PREMABASESiddhānta-kaumudī
Prakaraṇa 65 · SK 2773–2828

लकारार्थप्रकरणम्

lakārārthaprakaraṇam · 56 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2773 · A 3.2.112V
अभिज्ञावचने लृट् ॥ २७७३ ॥
abhijñāvacane lṛṭ
Siddhānta-kaumudī
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् । लङोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥
Bālamanoramā
अभिज्ञावचने लृट् - अभिज्ञावचने लृट् । अभिज्ञा = स्मृतिः, सा उच्यते बोध्यते अनेनेति विग्रहः । तदाह — स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः । 'भूते' इत्यधिकृतम् ।अद्यतने ल॑ङित्यतोऽनद्यतने इत्यनुवर्तते । तदाह - भूतानद्यतने इति । लङ इति ।अनद्यतने ल॑ङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण ! गोकुले अवसामेति यत्तत्स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । समरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लृडित्यर्थः । ननु बुध्यत्यादेः स्मृत्त्विएन रूपेण स्मृत्यर्थकत्वाऽभावात्कथमिहि लृडित्यत आह — तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लृट् । एतदर्थमेव वचनग्रहणमिति भावः ।
SK 2774 · A 3.2.113V
न यदि ॥ २७७४ ॥
na yadi
Siddhānta-kaumudī
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥
Tattvabodhinī
NSP p. 481
—न यदि । लटः प्रतिषेधे उत्सर्गो लङ्
Bālamanoramā
न यदि - न यदि ।यदी॑ति सप्तमीति मत्वाह - यद्योगे इति । उक्तं नेति । 'अभिज्ञावचने' इति लृण्न भवतीत्यर्थः । अभिजानासीति । वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः ।
SK 2775 · A 3.2.114V
विभाषा साकाङ्क्षे ॥ २७७५ ॥
vibhāṣā sākāṅkṣe
Siddhānta-kaumudī
उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि SK 2774 इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् SK 2171 चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥
vārttika
अत्यन्तापह्नवे लिड्वक्तव्यः
(वार्तिकम्) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥
Tattvabodhinī
alignment inferredNSP p. 481
—वासो लक्षणमिति । प्रसिद्धत्वाज्ज्ञापकमित्यर्थः ॥—चारणं लक्ष्यमिति । सहसा दुष्ट्यनारोहाज्ज्ञाप्यम् ॥—पक्षे लङ्घिति । वने अवसाम । गा अचारयाम ॥—यच्छब्दयोगेऽपीति । अत एव ‘न यदि’ इति योगात्पूर्वं ‘विभाषा साकाङ्क्षे’ इति न कृतमिति भावः ॥—अत्यन्तापहव इति । अपहवोऽपलपस्तत्र आत्यन्तिकत्वं नामेत्थं यदभियुक्तस्तद्धेतोरप्यपहुतिः ॥ नाहमित्यादि । कलिङ्गो नाम निषिद्धो देशः । ‘अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनःसंस्कारमर्हति’ इति स्मरणात्तस्मिन्देशे त्याग गतं चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह नाहं कलिङ्गाजगामेति । न केवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनमपीति भवत्यत्यन्तापहवः । यदा तु कलिङ्गेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदात्यन्तापहव इति लङेव भवति, न कलिङ्गेष्वगच्छमिति
Bālamanoramā
विभाषा साकाङ्क्षे - विभाषा । उक्तविषये इति । अभिज्ञाबोधिन्युपपदे इत्यर्थः । लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः । अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः । वासो लक्षणमिति ।चारणस्ये॑ति शेष- । उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एव 'विभाषा साङ्काक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यं,यदि च अयदि चाऽयं विकल्प॑ इति भाष्यात्तदाह — यच्छब्दयोगेऽपीति ।परोक्षे लि॑डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते । अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह — उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः । अत्र स्वापाच्चित्तविक्षेपः । बहु जगदेति । मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । आदिना व्यासङ्गसङ्ग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववात्सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः ।अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना यातः पुनः संस्कारमर्हति.॑ इति वचनादिति भावः । नाहं कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम् । अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्रअकर्मकधातुभिर्योगे देशः कालो भावः॑ इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् ।
SK 2776 · A 3.2.116V
हशश्वतोर्लङ् च ॥ २७७६ ॥
haśaśvatorlaṅ ca
Siddhānta-kaumudī
अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥
Bālamanoramā
हशश्वतोर्लङ् च - हशआतोर्लङ् च । स्पष्टम् ।
SK 2777 · A 3.2.117V
प्रश्ने चासन्नकाले ॥ २७७७ ॥
praśne cāsannakāle
Siddhānta-kaumudī
प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥
Tattvabodhinī
NSP p. 481
—प्रश्ने च-। प्रश्ने भूतानद्यतनपरोक्षे इति वर्तते । प्रश्न इत्यत्र कर्मणि नङित्याह—प्रष्टव्य इति ॥—आसन्नेति । पञ्चवर्षाभ्यन्तरमासन्नकालं पञ्चवर्षातीतं तु विप्रकृष्टकालमित्याहुः ॥ पृच्छयमान इति । आसन्नकालिके भूतानद्यतनपरोक्षार्थवृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः । प्रश्ने किम् । भूतानद्यतनपरोक्षे लिङेव । जगाम चैत्रः ॥ लट् स्मे । स्मे इत्यव्ययं भूतकालद्योतकम् ॥—ननौ-। पृष्टस्य प्रतिवचनमिति विग्रहः । समाहारद्वन्द्वे तूभयत्र स्यात् इव्यते च प्रतिवचने एव लट् । तदाह—ननु करोमीति । न च पृष्टग्रहणं व्यर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम् । विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैयटे स्थितत्वात् ॥—नन्वोः-। भूत इत्येव । पक्षे लङ् । अनद्यतने तु लङ्
Bālamanoramā
प्रश्ने चासन्नकाले - प्रश्ने चासन्नकाले ।प्रश्ने इत्यनेन प्रश्नविषयो विवक्षित इत्याह — प्रष्टव्यः प्रश्न इति । अर्थे इत्यन्तरंवर्तमानाद्धातो॑रिति शेषः । प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न्कालत्वम् । वृत्तौ तु पञ्चवर्षातीतकालोऽनासन्नकाल इत्युक्तम् ।
SK 2778 · A 3.2.118V
लट् स्मे ॥ २७७८ ॥
laṭ sme
Siddhānta-kaumudī
लिटोऽपवादः । यजति स्म युधिष्ठरः ॥
Bālamanoramā
लट् स्मे - लट् स्मे ।स्मे॑त्यव्ययम् । तद्योगे लिड्विषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः ।
SK 2779 · A 3.2.119V
अपरोक्षे च ॥ २७७९ ॥
aparokṣe ca
Siddhānta-kaumudī
भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥
Bālamanoramā
अपरोक्षे च - अपरोक्षे च । एवं स्मेति । पिता एवमुक्तवानित्यर्थः ।
SK 2780 · A 3.2.120V
ननौ पृष्टप्रतिवचने ॥ २७८० ॥
nanau pṛṣṭaprativacane
Siddhānta-kaumudī
अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥
Bālamanoramā
ननौ पृष्टप्रतिवचने - ननौ पृष्ट । निवृत्तमिति । व्याख्यानादिति भावः । अकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने ।
SK 2781 · A 3.2.121V
नन्वोर्विभाषा ॥ २७८१ ॥
nanvorvibhāṣā
Siddhānta-kaumudī
अकार्षीः किम् । न करोमि नाकार्षम् । अहं तु करोमि । अहं न्वकार्षम् ॥
Bālamanoramā
नन्वोर्विभाषा - नन्वोर्विभाषा । न नु अनयोद्र्वन्द्वः । तदाह — नशब्दे नुशब्दे चेति । लड्वा स्यादिति 'भूते' इति शेषः । अकार्षीः किमिति प्रश्नः । न कोरमि, नाकार्षमित्युत्तरम् । अहं नु करोमि, अहं न्वकार्षमिति च ।तर्के नु स्या॑दित्यमरः ।
SK 2782 · A 3.2.122V
पुरि लुङ् चास्मे ॥ २७८२ ॥
puri luṅ cāsme
Siddhānta-kaumudī
अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥
Tattvabodhinī
alignment inferredNSP p. 481
—पक्षे यथाप्राप्तमिति । लङ्लटोरभावपक्षे लङ्, पारोक्ष्ये तु लिङित्यर्थः ॥—भविष्यतीति । ‘भविष्यति गम्यादयः’ इति सूत्रात्
Bālamanoramā
पुरि लुङ् चास्मे - पुरि लुङ् चास्मे ।अस्मे इति च्छेदः । पुरेत्याकारान्तमव्यम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभाघादाल्लोपः । मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चाल्लडिति । तथा च लुङ् लट् च वेति फलितम् । पक्षे इति । एतदुपभयाऽभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाऽविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने ' इत्यारभ्य एतदन्ता विधयस्तृतीयस्य द्वैतीयीकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः ।
SK 2783 · A 3.3.4V
यावत्पुरानिपातयोर्लट् ॥ २७८३ ॥
yāvatpurānipātayorlaṭ
Siddhānta-kaumudī
यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥
Tattvabodhinī
NSP p. 481
—यावत्पुरा-। लक्षणप्रतिपदोक्तपरिभाषाऽनित्येति निपातग्रहणेन ज्ञाप्यते ॥ यावत् भुङ्क्त इति । निश्चितं भोक्ष्यते इत्यर्थः ॥—यावद्दास्यत इति । अनद्यतनभविष्यति तु यावद्दाता तावद्भोक्तेति प्रत्युदाहर्तव्यम्
Bālamanoramā
यावत्पुरानिपातयोर्लट् - यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति ।यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॑इत्यमरः । यावद्दास्यते तावद्भोक्ष्यते इति । यत्परिणमाणकं तत्परिमाणकमित्यर्थः ।यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः । करणभूतयेति ।पुरा यास्यती॑ति प्रत्युदाहरणान्तरम् । पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् ।
SK 2784 · A 3.3.5V
विभाषा कदाकर्ह्योः ॥ २७८४ ॥
vibhāṣā kadākarhyoḥ
Siddhānta-kaumudī
भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥
Tattvabodhinī
NSP p. 481–482
