PREMABASESiddhānta-kaumudī
Prakaraṇa 66 · SK 2829–2894

कृदन्तकृत्यप्रकरणम्

kṛdantakṛtyaprakaraṇam · 66 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2829 · A 3.1.91धात्वधिकारः (द्वितीयः)
धातोः ॥ २८२९ ॥
dhātoḥ
Siddhānta-kaumudī
आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् SK 781 । कृदतिङ् SK 374 ॥
Tattvabodhinī
alignment inferredNSP p. 489
—तत्रोपपदमित्यादि । एतेन कृत्स्नंशोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धालधिकार आवश्यक इति ध्वनितम् । अयं भावः । यदि द्वितीयधालधिकारो न स्यात्तदा पूर्वधालधिकारेऽपि कृदुपपदसंज्ञे स्याताम् । इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेन ‘च्लि लुङ्गि’ इत्यादौ लुङ्गन्ते उपपदे च्लिरित्येवमनिष्ठोऽर्थः प्रसज्येत । तिङ्भिन्नधालधिकारप्रत्ययस्य कृत्स्नंज्ञायां करिष्यतीत्यादौ स्यप्रत्ययस्य कृत्त्वेन ‘कृत्तद्धित—’ इति प्रातिपदिकलादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसङ्गाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोर्विधानार्थमयमधिकार इति
Bālamanoramā
धातोः - धातोः । आ तृतीयेति । आतृतीयाध्यायपरिसमाप्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं कृदतिङिति । व्याख्यातं प्राक् ।
SK 2830 · A 3.1.94कृदधिकारे उत्सर्गापवादमसम्बन्धज्ञापकपरिभाषा
वाऽसरूपोऽस्त्रियाम् ॥ २८३० ॥
vā'sarūpo'striyām
Siddhānta-kaumudī
परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥
Tattvabodhinī
NSP p. 489–490
—वासरूपोऽस्त्रियाम् । अपवादेन नित्यं वाधे प्राप्ते क्वचिदुत्सर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम् । अत एव ‘अचो यत्’ ‘ऋहलोर्ण्यत्’ इत्याद्यपवादविषये तव्यदादयोऽपि प्रयुज्यन्ते—भव्यम्, भवितव्यम् । कार्यं, कर्तव्यं, करणीयम् । वाच्यम्, वक्तव्यमित्यादि ॥—परिभाषेति । अधिकारसूत्रमिति स्वीकृते तु ख्यधिकारेण विच्छेदाद्वासरूपसूत्राप्रवृत्त्या आसिला भुङ्क्ते आस्यते भोक्तुमित्यादिरूपाणि न सिध्यन्ति । इह हि भोजनार्थलादासनस्य पूर्वकालता गम्यते, क्लाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति लकारोऽपि तत्रैवेति समानविष- यत्वादुभयोर्वाध्यवाधकभावः स्यात् । किंच वर्णात्कार इत्युत्सर्गः स च ‘रादिफः’ इत्यनेन वाध्येत । न चेष्टापत्तिः । ‘रकारादीनि नामानि शृण्वतो मम पार्वति’ इत्यादिप्रयोगविरोधात् । अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम् । एतेन ‘शकि लिङ् च’ इति ज्ञापकाद्वासरूपविधेरनित्यत्वेन ह्यधिकारादुत्तरेषु कल्युदत्तुमुन्वलयेषु वासरूपविधिनास्तीति सिद्धान्तः संगच्छत इति दिक् । ‘वासरूप—इत्यत्राऽसरूप इति च्छेदः । अन्यथा लाघवे विशेषाभावेनासंवेद्याय सरूपो वेति ब्रूयादित्याशयेनाह—असरूप इति । असरूप इति किम् । ‘कर्मण्यण्’ इत्युत्सर्गः । ‘आतोऽनुपसर्गे कः’ इत्यपवादः । स तूत्सर्गस्य नित्यं वाधको यथा स्यात् । गोदः । कम्बलदः । न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपलाशेष्टसिद्धिरिति वाच्यम् । ‘नानुवन्धकृतमसारूप्यम्’ इति सिद्धान्तात् । अस्त्रियामित्यत्र स्त्रीशब्दः स्वर्यते स्वरितेन चाधिकारावगतिरित्याशयेनाह—ह्यधिकारोक्तं विनेति । तेन ‘स्त्रियां किन्’ इत्युत्सर्गम् ‘अप्रत्ययात्’ इत्यपवादो नित्यं वाधते । चिकीर्षा । जिहीर्षा । नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिनैति स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिनैति वा व्याख्यायतामिति चेत् । अत्राहुः । स्त्रियां वाच्यायामिति पक्षे लब्ध्या रुवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकलात् । स्त्रियामिति शब्दोच्चारणपक्षे तु व्यावकोशी व्यावकुष्ठिरिति कर्मव्यतिहारे णचो विषये किञ्च स्यात् । द्वयोरपि स्त्रियामित्युच्चार्य विधानात् । ततश्च स्त्रयधिकारोक्तं विनेति व्याख्यैव ज्यायसीति दिक्
Bālamanoramā
वाऽसरूपोऽस्त्रियाम् - वाऽसरूपोऽरिउआयाम् ।असरूप॑इति छेदः । परिभाषेयमिति । अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः । असरूप इति लिङ्गनिर्देशः । यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते ।वे॑त्यतः प्राक् 'बाधक' इति शेषः । असरूपो वा बाधको भवतीति यावत् । कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते । फलितमाह — अस्मिन् धात्वधिकारे इत्यादिना । स्त्रीशब्दः स्वर्यते । तदाह — स्त्र्यधिकारोक्तं विनेति ।स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः । स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः । 'ण्वुल्तृचौ' इत्युपसर्गः ।इगुपधज्ञाप्रीकिरः कः॑ इत्यपवादः । तद्विषये ण्वुल्तृचवावपि भवतः । विक्षिपः । विक्षेपकः । विक्षेप्ता । असरूप इति किम् । 'कर्मण्यण्' इत्युत्सर्गः । 'आतोऽनुपसर्गे कः' इत्यपवादः । स तु सरूपत्वान्नित्यं बाधक एव । गोदः । कम्बलदः ।नानुबन्धकृतमसारूप्य॑मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः । अस्त्रियां किम् । 'स्त्रियां क्तिन्' इत्युत्सर्गः ।अ प्रत्यया॑दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति । चिकीर्षा । व्यावक्रोशी व्याक्रुष्टिरित्यत्र तुकर्म व्यतिहारे णच् स्त्रिया॑मिति णच् क्तिनो बाधको वा भवत्येव ।अस्त्रिया॑मिति निषेधस्तु नास्ति,तस्यणचः स्त्रिया॑मित्यधिकारोक्तत्वाऽभावात् ।
SK 2831 · A 3.1.95कृत्यसंज्ञा
कृत्याः ॥ २८३१ ॥
kṛtyāḥ
Siddhānta-kaumudī
अधिकारोऽयं ण्वुलः प्राक् ॥
Tattvabodhinī
NSP p. 490
—कृत्याः । अत्र प्रत्ययः इत्यादिवक्तृत्व इत्यधिकारेणापीष्टसिद्धेर्वहुवचनमनुक्तप्रत्ययसमुच्चयार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसंख्येया इत्याहुः ॥—ण्वुलः प्रागिति । ‘ण्वुल्तृचौ’ इत्यतः प्रागित्यर्थः । ‘रोगाख्यायां ण्वुल् वहुलम्’ इति नावधिः प्रत्यासत्तिन्यायात् ॥ अवधिविशेषे ज्ञापकं तु ‘अर्हें कृत्यतृचश्च’ इत्यत्र कृत्यात्पृथक् तृचो ग्रहणमेव । न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टपत्तौ तु ‘तयोरेव’—इति भावकर्मणोरेव ण्वुल् स्यान्न तु कर्तरीति वाच्यम् । भाष्ये एव ण्वुलः कृत्यत्वमाशङ्क्य योगापेक्षं ज्ञापकमिति सिद्धान्तितलात् । वृत्तिकारस्तु सूत्रे प्राक् ण्वुल इति प्रचिक्षेप ॥—तयोरेव—तच्छब्देन भावकर्मणी परामृदयेते एवकारस्तु कर्तृयोगव्यवच्छेदार्थस्तदाह—भावकर्मणोरेवेति । यथाप्येतत्तक्रकौण्डिन्यन्यायेनैव लभ्यते तथापि स्पष्टप्रतिपत्त्यर्थमेवकार इत्येके । तद्भायस्यानित्यलज्ञापनार्थमित्यन्ये ॥—स्वरार्थाविति । तकारः ‘तित्स्वरितम्’ इति स्वरितलार्थः । रेफस्तु ‘उपोत्तमं रिति’ इति मध्योदात्तार्थः
Bālamanoramā
कृत्याः (प्राङ् ण्वुलः) - कृत्याः । कृत्यसंज्ञका इत्यर्थः । ततश्चप्रैषातिसर्गप्राप्तकालेषु कृत्याश्च॑,॒अर्हे कृत्यतृचश्च॑,शकि लिङ् चे॑त्यादिषु प्रवर्तते । ण्वुलः प्रागिति । 'ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः । एतच्च भाष्ये स्पष्टम् ।
SK 2832 · A 3.4.67V
कर्तरि कृत् ॥ २८३२ ॥
kartari kṛt
Siddhānta-kaumudī
कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥
Bālamanoramā
कर्तरि कृत् - कर्तरि कृत् । अर्थनिर्देशोऽयम् । इति प्राप्ते इति । वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः ।
SK 2833 · A 3.4.70V
तयोरेव कृत्यक्तखलर्थाः ॥ २८३३ ॥
tayoreva kṛtyaktakhalarthāḥ
Siddhānta-kaumudī
एतेन भावकर्मणोरेव स्युः ॥
Bālamanoramā
तयोरेव कृत्यक्तखलर्थाः - तयोरेव कृत्यखलर्थाः ।लः कर्मणि च भावे चे॑ ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति ।
SK 2834 · A 3.1.96V
तव्यत्तव्यानीयरः ॥ २८३४ ॥
tavyattavyānīyaraḥ
Siddhānta-kaumudī
धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ।
vārttika
वसेस्तव्यत्कर्तरिणिच्च
(वार्तिकम्) ॥ वसतीति वास्तव्यः ।
vārttika
केलिमर उपसंख्यानम्
(वार्तिकम्) ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥
Bālamanoramā
तव्यत्तव्यानीयरः - तव्यत्तव्यानीयरः । तव्यत् तव्य अनीयर् एषां द्वन्द्वः । प्रत्ययाः स्युरिति । ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् । स्वरार्थाविति ।तित्स्वरित॑मिति, 'उपोत्तमं रिति' इति च स्वरविशेषार्थावित्यर्थः । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम् । भावे उदाहरति — एधितव्यमिति । त्वत्कर्तृका एधनक्रियेत्यर्थः । ननुलः कर्मणि चे॑त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्वाच्यभावनाया असत्त्वरूपताया उक्तत्वात् । ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्रतयोरेव कृत्ये॑ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह — भावे औत्सर्गिकमेकवचनमिति ।एकवचनम्,द्विबहुषु द्विबहुवचने॑ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः । क्लीबत्वं चेति ।एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक॑मिति 'दाण्डिनायने' ति सूत्रस्थभाष्यादिति भावः । कर्मण्युदाहरति — चेतव्य इति ।वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम् । वास्तव्य इति । वस्तेत्यर्थः । णित्त्वादुपधावृद्धिः । केलिमर इति । धातोरित्येव । भावकर्णोरेवेदम् । केलिमरि ककाररेफावितौ । भिदेलिमा इति । कित्त्वान्नोपधागुणः । सरलाः = वृक्षविशेषाः । तद्भाष्येति । भाष्ये भिदेलिमा इत्युदाहृत्य 'भेत्तव्या' इत्येव विवरणादिति भावः ।
SK 2835 · A 8.4.29V
कृत्यचः ॥ २८३५ ॥
kṛtyacaḥ
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ।
vārttika
निर्विण्णस्योपसंख्यानम्
(वार्तिकम्) ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥
Tattvabodhinī
NSP p. 490
—कृत्यचः । उपसर्गादित्यनुवर्तते रषाभ्यामिति च । तत्र तात्स्थ्यात्ताच्छब्यमित्याह—उपसर्गस्थादिति ॥—कृत्स्थस्य नस्येति । अच उत्तरस्येत्यस्य कृतो विशेषणत्वे तु प्रयापणमित्यादौ न स्यादिति भावः ॥—प्रमग्न इति । ‘टुमस्जो शुद्धौ’ ‘ओदितश्च’ इति निष्ठानत्वं, तस्यासिद्धलात् ‘स्कोः’—इति सलोपे ‘चोः कुः’ ॥—निर्विण्णस्येति । विदेः कस्य ‘रषाभ्याम्’—इति नत्वं पूर्वस्य दस्य च
