PREMABASESiddhānta-kaumudī
Prakaraṇa 63 · SK 2756–2765

भावकर्मतिङ्प्रकरणम्

bhāvakarmatiṅprakaraṇam · 10 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2756 · A 3.1.67V
सार्वधातुके यक् ॥ २७५६ ॥
sārvadhātuke yak
Siddhānta-kaumudī
धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ॥
Bālamanoramā
सार्वधातुके यक् - सार्वधातुके यक् । धातोरिति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति ।चिण्भावकर्मणो॑रित्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिज्नयबोधे प्रकारो भावः । कवेरयं भाव इत्यादौ अभिप्रायः ।भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु॑ इति नानार्थरत्नमाला ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु॑ इत्यमरः । इह तु 'लः कर्मणि' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह — भावो भावनेति । लः कर्मणी॑त्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह — उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोर्भाविशब्दात्एर॑जिति भावे अचि णिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारेण्यासश्रन्थो यु॑जिति युचि अनादेशे टापि भावनाशब्द इति बोध्यम् । उत्पादना चेयं धात्वर्थान्नातिरिच्यते इति दर्शयतुमाह — क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथाहिफलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको — विक्लित्त्यनुकूलव्यापारः । तत्र विक्लित्त्यंशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता,धातूपात्तव्यापाराश्रय कर्ते॑ति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लत्तिः फलं, तदाश्रयत्वादोदनं कर्म,व्यापारजन्यफलशालि कर्मे॑ति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् ।एध वृद्धौ॑इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः । नचैवं सति 'एधते देवदत्त' इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारव्यधिकरणफलाश्रयत्वं कर्मत्व॑मिति सिद्धान्तात् । एवं च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् । तदुक्तं — व्यापारो भावना सैवोत्पादना सैव च क्रिये॑ति । ननूत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापार्थकत्वं तु न संभवति, एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे, तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह — सा चेत्यादि । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकं क्रियामाहुः । पचित्वादितविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकबेदाद्विक्लित्त्यादिफलविशेषस्य, क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः । तथा च भट्टिराह — विभज्य सेनां परमार्थ सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्॥॑ इति । अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता आत्मभरणम् । तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति वाष्र्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चतं च मञ्जूषायामित्यलम् । ननूत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वेलः कर्मणि च भावे चे॑ति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह — भावार्थकलकारेणानूद्यते इति । 