— विभाषा-। ननु ‘अनयतनेहिल्यतरस्याम्’ इत्यनयतने किमोहिल्विहितस्तथ कर्हियोगे लुटैव भाव्यमिति कथमुदाह्रियते कर्हि भोक्ष्यत इति । अत्राहुः । भविष्यत्सामान्ये भोक्ष्यते इति लद्र । कर्हियोगे तु अनयतनावगतिर्लक्षणयेति ॥—भोक्तावेति । ननु भविष्यत्सामान्येऽयं लङ्घिहितस्तस्य लुटा सह कथं विकल्पो विषयभेदादिति चेत् । अत्राहुः । ‘अनयतने लुट्’ इत्यत्र ‘विभाषा कदा’- इत्यादीनि कानिचित्सूत्राणीष्टानुरोधेनानुवर्तन्ते तेन लङ्घिषयेऽपि लङ् भवति न त्वनयतने लुटा लङ् वाध्यत इति ॥—किंचूर्च-। किमा वृत्तं किंचूर्चत्म् । केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किंचूर्चत्तं तथापि तत्र गृह्यते अनभिधानात् । तेन कदा भोजयिष्यसीत्यादौ भविष्यति लङ् नेत्याहुः
Bālamanoramā
विभाषा कदाकर्ह्योः - विभाषा कदाकर्ह्योः ।भविष्यति लड्वा स्या॑दिति शेषपूरणम् । लडभावपक्षे लुटलृटौ यथाप्राप्तम् । तदाह — कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट् ।अनद्यतने र्हिलन्यतरस्या॑मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः ।
SK 2785 · A 3.3.6V
किंवृत्ते लिप्सायाम् ॥ २७८५ ॥
kiṃvṛtte lipsāyām
Siddhānta-kaumudī
भविष्यति लड्वा स्यात् । कं कतरं कतमं वा भोजयसि भोजयिष्यसि भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥
Bālamanoramā
किंवृत्ते लिप्सायाम् - किंवृत्ते लिप्सायां । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्य आह — विभक्त्यन्तमिति लड्वेति । लडभावे तु लुट्लृटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति युक्तम् । कं कतरं कतमं वेति ।क्षुधितमन्नलिप्स॑मिति शेषः ।
SK 2786 · A 3.3.7V
लिप्स्यमानसिद्धौ च ॥ २७८६ ॥
lipsyamānasiddhau ca
Siddhānta-kaumudī
लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥
Tattvabodhinī
NSP p. 482
—लिप्स्यमान-। लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंचूर्चत्तार्थमिदमिति ध्वनयनुदाहरति—योऽन्नमिति
Bālamanoramā
लिप्स्यमानसिद्धौ च - लिप्स्यमानसिद्धौ च । लड्वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति — योऽन्नमिति । योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः ।
SK 2787 · A 3.3.8V
लोडर्थलक्षणे च ॥ २७८७ ॥
loḍarthalakṣaṇe ca
Siddhānta-kaumudī
लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥
Tattvabodhinī
NSP p. 482
—लोडर्थ-। लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः । कृष्ण भोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम् । भोजनकाले गोचारणं त्वया कर्तव्यमित्यर्थः ॥—पक्षे लङ्घिति । कृष्ण इति । भोक्ता कृष्णश्चेद्भोक्ष्यते त्वं गाश्चारयेत्यर्थः ॥ लिङ् चोध्व-। कालाद्रन् । ‘तद्धितार्थोत्तरपद’ इत्यत्र ‘दिक्संख्ये’ इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह-निपातनादिति
Bālamanoramā
लोडर्थलक्षणे च - लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति ।विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु॑ इत्यनुवृत्तौलोट् चे॑ति लोड्विधानादिति भावः । कृष्णश्चेदिति । कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत् । पक्षे लुट्लृटाविति । कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम् ।
SK 2788 · A 3.3.9V
लिङ् चोर्ध्वमौहूर्तिके ॥ २७८८ ॥
liṅ cordhvamauhūrtike
Siddhānta-kaumudī
ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुरूर्तादुपरि उपाध्यायश्चेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥
Bālamanoramā
लिङ् चोर्ध्वमौहूर्तिके - लिङ् चोध्र्वमौहूर्तिके ।ऊध्र्व॑मिति विभक्तिप्रतिरूपकमव्ययम् । ऊध्र्वं मुहूर्ताद्भव इति विग्रहः । केचित्तुऊध्र्व॑मिति द्वितीयान्तम्,अकर्मकधातुभिर्योगे॑ इति कर्मत्वादित्याहुः । ऊध्र्वमौहूर्तिक इति । ऊध्र्वमुहूर्तशब्दाद्भवार्थे कालाट्ठिति भावः । ननु तद्धितार्थेत्यत्र दिक्सङ्ख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथंसमास इत्यत आह — निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्क्य आह — उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊध्र्वमौहूर्तिके इति । मुहूर्तादूध्र्वकालीने इत्यर्थः । इदं च लोडर्थलक्षण इत्यत्रान्वेति । लिङ्लटाविति । चाल्लट् समुच्चीयत इति बावः । वा स्त इति । पक्षे लुट्लृटौ यथाप्राप्तम् । छन्द इति । वेदमित्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः । अथाऽस्मिन्नेव तृतीयपादे कतिपयान्विधीनाह —
SK 2789 · A 3.3.131वर्तमानविधानातिदेशः
वर्तमानसामीप्ये वर्तमानवद्वा ॥ २७८९ ॥
vartamānasāmīpye vartamānavadvā
Siddhānta-kaumudī
समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् SK 2151 इत्यारभ्य उणादयो बहुलं SK 3169 इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥
Tattvabodhinī
NSP p. 482
—वर्तमान-॥ स्वार्थे ष्यञ्जिति । अस्मादेव सामीप्य इति निर्देशात्प्यञि सिद्धे ‘चतुर्वर्णादिभ्यः’ इति वार्तिकं प्रपञ्चार्थमित्याहुः । न चात्र ‘पूरणगुण’- इति निषेधात्पष्टीसमासो न प्राप्नोतीति वाच्यम् । अनेनैव निर्देशेन तन्निषेधस्यानित्यत्वाभ्युपगमात् । तेन बुद्धिमान्यमित्यादि सिद्धम् ॥—येनोपाधिनेति । धातुविशेषाद्युपाधिना । तथाहि पूड्यजोः शानन्विहितः स ताभ्यामेव धातुभ्यां भवति न तु धात्वन्तरात् । तच्छीलादिविशिष्टे कर्तरि ‘अलंकृन्’- इत्यारभ्य ‘भ्राजभास’- इति ये इष्णुजादय उक्तास्तेऽपि कृन्नादिभ्यो धातुभ्यस्तस्मिन्नुपाधौ सत्येव भवन्ति । कदा आगतोऽसीति भूतकालेन प्रश्नवाक्यं, आगच्छामीत्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालयोतनाय । तेन ह्यागमनाविनाभूतं यद् रूपं धूली-धूसरताप्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते । एवं कदा गमिष्यसीति भविष्यत्कालेन प्रश्नवाक्यम् । गच्छामीत्युदाहरणे भनाऽविनाभूतं यत् रूपं परिकरवन्धादियुक्तं तत्प्रतिनिर्दिश्यते । न च कदेति प्रश्ने उत्तरवाक्ययोः कालानुपादानादसंगतिः शङ्कया । उत्तरत्रायमेवशब्दाभ्यामिदानीमिति कालावगमात् । सामीप्ये किम्, कदा आगतो भवान् । अस्मान्मासात्पूर्वस्मिन्मासे आगच्छम् । एतच्च सूत्रमाकरे प्रत्याख्यातम् । गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात्
Bālamanoramā
वर्तमानसामीप्ये वर्तमानवद्वा - वर्तमानसामीप्ये । स्वर्थे प्यञिति । अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीयेवर्तमान ल॑डित्यारभ्य आपादसमाप्तेःउणादयो बहुल॑मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात् । कदा आगतोऽसीत्यगतं प्रति प्रश्नः । अयमागच्छामित्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् ।अय॑मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । आगममिति । वर्तमानवत्त्वाऽभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम् । अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः । 'एष' इति तु अयमितिवद्वयाख्येयः । वर्तमानकालसमीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाऽभावे भविष्यति लृट् ।
SK 2790 · A 3.3.132V
आशंसायां भूतवच्च ॥ २७९० ॥
āśaṃsāyāṃ bhūtavacca
Siddhānta-kaumudī
वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ॥
Tattvabodhinī
alignment inferredNSP p. 482
—आशंसायाम्-। आशंसनमाशंसा अप्राप्तस्य प्राप्तुमिच्छा । आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादेर्भविष्यत्कालसंवन्धाद्भविष्यतीत्युक्तम् । आशंसायां किम् । गमिष्यति
Bālamanoramā
आशंसायां भूतवच्च - आशंसायां भूतवच्च । नानुवर्तते इति । अत्र व्याख्यानमेव शरणम् । अप्राप्तस्य प्रियस्य् प्राप्तीच्छा आशंसा । सा च भविष्यद्विषयैव । भूते इच्छाविरहात् । तदाह — भविष्यति काले इति । देवश्चेदिति । देव = पर्जन्यः, अवर्षीच्चेद्धान्यमवापम्स्म । वर्षति चेद्वपामः । वर्षिष्यति चेद्वप्स्याम इत्यन्वयः । भूतवद्भावाद्भविष्यति लुङ् — अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्लुङि उत्त्मपुरुषबहुवचने अवाप्स्मेति भवति । वृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभत्रापि लुङ । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाऽभावे तु लृट् । ननु भूतवत्त्वपक्षे लङ्लिटावपि कुतो न स्यातामित्यत आह — सामान्यातिदेशे इति । भूतत्वसामान्ये विहितस्याऽतिदेशादनद्यतनभूतत्वविशेषविहितयोर्लङ्लिटोर्नाऽतिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।
SK 2791 · A 3.3.133V
क्षिप्रवचने लृट् ॥ २७९१ ॥
kṣipravacane lṛṭ
Siddhānta-kaumudī
क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥
Tattvabodhinī
NSP p. 482
—क्षिप्रवचने-। वचनप्रहणं स्वरूपप्रहणनिरासार्थम् । तदाह-क्षिप्रपर्याय इति ॥—पूर्वविषय इति । आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम्
Bālamanoramā
क्षिप्रवचने लृट् - क्षिप्रवचने लृट् । वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते । तदाह — क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः ।आशंसायां भूतवच्चे॑त्यस्यापवादः । ननुक्षिप्रवचनेने॑त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह — नेति वक्तव्ये इति ।क्षिप्रवचने ने॑त्युक्तेसामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात् । शीघ्रं वप्स्याम इति । अनद्यतनत्वद्योताय आश्शब्दः । अत्र न लुडिति भावः ।
SK 2792 · A 3.3.134V
आशंसावचने लिङ् ॥ २७९२ ॥
āśaṃsāvacane liṅ
Siddhānta-kaumudī
आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥
Tattvabodhinī
NSP p. 482–483
—आशंसावचने-। भूतवद्वर्तमानवत्प्रत्यययोरपवादः । न भूतवदिति न वर्तमानवदित्यपि वोध्यम् ॥—आशंसेऽधीयीयेति । एवं प्रार्थये अधीयीय इच्छामो वयमधीयीमहीलादि ज्ञेयम् ॥—क्षिप्रमिति । क्षिप्रयोगेऽपि परलाल्लिङ्गिति भावः
Bālamanoramā
आशंसावचने लिङ् - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।