Bālamanoramā
कृत्यचः - कृत्यचः । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च । उपसर्गस्थादिति विवक्षितम् ।कृती॑त्यनन्तरंविद्यमानस्ये॑ति शेषः । अचेति पञ्चमी । तदाह — उपसर्गस्थादिति । असमानपदत्वादप्राप्तौ वचनम् ।अट्कुप्वाङ्नुम् व्यवायेऽपी॑त्यनुवर्तते । तदाह - प्रयाणीयमिति । निर्विण्णस्येति । नस्यण इत्युपसङ्ख्यानमित्यर्थः । अचः परत्वाभावादिति । विदेः क्तप्रत्ययेरदाभ्या॑मिति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे 'निर्विन् न ' इति स्थिते नकारस्य अचः परत्वाऽभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः । नकारेण व्यवदानाच्च णत्वस्याऽप्राप्तिर्बोध्या । पूर्वस्येति । नस्य णत्वे, ष्टुत्वेन णत्वमित्यर्थः ।तथा च द्विणकारकं रूपम् ।
SK 2836 · A 8.4.30V
णेर्विभाषा ॥ २८३६ ॥
ṇervibhāṣā
Siddhānta-kaumudī
उपसर्गास्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तस्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यकाव्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥
Tattvabodhinī
alignment inferredNSP p. 490
—प्रयापणीयमिति । या प्रापणे । णिचि ‘अर्तिही’—इति पुक् ‘णेरनिटि’ इति णिलोपः ॥—प्रयाप्यमाणमिति । यातेर्णिचि पुकि ण्यन्तस्य धातुत्वेन वर्तमाने कर्मणि लटि लटः शानच् तस्य शित्त्वेन ‘तिङ्शित्’—इति सार्वधातुकत्वे ‘सार्वधातुके यक्’ इत्यनेन यकि कृते ‘णेरनिटि’ इति णिलोपे ‘आने मुक्’ इति मुगागमे णत्वे च सिध्यति रूपम् । विहितविशेषणाकरणे तु यका व्यवधानेन ण्यन्तात्परत्वाभावान्न सिध्यति । न चाङ्व्यवायेऽपीति भविष्यतीति वाच्यम् । रषाभ्यां परस्य नत्येत्यंशे तस्यादिति निर्दिष्टपरिभाषया प्रापितस्याव्यवधानस्य रामाणामित्यादिसिद्धये व्यवायेऽपीति योगविभागेन वाधे सति आदर्शेनेत्यादावतिप्रसङ्गे प्राप्ते अट्कुप्वाङित्यंशो नियमार्थः । आङ्ग्रहणं तु पदव्यवायेऽपीति निषेधं वाधितुमिति स्थितम् । ‘णेर्विभाषा’ इत्यत्र तु ण्यन्तकृतोरव्यवधानस्यापेक्षा कथमद्भहणेन निवार्यति भावः
Bālamanoramā
णेर्विभाषा - णेर्विभाषा । 'कृत्यचः' इत्यनुवर्तते । 'रषाभ्यां नो णः' इति च ।णे॑रिति कृतो विहितविशेषणमम् । तदाह — उपसर्गस्थादित्यादिना । प्रयापणीयमिति । याधतोर्णौ पुकि यापि इत्यस्माण्ण्यन्तादनीयरि णेर्लोपे अनेन णत्वविकल्पः । यकेति । यापि इत्स्माण्ण्यन्तात्कर्ममि लटः शानचिआने मु॑गिति मुगागमे यकि णिलोपे प्रयाप्यमाणशब्दे णत्वविकल्प इष्यते । णेः परो यः कृत्तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतः शानचो यका व्यवहितत्वेन णिचः परत्वाऽभावात्तत्स्थस्य नस्यणत्वविकल्पो न स्यात् । तदर्थं णेरिति विहितविशेषणमाश्रित्यमित्यर्थः । भाष्ये तु ण्यन्तात्परो यः कृदित्यंशेऽप्यट्कुप्वाङ् नुमित्याद्यनुवर्त्त्य यकारव्यवधानेऽपि णत्वविकल्पः समर्थितः । णत्वे दुर इति । षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः॑ इत्यनेनेति भावः । ततश्च दुर उपसर्गत्वाऽभावात्ततः परे कृत्स्थनकारे सूत्रद्वयमपि न प्रवर्तते इत्यभिप्रेत्य उदाहरति — दुर्यानं दुर्यापनमिति । यातेण्र्यन्ताल्ल्युटि णिलोपे दुर्यापनमिति रूपम् ।
SK 2837 · A 8.4.31V
हलश्च इजुपधात् ॥ २८३७ ॥
halaśca ijupadhāt
Siddhānta-kaumudī
हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥
Tattvabodhinī
NSP p. 490
—हलश्च । इजुपधस्य हलन्तलाव्यभिचाराद्धल इत्यनेन तदादित्वं लक्ष्यत इत्याह—हलादेरिति ॥—प्रकोपणीयमिति । कुप क्रोधे ॥—प्रोहणीयमिति । ऊह वितकें । अत्र ‘कृत्यचः’ इति नित्यमेव णत्वम् । एवं प्रवपणीयमित्यत्रापि । डुवप् वीजसंताने
Bālamanoramā
हलश्च इजुपधात् - हलश्चेजुपधात् । हलन्तादिति नार्थः, इजुपधस्य हलन्तत्वाऽव्यभिचारात् । किंतु हलादेरितिविवक्षितम् । तदाह — हलादेरिजुपधादिति ।परस्ये॑ति शेषः । प्रोहणीयमित्यादिप्रत्युदाहरणे तु 'कृत्यच' इति नित्यमेव णत्वम् ।
SK 2838 · A 8.4.32V
इजादेः सनुमः ॥ २८३८ ॥
ijādeḥ sanumaḥ
Siddhānta-kaumudī
सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । अट्कुप्वाङ्- SK 197 इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । प्रोम्भणम् ॥
Tattvabodhinī
NSP p. 490–491
—इजादेः सनुमः । ‘कृत्यचः’ इत्येव सिद्धे नियमार्थमिदमित्याह—सनुमश्चेदित्यादि । इह हल इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम् । इजादेर्हलादित्वासंभवात्तदाह—हलन्तादिति ॥—विहित इति । यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत, णिजन्ताद्विहितस्यापि कृत्स्थनकारस्य णिलोपे कृते हलन्तात्परत्वेन ‘णेर्विभाषा’ इति विकल्पं वाधितुं विषेः । अंशुवाला di इष्टपत्तौ ॥ कुप्वाणिजन्तात्प्रकृत्यिकाणीयप्रस्थायावत्तं प्रेक्षणीयमित्याद्धलादरणं bs स्यात्, किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात् । किंच अस्य सूत्रस्य नियमार्थलाभावात्प्रमङ्गनीयमित्यत्र ‘कृत्यचः’ इत्यनेन णत्वं स्यात्, अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिक् ॥ नन्वेवमपि नियमार्थता न युज्यते प्रेन्वनमित्यत्र विध्यर्थल- संभवात्, नुम्नकारेण व्यवधानात् ‘कृत्यचः’ इत्यस्याप्राप्तेरित्यत आह—नुम्प्रहणमिति । ‘अट्कुप्वाङ्—’ इति सूत्र इवात्रापि नुमानुसारो लक्ष्यत एति विध्यर्थलमिह न शङ्कनीयमिति भावः ॥—प्रोम्भणमिति । उम्भ पूरण इत्यस्मा- द्भावे ल्युट् ॥—वा निस्स—। ‘कृत्यचः’ इत्यतोऽनुवर्तनादाह—कृति पर इति ॥—ण्यन्तभादीनामिति । ण्यन्तस्य प्रकृत्यन्तरलादप्राप्ते वचनम् । ‘हेरचडि’ इति सूत्रे अचङ्कीति पर्युदासेन प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमिति ज्ञापनादे- तत्सिद्धमिति केचिदाहुस्तद्रभसात् । ज्ञापनं तु कुलमात्रविषयकमिति भाषादौ सिद्धान्तितलात्
Bālamanoramā
इजादेः सनुमः - इजादेः । 'णेर्विभाषा' इति निवृत्तम् । 'कृत्यच' इत्यनुवर्तते,हलश्चेजुपधा॑दित्यतो हल इति च । प्रकृतिविशेषणत्वात्तदन्तविधिः । तथा च सनुमो हलन्तादिजुपदात् परस्य कृन्नस्य णः स्यादिति लभ्यते । एवं च प्रेङ्खणीयमित्यादौ 'कृत्यचः' इत्येव सिद्धेरिदं नियमार्थमित्याह — सनुमश्चेदिति । कृत्स्थस्यैवेत्यनन्तरंणत्व॑मिति शेषः । प्रेङ्खणीयमिति । इखधातुरिदित्त्वात्सनुम् । 'इवि प्रीणने' इति धातोर्ल्युटि तस्याऽनादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाच्चेत्यत आह — नुङ्ग्रहणमित्यादि । अनुस्वारश्च सर्व एव गृह्रते, न तु नुम्स्थानिक एव, अविशेषात् । तदाह — इह त्विति । प्रोम्भणमिति । इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुम्स्थानिकानुस्वारवानिति भावः ।
SK 2839 · A 8.4.33V
वा निंसनिक्षनिन्दाम् ॥ २८३९ ॥
vā niṃsanikṣanindām
Siddhānta-kaumudī
एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥
Bālamanoramā
वा निंसनिक्षनिन्दाम् - वा निंस ।कृत्यचः इत्यतः कृतीत्यनुवृत्तम् । अचेति च निवृत्तम् । तदाह — एषां नस्येति ।
SK 2840 · A 8.4.34V
न भाभूपूकमिगमिप्यायीवेपाम् ॥ २८४० ॥
na bhābhūpūkamigamipyāyīvepām
Siddhānta-kaumudī
एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥
vārttika
पूञ एवेह ग्रहणमिष्यते
(वार्तिकम्) ॥ पूङस्तु प्रपवणीयः सोमः ।
vārttika
ण्यन्ताभादीनामुपसंख्यानम्
(वार्तिकम्) ॥ प्रभापनीयम् ॥
vārttika
ख्शाञः शस्य यो वेत्युक्तम्
(वार्तिकम्) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥
Bālamanoramā
न भाभूपूकमिगमिप्यायीवेपाम् - न भाभू । प्रभानीयमिति । इह 'कृत्यचः' इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरमोपरीति । इदंचक्षिङः ख्या॑ञिति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं नेति भावः ।
SK 2841 · A 3.3.113V
कृत्यल्युटो बहुलम् ॥ २८४१ ॥
kṛtyalyuṭo bahulam
Siddhānta-kaumudī
स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥
Bālamanoramā
कृत्यल्युटो बहुलम् - कृत्यल्युटो । याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः ।स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तुकृतो बहुलमिति वक्तव्य॑मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः । कर्मणि ण्वुल् । आओऽग्नीनाधास्यमानेन । अनद्यतने भविष्यति लृडित्युदाहृतम् ।
SK 2842 · A 3.1.97कृत्यसंज्ञाधिकारः
अचो यत् ॥ २८४२ ॥
aco yat
Siddhānta-kaumudī
अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि सुपठत्वात् ॥
Tattvabodhinī
NSP p. 491
—अचो यत् । धातो- रिति वर्तते । अज्महणं च धातोर्विशेषणं विशेषणेन तदन्तविधिस्तदाह—अजन्तादिति ॥—शक्यमकर्तुमिति । अत्र केचिदज्महणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमपेक्षितम् । तेन दित्स्यं धित्स्यमित्यत्र यति कृते ‘यतोऽनावः’ इत्याद्युदात्तत्वं सिध्यति, ण्यति कृते तु ‘तित्स्वरितम्’ इति प्रसज्येत । न च दित्स्यं धित्स्यमित्यत्र ‘ऋहलोः—’ इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम् । आर्धधातुकविवक्षायामेव अतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुस्तदापाततः । आर्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत्तृलोपस्तु आर्धधातुके पर एवोचितः । अन्यथा परनिमित्त- लाभावेन स्थानिवत्त्वाभावे गणयतीत्यादावुपधावृद्धिप्रसङ्गादिति भावः ॥—सुपठत्वादिति । द्वये धातवोऽजन्ता हल- न्ताश्च । तत्र हलन्ताण्ण्यतं वक्ष्यतीति परिशेषादजन्तादेव यद्भविष्यतीति भावः ॥—तकिशसीति—। तक हसने । शस्तु हिंसायाम् । चते याचने । यत्तु केचिच्छंसीति सानुसारं पठन्ति तदुपेक्ष्यम् । ‘ईडवन्दवृशंसदुहां ण्यतः’ इति सूत्राविरोधेन शंसेण्येत एव स्वीकर्तव्यलात् । ‘हनो वा यत्’ इति हन्तेर्वा यत्स्यात्, यत्संनियोगेन वधादेशस्तु नित्य एव । यद्यपि वधमर्हतीति वध्य इति ‘शीर्षच्छेदाद्यच्च’ इत्यतो यदित्यनुवर्तमाने ‘दण्डादिभ्यः—’ इति तद्धितेन यतापि सिध्यति तथाप्य- सिवध्यो मुसलवध्य इति समासो न सिध्येत् । कृति पुनः ‘कर्तृकरणे कृता’ इति सिध्यति । न चासिवधमर्हतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम् । दण्डादिषु केवलस्य वधशब्दस्य पाठात्प्रत्ययविधौ तदन्तविधेश्च प्रतिषेधात्स्वरे भेदाच्च । असिवधशब्दाद्यति हि सति ‘तित्स्वरितम्’ इति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृतिस्वरेण वध्यशब्द आद्युदात्तः । अत एव वध्यशब्देन तद्धितान्तेन सह सुप्सुपेति समास इत्यपि न वाच्यम् । अन्तोदात्तलप्रस- ङ्गादिति दिक् ॥—घात्य इति । ‘हनस्तोऽचिण्णलोः’ इति तलम् ‘हो हन्तेः—’ इति कुलम्
