्त्री शिरोस्थि स्याद्धटादेः शकले ब्रजे’ इति मेदिनी विश्वप्रकाशौ । ‘पाम्बाली पुत्रिकागीत्योः स्त्रियां पुंभून्नि नीवृति’ इति मेदिनी । वाहुलकात् श्यतेरपि कालन् । ‘आदेच उपदेशे—’ इत्यालम् । शाला । शल चलने । अस्मात् घञि शाला । ‘सेनासुराच्छायाशालानिशानाम्’ इति निपातनात्स्त्रीलमिति न्यासः । ‘शाला द्रुकन्ध-शाखायां गृहगेहैकदेशयोः । ना झषे’ इति मेदिनी
उ116 · Uṇ 9.1.116
पतेरङ्गच् पक्षिणि ॥ उ११६ ॥
pateraṅgac pakṣiṇi
Siddhānta-kaumudī
पतङ्गः ।
Tattvabodhinī
NSP p. 535
—पतेरङ्गच्—। पत्ल गतौ । पक्षिणीत्युपलक्षणम् । ‘पतङ्गः शलमे शालिप्रभेदे पक्षिसूर्ययोः । क्लीवं सूते’ इति मेदिनी । सूते पारद इत्यर्थः
उ117 · Uṇ 9.1.117
तरत्यादिभ्यश्च ॥ उ११७ ॥
taratyādibhyaśca
Siddhānta-kaumudī
तरङ्गः । लवङ्गम् ।
Tattvabodhinī
NSP p. 535
—तरत्या—। तॄ स्त्रवनतरणयोः । लून् छेदने । तरङ्ग ऊर्मिः । ‘तरङ्गसुरगादीनामुत्फाले वस्त्रभङ्गयोः’ इति विश्वः । ‘लवङ्गं देवकुसुमे’ आकृतिगणोऽयम्
उ118 · Uṇ 9.1.118
विडादिभ्यः कित् ॥ उ११८ ॥
viḍādibhyaḥ kit
Siddhānta-kaumudī
विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।
Tattvabodhinī
NSP p. 535
—विडा—दिभ्यः—। विड आक्रोशे, मृद क्षोदे, कॄ विक्षेपे, एभ्यो डच् कित्स्यात् । विडङ्ग ओषधिविशेष इति उज्ज्वलदत्तः । ‘विडङ्गः कृमिसंघन्ने विडङ्गो नागरेऽन्यवत्’ इति विश्वः । ‘विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुंनपुंसकम्’ इति मेदिनी । ‘मृदङ्गः पटहे घोषे’ इति च । कुरङ्गो मृगविशेषः ॥—वाहुलकादुत्वं चेति । कुर शब्दे इत्यस्मादङ्गच् तस्य कित्वेन गुणाभाव इत्यन्ये ॥—स्वृञोः—। सृ गतौ, वृञ् वरणे । ‘सारङ्गः पुंसि हरिणे चातके च मतङ्गजे । शवले त्रिपु’ इति मेदिनी । वाहुलकात् नॄ नये । ‘अथ नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गद्वमेऽपि च’ इति मेदिनी
उ119 · Uṇ 9.1.119
सृवृञोर्वृद्धिश्च ॥ उ११९ ॥
sṛvṛñorvṛddhiśca
Siddhānta-kaumudī
सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।
उ120 · Uṇ 9.1.120
गन् गम्यद्योः ॥ उ१२० ॥
gan gamyadyoḥ
Siddhānta-kaumudī
गङ्गा । अद्गः पुरोडाशः ।
Tattvabodhinī
NSP p. 535
—गन् गम्य—। गम्ल गतौ, अद भक्षणे, वाहुलकादम गत्यादिषु । अस्मादपि गन् । ‘अङ्गं गात्रे उपाये च प्रतीके चाप्रधानके । अङ्गो देशविशेषः स्यादङ्गः संबोधनेऽन्ययम्’ इति विश्वः । ‘अङ्गं गात्रे प्रतीकोपाययोः पुंभून्नि नीवृति । क्लीवैकत्वे लप्रधाने त्रिष्वङ्गवति चान्तिके’ इति मेदिनी ॥—छापू—। छो छेदने, पूड् पवने, खड भेदने । छायते छिद्यते यज्ञार्थमिति छागः । पूयते मुखमनेनेति पूगः । ‘पूगसु कमुके वृन्दे’ इति मेदिनी । खङ्गो गण्डकभृङ्गे स्यान्निस्त्रिंशे गण्डकेऽपि च’ इति शब्दतरङ्गिणी । ‘खङ्गो गण्डकभृङ्गासिद्धमेदेषु गण्डके’ इति मेदिनी ॥—भृञः—। डुभृञ् धारणपोषणयोः । किंदित्यनुवर्तनात्किञ्चहणमिह स्पष्टार्थम् । ‘भृङ्गो धूम्याटपिङ्गयोः । मधुत्रते भृङ्गराजे पुंसि भृङ्गं गुडलचि’ इति मेदिनी ॥—शृणातेः—। शॄ हिंसायामस्माद्गन् धातोर्हस्त्वं प्रत्ययस्य तु कित्वं नुद च । ‘भृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्युपन्नके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्रीविषायां खणीनीनभेदयोर्कृषभौषधौ’ इति मेदिनी । ‘शृङ्गं विषाणमाख्यातं शैलाग्रे जलयन्त्रके । मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते’ इत्युत्पलिनीकोशः
उ121 · Uṇ 9.1.121
छापूखडिभ्यः कित् ॥ उ१२१ ॥
chāpūkhaḍibhyaḥ kit
Siddhānta-kaumudī
छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।
उ122 · Uṇ 9.1.122
भृञः किन्नुट् च ॥ उ१२२ ॥
bhṛñaḥ kinnuṭ ca
Siddhānta-kaumudī
भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।
उ123 · Uṇ 9.1.123
शृणातेर्ह्रस्वश्च ॥ उ१२३ ॥
śṛṇāterhrasvaśca
Siddhānta-kaumudī
शृङ्गम् ।
उ124 · Uṇ 9.1.124
गण् शकुनौ ॥ उ१२४ ॥
gaṇ śakunau
Siddhānta-kaumudī
नुट् चेत्यनुवर्तते । शार्ङ्गः ।
Tattvabodhinī
NSP p. 535
—गण् शकुनौ । शृणातेः शकुनौ वाच्ये गण् स्यात्तस्य नुद । ‘अचोऽञ्णिति’ इति धातोर्वृद्धिः । शार्ङ्गः पक्षी । शार्ङ्गं धनुरिति तु शृङ्गस्य विकार इति बोध्यम्
उ125 · Uṇ 9.1.125
मुदिग्रोर्गग्गौ ॥ उ१२५ ॥
mudigrorgaggau
Siddhānta-kaumudī
मुद्गः । गर्गः ।
Tattvabodhinī
NSP p. 535
—मुदिग्रोः—। मुद हर्षे, गॄ निगरणे, आभ्यां यथासंख्यं गक् ग इत्येतौ स्तः । मुद्गः सत्यभेदः । गर्गो मुनिविशेषः
उ126 · Uṇ 9.1.126
अण्डन्कृसृभृवृञः ॥ उ१२६ ॥
aṇḍankṛsṛbhṛvṛñaḥ
Siddhānta-kaumudī
करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।
Tattvabodhinī
NSP p. 535–536
—अण्डन्—। डुकृञ् करणे, सृ गतौ, भृञ् भरणे, वृञ् वरणे । ‘करण्डो मधुकोशासिकारण्डेषु ललाटके’ इति मेदिनी । ‘वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः’ इति विश्वमेदिन्यौ । वाहुलकात्—। तॄ स्त्रवनतरणयोरपि । ‘तरण्डो वडिशीसूत्रवृद्धकाष्ठादिके स्त्रवे’ इति मेदिनी ॥—शूद्—। शॄ हिंसायाम्, दृ विदारणे, भस भर्त्सनदीस्योः । ‘शरत् स्त्री वत्सरेऽप्यृतौ । दरत्स्त्रियां प्रपाते च भयपर्वतयोरपि । भसत् स्त्री भासरेः योनौ’ इति मेदिनी । ‘उवे अम्बसुलाभिकै’ इति मन्त्रव्याख्यायां भसद्भग इति वेदभाष्यं, ‘जाघन्यां पत्नीः संयाजयन्ति भसद्वीर्या हि स्त्रियः’ इत्यत्र भसज्जघनमिति व्याख्यातारः ॥—दृष्टात्तेः—। दृ विदारणे । ‘दृष्टविष्णेषणशिलापद्वप्रस्तरयोः स्त्रियाम्’ इति मेदिनी
उ127 · Uṇ 9.1.127
शॄदॄभसोऽदिः ॥ उ१२७ ॥
śṝdṝbhaso'diḥ
Siddhānta-kaumudī
शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।
उ128 · Uṇ 9.1.128
दृणातेर्दृग् ह्रस्वश्च ॥ उ१२८ ॥
dṛṇāterdṛg hrasvaśca
Siddhānta-kaumudī
दृषत् ।
उ129 · Uṇ 9.1.129
त्यजितनियजिभ्यो डित् ॥ उ१२९ ॥
tyajitaniyajibhyo ḍit
Siddhānta-kaumudī
त्यद् । तद् । यद् । सर्वादयः ।
Tattvabodhinī
NSP p. 536
—त्यजि—। त्यज हानौ, तनु विस्तारे, यज देवपूजादौ ॥—त्यदित्यादि । अदेर्जित्वादिलोपः ॥—एतेः—। इण् गतौ अस्माददिस्तस्य तुटि गुणः । एतद्
उ130 · Uṇ 9.1.130
एतेस्तुट् च ॥ उ१३० ॥
etestuṭ ca
Siddhānta-kaumudī
एतद् ।
उ131 · Uṇ 9.1.131
सर्तेरटिः ॥ उ१३१ ॥
sarteraṭiḥ
Siddhānta-kaumudī
सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।
Tattvabodhinī
NSP p. 536
—सर्तेः—। सृ गतौ ॥—लङ्घेः—। लघि शोषणे
उ132 · Uṇ 9.1.132
लङ्घेर्नलोपश्च ॥ उ१३२ ॥
laṅghernalopaśca
Siddhānta-kaumudī
लघट् वायुः ।
उ133 · Uṇ 9.1.133
पारयतेरजिः ॥ उ१३३ ॥
pārayaterajiḥ
Siddhānta-kaumudī
पारक् सुवर्णम् ।
Tattvabodhinī
NSP p. 536
—पारयतेः—। पार तीर कर्मसमाप्तौ चुरादिः ॥—पारगिति । णिलोपः कुलम्
उ134 · Uṇ 9.1.134
प्रथः कित्संप्रसारणं च ॥ उ१३४ ॥
prathaḥ kitsaṃprasāraṇaṃ ca
Siddhānta-kaumudī
पृथक् । स्वरादिपाठादव्ययत्वम् ।
उ135 · Uṇ 9.1.135
भियः षुक् ह्रस्वश्च ॥ उ१३५ ॥
bhiyaḥ ṣuk hrasvaśca
Siddhānta-kaumudī
भिषक् ।
उ136 · Uṇ 9.1.136
युष्यसिभ्यां मदिक् ॥ उ१३६ ॥
yuṣyasibhyāṃ madik
Siddhānta-kaumudī
युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।
उ137 · Uṇ 9.1.137
अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् ॥ उ१३७ ॥
artistusuhusṛdhṛbhikṣubhāyāvāpadiyakṣinībhyo man
Siddhānta-kaumudī
एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।
उ138 · Uṇ 9.1.138
जहातेः सन्वदालोपश्च ॥ उ१३८ ॥
jahāteḥ sanvadālopaśca
Siddhānta-kaumudī
जिह्मः कुटिलमन्दयोः ।
उ139 · Uṇ 9.1.139
अवतेष्टिलोपश्च ॥ उ१३९ ॥
avateṣṭilopaśca
Siddhānta-kaumudī
मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ज्वरत्वर- {SK 2654} इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।
उ140 · Uṇ 9.1.140
ग्रसेरा च ॥ उ१४० ॥
graserā ca
Siddhānta-kaumudī
ग्रामः ।
उ141 · Uṇ 9.1.141
अविसिविसिशुषिभ्यः कित् ॥ उ१४१ ॥
avisivisiśuṣibhyaḥ kit
Siddhānta-kaumudī
ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।
उ142 · Uṇ 9.1.142
इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ उ१४२ ॥
iṣiyudhīndhidasiśyādhūsūbhyo mak
Siddhānta-kaumudī
इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।
उ143 · Uṇ 9.1.143
युजिरुचितिजां कुश्च ॥ उ१४३ ॥
yujirucitijāṃ kuśca
Siddhānta-kaumudī
युग्मम् । रुक्मम् । तिग्मम् ।
उ144 · Uṇ 9.1.144
हन्तेर्हि च ॥ उ१४४ ॥
hanterhi ca
Siddhānta-kaumudī
हिमम् ।
उ145 · Uṇ 9.1.145
भियः षुग्वा ॥ उ१४५ ॥
bhiyaḥ ṣugvā
Siddhānta-kaumudī
भीमः । भीष्मः ।
उ146 · Uṇ 9.1.146
घर्मः ॥ उ१४६ ॥
gharmaḥ
Siddhānta-kaumudī
घृधातोर्मग्गुणश्च निपात्यते ।
उ147 · Uṇ 9.1.147
ग्रीष्मः ॥ उ१४७ ॥
grīṣmaḥ
Siddhānta-kaumudī
ग्रसतेर्निपातोऽयम् ।
उ148 · Uṇ 9.1.148
प्रथेः षिवन् संप्रसारणं च ॥ उ१४८ ॥
pratheḥ ṣivan saṃprasāraṇaṃ ca
Siddhānta-kaumudī
पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।
Tattvabodhinī
NSP p. 536
—प्रथेः—। प्रथ प्रख्याने ॥—मियः—। विभी भये ॥—युष्यसि—। असु क्षेपणे ॥—अर्तिर्रतु—। ऋ गतौ, ष्टुञ् स्तुतौ, षुञ् अभिषवे, हु दानादनयोः, सृ गतौ, धृञ् धारणे, क्षि क्षये, दुष्टु शब्दे, भा दीप्तौ, या प्रापणे, वा गतिगन्धनयोः । पद गतौ, णीञ् प्रापणे, ‘सोमसुहिनदीधितौ । वानरे च कुवेरे च पितृदेवे समीरणे । वसुप्रभेदे कर्पूरे नीरे सोमलतौषधौ’ इति मेदिनी ॥—होम इति । देवतोद्देशेन हविःप्रक्षेपः । ‘धर्मोऽस्त्री पुण्यअचारे स्वभावोपमयोः क्रतौ । अहिंसोपनिषद्भ्याये ना धनुर्यससोमपे’ इति च । ‘धर्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ’ इति विश्वः । ‘क्षौमं पद्दे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके । शणजेऽतसिजे’ इति मेदिनी । ‘भामः क्रोधे रवौ दीप्तौ’ इति च । ‘यामस्तु पुं संप्रहरे संयमेऽपि प्रकीर्तितः’ इति च । ‘वामं धने पुंसि हरे कामदेवे पयोधरे । लघुप्रतीपसंन्येषु त्रिषु नार्या स्त्रियामथ । वामी शृगाली वडवा रासभीकरभीषु च' इति । 'पद्मोऽस्त्री पद्मके व्यूहनिधिसंख्यान्तरेऽम्बुजे । ना नागे' इति च मेदिनी ॥—यक्ष पूजायामिति । अयमन्तस्थादिः । मनिन्प्रत्यये तु नकारान्तः शब्दः । 'क्षयः शोषश्च यक्ष्मा च' इत्यमरः । 'राजयक्ष्मेव रोगाणाम्' इति माघः । 'यक्ष्मणापि परिहाणिराययौ' इति रघुः । अत्र जकारयकारयोर्भेदाग्रहेण जक्षभक्षहसनयोरित्युज्ज्वलदत्तेनोपन्यस्तम् । तन्न । तस्य चवर्गतृतीयादित्वात् । अत एव 'अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां चुबुकादधि । यक्ष्मं सर्वस्मात्' इति मन्त्रे यक्ष्मशब्दस्यान्तःस्थादित्वम् । 'जक्षन् क्रीडन् रममाण' इत्यादिमन्त्रे तु जक्षच्छब्दस्य चवर्गतृतीयादित्वं वेदभाष्यकृतो व्याचख्युः । 'नेमः कीलेऽवधौ गर्ते प्राकारे कैतवेपि च' इति मेदिनी । 'नेमस्त्वर्धे प्राकारगर्तयोः । अवधौ कैतवे च' इति हेमचन्द्रः
उ149 · Uṇ 9.1.149
अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् ॥ उ१४९ ॥
aśūpruṣilaṭikaṇikhaṭiviśibhyaḥ kvan
Siddhānta-kaumudī
अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।
उ150 · Uṇ 9.1.150
इण्शीभ्यां वण् ॥ उ१५० ॥
iṇśībhyāṃ vaṇ
Siddhānta-kaumudī
एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।
उ151 · Uṇ 9.1.151
सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे ॥ उ१५१ ॥
sarvanīghṛṣvariṣvalaṣvaśivapaṭvaprahveṣvā asvatantre
Siddhānta-kaumudī
अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।
उ152 · Uṇ 9.1.152
शेवयह्वजिह्वाग्रीवाप्वामीवाः ॥ उ१५२ ॥
śevayahvajihvāgrīvāpvāmīvāḥ
Siddhānta-kaumudī
शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।
उ153 · Uṇ 9.1.153
कॄगॄशॄदॄभ्यो वः ॥ उ१५३ ॥
kṝgṝśṝdṝbhyo vaḥ
Siddhānta-kaumudī
कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।
उ154 · Uṇ 9.1.154
कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥ उ१५४ ॥
kanin yuvṛṣitakṣirājidhanvidyupratidivaḥ
Siddhānta-kaumudī
यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।
उ155 · Uṇ 9.1.155
सप्यशूभ्यां तुट् च ॥ उ१५५ ॥
sapyaśūbhyāṃ tuṭ ca
Siddhānta-kaumudī
सप्त । अष्ट ।
उ156 · Uṇ 9.1.156
नञि जहातेः ॥ उ१५६ ॥
nañi jahāteḥ
Siddhānta-kaumudī
अहः ।
Tattvabodhinī
NSP p. 536–537
—जहातेः—। ओहाक् त्यागे ॥—जिह्व इति । मन्प्रत्ययस्य सन्वत्त्वाद् द्वित्वे 'सन्यतः' इतीत्वम् 'जिह्वास्तु कुटिले मन्दे क्लीयं तगरपादपे' इति मेदिनी ॥—अवतेः—। अव रक्षणादौ । 'ओं प्रश्ने स्वीकृतौ रोषे' इति विश्वः ॥—प्रसेरा च । प्रसु अदने । अतो मन्धातोराकारश्च । 'प्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके' इति विश्वः । शब्दादिपूर्वको प्रामशब्दो वृन्दे शब्दप्रामो गुणप्राम इति यथा । 'शब्दादिपूर्वो वृन्देपि प्रामः' इत्यमरः । संपूर्वोऽयं युद्धे । तदुक्तं 'संपूर्वः संयुगे स्मृतः' इति ॥—अविसि—। अव रक्षणादौ, षिबु तन्तुसन्ताने, षिब् वन्धने, शुष शोषणे, एभ्यो दन्स्यात्स च कित् । ऊठादिकं पूर्ववत् । ऊमं नगरमिति 'त्वे कतुम्' इति मन्त्रे ऊमास्तर्पका यजमाना इति वेदभाष्यम् । टापि वाहुलकाद्रस्त्वे 'उमातसीहैमवतीहरिद्राकान्तिकीर्तिषु' इति मेदिनी । स्यूमो रदिमरिति सूत्रम् । तन्तुरित्यन्ये । सिमः सर्वनामगणे पठितः । 'शुष्मं तेजसि सूर्ये ना' इति मेदिनी । शुष्मं बलमिति वेदभाष्यम् ॥—इषियुधि—। इष गतिहिंसादानेषु । इष गताविति केचित् । इष्मः । युध संप्रहारे, त्रिहन्धी दीप्तौ, दसु उपक्षये, इयैङ् गतौ, धूञ् कम्पने, धूञ् प्राणिगर्भविमोचने ॥—युध्म इति । 'युध्मो धनुषि संयुगे' इति मेदिनी । 'दसस्तु यजमाने स्यादपि चौरे हुताशने' इति च । 'त्रिषु इयामौ हरित्कृष्णौ इयामा स्याच्छारिवा निशा' इत्यमरः । 'इयामो वृद्धे प्रसा उस्त्वा वामिदे वृद्धवृद्धके Diviदे च कृष्णहरित्तो e अंसि स्यात्तद्विति त्रिषु ha मरीचे सिन्धुल- वणे क्लीवं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि गुग्गुलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधे । नीलिकायाम्’ इति मेदिनी ॥—ईर्ममिति । ईर गतौ । ‘त्रणोऽस्त्रियामीमंमरुः क्लीवे’ इत्यमरः । वाहुलकाजन जनन इत्यस्मादपि । जन्मम् । रुह बीजजन्मनीति निर्देशान्मनिनन्तोऽप्यस्ति स तु नान्तः । ‘जनुर्जननजन्मानि’ इत्यमरस्तु अकारान्तनकारान्तोभयसाधारणः ॥—युजि—युजिर् योगे, रुच दीप्तौ, तिज निशाने, एभ्यो मक् कवर्गश्चान्तादेशः । ‘रुक्मं तु काञ्चने लोहे’ इति विश्वमेदिन्यौ । तिग्मं तीक्ष्णम् ॥—हन्तेः—हन हिंसागत्योरस्मान्मक् धातोर्हिरादेशश्च । ‘हिमं तुपारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गे’ इति मेदिनी ॥—मियः—। चिमी भये । विभेत्यस्मादिति विग्रहः ॥ ‘भीष्मो गाङ्गेयघोरयोः । भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे’ इति मेदिनी ॥—घर्मः । घृ क्षरणदीप्योः ॥— ग्रीष्मः । प्रसु अदने । ‘घर्मः स्यादातपे ग्रीष्मोऽप्युष्णस्वेदाम्भसोरपि’ ‘ग्रीष्म ऊष्मर्तुभेदयोः’ इति च मेदिनी ॥—प्रथेः— प्रथ प्रख्याने । पित्त्वान्डीष् । ‘पृथिवी पृथवी पृथ्वी धरा सर्वसहा रसा’ इति शब्दार्णवः ॥—अशू पुषि—। अशू व्याप्तौ, लट वाल्ये, कण निमीलने, खटि काङ्क्षायाम्, विश प्रवेशने, ‘अश्वः पुंजातिभेदे च तुरगे च पुमानयम्’ इति मेदिनी । ‘अश्वः पुंभेदवाजिनोः’ इति विश्वः । ‘लक्ष्म करञ्चभेदे स्यात्फले वाद्ये खगान्तरे’ इति विश्वमेदिन्यौ । ‘कण्वं पापे मुनौ पुंसि’ इति मेदिनी । ‘किण्वं बीजाघसीधुषु’ इति च पठ्यते । शयनार्थिभिः काङ्क्षयते इति खट्वा । ‘विश्वा हातिविषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु’ इति मेदिनी ॥—इण्—इण् गतौ । शीङ् स्वप्ने । शेवं सुखमिति वेदभाध्यम् । शेवं मेद्रमित्युज्ज्वलदत्तः ॥—सर्वनीघृष्व—। स गतौ, घृषु संघर्षे, रिष हिंसायाम्, लष कान्तौ, शीङ् स्वप्ने, पट गतौ, ह्वेष् स्पर्धायां शब्दे च, ओहाक् त्यागे, इति वा । ईष शब्दे । तन्त्रशब्दोऽत्र कर्तृवाचीत्याह—अकर्तरीति
उ157 · Uṇ 9.1.157
श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति ॥ उ१५७ ॥
śvannukṣanpūṣanplīhankledansnehanmūrdhanmajjannaryamanviśvapsanparijjanmātariśvanmaghavanniti
Siddhānta-kaumudī
एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः ।
Tattvabodhinī
alignment inferredNSP p. 537–538
—निपात्यन्त इति । वनप्रत्ययान्ततयेति शेषः॥—हस्व इति । हस शब्दे । ‘हस्वो न्यक् खर्वयोस्त्रिषु’ इति मेदिनी ॥—शेवयह्व । एते वनप्रत्ययान्ता निपात्यन्ते ॥—अन्तोदात्तार्थमिति । इण्शीभ्यामित्यनेन आद्युदात्तत्वात्सिद्धेरिति भावः । शीङ् स्वप्ने । शेवा लिङ्गाकृतिः दशपादीवृत्तिरित्याह ॥—यान्त्यनेनेति । उज्ज्वलदत्तस्तु यज देवपूजादौ जकारस्य हकारो यह्यो यजमान इत्याह । वैदिकनिघण्टौ महन्नामसु यह्यशब्दः पठितः । ‘प्रवो यह्यं पुरुणां’ । यह्यं महान्तमिति वेदभाध्यम् । लिह आखादने । लिहन्त्यनयेति जिह्वा । जि जये हुगागमः । जिह्वा रसनेत्युज्ज्वलदत्तः ॥—ग्रीवेति । गृ निगरणे, आप्ल व्याप्तौ, मीङ् हिंसायाम् ॥—मीवेति । वेदे तु अमीवेति छित्त्वा अम रोग इत्यस्माद्वः । इद् चेत्युक्तम् । ‘अमीवहा वास्तोष्पते’ इत्यादिमन्त्रास्तत्रानुकूलः ॥—कृ गृ—। कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, दृ विदारणे । गर्वोऽहंकारः । शर्वो रुद्रः ॥—कनिन्यु—। यु मिश्रणे, घृषु सेचने, तक्ष लक्ष तनूकरणे, राजृ दीप्तौ, धवि गत्यर्थः, द्यु अभिगमने, दिवु क्रीडादौ । ‘युवा स्यात्तरुणे श्रेष्ठे निसर्गवलशालिनि’ इति । ‘वृषा कणें महेन्द्रे ना’ इति च मेदिनी । ‘तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट्’ इत्यमरः । ‘राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः’ इति च । ‘समानौ मरुधन्वानौ’ इति च ‘अथास्त्रियाम् । धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्’ इति चामरः । ‘धन्वा तु मरुदेशे मरुक्लीवे ॥ स्थालेऽग्निः ॥ इति मेदिनी ॥ सम्प्रदायाम् ॥ अप् सम्प्रदाये अशू व्याप्तौ ॥— नञि—। ओहाक् ल्यागे, कानिनि आतो लोपः ॥—श्वन्नुक्षन्—। दुओश्चि गतिवृद्ध्योः, उक्ष सेचने, पूष वृद्धौ, ष्णिह ग्रीतौ, मुह वैचिल्ये, मुर्वी वन्धने । उकारस्य दीर्घले वकारस्य धकार इत्युज्ज्वलदत्तः । दुमस्जो शुद्धौ । मस्जेः सकारस्य शकारस्तस्य जरुवेन जः । माङ् माने शब्दे च, प्सा भक्षणे, जनी प्रादुर्भावे, दुओश्चि गतिवृद्ध्योः ॥—कनिप्रत्ययान्ता इति । नायं निदिति भावः । केचित्तु नित्वं स्वीकृत्य उक्षन्नादीनां सूत्रेऽन्तोदात्तनिपातनमाहुस्तच्च गौरवप्रस्तमिन्युपेक्ष्यम्॥—श्वेति । इकारलोपो निपात्यते ॥—पूषेति । ‘सौ च’ इत्युपधादीर्घः । ‘इन्हन्—’ इति नियमात्पूषणौ पूषण इत्यादौ न दीर्घः । ‘क्लिदौषधिशाशङ्कयोः’ इति यादवः ॥—मूर्ध्वेति । ‘मूर्धा ना मस्तकोऽस्त्रियाम्’ इत्यमरः ॥—मज्जेति । नकारान्तोऽयं टावन्तोऽप्यभ्युपगम्यते । ‘ऊष्मया सार्धमूभ्मापि मज्जोक्तौ मज्जया सह’ इति द्विरूपकोशात् । ‘अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च’ इति मेदिनी ॥—परिजायत इत्यादि । एतच्च दशपादीवृत्त्यनुरोधेनोक्तम् । ‘परिज्मानं सुखं रथम्’ इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितो गन्ता । अज्ञेः परिपूर्वस्य ‘श्वन्नुक्षन्—’ इत्यादिना मन्प्रत्ययः, अकारलोपः आद्युदात्तत्वं च निपात्यत इत्युक्तम् । उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः परिज्वा चन्द्र इत्याह तल्लक्ष्यविरोधादुपेक्ष्यम् ॥—मातरिश्वेति । सप्तम्या अलुक् । इह भलविषये संप्रसारणं न भवति । ‘श्वयुव—’ इति सूत्रे अभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य तदन्तस्य च ग्रहणात् । तेन मातरिश्वनः मातरिश्वने त्येव । इह सूत्रे इतिशब्द आद्यर्थस्तेनान्येभ्योऽपि यथादर्शनं कनिः प्रयोक्तव्यः । दशपाद्यां तु इति शब्दोऽत्र न पत्र्यते ॥ इत्युणादिषु प्रथमः पादः ॥ कृहभ्याम्—॥ डुकृच् करणे, हृञ् हरणे । ‘करेणुरिभ्यां स्त्री नेमे’ इत्यमरः । ‘करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे’ इति मेदिनी
उ158 · Uṇ 9.2.1
कृहृभ्यामेणुः ॥ उ१५८ ॥
kṛhṛbhyāmeṇuḥ
Siddhānta-kaumudī
करेणुः । हरेणुर्गन्धद्रव्यम् ।
Tattvabodhinī
alignment inferredNSP p. 538
—गन्धद्रव्यमिति । कलायश्चेति बोध्यम् । ‘कलायस्तु सतीनकः’ इत्यमरः । ‘हरेणुखण्डिके चास्मिन्’ इत्यमरः । ‘हरेणुर्नां सतीने स्त्री रेणुकाकुलयोषितोः’ इति मेदिनीविश्वप्रकाशौ
उ159 · Uṇ 9.2.2
हनिकुषिनरिकाशिभ्यः कथन् ॥ उ१५९ ॥
hanikuṣinarikāśibhyaḥ kathan
Siddhānta-kaumudī
हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।
Tattvabodhinī
NSP p. 538
—हनिकुषि—। हन हिंसागत्योः, कुष निष्कर्षे, णीञ् प्रापणे, रमु क्रीडायाम्, काश् दीप्तौ । ‘कुष्ठं रोगे पुष्करे स्त्री’ इति मेदिनी । ‘कुष्ठं रोगे सुगन्धे च’ इति विश्वः । ‘नीथे नीथे मधवानं सुतासः’ इति मन्त्रे नीथशब्दस्यान्तोदात्तत्वं वाहुलकात् । नीथे नीथे स्तोत्रे स्तोत्रे इति वेदभाष्यम् । ‘रथः पुमानवयवे स्यन्दने वेतसेपि च’ इति मेदिनी । ‘रथः स्यात्स्यन्दने काये वीरणे वेतसेऽपि च’ इति विश्वः । ‘काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्’ इति मेदिनी ॥—अत्रे—। डुभृञ् धारणपोषणयोः । अवभृथो यज्ञावसानम्
उ160 · Uṇ 9.2.3
अवे भृञः ॥ उ१६० ॥
ave bhṛñaḥ
Siddhānta-kaumudī
अवभृथः ।
उ161 · Uṇ 9.2.4
उषिकुषिगार्तिभ्यः स्थन् ॥ उ१६१ ॥
uṣikuṣigārtibhyaḥ sthan
Siddhānta-kaumudī
ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।
Tattvabodhinī
NSP p. 538
—उषिकुषि—। उष दाहे, कुष निष्कर्षे, गै शब्दे, ऋ गतौ, एभ्यः स्थन् । ‘कोष्ठं कुक्षिकुसूलयोः । गाथा शोके संस्कृतान्यभाषायां शेषवृक्षयोः’ इति मेदिनी । ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः । शोथः श्वयथुः । शु गतौ
उ162 · Uṇ 9.2.5
सर्तेर्णित् ॥ उ१६२ ॥
sarterṇit
Siddhānta-kaumudī
सार्थः समूहः ।
Tattvabodhinī
alignment inferredNSP p. 538
—सर्तेः—। सृ गतौ । ‘सार्थो वणिक्समूहे स्यादपि संघातमात्रके’ इति मेदिनीविश्वप्रकाशौ
उ163 · Uṇ 9.2.6
जॄवृञ्भ्यामूथन् ॥ उ१६३ ॥
jṝvṛñbhyāmūthan
Siddhānta-kaumudī
जरूथं मांसम् । वरूथो रथगुप्तौ ना ।
Tattvabodhinī
NSP p. 538
—जृवृञ्—। ज्या वयोहानौ क्र्यादिः, जृष् दिवादौ । वृञ् वरणे । जरुथोऽसुरविशेष इति वेदभाष्यम् । ‘जरुथः स्यात्तनुत्राणे रथगोपनवेश्मनोः’ इति हेमचन्द्रः ॥—पातृ—। पा पाने, तृ स्त्रवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, पिच क्षरणे, ऋच स्तुतौ । ‘तुत्थोऽप्रावज्जने तुत्था नीलीसूक्ष्मैलयोरपि’ इति विश्वः । ‘तुत्थमजनमेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् । ‘सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम्’ इति मेदिनी ॥—अर्तेः—। ऋ गतौ । ‘द्रोषवाचस्ते निर्ऋथं सचन्ताम्’ इति मन्त्रे निर्ऋथो हिंसेति वेदभाष्यम्
उ164 · Uṇ 9.2.7
पातॄतुदिवचिरिचिसिचिभ्यस्तक् ॥ उ१६४ ॥
pātṝtudivaciricisicibhyastak
Siddhānta-kaumudī
पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।
उ165 · Uṇ 9.2.8
अर्तेर्निरि ॥ उ१६५ ॥
arterniri
Siddhānta-kaumudī
निर्ऋथं साम ।
उ166 · Uṇ 9.2.9
निशीथगोपीथावगथाः ॥ उ१६६ ॥
niśīthagopīthāvagathāḥ
Siddhānta-kaumudī
निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।
Tattvabodhinī
NSP p. 538–539
—निशीथ—। शीङ्खुषे निपूर्वः पा पाने गोपूर्वः, ‘धुमास्था—’ इतिलम् । गाङ् गतौ । अवपूर्वस्य धातोः हस्रम् । ‘निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके’ इति मेदिनी । ‘प्रति त्यं चारुमध्वरम्’ इति मन्त्रे गोपीथः सोमपानमिति वेदभाष्यम् । तीर्थमिति तु वृत्तिकारः
उ167 · Uṇ 9.2.10
गश्चोदि ॥ उ१६७ ॥
gaścodi
Siddhānta-kaumudī
उद्गीथः साम्नो भागविशेषः ।
Tattvabodhinī
NSP p. 539
—गश्चोदि । उदि उपपदे गै शब्दे इत्यस्मात् थक्
उ168 · Uṇ 9.2.11
समीणः ॥ उ१६८ ॥
samīṇaḥ
Siddhānta-kaumudī
समिथो वह्निः संग्रामश्च ।
Tattvabodhinī
NSP p. 539
—समीणः । इण् गतावस्मात्समि उपपदे थक् । समिथशब्दः संग्रामपर्यायेषु वैदिक-निधण्टौ पठितः । ‘श्रिये जातः’ इति मन्त्रे समिथाः युद्धानीति वेदभाष्यम् । तच्च युक्तमेव । सम्यगेति जयार्थमत्रेति व्यु-त्पत्तेः । संपूर्वस्येणः किन्नाद्यन्तस्य लोकेऽपि युद्धार्थलदर्शनाच्च । उक्तं ह्यमरेण ‘समित्याजिसमिद्युधः’ इति
उ169 · Uṇ 9.2.12
तिथपृष्ठगूथयूथप्रोथाः ॥ उ१६९ ॥
tithapṛṣṭhagūthayūthaprothāḥ
Siddhānta-kaumudī
तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।
Tattvabodhinī
NSP p. 539
—तिथपृष्ठ—तिज निशाने, पृष्ठ सेचने, गु पुरीषोत्संगे, यु मिश्रणे, पृष्ठ गतौ । एते थक्प्रत्ययान्ता निपात्यन्ते । ‘पृष्ठं तु चरमं तनोः’ इत्यमरः । ‘पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे’ इति मेदिनी । स्तोत्रविशेषेऽपि पृष्ठम् । ‘पृष्ठे स्तुवते’ इत्यादौ तथा निर्णयात् ॥—गूथमिति । निपातनादीर्घः । एवं यूयेऽपि । ‘यूथं तिर्यक्समूहेऽस्त्रीपुष्पभेदेऽपि योषिति’ इति मेदिनी । ‘यूथी पुष्पप्रभेदे स्यान्मागध्यां च कुण्टके । यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्’ इति विश्वः । ‘यूथं तदप्रसरगर्वितकृष्णसारम्’ इति रघुः ॥—प्रोथमिति । निपातनाद्गुणः । ‘प्रोथोऽस्त्री हयधोणायां ना कश्चामध्वगे त्रिपु’ इति मेदिनी ॥—स्फायित-श्चि—। स्फायी वृद्धौ, तच्च संकोचने, वच्च प्रलम्भने, शकृ शक्तौ, क्षिप प्रेरणे, क्षुदिर् संपेषणे, स्रप्ल गतौ, तृप प्रीणने, दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने, श्विता वर्णे, वृतु वर्तने, अज गतिक्षेपणयोः, णीञ् प्रापणे, पद गतौ, मदी हर्षे, मुद हर्षे, खिद दैन्ये, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुतौ, चदि आहादने, दह भस्मीकरणे, दसु उपक्षेपे, दम्भु दम्भने, वस निवासे, वाश् शब्दे, शीङ् स्वप्ने, हसे हसने, पिध गत्याम्, शुभ दीसौ ॥—द्वात्रिंशम्य—इति । दशपाद्यां तु त्रयस्त्रिंशदुक्ताः । दम्भिवहिवसीति पठित्वा वह प्रापणे ऊहोऽनङ्गानित्युदाहरणात् । माधवोऽप्येवम् ॥—स्फारमिति । ‘नेङ्गशि कृति’ इति नेट् । वलि यलोपः । ‘स्फारः स्यात्पुंसि विकटे करकादेश्च युद्धुदे’ इति मेदिनी ॥—तक्रमिति । ‘तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्’ अमरः । ‘वक्रः स्याज्जटिले कूरे पुटभेदे शनैश्वरे’ इति विश्वः । ‘शक्रः पुमान् देवराजे कुटजार्जुनभूरुहोः’ इति मेदिनी । ‘क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत्’ इति मेदिनी
उ170 · Uṇ 9.2.13
स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ॥ उ१७० ॥
sphāyitañcivañciśakikṣipikṣudisṛpitṛpidṛpivandyundiśvitivṛtyajinīpadimadimudikhidichidibhidimandicandidahidasidambhivasivāśiśīṅhasisidhiśubhibhyo rak
Siddhānta-kaumudī
द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।
Tattvabodhinī
alignment inferredNSP p. 539
—तृप्रः पुरोडाश इति । ‘न तृप्रा उरुव्यचसम्’ इति मन्त्रे वेदभाष्यकारैरित्यं व्याख्यातं प्रकृतसूत्रे उज्ज्वलदत्तादिभिश्च । दशपा-दीवृत्तौ तु तृप्रमाज्यं काष्ठं चेत्युक्तम् । तृप्रं दुःखमिति सुब्धातुवृत्तौ माधवः । हिमांशुरित्यादि हिमद्युतिरित्यन्तं शब्दार्णवः । दस्यति रोगान् क्षिपतीति दत्तः । ‘दत्तः खरेऽश्विनीसुते’ इति मेदिनी । ‘दत्तः खरे चाश्विनयोः’ इति विश्वः ॥—शासि-वसीति प्राप्तमपि नेति । एवं च ‘अविन्द उत्तियाः’ इति मन्त्रे षलाभावः सिद्धः । माधवस्तु वृत्तिग्रन्थानुरोधेन वाहु-लकादिह पत्वं नेति व्याचष्टे । ‘उत्तो वृषे च किरणे उत्तार्जुन्युपचित्रयोः’ इति मेदिनी । ‘माहेयी सौरभेयी गौरुत्वा माता च शृङ्गिणी’ इत्यमरः । ‘वाश्रो ना दिवसे क्लीवं मन्दिरे च चतुष्पथे’ इति मेदिनी । ‘वाश्रो रासभपक्षिणोः’ इति केचित् । माधवेन तु ‘वाश्रेव विद्युन्मिमाति’ इति मन्त्रे शब्दयुक्ता प्रस्तुतस्ता धेनुर्वाश्रेति व्याख्यातम् । ‘शुभं स्यादभ्रके क्लीवमुद्दीप्तशुक्ल-योस्त्रिषु’ इति मेदिनी ॥—मुस्त्रमिति । मुस खण्डने ॥—चकि—। चक तृप्तौ, रमु क्रीडायाम्, ‘चुकस्त्वम्लेऽम्लवेतसे । चुकी चाङ्गेरिकायां स्याद्दक्षाम्ले चुकमिष्यते’ इति विश्वः
उ171 · Uṇ 9.2.14
चकिरम्योरुच्चोपधायाः ॥ उ१७१ ॥
cakiramyoruccopadhāyāḥ
Siddhānta-kaumudī
चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।
उ172 · Uṇ 9.2.15
वौ कसेः ॥ उ१७२ ॥
vau kaseḥ
Siddhānta-kaumudī
विकुस्रश्चन्द्रः ।
Tattvabodhinī
NSP p. 539–540
—वौ कसेः । कस गतौ । विपूर्वादस्माद्रक् स्यादुत्वं चोपधायाः ॥—अमि—। अम-पात्यकदिकु mvtsu काङ्क्षायाम् epti आरुक्का aruk Dखादुवधाश्राऽदीर्घश्च ॥—निडवे ॥ अमिकि कुरुसायाम् ॥ —अर्देः । अर्दं गतौ । ‘आर्द्रां नक्षत्रमेदे स्यात्त्रियां क्लिवेऽभिधेयवत्’ इति मेदिनी ॥—शुचेः—। शुच शोके, असाद्रक् दक्षान्तादेशः धातोर्दार्धश्च । शृङ्गो वृषलः । ‘अहहा रे ला शृङ्ग’ इति श्रुतौ तु रूढेर्वाधाद् योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् ‘शुगस्य तदनादरश्रवणात्’ इति
उ173 · Uṇ 9.2.16
अमितम्योर्दीघश्च ॥ उ१७३ ॥
amitamyordīghaśca
Siddhānta-kaumudī
आम्रम् । ताम्रम् ।
उ174 · Uṇ 9.2.17
निन्देर्नलोपश्च ॥ उ१७४ ॥
nindernalopaśca
Siddhānta-kaumudī
निद्रा ।
उ175 · Uṇ 9.2.18
अर्देर्दीर्घश्च ॥ उ१७५ ॥
arderdīrghaśca
Siddhānta-kaumudī
आर्द्रम् ।
उ176 · Uṇ 9.2.19
शुचेर्दश्च ॥ उ१७६ ॥
śucerdaśca
Siddhānta-kaumudī
शूद्रः ।
उ177 · Uṇ 9.2.20
दुरीणो लोपश्च ॥ उ१७७ ॥
durīṇo lopaśca
Siddhānta-kaumudī
दुःखेनेयते प्राप्यत इति दूरम् ।
Tattvabodhinī
NSP p. 540
—दुरीणो—। इण् गताविलसादुरुपपदे रूपस्याद्धातोर्लोपश्च । ‘रो रि’ इति रेफस्य लोपे ‘बूलोपे’—इति दीर्घः
उ178 · Uṇ 9.2.21
कृतेश्छः क्रू च ॥ उ१७८ ॥
kṛteśchaḥ krū ca
Siddhānta-kaumudī
कृच्छ्र्म् । क्रूरः ।
Tattvabodhinī
alignment inferredNSP p. 540
—कृतेः—। कृती च्छेदने इत्यस्माद्रक् स्याच्छक् इत्येतावादेशौ च स्तः । छस्त्वन्त्यस्यादेशः कू लनेकाल्लात्सर्वस्यादेशः । ‘कृच्छ्रमाख्यातमाभीले पापसंतापनादिनोः’ इति विश्वमेदिन्यौ । ‘स्यात्कष्टं कृच्छ्रमाभीलम्’ इत्यमरः । ‘कूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्’ इति विश्वः । ‘नृशंसो घातुकः कूरः पापो धूर्तस्तु वञ्चकः’ इत्यमरः ॥—रोदेः—। रुदिर् अश्रुविमोचने, ण्यन्तादस्माद्रक् णेश्च लुक् । ‘णेरनिटि’ इति लोपे तु ‘पुगन्त’—इति गुणः स्यादिति णिलुक् चेत्युक्तम्
उ179 · Uṇ 9.2.22
रोदेर्णिलुक् च ॥ उ१७९ ॥
roderṇiluk ca
Siddhānta-kaumudī
रोदयतीति रुद्रः ।
Tattvabodhinī
alignment inferredNSP p. 540
—रोदयतीति रुद्र इति । नन्वेवं ‘सोऽरोदीशदरोदीत्तट्टद्रस्य रुद्रलम्’ इति श्रुत्या सह विरोधोऽत्र स्यादिति चेत् । अत्राहुः । ‘कर्तरि कृत्’ इति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायां रोदनं कारितवानित्यर्थलाभान्नास्ति श्रुतिविरोधः । न च देवैरमौ वामं वसु स्थापितं तच्च धनं देवैर्याचितं चेदमिस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्तर्भावितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम् । देवैः स्थापितं वामं वसु देवेभ्योऽमिना न दत्तं ते देवा एव रोदनं कृतवन्तः । अमिस्तु तदीयमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात् । अथवामौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु परन्तु ब्रह्मविष्णुरुद्रा इति व्यवहियमाणो यो रुद्रस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रानुरोधेन रोदयतीति रुद्र इत्येवार्थकल्पनायां वाधकाभावात् श्रुतिविरोधोऽत्र नास्त्येवेति ॥—अन्यत्रापीति । धात्वन्तरात्प्रत्ययान्तरेऽपि णेर्लुगित्यर्थः । संज्ञायामुदाहरणम् । वृंहयति वर्धयति प्रजा इति ब्रह्मा । शं सुखं भावयति शम्भुरित्यादि । छन्दसि तु वृधु वृद्धौ । ‘वर्धन्तु ला सुष्टुतयः’ वर्धयन्त्यित्यर्थः । ‘य इमा जजान’ । जनी प्रादुर्भावे लिटि रूपम् । जनयामासेत्यर्थः । इह णलि परतः ‘अत उपधायाः’ इति वृद्धिर्भवत्येव, ‘जनिवध्योश्च’ इति निषेधस्य चिणि चिति णिति किति च स्वीकारात् । न च णिलोपे सति प्रत्ययान्तत्वात् कास्प्रत्ययादित्याम्स्यादिति वाच्यम् । अमन्त्र इति पर्युदासादामोऽप्रसक्तेः । कास्यनेकाच इति वार्तिकेन तु आमशङ्का दूरापास्तैव, लिटि णिलोपे सत्यनेकाच्लाभावात् । ननु णलि ‘णेरनिटि’ इत्यनिडादावार्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मैवम् । णिलोपे सति ‘जनीजृष्कसुरज्जोऽमन्ताश्च’ इति णौ मित्त्वे ‘मितां हस्तः’ स्यात् प्रत्ययलक्षणन्यायेन णिपरलसंभवात् ततश्च जजेनेति स्याद्धुकि सति तु प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाभावादिष्टं सिध्यति । वाहुलकादसंज्ञाछन्दसोरपि क्वचिद्भवतीत्याशयेनोदाहरति—वान्तीत्यादि । पर्णानि शोषयन्तीति पर्णशुपः । पर्णानि मोचयन्तीति पर्णमुचः
उ180 · Uṇ 9.2.23
बहुलमन्यत्रापि संज्ञाछन्दसोः ॥ उ१८० ॥
bahulamanyatrāpi saṃjñāchandasoḥ
Siddhānta-kaumudī
णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।
उ181 · Uṇ 9.2.24
जोरी च ॥ उ१८१ ॥
jorī ca
Siddhānta-kaumudī
जीरोऽणुः । ज्यश्चेत्येके ।
Tattvabodhinī
NSP p. 540
—जोरी च । जु गतौ सौत्रोऽस्माद्रक् ईकारश्चान्तादेशः । ‘जीरः खज्ञे वणिग्द्रब्ये’ इति विश्वः । ‘जीरस्तु जरणे खज्ञे’ इति मेदिनी ॥—ज्यश्चेति । ज्या वयोहानौ । अस्माद्रक् ‘प्रहिज्या’—इति संप्रसारणं पूर्वरूपम् । ‘हलः’ इति दीर्घः ॥—एके इति । मुख्या इत्यर्थः । तथा च ‘न धातुलोप’—इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थं नैतज्जीवे रूपं किं तु रकि ज्यः संप्रसारणमिति भाष्ये उक्तम्
उ182 · Uṇ 9.2.25
सुसूधागृधिभ्यः क्रन् ॥ उ१८२ ॥
susūdhāgṛdhibhyaḥ kran
Siddhānta-kaumudī
सुरः । सूरः । धीरः । गृध्रः ।
Tattvabodhinī
NSP p. 540
—सुसूधा—। पुञ् अभिषवे, पूञ् प्राणिगर्भविमोचने, डुधान् धारणादौ, गृधु अभिकाङ्कायाम् । ‘सुरा चषकमद्ययोः । पुंलिङ्गादिविशे स्यात्’ इति मेदिनी । ‘सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित्’ इति विश्वः । सुवति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः । ‘सूरसूर्यार्यमादित्यः’ इत्यमरः । ‘धीरो यैर्यान्विते स्वैरे बुधे क्लीवं तु कुङ्कुमे । त्रियां श्रवणतुल्यायाम्’ इति मेदिनी । ‘गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके’ इति च
उ183 · Uṇ 9.2.26
शुसिचिमीनां दीर्घश्च ॥ उ१८३ ॥
śusicimīnāṃ dīrghaśca
Siddhānta-kaumudī
शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।
Tattvabodhinī
NSP p. 540
—शुसिचि—। शु गतौ, षिञ् वन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः कन् एषां दीर्घत्वं च । ‘शूरः स्याद्यादवे भटे’ इति मेदिनी । ‘शूरश्चारुभटे सूर्ये’ इति विश्वहेमचन्द्रौ । ‘सीरोऽर्कहलयोः पुंसि चीरी क्षिल्लयां नपुंसकम् । गोस्तने बल्लभेदे च रेखालेखनभेदयोः’ इति मेदिनी । ‘चीरं तु गोस्तने बल्ले चूडायां सीसकेऽपि च । चीरी कृच्छ्राटिकाक्षिल्लयोः’ इति विश्वः
उ184 · Uṇ 9.2.27
वा विन्धेः ॥ उ१८४ ॥
vā vindheḥ
Siddhānta-kaumudī
वीध्रं विमलम् ।
Tattvabodhinī
NSP p. 540–541
—वा विन्धेः । ञिइन्धी दीप्तौ । विपूर्वादस्मात् कन् ‘अनिदिताम्’—इति नलोपः । ‘वीघ्रं तु विमकार्यकम्’ इति विशेष्यनिघ्नेऽमरः ॥—वृधि—। वृधु वृद्धौ, डुवप् वीजसन्ताने । ‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोः’ इति धरणिरन्तिदेवौ । ‘वप्रः स्नाते पुमानल्ली वेणुक्षेत्रचये तटे’ इति मेदिनी ॥—ऋज्जेन्द्राग्र—। ऋज गतिस्थानादिषु, इदि परिसैक्ष्ये, अगि गतौ, वज गतौ, डुवप् वीजसन्ताने, कुवि आच्छादने, चुवि वक्रसंयोगे, भदि कल्याणे, शुच शोके, गुङ् अव्यक्ते शब्दे, इण् गतौ ॥—नायक इति । ‘ऋज्राश्वः पृष्ठिभिरम्बरीषः’ इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य स ऋज्राश्व इति वेदभाष्यम् । ‘इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः’ इति विश्वः । ‘अग्रं पुर-स्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते स्यात्पुंनपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्’ इति मेदिनी । श्रुरो लोमच्छेदकः । ‘श्रुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोश्रुरे’ इति विश्वमेदिन्यौ । ‘खुरः कोलदले शफे’ इति मेदिनी । ‘भद्रः शिवे खजरीटे घृपमेरुकदम्बके । करिजातिविशेषे ना क्लीवं मङ्गलमुख्ययोः’ इति च । ‘उग्रः श्रद्धासुते क्षत्राद्धद्रे पुंसि त्रिपूत्कटे । ल्लीवचाश्रुद्रयोः’ इति मेदिनी ॥—मेरीति । गौरादित्वान्कीप् । ‘मेरी ल्ली दुन्दुभिः पुमान्’ इत्यमरः । ‘भेलः एवे भीलुके च निर्वुद्धिमुनिमेदयोः’ इति विश्वः । ‘भेलः एवे मणौ पुंसि भीरावज्ञे च वाच्यवत्’ इति । ‘शुक्रः स्याद्भागवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरगिभदोः क्लीवं शुक्लो योगान्तरे सिते । नपुंसकं तु रजते’ इति च । ‘गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्पपे चन्द्रे न द्वयोः पद्मकेसरे । गौरी त्वसंजातरजःकन्या-शंकरभार्ययोः । रोचने रजनीपिङ्गाप्रियङ्कुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोपिति’ इति च मेदिनी । ‘नदीमेदे च गौरी स्याद्वरुणस्य च योषिति’ इति विश्वः । ‘अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः इति ब्रह्माण्डपुराणे । एतेन ‘गौरः शुच्याचारः’ इत्यादि भाष्यं व्याख्यातम् । ‘इराभूवाक्सुराण्सु स्यात्’ इत्यमरः ॥—मालेति । प्रत्ययरेफस्य लब्धम् । ‘मालं क्षेत्रे क्षियां पृक्कासजोर्जात्सन्तरे पुमान्’ इति मेदिनी । ‘मालं क्षेत्रे जिने मालो माला पुष्पादिदामनि’ इति विश्वः । ‘मालमुन्नतभूतलम्’ इत्युत्पलः । ‘क्षेत्रमारुह्य मालम्’ इति मेघदूतः । मणिपूर्वोऽयमर्थान्तरे रूढः । ‘मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे’ इति विश्वः । बाहुलकात्तिज निशाने । रन् दीर्घत्वं जस्य वः । ‘तीव्रा तु कटुरोहिण्यां राजिकागण्डपूर्वयोः । त्रिष्वत्युष्णे नितान्ते च कटौ’ इति मेदिनी
उ185 · Uṇ 9.2.28
वृधिवपिभ्यां रन् ॥ उ१८५ ॥
vṛdhivapibhyāṃ ran
Siddhānta-kaumudī
वर्ध्रं चर्म । वप्रः प्राकारः ।
उ186 · Uṇ 9.2.29
ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः ॥ उ१८६ ॥
ṛjrendrāgravajraviprakuvracuvrakṣurakhurabhadrograbherabhelaśukraśuklagauravamrerāmālāḥ
Siddhānta-kaumudī
रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।
उ187 · Uṇ 9.2.30
समि कस उकन् ॥ उ१८७ ॥
sami kasa ukan
Siddhānta-kaumudī
कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।
Tattvabodhinī
NSP p. 541
—समि कस-। ‘संकसुकोऽस्थिरः’ इति विशेष्यनिम्नेऽमरः ॥—पच्चिनशोः-। डुपचष् पाके, णश अदर्शने । आभ्यां णुकन् प्रत्ययः स्यात् । णकारो वृद्ध्यर्थः । अनयोर्यथाक्रमं कादेशनुमागमौ च भवतः ॥—मियः-। विभी भये । ‘अधीरे कातरस्त्रस्त्रौ भीरुभीरुकर्भालुकाः’ इत्यमरः ॥—क्रुन्-। शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्रुन् स्यादपूर्वस्य निरुपपदस्य च अपिशब्दात्सोपपदस्य । पञ्चम्यर्थे पष्ठी । यद्वा अर्थद्वारकसंबन्धे पष्ठी प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् । एवं च निरुपपदप्रकृत्यर्थनिरूपितकर्तृकारके कुन्नित्याद्यर्थः फलितः । शिल्पिनि तावत् । रज रागे । ‘रजको धावके शुके’ इति विश्वः । ‘रजकौ धावकशुकौ’ इति हेमचन्द्रः । कुट्ट च्छेदने, इक्ष्वर् कुट्टयति गौडिकः । चर गतिभक्षणयोः । संज्ञायां तु ‘चक्रपोऽस्त्री पानपात्रम्’ । शुन गतौ, भप भर्त्सने, शुनकः भषकः श्वा ॥—लमक इति । ऋषिविशेषः ॥—जहातेः-। ओहाक् त्यागे
उ188 · Uṇ 9.2.31
पचिनशोर्णुकन् कनुमौ च ॥ उ१८८ ॥
pacinaśorṇukan kanumau ca
Siddhānta-kaumudī
पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।
उ189 · Uṇ 9.2.32
भियः क्रुकन् ॥ उ१८९ ॥
bhiyaḥ krukan
Siddhānta-kaumudī
भीरुकः ।
उ190 · Uṇ 9.2.33
क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि ॥ उ१९० ॥
kvun śilpisaṃjñayorapūrvasyāpi
Siddhānta-kaumudī
रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।
उ191 · Uṇ 9.2.34
रमे रश्च लो वा ॥ उ१९१ ॥
rame raśca lo vā
Siddhānta-kaumudī
रमको विलासी । लमकः ।
उ192 · Uṇ 9.2.35
जहातेर्द्वे च ॥ उ१९२ ॥
jahāterdve ca
Siddhānta-kaumudī
जहकस्त्यागी कालश्च ।
उ193 · Uṇ 9.2.36
ध्मो धम च ॥ उ१९३ ॥
dhmo dhama ca
Siddhānta-kaumudī
धमकः कर्मकारः ।
Tattvabodhinī
NSP p. 541
—धमो धम च । ध्मा शब्दाग्निसंयोगयोः । कुहको दाम्भिकः ॥—कृतकमिति । कृती छेदने ॥—कृषेः-। कृष विलेखने । अस्मात्कुन् । कर्षकः कृषीवलः । कृषकः स एव । ‘कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्’ इति मेदिनी
उ194 · Uṇ 9.2.37
हनो वध च ॥ उ१९४ ॥
hano vadha ca
Siddhānta-kaumudī
वधकः ।
उ195 · Uṇ 9.2.38
बहुलमन्यत्रापि ॥ उ१९५ ॥
bahulamanyatrāpi
Siddhānta-kaumudī
कुह विस्मापने । कुहकः । कृतकम् ।
उ196 · Uṇ 9.2.39
कृषेर्वृद्धिश्चोदीचाम् ॥ उ१९६ ॥
kṛṣervṛddhiścodīcām
Siddhānta-kaumudī
कार्षकः । कृषकः ।
उ197 · Uṇ 9.2.40
उदकं च ॥ उ१९७ ॥
udakaṃ ca
Siddhānta-kaumudī
प्रपञ्चार्थम् ।
Tattvabodhinī
NSP p. 541
—उदकं च । उन्दी क्लेदने अस्मात्कुन् । ननु ‘कुन् शिल्पि-’ इत्यादिना गतार्थमित्याशङ्कायामाह—प्रपञ्चार्थमिति
उ198 · Uṇ 9.2.41
वृश्चिकृष्योः किकन् ॥ उ१९८ ॥
vṛścikṛṣyoḥ kikan
Siddhānta-kaumudī
वृश्चिकः । कृषिकः ।
Tattvabodhinī
NSP p. 541
—वृश्चिकृष्योः । ओब्रधू छेदने, कृष विलेखने
उ199 · Uṇ 9.2.42
प्राङिपणिकषः ॥ उ१९९ ॥
prāṅipaṇikaṣaḥ
Siddhānta-kaumudī
प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।
Tattvabodhinī
NSP p. 541–542
—प्राङि-। पण व्यवहारे । कषशिषेति दण्डके ह्निसार्थकः ॥—मुखेः-। मुख स्त्वेये अस्मात्किकुन् भ्रातोर्दीर्घश्च ॥—स्युमेः-। स्युम शब्दे ॥—क्रियः । इक्रीञ् द्रव्यविनिमये
उ200 · Uṇ 9.2.43
मुषेर्दीर्घश्च ॥ उ२०० ॥
muṣerdīrghaśca
Siddhānta-kaumudī
मूषिक आखुः ।
उ201 · Uṇ 9.2.44
स्यमेः संप्रसारणं च ॥ उ२०१ ॥
syameḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
चाद्दीर्घः । सीमिको वृक्षभेदः ।
उ202 · Uṇ 9.2.45
क्रिय इकन् ॥ उ२०२ ॥
kriya ikan
Siddhānta-kaumudī
क्रयिकः क्रेता ।
उ203 · Uṇ 9.2.46
आङि पणिपनिपतिखनिभ्यः ॥ उ२०३ ॥
āṅi paṇipanipatikhanibhyaḥ
Siddhānta-kaumudī
आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।
Tattvabodhinī
NSP p. 542
—आङि पणि-। पण व्यवहारे सुतौ च, पन च, पत्ल्ल गतौ, खनु अवदारणे, एभ्य आङि उपपदे इकन् स्यात् ॥—आपणिक इति । नन्वत्रैव प्रपूर्वे आङि प्रापणिक इति सिद्धौ आङि पणीत्यत्र पणिग्रहणं प्रपञ्चार्थमित्युज्ज्वलदत्तः । उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम् । आपणिकशब्दोऽयं णित्सरेणाद्युदात्तः । आपणेन व्यवहरतीत्यर्थं ठकि तु कित इत्यन्तोदात्तः
उ204 · Uṇ 9.2.47
श्यास्त्याहृञविभ्य इनच् ॥ उ२०४ ॥
śyāstyāhṛñavibhya inac
Siddhānta-kaumudī
श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।
Tattvabodhinī
NSP p. 542
—इयास्त्या-। द्र्यैङ् गतौ, स्त्यै घृष्टौ शब्दसंघातयोः, ह्र्ञ् हरणे, अव रक्षणादौ । ‘द्र्येनः पत्रिणि पाण्डुरे’ इति मेदिनी । स्त्येनश्चौरः । स्तेन चौर्ये इति चौरादिकात्पचायचि तु स्तेन इति निर्यकारोऽपि । केचित्तु ‘स्तायूनां पतये नमः’ इत्यादि प्रयोगोपष्टम्मेन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्भाविद् स्वीकृतत्वात्प्रकृतमूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः । ‘हरिणः पुंसि सारङ्गे विशदे लभिधेयवत् । हरिणी हरितायां च नारीभिद्वत्तमेदयोः । सुवर्णप्रतिमायां च’ इति मेदिनी
उ205 · Uṇ 9.2.48
वृजेः किच्च ॥ उ२०५ ॥
vṛjeḥ kicca
Siddhānta-kaumudī
वृजिनम् ।
Tattvabodhinī
NSP p. 542
—वृजेः-। वृजी वर्जने । वृजिनं पापम् । ‘वृजिनं कल्पषे क्लीवं क्लेवे ना कुटिलेऽन्यवत्’ इति मेदिनी
उ206 · Uṇ 9.2.49
अजेरज च ॥ उ२०६ ॥
ajeraja ca
Siddhānta-kaumudī
वीभावबाधनार्थम् । अजिनम् ।
Tattvabodhinī
alignment inferredNSP p. 542
—अजेः-। अज गतिक्षेपणयोरस्मादिनच् । अजेरजादेशविधानं व्यर्थमित्यत आह —वीभाववाधनार्थमिति । ‘अजिनं चर्म कृत्तिः स्त्री’ इत्यमरः
उ207 · Uṇ 9.2.50
बहुलमन्यत्रापि ॥ उ२०७ ॥
bahulamanyatrāpi
Siddhānta-kaumudī
कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।
Tattvabodhinī
NSP p. 542
—वहुलमन्यत्रापि । अन्यस्मादपीत्यर्थः । कठ कृच्छ्रजीवने, णल गहने, मल मल्ल धारणे, कुडि दाहे, दो अवखण्डने । ‘कठिनमपि निपुरे स्यात् स्तब्धे तु त्रिषु नपुंसकं स्थात्याम् । कठिनी घटिकायामपि कठिना गुडशर्करायां च’ इति मेदिनी । ‘मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति’ इति मेदिनी ॥—कुण्डिनमिति । ‘नगरं कुण्डिनमण्डजो ययौ’ इति श्रीहर्षः । कुण्डिन ऋषिः । तस्यापत्यं कौण्डिन्यः ॥—यत्परुषीति । ‘पर्वणि दिनं खण्डितं तद्देवाना’मिति तैत्तिरीयश्रुत्यर्थः
उ208 · Uṇ 9.2.51
द्रुदक्षिभ्यामिनन् ॥ उ२०८ ॥
drudakṣibhyāminan
Siddhānta-kaumudī
द्रविणम् । दक्षिणः । दक्षिणा ।
Tattvabodhinī
NSP p. 542
—द्रुदक्षि-। द्रु गतौ, दक्ष वृद्धौ । ‘द्रविणं न द्वयोर्वित्ते काश्चने च पराक्रमे’ इति मेदिनी । दक्षिणो दक्षिणोद्भूतसरलच्छन्दवृत्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्’ इति च । ‘दक्षिणः सरलोदारपरच्छन्दानुवृत्तिषु । वाच्यवदक्षिणा वाचि यज्ञदानप्रतिष्ठयोः’ इति विश्वः
उ209 · Uṇ 9.2.52
अर्तेः किदिच्च ॥ उ२०९ ॥
arteḥ kidicca
Siddhānta-kaumudī
इरिणं शून्यम् ।
Tattvabodhinī
NSP p. 542
—अर्तेः-। ऋ गतौ, अस्मादि-नन् कित्स्याद् इकारश्च धातोः रपरत्वम् । ‘इरिणं शून्यमूषरम्’ इत्यमरः । ‘इरिणं तूषरे शून्येऽपि’ इति मेदिनी ॥—वेपि-। दुवेष्टु कम्पने, तुहिर् अर्दने, आभ्यामिनन् हस्तश्च धातोः । ‘अटव्यरण्यं विपिनम्’ इत्यमरः ॥—तुहिनमिति । लघूपधणुणे कृते हस्वः ॥—तलि-। तल प्रतिष्ठायाम्, पुल महत्वे । ‘तलिनं तरले स्तोके खच्छेऽपि वाच्यलिङ्गकम्’ इति मेदिनी ॥—गर्वेः-। गर्वे मोचने, अस्मादिनन् अकारस्य उत्
उ210 · Uṇ 9.2.53
वेपितुह्योर्ह्रस्वश्च ॥ उ२१० ॥
vepituhyorhrasvaśca
Siddhānta-kaumudī
विपिनम् । तुहिनम् ।
उ211 · Uṇ 9.2.54
तलिपुलिभ्यां च ॥ उ२११ ॥
talipulibhyāṃ ca
Siddhānta-kaumudī
तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।
उ212 · Uṇ 9.2.55
गर्वेरत उच्च ॥ उ२१२ ॥
garverata ucca
Siddhānta-kaumudī
गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।
उ213 · Uṇ 9.2.56
रुहेश्च ॥ उ२१३ ॥
ruheśca
Siddhānta-kaumudī
रोहिणः ।
Tattvabodhinī
NSP p. 542
—रुहेश्च । रुह वीजजन्मनि प्रादुर्भावे ॥—रोहिण इति । प्रज्ञादित्वादणि रौहिणश्च-न्दनतरुः ॥—महेः-। मह पूजायाम् । ‘कुतस्त्वमिन्द्रमाहिनः सन्’ माहिनो महनीयः पूजनीय इति वेदभाष्यम् ॥—किब्व-चि-। वच परिभाषणे, प्रच्छ श्रीप्सायाम्, श्रिञ् सेवायाम्, सु गतौ, द्रु गतौ, पुङ् गतौ, जु गतौ सौत्रः ॥—वागिति । ‘वचिखपि-’ इति संप्रसारणाभावः । पृच्छतीति प्राट् । ‘प्रहिज्या-’ इति संप्रसारणाभावः । ‘ध्रुवोः शूङ्-’ इति शः । ‘व्रश्च-’ इति घत्वं ज-शूलचत्वें, प्राशौ प्राशः ॥—श्रीरिति । ‘कृदिकारात्-’ इति ङीष् तु न भवति कृत्प्रत्ययस्य य इकार इति व्याख्यानात् । कृ-दन्तं यदिकारान्तमिति पक्षे तु यद्यपि ङीष्प्राप्तिरस्ति तथापि कारप्रहणसामर्थ्येन केवलस्येकारस्य प्रहणादिकारान्तपक्षो दुर्बल इत्याहुः । दुर्घटस्तु ङीषि श्रीमित्यपि रक्षित इच्छतीत्याह ‘श्री वेषरचना शोभा भारती सरलद्वमे । लक्ष्म्यां त्रिवर्गसंपत्तिवि-व्याप्तौ, अस्मात्किप् धातोर्हस्त्वश्च । ‘आपः स्त्री भूमि वार्वारि’ इत्यमरः ॥—परौ-। व्रज गतौ ॥—द्रुवः-। हु दानादनयोः । अस्मात्किप् धातोश्च दीर्घः द्रुवश्चावाद्विर्वचनम्
उ214 · Uṇ 9.2.57
महेरिनण् च ॥ उ२१४ ॥
maherinaṇ ca
Siddhānta-kaumudī
चादिनन् । माहिनन् । महिनं राज्यम् ।
उ215 · Uṇ 9.2.58
क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च ॥ उ२१५ ॥
kvibvacipracchiśrisrudruprujvāṃ dīrgho'saṃprasāraṇaṃ ca
Siddhānta-kaumudī
वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।
उ216 · Uṇ 9.2.59
आप्नोतेर्ह्रस्वश्च ॥ उ२१६ ॥
āpnoterhrasvaśca
Siddhānta-kaumudī
आपः । अपः । अद्भिः । अद्भ्यः ।
उ217 · Uṇ 9.2.60
परौ व्रजेः षश्च पदान्ते ॥ उ२१७ ॥
parau vrajeḥ ṣaśca padānte
Siddhānta-kaumudī
व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।
उ218 · Uṇ 9.2.61
हुवः श्लुवच्च ॥ उ२१८ ॥
huvaḥ śluvacca
Siddhānta-kaumudī
जुहूः ।
उ219 · Uṇ 9.2.62
स्रुवः कः ॥ उ२१९ ॥
sruvaḥ kaḥ
Siddhānta-kaumudī
स्रुवः ।
Tattvabodhinī
NSP p. 542
—सुवः कः । सु गतौ । सुवो यज्ञपात्रविशेषः । ‘अयं सुवो अभिजि-षति’ ‘सुवेण पार्वणौ जुहोति’ इत्यादौ प्रसिद्धः
उ220 · Uṇ 9.2.63
चिक् च ॥ उ२२० ॥
cik ca
Siddhānta-kaumudī
इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।
Tattvabodhinī
NSP p. 542–543
—चिक् च । सुव इत्येव ॥ योगविभाग उत्तरार्थः ॥—क इदिति । तेन सुक् सुचौ सुच इत्यादौ गुणो न ॥—तनो-। तनु विस्तारे, व इति संघातप्रहणं तदाह-वशब्दादेश इति । ‘स्त्रियां तु लगस्त्रधरा’ इत्यमरः
उ221 · Uṇ 9.2.64
तनोतेरनश्च वः ॥ उ२२१ ॥
tanoteranaśca vaḥ
Siddhānta-kaumudī
तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।
उ222 · Uṇ 9.2.65
ग्लानुदिभ्यां डौः ॥ उ२२२ ॥
glānudibhyāṃ ḍauḥ
Siddhānta-kaumudī
ग्लौः । नौः ।
Tattvabodhinī
NSP p. 543
—ग्लानुदि—। ग्लै हर्षक्षये, णुद प्रेरणे । ‘ग्लौर्दृगाङ्कः कलानिधिः’ इत्यमरः । स्त्रियां नौस्तरणिस्तरिः’ इति च
उ223 · Uṇ 9.2.66
च्विरव्ययम् ॥ उ२२३ ॥
cviravyayam
Siddhānta-kaumudī
डौरित्येव । ग्लौकरोति । कृन्मेजन्तः {SK 449} इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।
Tattvabodhinī
alignment inferredNSP p. 543
—ग्लौकरोतीति । अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः । अव्ययलात्सुपो लुक् ॥—ठव्यन्त एवेति । तेन ग्लौनौगौरित्यादीनां नाव्ययलमिति भावः
उ224 · Uṇ 9.2.67
रातेर्डैः ॥ उ२२४ ॥
rāterḍaiḥ
Siddhānta-kaumudī
राः । रायौ । रायः ।
Tattvabodhinī
alignment inferredNSP p. 543
—रातेः—। रा दाने ॥—रा इति । ‘रायो हलि’ इत्यालम् । ‘रा स्मृतः पावके तीक्ष्णे राः पुंसि खण्वित्तयोः’ इति मेदिनी । ‘रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने’ इति हेमचन्द्रः
उ225 · Uṇ 9.2.68
गमेर्डोः ॥ उ२२५ ॥
gamerḍoḥ
Siddhānta-kaumudī
गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।
Tattvabodhinī
alignment inferredNSP p. 543
—गमेः—। गम्ल गतौ । ‘गोतो णित्’ गौः । केशवोक्तमाह—गौर्नादित्य इत्यादि । ‘गौः खर्गे वृषमे रश्मौ वज्रे चन्द्रे पुमान् भवेत् । अर्जुने नेत्रदिग्वाणभूवाग्वारिषु गौर्मता’ इत्यमरः ॥—द्युतेरपीति । द्युत दीप्तौ, द्योतन्ते देवा अस्मामिति द्यौः
उ226 · Uṇ 9.2.69
भ्रमेश्च डूः ॥ उ२२६ ॥
bhrameśca ḍūḥ
Siddhānta-kaumudī
भ्रूः । चाद्गमेः । अग्रेगूः ।
Tattvabodhinī
NSP p. 543
—भ्रमेश्च—। भ्रमु अनवस्थाने, गम्ल गतौ । अग्रेगूः सेवकः
उ227 · Uṇ 9.2.70
दमेर्डोसिः ॥ उ२२७ ॥
damerḍosiḥ
Siddhānta-kaumudī
दोः । दोषौ ।
Tattvabodhinī
alignment inferredNSP p. 543–544
—दमेः—। दमु उपशमे डित्वादिलोपः ॥—दोरिति । दोषं तस्येति श्रीहर्षप्रयोगात्पुंस्त्वम् । ककुदोषणी इति भाष्यप्रयोगान्नपुंसकलम् । ‘दोर्दोषा च भुजो वाहुः’ इति धनंजयकोशात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपञ्चितम् ॥—पणेः—। पण व्यवहारे स्तुतौ च । अमरकोशमाह—नैगम इत्यादि ॥—वशेः—। वश कान्तौ, अस्मादिनिः कित्स्यात् । ‘प्रहिज्या—’ इति संप्रसारणम् ॥—भृञः—। भृञ् भरणे, अस्मादिनिः कित्स्यात् धातोरूकारान्तादेशश्च ॥—जसि—। जसु मोक्षणे । षह मर्षणे ‘जसुरये स्तर्य पिप्यथुर्गाम्’ इति मन्त्रे जसुरयेति ‘नीचायमानं जसुरिं न श्येनम्’ इत्यत्र जसुरिं श्रुधितं श्येनं न श्येनप-क्षिणमिवेति । ‘उतस्य वाजी सहुरिर्ऋतौ’ इति मन्त्रे सहुरिः सहनशील इति च वेदभाष्यम् ॥—सुयु—। पुञ् अभिषवे, यु मिश्रणे, रु शब्दे, वृञ् वरणे, ‘सवनं लध्वरे स्नाने सोमनिर्दलनेऽपि च’ इति मेदिनी । यवनो म्लेच्छविशेषः । ‘रवणः शब्दने खरे’ इति च मेदिनी । रवणः कोकिल इत्येके । वरणो वृक्षभेदः । टापि तु वरणा नदी । ‘वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृत्तौ’ इति विश्वः । ‘वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः’ इत्यमरः ॥—अशेः—। अश्ला व्याप्तौ ॥—जिह्वावाची त्विति । रस आखादने चौरादिकः । ततो नन्दादिलात् त्युः । ‘ण्यासश्रन्थ—’ इति युज्वा । रसलाखा-दयतीति रसना । ‘रसनं खदने ध्वनौ । जिह्वायां तु न पुंसि स्याद्रास्नायां रसना स्त्रियाम्’ इति मेदिनी । काश्चीवाची तालव्यशकारवान् जिह्वावाची तु दन्त्यसकारवानित्येषा व्यवस्था भूरिप्रयोगाभिप्रायेणोक्ता । वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोऽपि काश्च्यां जिह्वायां च तथा दन्त्यसकारवान् रसनाशब्दोऽप्यर्थद्वये बोध्यः । तथा हि ‘तालव्या अपि दन्त्याश्च शम्बश्लकरपांशवः । रशनापि च जिह्वायाम्’ इति विश्वकोशाज्जिह्वायामुभयं साधु । ‘रसनं निःखने खादे रसना काश्चि-जिह्वयोः’ इत्यजयधरणिकोशाभ्यां काश्च्यामप्युभयं साधु । एवं च ‘अशेरश च’ इति सूत्रे अश्ला व्याप्तौ, अश भोजने, इति धातुद्वयमपि प्राह्यम् । रस आखादने, रस शब्दे, इति धातुभ्यां तु ‘वहुलमन्यत्रापि’ इत्यनुपदमेव वक्ष्यमाणेन युच् । तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्याहुः ॥—उन्देः—। उन्दी क्लेदने अस्माद्युच् । ‘ओदनं न स्त्रियां भक्तेऽवलाया-मोदने स्त्रियाम्’ इति मेदिनी ॥—गमेः—। गम्ल गतौ । ‘नभोऽन्तरिक्षं गगनम्’ इत्यमरः ॥—वहुलमिति—। स्यन्द्र-प्रस्रवणे, रुच दीप्तौ । ‘स्यन्दनं तु श्रुतौ नीरे तिनिशे ना रथे स्त्रियाम्’ इति मेदिनी । ‘रोचना रक्तकहारे गोपितवरयो-षितोः । रोचनः कूटशाल्मत्यां पुंसि स्याद्रोचके त्रिषु’ इति च । चदि आहादे । ‘चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी’ इति विश्वः । ‘चन्दनी तु नदीभिदि । चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्’ इति मेदिनी । भद्रकाली ओषधिविशेषः । ‘भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्’ इति मेदिनी । असु क्षेपणे । ‘असनं क्षेपणे क्लीवं पुंसि स्याज्जीवकहमे’ इति मेदिनी । अत सातत्यगमने राजपूर्वः । ‘राजादनः क्षीरिकायां प्रियाले किञ्चकेऽपि च’ इति विश्वमेदिन्यौ । एवमन्येऽपि द्रष्टव्याः ॥—रज्जेः—। रज रागे, त्युटि तु रजनम् । ‘रजनो रागजनने रजनं रक्त-चन्दने’ इति मेदिनी । वाहुलकात्कृपेरपि वयुन् । ‘कृपो रो लः’ इति प्राप्तललाभावश्च । कृपणः ॥—भृस्—। भृ सत्तायां, पूर्व प्राणिप्रसवे, धूल कम्पने, भ्रस्ञ पाके, बहुलवचनाद्भाषायामपि क्वचित् । ‘भुवनं विष्टपेऽपि स्यात्सलिले गगने जने’ इति मेदिनी । ‘विष्टपं भुवनं जगत्’ इत्यमरः ॥—भृज्जनमिति । ‘ग्रहिज्या—’ इति संप्रसारणम् । सस्य जन्तवेन दः, दस्य श्रुत्वेन जः । ‘क्लीवेऽम्बरीषं भ्राप्नो ना’ इत्यमरः ॥—कृपू—कृ विक्षेपे, पृ पालनादौ, वृजी वर्जने, मदि सुलादौ, डुधाव धारणपोषणयोः । ‘निधनं स्यात्कुले नाशे’ इति मेदिनी । ‘निधनं कुलनाशयोः’ इति हेमचन्द्रः ॥—धृषेः—। विष्टपा प्रगल्भ्ये, अस्मात्कुः धिषादेशश्च धातोः । ‘धिषणस्त्रिदशाचार्यं धिषणा धियि योषिति’ इति मेदिनी । ‘गीष्पतिर्धिषणो गुरुः’ इत्यमरः
Footnotes (NSP 1915 ed.)
NSP p. 544 अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् ॥—समि—ष्टुञ् स्तुतौ अस्मात्सम्युपपदे आनच् ॥—युधि—। युध संप्रहारे । युधानो रिपुः । युधिर् बोधने । युधानं आचार्यः । दृशिर् प्रेक्षणे । बाहुलकात्कृपेरप्यानच् । कृपाणः खज्ञः । ‘कृपाणेन कथं-कारं कृपणः सह गण्यते । परेषां दानसमये यः स्वकोशं विमुञ्चति’ ॥—हुच्छेः—। हुच्छां कौटिल्ये, अस्मात्सन्नन्तात् आनच्यात्सनो लुक् छलोपश्च । ‘युयोध्यसम्बुहुराणमेनः’ इति मन्त्रे जुहुराणं कौटिल्यकारि एनः पापं युयोधि पृथक् कुरु इति भाष्यम् ॥—श्वितेः—। श्विता वर्णे अस्मात्सन्नन्तादानच् ‘सन्यङोः’ इति द्विलम् । सनो लुक् तकारस्य च दकारः । किदित्यजुन्नतेर्न गुणः ॥—पुण्यकर्मेति । ‘शिश्विदानोऽकृष्णकर्मा’ इति विशेष्यनिघ्ने अमरः । अकृष्णं शुक्लं निष्पापलात्र
उ228 · Uṇ 9.2.71
पणेरिज्यादेश्च वः ॥ उ२२८ ॥
paṇerijyādeśca vaḥ
Siddhānta-kaumudī
वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।
उ229 · Uṇ 9.2.72
वशेः कित् ॥ उ२२९ ॥
vaśeḥ kit
Siddhānta-kaumudī
उशिगग्नौ घृतेपि च ।
उ230 · Uṇ 9.2.73
भृञ ऊच्च ॥ उ२३० ॥
bhṛña ūcca
Siddhānta-kaumudī
भूरिक् भूमिः ।
उ231 · Uṇ 9.2.74
जसिसहोरुरिन् ॥ उ२३१ ॥
jasisahorurin
Siddhānta-kaumudī
जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।
उ232 · Uṇ 9.2.75
सुयुरुवृञो युच् ॥ उ२३२ ॥
suyuruvṛño yuc
Siddhānta-kaumudī
सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।
उ233 · Uṇ 9.2.76
अशेरश च ॥ उ२३३ ॥
aśeraśa ca
Siddhānta-kaumudī
अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।
उ234 · Uṇ 9.2.77
उन्देर्नलोपश्च ॥ उ२३४ ॥
undernalopaśca
Siddhānta-kaumudī
ओदनः ।
उ235 · Uṇ 9.2.78
गमेर्गश्च ॥ उ२३५ ॥
gamergaśca
Siddhānta-kaumudī
गमेर्युच् स्याद्गश्चादेशः । गगनम् ।
उ236 · Uṇ 9.2.79
बहुलमन्यत्रापि ॥ उ२३६ ॥
bahulamanyatrāpi
Siddhānta-kaumudī
युच् स्यात् । स्यन्दनः । रोचना ।
उ237 · Uṇ 9.2.80
रञ्जेः क्युन् ॥ उ२३७ ॥
rañjeḥ kyun
Siddhānta-kaumudī
रजनम् ।
उ238 · Uṇ 9.2.81
भूसूधूभ्रस्जिभ्यश्छन्दसि ॥ उ२३८ ॥
bhūsūdhūbhrasjibhyaśchandasi
Siddhānta-kaumudī
भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।
उ239 · Uṇ 9.2.82
कॄपॄवृजिमन्दिनिधाञः क्युः ॥ उ२३९ ॥
kṝpṝvṛjimandinidhāñaḥ kyuḥ
Siddhānta-kaumudī
किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।
उ240 · Uṇ 9.2.83
धृषेर्धिष् च संज्ञायाम् ॥ उ२४० ॥
dhṛṣerdhiṣ ca saṃjñāyām
Siddhānta-kaumudī
धिषणो गुरुः । धिषणा धीः ।
उ241 · Uṇ 9.2.84
वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ॥ उ२४१ ॥
vartamāne pṛṣadbṛhanmahajjagacchatṛvacca
Siddhānta-kaumudī
अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।
Tattvabodhinī
NSP p. 544
—वर्तमाने—॥—शतवच्चेति । तथा च ‘उगिदचाम्—’ इति नुमि महान् । स्त्रियां तु ‘उगितश्च’ इति क्षीपि महतीत्यादि सिद्ध्यतीति भावः । ननु पृषन्महदादयः ‘लटः शतशानचौ—’ इति शतप्रत्ययान्ता एव भवन्तु । ततश्च वर्तमान इति शतवच्चेति न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः । शतप्रत्ययान्तत्वे तु ‘कर्तरि शप्’ इति शप्रत्यये महतीत्यादौ ‘आच्छीनयोः—’ इति नुम् स्यात्, महानित्यादौ तु ‘तात्प्रजुदातेन्द्रिदुदुपदेशात्’ इति लसार्वधातुकस्वरः स्यात् अतिप्रत्ययान्तत्वे तु तस्यातिप्रत्ययस्यार्धधातुकत्वाभ्युपगमेन शवभावान्नोक्तदोष इत्याशयेनातिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति । वृह वृद्धौ, मह पूजायाम्, गम्ल गतौ ॥—पृषन्तीति । विन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाहृतम् । ‘पृषन्मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिपु श्वेतविन्दुयुक्तेऽप्युभाविमौ’ इति मेदिनी । ‘वृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च । वारिधान्यां महत्यां च छन्दोवसनमेदयोः’ इति विश्वः । शत्रु-वद्भावात् ‘उगिदचाम्—’ इति नुम् । वृहन् विपुलः । ‘महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठं वाच्यवत्’ इति मेदिनी । महती नारदवीणा । ‘विश्वावसोस्तु वृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्व-स्यास्तु कच्छपी’ इति वैजयन्ती । ‘अवेक्षमाणं महतीं मुहुर्मुहुः’ इति माघः । ‘जगत्स्याद्विष्टपे क्लीवं वायौ ना जङ्गमे त्रिपु । जगती भुवने क्ष्मायां मन्दोभेदे जनेऽपि च’ इति मेदिनी । तत्र वायुवाचिनः पुंलिङ्गस्य शतवद्भावादुगित्वेन नुम् । जगन् जगन्तौ जगन्त इत्यादि भवति । ‘द्युतिगमिजुहोतीनां द्वे च’ इति व्युत्पादितस्य तु नुमभावाज्जगत् जगतौ जगत इत्या-दीति वोध्यम्
उ242 · Uṇ 9.2.85
संश्चत्तृपद्वेहत् ॥ उ२४२ ॥
saṃścattṛpadvehat
Siddhānta-kaumudī
एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृपत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।
Tattvabodhinī
alignment inferredNSP p. 544–545
—संश्वच्चु—। चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः ॥—निपात्यन्त इति । अतिप्रत्ययान्ता इति शेषः ॥—निवृत्त्यर्थमिति । एवं च संश्वदित्यत्र ‘उगिदचाम्—’ इति नुमः शङ्कैव नास्ति । वेहदित्यत्र ‘उगितश्च’ इति क्षीप् नेति भावः ॥—संचिनोतेरिति । मुभूतिचन्द्रस्तु संपूर्वाच्छ्वयतेः संश्वदित्याह ॥—तृपच्छत्रमिति । चन्द्रमा इत्यन्ये । विहन्ति गर्भमिति वेहत् ॥—इत ए चेति । विशब्दसंवन्धिन इकारस्य एकार इत्यर्थः । गौरित्यनुवृत्तौ ‘वेहद् गर्भोपघातिनी’ इत्यमरः ॥—छन्दसि—। शु गतौ, जृष् वयोहानौ ॥—पन्था इति । ‘प्रमन्महे’ इत्यादिमच्चद्वये शव-सानशब्दो गन्तृपरतया व्याख्यातः ॥—ऋजि—। ऋजि भर्जने, वृधु वृद्धौ, मदि सुलादौ, षह मर्षणे, एभ्यः असानच् कित्स्यात् ॥—ऋजसानो मेघ इति । ऋजेरिदित्वानुम् । इदित्वादेव नलोपाभावः । एवं चायं मन्दिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः कित्वं तु वृधुधातावेवोपयुज्यते । उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् । अर्तेः सुद च वृधेः किदि-त्युक्तौ सर्वसामज्जस्यादित्याहुः । ‘ऋजसानः पुरुवार उक्थैः’ ‘अस्मिन् यज्ञे मन्दसाना वृषण्वसू—’ इत्यादिमच्चाणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः ॥—अर्तेः—। ऋ गतौ धातोर्गुणः प्रत्ययस्य महागुणः ॥—भृज्जनमिति ॥ शुद्धं कर्म यस्येत्यर्थः । क्षीरस्वामिना तु प्रकृतसूत्रं विस्मृत्य श्रिदि श्वेत्ये अस्माद्विटः कानजिति व्याख्यातं, तदसंगतं कानचरुद्धान्दसलात् इदित्त्वेन नलोपानुपपत्तेश्चेति दिक्
उ243 · Uṇ 9.2.86
छन्दस्यसानच् शुजॄभ्याम् ॥ उ२४३ ॥
chandasyasānac śujṝbhyām
Siddhānta-kaumudī
शवसानः पन्थाः । जरसानः पुरुषः ।
उ244 · Uṇ 9.2.87
ऋञ्जिवृद्धिमन्दिसहिभ्यः कित् ॥ उ२४४ ॥
ṛñjivṛddhimandisahibhyaḥ kit
Siddhānta-kaumudī
ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।
उ245 · Uṇ 9.2.88
अर्तेर्गुणः शुट् च ॥ उ२४५ ॥
arterguṇaḥ śuṭ ca
Siddhānta-kaumudī
अर्शसानोऽग्निः ।
उ246 · Uṇ 9.2.89
सम्यानच्स्तुवः ॥ उ२४६ ॥
samyānacstuvaḥ
Siddhānta-kaumudī
संस्तवानो वाग्मी ।
उ247 · Uṇ 9.2.90
युधिबुधिदृशिभ्यः किच्च ॥ उ२४७ ॥
yudhibudhidṛśibhyaḥ kicca
Siddhānta-kaumudī
युधानः । बुधानः । दृशानो लोकपालकः ।
उ248 · Uṇ 9.2.91
हुर्छेः सनो लुक् छलोपश्च ॥ उ२४८ ॥
hurcheḥ sano luk chalopaśca
Siddhānta-kaumudī
जुहुराणश्चन्द्रमाः ।
उ249 · Uṇ 9.2.92
श्वितेर्दश्च ॥ उ२४९ ॥
śviterdaśca
Siddhānta-kaumudī
शिश्विदानः पुण्यकर्मा ।
उ250 · Uṇ 9.2.93
तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ ॥ उ२५० ॥
tṛntṛcau śaṃsikṣadādibhyaḥ saṃjñāyāṃ cāniṭau
Siddhānta-kaumudī
शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।
Tattvabodhinī
NSP p. 545
—तृन् तृचौ—॥—शंस्तेति । शंसु सुतावस्मात्तृन् । ‘अप्-तृन्—’ इति सूत्रे नप्लादिप्रहणं नियमार्थमौणादिकतृजन्तानां चेदुपधादीर्धसहिं नप्लादीनामेवेत्युक्तम् तेनात्र दीर्घो ने-त्युदाहरति—शंस्तरौ शंस्तर इति । नित्वादाद्युदात्तः । तथा च मन्त्रः ‘प्रावप्राम उत शंस्तासु विप्रः’ । आदिशब्दा-च्छासु अनुशिष्टौ । शास्ति विनयति सत्वान् शास्ता बुद्धः । शास्तारौ शास्तारः । ‘शास्ता समन्तभद्रे ना शासके पुनरन्य-वत्’ इति । प्रपूर्वस्य तु नप्लादिषु पाठात् ‘अप्तृन्—’ इति दीर्घः । प्रशास्तारौ प्रशास्तारः । ‘क्षत्ता शूद्राच्च वैश्यादौ प्रती-हारे च सारथौ’ इति मेदिनीकोशानुसारेणाह—वैश्यायामिति । अमरसु ‘क्षत्रियायां च शूद्रजे’ इत्याह । णीञ् प्रापणे उत्पूर्वः । उन्नेता ऋलिग्भेदः
उ251 · Uṇ 9.2.94
बहुलमन्यत्रापि ॥ उ२५१ ॥
bahulamanyatrāpi
Siddhānta-kaumudī
मन् । मन्ता । हन् । हन्ता । इत्यादि ।
Tattvabodhinī
NSP p. 545
—वहुलमन्यत्रापि । अन्यत्रापि धातोर्वहुलं तृन्तृचौ भवतः । पूर्वसूत्रस्थादिशब्देनैव मन्ताहन्तेत्यादेः सिद्धलात्प्रपञ्चार्थमिदं सूत्रम् ॥—नमृनेष्टु—। नप्त्रादयो दश तृन्तृजन्ता निपात्यन्ते ॥—नमेति । नञः प्रकृतिभावः । पत्ल गतावित्यस्मात्रिच् टिलोपः । णीञ् प्रापणे, लिप दीप्तौ, हु दानादनयोः, पूञ् पवने, भ्राजृ दी-प्तौ, मा माने, पा रक्षणे, दुह प्रपूरणे । ‘लष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिवपि’ इति मेदिनी । जायां मातीत्यन्त-भावितप्यर्थः ॥—सुज्यसेः—। सुयि उपपदे असु क्षेपणे इत्यस्मात् ऋन् यणादेशः । स्वसा भगिनी । सावसेरिति तु काचित्कः पाठः ॥—यतेः—। यती प्रयत्ने ॥—नञि च—। दुनदि समृद्धौ अस्मान्नव्युपपदे ऋन् ॥—न नन्दती-ति । कृतायामपि सेवायां न तुष्यतीत्यर्थः । ‘उपाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता’ इति द्विरूपकोशः
उ252 · Uṇ 9.2.95
नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ ॥ उ२५२ ॥
naptṛneṣṭṛtvaṣṭṛhaॊtṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ
Siddhānta-kaumudī
न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।
उ253 · Uṇ 9.2.96
सुञ्यसेर्ऋन् ॥ उ२५३ ॥
suñyaserṛn
Siddhānta-kaumudī
स्वसा ।
उ254 · Uṇ 9.2.97
यतेर्वृद्धिश्च ॥ उ२५४ ॥
yatervṛddhiśca
Siddhānta-kaumudī
याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।
उ255 · Uṇ 9.2.98
नञि च नन्देः ॥ उ२५५ ॥
nañi ca nandeḥ
Siddhānta-kaumudī
न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।
उ256 · Uṇ 9.2.99
दिवेर्ऋः ॥ उ२५६ ॥
diverṛḥ
Siddhānta-kaumudī
देवा देवरः । स्वामिनो देवृ देवरौ ।
Tattvabodhinī
NSP p. 545
—दिवेः—। दिवु क्रीडाविजिगीपादौ ॥—देवेति । भ्रातर इत्यनुवृत्तौ ‘स्वामिनो देवृदेवरौ’ इत्यमरः ॥—नयतेः—। णीञ् प्रापणे । अस्माद् ऋप्रत्ययः स च डित् डित्त्वाटिलोपः । ‘स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः’ इत्यमरः
उ257 · Uṇ 9.2.100
नयतेर्डिच्च ॥ उ२५७ ॥
nayaterḍicca
Siddhānta-kaumudī
ना । नरौ नरः ।
उ258 · Uṇ 9.2.101
सव्ये स्थश्छन्दसि ॥ उ२५८ ॥
savye sthaśchandasi
Siddhānta-kaumudī
अम्बाम्ब- {SK 2918} इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।
Tattvabodhinī
NSP p. 545
—सव्ये—। ष्टा गतिनिवृत्तौ अस्मात्सव्यशब्दे उपपदे ऋ स्यात्स च डित् । ‘तत्पुरुषे कृति—’ इति सप्तम्या अलुक् ॥—उपसंख्या-नमिति । षलस्येति शेषः
उ259 · Uṇ 9.2.102
अर्तिसृधृधम्यश्यवितॄभ्योऽनिः ॥ उ२५९ ॥
artisṛdhṛdhamyaśyavitṝbhyo'niḥ
Siddhānta-kaumudī
सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।
Tattvabodhinī
NSP p. 545
—अर्ति—। ऋ गतौ, स्र गतौ, धृञ् धारणे, धमिः सौत्रः, अम गतौ, अश भोजने, अव-रक्षणादौ, तृ स्त्रवनतरणयोः । ‘अरणिर्वहिमन्थे ना द्वयोर्निर्मध्यदारुणि’ इति मेदिनी । ‘सरणिः श्रेणिवर्त्मनोः’ इति दन्त्यादौ रभसः । ‘सरणिः पङ्क्तौ मार्गे स्त्री’ इति मेदिनी । शू हिंसायां ततोऽतिप्रत्ययः । शरणिरित्येके । ‘शरणिः पथि-चापलौ’ इति तालव्यादावजयः । ‘इमाममे शरणिम्’ इति मन्त्रे शरणिं हिंसात्रतलोपरूपां मीमृषः क्षमस्वेति वेदभा-ष्यम् । धरणिर्भूमिः । ‘धमनी तु शिराहृविलासिन्यां तु योषिति’ इति मेदिनी । अमनिर्गतिः । अश्यते भुज्यते राज्यमि-न्द्रेणानयेति अशनिर्वज्रम् । अशनिः स्त्रीपुंसयोः स्याच्चब्रलायां रवावपि’ इति मेदिनी । अवनिः पृथिवी । ‘तरणिर्धुमणौ पुंसि कुमारीनौकयोः स्त्रियाम्’ इति मेदिनी । कुमारी लताविशेषः । ‘तरणी रामतरणी कर्णिका चारुकेसरा । सहाकुमारी गन्धात्ब्या’ इति धन्वन्तरिनिघण्टुः ॥—रजनिरिति । रज रागे अस्मादप्यनिर्नलोपोऽपि वाहुलकात् ‘कृदिकारात्—’ इति डीष् । रजनी । ‘रजनी नीलिनी रात्रिर्हरिप्रजनुकासु च’ इति मेदिनी ॥—आङि—। शुष शोषणे अस्मात्सन्नन्तादाङि-उपपदे अनिः स्यात्
उ260 · Uṇ 9.2.103
आङि शुषेः सनश्छन्दसि ॥ उ२६० ॥
āṅi śuṣeḥ sanaśchandasi
Siddhānta-kaumudī
आशुशुक्षणिरग्निर्वातश्च ।
उ261 · Uṇ 9.2.104
कृषेरादेश्च चः ॥ उ२६१ ॥
kṛṣerādeśca caḥ
Siddhānta-kaumudī
चर्षणिर्जनः ।
Tattvabodhinī
NSP p. 545–546
—कृषेरादेः—। कृष विलेखने, चर्षणिर्जन इति वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पा-ठात् । ‘ओमासश्चर्षणीधृतः’ इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च । उज्ज्वलदत्तेन तु आदेश्च ध इति पठित्वा धर्षणिर्वन्धकीति व्याख्यातम् । तदयुक्तम् । तथा सति धृषेरित्येव सूत्रयेत् । प्रागलभ्यरूपावयवार्थानुगमात् । आदेश्च ध इत्यंशस्य लागेन लघवाच, तस्मादादेश्वरः इति दशपादीपाठ एव युक्त इत्याहुः ॥—अदेः-। अद् भक्षणे अस्मादनिस्तस्य मुडागमश्च
Footnotes (NSP 1915 ed.)