SK 2793 · A 3.3.135अनद्यतनवत् प्रत्ययविधेः प्रतिषेधातिदेशः
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ॥ २७९३ ॥
nānadyatanavat kriyāprabandhasāmīpyayoḥ
Siddhānta-kaumudī
क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥
Tattvabodhinī
NSP p. 483
—नानद्यतन । भूतानद्यतने लङ्घिहितो भविष्यलनद्यतने तु लुट् तौ चानयोरर्थयोर्निषिध्येते तदाह—लङ्लुटौ नेति । एवं च भूते लुङ् भविष्यति तु लङ्लिलाशयेनोदाहरति—अन्नमदात् दास्यतीलादि ॥—अग्नीनिति । आहवनीयादीन्
Bālamanoramā
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - भविष्यति मर्यादा ।अवरस्मि॑न्निति च्छेदः । अनद्यतनवन्नेति । लुण्नेत्यर्थः ।अक्रियाप्रबन्धार्थ॑मिति भाष्यम् ।असामीप्यार्थं चे॑ति कैयटः । योऽयमिति । कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना । अत्र कौशाम्ब्या इति मर्यादा गम्यते ।अवर॑मित्यनेन अवरत्वं गम्यते । अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः । कालविभागे । पूर्वसूत्रमिति ।भविष्यति मर्यादावचनेऽवरस्मि॑न्निति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह — अहोरात्रेति । तथा च आहोरात्रसंबन्धिनि प्रविभागेभविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननुभविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह — योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः । युक्ता इति । नियमयुक्ता इत्यर्थः । अध्येष्यामहे इति । अत्र न लुट्, किंतु लृडेवेति भावः । पञ्चदशरात्रयुक्ता इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः । यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः ।अहःसर्वैकदेशे॑त्यच्समासान्तः ।सङ्ख्यापूर्वंरात्रं क्लीब॑मिति तुलिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये॑ति वचनान्न भवति ।
SK 2794 · A 3.3.136V
भविष्यति मर्यादावचनेऽवरस्मिन् ॥ २७९४ ॥
bhaviṣyati maryādāvacane'varasmin
Siddhānta-kaumudī
भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥
Tattvabodhinī
NSP p. 483
—भविष्यति मर्यादा । अक्रियाप्रबन्धार्थमसामीप्यार्थं चेदं वचनम् । नानद्यतनवदिल्युवर्तते इलाह—अनद्यतनवन्नेति । लुङ्ग्र नेलर्थः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता तत्र विशेषं वक्ष्यति—तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्ब्याः सकाशादिलर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् । योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सकूनपिवाम । मर्यादावचने इति किम् । योऽध्वा गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सकून्पास्यामः । अवरस्मिन्निति किम् । योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशाम्ब्यास्तत्र सकून्पातासः
SK 2795 · A 3.3.137V
कालविभागे चानहोरात्राणाम् ॥ २७९५ ॥
kālavibhāge cānahorātrāṇām
Siddhānta-kaumudī
पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥
Tattvabodhinī
NSP p. 483
—कालविभागे च । कालविभागः कालविशेषः । अनहोरात्राणामिति संबन्धषष्ठी ॥—पूर्वसूत्रमिति । तदयमर्थः । मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यलनद्यतनवन्न, स चेत्कालविभाग अहोरात्रसंबन्धी न चेदिलर्थः । इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादिल्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके । केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीलाहुः ॥—उत्तरार्थं इति । ‘परस्मिन्विभाषा’ इति सूत्रे कालमर्यादाया एवानुवृत्तिर्यथा स्यात् । भविष्यतीति किम् । यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिवाम । मर्यादायामिति किम् । यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः ॥—पञ्चदशरात्र इति । नन्वत्र ‘संख्यापूर्व रात्रम्’ इति क्लीवत्वेन भाव्यम् । न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुत्रीक्षाश्रयणात्पुंलिङ्गः सिद्ध इति वाच्यम् । ‘अहःसर्वैकदेश’ इत्यच्प्रलयस्याभावप्रसङ्गादिति चेत् । सत्यम् । अत एव हि भाष्यप्रयोगात्क्लीवत्वं नेत्याहुः
SK 2796 · A 3.3.138V
परस्मिन् विभाषा ॥ २७९६ ॥
parasmin vibhāṣā
Siddhānta-kaumudī
अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ SK 2229 भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥
Tattvabodhinī
NSP p. 483
—परस्मिन् । ‘भविष्यलनद्यतनवन्न’ इति विकल्पेन निर्धिध्यते ॥—वर्ज्यमिति । णिजन्तात् ‘अचो यत्’ इति कर्मणि यत् । वर्जमिति पाठे तु ‘द्वितीयायां चे’ ति णमुद्ध । अनहोरात्राणामित्येव । योऽयं वत्सर आगामी तस्य यत्परं पञ्चदशरात्रात्तत्र पयः पातास्म इलादि ॥—लिङ्निमित्त इति । अतिपत्तिरनिष्पत्तिः
Bālamanoramā
परस्मिन् विभाषा - परसमिन्विभाषा । अनुवर्तते इति । तथा च भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यनवद्वेति फलितम् ।लिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति व्याख्यातं भूधातुनिरूपणे ।
SK 2797 · A 3.3.140V
भूते च ॥ २७९७ ॥
bhūte ca
Siddhānta-kaumudī
पूर्वसूत्रं संपूर्णमनुवर्तते ॥
Tattvabodhinī
NSP p. 483
—भूते च । लिङ्निमित्ते लङ् स्याद् भूते भविष्यति च क्रियातिपत्तौ । अद्यतनानद्यतनसाधारणं भूतसामान्यमिह ज्ञेयम् । अस्योदाहरणानि ‘उताप्योः समर्थयोलिङ्’ इत्यारभ्य ‘समानकर्तृकेषु तुमुन्’ इति विहाय सप्तसूत्र्यां बोध्यानि । ततः प्राचीनेषु ‘वोताप्योः’ इत्यनेन विकल्पोक्तेः ॥—लङ् वेति । लिङ्निमित्ते भूत एवायं विकल्पो, भविष्यति तु नित्यमेव लङ्
Bālamanoramā
भूते च - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।
SK 2798 · A 3.3.141वा लृङधिकारः
वोताप्योः ॥ २७९८ ॥
votāpyoḥ
Siddhānta-kaumudī
वा आ उताप्योरिति छेदः । उताप्योः - SK 2809 इत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते । पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥
Bālamanoramā
वोताप्योः - वोताप्योः । अयमप्यधिकारः । वा आ उताप्योरिति छेदः । भूते इति, लिङ्निमित्ते लृङिति चानवर्तते । तदाह — उताप्योरित्यतः प्रागिति ।उताप्योः समर्थयो॑रित्यतः प्रागित्यर्थः । नन्वनेनउताप्यो॑रित्यतः प्राग्भूते लिङ्निमित्ते लृङ्वेत्याधिकाराक्रान्तत्वाद्भूतेचेति पूर्वमधिकारसूत्रं निर्विषयमित्यत आह — पूर्वसूत्रं त्विति ।उताप्योः समर्थयोर्लि॑ङित्यारभ्य इच्छार्थेभ्यो विभाषे॑त्यतः प्राक्भूते चे॑ति पूर्वमधिकारसूत्रं प्रवर्तत इत्यर्थः । इमावधकारौ यत्रलिङ्विधिस्तत्रैव प्रवर्तेतते, नतु लडादिविधौ, लिङ्निमित्ताऽभावात् ।
SK 2799 · A 3.3.142V
गर्हायां लडपिजात्वोः ॥ २७९९ ॥
garhāyāṃ laḍapijātvoḥ
Siddhānta-kaumudī
आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥
Bālamanoramā
गर्हायां लडपिजात्वोः - गर्हायाम् । अपि जातु अनयोद्र्वन्द्वः । अत्रवोताप्योरिति भूते लिङ्निमित्ते लृङ् वा इत्यधिकारो न संबध्यते । लड्विधानेन तद्विषये लिङ्निमित्ताऽभावात् । कालत्रये इति । वर्तमाने भूते । भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वादिति । अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् ।अपि जाया॑मित्यत्र ,जातु गणिका॑मित्यत्र अपि- जातुशब्दौ निन्दाद्योतकौ । तदाह — गर्हितमेतदिति ।
SK 2800 · A 3.3.143V
विभाषा कथमि लिङ् च ॥ २८०० ॥
vibhāṣā kathami liṅ ca
Siddhānta-kaumudī
गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥
Bālamanoramā
विभाषा कथमि लिङ् च - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । 'समुच्चीयते' इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।
SK 2801 · A 3.3.144V
किंवृत्ते लिङ्लृटौ ॥ २८०१ ॥
kiṃvṛtte liṅlṛṭau
Siddhānta-kaumudī
गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
Bālamanoramā
किंवृत्ते लिङ्लृटौ - किंवृत्ते लिङ्लृटौ । नानुवर्तते इति । व्याख्यानादिति भावः । विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्हायां लिङ्लृटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लृङ् प्राग्विदिति । भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिङ्निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः ।
SK 2802 · A 3.3.145V
अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि ॥ २८०२ ॥
anavakḷptyamarṣayorakiṃvṛtte'pi
Siddhānta-kaumudī
गर्हायामिति निवृत्तम् । अनवकॢप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
Bālamanoramā
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि - अनवकॢप्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः । अनवकॢप्त्यमर्षयोर्लिङ्लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति — कः कतर इति । लृङ्प्राग्वदिति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः ।
SK 2803 · A 3.3.146V
किंकिलास्त्यर्थेषु लृट् ॥ २८०३ ॥
kiṃkilāstyartheṣu lṛṭ
Siddhānta-kaumudī
अनवकॢप्त्यमर्षयोरित्येतत् गर्हायां च SK 2806 इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥
Bālamanoramā
किंकिलास्त्यर्थेषु लृट् - किङ्किला । किंङ्किलेति । समुदायस्य, अस्त्यर्थानां च द्वन्द्वः । यावदिति ।गर्हायां चेत्तः प्रागित्यर्थः । किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवकॢप्त्यमर्षयोर्लृट् स्यादित्यर्थः । पूर्वसूत्रेण लृङ्लृरटोः प्राप्तौ लृडेवेत्यर्थमिदम् । तदाह — लिङोऽपवाद इति । न श्रद्दधे इति । न संभावयामीत्यर्थः । त्वं शूद्रान्नं भोक्ष्यसे इति यत्तन्न श्रद्दधे, न मर्षये वा किङ्किलेत्यन्वयः । किङ्किलेति क्रोधं द्योतयति । अस्तीति । शूद्रस्य स्त्री शूद्री । तां गमिष्यसीत्यस्ति भवति विद्यते वेत्यन्वयः । अत्र लृङ् नेति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिङो विध्यभावेन लिङ्निमित्तविरहात् ।