'द्वौ' 'त्रयः' इत्यादौ द्विवचनबहुवचनवदति भावः । युष्मदस्मद्भ्यामिति । युष्मदि अस्मिद च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिङ्सामानाधिकरण्यं च तिङ्वाच्यकारकवाचित्वमेव । भावे लकारे तु 'आस्यते त्वया'आस्यते मये॑त्यादौ भाव एव तिङ्वाच्यो नतु युष्मदस्मदर्थौ, अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तुत्वं वन्द्यसे॑,॒अहं वन्द्ये॑ इत्यादौ लकारस्य, युष्मदस्मदोश्च सामनाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते । तिङ्वाच्येति । सत्त्वं = द्रव्यं — लिङ्गसङ्क्यान्वययोग्यम् । तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा = लिङ्गसङ्ख्यान्वयाऽयोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेर्युवाभ्यां युष्माभिर्वा आस्यते इत्यादौ न द्विवचनं, बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा - पाकौ पाका इत्यादि । तदुक्तं — ॒सार्वधातुके य॑गिति सूत्रे भाष्ये -कृदभिहितो भावो द्रव्यवत्प्रकाशते॑ इति । द्रव्यवल्लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विवहुवचनाऽभावे आस्यते इत्यादौ एकवचनं च न स्यादित्यत आह — किं त्वेकवचनमेवेति ।तिङ्वाच्यभावलकारस्ये॑ति शेषः । तस्येति ।द्वेयकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रन्यासं भङ्क्त्वा 'एकवचनं' द्विबहुषु द्विबहुवचने॑ इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वाद्भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिङ्वाच्यत्वाऽभावेन अनभिहितत्वात्तृतीयेत्यर्थः । त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकमन्यकर्तृकं भवनमित्यर्थः ।
SK 2757 · A 6.4.62चिण्वत्कार्यातिदेशः
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ॥ २७५७ ॥
syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca
Siddhānta-kaumudī
उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ॥
Bālamanoramā
स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च - स्यसिच् । अच् हन ग्रह दृश् एषां द्वन्द्वात्षष्ठी । उपदेश इत्च एव विशेषणम्, नेतरेषाम्, अव्यभिचारात् । तदाह - उपदेशे योऽजिति । 'अ' जित्यस्यं उपदेशान्वयित्वेऽपि सौत्रः समासः ।अ॑जिति लुप्तषष्ठीकं वा ।चिण्व॑दिति सप्तम्यन्ताद्वनतिः,स्यसिच्सीयुट्तासिष्वि॑त्युपमेयतः सप्तमीदर्शनात् । तदाह — चिणीवेति । अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्वादिति भावः ।भावकर्मवाचिषु स्यादिष्वि॑ ति नार्थः,सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाऽभावात् । नापिभावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेष्वि॑त्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाऽऽह — स्यादीनामिडागमश्चेति । अत्र अज्झनग्रहदृशां, स्यादीनां च न यथासङ्ख्यं, व्याख्यानात् ।स्यादिषु परेषु अङ्गस्य इ॑ डिति नार्थः,आर्धधातुकस्येड्वलादे॑ रित्यत्र 'आर्धधातुके' इति योगं विभज्ययावानिट् स आर्धधातुकस्यैवे॑ति भाष्ये उक्तत्वात् । चिणि यदङ्गाधिकारविहितं कार्यं तस्यैवात्रातिदेशो, न तु चिणि दृष्टमात्रस्य । तेन 'घानिष्यते' इत्यत्रहनो वध लिङि, लुङि चे॑ति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाऽभावात् । तथा आयिष्यते इत्यत्र इणो गादेशो न । 'अध्यायिष्यते' इत्यत्र इङो गाङादेशो न , द्वैतीयीकत्वात् । चिण्वत्त्वाऽभावे अयमिण्नेत्याह — अयमिडिति । सेट्कस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिङि चिम्वत्वम् इट् च स्यातामित्यत आह — इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्राऽऽर्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् — चिण्वद्वृद्धिर्युक्च हन्तेश्च घ्तवं दीर्घश्चोक्तो यो मितां वा चिणीति । इट्वाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥॑ इति । स्यसिच्सीयुडिति सूत्रस्य वृद्ध्यादि प्रयोजनमित्यर्थः । तत्र वृदिंध दर्शयति — चिण्वद्भावाद्वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वात्अचोऽञ्णिती॑ति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते । तथा दाधातोर्लुटि 'आतो युक् चिण्कृतो' रिति युक् । तथा लृटि 'घानिष्यते' इत्यत्रहोहन्तेर्ञ्णिन्नेषु॑ इति