NSP p. 546 इति सान्ते मेदिनी ॥—पतेः—। इण् गतावित्यस्मादुसिः, णित्वाद् वृद्धौ कृतायामायादेशः ॥—चक्षेः—। चक्षिङ् व्यकायां वाचि अस्मादुसिः शिद्धवति । शित्वात्स्यावादेशाभावः । चक्षते रूपमनुभवन्त्यनेनेति चक्षुः ॥—मुहेः—। मुह वैचित्ये । ‘मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः’ इत्यव्ययेष्वमरः । अस्मात्परं ‘वहुलमन्यत्रापि’ इति सूत्रं स्पष्टलात्यकम् ॥—कृ गृ—। कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, वृष् वरणे, चते याचने । ‘नैर्ऋतः कर्वरः क्रव्यात्कर्वुरो यातुरक्षसोः’ इति शब्दार्णवः । ‘शर्वरी यामिनीस्त्रियोः’ इति मेदिनी । ‘वर्वरः पामरे केशविन्यासे नीवृदन्तरे । वर्वरः पजिकायां तु वर्वरा शाकपुष्पयोः’ इति विश्वः । ‘वर्वरः पामरे केशचक्रले नीवृदन्तरे । फजिकायां पुमान् शाकपुष्पमेदभिदोः स्त्रियाम्’ इति मेदिनी । ‘चत्वरं स्थण्डिले गणे’ इति च ॥—नौ सदेः—। षट् विशरणादौ । निपूर्वादस्मात्ष्वरच् स्यात् । ‘सदिरप्रतेः’ इति पलम् । ‘निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी’ इति मेदिनी ॥ इत्युणादिषु द्वितीयः पादः ॥ छित्वर-॥—अनयोरिति । छिदर् द्वैधीकरणे, छद अपवारणे, ‘छित्वरद्छेदने द्वव्ये धूर्ते वैरिणि च त्रिषु’ इति
उ262 · Uṇ 9.2.105
अदेर्मुट् च ॥ उ२६२ ॥
adermuṭ ca
Siddhānta-kaumudī
अद्मनिरग्निः ।
उ263 · Uṇ 9.2.106
वृतेश्च ॥ उ२६३ ॥
vṛteśca
Siddhānta-kaumudī
वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।
Tattvabodhinī
NSP p. 546
—वृत्तेश्च-। वृत्त वर्तने अस्मादप्यनिः॥—वर्तनिरिति । ‘कृदिकारात्’- इति ङीषि तु वर्तनी । ‘सरणिः पद्धतिः पथा वर्तन्येकपदीति च’ इत्यमरः
उ264 · Uṇ 9.2.107
क्षिपेः किच्च ॥ उ२६४ ॥
kṣipeḥ kicca
Siddhānta-kaumudī
क्षिपणिरायुधम् ।
Tattvabodhinī
NSP p. 546
—क्षिपेः-। क्षिप ग्रेरणे ॥—क्षिपणिरायुधमिति । ‘उतस्य वाजी क्षिपणिं तुरभ्यति’ इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमतु तुरभ्यति लरयति गन्तुमिति व्याख्यातम् ॥—अचि-। अचं पूजायाम्, शुच शोके, हु दाने, सृष्ट्व गतौ, छद् अपवारणे, भ्यन्तः । छर्द् वमने, अचिरिति सान्तम् । ‘तमचिंघा स्फूर्जयन्’ इति मन्त्रः । ‘नयनमिव सनिद्रं धूर्णते दैवमचिंः’ इति माघः । ‘ज्वालाभासोर्नपुंखचिंः’ इति नानाथे सान्तेध्वमरः
उ265 · Uṇ 9.2.108
अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः ॥ उ२६५ ॥
arciśucihusṛpichādichardibhya isiḥ
Siddhānta-kaumudī
अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । इस्मन्- {SK 2915} इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।
Tattvabodhinī
alignment inferredNSP p. 546
—इदन्तोऽपीति । णिजन्तादचेरच इरिति भावः । ‘अचिहेतिः शिखा क्षियाम्’ इत्यमरः । ‘रोचिः शोचिरुमे क्लीबे’ इति । सर्पिर्घृतम् । छथतेऽनया छदिः । छदिः क्षियामेवेति लिङ्गानुशासनसूत्रम् । एवं च पटलं छदिरित्यमरम्भे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः ॥—छर्चतीति । छर्दिश्चातिसारश्च शूलश्च तानि यस्य सन्तीति विग्रहः ॥—वृंहैः-। वृहि वृद्धौ अस्मादिसिः ॥—कुशशुष्मणोरिति । शुष्मा नाम अभिः । ‘अग्निवैश्वानरो वहिः’ इत्युपकम्य वर्हिः शुष्मेत्यमरेणोक्तलात् ॥—चुतेः-। चुत दीसौ । ‘ज्योतिरभौ दिवाकरे । पुमानृपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः’ इति मेदिनी ॥—वसौ-। रुच दीप्तावस्माद्बहुशब्दे उपपद इसिन्स्यात्सङ्गायाम् । वाहुलकात्केवलादपि ‘रोचिः शोचिरुमे क्लीबे’ इत्यमरः ॥—भुवः-। भवतेरिसिन् स्यात्स च कित् ॥—सहो-। षह मर्षणेऽस्मादिसिन् धश्चान्तादेशः ॥—पिवतेः-। पा पाने अस्मादिसिन्धातोश्च थुगागमः ॥—जनेः-। जनी प्रादुर्भावे ॥—मनेः-। मनु अवबोधनेऽस्मादुह्यः स्याच्छन्दसि धकारश्चान्तादेशः । मधु पवित्रद्रव्यम्
उ266 · Uṇ 9.2.109
बृंहेर्नलोपश्च ॥ उ२६६ ॥
bṛṃhernalopaśca
Siddhānta-kaumudī
बर्हिर्ना कुशशुष्मणोः ।
उ267 · Uṇ 9.2.110
द्युतेरिसिन्नादेश्च जः ॥ उ२६७ ॥
dyuterisinnādeśca jaḥ
Siddhānta-kaumudī
ज्योतिः ।
उ268 · Uṇ 9.2.111
वसौ रुचेः संज्ञायाम् ॥ उ२६८ ॥
vasau ruceḥ saṃjñāyām
Siddhānta-kaumudī
वसुरोचिर्यज्ञः ।
उ269 · Uṇ 9.2.112
भुवः कित् ॥ उ२६९ ॥
bhuvaḥ kit
Siddhānta-kaumudī
भुविः समुद्रः ।
उ270 · Uṇ 9.2.113
सहो धश्च ॥ उ२७० ॥
saho dhaśca
Siddhānta-kaumudī
सिधिरनड्वान् ।
उ271 · Uṇ 9.2.114
पिबतेस्थुक् ॥ उ२७१ ॥
pibatesthuk
Siddhānta-kaumudī
पाथिश्चक्षुःसमुद्रयोः ।
उ272 · Uṇ 9.2.115
जनेरुसिः ॥ उ२७२ ॥
janerusiḥ
Siddhānta-kaumudī
जनुर्जननम् ।
उ273 · Uṇ 9.2.116
मनेर्धश्छन्दसि ॥ उ२७३ ॥
manerdhaśchandasi
Siddhānta-kaumudī
मधुः ।
उ274 · Uṇ 9.2.117
अर्तिपॄवपियजितनिधनितपिभ्यो नित् ॥ उ२७४ ॥
artipṝvapiyajitanidhanitapibhyo nit
Siddhānta-kaumudī
अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।
Tattvabodhinī
NSP p. 546–548
—अर्तिपृ-। ऋ गतौ, पॄ पालनपूरणयोः, ह्वयष्ट् वीजसन्ताने, यज दैवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिर्नित्यात् । ‘व्रणोऽक्षियामीमंमरुः क्लीबे’ इत्यमरः । ‘प्रन्थिनां पर्वपरुषी’ इति च । ‘वपुः क्लीबं तनौ शस्ताकृतावपि’ इति मेदिनी । शस्ताकृतिः प्रशस्ताकृतिरित्यर्थः । यजुरिति यजुर्वेदः । तनुः शरीरम् । तनुषीति । तनुषेऽनङ्गमिति सुबन्धुः । ‘स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः’ इति द्विरूपेषु विश्वः । ‘अथाक्षियाम् । धनुश्चापौ’ इत्यमरः ॥—भूनः- पिगणेने नृ- नृ नृ नृ नृ नृ नृ नृ मेदिनी । इधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणमीलमन्तस्य निपात्यत इत्येके । अन्ये तु पीव मीव तीव नीव स्थौल्ये । एभ्यः ष्वरचि ‘लोपो व्योः—’ इति लोपमाहुः । ‘पीवरः कच्छपे स्थूले’ इति मेदिनी ॥—मीवर इति । हिंसक इत्यर्थानुगुण्येन मीञ् हिंसायामित्यस्मात्ष्वरजिति केचिदाहुः । ‘तीवरो नाम्नुधौ व्याधे’ इति मेदिनी । ‘स्यात्तीवरो वाणिजके वास्तवेऽपि च दृश्यते’ इति मेदिनीविश्वप्रकाशौ ॥—गाहतेरिति । गाहू विलोडने । ‘कद्वरं कुत्सिते वाच्यलिङ्गं तक्रे नपुंसकम्’ इति मेदिनी । वाहुलकादुपपूर्वक हुदानादनयोरित्यस्मात्ष्वरच्युकारलोपः । ‘उपह्वरं समीपे स्यादेकान्तेऽपि नपुंसकम्’ इति मेदिनी । उपह्वरो रथ इति केचित् । ‘तदु प्रयक्षतं’ इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपदेशे ॥—इण्— इण् गतौ, षिञ् वन्धने, जि जये, दीङ् क्षये, उप दाहे, अव रक्षणे । ‘इनः पत्यौ नृपार्कयोः’ इति मेदिनी । ‘जिनोऽर्हति च बुद्धे च पुंसि स्यात्रिषु जित्वरे’ इति च । ‘दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्’ इति विश्वः । ‘उष्णो प्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके’ इति मेदिनी । ‘ज्वरत्वर—’ इत्यूठि ऊनमसंपूर्णम् ॥—फेन— । स्फायी बृद्धौ अस्य फे इत्यादेशः । मीञ् हिंसायाम् । ‘डिण्डीरोऽविधकफः फेनः’ इत्यमरः । ‘मीनो राश्यन्तरे मत्स्ये’ इति विश्वः ॥—कृषेः— । कृष विलेखने अस्माद्वर्णे वाच्ये नक् स्यात् । ‘कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने । कृष्णा स्याद्वौ-पदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात्क्लीवे मरिचलोहयोः’ इति मेदिनी ॥—वन्धेः— । वन्ध वन्धने अस्मान्नक् । ‘भास्करोऽहस्करो ब्रह्मः प्रभाकरदिवाकरौ’ इत्यमरः । ‘बुभ्रो ना मूलस्त्रयोः’ इति मेदिनी ॥—धापृ । डुधाव् धारणादौ, पृ पालनादौ, वस निवासे, अज गतौ, अत सातत्यगमने, एभ्यो नः स्यात् । नक् प्रत्यये सदि तु वक्ष इत्यंत्र संप्रसारणं स्यात् । वेन इत्यत्र तु गुणो न स्यादिति भावः । ‘धाना भ्रष्टयचे प्रोक्ता धान्याकेऽभिनवोद्भिदि’ इति विश्वः । ‘पर्णं पत्रं किंशुके ना’ इति मेदिनी । ‘वक्षस्त्ववक्रये पुंसि चेतने स्यान्नपुंसकम्’ इति च । वेनः लुण्टाकः प्रजापतिश्च ॥—लक्ष्मेः—। लक्ष दर्शनाङ्कनयोः ॥—लक्षणमित्यादि । लक्षणलक्ष्मणशब्दौ द्वावपि नामचिह्नयोः क्षीर्यौ । रामभ्रातरि तु पुंलिङ्गौ । हंसयोषायां लक्षणा । सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः । ‘लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्षणः । लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः’ इति विश्वः । ‘लक्षणो लक्ष्मणोऽपि च’ इति द्विरूपेषु च विश्वः । ‘लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् । लक्ष्मणा त्वौषधीमेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्सश्रीके चाभिधेयवत्’ इति मेदिनी । कोशे तु ‘सारस्यामपि लक्षणा’ इति निर्मकारः पाठः स्वीकृतः ॥—वचेः—। वन संभक्तावस्मान्नः उपधाया इत्वं च । वेन्नेति लघूपधगुणः ॥—सिवेः—। षिवु तन्तुसन्ताने ॥—वाहुलकादिति । एतच्च ‘ध्रुोः शूङ्—’इति सूत्रे वृत्तौ ‘येन विधिः—’ इति सूत्रे कैयटग्रन्थे च स्पष्टम् ॥—यणिति । लघूपधगुणे कृते त्वेकारस्यायादेशे ऊठोऽपि ‘सार्वधातुक—’ इत्यादिना गुणे कृते सयोन इति स्यादिति भावः । ‘स्योनः किरणसूर्ययोः’ इति मेदिनी ॥ —कृच्—कृ विक्षेपे, वृञ् वरणे, दीर्घपाठे तु वृ वरणे, जृष् वयोहानौ, दिवादिः । जृ इति क्रयादौ चुरादौ च । षिञ् वन्धने, द्व गतौ, पन स्तुतौ, अन प्राणने, ञिष्वप् शये, एभ्यो नप्रत्ययो नित्स्यात् । ‘कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुता-षपि’ इति विश्वमेदिन्यौ । वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने’ इति मेदिनी । विश्वमेदिनीस्थमाह—जर्णश्चन्द्र इति । ‘जर्णो जीर्णद्रुमेन्दुषु’ इति हेमचन्द्रः । ‘ध्वजिनी वाहिनी सेना’ इत्यमरः । ‘द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । पुमान्कृपीपतौ कृष्णकाके स्त्री नीवृदन्तरे । स्त्रियां काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते । अन्नं भक्ते च भुक्ते स्यात्’ इति मेदिनी। ‘स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्’ इति मेदिनी॥—घेटः— धेट् पाने अस्मान्नः स्यादिच्चान्तादेशः । ‘धेना नद्यां नदे पुमान्’ इति मेदिनी । ‘धेनः समुद्रे नद्यां च धेना’ इति विश्वः । श्लोके धानेलादिषु वाङ्नामसु धेनेति वैदिकनिघण्टौ पठितम् । अत एव ‘धेना जिगाति दाशुषे’ ‘इन्द्र धेनाभिरिह माद-यस्व’ इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये ॥—तृषि—। जितृषा पिपासायाम्, शुष शोषणे, रस शब्दे । ‘तृष्णा लिप्सापिपासयोः’ इति विश्वः ॥—सुजः—। पुञ् अभिषवे अस्मान्नः स्याद्धातोर्दीर्घश्च । ‘सूनाधोजिह्विकापि च’ इति नान्तेऽमरः । ‘सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्ठिकयोः स्त्रियाम्’ इति मेदिनी ॥—रमेः—। रमेर्ण्य-न्तान्नः स्यात्तकारश्चान्तादेशः । ‘रत्नं खजातिश्रेष्ठेऽपि मणावपि नपुंसकम्’ इति मेदिनी
उ275 · Uṇ 9.2.118
एतेर्णिच्च ॥ उ२७५ ॥
eterṇicca
Siddhānta-kaumudī
आयुः । आयुषी ।
उ276 · Uṇ 9.2.119
चक्षेः शिच्च ॥ उ२७६ ॥
cakṣeḥ śicca
Siddhānta-kaumudī
चक्षुः ।
उ277 · Uṇ 9.2.120
मुहेः किच्च ॥ उ२७७ ॥
muheḥ kicca
Siddhānta-kaumudī
मुहुरव्ययम् ।
उ278 · Uṇ 9.2.121
बहुलमन्यत्रापि ॥ उ२७८ ॥
bahulamanyatrāpi
Siddhānta-kaumudī
आचक्षुः । परिचक्षुः ।
उ279 · Uṇ 9.2.122
कॄगॄशॄवृञ्चतिभ्यः ष्वरच् ॥ उ२७९ ॥
kṝgṝśṝvṛñcatibhyaḥ ṣvarac
Siddhānta-kaumudī
कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।
उ280 · Uṇ 9.2.123
नौ सदेः ॥ उ२८० ॥
nau sadeḥ
Siddhānta-kaumudī
निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः ।
उ281 · Uṇ 9.3.1
छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः ॥ उ२८१ ॥
chitvarachatvaradhīvarapīvaramīvaracīvaratīvaranīvaragahvarakaṭvarasaṃyadvarāḥ
Siddhānta-kaumudī
एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।
उ282 · Uṇ 9.3.2
इण्सिञ्जिदीङुष्यविभ्यो नक् ॥ उ२८२ ॥
iṇsiñjidīṅuṣyavibhyo nak
Siddhānta-kaumudī
इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।
उ283 · Uṇ 9.3.3
फेनमीनौ ॥ उ२८३ ॥
phenamīnau
Siddhānta-kaumudī
एतौ निपात्येते । स्फायतेः फेनः । मीनः ।
उ284 · Uṇ 9.3.4
कृषेर्वर्णे ॥ उ२८४ ॥
kṛṣervarṇe
Siddhānta-kaumudī
कृष्णः ।
उ285 · Uṇ 9.3.5
बन्धेर्ब्रधिबुधी च ॥ उ२८५ ॥
bandherbradhibudhī ca
Siddhānta-kaumudī
ब्रध्नः । बुध्नः ।
उ286 · Uṇ 9.3.6
धापॄवस्यज्यतिभ्यो नः ॥ उ२८६ ॥
dhāpṝvasyajyatibhyo naḥ
Siddhānta-kaumudī
धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।
उ287 · Uṇ 9.3.7
लक्षेरट् च ॥ उ२८७ ॥
lakṣeraṭ ca
Siddhānta-kaumudī
लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।
उ288 · Uṇ 9.3.8
वनेरिच्चोपधायाः ॥ उ२८८ ॥
vanericcopadhāyāḥ
Siddhānta-kaumudī
वेन्ना नदी ।
उ289 · Uṇ 9.3.9
सिवेष्ठेर्यू च ॥ उ२८९ ॥
siveṣṭheryū ca
Siddhānta-kaumudī
दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।
उ290 · Uṇ 9.3.10
कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित् ॥ उ२९० ॥
kṝvṝjṝsidrupanyanisvapibhyo nit
Siddhānta-kaumudī
कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।
उ291 · Uṇ 9.3.11
धेट इच्च ॥ उ२९१ ॥
dheṭa icca
Siddhānta-kaumudī
धेनः सिन्धुर्नदी धेना ।
उ292 · Uṇ 9.3.12
तृषिशुषिरसिभ्यः कित् ॥ उ२९२ ॥
tṛṣiśuṣirasibhyaḥ kit
Siddhānta-kaumudī
तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।
उ293 · Uṇ 9.3.13
सुञो दीर्घश्च ॥ उ२९३ ॥
suño dīrghaśca
Siddhānta-kaumudī
सूना वधस्थानम् ।
उ294 · Uṇ 9.3.14
रमेस्त च ॥ उ२९४ ॥
ramesta ca
Siddhānta-kaumudī
रमयतीति रत्नम् ।
उ295 · Uṇ 9.3.15
रास्नासास्नास्थूणावीणाः ॥ उ२९५ ॥
rāsnāsāsnāsthūṇāvīṇāḥ
Siddhānta-kaumudī
रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।
Tattvabodhinī
NSP p. 548
—रास्ना—। रस आस्वादने उपधा-दीर्घः । ‘रास्ना तु स्याद्बुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम्’ इति मेदिनी । षस स्वप्ने उपधादीर्घः । ‘सास्ना तु गलकम्बलः’ इत्य-मरः । ‘सास्ना गोगलकम्बलः’ इति पाठान्तरम् । ष्टौ गतिनिवृत्तावित्यस्य ऊत्वं प्रत्ययस्य णत्वं च । ‘अथ स्थूणा स्यात्सून्यां स्तम्भे गृहस्य च’ इति मेदिनी । सूर्मां लोहप्रतिमा । वी गत्यादिषु गुणाभावो णत्वं च । ‘वीणा विद्युति वल्लव्याम्’ इति मेदिनी
उ296 · Uṇ 9.3.16
गादाभ्यामिष्णुच् ॥ उ२९६ ॥
gādābhyāmiṣṇuc
Siddhānta-kaumudī
गेष्णुर्गायनः । देष्णुर्दाता ।
Tattvabodhinī
NSP p. 548
—गादाभ्याम्—। गै शब्दे, डुदाञ् दाने । ‘गेष्णुर्नटे गायके च देष्णुर्दातरिः दुर्दमे’ इति विश्वः
उ297 · Uṇ 9.3.17
कृत्यशूभ्यां क्स्नः ॥ उ२९७ ॥
kṛtyaśūbhyāṃ ksnaḥ
Siddhānta-kaumudī
कृत्स्नम् । अक्ष्णमखण्डम् ।
Tattvabodhinī
NSP p. 548
—कृत्यशू—। कृती वेष्टने, अशू व्याप्तौ । ‘कृत्स्नं सर्वाम्बुकुक्षिषु’ इति मेदिनी ॥—तिजेः—। तिज निशाने अस्मात्क्सं-धातोर्दीर्घश्च । ‘तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीवं यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु’ इति मेदिनी ॥—यजि—। यज देवपूजादौ, मन ज्ञाने, शुन्ध शुद्धौ, दसु उपक्षये, जनी प्रादुर्भावे । ‘दस्युश्चैारे रिपौ पुंसि’ इति मेदिनी । ‘अथ जन्युः स्यात्पुंसि प्राण्यग्निधातृषु’ इति च ॥—भुजि—। भुज पालनादौ, मृद् प्राणत्यागे, आभ्यां यथासंख्यं युक्त्यु-कौ स्तः । ‘मृत्युर्ना मरणे यमे’ इति मेदिनी
उ298 · Uṇ 9.3.18
तिजेर्दीर्घश्च ॥ उ२९८ ॥
tijerdīrghaśca
Siddhānta-kaumudī
तीक्ष्णम् ।
उ299 · Uṇ 9.3.19
श्लिषेरच्चोपधायाः ॥ उ२९९ ॥
śliṣeraccopadhāyāḥ
Siddhānta-kaumudī
श्लक्ष्णम् ।
उ300 · Uṇ 9.3.20
यजिमनिशुन्धिदसिजनिभ्यो युच् ॥ उ३०० ॥
yajimaniśundhidasijanibhyo yuc
Siddhānta-kaumudī
यज्युरध्वर्युः । मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।
उ301 · Uṇ 9.3.21
भुजिमृङ्भ्याम् युक्त्युकौ ॥ उ३०१ ॥
bhujimṛṅbhyām yuktyukau
Siddhānta-kaumudī
भुज्युर्भाजनम् । मृत्युः ।
उ302 · Uṇ 9.3.22
सर्तेरयुः ॥ उ३०२ ॥
sarterayuḥ
Siddhānta-kaumudī
सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।
Tattvabodhinī
NSP p. 548
—सर्तेः—। सृ गतौ ॥—पानी—। पा रक्षणे, णीञ् प्रापणे, विष्ल-व्याप्तौ । ‘नीपः कदम्बवन्धूकनीलाशोकद्वमेऽपि च’ इति मेदिनी
उ303 · Uṇ 9.3.23
पानीविषिभ्यः पः ॥ उ३०३ ॥
pānīviṣibhyaḥ paḥ
Siddhānta-kaumudī
पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।
उ304 · Uṇ 9.3.24
च्युवः किच्च ॥ उ३०४ ॥
cyuvaḥ kicca
Siddhānta-kaumudī
च्युपो वक्त्रम् ।
Tattvabodhinī
NSP p. 548
—च्युवः—। च्युङ् गतौ । धातूनामनेकार्थलादिह भाषणे । च्यवन्ते भाषन्तेऽनेनेति विग्रहः । दशपाद्यां तु ‘चुपः किञ्च’ इति पठ्यते । चुप मन्दायां गतौ । चोपतीति च्युपः मन्दगमनकर्ता ॥—स्तुवः—। पुञ् स्तुतौ । अस्मात्पः स्याद्धातोर्दीर्घश्च ॥—सुश्रू—। पुञ् अभिषवे, शु हिंसा-याम् । आभ्यां पः स्यात्स च निद्रवति । नित्वं तु स्वरार्थम् । ‘सूपो व्यञ्जनसूदयोः’ इति मेदिनी ॥—शूर्पमिति—। वाहुलकादुत्वं रपरत्वं ‘हलि च’ इति दीर्घः । ‘प्रस्फोटनं शूर्पमली’ इत्यमरः ॥—कुयु—। कु शब्दे, यु मिश्रणे । आभ्यां पः स च मिद्धातोर्दीर्घत्वं च ॥—खण्डशिल्प—। खतु अवदारणे, शील समाधौ, वाधृ लोडने, रु शब्दे, पृ पालनादौ । ‘खण्पः क्रोधे बलात्कृतौ’ इति विश्वः । ‘शण्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहानौ’ इति मेदिनी ॥ विश्वोक्तिमाह—वाष्प इति—। ‘वाष्पमूष्मणि चाशुणि’ इति कोशान्तरमभिप्रेत्याह—वाष्पं चेति—। ‘तल्पं मदे कलत्रे च शयनीये च न द्वयोः’ इति मेदिनी । अमरोक्तिमाह—तल्पं शय्येति
उ305 · Uṇ 9.3.25
स्तुवो दीर्घश्च ॥ उ३०५ ॥
stuvo dīrghaśca
Siddhānta-kaumudī
स्तूपः समुच्छ्रायः ।
उ306 · Uṇ 9.3.26
सुशॄभ्यां निच्च ॥ उ३०६ ॥
suśṝbhyāṃ nicca
Siddhānta-kaumudī
चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।
उ307 · Uṇ 9.3.27
कुयुभ्यां च ॥ उ३०७ ॥
kuyubhyāṃ ca
Siddhānta-kaumudī
कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।
उ308 · Uṇ 9.3.28
खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः ॥ उ३०८ ॥
khaṣpaśilpaśaṣpabāṣparūpaparpatalpāḥ
Siddhānta-kaumudī
सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।
उ309 · Uṇ 9.3.29
स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् ॥ उ३०९ ॥
stanihruṣipupigadimadibhyo ṇeritnuc
Siddhānta-kaumudī
’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।
Tattvabodhinī
NSP p. 548–549
—स्तनिहृषि—। स्तनगदी देवशब्दे चुरादिण्यन्तौ, हृष-तुष्टौ, पुष्प पुष्टौ, मदी हर्षग्लेपनयोः, घटादिः । एभ्यो ण्यन्तेभ्यः इत्युच् स्यात् । ‘स्तनयित्युः पुमान्वारिधरेऽपि स्तनि-तेऽपि च’ इति मेदिनी । स्तनयित्युः पयोवाहे तद्ध्वनौ मृगरोगयोः’ इति विश्वः । ‘हर्षयित्युः सुते हेन्नि पोषयित्युः पिके द्विजे’ इति च । ‘गदयित्युः पुमान्कामे जल्पाके कार्मुकेऽपि च’ इति विश्वमेदिन्यौ ॥ ‘मदयित्युः कामदेवे पुमान्मये नपुंसकम्’ इति मेदिनी
उ310 · Uṇ 9.3.30
कृहनिभ्यां क्त्नुः ॥ उ३१० ॥
kṛhanibhyāṃ ktnuḥ
Siddhānta-kaumudī
कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।
Tattvabodhinī
NSP p. 549
—कृहनि—इकृञ् करणे, हन हिंसागत्योः ॥—कृत्वरिति । कर्तेत्यर्थः । कित्वान् गुणः ॥—हत्वरिति । ‘अनुदात्तोपदेश—’ इत्यादिनानुनासिकलोपः । एवमुत्तरत्र । गमेः क्लुप्रत्यये जिगनुरित्यपि बोध्यः ॥—शस्त्रं चेति । चाद्धन्ता । दशपादीवृत्तौ तु क्लुरिति तकाररहितं पठित्वा कृष्णः कर्ता । हनुर्वकैकदेशः । वाहुलकान् लोपः । गमेस्तु जिगत्नुरित्युदाहृतं तत्सर्वं प्रामादिकम् । लक्ष्यविसंवादात् । तथा च श्रूयते । ‘सुरूपकृन्मूतये’ ‘ज्येष्ठराजं भरे कृतुं’ ‘अयं कृन्नुरग्रभीतः’ ‘मानो वधाय हन्नवे’ ‘मृगं न भीममुपहन्नुमम्’ ‘शो नः सनुत्य उत वा जिगन्नु’ इत्यादि । अत एव हन्तिधातुं विवृण्वता माधवेन उपहन्नुरित्युदाहृत्य क्लोः कित्वादनुनासिकलोप इत्युक्तम् । यत्तु तेनैव ‘सुरूपकृन्मू’ इति मन्त्रं विवृण्वता तकारोपजनश्छान्दस इत्युक्तं तद्दशपादीवृत्तिमनुसृत्य ननु वस्तुस्थितिमनुसृत्येति सहदयैराकलनीयमित्याहुः
उ311 · Uṇ 9.3.31
गमेः सन्वच्च ॥ उ३११ ॥
gameḥ sanvacca
Siddhānta-kaumudī
जिगत्नुः ।
उ312 · Uṇ 9.3.32
दाभाभ्यां नुः ॥ उ३१२ ॥
dābhābhyāṃ nuḥ
Siddhānta-kaumudī
दानुर्द्ता । भानुः ।
Tattvabodhinī
NSP p. 549
—दाभाभ्याम्—इदान् दाने, भा दीप्तौ । ‘दामुर्दातरि विक्रान्ते’ इति मेदिनी । ‘भानू रदिमदिवाकरौ’ इत्यमरः ॥—वचेः—। वच परिभाषणे । वमुर्वाचालः ॥—घेटः—। घेट् पाने अस्मान्नुः स्यादिकारब्धान्ता-देशः । ‘घेनुः स्यान्नवसूतिका’ इत्यमरः ॥—सुवः—। पूड् प्राणिप्रसवे । अस्मान्नुः स्यात्स च कित् ॥ विश्वोक्तिमाह—सूनुः पुत्रे इति—॥—जहातेः—। ओहाक् त्यागे । ‘जहुः स्यात्पुंसि राजर्षिमेदे च मधुसूदने’ इति मेदिनी
उ313 · Uṇ 9.3.33
वचेर्गश्च ॥ उ३१३ ॥
vacergaśca
Siddhānta-kaumudī
वग्नुः ।
उ314 · Uṇ 9.3.34
धेट इच्च ॥ उ३१४ ॥
dheṭa icca
Siddhānta-kaumudī
धयति सुतानिति धेनुः ।
उ315 · Uṇ 9.3.35
सुवः कित् ॥ उ३१५ ॥
suvaḥ kit
Siddhānta-kaumudī
सूनुः पुत्रेऽनुजे रवौ ।
उ316 · Uṇ 9.3.36
जहातेर्द्वेऽन्तलोपश्च ॥ उ३१६ ॥
jahāterdve'ntalopaśca
Siddhānta-kaumudī
जह्नुः ।
उ317 · Uṇ 9.3.37
स्थो णुः ॥ उ३१७ ॥
stho ṇuḥ
Siddhānta-kaumudī
स्थाणुः कीले स्थिरे हरे ।
Tattvabodhinī
NSP p. 549
—स्थो णुः—। ष्ठा गतिनिवृत्तौ । अस्माण्णुः स्यात् । विश्वोक्तिमाह—स्थाणुरिति । ‘स्थाणुः कीले हरे पुमान् । अस्त्रीध्रुवे’ इति मेदिनी
उ318 · Uṇ 9.3.38
अजिवृरीभ्यो निच्च ॥ उ३१८ ॥
ajivṛrībhyo nicca
Siddhānta-kaumudī
अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।
Tattvabodhinī
NSP p. 549
—अजिवृ—। अज गतौ, वृङ् संभक्तौ, री गतिरेषणयोः, एभ्यो णुर्नित्स्यात् । ‘वेणुर्नृपान्तरे वंशे’ इति विश्वः । ‘रेणुः स्त्रीपुंसयोर्घूलौ पुंलिङ्गः पर्पटे पुनः’ इति मेदिनी
उ319 · Uṇ 9.3.39
विषेः किच्च ॥ उ३१९ ॥
viṣeḥ kicca
Siddhānta-kaumudī
विष्णुः ।
Tattvabodhinī
NSP p. 549
—विषेः—। विष्लृ व्याप्तौ । अस्माण्णुः स्यात्स च किञ्चान्नित् । नित्वा-दाद्युदात्तत्वम् । विष्णुरिद्धा । ‘विष्णुर्नारायणः कृष्णः’ इत्यमरः ॥—कृदा—। इकृञ् करणे, इदान् दाने, इधान् धारणपो-षणयोः, रा दाने, अर्च पूजायाम्, कल गतौ । ‘कर्कः कर्के तले वहौ शुक्लाश्वे दर्पणे घटे’ इति विश्वमेदिन्यौ । ‘राका नद्य-न्तरे कच्छ्वां नवजातरजःस्त्रियाम् । संपूर्णेन्दुतिथौ’ इति मेदिनी । ‘राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमापि च’ इति विश्वः ॥ इह दा धा रा एपां ‘केणः’ इति हस्त्रो वाहुलकात्संज्ञापूर्वकविधेरनित्यत्वाद्वा नेति बोध्यम् । ‘अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ’ इति विश्वमेदिन्यौ । ‘कल्कोऽस्त्री वृततैलादिशेषे दम्मे विभीतके । विदकिष्टयोश्च पापे च त्रिषु पापाशये पुनः’ इति मेदिनी । वाहुलकाद्रमेरपि कः । ‘रङ्गः कृपणमन्दयोः’ इति मेदिनी । कपिलकादित्वा-ल्लवं टाप् । ‘लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च’ इति विश्वमेदिन्यौ ॥—सून्नु—। सृ गतौ, वृन् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये ॥—सूक इति । ‘सूकं संशाय पविमिन्द्रतिगमम्’ इति मन्त्रस्य वेदभाष्ये तु सूकं सरणशीलं पविं वज्रं संशाय सम्यक् तीक्ष्णीकृत्येति व्याख्यातम् । ‘भूकं छिद्रे च काले च’ इति मेदिनी । ‘मुष्को मोक्षकवृक्षे स्यात्सं-घाते वृषणेऽपि च’ इति स एव । ‘शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि अन्धिपर्णे नपुंसकम् । वल्कं वल्कलशल्कयोः’ इति च । ‘उल्का ज्वालाविभावसोः’ इति सुभूतिचन्द्रः
उ320 · Uṇ 9.3.40
कृदाधारार्चिकलिभ्यः कः ॥ उ३२० ॥
kṛdādhārārcikalibhyaḥ kaḥ
Siddhānta-kaumudī
बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।
उ321 · Uṇ 9.3.41
सृवृभूशुषिमुषिभ्यः कक् ॥ उ३२१ ॥
sṛvṛbhūśuṣimuṣibhyaḥ kak
Siddhānta-kaumudī
सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।
उ322 · Uṇ 9.3.42
शुकवल्कोल्काः ॥ उ३२२ ॥
śukavalkolkāḥ
Siddhānta-kaumudī
शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।
उ323 · Uṇ 9.3.43
इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ उ३२३ ॥
iṇbhīkāpāśalyatimarcibhyaḥ kan
Siddhānta-kaumudī
एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।
Tattvabodhinī
NSP p. 549
—इण्भी—। इण् गतौ, जिभी भये, कै शब्दे, पा पाने, शल गतौ, अत सातत्यगमने । ‘एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु’ इति मेदिनी । ‘काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः । काका स्यात्काकनासायां काकोली काकजङ्घयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति । काकं सुरतवन्धे स्यात्काकानामपि संहतौ’ इति मेदिनीविश्वप्रकाशौ । ‘पाकः परि-णतौ शिशौ । केशस्य जरसा शौक्लये स्थाल्यादौ पचनेऽपि च’ इति मेदिनी । ‘शल्कं तु शकले वल्के’ इति च मर्च इति सौत्रो धातुरिति वहवः । मर्च शब्दे चौरादिक इति ‘मिदचोऽन्त्यात्परः’ इति सूत्रे कैयटः । ‘मतों मर्तं मर्चयति द्वयेन’ इति मन्त्रे मर्चयति विधेयीकरोति भर्त्सयतीति वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावेन कुत्वाभावान्मर्क इति न सिद्ध्येदिति वाच्यम् । पूर्वत्रासिद्धे तदभावात् । शो तनूकरणे अस्मादपि वाहुलकात्कन् । ‘शोको द्वीपान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमान् हरीतके स्त्रियाम्’ इति मेदिनी
उ324 · Uṇ 9.3.44
नौ हः ॥ उ३२४ ॥
nau haḥ
Siddhānta-kaumudī
जहातेः कन् स्यान्नो । निहाका गोधिका ।
Tattvabodhinī
NSP p. 549–550
—नौ हः । ओहाक् त्यागे । अस्मान्निशब्दे उपपदे कन्स्यात् । ‘निहाका गोधिका समे’ इत्यमरः
उ325 · Uṇ 9.3.45
नौ सदेर्डिच्च ॥ उ३२५ ॥
nau saderḍicca
Siddhānta-kaumudī
निष्कोऽस्त्री हेम्नि तत्पले ।
Tattvabodhinī
alignment inferredNSP p. 550
—नौ सदेः—। षट् विशरणे अस्मान्निशब्दे उपपदे कन् स्यात्स च इति । इत्त्वाद्दिलोपः । ‘सदिरप्रतेः’ इति षलम् । ‘निष्कमल्ली साष्टहेमशते दीनारकर्षयोः । वक्षोलंकरणे हेममात्रे हेमपलेऽपि च’ इति मेदिनी
उ326 · Uṇ 9.3.46
स्यमेरीट् च ॥ उ३२६ ॥
syamerīṭ ca
Siddhānta-kaumudī
स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।
Tattvabodhinī
alignment inferredNSP p. 550
—स्यमेः—। स्यमु शब्दे अस्मात्कन्स्यात्तस्य च इङागमः । ‘स्यमीका नीलिकायां ल्ली स्यमीको नाकुवृक्षयोः’ इति मेदिनी ॥—अजि—। अज गतिक्षेपणयोः, यु मिश्रणे, धून् कम्पने, णीञ् प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्च । तत्सामर्थ्याद्गुणाभावः । अजेर्वीभावः ॥—ह्रियः—। ही लज्जायामस्मात्कन्धातोर्दीर्घत्वं च तत्सामर्थ्याद्गुणाभावः ॥—शकेः—। शक्त्या शक्तौ । ‘शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः’ इत्यमरः । ‘शकुनस्तु पुमान्पक्षिमात्रप्रश्नविशेषयोः । शुभाशंसिनिमित्ते च शकुनं स्यान्नपुंसकम्’ इति मेदिनी । ‘शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः’ इति । ‘शकुनिः पुंसि विहगे सौवले करणान्तरे’ इति च ॥—भुवः—। भू सत्तायाम् । अस्मात् शिच् स्यात् । ‘शोऽन्तः’ ‘कृदिकारात्’ इति क्षीष् । भवन्ती लटः संज्ञा । तथा च ‘अस्तिर्भवन्तीपरः प्रयोक्तव्यः’ इति भाष्यम् । बाहुलकात्कमेरपि प्रत्ययादिलोपे धातोः कुशब्दादेशः । कुन्तिः । ‘इतो मनुष्यजातेः’ इति क्षीष् । ‘कुन्ती पाण्डुप्रियायां च शल्लक्यां गुग्गुल्लद्वमे’ इति मेदिनी ॥— अवन्तिरित्यादि । अव रक्षणे, वद वक्तायां वाचि, आभ्यामपि शिच् ॥—वदन्तिरिति । ‘कृदिकारात्’ इति वा क्षीष्
उ327 · Uṇ 9.3.47
अजियुधुनीभ्यो दीर्घश्च ॥ उ३२७ ॥
ajiyudhunībhyo dīrghaśca
Siddhānta-kaumudī
वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।
उ328 · Uṇ 9.3.48
ह्रियो रश्च लो वा ॥ उ३२८ ॥
hriyo raśca lo vā
Siddhānta-kaumudī
ह्रीका ह्लीका त्रपा मता ।
उ329 · Uṇ 9.3.49
शकेरुनोन्तोन्त्युनयः ॥ उ३२९ ॥
śakerunontontyunayaḥ
Siddhānta-kaumudī
उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।
उ330 · Uṇ 9.3.50
भुवो झिच् ॥ उ३३० ॥
bhuvo jhic
Siddhānta-kaumudī
भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।
उ331 · Uṇ 9.3.51
कन्युच्क्षिपेश्च ॥ उ३३१ ॥
kanyuckṣipeśca
Siddhānta-kaumudī
चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।
Tattvabodhinī
NSP p. 550
—कन्युच्—। क्षिप प्रेरणे, भू सत्तायाम् । ‘क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके’ इति मेदिनी । ‘भुवन्युः स्यात् ॥—क्षिपणुरिति । क्षिपवाद्गुणाभावः ॥—कृच्चु—। कृ विक्षेपे, वृन् वरणे, दृ विदारणे ण्यन्तः । ‘करुणस्तु रसे वृक्षे कृपायां करुणा मता’ इति विश्वमेदिन्यौ । ‘वरुणस्तरुभेदेऽप्यु प्रतीचीपतिसूर्ययोः’ इति विश्वः । ‘दारुणं भीषणं भीष्मम्’ इत्यमरः । ‘दारुणो रसभेदे’ ना त्रिषु तु स्याद्भ्यावहे’ इति मेदिनी
उ332 · Uṇ 9.3.52
अनुङ्नदेश्च ॥ उ३३२ ॥
anuṅnadeśca
Siddhānta-kaumudī
चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।
उ333 · Uṇ 9.3.53
कॄवृदारिभ्य उनन् ॥ उ३३३ ॥
kṝvṛdāribhya unan
Siddhānta-kaumudī
करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।
उ334 · Uṇ 9.3.54
त्रो रश्च लो वा ॥ उ३३४ ॥
tro raśca lo vā
Siddhānta-kaumudī
तरुणस्तलुनो युवा ।
Tattvabodhinī
NSP p. 550
—त्रो रश्च—। तृ प्लवनतरणयोरस्मादुनन्स्यात् । ‘तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु’ इति मेदिनी ॥ गौरादित्वान् क्षीष् । ‘तरुणी तल्लनीति च’ इति द्विरुपेषु विश्वः ॥—शुधि—। शुध वसुक्षायाम्, पिश अवयवे । अयं दीपनायामपि । मिथिः सौत्रो धातुः । ‘पिशुनो दुर्जनः खलः’ इत्यमरः । ‘पिशुनं कुङ्कुमे स्मृतम् । कपिवक्त्रे च काके ना सूचककूरयोल्लिषु । पृक्कायां पिशुना ल्ली स्यात्’ इति मेदिनी । ‘मिथुनं न द्वयो राशिभेदे ल्लीपुंसयुग्मके’ इति च ॥—फलेः—। फल निष्पत्तौ, अस्मादनन्गुगागमश्च धातोः । ‘फल्गुनस्तु गुडाकेशे नदीजार्जनभूरुहे । तपस्यसंज्ञमासे तत्पूर्णिमायां च फाल्गुनी’ इति मेदिनी ॥—फाल्गुन इति । ‘फल्गुनः वेश्म कश्मलं विश्वमश्ववत्’ इति मध्यतालव्येषु विश्वः । लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः ॥—अर्जेः—। ऋज गतिचिन्त्यम् । ‘अर्जनः ककुमे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्भवले पुनरन्यवत् । नपुंसकं तृणे नेत्रे रोगे वाच्यर्जनी गवि । उपायां वाहुदानयां कुट्टन्यामपि च क्वचित्’ इति विश्वमेदिन्यौ
उ335 · Uṇ 9.3.55
क्षुधिपिशिमिथिभ्यः कित् ॥ उ३३५ ॥
kṣudhipiśimithibhyaḥ kit
Siddhānta-kaumudī
क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।
उ336 · Uṇ 9.3.56
फलेर्गुक् च ॥ उ३३६ ॥
phalerguk ca
Siddhānta-kaumudī
फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।
उ337 · Uṇ 9.3.57
अशेर्लशश्च ॥ उ३३७ ॥
aśerlaśaśca
Siddhānta-kaumudī
लशुनम् ।
उ338 · Uṇ 9.3.58
अर्जेर्णिलुक् च ॥ उ३३८ ॥
arjerṇiluk ca
Siddhānta-kaumudī
अर्जुनः ।
उ339 · Uṇ 9.3.59
तृणाख्यायां चित् ॥ उ३३९ ॥
tṛṇākhyāyāṃ cit
Siddhānta-kaumudī
चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।
उ340 · Uṇ 9.3.60
अर्तेश्च ॥ उ३४० ॥
arteśca
Siddhānta-kaumudī
अरुणः ।
Tattvabodhinī
NSP p. 550–551
—अर्तेश्च । ऋ गतावस्मादुनन्स्यात्स च चित् । ‘अरुणोऽव्यक्तरागेऽर्कं सन्ध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणातिविपाश्यामामल्लिष्ठात्रिष्ठतासु च’ इति मेदिनी ॥—अजि—। अज गतिक्षेपणयोः, यम उपरमे, शीङ् स्वमे, एभ्य उनन् स्यात्स च इति । अजेर्वीभावः । वीयते गम्यतेऽत्रेति वयुनम् । ‘विश्वानि देव वयुनानि विद्वान्’ इति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः । ‘यमुना शमनस्वसा’ इत्यमरः ॥ —धृ तृ—॥ वृ वरणे, तृ प्लवनतरणयोः, वद व्यक्ताव्यां वाचि, हन हिंसागत्योः, कमु कान्तौ, कष हिंसायाम् ॥—वर्सः । तस्मै इति । ‘तितुत्र’ इति नेद् । पत्वं तु न भवति वाहुलकेन पत्वे कर्तव्ये प्रत्ययसंज्ञाया अग्रहतेः । कक्षशब्दे तु पत्वं भवत्येव । एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम् । कथं तर्हि सर्वैरप्युणादिवृत्तिकारैरिह षलमुदाहृतमिति चेत् । अत्राहुः । अस्तु भाष्यप्रामाण्यात् वसं तस्मिति दन्त्यपाठोऽपि साधुः । पक्षे तु षलमस्तु । वाहुलकलभ्यपलाभावस्य पाक्षिकत्वेऽपि वाधकाभावात् वृषितृषिभ्यां घञि कृते ण्यन्तादेरचि ‘धञ्यं कविधानम्’ इति ण्यन्तात्कप्रत्यये वा कृते वर्ष-तर्पशब्दयोर्दुर्वारलात्, अज्विधौ भयादीनामुपसंख्यानान्नपुंसके क्तादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाहृतलाच्च । तस्मादिह द्विरूपता फलितेति । ‘वर्षोऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु । प्रावृट्काले स्त्रियां भूमि’ इति मेदिनी । ‘तर्षो लिप्सोदन्ययोः’ इति च । ‘पुत्रादौ तर्णके वर्षे वत्सः क्लीवं तु वक्षसि’ इति त्रिकाण्डशेषः । सद्यो जातस्तर्णकः । ‘हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वकर्षपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरङ्गमप्रभेदे च’ इति मेदिनी । ‘कंसोऽस्त्री तैजसद्रव्ये कांस्ये माने सुरेतरे’ इति च । ‘कंसो दैत्यान्तरे स्मृतः । कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः’ इति विश्वः । ‘कक्षा स्यादन्तरीपस्य पश्चादपि च पल्लवे । स्पर्धायां ना तु दोर्मूले कच्छवीरुतृणेषु च’ इति मेदिनी ॥—सुषेः—। सुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च । ‘स्पर्धा जटी गर्दभाण्डद्वीपभित्कुजराशने’ इति मेदिनी । स्पर्धा द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः’ इति विश्वः ॥—मनेः । मन ज्ञाने । ‘मांसं स्यादामिषे क्लीवे कक्कोलीजटयोः स्त्रियाम्’ इति मेदिनी
उ341 · Uṇ 9.3.61
अजियमिशीङ्भ्यश्च ॥ उ३४१ ॥
ajiyamiśīṅbhyaśca
Siddhānta-kaumudī
वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।
उ342 · Uṇ 9.3.62
वॄतॄवदिहनिकमिकशिभ्यः सः ॥ उ३४२ ॥
vṝtṝvadihanikamikaśibhyaḥ saḥ
Siddhānta-kaumudī
वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।
उ343 · Uṇ 9.3.63
प्लुषेरच्चोपधायाः ॥ उ३४३ ॥
pluṣeraccopadhāyāḥ
Siddhānta-kaumudī
प्लक्षः ।
उ344 · Uṇ 9.3.64
मनेर्दीर्घश्च ॥ उ३४४ ॥
manerdīrghaśca
Siddhānta-kaumudī
मांसम् ।
उ345 · Uṇ 9.3.65
अशेर्देवने ॥ उ३४५ ॥
aśerdevane
Siddhānta-kaumudī
अक्षः ।
उ346 · Uṇ 9.3.66