Bālamanoramā
अचो यत् - अचो यत् । शक्यमकर्तुमिति ।ऋहलोण्र्य॑दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्ययस्याऽप्रवृत्तिरित्यर्थः । वासरूपविधिस्तु सरूपत्वान्न भवति । योगविभागोऽप्येवमिति । कर्तुमशक्य इत्यर्थः । कुत इत्यत आह — तव्यदादिष्वेवेति ।तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः ।
SK 2843 · A 6.4.65V
ईद्यति ॥ २८४३ ॥
īdyati
Siddhānta-kaumudī
यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥
vārttika
तकिशसिचतियतिजनिभ्यो यद्वाच्यः
(वार्तिकम्) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च SK 2512 इति नेषेधात् ।
vārttika
हनो वा यद्वधश्च वक्तव्यः
(वार्तिकम्) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥
Bālamanoramā
ईद्यति - इद्यति । आत इति ।आतो लोप इटि चे॑त्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोःअचोय॑दिति यति अत ईत्त्वेसार्वधातुकार्धधातुकयो॑रिति गुण इति भावः । ग्लेयमिति । 'ग्लै हर्षक्षये' इति धातोर्यति 'आदेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि,शसि , चति , यति, जनी प्रादुर्भावे॑ इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः । सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननुअर्हे कृत्यतृचश्चे॑त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह — स्वरार्थ इति । 'यतोऽनावः' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति — न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह — जनिवध्योरिति । हनो वेति । हनधातोर्यद्वा स्यात्,प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यतिहनस्तोऽचिण्णलो॑रिति नस्य तः । कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः ।
SK 2844 · A 3.1.98V
पोरदुपधात् ॥ २८४४ ॥
poradupadhāt
Siddhānta-kaumudī
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥
Tattvabodhinī
NSP p. 491–492
—पोरदुपधात् । पोः किम् । पाक्यम् । अदुपधात्किम् । कोप्यम् । तपरकरणं किम् । आप्ल्ल व्याप्तौ । आप्यम् ॥—नानुवन्धेति । अनुवन्धा- नामनवयवलात् तत्कृतमसारूप्यं नाश्रीयते । एकान्तलपक्षेऽपि ‘ददातिदधात्योर्विभाषा’ इति विभाषाग्रहणाल्लिङ्गाना- श्रीयते । अन्यथा अनुवन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन विभाषाग्रहणेन । ततश्च पक्षद्वयेऽपि शप्यमित्यादौ ण्यन्न भवतीति भावः । एतच्च ददातीत्यादिसूत्रे विभाषाग्रहणमनुवन्धानामनेकान्तलपक्षे शविषये णस्या- प्राप्तौ विभाषा, एकान्तलपक्षे तु प्राप्तविभाषेति पक्षद्वयसाधारणं विभाषाग्रहणं लिङ्गं मनोरमायासेकान्तलपक्ष एवोपन्य- स्तमिति तदनुसारेणेहाप्युक्तम् । अनेकान्तलपक्षे लसाधारणं लिङ्गम् ‘उदीचां माङः—’ इति सूत्रे माङो ग्रहणम् । मेङ इत्यत्र हि सत्यपि ङकारानुवन्धे तस्यावयवलाद् एजन्तलमविहतमिति ‘आदेच उपदेशे—’ इत्यालस्वीकारादिति दिक् ॥—पयदेवेति । तेन ‘तित्सरितम्’ इति स्वरिते सति आलम्भ्य इत्यत्र समासान्तोदात्तत्वं वाधित्वा क्रुदुत्तरपद-प्रकृतिस्वरेण स्वरितान्तलमिष्टं सिध्यति, यति तु ‘यतोऽनावः’ इत्याद्युदात्तत्वेनोत्तरपदाद्युदात्तत्वं प्रसज्येत तच्चानिष्ठमिति भावः
Bālamanoramā
पोरदुपधात् - पोरदुपधात् । ननु शप्यं लभ्यमित्यत्रऋहलोण्र्य॑दिति कदाचिण्ण्यदपि स्यात्, यण्ण्यतोरसारूप्येण वाऽसरूप इत्यस्य प्रवृत्तेरित्यत आह — - नानुबन्धकृतमसारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थिमिदम् । अनुबन्धविनिर्मुक्तस्यैव असारूप्यं विविक्षितमित्यर्थः । प्रकृते च यण्ण्यतोरनुबन्दरहितयोः सारूप्याद्वासरूपविधेरप्रवृत्तेः शप्यमित्यादौ ण्यदपवादो यदेवेति भावः ।
SK 2845 · A 7.1.65V
आङो यि ॥ २८४५ ॥
āṅo yi
Siddhānta-kaumudī
आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥
Bālamanoramā
आङो यि - आङो यि ।इदितो नुम् धातो॑रित्यतो नुमिति,लभेश्चे॑त्यतो लभेरिति चाऽनुवर्तते । तदाह — आङः परस्येति । विवक्षिते इति । 'यी' इति विषयसप्तमीति भाष्ये स्पष्टम् । 'विवक्षिते' इत्यस्य प्रयोजनमाह — नुमि कृते इति । यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः ।यति परे नु॑मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः । आलम्भ्यो गौरिति । यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृतेतित्स्वरित॑मिति स्वरितत्वम्, यति तु 'यतोऽनावः' इत्याद्युदात्तत्वमिति स्वरभेदः फलम् ।
SK 2846 · A 7.1.66V
उपात् प्रशंसायाम् ॥ २८४६ ॥
upāt praśaṃsāyām
Siddhānta-kaumudī
उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥
Tattvabodhinī
NSP p. 492
—उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षिते उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेषणम् । धालथंश्च प्राप्तिरेव, तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापि यादौ प्रत्यये विवक्षिते इत्यर्थाभुमि कृते प्यति सत्यन्तस्वरितत्वं भवति, यति तु सत्युत्तरपदाद्युदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्य ‘पोरदुपधात्’ इति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं तदाकरविरोधादुपेक्ष्यमित्याहुः ॥—गदमद—। व्यत्ययेन पञ्चम्यर्थे सप्तमी । एभ्योऽनुपसर्गेभ्यो यत्स्यात् प्यतोऽपवादः । अनुपसर्गे किम् । ‘न नैपधे कार्यमिदं निगद्यम्’ इति श्रीहर्षः ॥—यमेरिति । ‘पोरदुपधात्’ इत्यनेनैव सिद्धेरिति भावः ॥—नियमे साधुरिति । ‘यमः समुपनिविषु च’ इति वैकल्पिकेऽप्यत्यये कृते ‘तत्र साधुः’ इति तद्धितो यदित्यर्थः । यद्यप्यस्मिन्पक्षे ‘कृत्यानां कर्तरि वा’ इत्यस्याप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति च तेनेति च करणत्वविवक्षया तृतीयेति स्थितस्य गतिर्वोध्या । केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे । यद्वा ‘यमोऽपरिवेषणे मित्’ इति मतमाश्रित्य ‘पर्यवसितं नियमयन्’ इत्यादाविव मित्त्वं स्वीकृत्य प्यन्ताद्यत् वोध्यः । अथ वा संज्ञापूर्वकविधेरनित्यत्वात् प्यत्येव वृद्धिर्न प्रवृत्तेति दिक् । एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्ध्येन निपूर्वादिति न कल्पनीयमिति भावः ॥—अनुद्यमिति । अत्र वदेः क्यवेव भवति यजादित्यात्संप्रसारणम् । ‘नलोपो नञः’ ‘तस्माभुडचि’ ॥—व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि निपातनस्येह रूढ्यर्थत्वाद्यवहर्तव्य एवायं नीपात्यते । उक्तं च हरिणा—‘धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च ॥ अनुवन्धविकाराणां रूढ्यर्थं च निपातनम्’ इति ॥ अनुवन्धविकाराणां नियमस्य च प्राप्त्यर्थमिति पूर्वेणान्वयः ॥—शतेनेति । शतशब्दोऽनियतपरः । कन्याया वरणे वरयितॄणां नियमो नास्तीत्यर्थः ॥—वयति । संभक्तव्येत्यर्थः । वृद्ध् संभक्तावित्यस्येदं निपातनम्, तत्रैवानिरोधरूपस्यार्थस्य संभवादिति भावः । अनिरोधेष्वित्यस्यानुक्तौ वृषोऽपि स्यादिति ध्वनयति—वृत्येति । ‘एतिस्तुशास्’ इत्यादिना वृषः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि तत्र वर्याशब्दष्टावन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्येति स्त्रियामेव निपात्यते । अस्त्रियां तु वृद्धः ‘ऋहलोर्ण्यत्’ । वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति स्त्रीत्वं तु नास्तीति प्यदेव भवति । एतच्च वृत्तिकारमतम् । न चात्र ‘एतिस्तु—’ इति क्यप् शङ्क्यः । तत्र वृष एव प्रहणं न तु वृद्ध इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाज्जसा निर्देश इति मत्वा पुंलिङ्गेऽपि यतं प्रायुङ्क्त । ‘सुप्रीवो भम वर्योऽसौ’ इति ॥—वाह्यमिति । वहनकर्मेत्यर्थः
Bālamanoramā
उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः । उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव । स्वरे विशेषः पूर्ववत् ।
SK 2847 · A 3.1.99V
शकिसहोश्च ॥ २८४७ ॥
śakisahośca
Siddhānta-kaumudī
शक्यम् । सह्यम् ॥
Bālamanoramā
शकिसहोश्च - शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । ण्यतोऽपवादः ।
SK 2848 · A 3.1.100V
गदमदचरयमश्चानुपसर्गे ॥ २८४८ ॥
gadamadacarayamaścānupasarge
Siddhānta-kaumudī
गद्यम् । मद्यम् । चर्यम् ।
vārttika
चरेराङि चागुरौ
(वार्तिकम्) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥
vārttika
तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात्
(वार्तिकम्) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥
Bālamanoramā
गदमदचरयमश्चानुपसर्गे - गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाण्ण्यदेव । प्रगाद्यमित्यादि । चरेराङिचाऽगुराविति । वार्तिकमिदम् । आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह — यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः । तत्फलमाह — सोपसर्गान्मा भूदिति । ननुअनियम्यस्य नाऽयुक्तिः॑ इत्यत्र,त्वया नियम्या ननु दिव्यचक्षा॑ इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह — निपूर्वात्स्यादेवेति । 'य' दिति शेषः । कुत इत्यत आह — तेन न तत्रेति । प्रकारान्तरेण समाधत्ते — नियमे साधुरिति वेति ।यमः समुपनिविषु चे॑ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थः 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः ।