घत्वम् । शमेर्हेतुमण्ण्य्नताल्लुटि — शामिता शमितेत्यत्रचिण्णमुलो॑रिति वा दीर्घः । तथा अनेनैवाऽत्र इटि कृते तस्य आभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपः । तथा 'भाविष्यते' इत्यत्र भू-स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट्, वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताऽकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विण्न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षमस्य इटोऽप्रवृत्तेः । नित्यश्चायमित्यस्यचिण्वदि॑डिति शेषः ।वल्निमित्त इत्यनन्तरम्इडनित्य इत शेषः । अनित्यत्वे हेतुः — विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम् । तदाह — भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः ।
SK 2758 · A 3.1.66V
चिण् भावकर्मणोः ॥ २७५८ ॥
ciṇ bhāvakarmaṇoḥ
Siddhānta-kaumudī
च्लेश्चिण् स्वाद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एति SK 2250 इति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूप्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु । बोभूयते । बोभवांचक्रे । बोभाविता । बोभविता । अकृत्सार्व-SK 2298 इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । गुणोर्ति SK 2380 इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोऽर्ति-SK 2380 इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदिताम्-SK 415 इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते । अयङ् यिक्ङिति SK 2649 । शय्यते ॥
Bālamanoramā
चिण् भावकर्मणोः - चिण्भावकर्मणोः । च्लेरिति ।च्लेः सि॑जित्यतस्तदनुवृत्तेरिति भावः । तशब्दे परे इति । तशब्दे परे इति । 'चिण् ते पदः' इत्यतस्तदनुवृत्तेरिति भावः अभावीति । च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लोपः । चिण्विधौ तशब्दे किम् । अभाविषात् । अथ अनुपूर्वाद्धूधातोरुपभोगार्थकात्सकर्मकात्कर्मणि लकारे विशेषमाह - तिङोक्तत्वादिति । कर्तुस्त्वनभिहित्वात्तृतीयैवेति भावः । युष्मदस्मदुपात्तयोः कत्र्रोस्त्वनभिहितत्वातत्तृतीया । अनूभूयेते इति । 'सुखदुःखे' इति शेषः । अनुभूयन्ते इति ।सुखानी॑ति शेषः । णिलोप इति । भूधातोर्णौ वृद्दधौ आवादेशे भावीति ण्यन्तात्कर्मणि लटस्तादेशे यकि णिलोप इत्यर्थः । भावयामासे इति । प्रथमपुरुषैकवचने, उत्तमपुरुषैकवचने च रूपम् । इहेति । 'भावयामासे' इत्यत्र प्रथमैकवचनतशब्दस्यलिटस्तझयो॑रिति एशादेशे उत्तमपुरुषैकवचनस्य इटश्चटित आत्मनेपदाना॑मित्येत्त्वे च कृते भावयमामास् ए इति स्थितेह एती॑ति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः । कुत इत्यत आह — तासीति ।ह एती॑त्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधिताहे इत्यादौ तासेः सार्वधातुक एव एति परे हकार इति निर्विवादम् । तथाविधतासिसाहचर्यादस्तेरपि सकारस्य 'व्यत#इहे' इत्यादौ सार्वधातुक एव परे प्रवृत्तिः । अतोभावयामासे इत्यत्र नाऽस्तेः सकारस्य हकारः, एकारस्यार्धधातुकत्वादित्यर्थः । भावितेति । ण्यन्तात् भावि- ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्विदिटि तस्याऽऽभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपे भावितेति रूपम् । अतएव चिण्वदिड्विधौउपदेशे योऽ॑जित्येव व्याख्यातम्, नतुउपेदशे अजन्तस्ये॑ति, तथा सति हि णिजन्तस्य उपदेशाऽभावान्न स्यादिति भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्ध्तवाऽभावादनिटीति निषएधाण्णिलोपाऽभावे णेर्गुणाऽयादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह — पक्षे भावयितेति । अथ सन्न्नताद्भूधातोर्भावलकारे उदाहरति — बूभूष्यते इति । यकि सनोऽकारस्य 'अतो लोपः' इति लोपः । बूभूषिता । बुभूषिष्यते इति । चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम् । चिण्वदिड्भावपक्षे ।