स्नुव्रश्चिकृत्यृषिभ्यः कित् ॥ उ३४६ ॥
snuvraścikṛtyṛṣibhyaḥ kit
Siddhānta-kaumudī
स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।
उ347 · Uṇ 9.3.67
ऋषेर्जातौ ॥ उ३४७ ॥
ṛṣerjātau
Siddhānta-kaumudī
ऋक्षोऽद्रिभेदे भल्लूके इति च ।
उ348 · Uṇ 9.3.68
उन्दिगुथिकुषिभ्यश्च ॥ उ३४८ ॥
undiguthikuṣibhyaśca
Siddhānta-kaumudī
उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।
उ349 · Uṇ 9.3.69
गृधिपण्योर्दकौ च ॥ उ३४९ ॥
gṛdhipaṇyordakau ca
Siddhānta-kaumudī
गुत्सः कामदेवः । पक्षः ।
उ350 · Uṇ 9.3.70
अशेः सरः ॥ उ३५० ॥
aśeḥ saraḥ
Siddhānta-kaumudī
अक्षरम् ।
Tattvabodhinī
NSP p. 551
—अशेः । अश्लाव्यासौ, अस्मादेवने वाच्ये सः स्यात् । ‘व्रश्चभ्रस्ज’ इत्यादिना षलादिकार्यम् । अथाक्षमिन्द्रिये । ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्वमे’ इत्यमरः । ‘अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्पे विभीतकतरावपि । चक्रे कर्षे पुमान् क्लीवं तुत्थसौवर्चले-न्द्रिये’ इति मेदिनी ॥—स्नुव्रश्चि—। स्नु प्रस्रवणे, ओव्रश्चू छेदने, कृती छेदने, ऋषौ गतौ, एभ्यः सः कित्स्यात् । स्नुषा पुत्रवधूः ॥—वृक्ष इति । यस्य किलाद् ‘प्रहिज्या’—इति संप्रसारणम् । ‘ऋक्षः पर्वतमेदे स्याद्भक्षके शोणके पुमान् । कृतवेधनेऽन्यलिङ्गं नक्षत्रे पुंनपुंसकम्’ इति मेदिनी ॥—ऋषेजांतौ । पूर्वसूत्रेणैव सिद्धे ऋषेजांतावेवेति नियमार्थं सूत्रम् तेनान्येभ्यस्त्रिभ्यः केवलयौगिकत्वेऽपि सप्रत्ययो भवति ॥—उन्दिगुथि—। उन्दी क्लेदने, गुथ रोषे, कुष निष्कर्षे, एभ्यः सः कित्स्यात् । ‘अनिदिताम्’ इति नलोपः । ‘उत्सः प्रस्रवणं वारि’ इत्यमरः । ‘गुत्सः स्यात्स्तवके स्तम्बे हारभि-द्वन्थिपर्णयोः’ इति मेदिनी । ‘गुच्छश्च गुत्सो गुच्छो गुल्लच्छवत्’ इति द्विरूपकोशात् । ‘स्याद् गुच्छः स्तवके स्तम्बे हार-भेदकलापयोः’ इति च वर्गद्वितीयान्ते मेदिनीकोशाच्च ॥—गुथि—। गुथु अभिकाङ्क्षायाम्, पण व्यवहारे स्तुतौ च । ननु गृधेश्वर्त्वेन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत् । मैवम् । चत्वर्वस्यासिद्धत्वेन ‘एकाचो वशः’—इति भष्भाव-प्रसङ्गात् । न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्क्यम् । ‘चयो द्वितीया’ इति पक्षे तकारस्य थकारा-पत्तेः । ‘पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतोवृन्दे वले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च राज-कुञ्जरपार्श्वयोः’ इति विश्वमेदिन्यौ ॥—अशेः । अश्लाव्यासौ ‘व्रश्च’—इत्यादिना षलादिकार्यम् । ‘अक्षरं स्यादपवर्गे परमव्रह्म-वर्णयोः’ इति हेमचन्द्रः । ‘अशेः सरन्’ इत्युज्ज्वलदत्तादिपाठस्तु प्रामादिकः नित्स्वरापत्तेः । इष्यते तु प्रत्ययस्वरेणाक्ष-रशब्दस्य मध्योदात्तलम् । ‘ऋचो अक्षरे परमे व्योमन्’ इत्यादिऋक्षमन्त्रेषु ‘त्रीणि च शतानि षष्टिश्चाक्षराणी’ति यजुषि च तथैव पाठात् । अत एवाश्रोतेर्वा सरोऽक्षरमिति द्वितीयाहिकान्ते भाष्यकृतोक्तम्
उ351 · Uṇ 9.3.71
वसेश्च ॥ उ३५१ ॥
vaseśca
Siddhānta-kaumudī
वत्सरः ।
Tattvabodhinī
NSP p. 551
—वसेश्च्च । वस निवासे, अस्मा-दपि सरः स्यात् ‘सः स्यार्धधातुके’ इति तत्त्वम्
उ352 · Uṇ 9.3.72
सपूर्वाच्चित् ॥ उ३५२ ॥
sapūrvāccit
Siddhānta-kaumudī
संवत्सरः ।
Tattvabodhinī
NSP p. 551–552
—सपूर्वाच्चित् । पूर्वसहिताद्वसतेः सरः स्यात्स च चित् । चित्त्वा-दन्तोदात्तः । ‘इदुवत्सराय परिवत्सराय’ । संपूर्वादिति पाठान्तरम् । तच्च लक्ष्यविरोधादुपेक्ष्यम् ॥—कृथू—। डुकृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरः कित्स्यात् ॥ कृसर इत्यादि हारावलीस्थम् । ‘धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे’ इति मेदिनी । ‘मत्सरा मक्षिकायां स्यान्मात्सर्यकोधयोः पुमान् । असह्यपरसंपत्तौ कृपणे चाभिधेयवत्’ इति च । मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु’ इत्यमरः । ‘अथ मत्सरः । असह्यपरसंपत्तौ मात्सर्ये कृपणे कुधि’ इति विश्वः । वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते ‘इन्दुमिन्द्राय मत्सरम्’ । ‘तं सिन्धवो मत्सरमिन्द्रियाणाम्’ इत्यादि । समत्सरं हर्षहेतुमिति तद्भाष्यम् ॥—पतेः—। पत्ल गतावस्मात्सरः स्याद्रेफस्य लब्ध ॥—तन्यूषि—। तनु विस्तारे, ऋषी गतौ । अमरोक्तिमाह—तसर इति । कित्वात् ‘अनुदात्तोपदेश—’ इत्यादिनानुनासिकलोपः ॥—ऋक्षरः ऋत्वि- गिति । ‘ऋक्षरं वारिधारायामृक्षरस्त्वत्विजि स्मृतः’ इति मेदिनी । ‘अनृक्षरा ऋजवः सन्तु पथाः’ इति मञ्चस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् ॥—पीयुक्णिभ्याम्—अणरण इति दण्डके क्वणिः पत्र्यते सच शब्दार्थकः आभ्यां कालन् स्यात् यथाकर्म ह्रस्वः संप्रसारणं च । ‘राजादनः प्रियालः स्यात्’ इत्यमरः । ‘प्रियालः स्यात्प्रियालवत्’ इति द्विरूपकोशः । वाहुलकाङ्गजेरपि कालन् । कित्वा चलोपः । न्यङ्कादिलात्कुलम् । भगालं नरमस्तकम् । मलये इनिः । ‘चण्डीकान्तो भगाली च लेलिहानो वृषध्वजे’ इति राजशेखरः
उ353 · Uṇ 9.3.73
कृधूमधिभ्यः कित् ॥ उ३५३ ॥
kṛdhūmadhibhyaḥ kit
Siddhānta-kaumudī
बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।
उ354 · Uṇ 9.3.74
पते रश्च लः ॥ उ३५४ ॥
pate raśca laḥ
Siddhānta-kaumudī
पत्सलः पन्थाः ।
उ355 · Uṇ 9.3.75
तन्यृषिभ्यां क्सरन् ॥ उ३५५ ॥
tanyṛṣibhyāṃ ksaran
Siddhānta-kaumudī
तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।
उ356 · Uṇ 9.3.76
पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च ॥ उ३५६ ॥
pīyukkaṇibhyāṃ kālan hrasvaḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।
उ357 · Uṇ 9.3.77
कटिकुषिभ्यां ॥ उ३५७ ॥
kaṭikuṣibhyāṃ
Siddhānta-kaumudī
कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।
Tattvabodhinī
NSP p. 552
—कटिकुषि—कठ कृच्छ्रजीवने, कुष निष्कर्षे । ‘कुषाकुः कपिवह्वयके ना परोत्तापिनि त्रिषु’ इति मेदिनी । उज्ज्वलदत्तस्तु कटिकपिभ्यामिति पठित्वा कषशिषेति दण्डके धातुमुपन्यस्य कषाकुरित्युदाजहार तत्कोशविरुद्धम् । मेदिनीकोशे ह्युकारप्रक्रमे पाठात्
उ358 · Uṇ 9.3.78
सर्तेर्दुक् च ॥ उ३५८ ॥
sarterduk ca
Siddhānta-kaumudī
सृदाकुर्वातसरितोः ।
Tattvabodhinī
alignment inferredNSP p. 552
—सर्तेः—। सु गतावस्मात्काकुः स्याद्धातोर्दुगागमथ । ‘सुदाकुर्नानिले चके ज्वलने प्रतिसूर्यके’ इति मेदिनी ॥—वृत्तेः—। वृत्तु वर्तने ‘वार्ताकुः प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते’ इति द्विरूपे विश्वः । ‘वार्ताकी हिङ्गली सिंही भण्टाकी दुष्प्रधर्षणी’ इत्यमरः । ‘वार्ताकं पित्तलं किंचिदङ्गारपरिपाचितम्’ इति वैद्यशास्त्रम् ॥—पर्देः—। पर्दं कुरित्तते शब्दे । अस्मात्काकुः स्यात्स च नित् । धातोः रेफस्य संप्रसारणमकारलोपश्च । विश्वकोशस्थमाह—पृदाकुरिति । ‘पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमान्’ इति मेदिनी ॥—स्यु—। सु गतौ, यु मिश्रणे, वच परिभाषणे । ‘सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि’ इति मेदिनी । ‘सरण्युरस्य सूजुरश्वः’ इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम् । ‘यवागूरुणिका श्राणा विलेपी तरला च सा’ इत्यमरः । ‘वचकुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्’ इति मेदिनी ॥—आनकः—। शीङ् स्वप्ने, जिभी भये, विभेलस्मादिति भयानको भयंकरः । ‘भयानकः स्मृतो व्याघ्रे रसे राहौ भयंकरे’ इति मेदिनी ॥—आणको—। ल्लू छेदने, धूल् कम्पने, शिधि आघ्राणे, डुधान् धारणपोषणयोः । हारावलीस्थमाह—शिङ्घाणमिति । ‘शिङ्घाणं काचपात्रे स्याल्लोहनासिकयोर्मले’ इति विश्वः । शिङ्घाणः फेनडिण्डीरे नकरेतश्च पिच्छिले’ इति विक्रमादित्यकोशः
उ359 · Uṇ 9.3.79
वृतेर्वृद्धिश्च ॥ उ३५९ ॥
vṛtervṛddhiśca
Siddhānta-kaumudī
वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।
उ360 · Uṇ 9.3.80
पर्देर्नित्संप्रसारणमल्लोपश्च ॥ उ३६० ॥
pardernitsaṃprasāraṇamallopaśca
Siddhānta-kaumudī
पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।
उ361 · Uṇ 9.3.81
सृयुवचिभ्योऽन्युजागूजक्नुचः ॥ उ३६१ ॥
sṛyuvacibhyo'nyujāgūjaknucaḥ
Siddhānta-kaumudī
अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।
उ362 · Uṇ 9.3.82
आनकः शीङ्भियः ॥ उ३६२ ॥
ānakaḥ śīṅbhiyaḥ
Siddhānta-kaumudī
शयानकोऽजगरः । भयानकः ।
उ363 · Uṇ 9.3.83
आणको लुधुशिघिधाञ्भ्यः ॥ उ३६३ ॥
āṇako ludhuśighidhāñbhyaḥ
Siddhānta-kaumudī
लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।
उ364 · Uṇ 9.3.84
उल्मुकदर्विहोमिनः ॥ उ३६४ ॥
ulmukadarvihominaḥ
Siddhānta-kaumudī
उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।
Tattvabodhinī
NSP p. 552
—उल्मुक—एते निपात्यन्ते । निपातनप्रकारमेवाह—उष दाहे इत्यादि । हारावलीस्थमाह—उल्मुकमिति । ‘दर्विः कम्बिः खजाका च’ इत्यमरः
उ365 · Uṇ 9.3.85
ह्रियः कुक् रश्च लो वा ॥ उ३६५ ॥
hriyaḥ kuk raśca lo vā
Siddhānta-kaumudī
ह्राकुः । ह्रीकुर्लज्जावान् ।
Tattvabodhinī
NSP p. 552
—ह्रियः—। ही लज्जायामस्मात्कुक्प्रत्ययः स्यात् । ककारो गुणनिषेधार्थः ॥—हसि—। हसे हसने, मृद् प्राणत्यागे, गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गत्यादिषु, दमु उपशमे, ल्लू छेदने, पूल् पवने, धुर्वा हिंसायाम् । ‘हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते’ इति मेदिनी ॥ अत्रायमर्थः—केशवाचकात्परो यो हस्तशब्दः स समूहवाची । तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति । मतौ भूलोकस्तत्र भवो मर्त्यः । दिगादेराकृतिगणत्वाद्यत् । ‘गर्तस्त्रिगर्तमेदे स्यादवटे च कुकुन्दरे’ इति मेदिनी ॥—एत इति । ‘एतः कर्धुर आगते । अन्तःस्वरूपे नाशे ना न स्त्रीशेषेऽन्तिके त्रिषु’ इति च । ‘दन्तोऽद्रिकटके कुञ्जे दशने चौषधौ स्त्रियाम्’ इति च मेदिनी । ‘लोतमश्रुणि चोरिते’ इति विश्वः । ‘क्तकवत् निष्ठा’ इति सूत्रे लोतो मेष इति कैयटः । ‘पोतः शिशौ वृत्तिपक्षे वोध्यः । ‘हलि च’ इति दीर्घः । ‘धूर्त तु खण्डलवणे धत्तूरे ना शठे त्रिषु’ इति मेदिनी ॥—तूस्तमिति—तुस खण्डन इत्यस्मात्तन्
उ366 · Uṇ 9.3.86
हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् ॥ उ३६६ ॥
hasimṛgriṇavā'midamilūpūdhurvibhyastan
Siddhānta-kaumudī
दशभ्यस्तन् स्यात् । तितुत्र- {SK 3163} इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।
उ367 · Uṇ 9.3.87
नञ्याप इट् च ॥ उ३६७ ॥
nañyāpa iṭ ca
Siddhānta-kaumudī
नापितः ।
Tattvabodhinī
NSP p. 552
—नञ्या—। आपू व्याप्तौ अस्मान्नञ्युपपदे तन्स्यादिडागमश्च वाहुलकान्नन्नो नलोपाभावः ॥—तनि—। तनु विस्तारे, मृद् प्राणत्यागे, आभ्यां तप्रत्ययः स्यात्स च कित् । कित्वादनुनासिकलोपः । ‘ततं वीणादिकं वाद्यम्’ इत्यमरः । ‘अंथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीवं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु समीरणे’ इति मेदिनी । ‘मृतं तु याचिते मृत्यौ क्लीवं मृत्युमति त्रिषु’ इति च
उ368 · Uṇ 9.3.88
तनिमृङ्भ्यां किच्च ॥ उ३६८ ॥
tanimṛṅbhyāṃ kicca
Siddhānta-kaumudī
ततम् । मृतम् ।
उ369 · Uṇ 9.3.89
अञ्जिघृसिभ्यः क्तः ॥ उ३६९ ॥
añjighṛsibhyaḥ ktaḥ
Siddhānta-kaumudī
अक्तम् । घृतम् । सितम् ।
Tattvabodhinī
NSP p. 552–553
—अञ्जि—। अब् व्यक्तिम्रक्षणादौ, धू क्षरणदीप्त्योः, पिब् वन्धने, एभ्यः कः स्यात् । निष्ठासंज्ञत्वे तस्य नः भवति । उणादीनामव्युत्पन्नलाद्वाहुलकाद्वा । अन्यथा ‘निष्ठा च ब्रजनात्’ इत्याद्युदात्तत्वं स्यादिति ‘क्तकवत् निष्ठा’ इति सूत्रे कैयटः । अक्तं परिच्छिन्नम् । अक्तः परिमाणवाचक इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् । ‘अक्तं व्याप्ते च संकुले’ इति विश्व इत्युच्चवलदत्तेनोक्तम् । तच्च लिपिभ्रमप्रयुक्तम् । विश्वकोशे हि ‘व्यस्तं व्याप्ते च संकुले’ इति स्थितत्वात् । मेदिन्यां वकारादिप्रक्रमे ‘व्यस्तं तु व्याकुले व्याप्ते’ इत्युक्तम् । ‘घृतमाज्ये जले क्लीवं प्रदीप्ते लभिधेयवत्’ । ‘सितमवसिते च वद्धे धवले त्रिषु शर्करायां स्त्री’ इति मेदिनी । वाहुलकात् ऋगतावित्यस्मात् क्तः । ‘ऋतमुञ्छशिले जले । सत्ये दीप्ते पूजिते स्यात्’ इति मेदिनी
उ370 · Uṇ 9.3.90
दुतनिभ्यां दीर्घश्च ॥ उ३७० ॥
dutanibhyāṃ dīrghaśca
Siddhānta-kaumudī
दूतः । तातः ।
Tattvabodhinī
NSP p. 553
—दुतनि—। दुतातौ, तनु विस्तारे, आभ्यां क्तः स्याद्धातोर्दीर्घश्च । दूतः प्रेष्यः । गौरादिलान्धीष् । दूती । कथं तर्हि ‘तेन दूति विदितं निषेदुषा’ इति रघुरिति चेत् । अत्राहुः । दूड् परितापे इत्यस्मात् किञ्चिद् दूतिरिति । ‘दूत्यां दूतिरपि स्मृता’ इति द्विरूपकोशः । ‘तातोऽनुकम्प्ये जनके’ इति विश्वमेदिन्यौ । वाहुलकात् शीङ् स्वप्ने इत्यस्मादपि क्तः । शीता लाङ्गलपद्धतिः । रामपत्नी च शीता । ‘शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च वहुवारतरौ च दृष्टः’ इति तालव्यादौ धरणिः । सीता दन्त्यादिरप्यस्ति । ‘सीता लाङ्गलपद्धतिः । वैदेहीस्वर्गगङ्गासु’ इति दन्त्यादौ मेदिनी । ‘सीतालाङ्गलरेखा स्याद्योमगङ्गा च जानकी’ इति दन्त्यादौ रभसकोशाच्च ॥—जेः—। जि जये, अस्मात् कप्रस्थयस्तस्योदात्तमूडागमः स्यादीर्घं इत्यनुवृत्त्या धातोर्दीर्घश्च स्यात् । इदं सूत्रमनार्षमिति केचित् । अत एव वृत्त्यादिग्रन्थे पृषोदरादिषु जीमूतशब्द उदाहृतः । ‘जीमूतोऽद्रौ भूतिकरे देवताङे पयोधरे’ इति मेदिनी । ‘वेणी खरागरी देवताङो जीमूतः’ इत्यमरः । ‘जीमूतः स्याद्वृत्तिकरे शक्रेऽद्रौ घोषके घने’ इति विश्वः
उ371 · Uṇ 9.3.91
जेर्मुट् चोदात्तः ॥ उ३७१ ॥
jermuṭ codāttaḥ
Siddhānta-kaumudī
जीमूतः ।
उ372 · Uṇ 9.3.92
लोष्टपलितौ ॥ उ३७२ ॥
loṣṭapalitau
Siddhānta-kaumudī
लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।
Tattvabodhinī
NSP p. 553
—लोष्ट—। ल्लश् छेवने, पल गतौ, एतौ क्तान्तौ निपात्येते । ‘लोष्टानि लेष्टवः पुंसि’ इत्यमरः । अत्र पुंसीत्युभयान्वयि । तेन पुंनपुंसकलिङ्गो लोष्टशब्दः । तथाच ‘स्थानेऽन्तरतमः’ इति भाष्यम् । लोष्टः क्षिप्तो वाहुवेगं गत्वेत्यादि । अत एव ‘लोष्टः शण्डेऽपि लोष्टः स्यात्’ इति पुंलिङ्गकाण्डे वोपालितः । ‘पलितं शैलजे तापे केशपाके च कर्दमे’ इति मेदिनी ॥—हृदया । हृश् हरणे, शैङ् गतौ । ‘हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्’ इति मेदिनी । ‘शुक्लशुभशुचिश्वेतविशदश्येतपाण्डराः’ इत्यमरः ॥—रुहेः—। रुह वीजजन्मनि प्रादुर्भावे च । अस्मादितन् । ‘रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने । पुंसि स्यान्मीनमृगयोर्मेदे रोहितकट्टमे’ इति मेदिनी । ‘लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति’ इति च
उ373 · Uṇ 9.3.93
हृश्याभ्यामितन् ॥ उ३७३ ॥
hṛśyābhyāmitan
Siddhānta-kaumudī
हरितश्येतौ वर्णभेदौ ।
उ374 · Uṇ 9.3.94
रुहे रश्च लो वा ॥ उ३७४ ॥
ruhe raśca lo vā
Siddhānta-kaumudī
रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।
उ375 · Uṇ 9.3.95
पिशेः किच्च ॥ उ३७५ ॥
piśeḥ kicca
Siddhānta-kaumudī
पिशितं मांसम् ।
Tattvabodhinī
NSP p. 553
—पिशेः—। पिश अवयवे । अयं दीपनायामपि । अस्मादिनन्स्यात्स च कित् । पिशितं मांसम् । ‘मांस्यां स्त्री’ इति मेदिनी । मांस्यां जटामांस्याम् । तथा च ‘जटा च पिशिता पेशी’ इति धन्वन्तरिः ॥—शुदक्षि—। शु श्रवणे, दक्ष वृद्धौ, स्पृह ईप्सायाम्, गृह ग्रहणे, चुरादावदन्तौ । ‘उद्यतः स्रुचे भवति श्रवाय्यः’ इति मन्त्रे श्रवाय्यो मन्त्रे श्रवणीय इति वेदभाष्यम् । ‘दक्षाय्यो यो दम आस नित्यः’ इत्यादिष्वपि यौगिकार्थं एव भाष्ये पुरस्कृतः
उ376 · Uṇ 9.3.96
श्रुदक्षिस्पृहिगृहिभ्य आय्यः ॥ उ३७६ ॥
śrudakṣispṛhigṛhibhya āyyaḥ
Siddhānta-kaumudī
श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।
Tattvabodhinī
alignment inferredNSP p. 553
—स्पृहयाय्यः ।
उ377 · Uṇ 9.3.97
दिधिषाय्यः ॥ उ३७७ ॥
didhiṣāyyaḥ
Siddhānta-kaumudī
दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।
Tattvabodhinī
NSP p. 553
—दिधिषाय्य इति । डुधान् धारणपोषणयोः । ‘अयामन्ता—’ इति णेरयादेशः । एवं गृहयाय्य इति । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः पत्वं च । दधिषाय्यो घृतमिति व्याख्यत् । दशपादीवृत्तिकारस्तु धिषु शब्दे अस्य द्वित्वं गुणभावः अत्वं चाभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्वं प्रामादिकम् । ‘मित्र इव यो दधिषाय्योऽभूत्’ इति वैदिकप्रयोगादिधिषाय्य इत्येव सूत्रं युक्तमिति प्रामाणिकाः ।
उ378 · Uṇ 9.3.98
वृञ एण्यः ॥ उ३७८ ॥
vṛña eṇyaḥ
Siddhānta-kaumudī
वरेण्यः ।
Tattvabodhinī
alignment inferredNSP p. 553
—वृञः—। वृञ्वरणे । वरेण्यः श्रेष्ठः
उ379 · Uṇ 9.3.99
स्तुवः क्सेय्यश्छन्दसि ॥ उ३७९ ॥
stuvaḥ kseyyaśchandasi
Siddhānta-kaumudī
स्तुषेय्यं पुरुवर्पसम् ।
Tattvabodhinī
NSP p. 553
—स्तुवः—। ष्टुन् स्तुतौ । स्तुषेय्यं स्तोतव्यम् । पुरुवर्षसं वहुरूपमिति वेदभाष्यम् । स्तुवः केय्य इति पठित्वा कित्वाद्बुणाभावे उवडि सति स्तुवेय्यः पुरन्दर इत्युदाहरन् उज्ज्वलदत्तस्तु उदाहृतश्रुतितद्भाष्यादिविरोधादुपेक्ष्यः । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेवं ज्यायानित्याहुः
उ380 · Uṇ 9.3.100
राजेरन्यः ॥ उ३८० ॥
rājeranyaḥ
Siddhānta-kaumudī
राजन्यो वह्निः ।
Tattvabodhinī
alignment inferredNSP p. 553
—राजेः—। राजृ दीप्तौ । क्षत्रियजातौ तु ‘राजश्वशुरात्—’ इति यत्प्रत्यये राजन्य इत्यन्तस्वरितः ॥—शृंख्योः—। शृंहिसायाम्, रम क्रीडायाम् । आभ्यामन्यः स्यात् ॥—अर्तेः—। ऋ गतौ । अस्मादन्यः स च नित् । ‘अटव्यरण्यं विपिनम्’ इत्यमरः
उ381 · Uṇ 9.3.101
शॄरम्योश्च ॥ उ३८१ ॥
śṝramyośca
Siddhānta-kaumudī
शरण्यम् । रमण्यम् ।
उ382 · Uṇ 9.3.102
अर्तेर्निच्च ॥ उ३८२ ॥
arternicca
Siddhānta-kaumudī
अरण्यम् ।
उ383 · Uṇ 9.3.103
पर्जन्यः ॥ उ३८३ ॥
parjanyaḥ
Siddhānta-kaumudī
पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।
Tattvabodhinī
NSP p. 553
—पर्जन्यः । पृषु सेचने षस्य जः । ‘पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः’ इति मेदिनी
उ384 · Uṇ 9.3.104
वदेरान्यः ॥ उ३८४ ॥
vaderānyaḥ
Siddhānta-kaumudī
वदान्यस्त्यागिवाग्मिनोः ।
Tattvabodhinī
alignment inferredNSP p. 553–554
—वदेः—। वद व्यक्तायां वाचि । अजयकाशस्थमाह—वदान्य इति ॥—अभिनक्षि—। अम गत्यादिषु, नक्ष गतौ, यज देवपूजादौ, वध हिंसायाम्, पत्ल गतौ ॥—नक्षत्रमिति । ‘नक्षाण्नपात्—’ इति सूत्रे नञः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम् । यजत्रमभिहोत्रमिति प्राच्चः । वस्तुतस्तु यजत्रो यष्टव्यदेवता । ‘सन्ते वायुर्वातेन गच्छतां संयजत्रैरङ्गानि’ इति मन्त्रे तथैव व्याख्यातत्वात् । अमरकोशस्थमाह—पतत्रं चेति ॥—गङेः—। गङ सेचने, अस्मादत्रन्स्याद्गकारस्य ककारादेशश्च । ‘कलत्रं श्रोणिभार्ययोः’ इत्यमरः ॥—वृञः—। वृञ् वरणे अस्मादत्रन् चित्स्यात् चित्त्वादन्तोदात्तः । ‘नभी वभी वरत्रा स्यात्’ इत्यमरः । ‘वरत्रायां दार्वानह्यमानः’ इत्यादौ चित्स्वरः . स्पष्टः
उ385 · Uṇ 9.3.105
अमिनक्षियजिवधिपतिभ्योऽत्रन् ॥ उ३८५ ॥
aminakṣiyajivadhipatibhyo'tran
Siddhānta-kaumudī
अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।
उ386 · Uṇ 9.3.106
गडेरादेश्च कः ॥ उ३८६ ॥
gaḍerādeśca kaḥ
Siddhānta-kaumudī
कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।
उ387 · Uṇ 9.3.107
वृञश्चित् ॥ उ३८७ ॥
vṛñaścit
Siddhānta-kaumudī
वरत्रा चर्ममयी रज्जुः ।
उ388 · Uṇ 9.3.108
सुविदेः कत्रः ॥ उ३८८ ॥
suvideḥ katraḥ
Siddhānta-kaumudī
सुविदत्रं कुटुम्बकम् ।
Tattvabodhinī
NSP p. 554
—सुविदेः कत्रः । विद ज्ञाने । इह कत्रन्निति नितं केचित्पठन्ति तत्प्रामादिकम् । ‘वृहस्पते सुविदत्राणि राध्या’ इत्यादौ नित्स्वरादर्शनात् । क्रुद्धतरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्चेत्याहुः ॥—कृतेः—। कृती छेदने, अस्मात्कत्रः स्याद्धातोर्जुमागमश्च । ‘धन्व च यत्कृन्तत्रं च’ इति मन्त्रे कृन्तत्रं कर्तनीयमरण्यमिति वेदभाष्यम् ॥—भृमृ—। भृञ् भरणे, मृङ् प्राणत्यागे, हशिर् प्रेक्षणे, यज देवपूजादौ, पर्व पूरणे, डुपचप् पाके, अम गतौ, तमु काङ्क्षायाम्, णम प्रहृत्वे शब्दे च, हर्यं गतिः कान्त्योः । दशपाद्यां तु भृदशीडिति पठित्वा दङ् आदरे द्रियते दरतः शेते शयतः इत्युदाहृतम् । तन्न । ‘रुशन्तमभिं दर्शतं वृहन्तम्’, ‘तरणिर्विश्वदर्शतः’ ‘दैव्यो दर्शतो रथः’ इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् । ‘भरतो नाव्यशास्त्रे मुनौ नटे । रामानुजे च दौष्यन्तौ’ इति मेदिनी ॥—यजतः ऋत्विगिति । उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम् । वेदभाष्ये तु ‘हिरण्यशम्यं यजतो वृहन्तम्’ इत्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः । ‘पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले’ इति मेदिनी ॥—हर्यतोऽभ्य इति । ‘परित्यं हर्यतं हरिम्’ ‘आहर्यताय धृष्णवे’ इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् ॥—पृषि—। पृषु सेचने, रज्ज रागे, आभ्यामतच्च कित्स्यात् । ‘पृषन् मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतविन्दुयुक्तेऽप्युभाविमौ’ इति मेदिनी । ‘रजतं त्रिषु शुक्ले स्यात् क्लीवे हारे च दुर्व्रणे’ इति च
उ389 · Uṇ 9.3.109
कृतेर्नुम् च ॥ उ३८९ ॥
kṛternum ca
Siddhānta-kaumudī
कृन्तत्रं लाङ्लम् ।
उ390 · Uṇ 9.3.110
भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् ॥ उ३९० ॥
bhṛmṛdṛśiyajiparvipacyamitaminamiharyebhyo'tac
Siddhānta-kaumudī
दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।
उ391 · Uṇ 9.3.111
पृषिरञ्जिभ्यां कित् ॥ उ३९१ ॥
pṛṣirañjibhyāṃ kit
Siddhānta-kaumudī
पृषतो मृगो बिन्दुश्च । रजतम् ।
उ392 · Uṇ 9.3.112
खलतिः ॥ उ३९२ ॥
khalatiḥ
Siddhānta-kaumudī
खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।
Tattvabodhinī
NSP p. 554
—खलतिः । स्खल संचलने ॥—शीङ्शापि—। शीङ् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्ल गतौ, वश्चु गतौ भ्वादिः, वश्चु प्रलम्भने चुरादिः, जीव प्राणधारणे, अन प्राणने प्रपूर्वः । उज्ज्वलदत्तेन वश्चिजीविति पठ्यते । अन्यैस्तु वश्चिस्थाने वन्दिः पठ्यते । वश्चथवन्दथयोरन्यतरं वेदादुपलभ्यते बहुश्रुतैः पाठो निर्णेयः ॥—वन्दथ इति । कर्मणि कर्तरि वा प्रत्ययः ॥—प्राणथ इति । ‘अनितेः’ इति णत्वम् ॥—शमिदमिभ्यामिति । शम उपशमे, दमु उपशमे । ‘शमथः शान्तिमन्त्रिणोः’ इति मेदिनी । ‘दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः’ इति च ॥—भृञः—। डुभृञ् धारणपोषणयोः । अस्मादथः स्यात्स च चित् ॥—रुदि—। रुदिर् अश्रुविमोचने, विद ज्ञाने, आभ्यामतः स्यात्स च डित् । ‘विदिथो योगिकृत्तिनोः’ इति मेदिनी । अत्रोज्ज्वलदत्तः रुविदिभ्यां किदिति पठित्वा रौतीति रुवथः श्वेत्युदाजहार । दशपादीवृत्तिकारस्तु रुदिविदिभ्यां किदिति पपाठ । इह तु भाष्यानुरोधेन डिदिति पठितम् । तथाहि ‘गाङ् कुटादि—’ सूत्रे के पुनश्चङादयः चङ्अङ्नजिङ्अथङ्नङ् इति भाष्यम् । किदिति पठतां तु अथ- डिति भाष्यं न सङ्गच्छेतेति दिक् ॥—उप—। वस निवासे, अस्मादुपसर्गे अथः स्यात् । उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितमन्यैस्तु आङि वसेरिति पठितम्
उ393 · Uṇ 9.3.113
शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ॥ उ३९३ ॥
śīṅśapirugamivañcijīviprāṇibhyo'thaḥ
Siddhānta-kaumudī
सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।
उ394 · Uṇ 9.3.114
भृञश्चित् ॥ उ३९४ ॥
bhṛñaścit
Siddhānta-kaumudī
भरथो लोकपालः ।
उ395 · Uṇ 9.3.115
रुदिविदिभ्यां ङित् ॥ उ३९५ ॥
rudividibhyāṃ ṅit
Siddhānta-kaumudī
रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।
उ396 · Uṇ 9.3.116
उपसर्गे वसेः ॥ उ३९६ ॥
upasarge vaseḥ
Siddhānta-kaumudī
आवसथो गृहम् । संवसथो ग्रामः ।
उ397 · Uṇ 9.3.117
अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् ॥ उ३९७ ॥
atyavicamitamirabhilabhinabhitapipatipanipaṇimahibhyo'sac
Siddhānta-kaumudī
त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।
Tattvabodhinī
NSP p. 554–555
—अत्यवि—। अत सातत्यगमने, अव रक्षणादौ, चमु अदने, तमु काङ्क्षायाम्, णमु प्रहृत्वे शब्दे च, रभ राभस्ये, डुलभष् प्राप्तौ, णभ तुभ हिंसायाम्, भ्वादौ क्यादौ चायम् । तप सन्तापे, पत्ल हन्ता ॥ १९ । कृष्णादिविषया ॥ गौरादिलात् कीष् । ‘अतसी स्यादुमा शुभा’ इत्यमरः । ‘चगतौ, पण व्यवहारे सुतौ च, पन च, मह पूजायाम् । गौरादिलात् कीष् । ‘अतसी स्यादुमा शुभा’ इत्यमरः । ‘चमसो यज्ञपात्रस्य भेदेऽल्ली पिष्टके स्त्रियाम्’ इति मेदिनी । ‘पनसः कण्टकिफले कन्दके वानरान्तरे । स्त्रियां रोगप्रभेदे स्यात्’ इति च ॥—वेञः—। वेञ् तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुद्र । दशपादीवृत्तौ तु ‘वियसुद्र च’ इति पठिला वी गतिप्रजनकान्त्यादिविवति धातुरुदाहतः ॥—वहि—। वह प्रापणे, यु मिश्रणादौ, ‘अजगरे शयुर्वाहस इत्युभौ’ इत्यमरः । ‘वा तु क्लीवे दिवसवासरौ’ इति च ॥—यावस इति । असचो णित्वाद्बुद्धिः ॥—दिवः—। दिवु क्लीडादौ ॥ —कृश् । कृ विक्षेपे, शृ हिंसायाम्, शल गतौ, कल विलेखने, गर्दं शब्दे । ‘करभो मणिवन्धादिकनिष्ठान्तोष्ट्रतत्सुते’ इति मेदिनी । ‘मणिवन्धादाकनिष्ठं करस्य करभो वहिः’ इत्यमरः । ‘शरभस्तु पशोर्भिदि’ । ‘करभो वानरभिदि’ इति मेदिनी । ‘समौ पतङ्गशलभौ’ इत्यमरः । ‘कलभः करिपोतकः’ इति च । ‘गर्दभं श्वेतकुमुदे गर्दभो गन्धभिधपि । रासभे गर्दभी शुद्रजन्तुरोगप्रभेदयोः’ इति मेदिनी ॥—ऋषि—। ऋषी गतौ, वृषु सेचने, आभ्यां अभच् स्यात्स च कित् । ‘ऋषभस्त्वौषधान्तरे । स्वरभिद्रुषयोः कर्णरन्ध्रगर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठे स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां कचिन्मता’ इति मेदिनी । ‘वृषभः श्रेष्ठवृषयोः’ इति च
उ398 · Uṇ 9.3.118
वेञस्तुट् च ॥ उ३९८ ॥
veñastuṭ ca
Siddhānta-kaumudī
बाहुलकादात्वाभावः । वेतसः ।
उ399 · Uṇ 9.3.119
वहियुभ्यां णित् ॥ उ३९९ ॥
vahiyubhyāṃ ṇit
Siddhānta-kaumudī
वाहसोऽजगरः । यावसस्तृणसङ्घातः ।
उ400 · Uṇ 9.3.120
वयश्च ॥ उ४०० ॥
vayaśca
Siddhānta-kaumudī
वय गतौ । वायसः काकः ।
उ401 · Uṇ 9.3.121
दिवः कित् ॥ उ४०१ ॥
divaḥ kit
Siddhānta-kaumudī
दिवसम् । दिवसः ।
उ402 · Uṇ 9.3.122
कॄशॄशलिकलिगर्दिभ्योऽभच् ॥ उ४०२ ॥
kṝśṝśalikaligardibhyo'bhac
Siddhānta-kaumudī
करभः । शरभः । शलभः । कलभः । गर्दभः ।
उ403 · Uṇ 9.3.123
ऋषिवृषिभ्यां कित् ॥ उ४०३ ॥
ṛṣivṛṣibhyāṃ kit
Siddhānta-kaumudī
ऋषभः । वृषभः ।
उ404 · Uṇ 9.3.124
रुषेर्निलुष् च ॥ उ४०४ ॥
ruṣerniluṣ ca
Siddhānta-kaumudī
रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।
उ405 · Uṇ 9.3.125
रासिवल्लिभ्यां च ॥ उ४०५ ॥
rāsivallibhyāṃ ca
Siddhānta-kaumudī
रासभः । वल्लभः ।
Tattvabodhinī
NSP p. 555
—रासिवल्लि—। रास शब्दे, वल्ल संवरणे । ‘वल्लभो दयितेऽध्यक्षे सुलक्षणतुरङ्गमे’ इति मेदिनी
उ406 · Uṇ 9.3.126
जॄविशिभ्यां झच् ॥ उ४०६ ॥
jṝviśibhyāṃ jhac
Siddhānta-kaumudī
जरन्तो महिषः । वेशन्तः पल्वलम् ।
Tattvabodhinī
NSP p. 555
—जृविशि—। जृ वयोहानौ, विश प्रवेशने । ‘वेशन्तः पल्वलं चाल्पसरः’ इत्यमरः । वाहुलकादर्हतेरपि झच् । ‘अर्हन्तः क्षपणको जिनः’ इति विक्रमादित्यकोशः ॥—रुहि—। रुह वीजजन्मति प्रादुर्भावे च, दुनदि समृद्धौ, जीव प्राणधारणे, अन प्राणने प्रपूर्वः । एभ्य आशिषि झच् स च षिङ्गवति
उ407 · Uṇ 9.3.127
रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ॥ उ४०७ ॥
ruhinandijīviprāṇibhyaḥ ṣidāśiṣi
Siddhānta-kaumudī
रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।
Tattvabodhinī
alignment inferredNSP p. 555
—प्राणन्त इति । ‘अनितेः’ इति णलम् ॥—तृभू—। तृ स्त्रवनतरणयोः, भू सत्तायाम्, वह प्रापणे, वस निवासे, भास दीतौ, साध संसिद्धौ, गड सेचने, मडि भूषायाम्, उभौ ण्यन्तौ । जि जये, दुनदि समृद्धौ, ण्यन्तः
उ408 · Uṇ 9.3.128
तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ॥ उ४०८ ॥
tṝbhūvahivasibhāsisādhigaḍimaṇḍijinandibhyaśca
Siddhānta-kaumudī
दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । अयामन्ता- {SK 2311} इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।
Tattvabodhinī
alignment inferredNSP p. 555
— नन्दयन्त इति । उज्ज्वलदत्तस्तु नन्दन्त इत्युदाहत्य पूर्वसूत्रेण गतार्थतामाशङ्क्य अनाशीर्यं नन्दिग्रहणमित्याह तच्चिन्त्यम् । इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितलात् ॥—हन्तेः—। हन हिंसागत्योरस्मात् झच् प्रत्ययः स्यात्तस्य मुडागमः धातोर्हिशब्दादेशश्च ॥—भन्देः—। भदि कल्याणे मुखे च । अस्मात् झच् स्याद्धातोर्नकारलोपश्च
उ409 · Uṇ 9.3.129
हन्तेर्मुट् हि च ॥ उ४०९ ॥
hantermuṭ hi ca
Siddhānta-kaumudī
हेमन्तः ।
उ410 · Uṇ 9.3.130
भन्देर्नलोपश्च ॥ उ४१० ॥
bhandernalopaśca
Siddhānta-kaumudī
भदन्तः प्रव्रजितः ।
उ411 · Uṇ 9.3.131
ऋच्छेररः ॥ उ४११ ॥
ṛccheraraḥ
Siddhānta-kaumudī
ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।
Tattvabodhinī
NSP p. 555
—ऋच्छेः—। ऋच्छ गतौ ॥—वाहुलकादिति । जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु । परिभाषणभर्त्सनयोरिति तुदादौ । ‘जर्जरं शैवले शक्रध्वजे त्रिषु जरतरे । झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे’ इति च मेदिनी । वाहुलकादेव झस्य जादेशे जर्झर इत्युज्ज्वलदत्तः
उ412 · Uṇ 9.3.132
अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ॥ उ४१२ ॥
artikamibhramicamidevivāsibhyaścit
Siddhānta-kaumudī
षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।
Tattvabodhinī
NSP p. 555
—अर्तिकमि—। ऋ गतौ, कमु कान्तौ, भ्रमु अनवस्थाने, चमु अदने, दिवु क्लीडादौ, वस निवासे, उभावपि ण्यन्तौ । ‘अररं छदकपाटयोः’ इति मेदिनी । ‘कपाटमररं तुल्ये’ इत्यमरः । ‘भ्रमरः कामुके भृङ्गे’ इति मेदिनी । ‘चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः’ इति च । चमरो मृगभेदः । देवरः पत्युः कनिष्ठभ्राता ॥— वासर इति । केचित्तु सूत्रे वाशिभ्य इति तालव्यं पठिला वाश शब्द इत्यस्मादरप्रत्ययो वाश्यत इति वाशरः कोकिल इत्याहुः
उ413 · Uṇ 9.3.133
कुवः क्ररन् ॥ उ४१३ ॥
kuvaḥ kraran
Siddhānta-kaumudī
कुररः पक्षिभेदः ।
Tattvabodhinī
alignment inferredNSP p. 555
—कुवः—। कु शब्दे
उ414 · Uṇ 9.3.134
अङ्गिमदिमन्दिभ्य आरन् ॥ उ४१४ ॥
aṅgimadimandibhya āran
Siddhānta-kaumudī
अङ्गारः । मदारो वराहः । मन्दारः ।
Tattvabodhinī
NSP p. 555
—अङ्गि—। अगिर्गत्यर्थः, मदी हर्षे, मदि स्तुत्यादौ । ‘अङ्गार उल्मुके न स्त्री पुंलिङ्गस्तु महीषुते’ इति मेदिनी । ‘मन्दारः स्यात्सुरद्धमे । पारिभद्रेऽर्कपणे च मन्दारो हस्तिधूर्तयोः’ इति च । मदि स्तुत्यादावित्यस्माद्वाहुलकादारुपि । ‘पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः’ इति शब्दार्णवः
उ415 · Uṇ 9.3.135
गडेः कड च ॥ उ४१५ ॥
gaḍeḥ kaḍa ca
Siddhānta-kaumudī
कडारः ।
Tattvabodhinī
NSP p. 555–556
—गडेः—। गडि वदनैकदेशे, गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च । ‘कडारः कपिले दासे’ इति मेदिनी । ‘कडारः कपिलः पिङ्गः’ इत्यमरः
उ416 · Uṇ 9.3.136
शृङ्गारभृङ्गारौ ॥ उ४१६ ॥
śṛṅgārabhṛṅgārau
Siddhānta-kaumudī
शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।
Tattvabodhinī
NSP p. 556
—शृङ्गार—। शृङ्गिसायाम्, कुमृञ् धारणपोषणयोः, एतौ निपात्येते । आभ्यामारन्नुम् गुग् ह्रस्वश्च । ‘शृङ्गारः सुरते नाश्चे रसे च गजमण्डने । नपुंसकं च वङ्गेऽपि नामसंभवचूर्णयोः’ इति मेदिनी । भृङ्गारी क्षिलिकायां स्यात्कनकालौ पुनः पुमान्’ इति च
उ417 · Uṇ 9.3.137
कञ्जिमृजिभ्यां चित् ॥ उ४१७ ॥
kañjimṛjibhyāṃ cit
Siddhānta-kaumudī
कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।
Tattvabodhinī
NSP p. 556
—कञ्जि—। मृज् शुद्धौ, चित्तादारन्प्रत्यय अन्तोदात्तः । ‘कज्जारो जठरे सूर्ये विरञ्चौ वारणे मुनौ’ इति विश्वमेदिन्यौ । ‘मार्जार ओतौ खट्वाङ्गे’ इति च ‘ओतुर्विडालो मार्जारः’ इत्यमरः ॥— कमेः—। कमु कान्तौ, अस्मादारन्कितस्यात् । ‘कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । वालके वरुणाद्रौ ना न द्वयोजात्यकाञ्चने । कुमारी शैलतनयावनकाल्योर्नदीभिदि । सहापराजिताकन्याजम्बुद्वीपेषु च स्त्रियाम्’ इति मेदिनी । विश्वप्रकाशे तु ‘कुमारी रामतरणी’ इति पाठः । रामतरणी लंताविशेषः । सहेति प्रसिद्धः । ‘तरणी रामतरणी कर्णिका चारुकेसरा । सहा कुमारी गन्धाढ्या’ इति धन्वन्तरिनिघण्टुः । ‘जम्बूद्वीपसहा कन्याः कुमार्योऽथाश्ववारके । वालके कार्तिकेये च कुमारो भर्तृदारके’ इति त्रिकाण्डशेषः
उ418 · Uṇ 9.3.138
कमेः किदुच्चोपधायाः ॥ उ४१८ ॥
kameḥ kiduccopadhāyāḥ
Siddhānta-kaumudī
चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।
उ419 · Uṇ 9.3.139
तुषारादयश्च ॥ उ४१९ ॥
tuṣārādayaśca
Siddhānta-kaumudī
तुषारः । कासारः । सहार आम्रभेदः ।
Tattvabodhinī
NSP p. 556
—तुषारा—। एते निपात्यन्ते । तुष तुष्टौ आरन् । ‘तुषारस्तुहिनं हिमम्’ इत्यमरः । काम्र शब्दकुत्सायाम् । ‘कासारः सरसी सरः’ इत्यमरः ॥—सहार इति । षह मर्षणे ॥—दीडो— दीड् क्षये, अस्मादारन् तस्य नुडागमश्च ॥—सर्तेः—। स गतौ अस्मादपः स्याद्धातोः पुगागमश्च ॥—उषि—। उष दाहे, कुट कौटिल्ये, दल विदारणे, कच वन्धने, खज मन्थे ॥—कणेः—। कण शब्दे । अस्मात्कपन् धातुवकारस्य संप्रसारणं च । ‘कुणपः पूतिगन्धे शबेऽपि च’ इति मेदिनी । ‘कुणपः शबमस्त्रियाम्’ इत्यमरः ॥—विटप—। ‘विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे । विटाधिपे ना’ इति मेदिनी ॥—विशतेरिति । विश प्रवेशने ॥—आदेः प इति । एतच्च उज्ज्वलदत्तरीत्योक्तम् । अन्ये तु सूत्रे विष्टपेति दन्त्यौष्ठ्यादिमेव पठन्ति । युक्तं चैतत् । ‘यत्र वध्रस्य विष्टपम्’ इत्यादौ तथा दर्शनात् । अमरकोशेऽपि ‘विष्टपं भुवनं जगत्’ इति प्रचुरपाठाच्च ॥—वलतेः—। वल वल्ल संवरणे संचरणे च, ‘उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे’ इति मेदिनी ॥—वृतेः—। वृतु वर्तने
उ420 · Uṇ 9.3.140
दीङो नुट् च ॥ उ४२० ॥
dīṅo nuṭ ca
Siddhānta-kaumudī