SK 2849 · A 3.1.101V
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ॥ २८४९ ॥
avadyapaṇyavaryā garhyapaṇitavyānirodheṣu
Siddhānta-kaumudī
वदेर्नञि उपपदे वदः सुप् - SK 2854 इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥
Bālamanoramā
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु - अवद्यपण्य । अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह — नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः । अवद्यं पापामिति.गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेतव । अत्र नञि उपपदेवदः सुपीटति क्यपिवचिस्वपियजादीनां किती॑ति संप्रसारणे रूपम् । वचनाऽनर्हमित्यर्थः । अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः । ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह — तद्धि न गर्ह्रं वचनानर्हं चेति.कुत इत्यत आह — आत्मनामेति । पण्या गौरिति । पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः । यद्यपिपण व्यवहारे स्तुतौ च॑ इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते । तदाह — व्यवहर्तव्येति । क्रेतव्येत्यर्थः । पाण्यमन्यदिति । ण्यति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह — स्तुत्यर्हमिति । प्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्याकन्येति । पुरुषशतेन परिग्रहीतुमर्हा । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः ।एतिस्तुशास्वृदृजुषः क्य॑बिति तुक् । अत्र अनियमस्य अप्रतीतेर्न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि 'वार्या ऋत्विज' इति वृत्तिः ।
SK 2850 · A 3.1.102V
वह्यं करणम् ॥ २८५० ॥
vahyaṃ karaṇam
Siddhānta-kaumudī
वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥
Bālamanoramā
वह्यं करणम् - वह्रं करणम् । वहेः करणे यन्निपात्यते । ण्यतोऽपवादः ।
SK 2851 · A 3.1.103V
अर्यः स्वामिवैश्ययोः ॥ २८५१ ॥
aryaḥ svāmivaiśyayoḥ
Siddhānta-kaumudī
ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥
Bālamanoramā
अर्यः स्वामिवैश्ययोः - अर्यस्वामिवैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद इति ।ऋहलो॑रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह — अर्यः स्वामीति । आर्यो ब्राआहृण इति । ण्यति वृद्धौ रपरत्वमिति भावः ।
SK 2852 · A 3.1.104V
उपसर्या काल्या प्रजने ॥ २८५२ ॥
upasaryā kālyā prajane
Siddhānta-kaumudī
गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥
Tattvabodhinī
NSP p. 492–493
—उपसर्या—। उपपूर्वात्सरतेः सर्तेर्वा यत्रिपात्यते । कालः प्राप्तोऽस्याः काल्या । ‘तदस्य प्राप्तम्’ इति वर्तमाने ‘कालाद्यत्’ इति यत् । प्रजननं प्रजनो गर्भप्रहणं । भावे घञ् ‘जनिवध्योश्च’ इति वृद्धिनिषेधः ॥—उपसार्येति । कर्मणि प्यत् ॥—कर्तरि यदिति । ‘तयोरेव—’ इति भावे प्राप्ते कर्तरि यत्रिपात्यत इति भावः ॥—संगतं त्वेदिति । नपुंसके भावे क्तः ॥—विशेष्यमिति । इहाजर्यमिति समुदायस्य संगतं वाच्यमित्यर्थो न प्राह्यः पर्यायाणां युगपत्प्रयोगासंभवेनाजर्यं सतां संगतमिति प्रयोगानापत्तेः । तेन संगतमिति भट्टिप्रयोगानुपपत्तेश्च ॥— वदः—। सकर्मकलाद्भावे कृत्यप्रत्ययो दुर्लभः ‘लः कर्मणि—’ इति सूत्र इव ‘तयोरेव—’ इत्यत्रापि सकर्मकेभ्यः कर्मणि अकर्मकेभ्य एव भावे इति सिद्धान्तात् । अत आह—भाव इत्याकृष्यत इति । ‘भुवो भावे’ इत्यत्रानुपसर्ग इत्यनुवर्तनात् निरुपसर्गस्य भवतेरकर्मकलात् ‘तयोरेव कृत्य—’ इति भावे कृत्यप्रत्ययसिद्धौ भावप्रहणस्य वैयर्थ्यशङ्कायां भावप्रहणमुत्तरार्थमिति भाष्ये स्थितं तद्भाष्यस्वारस्यप्राहिणां मतमाह—कर्मणीति ॥—अनुपसर्ग इति । मुपि किम् । ‘हनस्तो चिण्णलोः’ । घातः । अनुपसर्गे किम् । प्रघातः । भावे घञ्
Bālamanoramā
उपसर्या काल्या प्रजने - उपसर्या । प्रजननं प्रजनः = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मित्यनुवर्तमानेकालाद्य॑दिति यत् । चेदित्यध्याहार्यम् । तदाह — गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः । उपपूर्वात् सृधातोर्यदिति फलितम् । ण्यतोऽपवादः ।
SK 2853 · A 3.1.105V
अजर्यं संगतम् ॥ २८५३ ॥
ajaryaṃ saṃgatam
Siddhānta-kaumudī
नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥
Bālamanoramā
अजर्यं संगतम् - अजर्यम् । कर्तरि यदिति ।कर्तरीति वक्तव्य॑मिति वार्तिकम् । निपातनात्कर्तरीति लभ्यत इति तदाशयः । सङ्गतमिति । सङ्गतं = सङ्गमः । न जीर्यतीत्यजर्यमिति ।मित्रत्व॑मिति शेषः । जरितृ न भवतीत्यर्थः । अत्र भट्टिप्रयोगमाह — तेनेति । हे राम ! तेन आर्येण अजर्यम् = अनआरं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः । ननु 'मृगौरजर्यं जरसा' इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह — मृगैरित्यादि । कालिदासकाव्यमिदम् । अजरितेति । तृजऽभावान्न यदित्यर्थः ।
SK 2854 · A 3.1.106V
वदः सुपि क्यप् च ॥ २८५४ ॥
vadaḥ supi kyap ca
Siddhānta-kaumudī
उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥
Bālamanoramā
वदः सुपि क्यप् च - वदः सुपि । उत्तरेति । 'भुवो भावे' इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः । भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः । अनुपसर्गे इति ।वृः सुप्यनुसर्गग्रहण॑मिति भाष्यादिति भावः । ब्राहृओद्यमिति । वदेः क्यपि वचिस्वपी॑पि संप्रसारणम् ।वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या॑दिति मतमनुसृत्य आह — कर्मणि प्रत्ययावित्येके इति । क्यब्यतावित्यर्थः ।
SK 2855 · A 3.1.107V
भुवो भावे ॥ २८५५ ॥
bhuvo bhāve
Siddhānta-kaumudī
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥
Bālamanoramā
भुवो भावे - भुवो भावे । ब्राहृभूयमिति । कित्त्वान्न गुणः । क्लीबत्वं लोकात् । भव्यमिति । भाव इत्यर्थः । अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः,वान्तो यी॑त्यवादेशः । प्रभव्यमिति । प्रभाव इत्यर्थः ।
SK 2856 · A 3.1.108V
हनस्त च ॥ २८५६ ॥
hanasta ca
Siddhānta-kaumudī
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥
Bālamanoramā
हनस्त च - हनस्त । अन्तादेश इति ।प्रकृते॑रिति शेषः । भावे किम् । घात्यो वृषलः । अनुपसर्गे किम् । प्रघातः । निरुपपदं हत्येति त्वसाध्वेव ।
SK 2857 · A 3.1.109V
एतिस्तुशास्वृदृजुषः क्यप् ॥ २८५७ ॥
etistuśāsvṛdṛjuṣaḥ kyap
Siddhānta-kaumudī
एभ्यः क्यप्स्यात् ॥
Tattvabodhinī
NSP p. 493–494
—पतिस्तु—। एभ्य इति सुप्यनुपसर्गे भावे इति च निवृत्तमिति भावः । एतीतीण एव ग्रहणं नेङ्किः । तयोरधिपूर्वयोरेव ग्रहणादेतीति निर्देशानुपपत्तेः । तथा च रक्षार्थं वेदानामध्येयं व्याकरणमिति भाष्ये यदेव प्रयुक्तः । केचित्तु ‘इण्वदिक इति वक्तव्यम्’ इति वचनादिकोऽपि भवतीत्यधीत्यामातेत्युदाहरन्ति ॥—इत्य इति । कथं तर्हि उपेयमिति ईङ् गताविति दैवादिकाद्यत् ॥—न बृङ् इति । ‘ईडवन्द—’ इति ज्ञापकात् तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो बृङ एव ग्रहणमिति भावः ॥—परस्यापीति । ‘ओरावश्यके’ इति प्राप्तस्य ण्यस्यावकाशोऽवश्यलाव्यमिति आवश्यकविवक्षायां स्तुत्य इत्यादौ क्यपोऽवकाशः अवश्यस्तुत्य इत्यादाद्युभयप्राप्तौ ‘विप्रतिषेधे परम्—’ इति ण्यत्स्यात् तन्माभूदिति पुनः क्यबुक्तिरिति भावः ॥—आङ्पूर्वादञ्जेरिति । ननु ण्यत्येव नलोपः कस्मान्नोक्त इति चेन्न । कुलप्रसङ्गात्तित्स्वरप्रसङ्गाच्च । तस्मात्क्यवन्त एवाज्यशब्दः । नन्वेवमवग्रहः प्राप्नोति । न चेष्टापत्तिः । आज्यं किमासीदित्यादौ पदकारैस्तदकरणादिति चेत् । अत्र भाष्यम् । न लक्षणेन पदकारा अनुवर्त्याः पदकारैस्तु लक्षणमनुवर्त्यमिति । सत्यपि अवान्तरपदत्वे ‘ऋलिजं, पूर्वेभिः’ इत्यादाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः ॥—कृपिचृत्योस्त्विति । कृपू सामर्थ्यं । चृती हिंसाग्रन्थनयोः ॥—कल्प्यमिति । कृपेललस्यासिद्धत्वाद् ऋलवर्णयोः सावर्ण्यविधानाच्च ऋदुपधत्वम् ॥—हस्वः सुपठ इति । दीर्घं पठतः सूत्रकृतस्त्वयमाशयः । दीर्घनिर्देशः इ इति प्रश्लेषार्थस्तत्र द्वितीय इकारो ‘ये विभाषा’ इत्यात्ववाधनार्थः । अन्यथा ‘ये विभाषा’ इत्यस्यावकाशः । स्वायते स्वन्यते । इत्यस्यावकाशः यस्मिन् पक्षे आत्वं नास्ति । आत्वपक्षे तु उभयप्रसङ्गे परत्वादन्तरक्षत्वाच्चात्वं स्यात् ‘ये विभाषा’ इत्यत्र हि ये इति विषयसप्तमी । तथा च यकारादौ बुद्धिस्थे एव प्राप्तमात्वमन्तरज्ञम् । ईकारस्तु क्यपा सह विधानाद् वहिरज्जः । तथा चान्तरज्ञस्यात्वस्य वाधनाय प्रश्लेषेण द्वितीय इकारविधिरावश्यक इति ई चेति दीर्घोच्चारणं कृतमिति । दीर्घं प्रत्याचक्षाणस्य भाष्यकृतस्त्वयमाशयः । इत्यमन्तरज्ञं परनिमित्तमनपेक्ष्य विधानात् क्यप्सन्नियोगशिष्टं हि तत् । आत्वं तु वहिरज्जं ये इति परसप्तम्याश्रयणात् । एवं च इत्वेनात्ववाधो न्याय्य एवेति दीर्घो न पठनीयः । हस्वपाठे मात्रालाघवमस्तीति तदनुरोधेन ये इति परसप्तम्याश्रयणमपि युक्तमिति । स्यादेतत् । इ चेति हस्वादेशाभ्युपगमे तस्यादेशस्य पूर्वेण सह आह्वणे तस्यासिद्धतया ‘हस्वस्य पिति—’ इति तुक् स्यात् ‘षलतुकोरसिद्धः’ इति षत्वे तुकि च कर्तव्ये एकादेशशास्त्रस्यासिद्धत्वस्वीकारात् । अतो दीर्घं एव विधेय इति चेत् । मैवम् । पदान्तपदाद्योरादेशोऽसिद्धो न त्वन्योऽपीति सिद्धान्तात् । अन्यथा बृक्षे छत्रमित्यत्र डावाह्वणस्यासिद्धतया छे चेति हस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु दीर्घात्पदान्ताद्वेति वैकल्पिक इति दिक् ॥—‘भृशोऽसंज्ञायाम्’ इत्यसंज्ञाग्रहणसामर्थ्याङ्गार्येत्यत्र सूत्रान्तरेणापि क्यप् न भविष्यतीत्यत आह—पुंसि चरितार्थ इति । भार्या नाम क्षत्रिया इत्यत्रेत्यर्थः ॥—तदनुवन्धेति । इभृश् इत्यनेकानुवन्धत्वात् विभर्तेः क्यपोऽप्रसङ्ग इति भावः
Bālamanoramā