SK 2804 · A 3.3.147V
जातुयदोर्लिङ् ॥ २८०४ ॥
jātuyadorliṅ
Siddhānta-kaumudī
।
vārttika
यदायद्योरुपसंख्यानम्
(वार्तिकम्) ॥ लृटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लृङ् प्राग्वत् ॥
Bālamanoramā
जातुयदोर्लिङ् - जातुयदोर्लिङ् ।जातु यत् अनयोः प्रयोगे अनवकॢप्त्यमर्,योर्लिङ् स्यादित्यर्थः । यदिति विभक्तिप्रतिरूपकमव्ययम् ।अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपी॑ति लिङ्लृटौ प्राप्तौ लिङेवेत्यर्तमिदम् । तदाह - लृटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः । जात्वादिशब्दा उदाहरणे अनवकॢप्त्यमर्षद्योतकाः । त्वादृशो हिरं निन्देदित्यतेतन्नावकल्पयामि, न मर्षयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभवायामीत्यर्थः । लृङ् प्राग्वदिति । भविष्यति नित्यं लृङ्भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्तु, अनवकॢप्त्यमर्षयोश्च लिङ्निमित्तत्वादिति भावः ।
SK 2805 · A 3.3.148V
यच्चयत्रयोः ॥ २८०५ ॥
yaccayatrayoḥ
Siddhānta-kaumudī
यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥
Bālamanoramā
यच्चयत्रयोः - यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवकॢप्त्यमर्षयोर्लिङ् स्यादित्यर्थः । लृटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवकॢप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः । अत्रापिभविष्यति नित्यं लृङ्, भूते वे॑त्युक्तमनुसंधेयम् । लिङ्निमित्तस्य सत्त्वात् ।
SK 2806 · A 3.3.149V
गर्हायां च ॥ २८०६ ॥
garhāyāṃ ca
Siddhānta-kaumudī
अनवकॢप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥
Tattvabodhinī
NSP p. 483–484
—गर्हायाम् । अत्र ‘वोताप्योः’ इति न संबध्यते । वर्तमाने लङ्कृताः कालत्रये तु न प्राप्नोतीति विधिरयम् ॥—कालत्रय इति । कालविशेषानुपादानादिति भावः ॥—परत्वादिति । निरवकाशलादिल्यपि बोध्यम् ॥—अपि जायामिति । त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपि त्यजसीत्यादि लडेव प्रयुज्यत इति भावः । एवं यो जायां तत्याज अत्यजत् अत्याक्षीत् त्यक्ता त्यक्ष्यतीत्यादिविषयेऽपि यो जायामपि त्यजति जातु गणिकामाधत्ते इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः । लिङ्निमित्ताभावादिह क्रियातिपत्तौ लङ् न भवति ॥—कालत्रये लकारा इति । परोक्षानद्यतनभूते लिट् । कथं धर्मं तत्यक्थ । भूतानद्यतने लङ् । कथं धर्मलजः भूतसामान्ये लङ् । अत्याक्षीः । भविष्यत्यनवने लङ् । त्यक्तासि । भविष्यत्सामान्ये लङ् । कथं धर्मं त्यक्ष्यसीत्यादि ॥—अत्रेति । क्रियातिपत्ताविति ज्ञेयम् ॥—किंचूत्ते । लिङ्लटो कालत्रये स्तः ॥—नानुवर्तत इति । एवं चास्मिन्विषये निन्दति निन्दिष्यत्यनिन्ददिति कालत्रये लकाराः पक्षे न भवन्तीति भावः ॥—प्राग्वदिति । क्रियातिपत्तौ भविष्यति नित्यं लङ् भूते वेत्यर्थः ॥—अनवक्लृप्यमर्षयोः—। लिङ्लटावनुवर्तते तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादः । किंचृत्तस्यानधिकारादेवाविशेषादुभयोर्भविष्यतीत्यकिंचृत्तेऽपीति न कर्तव्यम् । पूर्वनिपातार्हस्यान्त्याचः परनिपातो यथासंख्यनिवृत्त्यर्थः ॥—लङ् प्राग्वदिति । भूते वा भविष्यति नित्यमित्यर्थः । नाहं भावयामि चैत्रो हरिमनिन्दिष्यदित्याद्युदाहर्तव्यम् ॥—किंकिलास्त्यर्थेषु—। लिङ्लटोः प्राप्तयोरिह लङ्ग्रहणाल्लिङ् निवर्तत इत्याशयेनाह—लिङोऽपवाद इति ॥—अस्ति भवतीति । लत्कर्तृकं शूद्रागमनमस्तीत्यादिर्थः ॥—लङ् नेति । लिङो निवृत्तत्वेन तन्निमित्तलाभावात् ॥—जानुयदोर्लिङ् । अनवक्लृप्यमर्षयोरिति वर्तते । तथाच ‘अनवक्लृप्यमर्षयोः’ इति लिङ्लटोः प्राप्तयोर्वचनमिदं लटो वाधनार्थम् । तदाह—लटोऽपवाद इति । अयं कालत्रये ॥—लङ् प्राग्वदिति । क्रियातिपत्तौ भूते वा भविष्यति नित्यमित्यर्थः । जानु भवान् हरिमनिन्दिष्यदित्याद्युदाहर्तव्यम् । अगर्हायामिदम् । गर्हायां तु जानुयोगे लङ्ककः ॥—यच्चयत्रयोः । ‘अनवक्लृप्यमर्षयोः’ इति वर्तते । यथासंख्यमिह नेष्यते । अयमपि लिङ्लटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवानुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लङ् प्राग्वत् । यच्चयत्र वा लमेवमकरिष्यो न श्रद्धे न मर्षयामीत्यादि ॥—गर्हायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः ॥—लिङेव स्यादिति । गर्हायां ‘विभाषा कथमि—’ इति लट् प्राप्तस्तत्रैव ‘किंचृत्त’ इति लट् प्राप्तस्तयोरपवादो यच्चयत्रयोर्योगे विहितोऽयं लिङिति भावः । लङ् प्राग्वत् । यच्चयत्र वा त्वं शूद्रमयाजयिष्यस्तदन्याय्यमित्यादि
Bālamanoramā
गर्हायां च - गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः ।यच्चत्रयोरिति, लिहिति चानुवर्तते । तदाह -यच्चयत्रयोर्योगे इति.लिङेवेति । नतु लकारान्तरमित्यर्थः । उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम् । 'त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् ।
SK 2807 · A 3.3.150V
चित्रीकरणे च ॥ २८०७ ॥
citrīkaraṇe ca
Siddhānta-kaumudī
यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥
Tattvabodhinī
NSP p. 484
—चित्रीकरणे च । अयमपि कालत्रये लङ् प्राग्वत् । यच्चयत्र वा त्वं शूद्रमयाजयिष्यः आश्चर्यमेतत्
Bālamanoramā
चित्रीकरणे च - चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः ।
SK 2808 · A 3.3.151V
शेषे लृडयदौ ॥ २८०८ ॥
śeṣe lṛḍayadau
Siddhānta-kaumudī
यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥
Tattvabodhinī
alignment inferredNSP p. 484
—शेषे—। सर्वलकारापवादः ॥—सोऽधीयीतेति । यदायद्योरुपसंख्यानात् ‘जानुयदोः—’ इति लिङ् । लिङ्निमित्ताभावादिह लङ् न
Bālamanoramā
शेषे लृडयदौ - शेषे लृडयदौ ।यच्चयत्राभ्यामन्यः शेषः । तदाह — यच्चयत्राभ्यामन्यस्मिन्निति । 'यदिभिन्ने' इति शेषः । लृट्स्यादिति । नतु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक् इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् ।
SK 2809 · A 3.3.152V
उताप्योः समर्थयोर्लिङ् ॥ २८०९ ॥
utāpyoḥ samarthayorliṅ
Siddhānta-kaumudī
बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥
Tattvabodhinī
NSP p. 484
—उताप्योः—। धातोर्लिङ् स्यात्कालत्रये ॥ भूतेऽपि नित्य इति । वाग्रहणस्य निवृत्तलात् भविष्यतीव भूतेऽपि नित्यं लङ् । उताहनिष्यद्दस्युं राजा । नाहन् न हनिष्यतीति गम्यते
Bālamanoramā
उताप्योः समर्थयोर्लिङ् - उताप्योः । समौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थयोरित्यर्थः । कमर्तमादायानयोरेकार्थकत्वमित्यत आह — बाढमिति । तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः । उत अपि वेति । उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः ।उताऽपी॑बाढमितयर्थकौ । गम्यते इति ।उत दण्ड पतिष्यती॑त्यत्र उतशब्देन प्रश्नो गम्यते ।अपिधास्यति द्वार॑मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः । इतः प्रभृतीति ।वोताप्यो॑रिति मर्यादायामाङ् ।उताप्यो॑रत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते ।उताप्यो॑रित्यादिसूत्रेषु भूतेलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इत्येवाधिक्रियते इत्युक्तम् । एवं चउताप्यो॑रिति सूत्रप्रभृति लिङ्निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम् । अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः ।
SK 2810 · A 3.3.153V
कामप्रवेदनेऽकच्चिति ॥ २८१० ॥
kāmapravedane'kacciti
Siddhānta-kaumudī
स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥
Tattvabodhinī
NSP p. 484
—कामप्रवेदने—॥ लिङ् स्यादिति । कालत्रये सर्वलकारापवादः ॥—कश्चिज्जीवतीति । कामो मे इत्यनुपजनीयम् । ‘वर्तमानसामीप्ये’ इति लट्
Bālamanoramā
कामप्रवेदनेऽकच्चिति - कामप्रवेदनेऽकच्चिति ।अकच्चिती॑ति च्चेदः । तदाह — नतु कच्चितीति । सर्वलकारापवादः । अभिप्रायः = इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ् । प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः । अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते ।
SK 2811 · A 3.3.154V
सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे ॥ २८११ ॥
sambhāvane'lamiti cet siddhāprayoge
Siddhānta-kaumudī
अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चेत्संभावनमलमिति अलमि सिद्धाऽप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥
Tattvabodhinī
NSP p. 484–485
—संभावनेऽल—॥—प्रौढिरिति । पर्याप्तिरित्यर्थः ॥— प्रथमया सप्तम्या चेति । संभावने इति सप्तम्यन्तं प्रथमया विपरिणम्यते । अलमिति प्रथमान्तं सप्तम्येति संबन्धः ॥ —संभावनेऽर्थे इति । न च प्रथमया विपरिणमितलात्कथमत्र सप्तम्यर्थलाभ इति चेत् । अत्राहुः । संभावनेऽलमि- स्यावर्त्यं द्वितीयस्यैव विपरिणामात्सर्वेष्टसिद्धिरिति । संभावनं क्रियासु योग्यताध्यवसायः ॥—अलमितीति । तच्च संभावनं समर्थं इति चेद् भवति तदा लिङ् स्यादित्यर्थः ॥—सिद्धेति । सिद्धः अप्रयोगो यस्य तस्मिन्नलमि सति । यत्रालंशब्दो न प्रयुज्यते तदर्थस्तु गम्यते तत्रेति फलितोऽर्थः । मनोरमायां तु ‘अलमिति संभावने सिद्धाप्रयोगश्चेत्’ इति सूत्रयितुमुचितमित्युक्तम् । तत्र सिद्धस्याप्रयोग इति विग्रहः । कस्याप्रयोग इत्याकाङ्क्षायामर्थादलंशब्दस्येति बोध्यम् ॥—अपि गिरिमिति । संभावनद्योतकोऽपिशब्दः । गिरिविदारणे पर्याप्तं इति संभावनात्र गम्यते । कालसामान्येयं लिङ् । लङ् प्राग्वत् । अपि गिरिं शिरसाऽभेत्स्यत् । अलमिति चेत् किम् । प्रायेण गमिष्यति