दीनारः सुवर्णाभरणम् ।
उ421 · Uṇ 9.3.141
सर्तेरपः षुक् च ॥ उ४२१ ॥
sarterapaḥ ṣuk ca
Siddhānta-kaumudī
सर्षपः ।
उ422 · Uṇ 9.3.142
उषिकुटिदलिकचिखजिभ्यः कपन् ॥ उ४२२ ॥
uṣikuṭidalikacikhajibhyaḥ kapan
Siddhānta-kaumudī
उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।
उ423 · Uṇ 9.3.143
क्वणेः संप्रसारणं च ॥ उ४२३ ॥
kvaṇeḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
कुणपम् ।
उ424 · Uṇ 9.3.144
कपश्चाक्रवर्मणस्य ॥ उ४२४ ॥
kapaścākravarmaṇasya
Siddhānta-kaumudī
स्वरे भेदः ।
उ425 · Uṇ 9.3.145
विटपपिष्टपविशिपोलपाः ॥ उ४२५ ॥
viṭapapiṣṭapaviśipolapāḥ
Siddhānta-kaumudī
चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।
उ426 · Uṇ 9.3.146
वृतेस्तिकन् ॥ उ४२६ ॥
vṛtestikan
Siddhānta-kaumudī
वर्तिका ।
उ427 · Uṇ 9.3.147
कृतिभिदिलतिभ्यः कित् ॥ उ४२७ ॥
kṛtibhidilatibhyaḥ kit
Siddhānta-kaumudī
कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।
Tattvabodhinī
NSP p. 556
—कृतिभिदि—। कृती छेदने, भिदिविदारणे, लतिः सौत्रो धातुः
उ428 · Uṇ 9.3.148
इष्यशिभ्यां तकन् ॥ उ४२८ ॥
iṣyaśibhyāṃ takan
Siddhānta-kaumudī
इष्टका । अष्टका ।
Tattvabodhinī
NSP p. 556
—इष्यशि—। इष इच्छायाम्, अश्लू व्याप्तौ, आभ्यां तकन् कित्स्यात् ॥—इष्टकेति । ‘इष्टकेषीकामालानाम्—’ इति निर्देशात् ‘प्रत्ययस्थात्—’ इति नेत्वम् । केचित्तु प्रत्ययस्थादितीत्वमिह न भवत्यनित्यत्वात्, तज्ज्ञापकं तु ‘मृदस्तिकन्’ इति इकारोच्चारणमित्याहुः
उ429 · Uṇ 9.3.149
इणस्तशन्तशसुनौ ॥ उ४२९ ॥
iṇastaśantaśasunau
Siddhānta-kaumudī
एतशो ब्राह्मणः । स एव एतशाः ।
Tattvabodhinī
NSP p. 556
—इणस्त—॥—एतशा इति । ‘अलसन्तस्य—’ इति दीर्घः । एतशसौ । एतशसः
उ430 · Uṇ 9.3.150
वीपतिभ्यां तनन् ॥ उ४३० ॥
vīpatibhyāṃ tanan
Siddhānta-kaumudī
वी गत्यादौ । वेतनम् । पत्तनम् ।
Tattvabodhinī
NSP p. 556
—वीपति—। पत्ल गतौ । ‘पत्तनं पुटभेदनम्’ इति पुरीपर्यायेष्वमरः
उ431 · Uṇ 9.3.151
दॄदलिभ्यां भः ॥ उ४३१ ॥
dṝdalibhyāṃ bhaḥ
Siddhānta-kaumudī
दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।
Tattvabodhinī
alignment inferredNSP p. 556
—दृद्लि—। दृ विदारणे, दल विकसने ॥—अर्तिगृ—। ऋ गतौ, इयतीति अर्भः शिशुः । संज्ञायां कनि अर्भकः । ‘गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके’ इति मेदिनी ॥—इणः—। इण् गतौ, अस्माद्भन् कित्स्यात् । ‘इभः स्तम्बेरमः पद्मी’ इत्यमरः ॥— असि—। असु क्षेपणे, षज्ज सङ्गे । ‘कीकसं कुल्यमस्थि च’ इत्यमरः । ‘सक्थिं क्षीवे पुमानूरुः’ इति च
उ432 · Uṇ 9.3.152
अर्तिगॄभ्यां भन् ॥ उ४३२ ॥
artigṝbhyāṃ bhan
Siddhānta-kaumudī
अर्भः । गर्भः ।
उ433 · Uṇ 9.3.153
इणः कित् ॥ उ४३३ ॥
iṇaḥ kit
Siddhānta-kaumudī
इभः ।
उ434 · Uṇ 9.3.154
असिसञ्जिभ्यां क्थिन् ॥ उ४३४ ॥
asisañjibhyāṃ kthin
Siddhānta-kaumudī
अस्थि । सक्थि ।
उ435 · Uṇ 9.3.155
प्लुषिकुषिशुषिभ्यः । क्सिः ॥ उ४३५ ॥
pluṣikuṣiśuṣibhyaḥ . ksiḥ
Siddhānta-kaumudī
प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।
Tattvabodhinī
NSP p. 556–557
—प्लुषि—। प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे ॥—अशेः—। अश्लू व्याप्तौ, अस्मात् विसन्नित्स्यात् । अक्षि नयनम् ॥—इषेः—। इष इच्छायाम् । ‘रसाल इक्षुः’ इत्यमरः ॥—अवि—। अव रक्षणादौ, तृ प्लवनतरणयोः, स्तृज् आच्छादने, तत्रि कुटुम्बधारणे, चुरांदिष्यन्तः ॥—तरीरिति । ‘स्त्रियां नौस्तरणिस्तरिः’ इत्यमरः ॥—यामो—। यामो प्रसङ्गे, अस्मादपाने, आभ्यां मीः कित्स्यात् द्वित्वं च धातोः ॥—लक्ष्मेः-। लक्ष्म दर्शनाङ्गनयोश्चुरादिष्यन्तः । अस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलो-पश्च । ‘लक्ष्मीः पद्मा विभूतिश्च’ । ‘कृदिकारात्’- इति ङीपि लक्ष्मी इत्यपि भवतीति रक्षितः । ‘लक्ष्मीः संपत्तिशोभयोः । ऋच्चोषधौ च पद्मायाम्’ इति मेदिनी ॥ इत्युणादिषु तृतीयः पादः ॥ माध्रातोरिति । मा माने, कित्वात् ‘आतो धातोः’ इत्यालोपः । ‘वातप्रमीर्वातमृगः’ इत्यमरः ॥—अयमिति-। ‘द्विचतुःपट्पदोरगाः’ इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्गतोक्तेः । मुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्ते-श्वेति भावः । तत्र ‘कृदिकारात्’- इति पाक्षिको ङीप् कैश्चिदिष्यते । न च हस्तादेव ‘कृदिकारात्’- इति ङीप् भवति न तु दीर्घादिति शङ्क्यम् । वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपि ‘कृदिकारात्’- इति ङीपः संभवात् । अत एव वातप्रमीश्रीलक्ष्मीति पक्षे ङ्यन्ताः सुसाधव इति रक्षितः । एतच्च दुर्घटप्रन्ये स्पष्टम् । ‘आशीराह्यहिदंष्ट्रंयां लक्ष्मी-लक्ष्मी हरिस्त्रियां’ इति द्विरूपकोशः । अत एव ‘आशीविषो विषधरः’ इत्यमरकोशः संगच्छते । अश भोजन इत्यस्मात् ‘इणजादिभ्यः’ इति इण्प्रत्यये उपधावृद्धौ ‘कृदिकारात्’- इति ङीपः स्वीकारात् ‘आशीमिव कलामिन्दोः’ इति राजशेखरः । ‘आशीर्हिताशंसाहिदंष्ट्रयोः’ इति सान्तेऽमरात्सान्तोऽप्याशीःशब्दोऽस्तीत्यन्यदेतत् ॥—ऋतनि-। ऋ गतौ, तत्र विस्तारे, अङ्गू व्यक्त्यादौ, वत्रु याचने, अङ्गू स एव, ऋ गतौ ष्यन्तः, मदी हर्षे, अत सातत्यगमने, अगि गत्यर्थः, कु शब्दे, यु मिश्रणे, कृश तनूकरणे । प्रसङ्गादाह—अरलिरिति । न रलिः अरलिरिति नञ्समासः । प्रसृताङ्गुलिः स हस्तः अरलिरित्यर्थः । दशपादीवृत्तौ तु कलिजित्यत्र ककारमपठित्वा अतेरलिचमकितं विधाय अरलिः साधितः । उज्ज्वलदत्तानुसारेणाह—वायू रात्रिश्चेति । तन्यतुः शब्दो मेघः अशनिश्चेत्यपि वोध्यम् । ‘आविष्कृणोमि तन्यतुर्न वृष्टिम्’ इति मन्त्रे तन्यतुर्गर्जितमिति ‘सृजा दृष्टिं न तन्यतुः’ इति मन्त्रे तन्यतुर्मेघ इति ‘उतस्मास्य तन्यतोरिव योः’ इति मन्त्रे ‘दिवश्चित्रं न तन्यतुम्’ इति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात् । ‘अङ्गलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च’ इति मेदिनी ॥—स्थवि-राज्ञमिति । ‘वनिष्ठोर्हृदयादधि’ इति मन्त्रस्य भाष्ये तथोक्तत्वात् ॥—अङ्गिष्ठ इति । केचिदङ्गेरिष्णुचमिच्छन्ति तेषा-मङ्गिष्णुरुदाहरणम् ॥—अर्पित इति । ‘अर्तिह्वी’- इत्यादिना पुक्र् । ‘णेरनिटि’ इति णिलोपः ॥—मदेरिति । ‘मत्स्यो मीनेऽथ पुंभून्नि देशे’ इति मेदिनी । ‘अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु’ इति च । ‘अङ्गुलिः करशाखायां कर्णि-कायां गजस्य च’ इति च । कवसः सन्नाहः कंकटजातिश्च ॥—अच इति । ‘कवचो गर्दभाण्डे च संनाहे पर्पटेऽपि च’ इति मेदिनी ॥—यौतेरिति । ‘दुरालभा कटुस्पर्शा यासो धन्वयवासकः’ इति धन्वन्तरिनिघण्टुः । ‘कृशातुः पाव-कोऽनलः’ इत्यमरः ॥—भ्रः-। शॄ हिंसायाम् । ‘शर्करा खण्डविकृतौ उपलाकर्परांशयोः । शर्करान्वितदेशे च रुमेदे शकले-ऽपि च’ इति मेदिनी ॥—पुषः-। पुष पुष्टौ, अस्मात्करन्स्यात्स च कित् । ‘पुष्करं खेऽम्बुपद्मयोः । तूर्यवक्त्रे खन्नफले हस्तिहस्ताम्रकाण्डयोः । कुष्ठौषधिद्वीपतीर्थमेदयोश्च नपुंसकम् । ना रोगनागविहगनृपमेदेषु वारुणौ’ इति मेदिनी
उ436 · Uṇ 9.3.156
अशेर्नित् ॥ उ४३६ ॥
aśernit
Siddhānta-kaumudī
अक्षि ।
उ437 · Uṇ 9.3.157
इषेः क्सुः ॥ उ४३७ ॥
iṣeḥ ksuḥ
Siddhānta-kaumudī
इक्षुः ।
उ438 · Uṇ 9.3.158
अवितॄस्तॄतन्त्रिभ्यः ईः ॥ उ४३८ ॥
avitṝstṝtantribhyaḥ īḥ
Siddhānta-kaumudī
अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।
उ439 · Uṇ 9.3.159
यापोः किद्द्वे च ॥ उ४३९ ॥
yāpoḥ kiddve ca
Siddhānta-kaumudī
ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।
उ440 · Uṇ 9.3.160
लक्षेर्मुट् च ॥ उ४४० ॥
lakṣermuṭ ca
Siddhānta-kaumudī
लक्ष्मीः ।
उ441 · Uṇ 9.4.1
वातप्रमीः ॥ उ४४१ ॥
vātapramīḥ
Siddhānta-kaumudī
वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः ॥ अयं स्त्रीपुंसयोः ।
उ442 · Uṇ 9.4.2
ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः ॥ उ४४२ ॥
ṛtanyañjivanyañjyarpimadyatyaṅgikuyukṛśibhyaḥ katnicyatujalijiṣṭhujiṣṭhajisansyanithinulyasāsānukaḥ
Siddhānta-kaumudī
द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च अञ्जेरलिच् । अञ्जलिः । वनेरिष्टुच् । वनिष्टु स्थविरान्त्रम् । अञ्जेरिष्टुच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।
उ443 · Uṇ 9.4.3
श्रः करन् ॥ उ४४३ ॥
śraḥ karan
Siddhānta-kaumudī
उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।
उ444 · Uṇ 9.4.4
पुषः कित् ॥ उ४४४ ॥
puṣaḥ kit
Siddhānta-kaumudī
पुष्करम् ।
उ445 · Uṇ 9.4.5
कलश्च ॥ उ४४५ ॥
kalaśca
Siddhānta-kaumudī
पुष्कलम् ।
Tattvabodhinī
NSP p. 557
—कलश्च । पुष्यतेः कलन् स च कित् । ‘पुष्कलस्तु पूर्णे श्रेष्ठे’ इति हेमचन्द्रः
उ446 · Uṇ 9.4.6
गमेरिनिः ॥ उ४४६ ॥
gameriniḥ
Siddhānta-kaumudī
गमिष्यतीति गमी ।
Tattvabodhinī
alignment inferredNSP p. 557
—गमेः-। गम्लृ गतौ । ‘भविष्यति गम्यादयः’ इत्या-शयेनाह—गमिष्यतीति ॥—आगामीति । इनिप्रत्ययस्य णिलादुपधावृद्धिः । आगमिष्यतीत्यर्थः
उ447 · Uṇ 9.4.7
आङि णित् ॥ उ४४७ ॥
āṅi ṇit
Siddhānta-kaumudī
आगामी ।
उ448 · Uṇ 9.4.8
भुवश्च ॥ उ४४८ ॥
bhuvaśca
Siddhānta-kaumudī
भावी ।
Tattvabodhinī
NSP p. 557
—भुवश्च । भू सत्तायामस्मादिनिः स च णित्स्यात् । भविष्यतीति भावी
उ449 · Uṇ 9.4.9
प्रे स्थः ॥ उ४४९ ॥
pre sthaḥ
Siddhānta-kaumudī
प्रस्थायी ।
Tattvabodhinī
NSP p. 557
—प्रे स्थः । ष्ठा गतिनिवृत्तौ, प्रपूर्वादस्मादिनिः स च णित् । णिलात् ‘आतो युक्’- इति युक् । प्रस्थायी गन्तुकामः
उ450 · Uṇ 9.4.10
परमे कित् ॥ उ४५० ॥
parame kit
Siddhānta-kaumudī
परमेष्ठी ।
Tattvabodhinī
alignment inferredNSP p. 557
—परमे । परमशब्दे उपपदे तिष्ठतेरिनिः कित्स्यात् । कित्वा-दातो लोपः ‘हलदन्तात्’- इत्यलुक् । ‘परमेष्ठी पितामहः’ इत्यमरः
उ451 · Uṇ 9.4.11
मन्थः ॥ उ४५१ ॥
manthaḥ
Siddhānta-kaumudī
मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः मन्थाः । मन्थानौ । मन्थानः ।
Tattvabodhinī
NSP p. 557
—मन्थः । मन्थ विलोडने ॥—मन्था इति । ‘पथिमथि’- इत्यालम् । ‘इतोऽत्सर्वनामस्थाने’ । ‘मन्था मन्थनदण्डे च वज्रे चापेऽपि च स्मृतः’
उ452 · Uṇ 9.4.12
पतः स्थ च ॥ उ४५२ ॥
pataḥ stha ca
Siddhānta-kaumudī
पन्थाः । पन्थानौ ।
Tattvabodhinī
alignment inferredNSP p. 557–558
—पतः-। पत्लृ गतावित्यस्मादिनिः स्थश्चान्तादेशः । पथे गतावित्यस्मात्पचायचि आकारान्तोऽप्यस्ति । ‘वाटः पथश्च मार्गश्च’ इति मुभू- तिचन्द्रः । ‘लचि लचः किरोऽपि स्यात्किरौ प्रोक्तः पथः पथि’ इति द्विरूपेषु विश्वः । इह ऋभवो देवाः क्षयन्त्यस्मिन् निति विग्रहे ‘अन्येभ्योऽपि दृश्यते’ इति डः । ‘ऋभुक्षः स्वर्गवज्रयोः’ इति विश्वः । ततो मलर्थायेनिः ऋभुक्षिनिति नान्तं प्रातिपदिकम् । ‘पतिमथि—’ इत्यात्वे ‘इतोऽत्—’ इत्यत्वे च ऋभुक्षा इन्द्रः ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः । दशपाद्यां तु ‘अतः भुक्षिनक्’ इति सूत्रमुपन्यस्य तस्य ऋभुक्षिनित्युदाहृतम् । ‘ऋभुक्षिणमिन्द्रमाहुव ऊतये’ इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाहृतम् । अत्रायं विवेकः । इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात् । अवग्रहाभावो वाहुलकात् । द्वितीयमते त्ववग्रहाभावो न्याय्यः । परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्ते वाहुलकादन्तोदात्तः स्वीकर्तव्य इति
उ453 · Uṇ 9.4.13
खजेराकः ॥ उ४५३ ॥
khajerākaḥ
Siddhānta-kaumudī
खजाकः पक्षी ।
Tattvabodhinī
NSP p. 558
—खजेः—। खज मन्थे ॥—वलाका—। वल प्राणने, शल गतौ, पत्ल गतौ, एते आकप्रत्ययान्ता निपात्यन्ते ‘वलाका वकपङ्किः स्याद्वलाका विसकण्ठिका । वलाका कामुकी प्रोक्ता वलाकश्च वको मतः’ इति विश्वशाश्वतौ । ‘शलाकाजनयष्टिका । पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च’ इति विश्वः । ‘पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः’ इति मेदिनी
उ454 · Uṇ 9.4.14
बलाकादयश्च ॥ उ४५४ ॥
balākādayaśca
Siddhānta-kaumudī
बलाका । शलाका । पताका ।
उ455 · Uṇ 9.4.15
पिनाकादयश्च ॥ उ४५५ ॥
pinākādayaśca
Siddhānta-kaumudī
पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।
Tattvabodhinī
NSP p. 558
—पिनाका—। एते आकप्रत्ययान्ता निपात्यन्ते । पा रक्षणे, ‘पिनाकोऽस्त्री रक्षचापे पांशुवर्षत्रिशूलयोः’ इति मेदिनी । अमरोक्तिमाह—क्लीव-पुंसोरिति । किंच पिष्ल संचूर्णने, वकारस्य णत्वं धातोर्यगागमः । ‘पिण्याकोऽस्त्री तिलकल्के हिङ्गुवाहीकसिहके’ इति मेदिनी ॥—कपि—। कपखषेति दण्डके हिंसार्थकः । दुष वैकृत्ये ण्यन्तः । ‘दोषो णौ’ इत्युपधाया ऊकारः । अमरोक्तिमाह—दूषिकेति । किंच अकृतेऽपि ईकनि दूषयते ‘अंच इः’ इति इप्रत्यये दूषिः । ‘कृदिकारात्—’ इति डीषि दूषी । उभाभ्यामपि स्वार्थं कनि दूषिका हस्तमध्यैव । ‘केऽणः’ इति डीषोऽपि हस्तादेशात् । ‘पिचण्डी दूषिका दूषी पिचाटं च दृशोर्मलम्’ इति विक्रमादित्यकोशः । ‘दूषिका तूलिकायां च मले स्याल्लोचनस्य च’ इति मेदिनी ॥—अनिहूषि—। अन प्राणने, हृष तुष्टौ, आभ्यामीकन्स्यात् स च कित् । ‘अनीको स्त्री रणे सैन्येऽपि’ इति मेदिनी । ‘हृषीकं विषयीन्द्रियम्’ इत्यमरः
उ456 · Uṇ 9.4.16
कषिदूषिभ्यामीकन् ॥ उ४५६ ॥
kaṣidūṣibhyāmīkan
Siddhānta-kaumudī
कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।
उ457 · Uṇ 9.4.17
अनिहृषिभ्याम् किच्च ॥ उ४५७ ॥
anihṛṣibhyām kicca
Siddhānta-kaumudī
अनीकम् । हृषीकम् ।
उ458 · Uṇ 9.4.18
चङ्कणः कङ्कणश्च ॥ उ४५८ ॥
caṅkaṇaḥ kaṅkaṇaśca
Siddhānta-kaumudī
कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।
Tattvabodhinī
NSP p. 558
—चङ्कणः । कणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेन ‘सन्यङो’ इति द्वित्वे ‘कुहोश्चु’ इत्यभ्यासस्य चुत्वे ‘गुगतो-गुनासिकान्तस्य’ इति नुकि चङ्कण् । ङसिङसोस्तु चङ्कणः ॥—धातोरिति । चङ्कणित्यस्य ॥—शृपू—। शृ हिंसायाम्, पृ पालनादौ, वृष् वरणे, एभ्य ईकन् एषां द्विर्वचनमभ्यासस्य रुगागमश्च ॥—शर्करीक इत्यादि । उरदत्त्वे रपरत्वम्
उ459 · Uṇ 9.4.19
शॄपॄवृञां द्वेरुक् चाभ्यासश्च ॥ उ४५९ ॥
śṝpṝvṛñāṃ dveruk cābhyāsaśca
Siddhānta-kaumudī
शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।
उ460 · Uṇ 9.4.20
पर्फरीकादयश्च ॥ उ४६० ॥
parpharīkādayaśca
Siddhānta-kaumudī
स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः (ग) चरेर्नु च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।
Tattvabodhinī
NSP p. 558–559
—पर्फरीका—। ईकनन्ता एते निपात्यन्ते ॥—पर्फरादेश इति । एतच्चोज्ज्वलदत्तरीत्योक्तं, वस्तुतस्तु धातोर्द्विल-मुकारस्याकारः सलोपः रुक् चाभ्यासस्येति दशपाद्यां यदुक्तं तदेव न्याय्यम् । चरेर्जुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक् चे-त्याद्यनुवृत्तेर्न्याय्यत्वात् ॥—किसलयमिति । ‘नैतोशेव तुर्फरी पर्फरीका’ इति मन्त्रस्य वेदभाष्ये तु जिफला विशरणे, पृ पालनपूरणयोः, पर्व पुर्व पूरणे, एषामन्यतमस्य निपातनमिदमित्याश्रित्य शत्रूणां विदारयितारौ स्तोतॄणां पालकौ इष्टार्थस्य पूरयितारौ चेति व्याख्यातम् ॥—दर्दरीकमिति । दृ विदारणे, अस्मादीकन्धातोर्दर्दरादेशः ॥—झर्झरीक-मिति । झृष् वयोहानौ अस्मादीकन्धातोर्झर्झरादेशः । वस्तुतस्तु दर्दरीकझर्झरीकावपि पर्फरीकवद्धातोर्द्वित्वं रुक् चाभ्या-सस्येति व्याख्येयौ । उत्तरखण्डे ऋकारस्य गुणे रपरत्वम् ॥—तित्तिडीक इति । तिम ष्टीम आर्द्राभावे मकारस्योकारः अभ्यासस्य तुक् च । ‘तित्तिडी चिच्चाम्लिका’ इत्यमरे तु शब्दान्तरम् । तथा च ‘तित्तिडी लम्लिका चिच्चा तित्तिडीका कपिप्रिया’ इति वाचस्पतिः । ‘अम्लीका चाम्लिका चिच्चा तित्तिडीका च तित्तिडा’ इति चन्द्रः । ‘अम्लीका चुक्किका चुका साम्ला शुक्राथ शुक्लिका । अम्लिका चिच्चिका चिच्चा तिन्तिडीका सुतित्तिडा’ इति धन्वन्तरिनिघण्टुः ॥—चरेरिति । चर गतिभक्षणयोरस्मादीकन् द्विर्वचनमभ्यासस्य गुमागमश्च । भमरश्वश्वरीकः स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुष्पकीटो मधुद्रो मधुके शटः’ इति त्रिकाण्डशेषः ॥—मर्मरीक इत्यादि । मृद् प्राणत्यागे, डुकृष् करणे, आभ्यामीकन् धातो-द्वित्वम् । अभ्यासस्य रुक् ‘कर्कर्यालुर्गलन्तिका’ इत्यमरः । पुण कर्मणि शुभे, णस्य डः प्रत्ययस्य रुडागमश्च । ‘पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि च’ इति मेदिनी ॥—इषेः—। ईषं गतावस्मादीकन् हस्तश्च कित्वाहुणाभावः । हस्तविधानसामर्थ्यादेव गुणाभावे सिद्धेऽश्चुत्ततार्थं कित्वबमित्याहुः । ‘इषीका स्यादीषिकापि वानायुजवनायुजौ’ इति द्विरूपकोशः ॥—ऋजुः-। ऋज गतौ ॥ सर्तेः-। सृ गतावस्मादीकन्कित्स्याद्धातोर्जुमागमथ । ‘सृणिका स्यन्दिनी लाला’ इत्यमरः
उ461 · Uṇ 9.4.21
ईषः किद्ध्रस्वश्च ॥ उ४६१ ॥
īṣaḥ kiddhrasvaśca
Siddhānta-kaumudī
इषीका शलाका ।
उ462 · Uṇ 9.4.22
ऋजेश्च ॥ उ४६२ ॥
ṛjeśca
Siddhānta-kaumudī
ऋजिकः उपहतः ।
उ463 · Uṇ 9.4.23
सर्तेर्नुम् च ॥ उ४६३ ॥
sarternum ca
Siddhānta-kaumudī
सृणिका लाला ।
उ464 · Uṇ 9.4.24
मृडः कीकच्कङ्कणौ ॥ उ४६४ ॥
mṛḍaḥ kīkackaṅkaṇau
Siddhānta-kaumudī
मृडीको मृगः । मृडङ्कणः शिशुः ।
Tattvabodhinī
NSP p. 559
—मृडः कीकच्-। मृड सुखने । मृडः कीकन्नित्युज्ज्वलदत्तादिपाठः प्रामादिकः । मृडीकशब्दस्य चित्स्वरेणान्तोदात्तलात् । ‘मृडीके अस्य सुमतौ स्याम’ इत्यादौ चित्स्वरस्यैव दर्शनात्
उ465 · Uṇ 9.4.25
अलीकादयश्च ॥ उ४६५ ॥
alīkādayaśca
Siddhānta-kaumudī
कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।
Tattvabodhinī
NSP p. 559–560
— अलीकाद्-। ‘अलीकमप्रियेऽपि स्याद्दिव्यसत्ये नपुंसकम्’ इति मेदिनी । ‘अलीकमप्रिये प्रोक्तमलीकमनृते दिवि’ इति विश्वः । ‘अलीकमप्रिये भाले वितथे’ इति हेमचन्द्रः । तथा चाभियुक्तैः प्रयुज्यते । ‘ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्षमलदृशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलमा ये कालतां कुटिलतां च न संलजन्ति’ इति । इहालीकलमाः भाललमाः अप्रिये लमा इत्याद्यर्थौ यथायोग्यं बोध्यः । ‘व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने । ना नागरे’ इति मेदिनी । वल संवरणे, ‘वलीकनीघ्रे पटलप्रान्ते’ इत्यमरः । वलतेर्मुमागमे वल्मीकम् । ‘वामल्लरश्च नाकुश्च वल्मीकं पुंनपुंसकम्’ इत्यमरः । वहतेर्वृद्धिश्च । वाहीको गौरश्वश्च । सुप्रपूर्वादिणस्तुद् च । सुप्रतीकः । शाम्यतेः शमीकः ऋषिः । एवमन्येऽप्यूह्या इत्याशयेनाह—इत्यादीति ॥—कृतृ-। कृ विक्षेपे, तृ म्रवनतरणयोः ॥—श्रृपृ-। श्रृ हिंसायाम्, पृ पालनादौ, आभ्यामीषन् कित्स्यात् । ‘ऋत इद्धातोः’ इति इत्वे रपरलम् । शिरीषो वृक्षमेदः । ‘उदोष्णपूर्वस्य’ इत्युत्वं ‘पुरीषं गूर्यं वर्चस्कमल्ली विष्टाविशौ स्त्रियाम्’ इत्यमरः ॥—अर्जेः-। अर्ज षर्ज अर्जने, अस्मादीषन् कित्स्यात् धातोर्ऋजादेशश्च । अमरोक्तिमाह—ऋजीषमिति । किंच उद्धृतरसः सोमलतायाः शेषोऽपि ऋजीषम् । एतच्च ‘ऋजीषिणं वृषणसश्चत श्रिये’ ‘आसत्यो यातु मधवाँऋजीषी’ इत्यादिमन्त्रे भाष्ये स्पष्टम् ॥—अयमिति । ईषन् प्रत्ययस्तस्य अरुडागमश्चेत्यर्थः । बोपालितोक्तिमाह—अम्बरीषमिति । ‘क्लीवेऽम्बरीषं भ्राष्ट्रः’ इत्यमरः । ‘अम्बरीषो रणे भ्राष्ट्रे क्लीवं पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुपाते च’ इति मेदिनी ॥—कृश्रृपृ । कृ विक्षेपे, श्रृ हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षावरणयोः, इट किट कटी गतौ, चुरादौ पट पुटेति दण्डके भाषार्थः, शौट्ट गर्वे । ‘वंशाङ्कुरे करीरोऽल्ली वृक्षभिद्धटयोः पुमान् । करीरा चीरिकायां च दन्तमूले च दन्तिनाम्’ इति मेदिनी । शीर्यत इति शरीरम् । ‘शरीरं वर्ष्मं विग्रहः’ इत्यमरः । अर्धचांदिलाच्छरीर इति पुंलिङ्गोऽपि ।—परीरमिति । पूर्यतेऽनेनेति विग्रहः । वाहुलकात् हिडि गत्यनादरयोः, हिण्डते इतस्ततो गच्छतीति हिण्डीरः । ‘डिण्डीरोऽब्धिकफः फेनः’ इत्यमरः । ‘डिण्डीरोपि च हिण्डीरः’ इति द्विरूपकोशः । किर्मीरजम्बीरतूणीरादयोऽपि वाहुलकादेव बोध्याः । किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे’ इति मेदिनी । ‘जम्बीरः प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे’ इति च ॥—वशेः-। वश कान्तौ, अस्मादीरन्कित्स्यात् । कित्वात्संप्रसारणादि । उशीरं वीरणमूलमुशीरोऽपि । ‘मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यम्’ इत्यमरः ॥—कशेः-। कश इति सौत्रो धातुः अस्मादीरन् तस्य मुडागमश्च । पृषोदरादिलात्काश्मीरः ॥ —कृञः-। डुकृञ् करणे अस्मादीरन् धातोरन्त्यस्य उदादेशो रपरः ॥—घसेः-। घस्त्व अदने अस्मादीरन् कित्स्यात् । ‘गमहन-’ इत्युपधालोपे कत्वं षत्वं च । ‘क्षीरं दुग्धे च नीरे च’ इति विश्वः ॥—गमीर-। गम्ल गतौ अस्मादीरन् भकारोऽन्तादेशः पक्षे नुमागमश्च निपात्यते । ‘निम्नं गमीरं गम्भीरम्’ इत्यमरः ॥—विषा-। षोऽन्तकर्मणि, ओहाक् त्यागे ‘आभ्यां विपूर्वाभ्यामाप्रत्ययो निपात्यते ॥—पचः-। डुपचष् पाके, अस्मादेलिमच् स्यात् । कर्तरि अयम् । कृत्यप्रत्ययेषु तु केलिमर उपसंख्यातः ॥—शीर्डः-। शीर्ड् स्वप्ने, शेरतेऽनेनेति शीघुर्मयविशेषः । ‘मैरेयमासवः शीघुः’ इत्यमरः । अर्धचांदिपाठात् क्लीवं च ‘पुंनपुंसकयोर्दर्शजीवातुस्थाणुशीधवः’ इति त्रिकाण्डशेषः । ‘शीलं स्वभावे सद्वृत्ते’ इति मेदिनी । ‘जलनीली तु शैवालम्’ इत्यमरः । ‘शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानयम्’ इति मेदिनी । शब्दार्णवोक्ति- माह—शेवालं शैवल इति
उ466 · Uṇ 9.4.26
कॄतॄभ्यामीषन् ॥ उ४६६ ॥
kṝtṝbhyāmīṣan
Siddhānta-kaumudī
करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।
उ467 · Uṇ 9.4.27
शॄपॄभ्यां किच्च ॥ उ४६७ ॥
śṝpṝbhyāṃ kicca
Siddhānta-kaumudī
शिरीषः । पुरीषम् ।
उ468 · Uṇ 9.4.28
अर्जेर्ऋज च ॥ उ४६८ ॥
arjerṛja ca
Siddhānta-kaumudī
ऋजीषं पिष्टपचनम् ।
उ469 · Uṇ 9.4.29
अम्बरीषः ॥ उ४६९ ॥
ambarīṣaḥ
Siddhānta-kaumudī
अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।
उ470 · Uṇ 9.4.30
कॄशॄपॄकटिपटिशौटिभ्य ईरन् ॥ उ४७० ॥
kṝśṝpṝkaṭipaṭiśauṭibhya īran
Siddhānta-kaumudī
करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।
उ471 · Uṇ 9.4.31
वशेः कित् ॥ उ४७१ ॥
vaśeḥ kit
Siddhānta-kaumudī
वशीरम् ।
उ472 · Uṇ 9.4.32
कशेर्मुट् च ॥ उ४७२ ॥
kaśermuṭ ca
Siddhānta-kaumudī
काश्मीरो देशः ।
उ473 · Uṇ 9.4.33
कृञ उच्च ॥ उ४७३ ॥
kṛña ucca
Siddhānta-kaumudī
कुरीरं मैथुनम् ।
उ474 · Uṇ 9.4.34
घसेः किश्च ॥ उ४७४ ॥
ghaseḥ kiśca
Siddhānta-kaumudī
क्षीरम् ।
उ475 · Uṇ 9.4.35
गभीरगम्भीरौ ॥ उ४७५ ॥
gabhīragambhīrau
Siddhānta-kaumudī
गभेर्भः पक्षे नुम् च ।
उ476 · Uṇ 9.4.36
विषा विहा ॥ उ४७६ ॥
viṣā vihā
Siddhānta-kaumudī
स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्यः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।
उ477 · Uṇ 9.4.37
पच एलिमच् ॥ उ४७७ ॥
paca elimac
Siddhānta-kaumudī
पचेलिमो वह्निरव्योः ।
उ478 · Uṇ 9.4.38
शीङो धुक्लक्वलञ्वालनः ॥ उ४७८ ॥
śīṅo dhuklakvalañvālanaḥ
Siddhānta-kaumudī
चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।
उ479 · Uṇ 9.4.39
मॄकणिभ्यामूकोकणौ ॥ उ४७९ ॥
mṝkaṇibhyāmūkokaṇau
Siddhānta-kaumudī
मरूंको मृगः । काणूकः काकः ।
Tattvabodhinī
NSP p. 560
—मृकणि—मृद् प्राणायागे, कण शब्दार्थः ऊकश्च उकण् च ऊकोकणौ एतौ प्रत्ययौ यथाक्रमं भवतः ॥—वलेः—वल संवरणे । ‘उल्लूकः पुंसि काकादाविन्द्रे भारतयोधिनि’ इति मेदिनी वदे-र्यङ्छगन्तादूकः । ‘वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि’ इत्यमरः ॥—भल्लूक इति । भल्ल परिभाषणे इत्यस्मादूकः ॥—शमेः—शम उपशमे अस्मादूकः धातोर्मुगागमश्च । ‘शम्बूको गजकुम्भान्ते घोघे च शूद्रतापसे’ इति मेदिनी । वाहुलकादूकप्रत्यये हस्वमध्योऽपि । ‘जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम्’ इति द्विरूपकोशः । जम्बूकवधूकादयोऽप्यत्रैव द्रष्टव्याः । ‘जम्बूकः फेरवे नीचे पश्चिमाशापतावपि’ इति मेदिनी—विश्वप्रकाशौ । ‘वन्धूकं वन्धुजीवे स्याद्वन्धूकः पीतसारके’ इति च
उ480 · Uṇ 9.4.40
वलेरूकः ॥ उ४८० ॥
valerūkaḥ
Siddhānta-kaumudī
वलूकः पक्षी उत्पलमूलं च ।
उ481 · Uṇ 9.4.41
उलूकादयश्च ॥ उ४८१ ॥
ulūkādayaśca
Siddhānta-kaumudī
वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । (ग) शमेर्बुक्‌ च ॥ शम्बूको जलशुक्तिः ।
उ482 · Uṇ 9.4.42
शलिमन्डिभ्यामूकण् ॥ उ४८२ ॥
śalimanḍibhyāmūkaṇ
Siddhānta-kaumudī
शालूकं कन्दविशेषः । मण्डूकः ।
Tattvabodhinī
NSP p. 560
—शालिमण्डि—शाल गतौ, मडि भूषायां हर्षे च । ‘सौगन्धिकं तु कहारम्’ इत्याद्युपक्रम्य ‘शाल्लूकमेषां कन्दः स्यात्’ इत्यमरः । एषां च सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शाल्लूकमित्यर्थः । मण्डते वर्षासमयमिति मण्डूको भेकः
उ483 · Uṇ 9.4.43
नियो मिः ॥ उ४८३ ॥
niyo miḥ
Siddhānta-kaumudī
नेमिः ।
Tattvabodhinī
NSP p. 560
—नियो मिः । णीञ् प्रापणे । नयति चक्रमिति नेमिश्चक्रावयवः । ‘नेमिनां तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्’ इति मेदिनी । वाहुलकादन्यतोऽपि । या प्रापणे, ‘यामिः स्वस्रकुलस्त्रियोः’ इत्यन्तस्यादौ रभसः । ‘जामिः स्वस्रकुलस्त्रियोः’ इति चवर्गतृतीयादावजयकोशः । ‘चवर्गादिरपि प्रोक्तो जामिः स्वस्रकुलस्त्रियोः’ इति द्विरूपेषु विश्वः
उ484 · Uṇ 9.4.44
अर्तेरूच्च ॥ उ४८४ ॥
arterūcca
Siddhānta-kaumudī
ऊर्मिः ।
Tattvabodhinī
NSP p. 560
—अर्तैरुच्च । ऋग्गतावित्यस्मान्मिः धातोरूकारादेशश्च । उच्चेति वक्तुमुचितम् । रपरत्वे ‘हलि च’ इति दीर्घसंभवात् ॥ ‘ऊर्मिः’ स्त्रीपुंसयोर्वाच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि’ इति मेदिनी
उ485 · Uṇ 9.4.45
भुवः कित् ॥ उ४८५ ॥
bhuvaḥ kit
Siddhānta-kaumudī
भूमिः ।
Tattvabodhinī
NSP p. 560
—भुवः—भवतेर्मिः कित्स्यात् । भवन्ति भूतान्यस्यामिति भूमिः । ‘भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रियाम्’ इति मेदिनी । ‘भूर्भूमिरचलानन्ता’ इत्यादिस्त्वमरः
उ486 · Uṇ 9.4.46
अश्नोते रश् च ॥ उ४८६ ॥
aśnote raś ca
Siddhānta-kaumudī
रश्मिः किरणो रज्जुश्च ।
Tattvabodhinī
alignment inferredNSP p. 560
—अश्लोतेः—अश्लू व्यासौ, अस्मान्मिः धातो रशादेशश्च । ‘रश्मिः पुमान् दीधितौ स्यात्पक्षप्रप्रहयोरपि’ इति मेदिनी
उ487 · Uṇ 9.4.47
दल्मिः ॥ उ४८७ ॥
dalmiḥ
Siddhānta-kaumudī
दल विशरणे । दल्मिरिन्द्रायुधम् ।
उ488 · Uṇ 9.4.48
वीज्याज्यरिभ्यो निः ॥ उ४८८ ॥
vījyājyaribhyo niḥ
Siddhānta-kaumudī
बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।
Tattvabodhinī
NSP p. 560
—वीज्या—वी गतौ, ज्या वयोहानौ, ज्वर रोगे । अमरोक्तमाह—वेणिः स्यादित्यादि । ‘कृदिकारात्—’ इति डीष् । ‘वेणी केशस्य वन्धने । नद्यादेरन्तरे देवताडे’ इति मेदिनी । ‘वेणी खरागरी देवताडो जीमूत इत्यपि’ इत्यमरः । ‘ज्यानिहानौ स्रवन्त्यां च’ इति विश्वः । ‘ज्वरत्वर—’ इत्युपधाया वकारस्य च ऊट् । जूर्णिः स्त्रीरोगः
उ489 · Uṇ 9.4.49
सृवृषिभ्यां कित् ॥ उ४८९ ॥
sṛvṛṣibhyāṃ kit
Siddhānta-kaumudī
सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।
Tattvabodhinī
alignment inferredNSP p. 560
—स्रुवृषि—स्रु गतौ, वृषु सेचने, आभ्यां निः कित्स्यात् । ‘अङ्कशोऽस्त्री सृणिः स्त्रियाम्’ इत्यमरः । ‘सृणिः स्यादङ्कुशे पुमान्’ इति कोशान्तरम् । अत एव ‘आरक्षमममवमत्य सृणि शिताम्रम्’ इति माघे पुंलिङ्गप्रयोगः । ‘वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डमेषयोः’ इति विश्वः । ‘ऐन्द्रे वृष्णि षोडशानि तृतीयम्’ इति श्रुतौ वृष्णि मेषमित्यर्थः
उ490 · Uṇ 9.4.50
अङ्गेर्नलोपश्च ॥ उ४९० ॥
aṅgernalopaśca
Siddhānta-kaumudī
अग्निः ।
Tattvabodhinī
NSP p. 560
—अङ्गेः—अगिर्गत्यर्थः । ‘अग्निर्वैश्वानरेऽपि स्याच्चित्रकाङ्यौषधौ पुमान्’ इति मेदिनी ॥—वहि—वह प्रापणे, श्रिञ् सेवायाम्, शु श्रवणे, यु मिश्रणे, द्व गतौ, ग्लै म्लै हर्षक्षये, ओहाक् त्यागे, वित्वरा संभ्रमे, एभ्यो निः प्रत्ययः स्यात्स च नित् । ‘वहिर्वैश्वानरेऽपि स्याच्चित्रकाङ्यौषधौ पुमान्’ इति मेदिनी । ‘श्रोणिः पङ्क्तिर्निःश्रेणिस्त्वधिरोहिणी । श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ’ इति मेदिनी । ‘श्रोणिः कटिप्रदेशः । ‘कटिः श्रोणिः ककुमती’ इत्यमरः । योनिर्भगम् । ‘योनिः स्त्रीपुंसयोश्च स्यादाकारे स्मरमन्दिरे’ इति मेदिनी । ‘श्रोणिः सेचनी । ‘कृदिकारात्—’ इति डीषि द्रोणी । ‘द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदन्तरे’ इति मेदिनी । ग्लानिर्दौर्वल्यम् । हानिरपचयः क्षयश्च । तूर्णिमानः
उ491 · Uṇ 9.4.51
वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ॥ उ४९१ ॥
vahiśriśruyudruglāhātvaribhyo nit
Siddhānta-kaumudī
वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।
उ492 · Uṇ 9.4.52
घृणिपृश्निपार्ष्णिचूर्णिभूर्णि ॥ उ४९२ ॥
ghṛṇipṛśnipārṣṇicūrṇibhūrṇi
Siddhānta-kaumudī
एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।
Tattvabodhinī
NSP p. 560–561
—घृणि—घृ सेचने, स्पृश संस्पर्शने, पृषु सेचने, चर गतौ, डम्भञ् धारणपोषणयोः । निप्रत्ययो गुणाभावश्च निपात्यते । ‘घृणिः पुनः । अंशुज्वालातरङ्गेषु’ इति हेमचन्द्रः । ‘पृश्निरल्पन्तौ’ इत्यमरः । ‘पार्ष्णिः स्यादुन्मदः स्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादप्रन्थयधरेऽपि च’ इति मेदिनी ॥—भूर्णिरिति । ‘तक्ता न भूर्णिः’ इति मन्त्रभाष्ये तु भूर्णिर्धारकः पोषको वेति व्याख्यातम् ॥—घृष्ट—घृष्ट वरणे, दृङ् आदरे, स्त्रियां ‘कृदिकारात्—’ इति डीष् । दर्वी ॥—जूम् । जू वयोहानौ, शु हिंसायाम्, स्तुञ् आन्द्रादने, जाम्य निद्वाक्षये, क्तिनः कित्वात् ‘ऋत इद्धातोः’ इति इत्वे रपरत्वे जीविरित्यादि
उ493 · Uṇ 9.4.53
वृदृभ्यां विन् ॥ उ४९३ ॥
vṛdṛbhyāṃ vin
Siddhānta-kaumudī
वर्विर्घस्मरः । दर्विः ।
उ494 · Uṇ 9.4.54
जॄशॄस्तॄजागृभ्यः क्विन् ॥ उ४९४ ॥
jṝśṝstṝjāgṛbhyaḥ kvin
Siddhānta-kaumudī
जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।
उ495 · Uṇ 9.4.55
दिवो द्वे दीर्घश्चाभ्यासस्य ॥ उ४९५ ॥
divo dve dīrghaścābhyāsasya
Siddhānta-kaumudī
दीदिविः स्वर्गमोक्षयोः ।
Tattvabodhinī
NSP p. 561
—दिवो—दिवु क्रीडादौ अस्मात् किन् कित्वाद्गुणाभावः । ‘दीदिविधिषणान्नयोः’ इति विश्वः । ‘दीदिविनां धिषणेऽन्ने तदस्त्रियाम्’ इति मेदिनी । धिषणो वृहस्पतिः । ‘दीदिविद्वांदशकरश्वक्षुः सुरगुर्रगुरुः’ इति त्रिकाण्डशेषः । दीदिविद्वांदशार्चिः स्याज्जीवः प्राक्फल्गुनीसुतः’ इति हारावली । ‘ओदनोऽस्त्री सदीदिविः’ इत्यमरः । अत्र सदीदिविदींदिविसहित इति व्याख्यानं न्याय्यम् । अत्र स इति विशेषणादीदिविः पुंलिङ्ग इति केषांचिद्व्याख्यानं नादतैव्यम् । स इति छेदने तु अस्त्रियामिति न लभ्येत ततश्चान्ये तदस्त्रियामिति पूर्वोक्तमेदिनीग्रन्थो विरुध्येतेति ध्येयम् । ‘गोपामृतस्य दीदिविम्’ इति मन्त्रे तु द्योतमानमित्यर्थः ॥—कृषि—डुकृष् करणे, वृषु सेचने, छो छेदने, प्रा गतिनिवृत्तौ, दिवु क्रीडादौ, एते क्विन्नन्ताः
उ496 · Uṇ 9.4.56
कृविघृष्विछविस्थविकिकीदिवि ॥ उ४९६ ॥
kṛvighṛṣvichavisthavikikīdivi
Siddhānta-kaumudī
कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।
Tattvabodhinī
alignment inferredNSP p. 561
—घृष्विर्वराह इति । ‘उग्रस्य यूनः स्थविरस्य घृष्वेः’ इति मन्त्रे तु घृष्टः कामानां वर्षकस्येत्यर्थं इति व्याख्यातम् । घृषु सेचने इति धात्वर्थानुगमात् । ‘छविः शोभारुचोर्योषित्’ इति मेदिनी । ‘अथ चाषः किकीदिविः’ इत्यमरः ॥—विनिमय इति । ‘किकिदीविकिकीदिवी’ इति द्विरूपकोशः ॥— पातेः—पा रक्षणे डित्त्वाटिलोपः । ‘पतिर्धवे ना त्रिष्वीशे’ इति मेदिनी ॥—शकेः—शक्त्या शकौ । ‘उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम्’ इत्यमरः ॥—अमेः—अम गतौ ‘अथामतिः पुंसि हिमदीधितिकालयोः’ इति मेदिनी ॥—चहि—वह प्रापणे, वस निवासे, ऋ गतौ । ‘वसतिः सचिवे गवि’ इति विश्वः । ‘वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतने’ इति मेदिनी
उ497 · Uṇ 9.4.57
पातेर्डतिः ॥ उ४९७ ॥
pāterḍatiḥ
Siddhānta-kaumudī
पतिः ।
उ498 · Uṇ 9.4.58
शकेर्ऋतिन् ॥ उ४९८ ॥
śakerṛtin
Siddhānta-kaumudī
शकृत् ।
उ499 · Uṇ 9.4.59
अमेरतिः ॥ उ४९९ ॥
ameratiḥ
Siddhānta-kaumudī
अमतिः कालः ।
उ500 · Uṇ 9.4.60
वहिवस्यर्तिभ्यश्चित् ॥ उ५०० ॥
vahivasyartibhyaścit
Siddhānta-kaumudī
वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।
उ501 · Uṇ 9.4.61
अञ्चेः को वा ॥ उ५०१ ॥
añceḥ ko vā
Siddhānta-kaumudī
अङ्कतिः । अञ्चतिर्वातः ।
Tattvabodhinī
NSP p. 561
—अञ्चेः—अञ्चु गतौ, अस्मादतिः स्यात्ककारश्चान्तादेशो विकल्पेन
उ502 · Uṇ 9.4.62
हन्तेरंह च ॥ उ५०२ ॥
hanteraṃha ca
Siddhānta-kaumudī
हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
Tattvabodhinī
NSP p. 561
—हन्तेः—हन हिंसागत्योः, अमरोक्तिमाह—प्रादेशनमित्यादि । रमेः—रमतेरतिः स्यात्स च नित् । ‘रमतिर्नायके नाके पुंसि स्यात्’ इति मेदिनी । नित्वमाद्युदात्तार्थम् । रन्तिरसिरमतिरसि ॥—सूङः—। धूङ् प्राणिप्रसवे । कित्वाद्भुणाभावः । ‘धीमान् सूरिः कृती कृष्टिल्ब्धवर्णो विचक्षणः’ इत्यमरः । दशपाद्यां तु ‘सुञोरिन् दीर्घश्च’ इति पाठस्तत्र रिनो नकारो नानुवन्धः उत्तरसूत्रे किन्प्रत्ययारम्भात् । अनुवन्धत्वे हि लाघवादिहैव किञ्चुच्येत । तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालायां सूरीति नान्तमुदाहृतमित्यभिधेयम् । दशपादीवृत्ति-कारैस्तु नित्वं स्वीकृत्य सूरिरित्युदाहृतं तदेतेन प्रत्युक्तम् । स्वरविरुद्धमपि ‘सदा पश्यन्ति सूरयः’ ‘विसूरयो दधतो विश्व-मायुः’ इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात् ॥—अदि—। अद भक्षणे, शद्दु शातने, भू सत्तायाम्, शुभ शुम्भ शोभायै । ‘अद्रयो द्रुमशैलार्काः’ इत्यमरः । ‘भूरिर्नां वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्य-लिङ्गकम्’ इति मेदिनी
उ503 · Uṇ 9.4.63
रमेर्नित् ॥ उ५०३ ॥
ramernit
Siddhānta-kaumudī
रमतिः कालकामयोः ।
उ504 · Uṇ 9.4.64
सूङः क्रिः ॥ उ५०४ ॥
sūṅaḥ kriḥ
Siddhānta-kaumudī
सूरिः ।
उ505 · Uṇ 9.4.65
अदिशदिभूशुभिभ्यः क्रिन् ॥ उ५०५ ॥
adiśadibhūśubhibhyaḥ krin
Siddhānta-kaumudī
अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।