एतिस्तुशस्वृदृजुषः क्यप् - एतिस्तु । एति, स्तु, शास्, वृ , दृ, जुष् एषां षण्णां समाहारद्वन्द्वात्प्रञ्चमी । सुप्यनुपसर्गे भाव इति निवृत्त्म् । तदाह — एभ्यः क्यप्स्यादिति ।
SK 2858 · A 6.1.71V
ह्रस्वस्य पिति कृति तुक् ॥ २८५८ ॥
hrasvasya piti kṛti tuk
Siddhānta-kaumudī
इत्यः । स्तुत्यः । शास इदङ्हलोः SK 2486 । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ।
vārttika
शंसिदुहिगुहिभ्यो वेति काशिका
(वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः SK 2009 ईडवन्दवृशंसदुहां ण्यतः SK 3702इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम् - SK 415 इति नलोपः । आज्यम् ॥
Bālamanoramā
ह्रस्वस्य पिति कृति तुक् - ह्रस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । 'वृङ् संभक्तौ' इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । 'क्यप' इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।
SK 2859 · A 3.1.110V
ऋदुपधाच्चाकॢपिचृतेः ॥ २८५९ ॥
ṛdupadhāccākḷpicṛteḥ
Siddhānta-kaumudī
वृत् । वृत्यम् । वृध् । वृध्यम् । कॢपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥
Bālamanoramā
ऋदुपधाच्चाकॢपिचृतेः - ऋदुपधाच्चा । कॢप्चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः । ननु तपरकरममिह व्यर्थमित्यत आह — अनित्यण्यन्ता इति । णिजन्तात्तु यदेवेति ।अचो य॑दित्यनेनेति भावः ।
SK 2860 · A 3.1.111V
ई च खनः ॥ २८६० ॥
ī ca khanaḥ
Siddhānta-kaumudī
चात्क्यप् । आद्गुणः SK 69 । खेयम् । इ चेति ह्रस्वः सुपठः ॥
Bālamanoramā
ई च खनः - ई च खनः । चात्क्यविति । खनेः क्यप् स्यात्प्रकृतेरीकारोऽन्तादेशश्चेत्यर्थः । ह्रस्व सुपठ इति । ह्रस्वस्य इकारस्य आद्गुणेनखेय॑मिति सिद्धेरिति भावः ।
SK 2861 · A 3.1.112V
भृञोऽसंज्ञायाम् ॥ २८६१ ॥
bhṛño'saṃjñāyām
Siddhānta-kaumudī
भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ।
vārttika
समश्च बहुलम्
(वार्तिकम्) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-SK 3276 इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥
Bālamanoramā
भृञोऽसंज्ञायाम् - भृञोऽसंज्ञायाम् ।क्य॑बिति शेषः । भृत्याः कर्मकुर्वाणा इत्यर्थः । 'कर्मणि भृतौ' इति कृञष्टः । भर्तव्या इति । वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः । ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह — क्रियाशब्दिति । भार्या नाम क्षत्रिया इति । क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः । अथ कथं भार्येति । क्यपा भवितव्यमित्याक्षेपः । ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात्भृञोऽसंज्ञाया॑मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह — संज्ञापर्यादुसत्विति । समाधत्ते — सत्यमिति ।डु भृञ् धारणपोषणयोः॑ इति जुहोत्यादौ ह्रस्वान्तो ड्वित्, ञिच्च ।भृ भत्र्सने, भरणेऽपी॑ति क्र्यादौ दीर्घान्तः । आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः । क्यप्तु भरतेरेवेति । 'भृञ् भरणे' इति भ्वादौ ह्रस्वान्तो ञित् । अस्यैवसंज्ञायां समजनिषदे॑त्त्र,भृञोऽसंज्ञाया॑मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य । न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः । कुत इत्यत आह — तदनुबन्धकेति ।तदनुबन्धकग्रहणे नातदनुबन्धकस्ये॑ति परिभाषयेत्यर्थः । बिभर्तेः क्यबभावे बीजमिदम् । क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम् ।
SK 2862 · A 3.1.113V
मृजेर्विभाषा ॥ २८६२ ॥
mṛjervibhāṣā
Siddhānta-kaumudī
मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥
Tattvabodhinī
NSP p. 494
—मृजेर्विभाषा । ऋदुपधत्वान्नित्यं क्यपि प्राप्तेऽयमारम्भः ॥—चजोः—। यथासंख्यं नेह विवक्षितं ‘तेन रक्तं रागात्’ इति लिङ्गादिति कैयदहरदत्तादिभिरुक्तं तदालोच्याह—चस्य जस्य चेत्यादि । घिति ण्यति च चस्य कुत्वं घिति ण्यति च जस्य कुत्वमिति विवेकः ॥—न्यङ्कुरिति । ‘कृष्णसाररुन्यङ्कुरङ्गशम्बररौहिपाः’ इत्यमरः
Bālamanoramā
मृजेर्विभाषा - मृजेर्विभाषा । क्यप्पक्षे उदाहरति — मृज्य इति । कित्त्वान्न गुणः ।
SK 2863 · A 7.3.52V
चजोः कु घिण्ण्यतोः ॥ २८६३ ॥
cajoḥ ku ghiṇṇyatoḥ
Siddhānta-kaumudī
चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥
vārttika
निष्ठायामनिट इति वक्तव्यम्
(वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः SK 2473 ॥
Bālamanoramā
चजोः कु घिण्ण्यतोः - चजोः कु । 'कु' इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।
SK 2864 · A 7.3.53V
न्यङ्क्वादीनां च ॥ २८६४ ॥
nyaṅkvādīnāṃ ca
Siddhānta-kaumudī
कुत्वं स्यात् । न्यङ्कुः । नावञ्चेः (उणादिः 1.17) इत्युप्रत्ययः ॥
SK 2865 · A 3.1.114V
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ २८६५ ॥
rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ
Siddhānta-kaumudī
एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रत्यधिकरणे क्यप् । निपातनाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपोरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥
Tattvabodhinī
NSP p. 494
—राजसूय—॥—यद्वेति । राजानं क्रीणन्ति इत्यादौ तथादर्शनादिति भावः ॥ पुञ् अभिपव इत्यस्य हस्तान्तत्वादाह—निपातनादीर्घ इति । निपातनं च रूढ्यर्थमपि । तेनाद्यपक्षे अश्वमेधादौ द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसङ्गः ॥—उत्वमिति । तस्य रपरत्वात् ‘हलि च’ इति दीर्घ इति भावः ॥ —नित्यं क्यविति । तेन ‘वदः सुपि क्यप् च’ इति यत्प्रत्ययो नेति भावः
Bālamanoramā
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः - राजसूय । राज्ञेति । क्षत्रियेणेत्यर्थः । अभिषवेति । ग्रावभी रसनिष्पत्त्यर्थं सोमलातानां कुट्टनमभिषवः, तत्प्रणाडिकया निष्पादयितव्यो यज्ञविशेषो राजसूय इत्यन्वयः । यद्वेति । लताविशेषात्मकः सोमो राजशब्देन विवक्षितः,राजानं क्रीणाती॑त्यादौ तथा प्रसिद्धेः । स राजा सूयते = अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्या राजसूय इत्यन्वयः ।कर्तरि कृ॑दित्यधिकारात्कथमधिकरणव्युत्पत्तिरित्यत आह — अधिकरणे क्यबिति । कुत इत्यत आह — निपातनादिति । ननु षुञ्धातोः क्यपि कथं दीर्घः,अकृत्सार्वधातुकयो॑रित्यतस्य कृत्यप्रवृत्तेरित्यत आह — निपातनाद्दीर्घ इति । निपातनादित्युभयत्रान्वेति । उत्वमिति । तस्य रपरत्वेहलि चे॑ति दीर्घ इत्यपि बोध्यम् । मृषोद्यमिति । क्यपिवचिस्वपी॑ति संप्रसारणम् । रोचतेरिति । रुचदातोः क्यपि 'रुच्य' इति रूपमित्यर्थः । गुपेरिति । गुब्धातोः क्यप्, प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः । सुवर्णरजतभिन्नं धनं कुप्यमिति ज्ञेयम् । तथा च 'हेमरूपे कृताऽकृते' इत्युक्त्वा अमर आह — ताभ्यां तदन्यत्तत्कुप्यमिति । कृष्ट इति । कृष्टप्रदेशे ये स्वयं पच्यन्ते = फलन्ति ते कृष्टपच्या इत्यर्थः । कर्मकर्तरीति । अत्र कर्मकर्तरि क्यबित्यर्थः । निपातनादिति भावः । शुद्धे त्विति । मुक्यकर्मणि तुण्यति उपधावृद्धौचजो॑रिति कुत्वे 'कृष्टपाक्य' इति रूपमित्यर्थः । अव्यथ्य इति । अत्र निपातनात्कर्तरि क्यबिति भावः ।
SK 2866 · A 3.1.115V
भिद्योद्ध्यौ नदे ॥ २८६६ ॥
bhidyoddhyau nade
Siddhānta-kaumudī
भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥
Tattvabodhinī
NSP p. 494
—भिद्योद्ध्यौ—॥—क्यविति । कर्तरीति शेषः ॥—उद्ध्य इति । ‘तोयदागम इवोच्चभिद्ययोर्नामधेयसदृशं विचेष्टितम्’ इति रघुः
Bālamanoramā
भिद्योद्ध्यौ नदे - भिद्योध्यौ नदे । क्यबिति ।नद विशेषे कर्तरि निपात्यते॑ इति शेषः ।
SK 2867 · A 3.1.116V
पुष्यसिद्ध्यौ नक्षत्रे ॥ २८६७ ॥
puṣyasiddhyau nakṣatre
Siddhānta-kaumudī
अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥
Tattvabodhinī
NSP p. 494
—पुष्यसिद्ध्यौ—। नक्षत्रे किम् । पोषणं सेधनम् । अधिकरणे ल्युट् । पुष्यसिद्ध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः । ‘पुष्ये तु सिध्यतिष्यौ’ इत्यमरः
Bālamanoramā
पुष्यसिद्ध्यौ नक्षत्रे - पुष्यसिध्यौ । 'निपात्येते' इति शएषः । नक्षत्रविशेषे गम्ये इत्यर्थः ।
SK 2868 · A 3.1.117V
विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ २८६८ ॥
vipūyavinīyajityā muñjakalkahaliṣu
Siddhānta-kaumudī
पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कृष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्तु विपव्यम् । विनेयम् । जेयम् ॥
Tattvabodhinī
alignment inferredNSP p. 494–495
—पापमिति वेति । ‘तपो न कल्कोऽध्ययनं न कल्कः’ इत्युपक्रम्य ‘तान्येव भावोपहतानि कल्कः’ इति भारते दर्शनात् ‘कल्कः पापाशये पापे दम्भे विट्किट्योरपि’ इति कोशाच्चेति भावः ॥—वक्तव्यमिति । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । क्यप उदाहरणं तु छन्दस्येव । मत्तस्य न प्रतिगृह्यं तस्मान्नापि गृह्यम् ॥—लोके त्विति । ण्यदेवेति भावः ॥—पदारूवैरि—। एष्वर्थेषु ग्रहेः क्यप् स्यात् ॥—अवगृह्यमिति । यस्य पदस्यावग्रहः क्रियते तत्पदम् । अवग्रहो विच्छेदः । अवान्तरपदसंज्ञां सूचयितुं पाठकाले किञ्चित्कालमवसानम् ॥—प्रगृह्यमिति । यस्य प्रग्रहस्तत्पदम् । प्रग्रहस्तु प्रकृतिभावाद्यणाद्यभावे परस्परमचोरसन्निकर्षः । यस्य प्रगृह्यसंज्ञा विहिता तत्प्रगृह्यमिति वृत्तिः । यद्यपि पदावयवसद्विवचनादेः प्रगृह्यसंज्ञा न तु पदस्य तथाप्यवयवधर्मस्य समुदाये उपचारो बोध्यः । अवगृह्यप्रगृह्यशब्दौ प्रातिशाख्यादिषु पदविशेषपरतया निरूढौ ॥—अस्वैरीति । स्वेन ईरितुं शीलमस्य स्वैरी स्वतच्चः । ‘स्वादीरेरिणोः’ इति वृद्धिः । नञ्पूर्वस्तु अस्वैरी ॥—गृह्यका इति । ‘अनुकम्पायाम्’ इति कन् । ‘गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते’ इत्यमरः
Bālamanoramā