Bālamanoramā
सम्भवानेऽलमिति चेत् सिद्धाप्रयोगे - संभावने । अलमर्थोऽत्र प्रौढिरिति । पर्याप्तिरित्यर्थः । विपरिणम्यते इति । संभावने इति यत् सप्तम्यन्तं तदावर्त्त्य प्रथमया संभावनमिति च विपरिणम्यते, यत्तु अलमिति प्रथमान्तं तदावर्त्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः ।छान्दसं विभक्तिव्यत्ययमाश्रित्ये॑ति शेषः । तथा च संभावने इति सप्तम्यन्तं, संभावनमिति प्रथमान्तं च लभ्यते । तथा अलमिति प्रथमान्तमलभि इति सप्तम्यन्तं च लभ्यते । तत्र संभावने इति सप्तम्यन्तमर्थनिर्देशपरं । तदाह — संभावनेऽर्थ लिङ्स्यादिति । उत्कटान्यतरकोटिकं ज्ञान संभावनमित्युच्यते । संभावनमितिप्रथमान्तं तु अलमिति प्रथमान्तेन विशेष्यते । इति र्हेतौ । तदाह — तच्चेदिति । तत् = संभावनम्, अलं = पर्याप्तिहेतुकं चेदित्यन्वयः । षिधधातोज्र्ञानार्थकात्मतिबुद्धी॑त वर्तमाने कर्मणि क्ते सिद्धशब्दः । सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य स सिद्धाऽप्रयोगस्तस्मिन्निति विग्रहः । अलमीति सप्तम्यन्तमत्र विशेष्यसमर्पकं संबध्यते । अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत् । तदाह — सिद्धाऽप्रयोगे सतीति ।अलमी॑ति शेषः । अपि गिरिमिति । बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरि भ#एत्तुमयं समर्थ इत्यर्थः । गिरिभेदसंभावनस्य सामर्थ्यहेतुकत्वद्योतकोऽपिशब्दः । अत्र लिङ्निमित्तसत्त्वात् क्रियातिपत्तौ भूते लृङ् ।अलमिति संभावने सिद्धाऽप्रयोगश्चे॑दिति सुवचम् ।
SK 2812 · A 3.3.155V
विभाषा धातौ सम्भावनवचनेऽयदि ॥ २८१२ ॥
vibhāṣā dhātau sambhāvanavacane'yadi
Siddhānta-kaumudī
पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥
Tattvabodhinī
NSP p. 485
—विभाषा धातौ—संभावनमुच्यते येन तत्संभावनवचनं तस्मिन्धातौ । संभावनार्थकधातावित्यर्थः ॥—भुञ्जीथास्त्वमिति । अत्र पूर्वेण नित्यो लिङ् । धातौ किम् । संभावनवचने स्वरूपग्रहणं माभूत् । कृते तु संभावनवचने तद्वाचकधातोरप्रयोगादिह विभाषा न भवति । भुञ्जीत भवान् । पूर्वेणात्र नित्यो लिङ्
Bālamanoramā
विभाषा धातौ सम्भावनवचनेऽयदि - विभाषा धातौ ।अयदी॑ति छेदः । तदाह — नतु यदिति । लिङभावे लृट्, 'शेषे लडयदौ' इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः ।
SK 2813 · A 3.3.156V
हेतुहेतुमतोर्लिङ् ॥ २८१३ ॥
hetuhetumatorliṅ
Siddhānta-kaumudī
वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ।
vārttika
भविष्यत्येवेष्यते
(वार्तिकम्) ॥ नेह । हन्ताति पलायते ॥
Tattvabodhinī
NSP p. 485
—हेतुहेतु—विभाषेत्यस्यानुवर्तनादाह—वा स्यादिति ॥—नमे च्चेदिति । कृष्णनतिः सुखप्राप्तौ हेतुः ॥—भविष्यत्येवेति । लिङ्त्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः ॥—हन्तीत्यादि । ननु ‘लक्षणहेत्वोः क्रियायाः’ इति हन्तेः शतृप्रत्ययः स्यात् हननस्य पलायने हेतुत्वात् । मैवम् । ‘देवत्रातो गलो ग्राह इति योगे च सद्विधिः । मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः’ इति ‘शाच्छोरन्यतरस्याम्’ इति सूत्रे भाष्ये व्यवस्थापितत्वात् । व्याख्यातं च कैयटेन तत्रैव सूत्रे देवत्रात इति संज्ञा । तत्र ‘नुदविदोन्दत्राप्राहीभ्योऽन्यतरस्याम्’ इति न नत्वं भवति देवत्राण इति । किं तु देवत्रात इत्येव । ‘ग्रो यङि’ ‘अचि विभाषा’ इति प्राण्यङ्गे नित्यं लत्वम् । गलः । विषवाचके गर इत्यत्र न भवति । ‘विभाषा ग्रहः’ इति णप्रत्ययो जलचरे भवति ग्राहः । ज्योतिषि न । ग्रहः । ‘लक्षणहेत्वोः’ इति सूत्रे ‘नन्वोर्विभाषा’ इत्यतो विभाषेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादितिशब्दयोगे सद्विधिः शतृशानचौ न भवतः । हन्तीति पलायते । वातायने गवाक्षः । अन्यत्र त्ववङ् न भवति । गोक्षः । संशितव्रत इति बहुव्रीहिः । अत्र ‘शाच्छोरन्यतरस्याम्’ इति संशात इतीत्यविकल्पो न भवति । अन्यत्र तु शातः । शितः । ते पूर्वोक्तनलादिविधयो मिथः परस्परं एकविषये न विकल्प्यन्ते तत्तद्विधायकसूत्रे व्यवस्थितविभाषाश्रयणादिति भावः । क्रियातिपत्तौ तु भूते भविष्यति च नित्यं लङ् । यद्यवर्षिष्यत् सत्यमुदपत्स्यत्
Bālamanoramā
हेतुहेतुमतोर्लिङ् - हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृतिंत मत्वा आह — वा स्यादिति । पक्षे लृट् । हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत् । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः । हन्तीति । इतिर्हेतौ । वर्तमानकालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्निमित्तसत्त्वाद्भविष्यति तु क्रियातिपत्तौ भूते च लृङ् ।
SK 2814 · A 3.3.157V
इच्छार्थेषु लिङ्लोटौ ॥ २८१४ ॥
icchārtheṣu liṅloṭau
Siddhānta-kaumudī
इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ।
vārttika
कामप्रवेदन इति वक्तव्यम्
(वार्तिकम्) ॥ नेह । इच्छन् करोति ॥
Tattvabodhinī
NSP p. 485
—इच्छार्थेषु लिङ्लोटौ । एषूपपदेषु धातोरेतौ स्तः । सर्वलकाराणामपवादः । ‘लिङ् च’ इत्यनेन समानकर्तृकेषु लिङो विधानादिह लिङ्लोटावसमानकर्तृकेषु भवत इति बोध्यम् ॥—इच्छन् करोतीति । अत्रानभिधानात् ‘समानकर्तृकेषु’ इति तुमुन् न । ननु ‘कामप्रवेदनेऽक्वचिति’ इत्यनेनैव लिङः सिद्धत्वादिह लिङ्ग्रहणं मास्तु लोडेव विधीयतामिति चेन्न । लोटा लिङो वाधा माभूदिति लिङ्ग्रहणस्यात्रावश्यकत्वात् । न चैवम् ‘इच्छार्थेषु लोट् च’ इत्येव सूत्र्यतामिति वाच्यम् । चक्रारेण लिङोऽनुकर्षे तत्संबद्धस्य विभाषाग्रहणस्यानुकर्षेणप्रसक्त्या लकारान्तरमपि स्यादिति । न चैवमपि कामप्रवेदन इत्युपसंख्यानादनेनैव सिद्धे ‘कामप्रवेदनेऽक्वचिति’ इति सूत्रं मास्त्विति वाच्यम् । यत्रार्थप्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थं तदारम्भात्
Bālamanoramā
इच्छार्थेषु लिङ्लोटौ - इच्छार्थेषु लिङ्लोटौ । इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः । सर्वलकारापवादः । असमानकर्तृकविषयमिदम् । समानकर्तृकेषु तुलिङ् चे॑ति वक्ष्यते । इच्छामिति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । परं प्रति स्वाभिप्रायाविष्करणेइच्छार्थेषु लिङ्लोटा॑विति विधिरित्यर्थः । इच्छन्करोतीति । परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्लोटाविति भाव- ।कामप्रवेदनेऽकच्चिती॑ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रंसमानकर्तृकेषु तुमु॑न्निति तु कृदधिकारे व्याख्यास्यते ।
SK 2815 · A 3.3.159V
लिङ् च ॥ २८१५ ॥
liṅ ca
Siddhānta-kaumudī
समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥
Tattvabodhinī
NSP p. 485
—लिङ् च । ‘समानकर्तृकेषु तुमुन्’ इत्यनेन ‘इच्छार्थेषु लिङ्लोटौ’ इति विहितयोर्लिङ्लोटोर्बाधे प्राप्ते लिङः प्रतिप्रसवार्थं सूत्रम् । न चात्र वासरूपविधिना लिङ्लोटोर्नित्यं वाधा नेति शङ्क्यम् । कल्युट्तुमुन् खल्येषु तदभावात् । अथापि वासरूपविधिः स्यात् । एवमपि लिङेव यथा स्याल्लोट् माभूदित्येवमर्थं तदारब्धव्यमेव । क्रियातिपत्तौ लङ् प्राग्वत्
Bālamanoramā
लिङ् यदि - लिङ्यदि । कालसमयवेलास्वत्यनुवर्तते । सर्वलकारापवादः, तुमुनपवादश्च । भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः ।
SK 2816 · A 3.3.160V
इच्छार्थेभ्यो विभाषा वर्तमाने ॥ २८१६ ॥
icchārthebhyo vibhāṣā vartamāne
Siddhānta-kaumudī
लिङ् स्यात्पक्षे लट् ॥ इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रण - SK 2208इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने । भोजनं लभेय । एवं लोट् ॥
Tattvabodhinī
alignment inferredNSP p. 485
—इच्छार्थेभ्यः—। इच्छार्थेभ्यः किम् । पचति गच्छति
SK 2817 · A 3.3.163V
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ २८१७ ॥
praiṣātisargaprāptakāleṣu kṛtyāśca
Siddhānta-kaumudī
प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥
Tattvabodhinī
NSP p. 485–486
—प्रैषातिसर्ग—। प्रैषो विधिरिति । विधि- अहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः ॥—लोटोऽनुकर्षणमिति । ‘लोट् च’ इति योगस्येदमेव प्रयोजनम्, एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात् ॥—प्राप्तकालार्थमिति । प्रैषातिसर्गयोः पूर्वेणेव सिद्धत्वादिति भावः
Bālamanoramā
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च - प्रैषातिसर्ग ।लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः । प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति — भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोटमुदाहरति — भवान्यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया चलोट् चे॑त्यनेनैव सिद्धेरित्यत आह — वकारेणेति । प्राप्तकाले यथा — गुरुणा भोक्तव्यम् । गुरुर्भुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः ।प्राप्तकाले च कृत्याश्चे॑त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अतः प्रैषादिग्रहणम् ।
SK 2818 · A 3.3.164V
लिङ् चोर्ध्वमौहूर्तिके ॥ २८१८ ॥
liṅ cordhvamauhūrtike
Siddhānta-kaumudī
प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥
Tattvabodhinī
NSP p. 486
—लिङ् चोर्ध्व—। प्राप्तकालविशेषेऽप्राप्तस्य लिङो विधानार्थमिदं सूत्रम् । प्रैषातिसर्गयोस्तु पूर्वेण प्राप्त एव लिङ् । लोट् कृत्यानां कालविशेषेस्मिन् लिङा वाधा माभूदिति चकारः ॥—पूर्वसूत्रविषय इति । प्रैषादय ऊर्ध्वमौद्गूर्तिके इति चानुवर्तत इति भावः
Bālamanoramā