उ506 · Uṇ 9.4.66
वङ्क्र्यादयश्च ॥ उ५०६ ॥
vaṅkryādayaśca
Siddhānta-kaumudī
क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।
Tattvabodhinī
NSP p. 561
—वाङ्क्यादयश्च । वकि कौटिल्ये, द्रुवप् वीजसन्ताने । निपातनात्संप्रसारणाभावः । अहिर्भा-षार्थश्चुरादिष्यन्तः । अधि गतौ गत्यारम्भे च । ञिभी भये ॥—तन्द्रिरिति । ‘कृदिकारात्—’ इति पक्षे डीष् । ‘तन्द्री निद्राप्रमीलयोः’ इति मेदिनी । ‘तन्द्री तन्द्रिश्च तन्द्रायाम्’ इति द्विरूपकोशः । ‘विभज्य नक्तं दिवमस्ततन्द्रिणा’ इति भारविः । प्रत्ययस्य कित्वाद्भुणाभावमाशङ्कयाह—वाहुलकादिति
उ507 · Uṇ 9.4.67
राशदिभ्यां त्रिप् ॥ उ५०७ ॥
rāśadibhyāṃ trip
Siddhānta-kaumudī
रात्रिः शन्त्रिः । कुञ्जरः ।
Tattvabodhinī
NSP p. 561
—राशदि—। रा दाने, शद्दु शातने । ‘शत्रिर्नाम्भोधरे विष्णौ’ इति मेदिनी । ‘शत्रिमग्र उपमा केतुमर्यः’ इति मन्त्रस्य वेदभाष्ये तु उपमा उपमानभूतं केतुं प्रख्यातं शत्रिम् एतन्नामकं राजर्षिमिति व्याख्यातम् ॥—अद्वेः—अद् भक्षणे, अत्रिर्मुनिभेदः । उज्ज्वलदत्तादयस्तु अदेक्षिन्निति पठित्वा अत्रिरित्युदाजहार । तन्न । त्रिपैवेष्टसिद्धौ प्रत्ययान्तरवैयर्थ्यात् । गोवर्धनस्तु अदेक्षिन्नित्वेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा अत्री अत्रिणौ अत्रिण इत्याह । तदपि न । नित्वे सत्याद्युतात्तलापत्तेः । न चेष्टापत्तिः ‘जहीन्य १ त्रिणं पणि’ ‘दूरे वा ये अन्ति वा केचिदत्रिणः’ ‘अग्ने हंसिन्य १ त्रिणम्’ इत्यादावन्तोदात्तस्य निर्विवादत्वात् । अत एव ‘न छमताङ्गस्य’ इति सूत्रे अदेक्षिनिश्चेत्येव कैयटोऽप्याहेति दिक् ॥—पतेः—। पत्ल गतौ ॥—पतत्रिरिति । पक्षवाचकात्पतत्रशब्दान्मलर्थे इनि तु नान्तः पतत्री पतत्रिणौ पतत्रिण इत्यादि
उ508 · Uṇ 9.4.68
अदेस्त्रिनिश्च ॥ उ५०८ ॥
adestriniśca
Siddhānta-kaumudī
चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।
उ509 · Uṇ 9.4.69
पतेरत्रिन् ॥ उ५०९ ॥
pateratrin
Siddhānta-kaumudī
पतत्रिः पक्षी ।
उ510 · Uṇ 9.4.70
मृकणिभ्यामीचिः ॥ उ५१० ॥
mṛkaṇibhyāmīciḥ
Siddhānta-kaumudī
मरीचिः कणीचिः पल्लवो निनादश्च ।
Tattvabodhinī
NSP p. 561–562
—मृकणि—। मृड् प्राणत्यागे, कण शब्दार्थः, ‘मरी- चिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते’ इति विश्वः । ‘मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम्’ इति मेदिनी । ‘कणीचिः पुष्पितलतागुजयोः शकटे स्त्रियाम्’ इति च
उ511 · Uṇ 9.4.71
श्वयतेश्चित् ॥ उ५११ ॥
śvayateścit
Siddhānta-kaumudī
श्वयीचिर्व्याधिः ।
Tattvabodhinī
alignment inferredNSP p. 562
—श्वयतेः—। दुओश्वि गतिवृद्ध्योः, अस्मादीचिप्रत्ययश्चित्स्यात् ॥—वेञः—। वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात् । ‘वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखे द्वयोः’ इति विश्वमेदिन्यौ ॥—ऋहनि—। ऋ गतौ, हन हिंसागत्योः, कुष निष्कर्षे । किलाद्गुणाभावः । ‘पुरुषः पुरुषे सांख्यज्ञे च पुंनागपादपे’ इति विश्वमेदिन्यौ
उ512 · Uṇ 9.4.72
वेञो डिच्च ॥ उ५१२ ॥
veño ḍicca
Siddhānta-kaumudī
वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।
उ513 · Uṇ 9.4.73
ऋहनिभ्यामूषन् ॥ उ५१३ ॥
ṛhanibhyāmūṣan
Siddhānta-kaumudī
अरूषः सूर्यः । हनूषो राक्षसः ।
उ514 · Uṇ 9.4.74
पुरः कुषन् ॥ उ५१४ ॥
puraḥ kuṣan
Siddhānta-kaumudī
पुर अग्रगमने । पुरुषः । अन्येषामपि– {SK 3539} इति दीर्घः । पूरुषः ।
उ515 · Uṇ 9.4.75
पॄनहिकलिभ्य उषच् ॥ उ५१५ ॥
pṝnahikalibhya uṣac
Siddhānta-kaumudī
परुषम् । नहुषः । कलुषम् ।
Tattvabodhinī
NSP p. 562
—पृ नहि—। पृ पालनपूरणयोः, णह वन्धने, कल शब्दसंख्यानयोः, ‘परुषं कर्तुरे रुक्षे निष्ठुरोक्तौ च वाच्यवत्’ इति मेदिनी । ‘नहुषो राजविशेषे नागभिद्यपि’ इति हेमचन्द्रः । उषचश्चित्त्वान्नहुषशब्दस्यान्तोदात्तत्वे प्राप्ते प्रामादिलाद्वृषादिलाद्वा आद्युदात्तलमित्याहुः । एतच्च ‘देवा अकृण्वन्नहुषस्य विश्वम्’ इति मन्त्रस्य भाष्ये स्पष्टम् । ‘कलुषं लाविलैनसोः’ इति विश्वः
उ516 · Uṇ 9.4.76
पीयेरूषन् ॥ उ५१६ ॥
pīyerūṣan
Siddhānta-kaumudī
पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।
Tattvabodhinī
alignment inferredNSP p. 562
—पीयेः—। ‘पीयूषममृतं सुधा’ इत्यमरः । ‘पीयूषं सप्तदिवसावधि क्षीरे तथाऽमृते’ इति मेदिनी । अमरोक्तिमाह—पेयूष इत्यादि ।
उ517 · Uṇ 9.4.77
मस्जेर्नुम् च ॥ उ५१७ ॥
masjernum ca
Siddhānta-kaumudī
मञ्जूषा ।
Tattvabodhinī
alignment inferredNSP p. 562
—मस्जेः—। दुमस्जो शुद्धौ, अस्मादूषन्स्यानुमागमश्च धातोः । ‘मिदचोऽन्त्यात्परः’ सस्य श्रुत्वेन शस्तस्य जदत्वेन जस्तस्य ‘झरो झरि—’ इति वालोपः । लोपाभावपक्षे जकारद्वयम् । मजूषा काष्ठमयं द्रव्यम् । पेटक इति यावत् । ‘पिटकः पेटकः पेटा मजूषा’ इत्यमरः
उ518 · Uṇ 9.4.78
गडेश्च ॥ उ५१८ ॥
gaḍeśca
Siddhānta-kaumudī
गण्डूषः । गण्डूषा ।
Tattvabodhinī
alignment inferredNSP p. 562
—गडेः—। गडि वदनैकदेशे । ‘गण्ड्रयो मुखपूरणे पुष्करप्रसृतोन्मिते’ इति मेदिनी
उ519 · Uṇ 9.4.79
अर्तेररुः ॥ उ५१९ ॥
arteraruḥ
Siddhānta-kaumudī
अररुः शत्रुः । अररू । अररवः ।
Tattvabodhinī
NSP p. 562
—अर्तेः—। ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति अररु अररवः इत्यनेन । न चोकारान्तत्वे विवदितव्यम् । ‘कंचिद्याविररुरं शूरमर्त्यम्’ अपाररुमदेवयजनो जहि’ इत्यादिमन्त्रेषु तथा दर्शनात् । अत्र व्याचक्षते । ‘मा नः शंसो अररुषः’ इति मन्त्रस्य भाष्ये सान्तोऽयमिति माधवेनोक्तं यत्तत्प्रौढिवादमात्रं न तु वास्तवम् । अररुष इति पदस्य आद्युदात्तलानुपपत्तिप्रसङ्गात् तस्माद्रातेः लिटः क्रमुश्चेति कसोररिवानित्यनेन नञ्समासे डस्यररुष इति व्याख्येयम् । ततश्च ‘तत्पुरुषे तुल्यार्थं—’ इत्यादिना पूर्वपदप्रकृतिखरे सत्याद्युदात्तत्वं सिद्ध्यति । ‘गुरुद्वेषोऽररुषे दधन्ति’ इत्यत्र स्वयमेव रातेः कसन्तस्य नञ्समास इत्यादि व्याख्यानात् । ‘यो नो अग्रे अररिवां अघायुः’ इत्यादिमन्त्रान्तरसंभवाच्चेति
उ520 · Uṇ 9.4.80
कुटः किच्च ॥ उ५२० ॥
kuṭaḥ kicca
Siddhānta-kaumudī
कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।
Tattvabodhinī
alignment inferredNSP p. 562
—कुटः—। कुट कौटिल्येऽस्मादरुः स्यात्स च कित् ॥—चिन्त्यमिति । ‘गाङ् कुटादिभ्यः—’ इति डित्त्वेनैव गुणाभावसिद्धेरिति भावः ॥—शकिर्गत्यर्थं इति । शक्त्याकावित्यस्मादटन्नित्येके । ‘क्लीबेऽनः शकटोऽस्त्री स्यात्’ इत्यमरः ॥—देवट् इति । देव् देवने ॥—करट् इति । डुकृञ् करणे, कृ विक्षेपे इत्यस्माद्वा अटन् । ‘काकेभगण्डौ करटौ’ इत्यमरः । ‘करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीविनि । एकादशाहादिश्राद्धे दुर्दुरुढेऽपि वायसे’ इति मेदिनी
उ521 · Uṇ 9.4.81
शकादिभ्योऽटन् ॥ उ५२१ ॥
śakādibhyo'ṭan
Siddhānta-kaumudī
शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।
उ522 · Uṇ 9.4.82
कृकदिकडिकटिभ्योऽम्बच् ॥ उ५२२ ॥
kṛkadikaḍikaṭibhyo'mbac
Siddhānta-kaumudī
करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।
Tattvabodhinī
NSP p. 562
—कृकदि—। डुकृञ् करणे, कटे वर्षावरणयोः । ‘करम्बो मिश्रिते वान्तो भान्तस्तु दधिसक्तुषु’ इति विश्वः । ‘कदम्बं निकुरम्बे स्यात्नीपसर्वपयोः पुमान्’ इति विश्वः ॥—कदेः । ‘कादम्बः स्यात्पुमान्पक्षिविशेषे सायकेऽपि च’ इति मेदिनी ॥—कलि—। कल संख्याने, कदं कुत्सिते शब्दे । ‘कलमः पुंसि लेखिन्यां शालौ पाटचरेपि च’ इति मेदिनी
उ523 · Uṇ 9.4.83
कदेर्णित्पक्षिणि ॥ उ५२३ ॥
kaderṇitpakṣiṇi
Siddhānta-kaumudī
कादम्बः कलहंसः ।
उ524 · Uṇ 9.4.84
कलिकर्द्योरमः ॥ उ५२४ ॥
kalikardyoramaḥ
Siddhānta-kaumudī
कलमः । कर्दमः ।
उ525 · Uṇ 9.4.85
कुणिपुल्योः किन्दच् ॥ उ५२५ ॥
kuṇipulyoḥ kindac
Siddhānta-kaumudī
कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।
Tattvabodhinī
NSP p. 562
—कुणिपुल्योः—। पुल महत्त्वे ॥—कुपेः—। कुप कोधेऽस्मात्किदच् स्यात् वकारश्चान्तादेशो विकल्पेन । ‘तन्तुवायः कुविन्दः स्यात्’ इत्यमरः । वाहुलकादल भूषणादौ । अलिन्दम् । ‘यस्यामलिन्देषु न चकुरेव मुग्धाङ्गनागोमयगोमुखानि’ इति माघः ॥—नौ षञ्जेः—। षज्ज सङ्गे । निपूर्वादस्मात् घतिन्स्यात् । ‘उपसर्गात्सुनोति—’ इत्यादिना षलम् । ‘चजोः—’ इति कुलम् । ‘आभुरस्य निषङ्गथिः’ । रथकूवर इत्यर्थः ॥—उदि—। ऋ गतात्पुर्वादस्मात् घथिन् स्यात् स च चित् ॥—सर्तेः—। सृ गतावस्मात् घथिन् णित्स्यात् । ‘नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः’ इत्यमरः
उ526 · Uṇ 9.4.86
कुपेर्वा वश्च ॥ उ५२६ ॥
kupervā vaśca
Siddhānta-kaumudī
कुपिन्दकुविन्दौ तन्तुवाये ।
उ527 · Uṇ 9.4.87
नौ षञ्जेर्घथिन् ॥ उ५२७ ॥
nau ṣañjerghathin
Siddhānta-kaumudī
निषङ्गथिरालिङ्गकः ।
उ528 · Uṇ 9.4.88
उद्यर्तेश्चित् ॥ उ५२८ ॥
udyarteścit
Siddhānta-kaumudī
उदरथिः समुद्रः ।
उ529 · Uṇ 9.4.89
सर्तेर्णिच्च ॥ उ५२९ ॥
sarterṇicca
Siddhānta-kaumudī
सारथिः ।
उ530 · Uṇ 9.4.90
खर्जिपिञ्जादिभ्य ऊरोलचौ ॥ उ५३० ॥
kharjipiñjādibhya ūrolacau
Siddhānta-kaumudī
खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । लङ्गेर्वृद्धिश्च ॥ लाङ्गूलम् । कुसूलः । तमेर्बुग्वृद्धिश्च । ताम्बूलम् । शृणातेर्दुग्वृद्धिश्च । शार्दूलः । दुक्वोः कुक्च । दुकूलम् । कुकूलम् ।
Tattvabodhinī
NSP p. 562–563
—खर्जि—। खर्ज मार्जने, पिज्ज हिंसायाम् । खर्जादिभ्यः पिज्जादिभ्यश्च यथाकर्म ऊरऊलचौ स्तः । ‘खर्जुरं रूप्यफलयोः खर्जुरः कीटवृक्षयोः’ इति मेदिनीहेमचन्द्रौ । कृप् सामर्थ्ये । वाहुलकात् ‘कृपो रो लः’ इति ललाभावः । ‘अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवाङ्का’ इत्यमरः । वल्लवसंवरणे । वल्लूरम् । ‘उत्तमं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्’ इत्यमरः । एवं शाल्लरादयो द्रष्टव्याः । ‘भेके मण्डूक-वर्षाभूशाल्लरभवदर्दुराः’ इत्यमरः ॥—लङ्केः—। लगिर्गत्यर्थः । ‘लाङ्कूलं पुच्छशेफसोः’ इति मेदिनी ॥—कुसूल इति । कुस श्लेषणे दन्त्यसकारवान् । ‘कुसूलं च कुसीदं च मध्यदन्त्यमुदाहतम्’ इति विश्वः । ताम्बूलादयोऽप्यत्र द्रष्टव्याः । ग्लानौः, युग् दीर्घत्वं च । ‘ताम्बूली नागवल्लयां स्त्री क्रमुके तु नपुंसकम्’ इति मेदिनी । शॄ हिंसायाम्, धातोर्ध्वदिर्दुगाग-मश्च । ‘शार्दूलो राक्षसान्तरे’ । व्याघ्रे च पशुभेदे च सत्तमे तूतरस्थिते’ इति मेदिनीविश्वप्रकाशौ । उत्तरस्थित उत्तरपद-भूतः शार्दूलशब्दस्तु श्रेष्ठवाची राजशार्दूल इति यथा । दु गतौ, कुङ् शब्दे, अनयोः कुङ् च । ‘दुकूलं श्लक्ष्णवल्ले स्यात् क्षौमे च’ इति मेदिनी । ‘कुकूलं शङ्कुसङ्कीर्णं श्वभ्रे ना तु तुषानले’ इति विश्वमेदिन्यौ । ‘शिरीपादपि मृद्वङ्गी क्रेयमायत-लोचना । अयं क्व च कुकूलोऽभिकर्कशो मदनानलः’ इति प्रयोगश्च ॥—कुवः—। कु शब्दे । कुचः स्तनः । ‘कुचकूचौ स्तनौ मतौ’ इति विश्वः ॥—कूचीति । टित्त्वान्दीप्
उ531 · Uṇ 9.4.91
कुवश्चट् दीर्घश्च ॥ उ५३१ ॥
kuvaścaṭ dīrghaśca
Siddhānta-kaumudī
कूची चित्रलेखनिका ।
उ532 · Uṇ 9.4.92
समीणः ॥ उ५३२ ॥
samīṇaḥ
Siddhānta-kaumudī
समीचः समुद्रः । समीची हरिणी ।
Tattvabodhinī
NSP p. 563
—समीणः—। इण् गतावस्मात्सम्युपपदे चट् स्यादीर्घश्च थातोः ॥—सिवेः—। षियु तन्तुसन्तानेऽस्माच्चट् प्रत्ययः स्याद्देरुत्वं च टित्त्वान्दीप् । ‘सूची तु सीवनद्रव्येऽप्याङ्गि-काभिनयान्तरे’ इति मेदिनी ॥—शमेः—। शम उपशमे । शम्वः स्यान्मुसंलाप्रस्थलोहमण्डलके पवौ । शुभान्विते त्रिषु’ इति विश्वमेदिन्यौ ॥—उल्वमिति । ‘गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम्’ इत्यमरः । शुच शोके चस्य लत्वं गुणाभावश्च प्राग्वत् । ‘शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ’ इति मेदिनीहेमचन्द्रौ । वी गतिप्रजनकान्त्यसन-खादनेषु । अस्य नुमागमो हस्त्वं च । ववयोरभेदाद्विम्वम् । ‘विम्वस्तु प्रतिविम्बे स्यान्मण्डले पुंनपुंसकम् । विम्वि-कायाः फले क्लीवं कृकलासे पुनः पुमान्’ इति मेदिनी ॥—स्थः स्तः—। ष्टा गतिनिवृत्तौ । ‘स्तम्बो गुल्मे तृणादीनामप्र-काण्डद्रुमेऽपि च’ इति विश्वः । ‘स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः’ इति मेदिनी । ‘स्याद्भुश्वकस्तु स्तवकः’ इत्यमरः
उ533 · Uṇ 9.4.93
सिवेष्टेरू च ॥ उ५३३ ॥
siveṣṭerū ca
Siddhānta-kaumudī
सूचो दर्भाङ्कुरः । सूची ।
उ534 · Uṇ 9.4.94
शमेर्बन् ॥ उ५३४ ॥
śamerban
Siddhānta-kaumudī
शम्बो मुसलम् ।
उ535 · Uṇ 9.4.95
उल्बादयश्च ॥ उ५३५ ॥
ulbādayaśca
Siddhānta-kaumudī
बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।
उ536 · Uṇ 9.4.96
स्थः स्तोऽम्बजबकौ ॥ उ५३६ ॥
sthaḥ sto'mbajabakau
Siddhānta-kaumudī
तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।
उ537 · Uṇ 9.4.97
शाशपिभ्यां ददनौ ॥ उ५३७ ॥
śāśapibhyāṃ dadanau
Siddhānta-kaumudī
शादो जम्बालशष्पयोः ।
Tattvabodhinī
NSP p. 563
—शाशपि—। शो तनूकरणे, शप आक्रोशे । ‘शादो जम्बालशष्पयोः’ इत्यमरः । ‘शष्पं वालतृणं घासः’ इति च । ‘शादः स्यात्कर्दमे शष्पे’ इति मेदिनी । शब्दो निनादः
उ538 · Uṇ 9.4.98
अब्दादयश्च ॥ उ५३८ ॥
abdādayaśca
Siddhānta-kaumudī
शब्दः । अवतीत्यशब्दः ॥ (ग) कौतेर्नुम्‌ च ॥ कुन्दः ।
Tattvabodhinī
NSP p. 563
—अब्दादयः । एते ददनन्ता निपात्यन्ते । अव रक्षणे वस्य वः । ‘अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्’ इति मेदिनी ॥—कौतेः—। कु शब्दे, ‘कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनि-ध्यन्तरेषु ना’ इति च मेदिनी
उ539 · Uṇ 9.4.99
वलिमलितनिभ्यः कयन् ॥ उ५३९ ॥
valimalitanibhyaḥ kayan
Siddhānta-kaumudī
वलयम् । मलयः । तनयः ।
Tattvabodhinī
NSP p. 563
—वलिमलि—। वल संवरणे संवरणे च, मलमल्ल धारणे, तनु विस्तारे । ‘विलयः कण्ठ-रोगे ना कङ्कणे पुंनपुंसकम्’ इती मेदिनी । ‘मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायां तु योषिति’ इति च । ‘आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियाम्’ इत्यमरः ॥—वृह्नोः—। वृष् वरणे, हृष् हरणे, आभ्यां कयन् स्यात् कथाकमं पुरदुकावागमां च भवतः । कयनः कित्वं त्विह गुणाभावार्थम् । हियते विषयैरिति हृदयं मनः
उ540 · Uṇ 9.4.100
वृह्रोः षुग्दुकौ च ॥ उ५४० ॥
vṛhroḥ ṣugdukau ca
Siddhānta-kaumudī
वृषयः आश्रयः । हृदयम् ।
उ541 · Uṇ 9.4.101
मिपीभ्यां रुः ॥ उ५४१ ॥
mipībhyāṃ ruḥ
Siddhānta-kaumudī
मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।
Tattvabodhinī
NSP p. 563
—मिपी-भ्याम्—। डुमिष् प्रक्षेपणे, पीङ् पाने । ‘मेरुः सुमेरुर्हेमाद्रिः’ इत्यमरः । पीयते रसानिति पेरुः ॥—पिवतेरिति—पा पाने । हृद्वचन्द्रोक्तिमाह—संवत्सरवपुरित्यादि
उ542 · Uṇ 9.4.102
जत्र्वादयश्च ॥ उ५४२ ॥
jatrvādayaśca
Siddhānta-kaumudī
जत्रु जत्रुणी । अश्रु । अश्रुणी ।
Tattvabodhinī
alignment inferredNSP p. 563
—जञ्वादयः । रुप्रत्ययान्ता निपात्यन्ते । जनी प्रादुर्भावे । नकारस्य तकारः । जत्रुः स्कन्धसन्धिः । ‘सन्धी तस्यैव जत्रुणी’ इत्यमरः । तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः । असु क्षेपणे, अशू व्याप्तौ संघाते च । असु अश्रु च नयनजलम् । शीडो हस्त्वं गुगागमश्च । ‘शिमुना शाकमात्रेऽपि शोभाज्जमहीरुहे’ इति मेदिनी
उ543 · Uṇ 9.4.103
रुशातिभ्यां क्रुन् ॥ उ५४३ ॥
ruśātibhyāṃ krun
Siddhānta-kaumudī
रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।
Tattvabodhinī
NSP p. 563
—रुशाति—। रु शब्दे, शट्टु शातने प्यन्तः । ‘कृष्णसाररुरुन्यङ्कुरङ्कुशम्वरराहिषाः’ इत्यमरः । ‘रुरुर्दैत्ये मृगेऽपि च’ इति मेदिनी
उ544 · Uṇ 9.4.104
जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः ॥ उ५४४ ॥
janidācyusṛvṛmadiṣaminamibhṛñbhya itvantvantnaṇkninśaksyaḍhaḍaṭāṭacaḥ
Siddhānta-kaumudī
जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।
Tattvabodhinī
NSP p. 563–564
—जनिदा—। जनी प्रादुर्भावे, डुदान् दाने, च्युङ् गतौ, सृ गतौ, वृष् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये, णम प्रहृत्वे शब्दे च, डुभृष् धारणपोषणयोः । एभ्यो नवभ्यो यथासंख्यं नव स्युः । जनेरित्वन् । जनेरिडागमेनापि जनित्वेति रूपसिद्धाविकारोच्चारणमुत्तरार्थम् ॥—च्यौत्न इति । लणो णित्त्वा- इदिः ॥—सृणिरिति— किनः कित्वान्न गुणः नित्वं तु आद्युदात्तार्थम् । ‘सृष्टुषिभ्यां कित्’ इति निप्रत्यये सन्तोदात्तः साधितः ॥—वृश इति । शकः कित्वान्नः गुणः ॥—मत्स्य इति । स्यप्रत्यये चत्वेन दस्य तः । अन्तोदात्तोऽयम् । ‘ऋतन्यज्ञि—’ इति सूत्रे तु आद्युदात्तः साधितः ॥—षण्ड इति । वाहुलकाद्धात्वादेः पस्य सकारो न प्रत्ययादेः । ढस्य तु प्रयोजनाभावान्नेत्संज्ञा । ‘शमेर्ढः’ इति सूत्रे तु तालव्यादिः साधितः । ‘सायं सायो भवेत्कोशः कोषः षण्डश्च शण्डवत्’ इति द्विरूपकोशः । ‘पण्डो वर्षवरः’ इत्यमरः । ‘नटी नल्यौपधौ स्त्री स्याच्छैल्प्रवाशोकयोः पुमान्’ इति मेदिनी ॥—नट इति । नमतेर्ढद् ॥—भरट इति । विभतेरटच्
उ545 · Uṇ 9.4.105
अन्येभ्योऽपि दृश्यन्ते ॥ उ५४५ ॥
anyebhyo'pi dṛśyante
Siddhānta-kaumudī
पेत्वममृतम् भृशम् ।
Tattvabodhinī
NSP p. 564
—अन्येभ्योऽपि— इत्यन्नादयोऽनुवर्तन्ते ॥— पेत्वमिति । पा पानेऽस्मादित्वन् ॥—भृशमिति— भृवः शक् ॥—कुसेः— कुस श्लेषणेऽस्मादुम्भ उम इद इत एते प्रत्ययाः स्युः । ‘कुसुम्भं हेमनि महारजने ना कमण्डलौ’ इति मेदिनी । ‘कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः’ इति च । ‘कुसीदं जीवने वृद्ध्या क्लीवं त्रिषु कुसीदके’ इति च । इह सूत्रे तृतीयो हस्वादिर्दीर्घादिश्च तन्त्रेणोपात्तः । ‘वृषाकप्यम्नि’ इति सूत्रे हस्वादिरेवेति वृत्तिकारहरदत्तादिग्रन्थोपष्टम्भेन निर्णीतम् । ‘पारलौकिककुसीदमसीदत्’ इति श्रीहर्षप्रयोगात्तु दीर्घादिरपि
उ546 · Uṇ 9.4.106
कुसेरुम्भोमेदेताः ॥ उ५४६ ॥
kuserumbhomedetāḥ
Siddhānta-kaumudī
कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।
उ547 · Uṇ 9.4.107
सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ॥ उ५४७ ॥
sānasivarṇasipaṇasitaṇḍulāṅkuśacaṣālelvalapalvaladhiṣṇyaśalyāḥ
Siddhānta-kaumudī
सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।
Tattvabodhinī
NSP p. 564
—सानसि— सनोतेरिति । षण् दाने ॥—वृञो नुक् च इति । वृञ् वरणेऽस्मादसिः । दशपाद्यां तु ‘सानसिधर्णसि—’ इति पठित्वा वृञो नुक् च धर्णसिलोकपाल इति व्याख्यातम् । युक्तं चैतत् । ‘धर्णसिं भूरिधायसम्’ इत्यादिमन्त्रानुगुणत्वात् ॥—पर्णसिरिति । पृ पालनपूरणयोरस्मादसिप्रत्ययो नुक् च ॥—तण्डुला इति । उल्ल्प्रत्ययो नुमागमश्च धातोः । त्रेधा तण्डुलान्विभजेत् । इह चित्स्वरः । ‘तण्डुलः स्याद्विङ्गे च धान्यादिनिकरे पुमान्’ इति मेदिनी ॥—अङ्कुश इति । अयमपि चित्स्वरेणान्तोदात्तः । तथाच मन्त्रः ‘दीर्घं ह्यङ्कुशं यथा’ इति । ‘अङ्कुशोऽस्त्री सृणिः स्त्रियाम्’ इत्यमरः ॥—चवेराल इति । चष भक्षणे प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तस्त्वालजिति चितमाह । तन्न । ‘चषालं ये अश्वयूपाय तक्षति’ । ‘चषालवन्तः स्वरवः पृथिव्याम्’ इत्यादौ चित्स्वरादर्शनात् । अमरोक्तिमाह—चषाल इति ॥—इत्वल इति । इल स्वप्नप्रेरणयोः । वलच् गुणाभावः । ‘इत्वला तारका राजभेदे ना दैत्यमत्स्ययोः’ इति मेदिनी । ‘इत्वलास्तच्छिरोदेशे तारका निवसन्ति याः’ इत्यमरः । पा पाने अस्माद्वलच् लुगागमः हस्वत्वं च । पिवन्त्यस्मिन्निति पत्वलमत्पसरः । ‘वेशन्तः पत्वलं चात्पसरः’ इत्यमरः ॥—इकार इति । रपरत्वाभावो प्यप्रत्ययश्चेति वोध्यम् । ‘धिष्ण्यं स्थाने गृहे मेऽम्नौ’ इत्यमरः । ‘धिष्ण्यं स्थानामिसन्नमु । ऋक्षे शक्तौ च’ इति मेदिनी ॥—शलेः— शल गतौ । ‘शल्यं तु न स्त्रियां शङ्कौ क्लीवं क्ष्वेडेषु तोमरे । मदनद्वश्वाविधोर्ना’ इति मेदिनी ॥—मूशकि— मूङ् वन्धने शक् शक्तौ, अवि शब्दे । ‘मूलं शिफाद्ययोः । मूलं वित्तेऽन्तिके’ इति मेदिनी । ‘शक्कः प्रियंवदे’ इति विशेष्यनिम्नेऽमरः । अमेरिति । अम रोगे चुरादिष्यन्तः । वाहुलकादेव वोपधाहस्वः । ‘अम्लो रसविशेषे स्यादम्ला चाङ्गेरिकौषधौ’ इति मेदिनी
उ548 · Uṇ 9.4.108
मूशक्यबिभ्यः क्लः ॥ उ५४८ ॥
mūśakyabibhyaḥ klaḥ
Siddhānta-kaumudī
मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।
उ549 · Uṇ 9.4.109
माछाससिभ्यो यः ॥ उ५४९ ॥
māchāsasibhyo yaḥ
Siddhānta-kaumudī
माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।
Tattvabodhinī
NSP p. 564
— माछा— मा माने, छो छेदने, पस स्वप्ने । ‘माया स्याच्छाम्बरीयुद्ध्योर्मायः पीताम्बरे सुरे’ इति मेदिनी । ‘छाया स्यादातपाभावे प्रतिविम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिसच्छोभापङ्क्तिषु स्त्रियाम्’ इति विश्वमेदिन्यौ । ‘वृक्षादीनां फलं सत्यम्’ इत्यमरः ॥—सुनोतेरिति । पुञ् अभिषवे, ‘सव्यं वामे प्रतीपे च’ इति मेदिनी ॥—जनेः । जन जनने । यकः कित्वमुत्तरार्थम् । ‘जन्यं हृद् परीवादे सङ्ग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनिन्नोश्च नवोढाज्ञातिभृत्ययोः । स्निग्धे’ इति मेदिनी ॥ आत्वपक्षे रूपमाह—जायेति ।
उ550 · Uṇ 9.4.110
जनेर्यक् ॥ उ५५० ॥
janeryak
Siddhānta-kaumudī
ये विभाषा {SK 2319} । जन्यं युद्धम् । जाया भार्या ।
उ551 · Uṇ 9.4.111
अघ्न्यादयश्च ॥ उ५५१ ॥
aghnyādayaśca
Siddhānta-kaumudī
यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।
Tattvabodhinī
NSP p. 564–565
—अध्यादयश्च । अध्य इति । यकः कित्वात् ‘गमहन—’ इत्युपधालोपे ‘हो हन्तेः—’ इति कुत्वेन हृत्य घः । अडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये ॥—अध्येति । स्त्रियां टाप् । ‘माहेयी सौरमेयी गौरुत्वा माता च शृङ्गिणी । अर्जुन्यध्या रोहिणी स्यात्’ इत्यमरः । संपूर्वाद्धानो यक् आतो लोपश्च । संध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु’ इति मेदिनी । ‘कन्या कुमारिकानायोरोपूर्वाराशिमेदयोः’ इति विश्वमेदिन्यौ ॥—वृन्ध्येति । षण्डाद्यन्धने । वृन्ध्यस्त्विकलवृक्षादौ स्त्रियां स्याद- प्रजस्त्रियाम्’ इति मेदिनी । कौतेर्यति डुक् । कुञ्जमित्युज्ज्वलदत्तः । ‘यतो नावः’ इत्याद्युदात्तः । यक्प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति ‘निवाते वातत्राणे’ इति सूत्रे वृत्तिः । डित्त्वाद्विलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधार्थात्ककारादुकारस्येत्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थितेऽध्यादयो यगन्ता इति प्रायोवादः
उ552 · Uṇ 9.4.112
स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् ॥ उ५५२ ॥
snāmadipadyartipṝśakibhyo vanip
Siddhānta-kaumudī
स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।
Tattvabodhinī
NSP p. 565
—स्नामदि—। ष्णा शौचे । मदी हर्षे, पद गतौ, ऋ गतौ, पृ पालनपूरणयोः, शक्तु शक्तौ । ‘अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः’ इति मेदिनी । ‘पर्व क्लीवं महे ग्रन्थे प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि’ इति च ॥—ङीव्राविति । ‘वनो र च’ इत्यनेन ॥—अङ्कुलिरिति । एतच्च ‘आरोहतं दर्शतं शक्करीमम्’ इत्यादिमच्चव्याख्यायां स्पष्टम् । ‘शक्करी छन्दसो मेदे नदीमेखलयोरपि’ इति मेदिनी ॥—शीङ्—। शीङ् स्वप्ने, कुश आह्वाने रोदने च, रुह वीजजन्मनि प्रादुर्भावे च, जि जये, क्षि निवासगत्योः, सृ गतौ, धृ धारणे
उ553 · Uṇ 9.4.113
शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् ॥ उ५५३ ॥
śīṅkruśiruhijikṣisṛdhṛbhyaḥ kvanip
Siddhānta-kaumudī
शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।
उ554 · Uṇ 9.4.114
ध्याप्योः संप्रसारणं च ॥ उ५५४ ॥
dhyāpyoḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
धीवा कर्मकरः । पीवा स्थूलः ।
Tattvabodhinī
NSP p. 565
—ध्याप्योः—। ध्यै चिन्तायाम्, प्यैङ् वृद्धौ, आभ्यां क्वनिप्सात्संप्रसारणं च । धातोर्हल इति दीर्घः ॥—अदेः—। अद भक्षणेऽस्मात्कनिप् धकारश्चान्तादेशः । अध्वा मार्गः ॥—प्र ईरः—। ईर गतौ, शट्टु शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्सात्तस्य तुडागमश्च ॥—प्रेत्वरीति । स्त्रियाम् ‘वनो र च’ इति ङीव्रौ
उ555 · Uṇ 9.4.115
अदेर्ध च ॥ उ५५५ ॥
aderdha ca
Siddhānta-kaumudī
अध्वा ।
उ556 · Uṇ 9.4.116
प्र ईरशदोस्तुट् च ॥ उ५५६ ॥
pra īraśadostuṭ ca
Siddhānta-kaumudī
प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।
उ557 · Uṇ 9.4.117
सर्वधातुभ्य इन् ॥ उ५५७ ॥
sarvadhātubhya in
Siddhānta-kaumudī
पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।
Tattvabodhinī
NSP p. 565
— सर्वधातुभ्य इन् । डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसनं च, वल संवरणे, वट वेष्टने, यज देवपूजादौ, कासृ दीप्तौ, यती प्रयत्ने । ‘यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्’ इति मेदिनी ॥ मल मल्ल धारणे, केल चलने भ्वादिः, केला विलासे कण्ड्वादिः, किल श्वैत्यक्रीडनयोस्तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने, दुनदि समृद्धौ, कल शब्दसंख्यानयोः । ‘गाङ्कुटादिभ्यः—’ इति डित्त्वाद्गुणाभावमाशङ्क्याह—वाहुलकादिति । ‘कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्यामेदप्रकर्षयोः’ इति मेदिनी । ‘वोधिः पुंसि समाधेश्च मेदे पिप्पलपादपे’ इति च । ‘नन्दिर्ध्यूताङ्ग आनन्दे स्त्री नन्दिकेश्वरे पुमान्’ इति च । इह इन्नित्येव सूत्रम् । सर्वधातुभ्य इति तु प्रक्षिप्तं व्यर्थं च । एवं सर्वधातुभ्यष्ट्रन्नित्यादावपि वोध्यमित्याहुः । अत एव दशपाद्यां ष्ट्रन्नित्येव पठितमिति दिक्
उ558 · Uṇ 9.4.118
हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च ॥ उ५५८ ॥
hṛpiṣiruhivṛtividichidikīrtibhyaśca
Siddhānta-kaumudī
हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।
Tattvabodhinī
NSP p. 565
—हृपिषि—। हृञ् हरणे, पिष्ट्ल संचूर्णने, रुह वीजजन्मनि प्रादुर्भावे च, वृतु वर्तने । वर्तिर्दीपोपकरणम् । विद सत्तायाम् । विद्यते पुण्यमस्यामिति वेदिः ‘वेदिः परिष्कृता भूमिः’ । छिदिर् द्वैधीकरणे, कृत संशब्दने, हरतेः कीर्तयतेश्च ‘अच इः’ इति प्राप्ते इतरेषां तु ‘इगुपधात्—’ इति कप्रत्यये प्राप्ते वचनमिदम् । ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुक्राहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः । ‘हरिश्चन्द्रार्कवाताश्चशुकभेकयमादिषु । कपौ सिंहे हरेऽजेशौ शक्रे लोकान्तरे पुमान् । वाच्यवत्पिङ्गहरितोः’ इति मेदिनी । ‘वर्तिर्भेषजनिर्माणे नयनाज्जनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु योषिति’ इति मेदिनी । ‘वेदिः स्यान्मण्डले पुमान् । स्त्रियामङ्कुलिमुद्रायां स्यात्परिष्कृतभूतले’ इति च । ‘कीर्तिः प्रसादयशसोर्विकारे कर्दमेऽपि च’ इति विश्वः
उ559 · Uṇ 9.4.119
इगुपधात्कित् ॥ उ५५९ ॥
igupadhātkit
Siddhānta-kaumudī
कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।
Tattvabodhinī
NSP p. 565
—इगुपधात्—। कृष विलेखने, ऋषी गतौ, शुच शोके, लिप उपदेहे, इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित् । केचित्तु इगुपधात्किरिति पठित्वा इणोऽपवादः किप्रत्यय इति व्याचख्युः । तन्न । प्रत्ययस्वरेण ऋष्यादीनामन्तोदात्ततापत्तेः । न चेष्टापत्तिः । ‘अग्निः पूर्वेभिर्ऋषिभिः’ ‘ऋषिर्विप्रः काव्येन’ ‘शुचिर्विप्रः शुचिः कविः’ इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात् । न चैवम् ‘अक्षैमां दीव्यः कृपिमित्कृषस्व’ इत्यादौ कृषिशब्दस्यान्तोदात्तता न सिद्ध्येदिति वाच्यम् । ‘इक्ष्वादिभ्यः’ इतीक्प्रत्यये सत्यन्तोदात्तत्वसिद्धेः । ‘ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानयम्’ इति मेदिनी । शुचिर्प्राप्त्याग्निभृङ्गारेष्वाषाढे शुद्धमन्त्रिणि’ इति च
उ560 · Uṇ 9.4.120
भ्रमेः संप्रसारणं च ॥ उ५६० ॥
bhrameḥ saṃprasāraṇaṃ ca
Siddhānta-kaumudī
भृमिर्वातः । बाहुलकाद्भ्रमिः ।
Tattvabodhinī
NSP p. 565
—भ्रमेः । भ्रमु अनवस्थानेऽस्मादिन्स्यात् स च कित् संप्रसारणं च । ‘भृमिं चिद्यथा वसवः पुषन्ति’ इति मन्त्रे भृमिं भरणशीलं दरिद्रं जनमिति वेदभाष्यम्
उ561 · Uṇ 9.4.121
क्रमितमिशतिस्तम्भामत इच्च ॥ उ५६१ ॥
kramitamiśatistambhāmata icca
Siddhānta-kaumudī
क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।
Tattvabodhinī
NSP p. 565–566
—क्रमि—। क्रमु पादविक्षेपे, तमु काङ्क्षायाम्, शतिस्तम्भौ सौत्रौ, एभ्य इन्स्यात्स च कित् । एषामत एकारादेशश्च । क्रिमिः क्षुद्रजन्तुः । ‘क्रमिर्ना क्रिमिवत्कीटे लाक्षायां क्रिमिले खरे’ इति विश्वमेदिन्यौ । ‘पारतं पारदं वास्रो वासरः क्रिमिवत्क्रमिः’ इति द्विरूपकोशः ॥— तिभिरिति । ‘अस्ति भत्स्यस्तिमिर्नाम तथा चास्ति तिभिरितिः । तिभिरितिलिलोऽप्यति तद्विलोऽप्यस्ति लक्ष्मण’ इति रामायणे सप्तमे काण्डे रामवाक्यम् । केचित्तु ‘तद्विलोऽप्यस्ति राघव’ इति पठित्वा राघवं प्रति लक्ष्मणवाक्यमित्याहुः । ‘शितिः कृष्णे सिते भूजे’ इति विश्वः । ‘शितिभूजे ना सितासितयोस्त्रिषु’ इति मेदिनी ॥—मनेः—। मन ज्ञाने अस्मादिन्यात्स च किद् अकारस्योकारादेशश्च स्यात् । मन्यते जानातीति मुनिः । ‘मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने’ इति मेदिनी ॥—वर्णेः—। अस्मादिन्यात्स च कित् ॥—वसि—। वस निवासे, डुवप् वीजसन्ताने, यज देवपूजादौ, राजृ दीप्तौ, ब्रज गतौ, षट् विशरणादौ, हन हिंसागत्योः, वाश शब्दे, वद व्यक्तायां वाचि प्यन्तः, वृज् वरणे प्यन्तः । वासिरिति दन्त्यसकारवान् । सूत्रेऽष्टमस्तु तालव्यशकारवान् । वास्यादीनामिव करणानां कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः । वास्यर्थमित्यत्र ‘स्कोः—’ इति सलोपः प्राप्नोतीति भाष्यम् । वापिरुदकाधारः । वापी प्रसिद्धा । ‘राजिः स्त्री पङ्क्तिरेखयोः’ इति मेदिनी । इह वादीति प्यन्तनिर्देशेऽपि वाहुलकादप्यन्तादपि इज् । तथा च भूवादिसूत्रे वदन्तीति वादयो वाचका इति न्यासकारादयः । ‘वारि स्मृता सरस्वत्यां वारि हीमेदनीरयोः’ । ‘वारी घटीभवन्धन्योः’ इति विश्वः । हृज् हरणेऽस्मादिज् । ‘हारिः पथिकसन्तानचूतादिभङ्गयोः स्त्रियाम्’ इति मेदिनी ॥—नहः—। णह वन्धनेऽस्मादिज् स्यात् भश्चान्तादेशः ॥—स्त्रियामिति । लिङ्गानुशासने स्त्रियामित्यधिकारे ‘नाभिरक्षत्रिये’ इति सूत्रितलादिति भावः ॥—पुंस्यपीति । तथा च मेदिनी ‘नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्रिषु कस्त्वारिकामदे’ इति । भारविश्च पुंसि प्रायुङ्क्त, ‘समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीविनाभिभिः’ इति ॥—कृषेः—। कृष विलेखनेऽस्मादिज् वृद्धिश्च ‘इको गुणवृद्धी’ इतीकः स्थाने एव वृद्धिरित्युदाहरति—कार्षिरिति । भाषायां तु कृषिरित्येव ॥—अः—। शॄ हिंसायामस्माच्छकुनौ वाच्ये इञ्स्यात् । ‘शारिनांक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च’ इति मेदिनी ॥ कपिलकादिलाल्ललम् । ‘शालिस्तु कलमादौ च गन्धमार्जारके पुमान्’ इति मेदिनी ॥—क्रियः—। करोतेरिञ्स्यादुदीचां मते कारुषु वाच्येषु । ‘कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि’ इति मेदिनी ।—जनि—। जनी प्रादुर्भावे, घस्ल अदने, आभ्यामिण् ‘जनिवध्योश्च’ इति वृद्धिप्रतिषेधः । जनिरिति स्त्रीलिङ्गम् । ‘कृदिकारात्—’ इति पक्षे डीप् । ‘जनी सीमन्तिनीवध्योरुत्पत्तावौषधीभिदि’ इति मेदिनी ॥—अजि—। अज गतिक्षेपणयोः, अत सातत्यगमने । वाहुलकादजेवीभावो न ॥ पादे चोपपदे ‘अज्यतिभ्यामिण्’ । ‘पादस्य पदाज्यातिगोपहतेषु’ इति पदादेशः । पदाजिः पादचारी । ‘पदातिपत्तिपदगपादातिकपदाजयः । पद्रक्ष पथिकश्च’ इत्यमरः ॥—अशिपणाय्योः। अशिश्च पणायिश्चाशिपणाय्यौ तयोरिति विग्रहः । अश्व व्याप्तौ, पण व्यवहारे आयप्रत्यर्यान्तः, आभ्यामिण् स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भवतः । ‘राशिमेषादिपुञ्जयोः’ इति मेदिनी ॥—‘वातेः—। वा गतिगन्धनयोरस्मादिण् स्यात् । डित्त्वादिलोपः ॥—प्रे—। प्रपूर्वाद्धरतेः कूपे वाच्ये इण् । ‘पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा’ इत्यमरः ॥—नौ—। व्येज् संवरणे । ‘स्त्रीकटीवल्लवन्धेऽपि नीवी परिपणेऽपि च’ इत्यमरः । परिपणो मूलधनम्
उ562 · Uṇ 9.4.122
मनेरुच्च ॥ उ५६२ ॥
manerucca
Siddhānta-kaumudī
मुनिः ।
उ563 · Uṇ 9.4.123
वर्णेर्बलिश्चाहिरण्ये ॥ उ५६३ ॥
varṇerbaliścāhiraṇye
Siddhānta-kaumudī
वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।
उ564 · Uṇ 9.4.124
वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् ॥ उ५६४ ॥
vasivapiyajirājivrajisadihanināśivāśivāribhya iñ
Siddhānta-kaumudī
वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।
उ565 · Uṇ 9.4.125
नहो भश्च ॥ उ५६५ ॥
naho bhaśca
Siddhānta-kaumudī
नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।
उ566 · Uṇ 9.4.126
कृषेर्वृद्धिश्छन्दसि ॥ उ५६६ ॥
kṛṣervṛddhiśchandasi
Siddhānta-kaumudī
कार्षिः ।
उ567 · Uṇ 9.4.127
श्रः शकुनौ ॥ उ५६७ ॥
śraḥ śakunau
Siddhānta-kaumudī
शारिः । शारिका ।
उ568 · Uṇ 9.4.128
कृञ उदीचां कारुषु ॥ उ५६८ ॥
kṛña udīcāṃ kāruṣu
Siddhānta-kaumudī
कारिः शिल्पी ।
उ569 · Uṇ 9.4.129
जनिघसिभ्यामिण् ॥ उ५६९ ॥
janighasibhyāmiṇ
Siddhānta-kaumudī
जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।
उ570 · Uṇ 9.4.130
अज्यतिभ्यां च ॥ उ५७० ॥
ajyatibhyāṃ ca
Siddhānta-kaumudī
आजिः संग्रामः । आतिः पक्षी ।
उ571 · Uṇ 9.4.131
पादे च ॥ उ५७१ ॥
pāde ca
Siddhānta-kaumudī
पदाजिः । पदातिः ।
उ572 · Uṇ 9.4.132
अशिपणाय्यो रुडायलुकौ च ॥ उ५७२ ॥
aśipaṇāyyo ruḍāyalukau ca
Siddhānta-kaumudī
अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।
उ573 · Uṇ 9.4.133
वातेर्डिच्च ॥ उ५७३ ॥
vāterḍicca
Siddhānta-kaumudī
विः पक्षी । स्त्रियां वीत्यपि ।
उ574 · Uṇ 9.4.134
प्रे हरतेः कूपे ॥ उ५७४ ॥
pre harateḥ kūpe
Siddhānta-kaumudī
प्रहिः कूपः ।
उ575 · Uṇ 9.4.135
नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ उ५७५ ॥
nau vyo yalopaḥ pūrvasya ca dīrghaḥ
Siddhānta-kaumudī
व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।
उ576 · Uṇ 9.4.136
समाने ख्यः स चोदात्तः ॥ उ५७६ ॥
samāne khyaḥ sa codāttaḥ
Siddhānta-kaumudī
समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।
Tattvabodhinī