विपूयविनीयजित्या मुञ्जकल्कहलिषु - विपूय । विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते । तदाह — पूङित्यादिना । न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः । हलिशब्दस्य विवरणं - कृष्टेति ।
SK 2869 · A 3.1.118V
प्रत्यपिभ्यां ग्रहेः ॥ २८६९ ॥
pratyapibhyāṃ graheḥ
Siddhānta-kaumudī
।
vārttika
छन्दसीति वक्तव्यम्
(वार्तिकम्) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥
Bālamanoramā
प्रत्यपिभ्यां ग्रहेश्छन्दसि - प्रत्यपिभ्यां ग्रहे । छन्दसीति । वार्तिकमिदम् । वृत्तिकृता तु सूत्रे प्रक्षिप्तम् । ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह — लोके त्विति ।
SK 2870 · A 3.1.119V
पदास्वैरिबाह्यापक्ष्येषु च ॥ २८७० ॥
padāsvairibāhyāpakṣyeṣu ca
Siddhānta-kaumudī
अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥
Bālamanoramā
पदास्वैरिबाह्यापक्ष्येषु च - पदाऽस्वैरि.पद, अस्वैरि, बाह्रा, पक्ष्य एष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृह्रं प्रगृह्रं वा पदमिति । समस्तपदस्य अवान्तरपदविच्छेदोऽवग्रहः ।अप्रावेत्यादिपदमितिशिरस्कं प्रग्रहः॑ इति प्रातिशाख्ये प्रसिद्धम् ।ईदूदेद्द्विवचनं प्रगृह्र॑मिति सूत्रोदाहरणं च प्रगृह्रम् ।
SK 2871 · A 3.1.120V
विभाषा कृवृषोः ॥ २८७१ ॥
vibhāṣā kṛvṛṣoḥ
Siddhānta-kaumudī
क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥
Tattvabodhinī
NSP p. 495
—विभाषा कृ—करोतेः क्यप्यप्राप्ते वृषेस्तु ऋदुपधलान्नित्यं प्राप्तेऽयमारम्भः ॥—पत्रं वाहनमिति । पत्तत्यनेनेत्यत्र ‘दाम्रीशस—’ इत्यादिना करणे प्रून् ॥—युग्यो गौरिति । यथापि ‘तद्वद्वति रथयुगप्रासङ्गम्’ इति तद्धितयतापि इदं सिध्यति तथापि ण्यतं व्यावर्तयितुमिदं सूत्रम् । अन्यथा हि योग्यो गौरिति स्यात् । अन्ये लाहुः । युग्यो हस्तीति हि वृत्तानुदाहतं तत्तु तद्धितेन न सिध्यति । न हि हस्ती युगं वहति । कृता तु सिध्यति । युज्यते संबध्यते ह्यसौ कुथादिनेति ततश्चात्र वैयर्थ्यशङ्कैव नास्तीति दिक् ॥—वृद्धौ सत्यामिति । तेन ‘अमावास्याया वा’ इति विहित-स्तद्धितो ह्रस्वपक्षेऽपि सिध्यति एकदेशविकृतस्यानन्यलात् । यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद् दुर्लभः । अथापि वाहुलकाल्लभ्येत । एवमपि ण्यदन्तमनूय विहितस्तद्धितो यदन्तान्न स्यादिति दिक् ॥—ऋहलोः—। पञ्चम्यर्थे षष्ठी । ऋ इति ऋधातोर्न ग्रहणं किंतु ऋवर्णस्य हला साहचर्यात्परं कार्यमिति निर्देशात् ‘ईडवन्द—’ इत्यादिलिङ्गाच्च ॥ ‘ऋहलोः—’ इत्येतदनुवर्तमानस्य धातोर्विशेषणं विशेषणेन तदन्तविधिस्तदेतदाह—ऋवर्णान्तादित्यादि । अत्रेदवमधेयम् । मूलपुस्तकेषु सर्वत्र ‘विभाषा कृवृषोः’ इत्यत्र पक्षे ण्यत् भवतीति वक्तुम् ‘ऋहलोर्ण्यत्’ इति सूत्रं पठित्वा पश्चात् ‘युग्यं च पत्रे’ ‘अमावस्यदन्यतरस्याम्’ इति पठितम् । मनोरमायां तु सूत्रपाठकमेण ‘युग्यं च पत्रे’ ‘अमावस्यदन्यतरस्याम्’ इति व्याख्याय पश्चात् ‘ऋहलोः—’ इति सूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति ॥—गर्ज्यमिति । गर्जं शब्दे ‘ऋहलोः—’ इति ण्यति ‘चजोः—’ इति कुत्वे प्राप्तेऽयं निषेधः ॥—कुत्वं स्यादेवेति । ‘ऊदितो वा’ इति क्लायामिड्विकल्पात् ‘यस्य विभाषा’ इति निष्ठायामनिदलादिति भावः ॥—विपरीतमिति । सूत्रकारमते प्रुचुरल्लुभ्रभृतीनां ‘न क्लादेः’ इति कुत्वं न भवति, वार्तिककारमते तु निष्ठायामनिदलात् ‘चजोः—’ इति कुत्वं भवतीति परस्परविरुद्धमित्यर्थः ॥—यथोत्तरमिति । तथा च वार्तिकानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः ॥—समाज इति । अजगतिक्षेपणयोरित्यस्माद्वन्नि ‘चजोः—’ इति कुत्वे प्राप्तेऽयं निषेधः । एवं व्रजेरपि ॥—न्युब्ज इति । उब्ज आर्जवे । निपूर्वस्यास्य जस्य कुलाभावो दस्य च वकारो निपात्यते ॥—घञा सिद्धे इति । उच समवाय इत्यस्माद्वन्नि ‘चजोः—’ इति कुत्वे लघूपधगुणे च ओक इति रूपं सिध्यति, परं तु ‘ठिन्त्यादिर्नित्यम्’ इत्याद्युदात्तलमनिष्ठं स्यादिति भावः
Bālamanoramā
विभाषा कृवृषोः - विभाषा कृवृषोः । पञ्चम्यर्थे षष्ठी । कृञ ऋदन्तत्वान्नित्यं ण्यति प्राप्ते, वृषेरृदुपधत्वान्नित्यं क्यपि प्राप्ते च क्यब्विकल्पोऽयम् । पक्षे इति । क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः ।
SK 2872 · A 3.1.124V
ऋहलोर्ण्यत् ॥ २८७२ ॥
ṛhalorṇyat
Siddhānta-kaumudī
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥
Bālamanoramā
ऋहलोर्ण्यत् - ऋहलोण्र्यत् । पञ्चम्यर्थे षष्ठी । तदाह — ऋवर्णान्तादिति ।
SK 2873 · A 3.1.121V
युग्यं च पत्रे ॥ २८७३ ॥
yugyaṃ ca patre
Siddhānta-kaumudī
पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥
Bālamanoramā
युग्यं च पत्त्रे - युग्यं च पत्रे । क्यबन्तं निपात्यते । ण्यतोऽपवादः । युग्यो गौरिति । शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वं निपातनात् । पत्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे 'दाम्नीशसे' त्यादिना करणे ष्ट्रन् । ण्यति तु योग्यमिति स्यात् ।
SK 2874 · A 3.1.122V
अमावस्यदन्यतरस्याम् ॥ २८७४ ॥
amāvasyadanyatarasyām
Siddhānta-kaumudī
अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् SK 2872 । चजोः SK 2863 इति कुत्वम् । पाक्यम् ।
vārttika
पाणौ सृजेर्ण्यद्वाच्यः
(वार्तिकम्) ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः ।
vārttika
समवपूर्वाच्च
(वार्तिकम्) ॥ समवसर्ग्या ॥
Bālamanoramā
अमावस्यदन्यतरस्याम् - अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् ।अमे॑त्यस्य विवरणम् — सहेति ।ऋहलोण्य॑दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम् । कुत्वमिति । पचेण्र्यतिचजो॑रिति कुत्वमिति भावः । ननुपाणौ सृजेण्र्य॑दिति व्यर्थम्,ऋहलो॑रित्येव सिद्धेरित्यत आह — ऋदुपधलक्षणस्येति ।ऋदुपदाच्चाऽकॢपिचृतेः॑ इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः । पाणिसग्र्या रज्जुरिति । ण्यतिचजो॑रिति कुत्त्वम् । समवपूर्वाच्चेति । वार्तिकमिदम् ।सृजेण्र्य॑दिति शेषः ।
SK 2875 · A 7.3.59V
न क्वादेः ॥ २८७५ ॥
na kvādeḥ
Siddhānta-kaumudī
क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु चजोः-SK 2863 इति सूत्रे निष्ठायामनिट इति पूरयित्वा न क्वादेः SK 2875 इत्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥
Bālamanoramā
न क्वादेः - न क्वादेः । कुः आदिर्यस्येति विग्रहः । 'चजो कुः' इत्यनुवर्तते । तदाह — क्वादेरिति । कवर्गादेरित्यर्थः । वार्तिककारस्त्वित ।चजोः कु घिण्ण्यतोः॑ इति सूत्रे 'निष्ठायामनिटः' इति पूरितम् । तथा च निष्ठायां योऽनिट् तद्धात्ववयवयोश्चजोः कुः॑ स्याद्धिति ण्यति चेत्यर्थः फलति । तथान क्वादे॑रिति सूत्रम्अजिव्रज्योश्चे॑ति सूत्रंयजयाचरुचप्रवचर्चश्चे॑त्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः । किं तत इत्यत आह — तेनेति । सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, 'न क्वादेः' इति निषेधस्य तत्राऽप्रवृत्तेरिति भावः । तदेवं सूत्रमतेऽतिव्याप्तिमुक्त्वा अव्याप्तिमाह — ग्रुचुरग्लुञ्चुप्रभृतीनामिति । तेषां कवर्गादित्वे ।ञपि ण्यति ग्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव, वार्तिकमतेन क्वादे॑रिति निषेधस्य प्रत्यख्यातत्वात्, सूत्रमते तुन क्वादे॑रिति निषेधात्ग्रोक्य॑मित्यादौ कुत्वमिष्टं स्यादित्यव्याप्तिरित भावः । नन्विदं वार्तिकं विपरीतफलमपि संमतत्वाद्ग्राह्रमेव, विरोधे विकल्पसय् वक्तुं शक्यत्वादिति शङ्कते — सूत्रमते तु यद्यपीति । परिहरति — तथापीति । यथोत्तरमिति । अयं वैयकारणसमयः ।
SK 2876 · A 7.3.60V
अजिव्रज्योश्च ॥ २८७६ ॥
ajivrajyośca
Siddhānta-kaumudī
न कुत्वम् । समाजः । परिव्राजः ॥
Bālamanoramā
अजिवृज्योश्च - अजिव्रजय्श्चेत्यादि स्पष्टम् ।
SK 2877 · A 7.3.61V
भुजन्युब्जौ पाण्युपतापयोः ॥ २८७७ ॥
bhujanyubjau pāṇyupatāpayoḥ
Siddhānta-kaumudī
एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च SK 3300 इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥
SK 2878 · A 7.3.62V
प्रयाजानुयाजौ यज्ञाङ्गे ॥ २८७८ ॥
prayājānuyājau yajñāṅge
Siddhānta-kaumudī
एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥
SK 2879 · A 7.3.63V
वञ्चेर्गतौ ॥ २८७९ ॥
vañcergatau
Siddhānta-kaumudī
कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥
Bālamanoramā
वञ्चेर्गतौ - वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणस्य,न क्वादे॑रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः ।
SK 2880 · A 7.3.64V
ओक उचः के ॥ २८८० ॥
oka ucaḥ ke
Siddhānta-kaumudī
उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धेऽन्तोदात्तार्थमिदम् ॥
SK 2881 · A 7.3.65V
ण्य आवश्यके ॥ २८८१ ॥
ṇya āvaśyake
Siddhānta-kaumudī
कुत्वं न । अवश्यपाच्यम् ॥
Tattvabodhinī
NSP p. 495–496
—ण्य आवश्यके । अवश्यंभावः आवश्यकम् । मनोज्ञादिलाद्वन् । अव्ययानां भमात्रे टिलोपः ॥—अवश्यपाच्यमिति । ‘आवश्यकाधमर्ण्ययोर्णिनिः’ ‘कृत्याश्च’ इति ण्यत् । आवश्यकशब्दोऽर्थयोतनार्थो न तु प्रयोगार्थः । तेनार्थप्रकरणादिगम्येऽपि तस्मिन् ण्यत्कुलाभावश्च भवति । यथा ‘अशोच्यानन्वशोचस्त्वम्’ इति । केचित्तु शोचितुमर्होः शोच्याः न शोच्या अशोच्या इति भगवद्गीतास्विदं व्याचक्षते तच्चिन्त्यम् । ‘अहं कृत्यतृचश्च’ इति ण्यति ‘चजोः—’ इति कुत्वप्रसङ्गात् ‘चजोः—’ इति कुत्वं ‘निष्ठायामनिटः’ वार्तिकमते तु सम्यगेवेति दिक् ॥—यज—यज देवपूजादौ । दुयाचृ याच्या-याम् । रुच दीतौ । प्रपूर्वो वच परिभाषणे । ऋच स्तुतौ
Bālamanoramā
ण्य आवश्यके - ण्य आवश्यके । कुत्वं नेति । शेषपूरणमिदम् । आवश्यकेऽर्थे यो ण्यस्तस्मिन् परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः ।
SK 2882 · A 7.3.66V
यजयाचरुचप्रवचर्चश्च ॥ २८८२ ॥
yajayācarucapravacarcaśca