ञपि तदतिदेशेन प्राप्तां वृदिंध बाधित्वा परत्वादतो लोपः । अथ यङन्ताद्भूधातोर्भावलकारे उदाहरति — बोभूय्यते इति । यकि यङोऽकारस्य पूर्ववदतो लोपः । द्वियकारकं रूपम् । यङलुगन्ताद्बोभूयते इति एकयकारं रूपम् । ष्टुञ्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वात्अतो दीर्घो यञी॑त्यप्राप्तावाह — अकृत्सार्वेति । स्ताविता स्तोतेति । चिण्वदिडभावपक्षेऽनिट्कत्वान्नेट् । अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह - गुणोऽर्तीति । अर्यते इति । गुणे कृते रपरत्वम् ।स्मृ॑धातोः कर्मणि लकारे आह — — स्मर्यते इति ।गुणेऽर्ती॑ति संयोगादित्वाद्गुणे रपरत्वमिति भावः । ननु लुटि ऋ ता, स्मृ इति स्थिते चिण्वदिटं बाधित्वा परत्वाद्गुणः प्राप्नोति, नित्यत्वाच्च, अकृते कृते च चिण्वदिटिगुणस्य प्राप्तेः । कृते तु गुणे रपरत्वेऽजन्तत्वाभावच्चिण्वदिडभावे अनिट्त्वाद्वलादिलक्षणेऽभावे अत स्मर्तेत्येव स्यात्, आरिता स्मारितेति न स्यादित्यत आह — परत्वादित्यादि । कृते गुणे रपरत्वे अजन्तत्वाऽभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिण्निर्बाध इत्यर्थः । आरितेति । कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः । अर्तेति । चिण्वदिडभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु संपूर्वात्कृञः कर्मणि लकारे यकिरिङ् शयग्लिङक्षुट इति रिङादेशेसंपरिभ्यां करोतौ भूषणे, समवाये चे॑ति सुटि संस्क्रियते इति वक्ष्यते । तत्रगुणोऽर्ती॑ति संयोगादित्वाद्गुणः स्यादित्यत आह — नित्यग्रहणानुवृत्तेरिति ।नित्यं छन्दसी॑त्यतो नित्यमित्यनुवृत्तेः गुणो॑र्ती॑त्यत्र नित्यं यः संयोगादित्यस्यैव संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते । कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाऽभावे तदभावादिति भावः । अथ रुआंस्धातोर्भावलकारे यकि विशेषमाह — अनिदितामिति नलोप इति । इदितस्त्विति । 'टु नदि समृद्धौ' इत्यस्माद्भावलकारे यकि इदित्त्वान्नलोपो नेत्यर्थः । अथ यजधातो कर्मलकारे यकि विशेषमाह — संप्रसारणमिति ।वचिस्वपियजादीना॑मित्यनेनेति भावः । शीङ्धातोर्भावलकारे यकि विशेषमाह — अयडि क्ङितीति ।
SK 2759 · A 6.4.44V
तनोतेर्यकि ॥ २७५९ ॥
tanoteryaki
Siddhānta-kaumudī
आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा SK 2391 । जायते । जन्यते ॥
Tattvabodhinī
NSP p. 475
—तनोतेर्यकि । ‘विड्डनोः—’ इति सूत्रादादिति, ‘ये विभाषा’ इत्यतो विभाषेति चानुवर्तते । यकि किम् । तंतन्यते
Bālamanoramā
तनोतेर्यकि - तनोतेर्यकि ।विड्वनोरित्यत आदिति,ये विभाषे॑त्यतो विभाषेति चानुवर्तते । तदाह — आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते तन्यते इति । कर्मणि लकारः ।
SK 2760 · A 3.1.65V
तपोऽनुतापे च ॥ २७६० ॥
tapo'nutāpe ca
Siddhānta-kaumudī
तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थः । घुमास्था-SK 2462 इतीत्वम् । दीयते । धीयते । आदेचः-SK 2370 इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एष आदिशित्त्वाभावान्न तस्मिन् आत्वम् । जग्ले ॥
Tattvabodhinī
NSP p. 475–476
—तपोऽनु—चकारेण ‘अचः कर्मकर्तरि’ इत्यतः कर्मकर्तरीत्येतदनुकृष्यते । कर्मण्युदाहरणमिति ध्वनयति—अभ्याहत इत्यर्थं इति । भावेऽपीदमुदाहरणमित्याह—पापेन पुंसेति । अविचार्यं कर्म कृत्वा पश्चादशोचीत्यर्थः । कर्मकर्तरे तु तत्प्रक्रियायामुदाहरिष्यति—आतो युक्—। ‘अचो ञ्णिति’ इत्यतोञ्णितीत्यनुवर्तते तच्च कृतो विशेषणं न तु चिणः । तस्य णित्त्वेनाव्यभिचारात् । चिण्कृतोः किम् । चौडिः । वालकिः । वाह्यादिलादिञ् । ददौ । ञ्णितीति किम् । पानीयम् । दानीयम्
Footnotes (NSP 1915 ed.)