लिङ् चोर्ध्वमौहूर्तिके - लिङ् चोध्र्वमौहूर्तिके ।लोडर्थलक्षणे चे॑त्युत्तरमेवंजातीयकमेव सूत्रं लिङ्लड्लुङ्लृड्विधायकं प्राक् पठितम् । तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः । प्रैषादय इति । तथा च मुहूर्तादूध्र्वं यजेत यजतां यष्टव्यमिति । अत्र प्राप्तकालेऽप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिङ्विधौ प्राप्तकालस्य ग्रहणाऽभावात् । प्रैषातिसर्गयोस्तु विद्यादिसूत्रेणैव लिङ् सिध्यति । लिङ एवात्र विधौ तु तेन लोटः कृत्यानां च बाधः स्यात्, अतश्चकारेण तेषामिति विधिरिति ज्ञेयम् ।
SK 2819 · A 3.3.165V
स्मे लोट् ॥ २८१९ ॥
sme loṭ
Siddhānta-kaumudī
पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥
Bālamanoramā
स्मे लोट् - स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः । तदाह — लिङः कृत्यानां चापवाद इति ।
SK 2820 · A 3.3.166V
अधीष्टे च ॥ २८२० ॥
adhīṣṭe ca
Siddhānta-kaumudī
स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥
Tattvabodhinī
NSP p. 486
—अधीष्टे च । लिङोऽपवादः । योगविभागस्तु ऊर्ध्वमौद्गूतकाननुवृत्त्यर्थः
Bālamanoramā
अधीष्टे च - अधीष्टे च । लोट् स्यादिति । अधीष्टे विहितस्य लिङोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः ।स्मे लोडधीष्टेचे॑त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः ।कालसमयेलासु तुमु॑न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते ।
SK 2821 · A 3.3.168V
लिङ् यदि ॥ २८२१ ॥
liṅ yadi
Siddhānta-kaumudī
यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥
Tattvabodhinī
NSP p. 486
—लिङ्यदि ॥—कालसमयवेलासु चेति । उपपदेष्विति वचनविपरिणामेन संबध्यते । तुमुनोऽपवादः ॥—यद्भुञ्जीतेति । यत्कालः पचतीत्यत्र तु न प्रैषादीनामनुवृत्तेः
SK 2822 · A 3.3.169V
अर्हे कृत्यतृचश्च ॥ २८२२ ॥
arhe kṛtyatṛcaśca
Siddhānta-kaumudī
चाल्लिङ् । त्वं कन्यां वहेः ॥
Tattvabodhinī
NSP p. 486–487
—अर्हे—। योग्ये कर्तरि गम्यमाने कृत्यतृचो भवन्ति । त्वया कन्या वोढव्या । वहनीया । त्वं कन्यां वोढा ॥—कन्यां वहेरिति । कन्योद्वहने योग्यस्त्वमित्यर्थः । नन्वर्हे किमर्थं कृत्यतृचो विधीयन्ते । यावता सामान्येन विहितत्वादनर्हेऽपि भविष्यन्तीति चेत् । अत्राहुः । अर्हतायां द्योत्यायामप्राप्तो लिङ् विधीयते, तेन तु लिङा वाधा माभूदिति कृत्यतृचोर्विधानम् । न च वासरूपविधिना समीहितसिद्धिः । रुग्रधिकाराद्धर्वतदप्रवृत्तेरिति ॥—धातुसंबन्धे—। इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः स्वार्थस्मारणेनोपक्षीणत्वात् । पदार्थसंसर्गो वाक्यार्थः, कारकविशिष्टा क्रिया चेति स्वीकारात् । शब्दानुगमादृते न शाब्दोऽस्ति प्रत्यय इत्यवष्टभ्य शाब्द- वोधे शब्दोऽपि भासत इत्यभ्युपगमेऽपि शब्दस्य स्वार्थं प्रत्येव प्रकारत्वं न तु शब्दान्तरं प्रति । तथा च धातुसंबन्धो वाक्येन न दुष्यते इति तस्य वाक्यार्थलासंभवाद्धातुशब्देन धात्वर्थो लक्ष्यते । ननु ‘धातोः कर्मणः समानकर्तृकात्—’ इति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमाश्रितं तथेहापि धात्वोरर्थद्वारकः संबन्धोऽस्त्विति चेत् । भैवम् । तथा हि सति परस्परसंबन्धार्थवोधकानेकधातुप्रयोग एव प्रत्ययाः स्युस्ततश्च गोमानासीत् गोमान् भवितेत्यादि न सिध्येत् । न ह्यत्र ‘वसन् ददर्श’ इत्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते । न चाप्रयुज्यमानस्य धात्वन्तरेण संबन्धोऽस्ति । अर्थयोः संबन्धाभ्युपगमे धातुद्वयाभावेऽपि धात्वर्थद्वयस्य सत्त्वात् गोमानासीदित्यादौ नानुपपत्तिः । तदेतदभिप्रेत्याह—धात्वर्थानामिति । विषयवहुत्वापेक्षं वहुवचनम् । एकैकविषयापेक्षायां तु धात्वर्थयोरिति बोध्यम् । एतच्च मनोरमानुसारेण व्याख्यातम् । केचित्तु धात्वोरर्थद्वारकसंबन्धेऽभ्युपगते गोमानासीद्भवितेत्यादि न सिध्येदिति मनोरमोक्तं चिन्त्यमेव । ‘तत्करोति तदाचष्टे’ इत्यत्रैव ‘तदस्यास्त्यस्मिन्—’ इत्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात्प्रकृतसूत्रानपेक्षयैव तस्तिद्धेः । न ह्यत्र मनुष्यविधौ वर्तमाने लङ्कितादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः । तद्भाष्यकैय-टायननुगुणम् । तथा हि भाष्ये प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमर्थमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्यात् गोमानासीत् भविता वेति समाहितम् । कैयटेन तु ‘तदस्यास्त्यस्मिन्निति—’ मनुप् प्रत्ययो वर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित इत्युक्तम् । तथा च मनुष्यविधावस्तीत्यत्र एकत्वस्याविवक्षितत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्बन्धवलादवगम्यते । किंच दण्डिनमानयेत्युक्ते वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नान्यः । तथा च आसीत् भवितेति तिङन्तपदानुरोधेन गोमानित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मनुप्प्रत्ययः प्रकृतसूत्रेणैव विधीयते न तु तदुक्तरीत्या लभ्यत इति दिक् । ननु तत्तद्विधिवाक्यैरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रेणेत्यत आह—यत्र काल इति । ‘वर्तमानसामीप्ये—’ इत्यारभ्य कालान्यत्वं प्रायेण प्रतिपाद्यते तदेव चेह गृह्यत इति भावः । वनानि पश्यन् ययावित्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकाह्वायामाह—तिङ्वाच्येति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः ॥—प्रत्यया इति । कालान्तरभाजो भवन्तीत्यर्थः ।—भूते लङ्किति । एवं चोषित्वा ददर्शेत्यर्थः ॥—अतीतेति । अतीतवासकर्ता कर्ता यस्य दर्शनस्येति वहुव्रीहिः ॥—सोमयाजीति । ‘करणे युज्यते इति भवित्वाति विवित्तो गवता एकाह—सोमेन यक्ष्यमाण इति । एवं च पश्यन् ययाविल्यत्र दृशेर्भूते लट् । दृष्ट्वा ययाविल्यर्थः । ‘निवेदयिष्यतो मनो न विव्यये’ इत्यत्र तु वेदयतेर्भूते लट् तस्य ‘लटः सद्वा’ इति शत्रुप्रलयः निवेदनं कृतवत् इत्यर्थं इत्याशूह्यम् । स्यादेतत् । भावि कृत्यमासीदिल्यत्र सूत्ररीत्या भाविशब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येककर्तृकमतीतं भवनमित्यर्थात् भाव्यासीच्छब्दयोर्युगपरप्रयोगो न स्यात् । भाविशब्दार्थस्य आसीच्छब्देनैव लाभात् । ततश्चैतावन्तं कालं भावितया व्यवहृतं तदिदानीमासीदिल्यर्थोऽत्रावश्यं स्वीकर्तव्यः । स्वीकृते तु गोमानासीदिल्यत्रापि गोमानिति व्यवहारविषय आसीदिल्यर्थोऽस्तु । ‘वसन् ददर्श—’ इत्यादौ भूते लक्षणया यथायथं लङादिः स्वीकर्तव्यः । सोमयाजीत्यत्र तु भूत एव णिनिप्रलये जातेऽपि भवितेति लुङन्तसमभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण णिनेर्भविष्यदर्थे लक्षणया वा प्रयोगो भवेदिति किमनेन सूत्रेणेति चेत् । अत्राहुः । अध्याहारलक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः । न हि भावि कृत्यमासीदिल्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति
Bālamanoramā
अर्हे कृत्यतृचश्च - अर्हे कृत्यतृतश्च । चाल्लिङिति । योग्येकर्तरि गम्ये कृत्याः, तृच्, लिङ् चेत्यर्थः । त्वं कन्यां वहेरिति । कन्याविवाहस्य योग्य इत्यर्थः ।
SK 2823 · A 3.3.172V
शकि लिङ् च ॥ २८२३ ॥
śaki liṅ ca
Siddhānta-kaumudī
शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् SK 2219 मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥
Bālamanoramā
शकि लिङ् च - शकि लिङ् च । 'शक्' इति भावे क्विबन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं वहेरिति । वोढुं शक्त इत्यर्थः ।माङि लु॑ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते । ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते — कथमिति । परिहरति — नायं माङिति । किंत्विति । ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः । नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वेमाङि लु॑ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये 'न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् ।
SK 2824 · A 3.4.1V
धातुसम्बन्धे प्रत्ययाः ॥ २८२४ ॥
dhātusambandhe pratyayāḥ
Siddhānta-kaumudī
धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥
Bālamanoramā
धातुसम्बन्धे प्रत्ययाः - धातुसम्बन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, संबन्धस्य द्विनिष्ठत्वात् । तथा च धात्वर्थयोः संबन्धे सति परत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने ल' डित्यारभ्य तत्तत्कालविशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते । तदाह — धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्रायं बहुवचनम् ।वर्तमानसामीप्ये वर्तमानवद्वे॑त्यादिसूत्रे यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत् । तथा च 'वसन् ददर्शे' इत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इतिसिद्धं भवति । ननुवसन् ददर्शे॑त्यत्र भूते लडिव वर्तमाने लिडितय्पि स्यादित्यत आह — तिङन्तेति । 'वसन् ददर्शे' त्यादौ तङन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वाद्गुणभूता । अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवं च उषित्वा ददर्शेत्यर्थ- । तदाह — अतीतेति । अत#ईति वासे कर्ता यस्येति विग्रहः ।सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकाद्व्यधिकणपदो बहुव्रीहिः । उदाहरणान्तरमाह — सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । करणे यजः॑ इति भूते विहितो णिनिः, इह भवितेत्यनद्यतनभविष्यल्लहन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः । तदाह — सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तरित्यर्थः ।गोमानासी॑दित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां वर्तमानायांतदस्यास्ती॑ति विहितो मतुप् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धात्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबन्धार्थबोधकधातुद्वयप्रोगे प्रत्यया इत्यर्थलाभाद्गोमानासीदित्यत्र मतुबनापत्तेः । नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्व्यस्य सत्त्वादासीदित्यर्थे मतुब्निर्बाध इत्यन्यत्र विस्तरः ।