Siddhānta-kaumudī
ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ।
vārttika
त्यजेश्च
(वार्तिकम्) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् ।
vārttika
ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम्
(वार्तिकम्) ॥
Tattvabodhinī
alignment inferredNSP p. 496
—ग्रन्थविशेष इति ॥ तथा च संज्ञेयमिति ‘वचोऽशब्दसंज्ञा-याम्’ इत्यस्याप्रसङ्गाभिषेधोऽयमिति भावः ॥—ज्ञापकादिति । सरूपलाद्वासरूपविधिना ण्यङ्क्रवेदिति न शङ्कनीयमिति भावः ॥—वाक्यमिति । ‘तिङ्मुवन्तचयो वाक्यम्’ ॥—भोज्यम्—भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं नतु खरविशद-मभ्यवहार्यम् । तेन भोज्या यवागूरित्यपि भवतीत्याहुः ॥—भोग्यमन्यदिति । पालनीयमुपभोग्यं चेत्यर्थः ॥—लपिद-भिभ्यां चेति । ‘पोरदुपधात्’ इति प्राप्तस्य यतोऽपवादः । जयादित्यस्तु ‘आसुयुवपिरपि—’ इति सूत्रे लपिं प्रक्षिप्य रपिलपिचपीति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दमेः संग्रह इत्युक्तवान् तत्र वैषम्येण व्याख्यानं निर्वाजं भाष्यविरो-धश्च स्पष्ट एवेति वोध्यम् ॥—स्वीकार्य इति । ‘कास्यनेकाच आम्वक्तव्यश्चुल्लम्पाद्यर्थम्’ इति वार्तिकवलाद्यथा चुल्लम्पा-दिभ्य आम् स्वीक्रियते तद्वदिति भावः । तथा च प्रयुज्यते—‘न ता नशन्ति न दभाति तस्करः’, ‘विष्णुर्गोपा अदाभ्यः’ इत्यादि ॥—लाव्यमिति । आवश्यके उपपदे इति व्याख्याने तु नेदं सिध्यतीति भावः । क्वचित्तु लाघवं प्रत्यनादरात् व्यतिसे इत्यादौ व्यतिशब्दवत् द्योतितार्थस्यापि प्रयोगो दृश्यते । अवश्यलाव्यम् । अत्रोपपदसमासासंभवेऽपि मयूर्व्यस-कादेराकृतिगणलात्समासः ॥—आसु—। पुञ्जिति । आसाव्यमिति । पुष् अभिपव इत्ययं गृह्यते न तु पु प्रसवैश्वर्ययो-रिति । ‘कृत्यल्युटो बहुलम्’ इति बहुलग्रहणादिति भावः ॥—यु मिश्रण इति । युष् वन्धन इति तु न गृह्यते सानुवन्धक-लादिति भावः । अत्र युप्रभृतीनां द्वन्द्वं कृत्वा पश्चादासुशब्देन द्वन्द्वः । तेन अल्पाच्तरम्’ इति युशब्दस्य न पूर्वनिपातः शङ्क्यः । इहाद्ययोः ‘अचो यत्’ इत्यनेन रपित्रपिचमां तु ‘पोरदुपधात्’ इत्यनेन यत्प्रत्यये प्राप्तेऽयमारम्भः ॥ अनित्य-मात्रे यदि प्रयोगस्तर्हि घटादावतिप्रसङ्ग इत्यत आह—दक्षिणाग्निविशेष इत्यादि । वैश्यकुलादेरिति । दक्षिणाग्नेर्हि योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वेति ॥—कर्मव्यापार इति । तथा चायमर्थः । लोकानां यां प्रीतिस्तद्विषयीभवनं यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति । वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवात्प्रीतिरेव संमति-सा यस्मिन् चोरादौ नास्ति लोकानां सोऽसंमतिः । यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्तोऽसंमतिः । तन्त्रेणाः र्थद्वयमपि गृह्यते ॥—पाय्यसाम्नाय्य—। चतुर्षु अर्थेषु चलारो निपात्यन्ते । पीयतेऽनेनेति माङः करणे ण्यत् । मेयम-न्यत् ॥—हविर्विशेष इति । ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितो दधिपयोरूपः ॥—धीयते अन-येति । अत्र सर्वा सामिधेनी न प्राह्या किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा ‘पृथुपाजा अमर्त्यः’ इत्यादिकैव । अयं च विशेषो निपातनस्य रूढ्यर्थलाल्लभ्यते । नन्वेवं निपातनात्सामिधेनीविशेषवाचकत्वे सामि-धेनीप्रहणं व्यर्थमिति चेत् । अत्राहुः । सूत्रे सामिधेनीप्रहणं प्रयोगविशेषोपलक्षणार्थम् । तथा चासामिधेन्यामपि दृश्यते धाय्याः शंसतीति । न हि शब्देण समित् प्रक्षिप्यते
Bālamanoramā
यजयाचरुचप्रवचर्चश्च - यजयाच । ण्ये कुत्वं नेति । शेषपूरणमिदम् । यज, या, रुच, प्रवच, ऋच् एषां द्वन्द्वात् षष्ठी । एषां ण्ये परेचजोः कु घिण्ण्यतो॑रिति कुत्वं नेत्यर्थः । ननु अच्र्यमित्यत् र कथं ण्यत्,ऋदुपधाच्चाऽकॢपिचृते॑रिति ऋदुपधत्वलक्षस्य ण्यदपवादत्वादित्यत आह — ऋदुपधत्वेऽपीति । त्यजिपूज्योश्चेति ।ण्ये कुत्वं ने॑ति शेषः ।
SK 2883 · A 7.3.67V
वचोऽशब्दसंज्ञायाम् ॥ २८८३ ॥
vaco'śabdasaṃjñāyām
Siddhānta-kaumudī
वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥
Bālamanoramā
वचोऽशब्दसंज्ञायाम् - वचोऽशब्दसंज्ञायाम् । वचधातोर्ण्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः । वाच्यमिति । वस्त्विति शेषः ।अशब्दसंज्ञायामित्यस्य प्रयोजनमाह — शब्दाख्यायां तु वाक्यमिति ।एकतिङ् वाक्य॑मिति संज्ञाशब्दोऽयमिति भावः ।प्रवाच्य॑मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः,यजयाचे॑त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैवप्रवाच्यं ग्रन्थविशेष॑ इत्युक्तं प्राक् ।
SK 2884 · A 7.3.68V
प्रयोज्यनियोज्यौ शक्यार्थे ॥ २८८४ ॥
prayojyaniyojyau śakyārthe
Siddhānta-kaumudī
प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥
Bālamanoramā
प्रयोज्यनियोज्यौ शक्यार्थे - प्रयोज्यनियोज्यौ । शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते ।शकि लिङ् चे॑ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि ।
SK 2885 · A 7.3.69V
भोज्यं भक्ष्ये ॥ २८८५ ॥
bhojyaṃ bhakṣye
Siddhānta-kaumudī
भोग्यमन्यत् ॥
vārttika
ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्
(वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥
Bālamanoramā
भोज्यं भक्ष्ये - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । 'पोरदुपधा' दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।
SK 2886 · A 3.1.125V
ओरावश्यके ॥ २८८६ ॥
orāvaśyake
Siddhānta-kaumudī
उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥
SK 2887 · A 3.1.126V
आसुयुवपिरपित्रपिचमश्च ॥ २८८७ ॥
āsuyuvapirapitrapicamaśca
Siddhānta-kaumudī
षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥
SK 2888 · A 3.1.127V
आनाय्योऽनित्ये ॥ २८८८ ॥
ānāyyo'nitye
Siddhānta-kaumudī
आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥
Bālamanoramā
आनाय्योऽनित्ये - अनाय्योऽनित्ये । 'अनित्ये' इति च्छेदः । दक्षिणाग्निविशेषएवेति । वार्तिकमिदम् । स हीति । दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः । एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः । अनित्यश्चेति । गार्हपत्यवन्नित्यधारणाऽभावादिति भावः । तदाह — सततमिति । सततं धारणाऽभावादित्यर्थः । प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु — अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति । ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम् । यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापिदक्षिणाऽग्निविशेष एवे॑ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः । विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्,गतश्रियो नित्यधार्या अग्नयः॑इति वचनादित्यलं पल्लवितेन । वैश्यकुलादानीत इति । दक्षिणाग्न प्रकृत्यहि श्रूयते — अहरहरेवैनं वैश्यकुलादाहरन्इति । तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः ।
SK 2889 · A 3.1.128V
प्रणाय्योऽसंमतौ ॥ २८८९ ॥
praṇāyyo'saṃmatau
Siddhānta-kaumudī
संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥
Bālamanoramā
प्रणाय्योऽसंमतौ - प्रणाय्योऽसमंतौ । असंमतौ गम्यायां 'प्रणाय्य' इति निपात्यते । तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति — प्रीतिविषयीभवनमिति । तच्च कर्मनिष्ठमित्याह — कर्मव्यापार इति.तथेति । भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः । एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम् । प्रणाय्यश्चोर इति । ण्यति वृद्धौ आयादेशः ।
SK 2890 · A 3.1.129V
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ॥ २८९० ॥
pāyyasānnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu
Siddhānta-kaumudī
मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युक् SK 2761 इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥
Bālamanoramā
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु - पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य — एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते । मीयते अनेनेति । माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति.ण्यतिमीनातीत्यात्त्वे कृते आतो युगिति भावः । ण्यदिति । संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः । आयादेशिति । सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसलादिरित्यर्थः । अधिकरणे इति । चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आयिति । अच्परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्यापृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा ।
SK 2891 · A 3.1.130V
क्रतौ कुण्डपाय्यसंचाय्यौ ॥ २८९१ ॥
kratau kuṇḍapāyyasaṃcāyyau
Siddhānta-kaumudī
कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥
Tattvabodhinī
NSP p. 496–497
—क्रतौ कुण्डपाय्य—। कुण्डशब्दे तृतीयान्ते उपपदे पिवतेरधिकरणे यत्प्रस्यो युगागमश्च निपात्यते । नन्वत्र ण्यदेव निपात्यतां प्रकृतलात् । एवं च ‘आतो युक् चिण्कृतोः’ इति सिद्धलात् युक् च न निपातनीय इति लाघवमस्तीति चेत् । मैवम् । तित्सरप्रसङ्गात् । इष्यते तु ‘यतोऽनावः’ इत्याद्युदात्तः क्रुदुत्तरपदप्रकृतिस्वरः । तथा च प्रयुज्यते । प्रणाध्यात् कुण्डपाध्य इति । संपूर्वाच्चिनोतेस्तु ण्यदायौ निपात्येते । क्रतौ किम् । कुण्डपानम् । संचेयम्
Bālamanoramā
क्रतौ कुण्डपाय्यसंचाय्यौ - क्रतौ कुण्डपाय्य । ऋतुविशेषे गम्ये एतौ निपात्येते । कुण्डेनेति । अत्सरुकैश्चमसैरित्यर्थः । सामान्येनैकवचनम् ।यदत्सरुकैश्चमसैर्भक्षयन्ति तदेषां कुण्ड॑मिति श्रुतिः । कुण्डपाय्य इति । सत्रविशेषात्मकः ऋतुः । कुण्डेनेति तृतीयान्ते उपपदे अधिकरणे ण्यत् । आतो युक् । संचाय्य इति । संपूर्वाच्चिञः कर्मणि ण्यत्, आयादेशश्च निपात्यते इति भावः । संचाय्यो नाम ऋतुविशेषः क्वचिच्छाखायामन्वेषणीयः ।