NSP p. 566–567
—समाने—स्था प्रकथने ॥—इण् स्यादिति । यत्तृज्ज्वलदत्तेनोक्तमिन् स्यात्स चोदात्त इति । तन्न । संनिहितेन ‘जनिवसिभ्यामिण्’ इत्यनेन ‘वसिवपियजी’त्यादिना विहितस्येनो विच्छिन्नत्वात् । यदपि तेनैव ‘नौ व्यः’ इति पूर्वसूत्रे उक्तमिन्नानुवर्तते न त्विण् । उत्तरसूत्रे उदात्तवचनाज्ज्ञापकादिति । तदपि न । स चोदात्त इति हि नायं धातोः परत्र विहितं प्रत्ययं निर्देष्टुं तच्छन्दः किंतु समानशब्दस्य स्थाने विधीयमानमादेशं निर्देष्टुं शब्दस्वरूपपरः । तथा च कथं ज्ञापकता स्यात् । यदपि स इन् उदात्त इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं तदपि न । सभावविधायकस्याभावात् । यदपि स्वरमञ्जरीकारादिभिरुक्तं ‘समानस्य च्छन्दसि’ इति सूत्रेण सभाव इति तदपि न, लोके सखिशब्दस्यासाधुखा-पत्तेः । अपि च ‘सखा सखायमव्रवीत्’ ‘सखायस्त्वा ववृमहे’ । ‘सखा सखिभ्य ईज्यः’ इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवं च इनुदात्त इत्युज्ज्वलदत्तादिव्याख्यानं वेदवार्तानभिज्ञलप्रयुक्तमेवेति दिक् ॥—आङि—ध्रिन् सेवायाम्, हन हिंसागत्योः । अमरोक्तिमाह—स्त्रिय इति । एवं च ‘सुप्रातसुश्व—’ इति सूत्रे चतुरश्रेति तालव्यपाठः संगच्छत एव । तत्सूत्रे केषांचिद्दन्त्यपाठस्तु एतत्सूत्रापर्यालोचनामूलक एवेत्यवधेयम् । नन्वेवं चतुरस्रमिति दन्त्यप्रयोगस्य कथं निर्वाह इति चेदत्राहुः । अकारान्तेन दन्त्यगर्भिणास्रशब्देन विग्रहे तत्प्रयोगः साधीयान् । न च तादृशे शब्दे विप्रतिपत्तव्यम् । ‘असः’ कोणे कचे पुंसि ल्लीवमश्रुणि शोणिते’ इति मेदिनीकोशादिति । ‘अहिर्वृत्रासुरे सर्पे’ इति मेदिनी
उ577 · Uṇ 9.4.137
आङि श्रिहनिभ्यां ह्रस्वश्च ॥ उ५७७ ॥
āṅi śrihanibhyāṃ hrasvaśca
Siddhānta-kaumudī
इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।
उ578 · Uṇ 9.4.138
अच इः ॥ उ५७८ ॥
aca iḥ
Siddhānta-kaumudī
रविः । पविः । तरिः । कविः । अरिः । अलिः ।
Tattvabodhinī
NSP p. 567
—अच इः । अजन्ताद्धातोरिः स्यात् । रु शब्दे, पून् पवने, पविर्वज्रम् । तॄ रुवनतरणयोः । तरिर्वज्रादिस्था-पनभाण्डम् । ‘स्त्रियां नौस्तरणिस्तरिः’ इत्यमरः । कु शब्दे । ‘कविर्वाल्मीकशुक्रयोः । सूरां काव्यकरे पुंसि स्याच्छलीने तु योषिति’ इति मेदिनी ॥ ऋ गतौ । अरिः शत्रुः । कपिलकादिलाद्वैकल्पिकं ललम् । अलिर्भ्रमरः ॥—खनिः—खनु अवदारणे । कष खषेति दण्डके हिंसार्थकः । अज गतिक्षेपणयोः, असु क्षेपणे, वस आच्छादने, वन षण संभक्तौ, वनु याचने, षणु दाने, ध्वन शब्दे, ग्रन्थ वन्धने उभौ चुरादी, चल कम्पने, एभ्य इः स्यात् । ‘खनिः स्त्रियामाकरः स्यात्’ इत्यमरः । ण्यन्तात् ‘अच इः’ इति इप्रत्यये खानिरपि । ‘खनिरेव मता खानिः’ इति द्विरूपकोशः । ‘ग्रन्थिस्तु ग्रन्थिपर्णे ना वन्धे रुग्मेदपर्वणोः’ इति मेदिनी । ‘ग्रन्थिनां पर्वपरुषी’ इत्यमरः ॥—वनिरग्निरिति । वनु याचने इत्यस्मादिप्रत्यये वनिर्याज्ञा इत्याहुः ॥—चरिः पशुरिति । चरिभ्यश्चेति पाठान्तरम् । चर गतौ, चरतिर्भक्षणेऽपि । चरिः पशुः ॥—वृत्तेः । वृतु वर्तनेऽस्मादिः स्यात् । वाहुलकाल्लोकेपि ‘साज्यं त्रिवर्तिसंयुक्तम्’ इति प्रयोगः । ‘वर्तिर्भेषजनिर्माणे नयना-ज्ञनलेखयोः । गात्रानुलेपनीदीपदशादीपेशु योषिति’ इति मेदिनी
उ579 · Uṇ 9.4.139
खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ॥ उ५७९ ॥
khanikaṣyajyasivasivanisanidhvanigranthicaribhyaśca
Siddhānta-kaumudī
खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।
उ580 · Uṇ 9.4.140
वृतेश्छन्दसि ॥ उ५८० ॥
vṛteśchandasi
Siddhānta-kaumudī
वर्तिः ।
उ581 · Uṇ 9.4.141
भुजेः किच्च ॥ उ५८१ ॥
bhujeḥ kicca
Siddhānta-kaumudī
भुजिः ।
Tattvabodhinī
NSP p. 567–568
—भुजेः—भुज पालनाभ्यवहारयोरस्मादिः स्यात्स कित् । भुजिरग्निः ॥—कॄगॄशॄ—कॄ विक्षेप, गॄ निगरणे, शॄ हिंसायाम्, पॄ पालनपूरणयोः, कुट कौटिल्ये, भिदिर् विदारणे, छिदिर् द्वैधीकरणे । ‘वराहः सूकरो वृष्टिः कोलः पोत्री किरिः किटिः’ इत्यमरः । ‘इगुपधज्ञाप्रीकिरः—’ इति कप्रत्यये किर इत्यकारान्तोऽपि । ‘लचि लचः किरोपि स्यात् किरौ प्रोक्तः पथः पथि’ इति द्विरूपकोशः । ‘गिरिनां नेत्ररुग्भिदि । अद्रौ गिरिजके योषिद्गीणौ पूज्ये पुनस्त्रिषु’ इति मेदिनी ॥—कुटिरिति । डीषि तु कुटी । ‘कुटीशमीशण्डाभ्यो रः’ कुटीरः । ‘कुटिः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे । कुटी स्यात्कुम्भदास्यां च चुरायां चित्रगुच्छके’ इति मेदिनी ॥—कुण्डि—कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च । ‘कपिनां सिंहके शाखामृगे च मधुसूदने’ इति च ॥—सर्वधांतुभ्यः—इकृन् करणे, चर गतौ, चरतिर्भक्षणेऽपि, जन जनने, भस भर्त्सनदीस्योः, शॄ हिंसायाम्, शमं सुखे, ष्ठा गतिनिवृत्तौ, छद अपवारणे चुरादिः, त्रैड् पालने । सुष्ठु त्रायते इति सुत्रामा इन्द्रः । ‘कर्मव्याप्ये क्रियायां च पुंनपुंक-योर्मतम्’ इति रुद्रः । ‘चर्म वृत्तौ च फलके’ इति मेदिनी ॥—वृंहेः—वृद्धि वृद्धावसान्मनिनुमो नकारस्याकारे ऋकारस्य यणादेशः । ‘ग्रह्म तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगमिदोर्विप्रे’ इति मेदिनी ॥—अशि—अश्व व्याप्तौ संघाते च, शक्तृ शक्तौ, शक्मा इन्द्रः । छन्दसीत्यस्य शकिना संवन्धो न लशिना । अत एव ‘अश्मानमारोपयतः स्मरारेः’ इति प्रयोगः । ‘हन् हरणे’ इत्यन् धारणपोषणयोः, धृ धारणे, सृ गतौ, स्तृन् आच्छादने, शॄ हिंसायाम् ॥—हरिमेति—एतच्चोज्ज्वलदत्तरीत्योक्तम् । दशपाद्यां तु शॄणातिर्न पत्र्यते तत्स्थाने सुधातुं प्रक्षिप्य प्रत्ययं च दीर्घादि नितं च कृत्वा, स्तुसभ्यामीमन्निति पत्र्यते छन्दोग्रहणं चानुवर्तितम् । युक्तं चैतत् । ‘पिपृतां नो भरीमभिः’ । ‘वातस्य सर्गे अभवत्सरीमणि’ ‘स्तीर्णं वर्हिः सुष्टरीमा जुषाणा’ । ‘यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिः’ इत्यादिमन्त्राणां तद्भाव्यस्य चानुगुणत्वात् । उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेर्न्याय्यत्वाच्च । अत एव वेञः सर्वत्रेति सूत्रे सर्वत्रग्रहणं करिष्यति ॥—जनी—जन जनने, मृद् प्राणत्वागे ॥—वेञः—। वेञ् तन्तुसन्ताने ॥—निपात्यन्त इति । मनिनन्ता इति शेषः । न्ना आभ्यासे । मलोपो नाभावो वा । नाम संज्ञा । षिञ् वन्धने, ‘सीमसीमे त्रियामुभे’ इत्यमरः । व्येञ् संवरणे, रु शब्दे, रोम गात्रकेशः । छूञ् छेदने । लोम स एव । पा पाने युगागमः । ध्ये चिन्तायां वाहुलकादन्येभ्योऽपि । यक्ष पूजायाम् । ‘क्षयः शोषध्य यक्ष्मा च’ इत्यमरः । धू प्रेरणे, सोमा चन्द्रः । डुधाञ् धारण-पोषणयोः । ‘धाम देशे गृहे रदमौ स्थाने जन्मप्रभावयोः’ इति मेदिनी
उ582 · Uṇ 9.4.142
कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ॥ उ५८२ ॥
kṝgṝśṝpṝkuṭibhidichidibhyaśca
Siddhānta-kaumudī
इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।
उ583 · Uṇ 9.4.143
कुडिकम्प्योर्नलोपश्च ॥ उ५८३ ॥
kuḍikampyornalopaśca
Siddhānta-kaumudī
कुडि दाहे । कुडिर्देहः । कपिः ।
उ584 · Uṇ 9.4.144
सर्वधातुभ्यो मनिन् ॥ उ५८४ ॥
sarvadhātubhyo manin
Siddhānta-kaumudī
क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्मन्- {SK 2915} इति ह्रस्वः । छद्म । सुत्रामा ।
उ585 · Uṇ 9.4.145
बृंहेर्नोच्च ॥ उ५८५ ॥
bṛṃhernocca
Siddhānta-kaumudī
नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।
उ586 · Uṇ 9.4.146
अशिशकिभ्यां छन्दसि ॥ उ५८६ ॥
aśiśakibhyāṃ chandasi
Siddhānta-kaumudī
अश्मा । शक्मा ।
उ587 · Uṇ 9.4.147
हृभृधृसृस्तृशॄभ्य इमनिच् ॥ उ५८७ ॥
hṛbhṛdhṛsṛstṛśṝbhya imanic
Siddhānta-kaumudī
हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।
उ588 · Uṇ 9.4.148
जनिमृङ्भ्यामिमनिन् ॥ उ५८८ ॥
janimṛṅbhyāmimanin
Siddhānta-kaumudī
जनिमा जन्म । मरिमा मृत्युः ।
उ589 · Uṇ 9.4.149
वेञः सर्वत्र ॥ उ५८९ ॥
veñaḥ sarvatra
Siddhānta-kaumudī
छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।
उ590 · Uṇ 9.4.150
नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् ॥ उ५९० ॥
nāman sīman vyoman roman loman pāpman dhyāman
Siddhānta-kaumudī
सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।
उ591 · Uṇ 9.4.151
मिथुने मनिः ॥ उ५९१ ॥
mithune maniḥ
Siddhānta-kaumudī
उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।
Tattvabodhinī
NSP p. 568
—मिथुने—। शृ हिंसायाम्, सुप्र शृणातिं इति सुशर्मा राजविशेषः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम् । मनिनि तु मध्योदात्तं स्यात् ॥—साति—। षोऽन्त-कर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतौ स्तः । स्यति दुःखयति दुरध्येयत्वात्साम । ‘साम क्लीवमुपायस्य भेदे वेदान्तरेऽपि च’ इति मेदिनी । ‘आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीरत्रह्मणोरपि’ इति च ॥—हनि—। हन हिंसागत्योः, मश शब्दे रोषकृते च । ‘मक्षिका भम्भराली स्यात्’ इति हारावली
उ592 · Uṇ 9.4.152
सातिभ्यां मनिन्मनिणौ ॥ उ५९२ ॥
sātibhyāṃ maninmaniṇau
Siddhānta-kaumudī
स्यति । साम । सामनी । आत्मा ।
उ593 · Uṇ 9.4.153
हनिमशिभ्यां सिकन् ॥ उ५९३ ॥
hanimaśibhyāṃ sikan
Siddhānta-kaumudī
हंसिका हंसयोषिति । मक्षिका ।
उ594 · Uṇ 9.4.154
कोररन् ॥ उ५९४ ॥
koraran
Siddhānta-kaumudī
कवरः ।
Tattvabodhinī
NSP p. 568
—कोररन् । कु शब्दे । कवरः पाठकः । ववयोरैक्यात्कवरी केशविन्यासः । ‘जानपद—’ इति डीष् । अन्यत्र कवरा ॥—गिरः—। गृ निगरणे । केचित्तु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्य डीडो डप्रत्यये पृषोदरादित्वाद्गरुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति
उ595 · Uṇ 9.4.155
गिर उडच् ॥ उ५९५ ॥
gira uḍac
Siddhānta-kaumudī
गरुडः ।
उ596 · Uṇ 9.4.156
इन्देः कमिन्नलोपश्च ॥ उ५९६ ॥
indeḥ kaminnalopaśca
Siddhānta-kaumudī
इदम् ।
Tattvabodhinī
NSP p. 568
—इन्देः—। इदि परमैश्वर्ये । उज्ज्वलदत्तस्तु कमिनिति नितं पपाठ तच्चिन्त्यम् । ‘इदं त्यत्पात्र-मिन्द्रपानम्’ । ‘इदन्ते सोम्यं मधु’ इत्यादौ नित्स्वराभावात् । दशपाद्यां तु ‘इणो दमक्’ इति सूत्रितम् । इदमिति सर्वनामशब्दोऽयं संनिहितपरामर्शी
उ597 · Uṇ 9.4.157
कायतेर्डिमिः ॥ उ५९७ ॥
kāyaterḍimiḥ
Siddhānta-kaumudī
किम् ।
Tattvabodhinī
NSP p. 568
—कायतेः । कै गै शब्दे । प्रयोजनाभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरि-कार उच्चारणार्थः । डकारस्तु टिलोपार्थः । दशपाद्यां तु मान्तमेव डिमिति सूत्रितम् । किमिति सर्वनाम
उ598 · Uṇ 9.4.158
सर्वधातुभ्यः ष्ट्रन् ॥ उ५९८ ॥
sarvadhātubhyaḥ ṣṭran
Siddhānta-kaumudī
वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्- {SK 2915} इति ह्रस्वत्वम् । छादनाच्छत्रम् ।
Tattvabodhinī
NSP p. 568
—सर्वधा-तुभ्यः—। दशपाद्यां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेन द्रुतित्येव सूत्रितम् । अत एवाधिकं प्रक्षिप्तमित्याहुः । वस निवासे, असु क्षेपणे, शसु हिंसायाम्, छद अपवारणे ण्यन्तः । ‘अस्त्रं प्रहरणे चापे करवाले नपुंसकम्’ इति मेदिनी । पत्ल्ल गतौ । ‘पत्रं तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः’ इति मेदिनी । पा पाने । पात्रम् । षित्वान् डीष् ‘पात्र्यमत्रे त्रिषु क्लीवं सुवादौ राजमन्त्रिणि । तीरद्वयान्तरे योग्ये’ इति मेदिनी । दंश दशने च, ‘त्रश्च—’ आदिना षत्वे द्युत्वं षितां डीषोऽनित्यत्वाद्याप् । दंष्ट्रा ॥—भ्रसजि—। भ्रस्ज पाके, गम्ल्ल गतौ, णम प्रहृत्वे शब्दे च, हन हिंसागत्योः, विश प्रवेशने, अश्ला, व्याप्तौ, एभ्यः द्रून् स्यादेपां वृद्धिश्च
उ599 · Uṇ 9.4.159
भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च ॥ उ५९९ ॥
bhrasjigaminamihaniviśyaśāṃ vṛddhiśca
Siddhānta-kaumudī
भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।
Tattvabodhinī
alignment inferredNSP p. 568–569
—भ्राष्ट्र इति । संयोगादिलोपः । ‘त्रश्च’ इति षत्वे द्युत्वम् । ‘क्लीवे-ऽम्बरीषं भ्राष्ट्रो ना’ इत्यमरः । वैष्ट्रं विष्टपम् ॥—दिवेः—। दिवु कीडादावस्यात् द्रून् स्यात् द्युदादेशो वृद्धिश्च धातोः ॥—उषि—। उष दाहे, खनु, अवदारणे, आभ्यां द्रून् कित्स्यात् । उष्ट्रः कमेलकः । ‘उष्ट्रे कमेलकमयमहाज्ञाः’ इत्यमरः । —सिवि—। षिवु तन्तुसन्ताने, मुच्यु मोक्षणे, आभ्यां द्रून्कित्स्यात् टेरुकारादेशश्च । सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्या-मेरचा रूपसिद्धेराद्युदात्तार्थमिदं सूत्रम् । न च घना तत्सिद्धिः ‘एरच्’ इत्यस्य घनो वाधकत्वात् । ‘सूत्रं तु सूचनाप्रन्थे सूत्रतन्तुव्यवस्थयोः’ इति विश्वः ॥—अमि—। अम गतिशब्दसंभक्तिषु, चिञ् चयने, निमिदा स्नेहने, शसु हिंसायाम् ॥—आन्त्रामिति—। ‘अनुनासिकस्य—’ इति दीर्घः । ‘श्रोणिलम्बिपुरुषान्त्रमेखलाम्’ इति कालिदासः । ‘आलेख्याश्वर्ययो-द्वित्रम्’ इत्यमरः । ‘मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि’ इति मेदिनी । ‘शस्त्रं लोहास्त्रयोः क्लीवं क्षुरिकायां तु योषिति’ इति च । प्रत्ययस्वरेणैतेऽन्तोदात्ताः । ‘शुन आन्त्राणि पेचे’ । ‘चित्रं देवावाम्’ । ‘मित्रं नृत्यम् Gvadhanta शस्त्रस्य शस्त्रमसि’ इत्यादि ॥—पुवः । पूष् पवनेऽस्मात्कः स्यात् धातोर्हस्त्वं च । पुनाति स्ववंशानिति पुत्रः । पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे ‘आतोऽनुपसर्गे कः’ इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम्
उ600 · Uṇ 9.4.160
दिवेर्द् युच्च ॥ उ६०० ॥
diverd yucca
Siddhānta-kaumudī
द्यौत्रम् ।
उ601 · Uṇ 9.4.161
उषिखनिभ्यां कित् ॥ उ६०१ ॥
uṣikhanibhyāṃ kit
Siddhānta-kaumudī
उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।
उ602 · Uṇ 9.4.162
सिविमुच्योष्टेरू च ॥ उ६०२ ॥
sivimucyoṣṭerū ca
Siddhānta-kaumudī
सूत्रम् । मूत्रम् ।
उ603 · Uṇ 9.4.163
अमिचिमिदिशसिभ्यः क्त्रः ॥ उ६०३ ॥
amicimidiśasibhyaḥ ktraḥ
Siddhānta-kaumudī
आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।
उ604 · Uṇ 9.4.164
पुवो ह्रस्वश्च ॥ उ६०४ ॥
puvo hrasvaśca
Siddhānta-kaumudī
पुत्रः ।
उ605 · Uṇ 9.4.165
स्त्यायतेर्डट् ॥ उ६०५ ॥
styāyaterḍaṭ
Siddhānta-kaumudī
स्त्री ।
Tattvabodhinī
NSP p. 569
—स्त्यायतेः— स्यै ष्टयै शब्दसंघातयोः ॥—त्रिति । डित्त्वाद्दिलोपः । ‘लोपो व्योः—’ इति यलोपः । टिलान्डीप् । ‘स्त्री योषिदवला योषा नारी सीमन्तिनी वधूः’ इत्यमरः ॥—गृधृ— गुड् अव्यक्ते शब्दे, धृष् धारणे, वी गतिप्रजनादौ, डुपचष् पाके, वच परिभाषणे, यम उपरमे, षट् विशरणगत्यादौ, क्षद इति सौत्रः । ‘गोत्रा भूगव्ययोगोत्रः शैले गोत्रं कुलाख्ययोः । संभावनीयवोधे च कानन-क्षेत्रवर्त्मसु’ इति मेदिनी ॥‘सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च’ इत्यमरः । ‘सत्रं यज्ञसदादानच्छादनारण्यकैतवे’ इति मेदिनी । क्षत्रं ब्राह्मणानन्तरजातिः
उ606 · Uṇ 9.4.166
गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः ॥ उ६०६ ॥
gudhṛvīpacivaciyamisadikṣadibhyastraḥ
Siddhānta-kaumudī
गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।
उ607 · Uṇ 9.4.167
हुयामाश्रुभसिभ्यस्त्रन् ॥ उ६०७ ॥
huyāmāśrubhasibhyastran
Siddhānta-kaumudī
होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।
Tattvabodhinī
NSP p. 569
—हुयामा— हु दानादनयोः, या प्रापणे, मा माने, शु श्रवणे, भस भर्त्स-नदीत्योः । होत्रमाहुतिः । होत्राशब्द ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यद्छः’ इति सूत्रे हरदत्तादयः । ‘यात्रा तु यातनेऽपि स्याद्रमनोत्सवयोः स्त्रियाम्’ इति मेदिनी । ‘मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षरावयवे स्वल्पे क्लीवं कात्स्येऽवधारणे’ इति च । ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । ‘भस्त्रा चर्मप्रसेविका’ इति च ॥—गमेः— गम्ल गतावस्मात् त्रन्स्याद्धातोराकारान्तादेशश्च । ‘गात्रमङ्गे कलेवरे । स्तम्बेरमाप्रजङ्घादिविभागेऽपि समी-रितम्’ इति विश्वः
उ608 · Uṇ 9.4.168
गमेरा च ॥ उ६०८ ॥
gamerā ca
Siddhānta-kaumudī
गात्रम् ।
उ609 · Uṇ 9.4.169
दादिभ्यच्छन्दसि ॥ उ६०९ ॥
dādibhyacchandasi
Siddhānta-kaumudī
दात्रम् । पात्रम् ।
Tattvabodhinī
NSP p. 569
—दादिभ्यः— दाप् लवने एवमादिभ्यस्त्रन् । दात्रं धान्यादिच्छेदनसाधनम् । पा पाने, योग्यभा-जनयोः पात्रम्’ इत्यमरः । क्षि निवासगत्योः । क्षेत्रमित्यादि योज्यम्
उ610 · Uṇ 9.4.170
भूवादिगॄभ्यो णित्रन् ॥ उ६१० ॥
bhūvādigṝbhyo ṇitran
Siddhānta-kaumudī
भावित्रम् । वादित्रम् । गादित्रमोदनम् ।
Tattvabodhinī
NSP p. 569
—भूवादि— भूसत्तायाम् । भावित्रं त्रैलोक्यम् । वद व्यक्तायां वाचि ण्यन्तः । वादित्रं तूर्यादि । गृ निगरणे ॥—चरेः । चर गतौ, अस्माणित्रन्स्यात् वृत्ते वाच्ये । ‘वृत्तं पद्ये चरित्रे च’ इत्यमरः । ननु इत्रप्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञाद्यणि चारित्रमिति सिद्धौ किमनेनेति चेत् । मैवम् । स्वरे विशेषात् ॥—अशि— अश्ल व्याप्तावेवमादिभ्य इत्रः, त्रैड् पालने एवमादिभ्य उत्रश्च स्यात् ॥—वहित्रमिति । वह प्रापणे ॥—धरित्रीति । धृष् धारणे गौरादित्वात् डीप् ॥—अमेः— अम गतौ अस्मादित्रः स्यात्स च चित् । उत्रस्तु नानुवर्तते अस्वरितत्वात् । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् ॥—आः— इण् गतौ । अस्मादाप्रत्यये गुणे समयादेशः ॥—कपेरिति । कष खषेति दण्डकः । समयानिकषाशब्दौ समीपवाचकौ । वाहुलकात् दुषेः दोषा । दिवेराप्रत्यये वाहुलकादेवास्य गुणाभावे दिवा । स्वदेराप्रत्यये वाहुलकादेव धातोर्धान्तादेशश्च । स्वधेत्यादि ॥—चितेः— चिती संज्ञानेऽस्मात्कणः प्रत्ययः स्यात्पश्चान्तादेशः । अमरोक्तमाह—चिक्रणमिति ॥ सूचेः— सूच पैश्चन्ये चुरादिरस्मा-त्सन् णिलोपः । कुलषत्वे । ‘सूक्ष्मं स्यात्कण्टकेऽभ्यात्मे पुंस्यणौ त्रिषु चाल्पके’ इति मेदिनी ॥—पातेः— पा रक्षणेऽस्मात् डुम्सुन्स्यात् डित्त्वाद्दिलोपः । उकार उच्चारणार्थं इत्युज्ज्वलदत्तः । वस्तुतस्तूगित्कार्यार्थः । सुपुंसीति ‘उगितश्च’ इति डीप् । नकारः स्वरार्थः ‘पुंसोऽसुङ्’ इति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक्सुन् हस्तश्चेति पठितम् । पूजो डुम्सुन्नित्यन्ये । भाष्ये तु सूतेः सप्रत्यये पुमानित्युक्तम् । ‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः’ इति तत्त्वम्
उ611 · Uṇ 9.4.171
चरेर्वृत्ते ॥ उ६११ ॥
carervṛtte
Siddhānta-kaumudī
चारित्रम् ।
उ612 · Uṇ 9.4.172
अशित्रादिभ्य इत्रोत्रौ ॥ उ६१२ ॥
aśitrādibhya itrotrau
Siddhānta-kaumudī
अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।
उ613 · Uṇ 9.4.173
अमेर्द्विषति चित् ॥ उ६१३ ॥
amerdviṣati cit
Siddhānta-kaumudī
अमित्रः शत्रुः ।
उ614 · Uṇ 9.4.174
आः समिण्निकशिभ्याम् ॥ उ६१४ ॥
āḥ samiṇnikaśibhyām
Siddhānta-kaumudī
संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।
उ615 · Uṇ 9.4.175
चित्तेः कणः कश्च ॥ उ६१५ ॥
citteḥ kaṇaḥ kaśca
Siddhānta-kaumudī
बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।
उ616 · Uṇ 9.4.176
सूचेः स्मन् ॥ उ६१६ ॥
sūceḥ sman
Siddhānta-kaumudī
सूक्ष्मम् ।
उ617 · Uṇ 9.4.177
पातेर्डुम्सुन् ॥ उ६१७ ॥
pāterḍumsun
Siddhānta-kaumudī
पुमान् ।
उ618 · Uṇ 9.4.178
रुचिभुजिभ्यां किष्यन् ॥ उ६१८ ॥
rucibhujibhyāṃ kiṣyan
Siddhānta-kaumudī
रुचिष्यमिष्टम् । भुजिष्यो दासः ।
Tattvabodhinī
NSP p. 569
—रुचि— रुच दीप्तावभिप्रीतौ च, भुज पालनादौ । ‘भुजिष्यस्तु स्वतन्त्रे च हस्तसूचकयोः स्त्रियां । दासीगणिकयोः’ इति मेदिनी ॥—वसेः— वस निवासे, वस आच्छादने । ‘वस्तिर्द्वयोर्निरूढे नाभ्यधोभूमिदशासु च’ इति मेदिनी ॥—शास इति । शासु अनुशिष्टौ ॥—अस्यतीति । असु क्षेपणे । ‘अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान्’ इति मेदिनी
उ619 · Uṇ 9.4.179
वसेस्तिः ॥ उ६१९ ॥
vasestiḥ
Siddhānta-kaumudī
वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।
उ620 · Uṇ 9.4.180
सावसेः ॥ उ६२० ॥
sāvaseḥ
Siddhānta-kaumudī
स्वस्ति । स्वरादिपाठादव्ययत्वम् ।
Tattvabodhinī
NSP p. 569–570
—सावसेः । अस् भुवि अस्मात्सावुपपदे तिः स्यात् । वहुलवचनान्न भूभावः ॥—वौ— तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात् । ‘अङ्घुष्टे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्घुलः’ इत्यमरः । ‘स्त्रीपुंसयोर्वितस्तिः स्यात्’ इत्यमरमाला ॥—पदि— पद गतौ, प्रथ प्रख्याने, आभ्यां तिः स्यात्स च नित्र ॥—पत्तिरिति । पदातिः ॥—प्रथितिरिति । प्रख्यातिः ॥— तितुत्रेष्विति । ग्रहादिलादिङागमनिषेधो नेति भावः ॥—दृणातेः । दृ विदारणे । अस्मात्तिः स्याद्धातोर्हस्त्वं च । ‘दृतिश्चमुप्टे मत्स्ये ना’ इति मेदिनी ॥—कृतृ—। कृ विक्षेपे, तृ ह्वनतरणयोः, कृपू सामर्थ्यं । ‘किरीटं मुकुटे न क्षी’ इति हेमचन्द्रः । ‘गोमी कृपीटमुदरे नीरे’ इति विश्वः । दशपाद्यां तु कृतृकृपिकपिभ्य इति पठिला कम्पीट इति चतुर्थ-मुदाहतम् ‘कृपो रो लः’ इत्यत्र न्यासे तु कृतृकृपिभ्यामिति पठ्यते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् । ‘तरतेश्चेति पृथ-क्पठिला तिरीटः कूलवृक्ष’ इति कश्चिद्धाख्यत्
उ621 · Uṇ 9.4.181
वौ तसेः ॥ उ६२१ ॥
vau taseḥ
Siddhānta-kaumudī
वितस्तिः ।
उ622 · Uṇ 9.4.182
पदिप्रथिभ्यां नित् ॥ उ६२२ ॥
padiprathibhyāṃ nit
Siddhānta-kaumudī
पत्तिः । प्रथितिः ।
उ623 · Uṇ 9.4.183
तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च ॥ उ६२३ ॥
titutreṣvagrahādīnāmitīṭ dṛṇāterhrasvaśca
Siddhānta-kaumudī
दृतिः ।
उ624 · Uṇ 9.4.184
कॄतॄकृपिभ्यः कीटन् ॥ उ६२४ ॥
kṝtṝkṛpibhyaḥ kīṭan
Siddhānta-kaumudī
किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।
उ625 · Uṇ 9.4.185
रुचिवचिकुचिकुटिभ्यः कितच् ॥ उ६२५ ॥
rucivacikucikuṭibhyaḥ kitac
Siddhānta-kaumudī
रुचितमिष्टम् । उचितम् । कुचितं परिमितम् ॥ कुटितं कुटिलम् ।
Tattvabodhinī
NSP p. 570
—रुचिवचि—। रुच दीप्तावभिश्रीतौ च, वच परिभाषणे, कुच शब्दे तारे, अथवा कुञ्च कौटिल्याल्पीभावयोः । इकः कित्वात्सूत्रे नलोपेन निर्देशः । कुट कौटिल्ये ॥—उचितमिति । ‘वचिखपि—’ इत्यादिना संप्रसारणम्
उ626 · Uṇ 9.4.186
कुटिकुषिभ्यां क्मलन् ॥ उ६२६ ॥
kuṭikuṣibhyāṃ kmalan
Siddhānta-kaumudī
कुड्मलम् । कुष्मलम् ।
Tattvabodhinī
NSP p. 570
—कुटिकुषि—। ‘कुञ्चलो मुकुले पुंसि न द्वयोर्नरकान्तरे’ इति मेदिनी ॥ कुष निष्कर्षे । कुष्मलं छर्दनम् । विकसितमित्यन्ये
उ627 · Uṇ 9.4.187
कुषेर्लश्च ॥ उ६२७ ॥
kuṣerlaśca
Siddhānta-kaumudī
कुल्मलं पापम् ।
उ628 · Uṇ 9.4.188
सर्वधातुभ्योऽसुन् ॥ उ६२८ ॥
sarvadhātubhyo'sun
Siddhānta-kaumudī
चेतः । सरः । पयः । सदः ।
Tattvabodhinī
NSP p. 570
—सर्वधातुभ्योऽसुन् । दशपाद्यां तु असुन्नित्येव सूत्रम् । चिती संज्ञाने, चित संचेतने चुरादिः, सृगतौ गौरादिलान्डीष् । ‘सरसी तु महासरः’ इति शब्दार्णवः । महान्ति सरसि सरस्य इति भाष्यम् । पय गतौ, पीड् पाने । ‘पयः स्यात् क्षीरनीरयोः’ इति मेदिनी । षट् विशरणादौ । सदः सभा । वर्च दीप्तौ । ‘वचों नपुंसकं रूपे विष्टायामपि तेजसि । पुंसि चन्द्रस्य तनये’ इति मेदिनी । रुदिर् अश्रुविमोचने । ‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी’ इति विश्वः । वी गत्यादिषु । ‘वयः पक्षि-णि वाल्यादौ यौवने च नपुंसकम्’ इति मेदिनी । अन प्राणने । अनो भक्तम् । ‘अनोऽभ्यायःसरसां जातिसंज्ञयोः’ इति टचि तु अदन्तम् । ‘पाकस्थानं महानसम्’ इत्यमरः । तमु ग्लानौ । ‘तमः क्लीवं गुणे शोके संहिकेयान्धकारयोः’ इति रभसः । ‘तमो ध्वान्ते गुणे शोके क्लीवं वा ना विधुतुदे’ इति मेदिनी । षह मर्षणे, ‘सहो वले ज्योतिषि च पुंसि हेमन्तमा-गयोः’ इति मेदिनी । तप संतापे । ‘तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाधयोः’ इति । मह पूजा-याम् । ‘मह उत्सवतेजसोः’ इति मेदिनी ॥—नभ हिंसायां भौवादिकः क्रैयादिकश्च । ‘नभोऽन्तरिक्षं गगनम्’ इत्यमरः । ‘नभं तु नभसा सार्धं तपं तु तपसा सह । सहं च सहसा सार्धं महं च महसा सह । तमेन च तमः प्रोक्तं रजेनापि रजः समम्’ इति द्विरूपकोशः । नन्वसुन्प्रत्यये नभः सहस्तम इत्यादिसान्तशब्दाः सिध्यन्ति पचाद्यचि तु नभं सहं तमं इत्याद्यजन्ता अपि सिध्यन्ति परन्तु रज इति अकारान्तसकारान्तौ नलोपवच्छब्दौ न सिध्यत इति ‘रजेनापि रजः समम्’ इति कोशश्चिन्त्य एवेति चेदत्राहुः । रज रागेऽस्मादसुनि ‘भूरजिभ्यां कित्’ इति वक्ष्यमाणेनासुनः कित्वान्नलोपे रज इति सिध्यति । ‘घज्ये कविधानम्’ इति कप्रत्यये तु रज इत्यदन्तोऽपि सिध्यतीति ॥—रपेः—। रप व्यक्तायां वाचि, अस्मादसुन् स्यादत एकारश्च
उ629 · Uṇ 9.4.189
रपेरत एच्च ॥ उ६२९ ॥
raperata ecca
Siddhānta-kaumudī
रेपोऽवद्यम् ।
Tattvabodhinī
alignment inferredNSP p. 570
—रेपोऽवद्यमिति । ‘अरेपसा तन्वा’ इति मन्त्रे भाष्ये उक्तं नञ्पूर्वकरेपःशब्दस्या-नवद्यवाचकलात् ॥—अशेः—। अश्ल व्याप्तौ संघाते च अस्मादसुन्स्याद्धातोर्युङागमश्च । यशः कीर्तिः ॥—उब्जेः—। उब्ज आर्जवे अस्मादसुन् स्याद्वले वाच्ये वकारस्य लोपश्च । ‘ओजो दीप्ताववष्टम्भे प्रकाशवलयोरपि’ इति मेदिनी ॥—भ्वेः—। दुओश्चि गतिवृद्ध्योः अस्मादसुन्स्यात्संप्रसारणं च
उ630 · Uṇ 9.4.190
अशेर्देवने युट् च ॥ उ६३० ॥
aśerdevane yuṭ ca
Siddhānta-kaumudī
देवने स्तुतौ । यशः ।
उ631 · Uṇ 9.4.191
उब्जेर्बले बलोपश्च ॥ उ६३१ ॥
ubjerbale balopaśca
Siddhānta-kaumudī
ओजः ।
उ632 · Uṇ 9.4.192
श्वेः सम्प्रसारणं च ॥ उ६३२ ॥
śveḥ samprasāraṇaṃ ca
Siddhānta-kaumudī
शवः । शवसी । बालपर्यायोऽयम् ।
उ633 · Uṇ 9.4.193
श्रयतेः स्वाङ्गे शिरः किच्च ॥ उ६३३ ॥
śrayateḥ svāṅge śiraḥ kicca
Siddhānta-kaumudī
श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।
Tattvabodhinī
NSP p. 570
—श्रयतेः—। श्रिञ् सेवायामस्मात्स्वाङ्गे वाच्येऽसुन्स्यात्स च किद्धातोः शिरादेशश्च । ‘उत्तमाङ्गं शिरः शीर्षम्’ इत्यमरः । घज्ये कप्रत्यये तु शिर इत्यदन्तोऽपि शिरोवाची । ‘शिरो-ऽदन्तो रजोवाची रजस्तथा’ इति कोशान्तरम् । ‘पिण्डं दद्याद्रयाशिरे’ इति वायुपुराणे । ‘कुण्डलोद्धृगण्डानां कुमाराणां तरस्विनाम् । निचकर्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्’ इति महाभारतम् ॥—अतेः—। ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च । रपरत्वम् । ‘उरो वत्सं च वक्षश्च’ इत्यमरः
उ634 · Uṇ 9.4.194
अर्तेरुच्च ॥ उ६३४ ॥
arterucca
Siddhānta-kaumudī
उरः ।
उ635 · Uṇ 9.4.195
व्याधौ शुट् ॥ उ६३५ ॥
vyādhau śuṭ
Siddhānta-kaumudī
अर्शो गुदव्याधिः ।
Tattvabodhinī
NSP p. 570–571
—व्याधौ—। अतेरेव व्याधौ वाच्येऽसुन् तस्य सुङागमश्च स्यात् ॥—अर्ण इति । पानीयमित्यर्थः ॥—इणः—। इण् गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुङागमश्च । एनः पापम् ॥—रिचेः—। रिचिर् विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन् ॥—रेक्ण इति । ‘वजोः—’ इति कुत्वे ‘अट्कुप्वाङ्—’ इति णत्वम् । इह दशपादीवृत्तौ नुटं नानुवर्त्य रेकः रेकसी इत्युदाहतम् । तन्न । उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादलात् मण्डकमतौ मात्तमात्मकश्च विसंज्ञादाकादिकल्पना इति विचिन्ति पठि- ला नुटं चानुवर्त्य कित्वाद्गुणाभावे नुटश्चुत्वेन अकारे रिश्वमिति साधितं तल्लोकवेदयोरप्रसिद्धलादुपेक्ष्यम् । ‘नित्यं रेक्णो अमर्त्यः’ ‘परिषयं ह्यरणस्य रेक्णः’ ‘रेक्णः स्वल्पि या वाममेति’ इत्यादिमन्त्रेषु रेक्ण इति शब्दस्य प्रसिद्धलात् । वैदिकनिघण्टौ च सुवर्णपर्यायेषु तथापाठात् वेदभाष्ये तु प्रकृतसूत्रेणैव तस्य साधितलाच्च रेक्ण इति प्रयोग एव साधीयानिति दिक् ॥—चायतेः—। चायृ पूजानिशामनयोः अस्मादन्ने वाच्येऽसुन्स्यात्तस्य नुट् च धातोर्हस्त्वं च यलोपः । ‘चनो दधिष्व पचतः’ ‘सुते दधिष्व नश्वनः’ इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः । एतेन चणोऽन्नमित्युदाहृत्य वाहुलकाण्वलमिति वदन्तो दशपादीवृत्तिकारास्तदनुसारिणः प्रसादकारादयश्च परास्ताः ॥—चूङ्—। वृङ् संभक्तौ, शीङ् स्वप्ने, आभ्यां यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुन्स्यात्तस्य पुङागमश्च ॥—वर्पो रूपमिति । ‘घ्नन् छिश्नदेवाअमि-वर्पसाभूत्’ इत्यादिमन्त्रेषु प्रसिद्धमिदम् । ‘शेपः स्याद्दृषणं पेलम्’ इति सुभूतिचन्द्रः । अकारान्तोऽप्ययम् । शेपपुच्छलाङ्ग-लेषु शुनः’ इति वार्तिके शेप इति निर्देशात् ‘यस्यामुशन्तः प्रहराम शेपम्’ इति वैदिकप्रयोगाच्च
उ636 · Uṇ 9.4.196
उदके नुट् च ॥ उ६३६ ॥
udake nuṭ ca
Siddhānta-kaumudī
अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।
उ637 · Uṇ 9.4.197
इण आगसि ॥ उ६३७ ॥
iṇa āgasi
Siddhānta-kaumudī
एनः ।
उ638 · Uṇ 9.4.198
रिचेर्धने घिच्च ॥ उ६३८ ॥
ricerdhane ghicca
Siddhānta-kaumudī
चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।
उ639 · Uṇ 9.4.199
चायतेरन्ने ह्रस्वश्च ॥ उ६३९ ॥
cāyateranne hrasvaśca
Siddhānta-kaumudī
चनो भक्तम् ।
उ640 · Uṇ 9.4.200
वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च ॥ उ६४० ॥
vṛṅśīṅbhyāṃ rūpasvāṅgayoḥ puṭ ca
Siddhānta-kaumudī
वर्पो रूपम् । शेपो गुह्यम् ।
उ641 · Uṇ 9.4.201
स्रुरीभ्यां तुट् च ॥ उ६४१ ॥
srurībhyāṃ tuṭ ca
Siddhānta-kaumudī
स्रोतः । रेतः ।
Tattvabodhinī
NSP p. 571
—स्रुरीभ्याम्—स्रु गतौ, रीङ् श्रवणे, आभ्यामसुन् तस्य नुट् च स्यात् । ‘स्रोतोऽम्बुवेगेन्द्रिययोः’ इति विश्वः । ‘रेतः शुक्रे पारदे च’ इति मेदिनी ॥—पातेः—। पा रक्षणेऽस्माद्वले वाच्येऽसुन् जुङागमश्च वर्गतृतीयादिः । पुट् चेत्यन्तस्थादिपाठस्तूल्वलदत्तस्य प्रामादिकः । ‘पृथुपाजा अमर्त्यः’ इत्यादिमन्त्रतद्भाष्यविरोधात् ॥—उदके—। पातेरुदके वाच्येऽसुन्स्यात्तस्य थुङागमश्च । ‘कवन्धमुदकं पाथः’ इत्यमरः ॥—अदेः—। अद भक्षणे । ‘भिस्सा स्त्री भक्तमन्धोऽन्नम्’ इत्यमरः । ‘द्विजातिशेषेण यदेतदन्धसा’ इति भारविः ॥—स्कन्देः—। स्कन्दिर् गतिशोषणयोः । अस्मात्स्वाङ्गे वाच्येऽसुन्धश्चान्तादेशः ॥—आपः—आप्लृ व्याप्तौ । अस्मात्कर्माख्यायामसुन् हस्तश्च धातोः । प्रत्ययस्य नुङागमस्तु वा स्यात् । ‘अप्रस्वतीमश्विना’ ‘अपांसि यस्मिन्नधि संदधुः’ ॥—वाहुलकादिति । उपलक्षणं हस्तनुटौ वा स्त इति व्याख्यानस्यापि संभवात् । तथा च श्रुवते ‘कतमोऽपि नपुंसकमाप’ इति कोशमुदाहृत्य ‘सर्वमापोमयं जगत्’ इति प्रयोगो दुर्घटवृत्तौ समर्थितः ॥—रूपे—। रूपे वाच्ये आप्नोतेरसुन् हस्त्वं च धातोः प्रत्ययस्य जुङागमश्च स्यात् ॥—अब्ज इति । ‘झलं जश् झशि’ इति पकारस्य वकारः ॥ उदके—। उदके वाच्ये आप्नोतेरसुन् हस्त्वं च नुमागमो भश्चान्तादेशः ॥—नहेः—। णह वन्धने अस्माद्भ-मने वाच्येऽसुन् भश्चान्तादेशः स्यात् । ‘नभो व्योन्नि नभो मेघे श्रावणे च पतद्वहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृतम्’ इति विश्वः । ‘नभः स्वं श्रावणो नभाः’ इत्यमरः । ‘नभं तु निभसा सार्धम्’ इति द्विरूपकोशादकारान्तोऽपि ॥—इणः—। इणोऽसुन् स्यादपराधे वाच्ये धातोरागादेशश्च । विश्वोक्तिमाह—आग इति ॥—अमेः—। अम गत्यादौ । अस्मादसुन् हुगागमश्च धातोः स्यात् । अमन्ति गच्छन्त्यनेनाधस्तादित्यंहो दुरितम्
उ642 · Uṇ 9.4.202
पातेर्बले जुट् च ॥ उ६४२ ॥
pāterbale juṭ ca
Siddhānta-kaumudī
पाजः । पाजसी ।
उ643 · Uṇ 9.4.203
उदके थुट् च ॥ उ६४३ ॥
udake thuṭ ca
Siddhānta-kaumudī
पाथः ।
उ644 · Uṇ 9.4.204
अन्ने च ॥ उ६४४ ॥
anne ca
Siddhānta-kaumudī
पाथो भक्तम् ।
उ645 · Uṇ 9.4.205
अदेर्नुम् धौ च ॥ उ६४५ ॥
adernum dhau ca
Siddhānta-kaumudī
अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।
उ646 · Uṇ 9.4.206
स्कन्देश्च स्वाङ्गे ॥ उ६४६ ॥
skandeśca svāṅge
Siddhānta-kaumudī
स्कन्दः । स्कन्दसी ।
उ647 · Uṇ 9.4.207
आपः कर्माख्यायाम् ॥ उ६४७ ॥
āpaḥ karmākhyāyām
Siddhānta-kaumudī
कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।
उ648 · Uṇ 9.4.208
रूपे जुट् च ॥ उ६४८ ॥
rūpe juṭ ca
Siddhānta-kaumudī
अब्जो रूपम् ।
उ649 · Uṇ 9.4.209
उदके नुम्भौ च ॥ उ६४९ ॥
udake numbhau ca
Siddhānta-kaumudī
अम्भः ।
उ650 · Uṇ 9.4.210
नहेर्दिवि भश्च ॥ उ६५० ॥
naherdivi bhaśca
Siddhānta-kaumudī
नभः ।
उ651 · Uṇ 9.4.211
इण आग अपराधे च ॥ उ६५१ ॥
iṇa āga aparādhe ca
Siddhānta-kaumudī
आगः पापापराधयोः ।
उ652 · Uṇ 9.4.212
अमेर्हुक्च ॥ उ६५२ ॥
amerhukca
Siddhānta-kaumudī
अंहः ।
उ653 · Uṇ 9.4.213
रमेश्च ॥ उ६५३ ॥
rameśca
Siddhānta-kaumudī
रंहः ।
Tattvabodhinī
NSP p. 571
—रमेश्च । रमेरसुन् स्यात् । हुगागमश्च धातोः । रंहो वेगः । अहिरहिभ्यामसुना सिद्धे अधिरधिभ्यामसुनि अङ्गो रङ्ग इति माभूदिति सूत्रद्वयमिति गोवर्धनः । तथा च ‘स्यान्मध्योष्मचनुर्थलमंहसो रंहसस्तथा’ इति द्विरूपकोशः । एवं च ‘दत्तार्धाः सिद्धसङ्गैर्विदधतु घृणयः शीघ्रमङ्गोविधातम्’ इति ‘रङ्गःसङ्गः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्सन्दनो वः’ इत्यत्र अङ्गो रङ्ग इति घकारपाठोऽनुप्रासरसिकानां प्रामादिक इति वदन्ति
उ654 · Uṇ 9.4.214
देशे ह च ॥ उ६५४ ॥
deśe ha ca
Siddhānta-kaumudī
रमन्तेऽस्मिन् रहः ।
Tattvabodhinī
NSP p. 571
—देशे—। देशे वाच्ये रमेरसुन् हकारश्चान्तादेशः स्यात् । ‘रहस्तत्वे रते गुह्ये’ इति मेदिनी ॥—अश्रि—। अङ्गु गतिपूजनयोः, अङ्गु व्यतिभ्रक्षणकान्तिगतिषु, युजिर् योगे, युज समाधौ, भृजी भर्जने, अङ्गः अङ्गसी अङ्गांसि । अङ्गः अङ्गसी अङ्गांसि । योगः योगसी योगांसि
उ655 · Uṇ 9.4.215
अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च ॥ उ६५५ ॥
añcyañjiyujibhṛjibhyaḥ kuñca
Siddhānta-kaumudī
एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।
Tattvabodhinī
alignment inferredNSP p. 571
—भर्गस्तेज इति । ‘हरः स्मरहरो भर्गः’ इत्यत्र तु भर्गशब्दो घनन्तः पुंलिङ्ग इति वोध्यः । उच्च समवायेऽस्मादसुनि वाहुलकात्कुलम् । न्यङ्कादिलाद्वा । ‘ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसकम्’ इति मेदिनी
उ656 · Uṇ 9.4.216
भूरञ्जिभ्यां कित् ॥ उ६५६ ॥
bhūrañjibhyāṃ kit
Siddhānta-kaumudī
भुवः । रजः ।
Tattvabodhinī
NSP p. 571–572