SK 2825 · A 3.4.2V
क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः ॥ २८२५ ॥
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ
Siddhānta-kaumudī
पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥
Tattvabodhinī
NSP p. 487
— क्रियासमभिहारे—॥—द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोद् तु द्योतक इति भावः ॥—तस्य च हिस्वौ स्त इति । ननु लोद् इत्यनेन तिङो लक्षयित्वा तिङामेव हिस्वौ विधीयेताम् । तथा सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽप्यस्ति । वा च तध्वमोरिति वाक्यशेषोऽपि स्वरसतः संगच्छते । अन्यथा येन नाप्राप्तन्यायेन हिस्वयोस्तिङपवादत्वे सति तध्वमोः स्थाने तयोर्विकल्पेन विधानासंभवादुक्तवाक्यशेषो दुरुपपाद इति चेत् । अत्राहुः । लोद्शब्दस्य तिङ्लक्षणा न न्याय्या असंजातविरोधित्वेनोपक्रमस्य प्रावल्याद्विपयसम्भाश्रयणेन वाक्यशेषसोपपन्नत्वाच्च । किंच तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्त्वात् ङित्त्वाभावेन लुनीहीत्यत्र ‘इहल्यधोः’ इतीत्वं न स्यात् । ब्रूहीत्यत्र ‘त्रुव इद्’ इतीङागमे त्रवीहि इति स्यात् । तृण्डीत्यत्र तु ‘तृणह इम्’ इतीमागमे तृणेडीति स्यात् । किंच लोदेशानामेव परस्मैपदात्मनेपदसंज्ञे न तु लोदेशतिङादेशानामिति सर्वेषां तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु तिवादीनां हिस्तङां स्व इति पदव्यवस्थया । ततश्च लकारस्यैवादेशौ हिस्वौ न तु तिङामित्यवश्यं स्वीकर्तव्यमिति । नन्वेवं द्वयोरपि ‘लः परस्मैपदम्’ इति परस्मैपदसंज्ञा स्यात्ततश्च परस्मैपदिभ्य एव हिस्वौ स्यातामत आह—तौ चेति । अयं भावः । लोटो हिस्वौ इति वाक्ये ‘क्रियासमभिहारे लोद्’ इति वाक्याल्लोदिल्यनुवर्तते तच्च हिस्वाविल्यस्य विशेषणम् । न च हिस्वौ लोटो भवत इति सामर्थ्याल्लोदधर्मकाविल्यर्थः संपद्यते । तत्रापि मुख्यलोद्धर्मवन्धिनो धर्मस्य प्रलयत्वस्यातिदेशो व्यर्थः । स्थानिवत्त्वेनैव तत्सिद्धेः किंतु स्थानिवद्भावलब्धलोद्ध्यपदेशकौ तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यते । केचित्तु क्रियासमभिहारे लोडित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोद्प्रहणसामर्थ्याल्लोद्धर्मकावेव हिस्वौ लोटः स्थाने भवत इत्यर्थः संपद्यते । तथा च पूर्वोक्तरीत्या तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम् । एवं च लोटो हिस्वाविति वाक्ये पूर्ववाक्याल्लोद्ध्यहर्णं नानुवर्तनीयमित्याहुः ॥—तिङ्संज्ञौ चेति । तेन पदत्वं ‘तिङ्कतिङः’ इति च भवति ॥—हिस्वविधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं तत्र च व्यर्थो हिस्वविधिरिति भावः ॥—हिः कर्तरीति । स्वो भावकर्मकर्तृध्विति । उक्तं च कैयटेनापि । हिशब्दस्य कर्ता वाच्यः स्वशब्दस्य तु भावकर्मकर्तार इति । अत्र नव्याः । अल्पे हस्वे इत्यादौ कप्रलयवक्त्रियासमभिहारे लोडयं स्वार्थिक एव । न लस्मिल्लोटि ‘लः कर्मणि च’ इत्याद्यर्थो नाभ्युपेयः प्रयोजनाभावात् । यदि तु हिशब्दस्य कर्ता अर्थः स्यात् पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थ इति वक्ष्यमाणप्रन्थः स्वरसतो न संगच्छेत् । याहियाहीत्यादौ तु कर्त्रादिप्रतीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचक्रे इत्यत्र तङादेशात्प्रागेव आमः परस्य लेलुक्यामन्ते संख्याप्रतीत्यभावेऽपि चक्रे इत्यनुप्रयोगवशेन एककर्तृका वृद्धिरूपा क्रियेत्यविद्यमानापि संख्या प्रतीयते, तथैव हिस्वान्तेष्वपि कालकारकसंख्याप्रतीतिर्यातीत्याद्यनुप्रयोगवलेन भवतीत्याहुः । स्यादेतत् । ‘क्रियासमभिहारे हिस्वौ लोड्वा च तध्वमोः’ इति सूत्रमस्तु । तथा च हिस्वौ लोटौ न भवत इति लोद्धर्मकाविल्यर्थः पूर्वोक्तरीत्या स्यादिति सर्वेष्टसिद्धौ किमनेन लोट इति षष्ठ्यन्तकरणेनेति चेत् । अत्राहुः । हिस्वयोर्यदि लोद्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवद्भावेन ‘इहल्यधोः’ इत्यादिप्रवृत्त्या लुनीहीत्यादिसिद्धावपि हिस्वान्तस्य लोडन्तत्वं न सिध्येत् । तथा च हन्त चेत्यनुदात्तविकल्पो न स्यात् । हन्त प्रलुनीहिप्रलुनीहीत्ययं लुनाति । एवं च लोडन्तत्वलाभार्थं लोटो हिस्वाविति विधीयते । यदि तु हिस्वौ लोडित्युक्तेऽपि लोड्वद्भावाश्रयेण लोडन्तकार्यं हन्त चेति स्वरविकल्पः सिध्यतीति ब्रूषे तर्हि स्थानिवद्भावलब्धलोद्धर्मकौ हिस्वाविल्यर्थस्यानाश्रयणाल्लोडादेशकार्याणि परस्मैपदात्मनेपदसंज्ञादीन्यपि न सिध्यन्ति । तथा च पूर्वोक्तदोषस्तदवस्थः स्यात् । लोद् लोटो हिस्वौ इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोद्लाल्लोडन्तकार्यं स्वरविकल्पः सिध्यति ‘क्रियासमभिहारे लोद्’ इति वाक्याल्लोडित्यनुवर्त्य हिस्वौ लोडिति प्रागेव व्याख्यातत्वाल्लोडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति
Bālamanoramā
क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः - क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्रक्रियासमभिहारे लो॑डिति प्रथमं वाक्यम् । पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थविशेषणम् । क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु द्योतकः । तदाह — पौनः पुन्ये भृशार्थे च द्योत्ये इति । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् । सर्वलकारापवादः ।लोटो हिस्वा॑विति द्वितीयं वाक्यं व्याचष्टे — तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति । अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात् । तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाऽभावेनतङानावात्मनेपदटमित्स्याऽप्रवृत्तेः ।तिप्रतस्झी॑त्यादिसूत्रोपात्तेषु ताऽऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः । किंच अनयोर्हिस्वयोःतिप्तस्झी॑ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह — तौ चेति ।लोटो हिस्वा॑विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठआ विपरिणतं तृतीयं वाक्यं संपद्यते । तत्र हि 'लोटो हिस्वौ' इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते । तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते । कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति । तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम् । अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्संज्ञौ चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननुवा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह — तध्वमोर्विषयेत्विति । स्थानषष्ठीमाश्रित्यलोडादेशतध्वमोः स्थाने हिस्वा॑वित्यर्थ इति न भ्रमितव्यम्, येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठर्थः । तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः ।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम् । तथा चइणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते॑ इति भाष्यमनुपपन्नमित्यत आह — हिस्वविधानेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलेति । सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः,शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति ।अनुदात्तङित आत्मनेपदम्,॒भावकर्मणोरित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः ।
SK 2826 · A 3.4.3V
समुच्चयेऽन्यतरस्याम् ॥ २८२६ ॥
samuccaye'nyatarasyām
Siddhānta-kaumudī
अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥
Tattvabodhinī
NSP p. 487–488
—समुच्चये—विनोतेर्भावे ‘एरच्’ इत्यच् ॥— प्रागुक्तमिति । धातोर्लोद लोटो हिखौ तथ्वमोर्विषये वेल्यर्थः
Bālamanoramā
समुच्चयेऽन्यतरस्याम् - समुच्चये । समभिहार इति पदरहितंक्रिया, लोट् लोटौ हिस्वौ वा च तध्मो॑रिति पूर्वसूत्रमनुवर्तते । क्रियेति लुप्तषष्ठीबहुवचनान्तं समुच्चय इत्यत्रान्वेति । तदाह — अनेकक्रियासमुच्चये द्योत्ये इति । एवं च कारकसमुच्चयमाश्रित्य नाऽस्य प्रवृत्तिः । प्रागुक्तमिति । धातोर्लोट्, तस्य हिस्वौ प्रसिद्धहिस्वधर्मकौ तध्मोर्विषये वा इत्युक्तमित्यर्थः । यथाविध्यनुप्रयोगः । 'क्रियासमभिहारे' इति,समुच्चयेऽन्यतरस्या॑मिति च लोड्विधी उक्तौ, तयोर्मध्ये यत्पूर्वसूत्रं 'क्रियासमभिहारे' इति, तदेतत्पूर्वशब्देन परामृश्यते । तदाह - आद्ये लोड्विधाते इति । विधिमनतिक्रम्य यथाविधि । यस्याः प्रकृतेर्लोडविहितस्तस्या अनुप्रयोग इति लभ्यते । तदाह — लोट्प्रकृतिभूत एवेति । अत्राऽनुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विवक्षितम्, लुनीहिलुनीहीत्येवायं लुनाती॑ति भाष्यप्रोगाल्लिङ्गात् ।
SK 2827 · A 3.4.4V
यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ २८२७ ॥
yathāvidhyanuprayogaḥ pūrvasmin
Siddhānta-kaumudī
आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥
Tattvabodhinī
NSP p. 488
—यथाविध्यनु—। पूर्वस्मिन्क्रियासमभिहारविषये । अत्र संख्याकारकादीनां हिखान्तादप्रतीतेस्तद्वोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेन यथाविधीति नियम्यते । तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति । यद्यप्यन्यत्र ‘इन्हन्पूषार्यम्णां शौ’ इत्यादौ नियमशब्देन परिसंख्या व्यवह्रियते ‘सर्वनामस्थाने च’ इत्यादिना शौ तद्भिन्ने च दीर्घे प्राप्ते शेरन्यत्र तु तन्निवृत्तिपरत्वात्तथापीह कदाचिद्यातीत्यस्य कदाचिद्वच्छतीत्यस्यानुप्रयोगे प्राप्ते यथाविधीत्ययमप्राप्तांशपरिपूरणाय ‘ब्रीहीनवहन्ति’ इत्यादिवद्विधीयत इति नियमविधिरेवायम् । एतेन मीमांसकप्रसिद्धनियमविधिः शब्दशास्त्रेऽप्रसिद्ध इति वदन्तः परास्ताः