SK 2892 · A 3.1.131V
अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ २८९२ ॥
agnau paricāyyopacāyyasamūhyāḥ
Siddhānta-kaumudī
अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥
Tattvabodhinī
NSP p. 497
—अग्नौ परि-। अमिरिह न ज्वलनः किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं तदाह—स्थलविशेष इति ॥ एते साधव इति । स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेः ण्यदायादेशयोः संपूर्वस्य वदेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः
Bālamanoramā
अग्नौ परिचाय्योपचाय्यसमूह्याः - अग्नौपरिचाय्य । अग्नौ गम्ये — परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते । अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वैआआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते॑ इति वाक्यशेषाच्च । तदाह — अग्निधारणेति । तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते । संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते ।समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः॑इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ । उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः ।
SK 2893 · A 3.1.132V
चित्याग्निचित्ये च ॥ २८९३ ॥
cityāgnicitye ca
Siddhānta-kaumudī
चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च SK 2817 । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च SK 2822 । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥
Tattvabodhinī
alignment inferredNSP p. 497–498
—चित्योग्निरिति । चिनोतेः कर्मणि क्यप् । यतोऽपवादः । इह सूत्रे अमावित्यनुवर्तते तच्च चित्यशब्दस्यैव विशेषणं न द्वितीयस्य । तस्य भावार्थकत्वेनाभिवाचकलासंभवात् । अमेरन्यत्र चेयमित्येव । शब्दकौस्तुभादौ तु अभिचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते न तु क्यप् । तेनान्तोदात्तत्वं भवति । क्यपि तु कृते क्यपः पित्त्वादनुदात्तत्वे धातुस्वरेण चित्य इवाद्युदात्तः स्यादिति स्थितम् । ननु वासरूपविधिना कृत्या अपि भविष्यन्तीत्यत आह—रुच्यधिकारादूर्ध्वमित्यादि ॥—कल्युडिति । हसितं हसनं छात्रस्य । ‘नपुंसके भावे कः’ ‘ल्युट् च’ इत्यनयोर्विपये भावे इति घञ्न । इच्छति भोक्तुम् । अत्र ‘इच्छायैषु लिङ्लोटौ’ इति लोण्न । लिङ् तु भवत्येव । ‘समानकर्तृकेषु तुमुन्’ ‘लिङ् चे’ति वचनात् । ईषत्पानः । ‘आतो युच्’ इति युच् । अत्र ‘ईषहुःसुषु-’ इति खल् न ॥—लिङ्गा वाधेति । चकारेण ‘लिङ् यदि’ इत्यतो लिङ्गुकृष्यत इति भावः ॥—भव्य-। ‘तयोरेव-’ इति नियमात्कर्तर्यप्राप्ते वचनम् ॥—साम्नामिति । कर्मणि पृष्ठी ॥—इत्यादीति । प्रवर्त्तीति प्रवचनीयो गुरुः स्वाध्यायस्य । प्रवचनीयो गुरुणा स्वाध्यायः । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयो गुरुः शिष्येण । जायते जन्यः जन्यमनेन वा । आप्तवते आप्तव्यः । ण्यत् आप्तव्यमनेन वा ॥—शक्ति लिङ् चेति ॥—वोढव्य इति । वह्-प्रापणे इत्यस्मात्तव्यः । हस्य ‘हो ढः’ इति ढत्वे ‘म्रषस्तयोः-’ इति धत्वे ‘ष्टुना ष्टुः’ इति ष्टुत्वे ‘ढो ढे लोपः’ ‘सहिवहोः-’ इत्यवर्णस्यौत्यम् । अत्र ढलोपे कर्तव्ये ष्टुत्वमसिद्धमिति नाशङ्क्यम्, आश्रयासिद्धलात् ॥—वाधा माभूदिति । कृत्यानामिति शेषः ॥ —कृत्योक्तिरिति । कृत्यानुकर्षकचकारोक्तिरित्यर्थः ॥—लाघवादिति । इह हि चकारमात्रेण ॥ इति कृत्यप्रकरणम् ॥ ण्वुल्तृचौ ॥ णकारो वृद्ध्यर्थः । लकारो ‘लिति’ इति स्वरार्थः । तृचश्चकारस्तु ‘तुरिष्ठेमेयस्तु’ ‘तुश्छन्दसि’ इत्यादौ सामान्यग्रहणविधातार्थः । ‘चितः’ इत्यन्तोदात्तार्थस्तु न भवति, ‘आद्युदात्तश्च’ इत्यनेनैव सिद्धेः । एवं च ‘अमृन्-’ इति सूत्रे तृन्तृचोः पृथग्ग्रहणं विहाय अप्तृस्वस्य इत्येव सुवचमित्येके । अन्ये तु सामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवतीति ज्ञापनार्थम् ‘अप्तृन्-’ इति सूत्रे तृन्तृचोरुभयोर्ग्रहणम् । तेन कोपधग्रहणेन तद्धिततुग्रहणमित्येतत्सिद्धमित्याहुः ॥—वोढेति । ‘अर्हे कृत्यतृचश्च’ इति तृच्, ढलादयस्तु वोढव्य इत्यत्रेवात्राप्यूह्याः ॥—रधितेति । ‘रधादिभ्यश्च’ इति वेद् ॥—रद्धेति । इह ‘नेव्यलिटि-’ इति निषेधाप्रवृत्तावपि ‘रधि-’ इत्यनेन अच्परलाभावाशुन्न ॥ —मङ्केति । ढमस्जो शुद्धौ । अस्मात् तृच् ‘मस्जि-’ इति नुम् अन्त्यात्पूर्वः । ‘स्कोः-’ इति सलोपः । जस्य कुत्वे चत्वम् अनुस्वारपरसवर्णौ । ‘वहूनां समवाये द्वयोर्द्वयोः संयोगः’ इति पक्षे तु नुमागमस्याच्परत्वेऽपि ‘स्कोः—’ इति सलोपो भवत्येवेति ज्ञेयम् ॥—नङ्गेति । रधादिलादिडभावपक्षे नुम् ॥—लब्धेति । ‘क्षपस्तथोः’ इति धः, भकारस जश्लम् । ‘लभेश्च’ इति नुम् तु न भवति, अचीलनुवर्तनात् ॥—ण्वुलि नेति । ‘सनि ण्वुलि ल्युटि च न’ इति वचनात् ॥—योगविभागेनेति । ‘कृलल्युटो वहुलम्’ इति सूत्रे कृतो वहुलमित्येवाकरे स्थितम् । तथा च योगविभागं विनैव सर्वेष्टसिद्धिरिलाहुः ॥—प्रक्रन्तेति । ‘प्रोपाभ्यां समर्थाभ्याम्’ इति क्रमेरात्मनेपदविषयता
Bālamanoramā
चित्याग्निचित्ये च - चित्याग्निचित्ये च । चित्यश्च अग्निचित्या चेति द्वन्द्वः । अग्नौ निपात्येते । चित्योऽग्निरिति । कर्मणि ण्यत्,तुकच निपात्यते । अग्नेश्चयमिति । अग्निशब्दे षष्ठन्ते उपपदे चिणो ण्यत्,तुक् च । स्त्रीत्वं लोकात् ।प्रैषातिसर्गे॑ति व्याख्यातमपि स्मार्यते । गम्यमिति ।पोरदुपधा॑दिति ण्यदपवादः क्यप् । ननु सामान्येन बावकर्मणोर्विहितानां कृत्यानां प्रैषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिव्र्यर्थ इत्यत कृत्यानां प्रेषाद्यभावे भावकर्मणोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा कृत्यानां बाधनिवृत्त्ये पुनः कृत्यविधिरित्यर्थः । ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह — स्त्र्यधिकारादूध्र्वमिति ।स्त्रियां क्ति॑न्नित्यत ऊध्र्वमित्यर्थः ।प्राक् स्त्रिया वासरूपविधिः॑ इति भाष्यम् । ननु स्त्र्यधिकारादूध्र्वं वाऽसरूपवदेरप्रवृत्तौस्त्रियां क्ति॑न्निति सामान्यविहितस्य कित्नः 'षिद्भिदादिभ्योऽभि' ति विशेषविहितेन नित्यबाधः स्यात्, ततः — क्षमा क्षान्ति, भिदा भित्तिरित्यादि न स्यादित्यत आह — क्वचिन्नेति ।क्वचि॑दित्यस्याऽनिर्धारणादाह — तेनेति । सिद्धमिति । एषु वासरूपविधित्यत्र सङ्कोचेति भावः । अत्र व्याख्यानमेव शरणम् । अर्हे कृत्यतृचश्चेति । प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते ।लिङ्यदी॑त्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् । ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्र्यर्थ इत्यत आह — लिङा बाधेति ।अर्हे चे॑त्येतावत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात्, तथा च अर्हे कृत्यतृचोर्विधिर्न स्यात्, अर्हे विशेषविहितेन लिङा बाधात्, अनर्हे कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूर्द्ध्वं न प्रवर्तते इत्युक्तमेव । अतो लिङा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः ।
SK 2894 · A 3.4.68V
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ २८९४ ॥
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā
Siddhānta-kaumudī
एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् । गेयं सामानेन वा इत्यादि । शकि लिङ् च SK 2823 । चात्कृत्याः । वोढुं वशक्यो वोढव्यः । वहनीयो वाह्यः । लिङा बाधा माभूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च ॥
Bālamanoramā
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा - भव्यगेय । कर्तरि वेति ।कर्तरि कृ॑दित्यतः कर्तरीत्यनुवृत्तं वेत्यनेन संबध्यते । तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति । तत्र अन्यत्रेत्यस्याऽनिर्धारणादाह — पक्षे इति । अन्यत्रापि न सर्वत्र, किंतुतयोरेव कृत्यक्तखलर्थाः॑ इति सूत्रेण सकर्मकात्कर्मणि, अकर्मकाद्भावे एते कृत्या ज्ञेया इत्यर्थः ।तयोरेव कृत्ये॑ति सूत्रेलः कर्मणि चे॑त्यस्मात्सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भाव इत्यनुवर्तते इति भावः । भव्य इति । कर्तरि अचो यत् । भव्यमनेन वेति । भावे यत् ।गेयः साम्नामयमित । गाधातोः कर्तरि यत् ।ईद्यती॑ति प्रकृतेरीत्त्वम् । गुणः । साम्नां कर्मणामनभिहितत्वात्कृद्योगे षष्ठी । कर्तुरभिहितत्वात्प्रथमा । गेयं सामाऽनेनेति । कर्मणि यत्, सकर्मकत्वात्, नतु भावे, कर्तुरनभिहितत्वात्तृतीया । कृद्योगषष्टी तु कृत्ययोगे कर्तरि वैकल्पिकी,कृत्यानां कर्तरि वा ॑ इत्युक्तेः । इत्यादीति ।प्रवचनीयो गुरुर्वेदस्य॑ । प्रवक्तेत्यर्थः । कर्तरि अनीयर् ।प्रवचनीयो वेदो गुरुणे॑ति वा ।उपस्थानीयः शिष्यो गुरोः॑,उपस्थानीयो गुरुः शिष्येणे॑ति वा ।जन्योऽसौ॑ । जायते इत्यर्थः ।जन्यमनेने॑ति वा । आप्लवतेऽसौआप्लाव्यः॑ । 'ओरावश्यके' इति कर्तरि ण्यत् ।आप्लाव्यमनेने॑ति वा । आपतत्यसौआपात्यः ।ऋहलो॑रिति कर्तरि ण्यत् ।आपात्यमनेन वा॑ ।शकि लिङ् चे॑त्यपि व्याख्यातं प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । नन्विह चकारानुकृष्टकृत्यविधिव्र्यर्थः, शक्तौ अशक्तौ च भावकर्मणोः सामान्यतः कृत्यविदित एव शक्तावपि सिद्धेरित्यत आह — लिङा बाधेति ।शकि लि॑ङित्येतावत्येवोक्ते शक्तौ विशेषविहितेन लिङा कृत्यानां बाधः स्यात्, अशक्तौ कृत्यानां चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूध्र्वं नेत्युक्तमेवेति भावः । लाघवादिति । इह चकारमात्रेण वासरूपविधेः स्त्र्यधिकारादूध्र्वमनित्यताज्ञापनं संभवति, अतःप्रैषातिसर्गे॑ति सूत्रे कृत्यग्रहणेनअर्हे कृत्यतृचश्चे॑त्यत्र कृत्यतृज्ग्रहणेन च तज्ज्ञापनाश्रयणे गौरवमिति भावः । इति कृत्यप्रक्रिया ॥ इति बालमनोरमायाम् कृत्यप्रक्रिया॥अथ क्र्यादयः । अथ श्नाविकरणधातवो निरूप्यन्ते । डु क्रीञिति ।