—भूरञ्जि—। भू सत्तायाम्, रज्ज रागे, आभ्यामसुन्कित्स्यात् । भुवः अन्तरिक्षम् । षष्ठ्यन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः । ‘रजः क्लीवं गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते’ इति मेदिनी । घनये कप्रत्यये तु अका- रान्तोऽप्ययम् । ‘रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु’ इत्यजयकोशः ॥—चसेः—। वस निवासेऽस्मादसुन् स्यात्स च णित् । णित्वाद्वद्धिः ॥—चन्देः । चदि आह्वादने अस्मादसुन् आदेः छकारश्च । ‘छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिला षयोः’ इति मेदिनी । अकारान्तोऽप्ययम् । ‘अभिप्रायवशौ छन्दौ’ इत्यमरद्विरूपकोशौ
उ657 · Uṇ 9.4.217
वसेर्णित् ॥ उ६५७ ॥
vaserṇit
Siddhānta-kaumudī
वासो वस्त्रम् ।
उ658 · Uṇ 9.4.218
चन्देरादेश्च छः ॥ उ६५८ ॥
canderādeśca chaḥ
Siddhānta-kaumudī
छन्दः ।
उ659 · Uṇ 9.4.219
पचिवचिभ्यां सुट् च ॥ उ६५९ ॥
pacivacibhyāṃ suṭ ca
Siddhānta-kaumudī
पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।
Tattvabodhinī
NSP p. 572
—पञ्चि—। डुपचष् पाके, वच परिभाषणे, आभ्यामसुन् स्यात्तस्य सुडागमश्च । चस्य कुत्वे सस्य षलम् । पक्षः पक्षसी पक्षांसि । ‘यथा शालायै पक्षसी’ इति श्रुतिः । ‘पूर्वोत्तरे द्वे पक्षसी’ इति श्रुतिः । ‘पूर्वोत्तरे द्वे पक्षसी’ इति अनीकाधिकरणे शावरभाष्यम् । माधवस्तु पक्ष परि-प्रह इत्यस्मादसुन् इत्याह ॥—चहि । वह प्रापणे, ओहाक् त्यागे, डुधाञ् धारणादौ, एभ्योऽसुन् स्यात् । अत्र पूर्वसूत्रा-त्सुटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरणमाह । वक्षाः हासाः धासाः इति ॥—प्राञ्च इति । सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः । एतच्चायुक्तम् । उक्तोदाहरणानि हि लोके न दृश्यन्ते न वा संभवन्ति । सूत्रेरिमन् छन्दसी-त्युक्तत्वात् । वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह—वस्तुतस्त्विति । वेदभाष्यकारादयश्चेत्युक्त्वा इत्यव-धेयम् ॥—इणः—। इण् गतौ अस्मादासिः स्यात्
उ660 · Uṇ 9.4.220
वहिहाधाञ्भ्यश्छन्दसि ॥ उ६६० ॥
vahihādhāñbhyaśchandasi
Siddhānta-kaumudī
वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः आतो युक्– {SK 2761} इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।
उ661 · Uṇ 9.4.221
इण आसिः ॥ उ६६१ ॥
iṇa āsiḥ
Siddhānta-kaumudī
अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।
उ662 · Uṇ 9.4.222
मिथुनेऽसिः पूर्ववच्च सर्वम् ॥ उ६६२ ॥
mithune'siḥ pūrvavacca sarvam
Siddhānta-kaumudī
उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।
Tattvabodhinī
NSP p. 572
—मिथुने—। सुयशा इति ‘अशेर्वेदने युद्धं च’ इत्यादि पूर्ववत् । सुपयाः सुस्रोता इत्याद्युदाहार्यम् ॥—नञ्चि—। हन्तेर्नञ्चुपपदेऽसिः स्यात् धातोरेहादेशश्च ‘ऋदुशनस्पुरुदंस—’ इत्यादिना सावनङ्
उ663 · Uṇ 9.4.223
नञि हन एह च ॥ उ६६३ ॥
nañi hana eha ca
Siddhānta-kaumudī
अनेहाः । अनेहसौ ।
उ664 · Uṇ 9.4.224
विधाञो वेध च ॥ उ६६४ ॥
vidhāño vedha ca
Siddhānta-kaumudī
विदधातीति वेधाः ।
उ665 · Uṇ 9.4.225
नुवो धुट् च ॥ उ६६५ ॥
nuvo dhuṭ ca
Siddhānta-kaumudī
नोधाः ।
उ666 · Uṇ 9.4.226
गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च ॥ उ६६६ ॥
gatikārakopapadayoḥ pūrvapadaprakṛtisvaratvaṃ ca
Siddhānta-kaumudī
असिः स्यात् । सुतपाः । जातवेदाः । गतिकारकोपदात् कृत् {SK 3873} इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।
उ667 · Uṇ 9.4.227
चन्द्रे मो डित् ॥ उ६६७ ॥
candre mo ḍit
Siddhānta-kaumudī
चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।
उ668 · Uṇ 9.4.228
वयसि धाञः ॥ उ६६८ ॥
vayasi dhāñaḥ
Siddhānta-kaumudī
वयोधास्तरुणः ।
Tattvabodhinī
NSP p. 572
—विधाञः—। डुधाञ् धारणादौ विपूर्वादस्मादसिः स्याद्वेधादेशश्च सोपसर्गधातोः । ‘वेधाः पुंसि हृषीकेशे वुधे च परमेष्ठिनि’ इति मेदिनी ॥—नुवः—। णु स्तुतौ अस्मादसिः स्यात्तस्य सुडागमश्च ॥—नोधा इति । ‘सद्यो भुव-द्वीर्याय नोधाः’ इति मन्त्रे नोधा ऋषिर्भवतीति निरुक्तम् । नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं वोध्यम् ॥—गति—। गतौ कारके चोपपदेऽसिः स्यात् । तप संतापे, विद् ज्ञाने, विद् लाभे ॥—चन्द्रे—। चन्द्रं रजतममृतं च तदिव मीयते असौ चन्द्रमा इति हरदत्तः । स च डिदिति डित्वाद्विलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति
उ669 · Uṇ 9.4.229
पयसि च ॥ उ६६९ ॥
payasi ca
Siddhānta-kaumudī
पयोधाः समुद्रो मेघश्च ।
Tattvabodhinī
alignment inferredNSP p. 572
—वयसि—। डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित् ॥—पयोधा इति । पयःशब्द उपपदे डुधाञः पूर्ववत्
उ670 · Uṇ 9.4.230
पुरसि च ॥ उ६७० ॥
purasi ca
Siddhānta-kaumudī
पुरोधाः ।
Tattvabodhinī
NSP p. 572–573
—पुरसि च । पुरःशब्द उपपदे पूर्ववत् । ‘पुरोधास्तु पुरोहितः’ इत्यमरः ॥—रौतेरिति—। रु शब्दे । ‘पुरुरवा वुधसुतो राज-षिश्च पुरुरवाः’ इत्यमरः ॥—चक्षेः—। चक्षिङ् व्यक्तायां वाचि अस्मादसिः स्यात्स च वहुलं शित् । शित्वात्सार्वधातु-कसंज्ञायां ख्याञ् न । नृचक्षाः राक्षसाः । शित्वाभावपक्षे तु ख्याञादेशः । प्रख्याः प्रजापतिः ॥—उषः—। उष दाहे-ऽस्मादसिः स्यात्स च कित् । उषः प्रभातम् । दशपाद्यां तु वसः किदिति पाठः । वसति सूर्येण सहेति उषा देवताविशेषः । ‘अपो भि’ इति सूत्रे ‘उषसश्चेष्यते’ इति वार्तिकस्य समुषद्भिरित्युदाहरणं विवृण्वद्भिरयं पाठः पुरस्कृतः ॥—दमेः—। दमु उपशमे । ‘सप्तार्चिर्दमुनाः शुक्रः’ इत्यमरः ॥ पक्षे ‘अन्येषामपि दृश्यते’ इति दीर्घः । ‘जुष्टो दमूनाः’ ‘दमूनसं गृहपतिं वरे’ ण्यम्’ । दशपाद्यां तु ‘दमेरुनसिः’ इति सूत्र एव दीर्घः पठ्यते तन्मते वाहुलकाष्टस्वो वोध्यः । अगिर्गत्यर्थः । अङ्गिरा ऋषि-मेदः ॥—सर्तेः—। सृ गतौ ॥—प्रायेणेति । ‘स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा’ इति शब्दार्णवः ॥ ‘अप्सरस्ख-प्सराः प्रोक्ता सुमनाः सुमनस्सु च’ इति द्विरूपकोशः । ‘एकाप्सरःप्रार्थितयोर्विवादः’ इति रघुः ॥—विदि—। विद् ज्ञाने, भुज पालनाभ्यवहारयोः, आभ्यां विश्वशब्दे उपपदेऽसिः स्यात् ॥ शब्दस्वरूपपरलाद्विश्वे इत्यत्र स्मिन्नादेशो न कृतः । चूदाहरणे विश्वं वेत्ति ॥ अत्र दत्ति ॥ क्षिप्तकः ॥ अत्र तारसुरुषे कृति-ऽत्ति ॥ स्मिन्नाद्यान् अस्तुक् विश्वे वेदान् अभिः विश्वे भोजाः इन्द्र इत्युज्ज्वलदत्तेनोक्तं तन्न । तथा सति स्मिन्नादेशस्य दुर्वारलापत्तेः । ‘सुमृळीको भवतु विश्ववेदाः’ ‘पूषाभगः प्रभृये विश्वभोजाः’ इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्तौ तथैवोदाहरणाच्च ॥—वशेः—। वश कान्तौ ‘उशना भार्गवः कविः’ इत्यमरः ॥ ॥ इत्युणादिषु चतुर्थः पादः ॥ अदि भुवो—। अत इत्यव्ययम् । आकस्मिकार्थेऽस्मिन्नुपपदे भूधातोर्डुतच्छात् डिलाटिलोपः । अद्भुतमाश्वर्यम्
उ671 · Uṇ 9.4.231
पुरूरवाः ॥ उ६७१ ॥
purūravāḥ
Siddhānta-kaumudī
पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।
उ672 · Uṇ 9.4.232
चक्षेर्बहुलं शिच्च ॥ उ६७२ ॥
cakṣerbahulaṃ śicca
Siddhānta-kaumudī
नृचक्षाः ।
उ673 · Uṇ 9.4.233
उषः कित् ॥ उ६७३ ॥
uṣaḥ kit
Siddhānta-kaumudī
उषः ।
उ674 · Uṇ 9.4.234
दमेरुनसिः ॥ उ६७४ ॥
damerunasiḥ
Siddhānta-kaumudī
सप्तार्चिर्दमुनाः ।
उ675 · Uṇ 9.4.235
अङ्गतेरसिरि रुडागमश्च ॥ उ६७५ ॥
aṅgaterasiri ruḍāgamaśca
Siddhānta-kaumudī
अङ्गिराः ।
उ676 · Uṇ 9.4.236
सर्तेरप्पूर्वादसिः ॥ उ६७६ ॥
sarterappūrvādasiḥ
Siddhānta-kaumudī
अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।
उ677 · Uṇ 9.4.237
विदिभुजिभ्यां विश्वे ॥ उ६७७ ॥
vidibhujibhyāṃ viśve
Siddhānta-kaumudī
विश्ववेदाः । विश्वभोजाः ।
उ678 · Uṇ 9.4.238
वशेः कनसिः ॥ उ६७८ ॥
vaśeḥ kanasiḥ
Siddhānta-kaumudī
सम्प्रसारणम् । उशनाः ।
उ679 · Uṇ 9.5.1
अदि भुवो डुतच् ॥ उ६७९ ॥
adi bhuvo ḍutac
Siddhānta-kaumudī
अद्भुतम् ।
उ680 · Uṇ 9.5.2
गुधेरूमः ॥ उ६८० ॥
gudherūmaḥ
Siddhānta-kaumudī
गोधूमः ।
Tattvabodhinī
NSP p. 573
—गुधेः—। गुध परिवेष्टने गुध्यते परिवेष्टयते पाणिभिरिति । ‘गोधूमो नागरज्जे स्यादोषधीत्रीहिमेदयोः’ इति ‘मेदिनी ॥—मस्मेः—। मसी परिणामे ॥—स्थः—। ष्ठा गतिनिवृत्तावस्मादूरन् कित्वादालोपः ॥—स्थूरो मनुष्य इति । ‘स्थूरस्य रायो वृहतो य ईशे’ इति मन्त्रे तु योगपुरस्कारात्स्थिरस्येत्यर्थं इति व्याख्यातम्
उ681 · Uṇ 9.5.3
मसेरूरन् ॥ उ६८१ ॥
maserūran
Siddhānta-kaumudī
मसूरः । प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।
उ682 · Uṇ 9.5.4
स्थः किच्च ॥ उ६८२ ॥
sthaḥ kicca
Siddhānta-kaumudī
स्थूरो मनुष्यः ।
उ683 · Uṇ 9.5.5
पातेरतिः ॥ उ६८३ ॥
pāteratiḥ
Siddhānta-kaumudī
पातिः स्वामी । संपातिः पक्षिराजः ।
Tattvabodhinī
NSP p. 573
—पातेः—। पा रक्षणे ॥—वातेः—। वा गतिगन्धनयोः ॥ रभसकोशस्थमाह—वातिरिति ॥—अतेः—। ऋ गतौ, अस्मादतिः स्यात्स च नित्
उ684 · Uṇ 9.5.6
वातेर्नित् ॥ उ६८४ ॥
vāternit
Siddhānta-kaumudī
वातिरादित्यसोमयोः ।
उ685 · Uṇ 9.5.7
अर्तेश्च ॥ उ६८५ ॥
arteśca
Siddhānta-kaumudī
अरतिरुद्वेगः ।
उ686 · Uṇ 9.5.8
तृहेः क्नो हलोपश्च ॥ उ६८६ ॥
tṛheḥ kno halopaśca
Siddhānta-kaumudī
तृणम् ।
Tattvabodhinī
NSP p. 573
—तृहेः—। तृह हिंसायाम्, क्रस्य कित्वाद्गुणाभावः ॥—वृञ्—। वृञ् वरणे, लुट विलोडने, तनु विस्तारे, तड आघाते, चुरादिः एभ्य उल्लच् स्यात् तण्डादेशश्च धातोः । यद्यपि ‘सानसिपर्णसि’ इति सूत्रे तण्डुलशब्दो निपातितस्तथापि अत्ययस्वरेण मध्योदात्तः सः, अयं तु चित्स्वरेणान्तोदात्त इति विवेकः ॥—दंसेः—। दसि दंशनदर्शनयोः अस्मादृटनौ स्यातां नकारस्याकारश्च । टनो नकार आद्युदात्तार्थः । ‘दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि’ इति विश्वः ॥—दंशेः—। दंश दशनेऽस्मादपि टटनौ स्तो नकारस्य चात्वं स्यात् । ‘कैवर्ते दाशधीवरौ’ इत्यमरः ॥—उदि—। चिन् चयने । डैसो डित्त्वाद्दिलोपः ॥—सौ—। रमु क्रीडायाम् । पूञ्चः—। पूञ् पवने । ‘पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः’ इति विश्वः
उ687 · Uṇ 9.5.9
वुञ्लुठितनिताडिभ्य उलच् तण्डश्च ॥ उ६८७ ॥
vuñluṭhitanitāḍibhya ulac taṇḍaśca
Siddhānta-kaumudī
व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।
उ688 · Uṇ 9.5.10
दंसेष्टटनौ न आ च ॥ उ६८८ ॥
daṃseṣṭaṭanau na ā ca
Siddhānta-kaumudī
दासः सेवकशूद्रयोः ।
उ689 · Uṇ 9.5.11
दंशेश्च ॥ उ६८९ ॥
daṃśeśca
Siddhānta-kaumudī
दाशो धीवरः ।
उ690 · Uṇ 9.5.12
उदि चेर्डैसिः ॥ उ६९० ॥
udi cerḍaisiḥ
Siddhānta-kaumudī
स्वरादिपाठादव्ययत्वम् । उच्चैः ।
उ691 · Uṇ 9.5.13
नौ दीर्घश्च ॥ उ६९१ ॥
nau dīrghaśca
Siddhānta-kaumudī
नीचैः ।
उ692 · Uṇ 9.5.14
सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ उ६९२ ॥
sau rameḥ kto dame pūrvapadasya ca dīrghaḥ
Siddhānta-kaumudī
रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।
उ693 · Uṇ 9.5.15
पूञो यण् णुक् ह्रस्वश्च ॥ उ६९३ ॥
pūño yaṇ ṇuk hrasvaśca
Siddhānta-kaumudī
यत्प्रत्ययः । पुण्यम् ।
उ694 · Uṇ 9.5.16
स्रंसेः शिः कुट् किश्च ॥ उ६९४ ॥
sraṃseḥ śiḥ kuṭ kiśca
Siddhānta-kaumudī
स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।
Tattvabodhinī
NSP p. 573
—संसेः—। संसु अधःपतने कित्त्वं तु गुणाभावाध्यम् ॥—अतेः—। ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च रपरत्वम् ‘युवोरनाकौ’ । ‘मेढोरभ्रोरणोर्णायुमेषवृष्णय एडके’ इत्यमरः ॥—हिंसेः—। हिसि हिंसायाम् ॥—उदि—। दृ विदारणे ॥—डित्त्वनेः—। खनु अवदारणे, अस्मादजलौ स्तः । ‘मुखं निःसरणे वक्रे प्रारम्भोपाययोरपि । सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्’ इति मेदिनी
उ695 · Uṇ 9.5.17
अर्तेः क्युरुच्च ॥ उ६९५ ॥
arteḥ kyurucca
Siddhānta-kaumudī
उरणो मेषः ।
उ696 · Uṇ 9.5.18
हिंसेरीरन्नीरचौ ॥ उ६९६ ॥
hiṃserīrannīracau
Siddhānta-kaumudī
हिंसीरो व्याघ्रदुष्टयोः ।
उ697 · Uṇ 9.5.19
उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च ॥ उ६९७ ॥
udi dṛṇāterajalau pūrvapadāntyalopaśca
Siddhānta-kaumudī
उदरम् ।
उ698 · Uṇ 9.5.20
डित् खनेर्मुट् स चोदात्तः ॥ उ६९८ ॥
ḍit khanermuṭ sa codāttaḥ
Siddhānta-kaumudī
अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।
उ699 · Uṇ 9.5.21
अमेः सन् ॥ उ६९९ ॥
ameḥ san
Siddhānta-kaumudī
अंसः ।
Tattvabodhinī
NSP p. 573
—अमेः—। अम गतौ, ‘स्कन्धो भुजशिरोंसोऽन्नी’ इत्यमरः । ‘अंसः स्कन्धे विभागे च’ इति दन्त्यान्ते विश्वः
उ700 · Uṇ 9.5.22
मुहेः खो मूर्च ॥ उ७०० ॥
muheḥ kho mūrca
Siddhānta-kaumudī
मूर्खः ।
Tattvabodhinī
NSP p. 573–574
—मुहेः—। मुह वैचित्येऽस्मात्खप्रत्ययो धातोर्मुरादेशश्च । मुह्यतीति मूर्खः । ‘अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः’ इत्यमरः ॥—नहेः—। णह वन्धने । अस्मात्स्वः । ‘नखं करुहे षण्डे गन्धद्रव्ये नखं नखी’ इति विश्वः । ‘नखी ल्लीक्लीवयोः शुक्तौ नखरे पुंनपुंसकम्’ इति मेदिनी ॥—शीङः—। शीङ् खप्रेऽस्मात्स्वः स्याद्धातोर्हस्त्वश्च । हस्वविधानसामर्थ्याद्बुणाभावः । ‘शिखा शाखा वर्हिचूडालाङ्गुलिष्वप्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च’ इति मेदिनी ॥—माङः—। माङ् माने । ‘मयूखस्त्विदकरज्वालामु’ इत्यमरः ॥—कलि—। कल शब्दसंख्यानयोः, गल अदने, आभ्यां फक् स्यात् धातोरकारस्योत्वं च ॥—गुल्फ इति । ‘तद्गन्थी घुटिके गुल्फौ’ इत्यमरः । तयोः पादयोग्रन्थी इत्यर्थः ॥ स्पृश संस्पर्शे, ‘पार्श्व कच्छधरे चक्रोपान्तपर्गुगणेऽपि च’ इति विश्वमेदिन्यौ ॥—इमनि—। श्रिष् सेवायामस्मात् इमन्युपपदे डुन्स्यात् डित्त्वाद्दिलोपः । ‘तद्दृष्टौ इमश्चु पुंमुखे’ इत्यमरः । पुरुषस्य मुखे तेषां रोम्णां वृद्धौ इमश्रुशब्दो वर्तत इत्यर्थः
उ701 · Uṇ 9.5.23
नहेर्हलोपश्च ॥ उ७०१ ॥
naherhalopaśca
Siddhānta-kaumudī
नखः ।
उ702 · Uṇ 9.5.24
शीङो ह्रस्वश्च ॥ उ७०२ ॥
śīṅo hrasvaśca
Siddhānta-kaumudī
शिखा ।
उ703 · Uṇ 9.5.25
माङ ऊखो मय् च ॥ उ७०३ ॥
māṅa ūkho may ca
Siddhānta-kaumudī
मयूखः ।
उ704 · Uṇ 9.5.26
कलिगलिभ्यां फगस्योच्च ॥ उ७०४ ॥
kaligalibhyāṃ phagasyocca
Siddhānta-kaumudī
कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।
उ705 · Uṇ 9.5.27
स्पृशेः श्वण्शुनौ पृ च ॥ उ७०५ ॥
spṛśeḥ śvaṇśunau pṛ ca
Siddhānta-kaumudī
श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।
उ706 · Uṇ 9.5.28
श्मनि श्रयतेर्डुन् ॥ उ७०६ ॥
śmani śrayaterḍun
Siddhānta-kaumudī
श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।
उ707 · Uṇ 9.5.29
अश्वादयश्च ॥ उ७०७ ॥
aśvādayaśca
Siddhānta-kaumudī
अश्रु नयनजलम् ।
Tattvabodhinī
NSP p. 574
—अश्वादयः—। अश्व व्याप्तावसात् रुन् प्रत्ययो नञ्पूर्वात् श्रयतेर्हुन् च । यत्ज्वलदत्तेनोक्तम् अश्रोतेर्हुन् रुद् चेति तदयुक्तम्, डित्त्वादिलोपे सति धातोरश्रवणप्रसङ्गात् । न च टिलोपाभावो निपात्यत इति वाच्यम् । तथा सति डित्त्वोत्प्रेक्षणस्य निष्फलत्वापत्तेरिति दिक् ॥—जनेः—। जनी प्रादुर्भावे अस्मादन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च । ‘जटा लमकचे मूले मांस्यां द्वक्षे पुनर्जटी’ इति मेदिनी ॥—जङ्घेति । जनेरच्प्रत्यये सति ‘अजावतः-’ इति टाप्
उ708 · Uṇ 9.5.30
जनेष्टन् लोपश्च ॥ उ७०८ ॥
janeṣṭan lopaśca
Siddhānta-kaumudī
जटा ।
उ709 · Uṇ 9.5.31
अच् तस्य जङ्घ च ॥ उ७०९ ॥
ac tasya jaṅgha ca
Siddhānta-kaumudī
तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।
उ710 · Uṇ 9.5.32
हन्तेः शरीरावयवे द्वे च ॥ उ७१० ॥
hanteḥ śarīrāvayave dve ca
Siddhānta-kaumudī
जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।
Tattvabodhinī
NSP p. 574
—हन्तेः—। देहावयवे वाच्ये हन्तेरच्प्रत्ययः स्यात् द्वित्वं च धातोः । अभ्यासकार्यम् ‘अभ्यासाच्च’ इति कुलम् । अमरोक्तिमाह—पश्चान्नितम्ब इति । ‘जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि’ इति मेदिनी ॥—क्लिशेः—। क्लिश्च विवाधनेऽस्मादन्त्यात् । ‘केशः स्यात्पुंसि वरुणे हीवेरे कुण्डलेऽपि च’ इति मेदिनी ॥—फलेः—। फल निष्पत्तौ । ‘पलितं जरसा शौक्ल्यम्’ इत्यमरः । पलितं शैलजे तापे केशपाशे च कर्दमे’ इति मेदिनी ॥ कृञादिभ्यः—। कृञ् करणे । करकः कमण्डलुः । करका वृष्टिपाषाणः । कटे वर्षावरणयोः, ‘कटको वलये सानौ’ । ‘कुन् शिल्पिसंज्ञयोः’ इति कुनाप्ययं सिद्धस्तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु कुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । नॄ नये । ‘स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्’ इत्यमरः । ‘नरकः पुंसि निरये देवारातिप्रभेदयोः’ इति मेदिनी । उदयनाचार्यास्तु नच नरकाण्येव सन्तीति क्लीवं प्रयुञ्जते तन्निर्मूलमित्याहुः । सृ गतौ । ‘सरकोऽस्त्री शीघ्रपात्रे शीघ्रपानेक्षुशीधुनोः’ इति मेदिनी । कुर शब्दे । कोरकोऽस्त्री कुञ्जले स्यात्कक्लोकमृणालयोः’ इति मेदिनी । ‘विचकार कोरकाणि’ इति माघः । ‘कोरकः पुमान्’ इत्यमरोक्तिस्तु नादर्तव्येत्याहुः । अपवरकादयोऽपि इहैव वोध्याः ॥—चीकयतेः—। चिक आमन्त्रणे, चीक च चुरादिः । अस्यावन्तविपर्ययः । पचिमच्योरित्वं चानुपदं वक्ष्यमाणं वाहुलकवललभ्यं वोध्यम् । ‘कीचको दैत्यभिद्वाताहतसखनवंशयोः’ इति मेदिनी । डुपचष् पाके । ‘उल्लके करिणः पुच्छमूलोपान्ते च पेचकः’ इत्यमरः । ‘पेचको गजलाङ्गूलमूलोपान्ते च कौशिके’ इति मेदिनी ॥ मचि मुचि कल्कने । ‘मेचकस्तु मयूरस्य चन्द्रके इयामले पुमान् । तद्युक्ते वाच्यवत्क्लीवं स्रोतोजनान्धकारयोः’ इति मेदिनी ॥—जनेः—। जन जनने, जनी प्रादुर्भावे वा । ‘जठरः कठिनेऽपि स्यात्’ इत्यमरः । ‘जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिपु’ इति मेदिनी ॥— वचि—। वच परिभाषणे, मन ज्ञाने, आभ्यामरप्रत्ययः स्यात्स च चित् ठश्चान्तादेशः । ‘वठरः कुकुटे वण्टे शठे च’ इति मेदिनी
उ711 · Uṇ 9.5.33
क्लिशेरन् लो लोपश्च ॥ उ७११ ॥
kliśeran lo lopaśca
Siddhānta-kaumudī
लकारस्य लोपः । केशः ।
उ712 · Uṇ 9.5.34
फलेरितजादेश्च पः ॥ उ७१२ ॥
phaleritajādeśca paḥ
Siddhānta-kaumudī
पलितम् ।
उ713 · Uṇ 9.5.35
कृञादिभ्यः संज्ञायाम् वुन् ॥ उ७१३ ॥
kṛñādibhyaḥ saṃjñāyām vun
Siddhānta-kaumudī
करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।
उ714 · Uṇ 9.5.36
चीकयतेराद्यन्तविपर्ययश्च ॥ उ७१४ ॥
cīkayaterādyantaviparyayaśca
Siddhānta-kaumudī
कीचको वंशभेदः ।
उ715 · Uṇ 9.5.37
पचिमच्योरिच्चोपधायाः ॥ उ७१५ ॥
pacimacyoriccopadhāyāḥ
Siddhānta-kaumudī
पेचकः । मेचकः ।
उ716 · Uṇ 9.5.38
जनेररष्ठ च ॥ उ७१६ ॥
janeraraṣṭha ca
Siddhānta-kaumudī
जठरम् ।
उ717 · Uṇ 9.5.39
वचिमनिभ्यां चिच्च ॥ उ७१७ ॥
vacimanibhyāṃ cicca
Siddhānta-kaumudī
वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः । गर्गादित्वान्माठर्यः ।
उ718 · Uṇ 9.5.40
ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च ॥ उ७१८ ॥
ūrji dṛṇāteralacau pūrvapadāntalopaśca
Siddhānta-kaumudī
ऊर्दरः शूररक्षसोः ।
Tattvabodhinī
NSP p. 574
—ऊर्जि—। दृ विदारणेऽस्माद्व्युर्युपपदे अलचौ प्रत्ययौ स्तः
उ719 · Uṇ 9.5.41
कृदरादयश्च ॥ उ७१९ ॥
kṛdarādayaśca
Siddhānta-kaumudī
कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।
Tattvabodhinī
NSP p. 574
—कृदरादयश्च । कृ सृ सृ एतदव्ययपूर्वकदृणातिप्रकृतिका लजन्ता निपात्यन्ते ॥—हन्तेः—। हन हिंसागत्योः
उ720 · Uṇ 9.5.42
हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे ॥ उ७२० ॥
hanteryunnādyantayorghatvatatve
Siddhānta-kaumudī
घातनो मारकः ।
उ721 · Uṇ 9.5.43
क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥ उ७२१ ॥
kramigamikṣamibhyastun vṛddhiśca
Siddhānta-kaumudī
क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।
Tattvabodhinī
NSP p. 574
—क्रमि—। कमु पादविक्षेपे, गम्ल गतौ, क्षमूप् सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च
उ722 · Uṇ 9.5.44
हर्यतेः कन्यन् हिर च ॥ उ७२२ ॥
haryateḥ kanyan hira ca
Siddhānta-kaumudī
कन्यन् प्रत्ययः । हिरण्यम् ।
Tattvabodhinī
NSP p. 574
—हर्यतेः—। हर्यं गतिकान्त्योः । ‘हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे स्यादकुप्ये च नपुंसकम्’ इति मेदिनी
उ723 · Uṇ 9.5.45
कृञः पासः ॥ उ७२३ ॥
kṛñaḥ pāsaḥ
Siddhānta-kaumudī
कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।
Tattvabodhinī
alignment inferredNSP p. 574
—कृञः—। डुकृञ् करणे ॥—जनेः—। तु इत्यविभक्तम् । जनेसुप्रत्ययो रेफश्चान्तादेशः स्यात्
उ724 · Uṇ 9.5.46
जनेस्तु रश्च ॥ उ७२४ ॥
janestu raśca
Siddhānta-kaumudī
जर्तुर्हस्ती योनिश्च ।
उ725 · Uṇ 9.5.47
ऊर्णोतेर्डः ॥ उ७२५ ॥
ūrṇoterḍaḥ
Siddhānta-kaumudī
ऊर्णा ।
Tattvabodhinī
NSP p. 574
—ऊर्णोतेः—। ऊर्णञ् आच्छादनेऽस्मात् डः स्यात् डित्त्वादिलोपः टाप् । ‘ऊर्णा मेषादिलोप्ति स्यादावर्ते चान्तरा ध्रुवोः’ इत्यमरः । ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः । ‘अन्तरान्तरेण—’ इति द्वितीया ॥—दधातेः—। डुधाश् धारणादौ अस्मावत् प्रत्ययः स्यात्स नुडागमश्च । ‘धान्यं त्रीहिषु धान्याके’ इति मेदिनी
उ726 · Uṇ 9.5.48
दधातेर्यत् नुट् च ॥ उ७२६ ॥
dadhāteryat nuṭ ca
Siddhānta-kaumudī
धान्यम् ।
उ727 · Uṇ 9.5.49
जीर्यतेः क्रिन् रश्च वः ॥ उ७२७ ॥
jīryateḥ krin raśca vaḥ
Siddhānta-kaumudī
जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् हलि च {SK 354} इति दीर्घो न ।
Tattvabodhinī
NSP p. 574–575
—जीर्यतेः—। जॄ वयोहानावस्यात् किन्त्यात् । ‘ऋत इद्धातोः’ । रपरत्वम् । रेफस्य वकारादेशः ॥—मव्यतेः—। मव्य वन्धने ॥—अन्त्यस्येति । वकारस्येत्यर्थः ॥—कृजेः—। कृजी गतौ ॥—तन्त्रोतेः—। तन्त्र विस्तारेऽस्माकात् उच्चाप्रत्ययस्तस्मान् सम्बद्धावात् द्वित्वम् भ्यासस्येत्वं च डित्वाद्विलोपः । पृथगुच्चारणसामर्थ्याद्बुणो न । तितउः चालनी । ‘सकुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकत’ । ‘तितउः परिपवनं भवति’ इति पस्पशायां भाष्यम् । ‘चालनी तितउः पुमान्’ इत्यमरः । ‘चालनं तितउन्युक्तम्’ इति कोशान्तरम् ॥ ‘स्याद्वासु हिङ्कु तितउ’ इति पुंनपुंसकवर्गं त्रिकाण्डशेषः ॥—अभक्त- एते निपा- त्यन्ते । निपातनप्रकारमेवाह—ऋधु वृद्धावित्यादि ॥—प्रथेरिति । प्रथ प्रख्याने, पा पाने, पिवति स्तनादिक- मिति पाकः । ‘पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः’ । इत्यमरः । ‘अभकः कथितो वाले मूर्खेऽपि च कृशे- ऽपि च । पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्’ । ‘पाकः परिणतौ शिशौ । केशस्य जरसा शौक्लये स्थात्यादौ पच- नेऽपि च’ इति मेदिनी ॥—अवद्या- एते कुत्सिते निपात्यन्ते । वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ, रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । ‘निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः’ इत्यमरः । ‘कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः’ इति च । ‘अधमः स्याद्वर्ह्य ऊनेऽपि’ इति मेदिनी । ‘अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः । रेफो रवणे पुंसि स्यात्कु- त्सिते पुनरन्यवत्’ इति च मेदिनी ॥—लीरीडोः- । लीड् रूपणे, रीड् ध्रवणे ॥—क्रमादिति । रूपणे वाच्ये तप्रत्ययः कुत्सिते वाच्ये रप्रत्यय इत्यर्थः । ‘लिंगं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते’ इति विश्वः ॥—क्लिशेः- । क्लिश् विवाधने ॥ नामागमश्च प्रत्ययस्येति शेषः ॥—चिन्त्यमिति । इत्यविधानसामर्थ्यादेव गुणाभावसिद्धेरिति भावः । ‘कीनाशः कर्षकः क्षुद्रो पांशुधूलिषु वाच्यवत् । यमे ना’ इति मेदिनी ॥—अश्रोतेः- । अश्ल व्याप्तौ अस्माद्वरद् स्यात् । आशुकर्म वरदानादि- क्रिया यस्य तस्मिन्वाच्ये शीघ्रदातरीत्यर्थः ॥—ईश्वर इति । स्त्रियां तु टित्त्वान्डीप् ईश्वरी । प्रत्ययस्वरेण मध्योदात्ता । ईशेः वनिपि ‘वनो र च’ इति डीव्रयोस्तु धातुस्वरेणाद्युदात्ता । पुंयोगलक्षणे डीपि अन्तोदात्ता । ‘स्थेशमासपिसकसः—’ इति वरचि तदन्ताद्वापि ईश्वरेति विवेकः । ‘ईश्वरो मन्मथे शम्भौ नाट्ये स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्’ इति मेदिनी । ईश्वरा उमायामिति छेदः । ‘ईश्वरः शंङ्करेऽधीशे तत्पत्न्यामीश्वरीश्वरा’ इति वोपालितः । ‘विन्यस्तमङ्गल- महौषधिरीश्वरायाः’ इति भारविः । दशपाद्यां तु सूत्रान्तरमपि ‘हन्ते रन् धश्च’ । हन हिंसागत्योरस्माद्वन्प्रत्ययः स्यात् धश्चान्तादेशः । हन्यते गम्यतेऽतिथिभिरिति घरः गृहम् ॥—चतेः । चते याचनेऽस्मादुरन्स्याद्दकार उच्चारणार्थः । ‘चतुरनड्वहोरामुदात्तः’ इत्याम्
उ728 · Uṇ 9.5.50
मव्यतेर्यलोपो मश्चापतुट् चालः ॥ उ७२८ ॥
mavyateryalopo maścāpatuṭ cālaḥ
Siddhānta-kaumudī
मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।
उ729 · Uṇ 9.5.51
ऋजेः कीकन् ॥ उ७२९ ॥
ṛjeḥ kīkan
Siddhānta-kaumudī
ऋजीक इन्द्रो धूमश्च ।
उ730 · Uṇ 9.5.52
तनोतेर्डउः सन्वच्च ॥ उ७३० ॥
tanoterḍauḥ sanvacca
Siddhānta-kaumudī
तितउः । पुंसि क्लीबे ।
उ731 · Uṇ 9.5.53
अर्भकपृथुकपाका वयसि ॥ उ७३१ ॥
arbhakapṛthukapākā vayasi
Siddhānta-kaumudī
ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।
उ732 · Uṇ 9.5.54
अवद्यावमाधमार्वरेफाः ॥ उ७३२ ॥
avadyāvamādhamārvarephāḥ
Siddhānta-kaumudī
कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।
उ733 · Uṇ 9.5.55
लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः ॥ उ७३३ ॥
līrīṅorhrasvaḥ puṭ ca tarau śleṣaṇakutsanayoḥ
Siddhānta-kaumudī
तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।
उ734 · Uṇ 9.5.56
क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ॥ उ७३४ ॥
kliśerīccopadhāyāḥ kan lopaśca lo nām ca
Siddhānta-kaumudī
क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।
उ735 · Uṇ 9.5.57
अश्नोतेराशुकर्मणि वरट् च ॥ उ७३५ ॥
aśnoterāśukarmaṇi varaṭ ca
Siddhānta-kaumudī
चकारादुपधाया ईत्वम् । ईश्वरः ।
उ736 · Uṇ 9.5.58
चतेरुरन् ॥ उ७३६ ॥
cateruran
Siddhānta-kaumudī
चत्वारः ।
उ737 · Uṇ 9.5.59
प्रादतेररन् ॥ उ७३७ ॥
prādateraran
Siddhānta-kaumudī
प्रातः ।
Tattvabodhinī
NSP p. 575
—प्रादतेः- । अत सातत्यगमने प्रपूर्वादरस्मादन्स्यात् रेफादकार उच्चारणार्थः । स्वरा- दिपाठादव्ययत्वम् ॥—अमेः- । अम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च । अन्तःशब्दोऽपि प्रातःशब्दवत् अव्ययम् ॥—दहेः- । दह भस्मीकरणे । ‘नगो महीरुहे शैले भास्करे पवनाशने’ इति मेदिनी
उ738 · Uṇ 9.5.60
अमेस्तुट् च ॥ उ७३८ ॥
amestuṭ ca
Siddhānta-kaumudī
अन्तर्मध्यम् ।
उ739 · Uṇ 9.5.61
दहेर्गो लोपो दश्च नः ॥ उ७३९ ॥
dahergo lopo daśca naḥ
Siddhānta-kaumudī
गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।
उ740 · Uṇ 9.5.62
सिचेः संज्ञायां हनुमौ कश्च ॥ उ७४० ॥
siceḥ saṃjñāyāṃ hanumau kaśca
Siddhānta-kaumudī
सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।
Tattvabodhinī
NSP p. 575
—सिचेः- । षिच क्षरणे ॥—हकारादेश इति । धातोरन्त्यस्येत्यर्थः । ‘सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही क्षुद्रवृहत्योः स्याद्वासके राहुमातरि’ इति विश्वः ॥—व्याङ्डि- । घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात् कित्त्वादातो लोपः । ‘व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरजयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकायां च योषिति’ इति मेदिनी ॥—हन्तेः- । हन्तेरच् स्याद्धातोर्घुरादेशश्च । ‘घोरं भीमे हरे’ इति विश्वः ॥—क्षमेः- । क्षमूष् सहने । ‘क्ष्मावनिर्मेदिनी मही’ इत्यमरः ॥—तरतेः- । तृ स्त्रवनतरणयोरस्मात् डिः स्यात् । डित्वाद्विलोपः
उ741 · Uṇ 9.5.63
व्याङि घ्रातेश्च जातौ ॥ उ७४१ ॥
vyāṅi ghrāteśca jātau
Siddhānta-kaumudī
कप्रत्ययः स्यात् । व्याघ्रः ।
उ742 · Uṇ 9.5.64
हन्तेरच् घुर च ॥ उ७४२ ॥
hanterac ghura ca
Siddhānta-kaumudī
घोरम् ।
उ743 · Uṇ 9.5.65
क्षमेरुपधालोपश्च ॥ उ७४३ ॥
kṣamerupadhālopaśca
Siddhānta-kaumudī
चादच् । क्ष्मा ।
उ744 · Uṇ 9.5.66
तरतेर्ड्रिः ॥ उ७४४ ॥
taraterḍriḥ
Siddhānta-kaumudī
त्रयः । त्रीन् ।
उ745 · Uṇ 9.5.67
ग्रहेरनिः ॥ उ७४५ ॥
graheraniḥ
Siddhānta-kaumudī
ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।
Tattvabodhinī
NSP p. 575
—ग्रहेः- । ग्रह उपादाने ॥—डीपिति । ‘कृदिका- रात्’ इत्यन्तेन ‘प्रहणी रुक् प्रवाहिका’ इत्यमरः
उ746 · Uṇ 9.5.68
प्रथेरमच् ॥ उ७४६ ॥
pratheramac
Siddhānta-kaumudī
प्रथमः ।
Tattvabodhinī
alignment inferredNSP p. 575
—प्रथेः- । प्रथ प्रख्याने । ‘प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्य- वत्’ इति मेदिनी । ‘प्रथमचरम-’ इति वैकल्पिकसर्वनामलात्पक्षे जसः शीभावः । प्रथमे प्रथमाः
उ747 · Uṇ 9.5.69
चरेश्च ॥ उ७४७ ॥
careśca
Siddhānta-kaumudī
चरमः ।
Tattvabodhinī
NSP p. 575
—चरेश्च । चर गतिभक्षणयोरस्मादमच्छ्यात् । चरमे चरमाः । योगविभागश्चिन्त्यप्रयोजनः । प्रथिचरिभ्यामित्येव सुवचम्
उ748 · Uṇ 9.5.70
मङ्गेरलच् ॥ उ७४८ ॥
maṅgeralac
Siddhānta-kaumudī
मङ्गलम् ।
Tattvabodhinī
alignment inferredNSP p. 575–577
—मङ्गेः- । उखउखीत्यादिदण्डके गत्यर्थको मगिः पठ्यते । ‘कल्याणं मङ्गलं शुभम्’ । मङ्गलो ग्रहमेदः । ‘मङ्गला सितदर्वायामुमायां पुंसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थे रक्षणेऽपि च’ इति मेदिनी । भावे ध्यञि माङ्गल्यम् । ‘तत्र साधुः’ इति यत् । ‘मङ्गल्यः स्यात्रायमाणाश्वत्थविल्वमसूरके । स्त्रियां शम्यामधःपुष्प्यां मिसि शुक्लवसासु च । रोचनायामथो दग्नि क्लीवं शिवकरे त्रिषु’ इति मेदिनी ॥ ॥ इत्युणादिषु पञ्चमः पादः ॥ उणादिप्रलयाः सन्ति पादोत्तरशतत्रयम् । तेषां विवेचनं लत्र ज्ञानेन्द्रस्वामिभिः कृतम् ॥ प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां, सोऽप्युपन्यासोऽनैकप्रधटकतया कृतः किंतु विच्छिन्नेति स्पष्टम् । तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव कांश्चित्प्रमादान्दर्शयामः । ‘भजो णिवः’ इति णिवप्रकरणे ‘छन्दसि सहः’ ‘वहश्च’ इत्युपन्यस्य ‘परौ व्रजेः षः पदान्ते’ इति णिवस्तेनैव षः परिव्राडित्ययं हि प्राचो ग्रन्थस्तथा-स्थायां तत्पौत्रेण पञ्चपाद्युणादिसूत्रे इदं पठ्यते इत्युक्तं तदुभयमपि प्रामादिकम् । ‘क्विच्चचि—’ इति क्विच्चीषां हि प्रक्रम्य ‘परौ व्रजेः—’ इति सूत्रस्य पाठात् । अस्मिन्नंशे पञ्चपादीदशपाद्योरेकवाक्यलात् । यदपि धनार्तिचक्षिङ्चपित-पिजनिजेरुस इस् इति पठितं तदप्यनाकरम् । तथा हि जनेरुसिः । अतिपूर्वपियजितनिधनितपिभ्यो नित् । एणिष्व । चक्षेः शिच्चेति सर्वसंमतः पाठः । ‘तर्पूषि तस्मै वपुषि वपुष्टरम्’ इत्यादिमन्त्रेषु आद्युदात्ततयानुकूलश्च ॥ वेदभाष्ये एवमेव स्थितम् । इत्यादयो द्वितीयपादे प्रमादाः ॥ तृतीयपादेऽपि स्तनिदूषिपूषिगादिहृदिभ्यो णेरिलुजिति प्राचा पठितं तत्र दूषिहृदी केषा-मपि वृत्तिकृतां ग्रन्थे न पठितौ दूषयिलुः हृदयिलुरिति प्रयोगोऽप्याकरे न दृष्टः । स्तनिहृषिपुषिमुदिगादिमदिभ्य इति हि पञ्चपादीपाठः । ‘युषिगन्धिमण्डिजनिनमिभ्यः’ इति दशपाद्यामधिकं पठितमित्यन्यदेतत् । यदपि ‘शुदक्षिस्पृहिगृहिषु-जृभ्य आय्यः’ इति पठित्वा दराय्य जराय्य इति प्राचोक्तं तदपि न । दृज्जूप्रहणस्याकरानारूढलात् । इत्यादयस्तृतीयपादे प्रमादाः ॥ यदपि कृगृस्तृजागृभ्यः किन् । कीर्विः गीर्विः स्तीर्विरिति प्राचोक्तं तदपि लिपिभ्रमप्रयुक्तमेव । कृ विक्षेपे, गृ निगरणे, स्तृज् आच्छादने, इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाशुच्चैवाशुद्धा । ‘जृशृस्तृजागृभ्यः किन्’ इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः । जीर्विः पशुः । शीर्विर्हिसः । स्तीर्विरध्वर्युरिति तद्व्रन्थेषूपप-दितम् । स्तृ इत्यस्य दीर्घान्तल एवहि ‘ऋत इद्धातोः’ इतीत्वं लभ्यते न तु हस्वान्तत्वेऽपि तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक् ॥ यदपि प्राचोक्तं ‘ग्लाज्याहालरिभ्यो निः’ इति तदप्यनाकरम् । आकरे हि ‘वीज्याज्वरिभ्यो निः’ इति पठित्वा सूत्रद्वयानन्तरं ‘वहि श्री—’ इति सूत्रे ‘ग्लाहालरिभ्यो नित्’ इति सूत्रितलात् । ‘तूर्णा रथः सदानवः’ इत्यादावाद्युदात्तदर्शनाच्च ॥ नच ‘ल्लियां किन्नि’ त्यधिकारस्थं वार्तिकमेवेदं प्राचोदाहतं न तूणादिसूत्रस्थमिति वाच्यम् । एवमपि लरतेः पाठस्यानुचितलात् ॥ न ह्यसौ वार्तिकेऽस्तीति दिक् ॥ वम संस्त्याने स्त्यायतेर्द्रुद्र इत्यपि प्राचोदाहरणमनाकरम् । स्त्यायतेर्द्रुडित्येव सूत्रस्याकरे पञ्चपाद्यां दशपाद्यां चोपलम्भात् । ‘संस्त्याने स्त्यायतेर्द्रुद्र स्त्री सूतेः संप्रसवे पुमान्’ इति भाष्ये श्लोकपाठो न तु सूत्रपाठस्य तथा-त्वं दृश्यते, एवं तद्व्रन्थव्याख्यातूणामपि प्रमादा ऊह्याः । तद्यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् ‘अनेरुच्चोपधायाः’ इति, न ह्येवंविधं सूत्रं पञ्चपाद्यां दशपाद्यां वास्ति, अत इत्यनुवर्तमाने ‘मनेरुच्च’ इत्येव सूत्रितलादिति दिक् ॥ इति चतु-थंपादे प्राचः प्रमादाः ॥ उणादयो वहुलम् । ‘वर्तमाने लट्’ इत्यतो वर्तमानग्रहणं ‘पुवः संज्ञायाम्’ इत्यतः संज्ञाग्रहणं चानुवर्तते तदाह— पते इति । अत्र हि सूत्रे ‘धातोः’ ‘प्रत्ययः’ ‘कृदतिङ्’ इति चानुवर्तते, तेन ‘कृवापाजिमि—’ इत्यादिना विहितानामष्टाध्यायीवहिर्भूतानामप्युणादीनां प्रत्ययसंज्ञा कृत्संज्ञा च सिध्यति । तथा चोणादिप्रत्ययाः सर्वे धातोः परत्र ‘कर्तरि कृत्’ इति कर्त्र्ये भवन्ति । उणादिप्रत्ययान्तस्य ‘कृत्तद्धित—’ इति प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति । अपरिपूर्णानामुणादीनां परिपूर्णार्थं वहुलग्रहणम् । तस्य फलमाह—केचिदविहिता अपीति । हृषेरुलज्विहितः स तु शङ्केरपि भवति शङ्कुलेति प्रयोगदर्शनात् । किंच फिडफिडुप्रत्ययौ कुत्रापि न विहितौ अतेरुह्येते ऋफिडः ऋफिडुः इति तयोः कित्वं च कल्प्यते । तथा षण्ड इत्यत्र सत्वाभावश्चेत्यादि ॥—संज्ञास्विति । अनादिसंज्ञास्वेव न तु सर्वास्वित्याहुः । ‘हृषेरुलच्’ इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्यते । तेन शङ्कुलेति सिद्धम् । ऋ गतावित्यादिभ्यः फिडफिडुदिप्रत्यया गृह्य-न्ते ॥—कार्याद्विद्यादिति । ऋफिड इत्यादौ गुणप्रतिषेधादिकार्यानुरोधादनुवन्धं ककारादिकं विद्यात् । अनूवन्धमित्यत्र ‘उपसर्गस्य वलि—’ इति दीर्घः । एतदुणादिषु शास्त्रं शासितव्यमित्यर्थः