SK 2828 · A 3.4.5V
समुच्चये सामान्यवचनस्य ॥ २८२८ ॥
samuccaye sāmānyavacanasya
Siddhānta-kaumudī
समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ।
vārttika
क्रियासमभिहारे द्वे वाच्ये
(वार्तिकम्) ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥
Tattvabodhinī
alignment inferredNSP p. 488–489
—द्वे वाच्य इति । वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम् ॥—इतिशब्दस्त्विति । ननु इतिशब्देन व्यवधानाद्यातीत्यस्यानुप्रयोगत्वं कथमिति चेत् । अत्राहुः । अनुशब्दस्येहानुवादित्वमात्रपरत्वाद्यवहितविपरीतप्रयोगयोरिष्टापत्तिः । एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते । न च ‘समुच्चये सामान्यवचनस्य’ इति विशेषस्योक्तत्वात्सूत्रैकदेशस्य पूर्वस्मिन्निति पदस्य वैयर्थ्यमस्तु नाम । यथाविध्यनुप्रयोग इति तु यथाविधीति नियमार्थं स्वीकर्तव्यमेव । अन्यथा याहि याहीति गच्छतीत्यादि स्यादिति वाच्यम् । यस्माल्लोदविधिस्तत्प्रकृतिकतिङन्तस्यैवोपस्थितत्वेनानुप्रयोक्तुमर्हत्वान्न तूपस्थितपरित्यागेन यत्किञ्चिद्धानुप्रकृतिकतिङन्तस्यानुप्रयोगार्हतेति । अत एव ‘स्वं रूपं शब्दस्य’ इत्यपि सूत्रं प्रत्याख्यातं भाष्यकारेण । ‘अग्नेर्बुक्’ इत्यादौ विधिवाक्यगतस्याङ्गारवाचकाभिशब्दादेरुपस्थितस्यात् तत्परित्यागेनानुपस्थितवह्यादिशब्देभ्यो ढगादिनं भवेदिति । एवं चास्मिन्प्रत्याख्याते यथाविध्यनुप्रयोगसूत्रे भीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक् ॥—एवमिति । याहियाहीति यातः याहियाहीति यान्तीत्येवमूह्यमित्यर्थः ॥—पक्षे इति । ‘वा च तध्वमोः’ इत्युक्तस्यात् हिंसाभावपक्ष इत्यर्थः । तध्वमोरित्यत्र तशब्देन मध्यमपुरुषवहुवचनं गृह्यते ध्वंसाहचर्यात् । यद्यपि ध्वमित्यस्यात्मनेपदलमस्तीति तत्साहचर्येण प्रथमपुरुषैकवचनस्य ग्रहणं प्राप्नोति । तथापि वहुवचनलमध्यमलरूपधर्माभ्यां मध्यमपुरुषवहुवचनमेव गृह्यत इत्याशयेनोदाहरति—यातयातेति यूयमिति । अस्यापि लोटो लङ्लात् ‘तस्यस्यमिपाम्—’ इति यात इत्यत्र थस्य तादेशः । विध्यादिलोट्विषये लनुप्रयोगेऽपि थस्य तादेशप्रवृत्तेर्यूयं यातेत्यनुप्रयोक्तव्यम् ॥—अधीध्वमधीध्वमिति । ‘सवाभ्याम्—’ इत्यम् ॥—अधीध्वे इति । विध्यादिलोट्विषये तु अधीध्वमित्येवानुप्रयोक्तव्यम् । भावकर्मणोस्तु भूयस्वभूयस्वेति भूयते । पच्यस्वपच्यस्वेति पच्यते इत्याद्युन्नेयम् । ‘समुच्चयेऽन्यतरस्याम्’ इति सूत्रे क्रियासमभिहार इत्यननुवर्तनात् द्विलमकृत्वैवोदाहरति—सकून् पिवं धानाः खादेति ।—अभ्यवहरथेति । विध्यादिलोट्विषये तु अभ्यवहरतेत्यनुप्रयोक्तव्यम् । एवम् अभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम् ॥—पक्षे हिंस्वाविति । पिव खादेत्यभ्यवहरथ । भुङ्क्ष्व आस्वादस्वेत्यभ्यवहरध्वे इत्युदाहार्यम् ॥—लवनादीति । आदिशब्देन मोषणहरणे ग्राह्ये । अनुवृत्त्यभ्युपगमे वाधकमाह—लोडन्तस्येति ॥—भ्रम एवेति । पुरुषांशे वचनांशे च । लोडंशे तु प्रमैवेति भावः । एवमुक्तोदाहरणेषु हिंस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं पुरुषवचनसंज्ञे तु विधानसामर्थ्याद्धिस्वयोर्नस्त इत्युक्तमिति सर्वेष्टसिद्धिः ॥ ‘कृदतिङ्’ इति तिङ्भिन्नप्रत्ययस्य कृतसंज्ञाकरणात् कृतां तिङ्झानाधीनज्ञानलातिङ्निरूपणानन्तरमेव कृतां निरूपणमुचितमिति तिङो निरूप्य कृतो निरूपयितुमाह—धातोरिति । ननु तिङ्निरूपणात्प्रागेव ‘स्यृशोऽनुदके क्विन्’ ‘ऋत्विग्-दधृग्’ इत्यादिना क्विन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसंगतिः संगच्छत इति चेत् । अत्राहुः । क्विन्नादिनिरूपणस्य तत्र प्रासङ्गिकत्वात्, प्राधान्येन च कृतामत्रैव निरूपणान्नोक्तशङ्कावकाश इति । यद्यपि ‘धातोरेकाचो हलादेः’ इति सूत्राद्धातोरित्यनुवर्तत एव तथापि आर्धधातुकसंज्ञाया आश्रितशब्दव्यापारललाभाय पुनर्धातोरिति ग्रहणं कृतम् । अन्यथा ‘आर्धधातुकं शेषः’ इत्यनेन तिङ्शिद्भिन्नस्य धातोर्विहितप्रत्ययमात्रस्यार्धधातुकसंज्ञायां ल्रभ्यां पूभ्यामित्यादाविह्वणौ स्यातां धातोर्विहितत्वेन भ्यामादेरार्धधातुकत्वात्, पुनर्धातुग्रहणे कृते तु तव्यत्तव्यादय इव धातोरित्येवमविधानात् भ्यामादेरार्धधातुकत्वं नेति दिक् । ‘प्राग्लादेशाद्धात्वधिकारः’ इति पक्षोऽयुक्त इत्याशयेनाह—आ तृतीयसमाप्तेरिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः । प्राग्लादेशादिति पक्षे तु ‘तिङ्शित्सार्वधातुकम्’ इत्यत्र धातोरित्यधिकाराभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकत्वे ‘सार्वधातुकमपित्’ इति ङित्वे च हरीनित्यादौ ‘धेङ्किति’ इति गुणः स्यादिति ज्ञेयम् । स्यादेतत् । धातोर्लकारे सति तस्मिन् परतो नित्यलात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिवाद्यप्रसङ्गः, यत्र तु तिवाद्याश्रयो विकरणस्तत्रैव व्यवधानाभावाद्भवतीत्यादौ तिवादयः स्युरिति चेत् । मैवम् । ‘विकरणेभ्यो नियमो वलीयान्’ इति स्वीकारात् । अथवा विहितविशेषणाश्रयणेन धातोर्विहितस्य लस्येति व्याख्यानादिष्टसिद्धिः । न- न्वेत्रं विहितविशेषणाश्रयणे ‘विद्रु लाभे’ इत्यस्माद्धातोर्विहितस्य लटः शब्दिकरणव्यवायेऽपि ‘विदो लटो वा’ इति णलादयः स्युरिति चेत् । अत्र हरदत्तः । धातुनाऽत्र विहितं विशेष्यते विदिना लानन्तर्यमिति । तथा चायमर्थः संपद्यते । धातोर्विहितस्य विदोऽनन्तरस्य लटो णलादय इत्यभ्युपगमात् वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विन्दतेर्लट् इति दिक् ॥ विधेयानिर्देशात्स्वरितलाच्चाधिकारसूत्रमिदमित्याह—अधिकारोऽयमिति
Bālamanoramā
समुच्चये सामान्यवचनस्य - समुच्चये सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह — सामान्यार्थकस्येति । समुच्चीयमानक्रियासामन्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न सङ्ख्याकारकाद्यभिव्यक्तिः । तथा च भाष्यं — हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थः॑ इत्यादि ।क्रियासमभिहारे द्वे वाच्ये॑ इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति — याहियाहीति यातीति । भाष्ये 'इति' शब्दस्य दर्सनादिति भावः । ह्रन्तस्येति । याहि याहीत्यस्येत्यर्थः । एककर्तृकतकमिति । यातीति यानिकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः । याहि याहीति यान्तीतित्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति यास्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः — वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह — यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङ्याह — याहि याहीत्ययासीदिति । लृङि उदाहरति — अयास्यद्वेति । याहि याहीत्ययास्यदिति लृङि रूपम् । यास्यति वेति पाठे लृटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाऽभावपक्षे इत्यर्थः । यूयमधीध्वमिति — लोण्मध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम् । अथसमुच्चये सामान्यवचनस्ये॑ त्यस्योदाहरति — समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य । दन्तसंमर्दनं विना भक्षणम् । खादनं तु — कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम्, यथाकथंचिद्भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचिद्धिस्वादेशौ पक्षे इत्यर्थः ।पिब खादेत्यभ्यवहरते॑ त्युदाहार्यम् । अत्रेति ।पिब खादेत्यभ्यवहरती॑त्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमानधातुवाच्याभ्यवहरणातमकक्रियासामान्येनाऽभेदान्वय इत्यर्थः । पक्षे सक्तूनिति । समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः । एतेनेति ।समुच्चयेऽन्यतरस्या॑मितिसमुच्चये समान्यवचनस्ये॑ति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन चपुरीमवस्कन्दे॑त्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः । बली — रावणो, नमुचिद्विषा = इन्द्रेण सह, विगृह्र - विरोधं प्राप्य, पुर्याः = अमरावत्याः, अवस्कन्दनं = पीडनं, नन्दनवनस्य लवनं, रत्नानां मोषणम्, अमराङ्गनानां हरणमित्येवंप्रकारेण अहर्दिवम् = अहन्यहनि, अस्वास्त्यं चक्रे = कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायोऽवस्कन्दनादिक्रियाविशेषणामस्वस्थ्यक्रियासामान्येऽभेदं ग्राहयति । फलितमाह — अवस्कन्दलवनादिति । आदिना मोषणं हरणं च गृह्रते । भ्रममूलकत्वमुपपादयति — द्वितयीसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह - लोडन्तस्येति ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे 'क्रियासमभिहारे' इत्नुवृत्तौ 'अवस्कन्दे' त्यादिलोडन्तानांक्रियासमभिहारे द्वे वाच्ये॑ इति द्वित्वापत्तेरित्यथः । भ्रम एवेति । मध्यमपुरुषांऽशे, एकवचनांशे च भ्र एवेत्यर्थः । कुत इत्यत आह — पुरुषवचनसंज्ञे इह नेत्युक्तत्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तयेऽनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्माऽस्तु इत्युक्तम् । एवं चतानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थान॑मिति श्रुतौसमुच्चयेऽन्यतरस्या॑मिति लोटो हिस्वावेव भवतो,न त्वनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याकालभिव्यक्तेरविवक्षितत्वेन तत्राऽनुप्रयोगस्य प्रयोजनाऽभावात् । एतेनआ च सत्यलोकादाचाऽवीचेर्जायस्वम्रियस्वेति विपरिवर्तमानमात्मानं जीवलोकं चालोक्याऽस्मिन् संसारे नित्याऽशुचिदुःखात्मकं प्रसङ्ख्यानमुपवर्तते॑ इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्रसमुच्चयेऽन्यतरस्या॑मित्यत्र 'क्रियासमभिहारे' इत्यस्याननुवृत्तेरुक्तत्वात्कथमिह पौनःपुन्यमसकृत्पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र 'क्रियासमभिहारे' इति सूत्रेण लो॑डित्युक्तम्, तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रियानिरूपणम् । अथ मत्वर्थीयप्रकरणम् । — — — — — — — —