NSP p. 476 नामिति। ‘अचो रहाभ्याम्—’ इति ढस्य द्वित्वे द्वयम् । द्वयोरपि वस्य ‘यणो मयः—’ इति द्वित्वे चलारि। चतुर्णामपि मस्य ‘अनचि च’ इति द्वित्वे लघ्रौ ॥—चिण्णमुलोः । शामितेत्यादौ ‘जनीजृष्—’ इत्यादिना मित्त्वेन मितामुपधाया नित्यं हस्त्वे प्राप्ते दीर्घोऽनेन विकल्प्यते—प्यन्ताण्णाविति। णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः ॥—दीर्घः सिध्यतीति। ‘न पदान्त—’ इति निषेधादित्यर्थः । ननु त्रिपादीस्थे दीर्घे कर्तव्ये स्थानिवत्त्वाभावः ‘पूर्वत्रासिद्धम्’ इत्यनेनैव सिद्ध इति दीर्घप्रहणस्योपयोगाभावेऽपि प्यन्ताण्णौ ‘चिण्णमुलोः—’ इति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घप्रहणमावश्यकमित्यत आह—जातिपरो निर्देश इति ॥ इदं मास्त्विति । हस्वविकल्पेनापीष्टं सिध्यतीति भावः । वस्तुतस्तु ‘चिण्णमुलोः—’ इति सूत्रे दीर्घप्रहणं कर्तव्यमेव । तथा हि । हेड् अनादरे घटादिः । मितां हस्त्वे कर्तव्य एव इक् । हिडयति । अत्र चिण्णमुलोः कृतयोर्हस्त्वे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्घे तु अहिडि अहीडीति भवति । एतत्वान्नैव सूत्रे कैयटे
SK 2761 · A 7.3.33V
आतो युक् चिण्कृतोः ॥ २७६१ ॥
āto yuk ciṇkṛtoḥ
Siddhānta-kaumudī
आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च SK 2389 । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलोः SK 2574 इत्युक्तेर्हनस्तो न । हो हन्तेः-SK 358 इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्य SK 200 इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-SK 2562 इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा SK 2391 इति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोः SK 2528 इति विकल्पत्वादिडभावे उश्च SK 2368 इति कित्त्वम् । रपरत्वं हलि च SK 354 इति दीर्घः । इणः षीध्वं-SK 2247 इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥
Tattvabodhinī
alignment inferredNSP p. 476–477
—अदायिषातामिति । ‘स्थाध्वोरिच्च’ इत्येतद्वाधित्वा परलाच्चिण्वदिटि कृते ‘धुमास्था—’इतीत्वं न भवति । अजादिलात् । ‘स्थाध्वोरिच्च’ इत्यपि पुनर्न भवति । अज्झलादिलादित्याहुः । तेषामयमाशयः । ‘इको झल्’ इति सूत्रात् झलनुवर्तते । तथा च झलादिरेव सिच् किन्न लयमिडादिः सिच् । एवं च तत्संनियोगशिष्टलादित्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्कृतिः । सिचः कित्त्वेऽप्यनिरलक्षणाया अनिषेधात् ‘अचो ञ्णिति’ इति वृद्ध्या रूपनिष्पत्तेः ॥—आशीर्लिङ्गीति । न तु लुङिः । तत्र चिण्वद्भावात् ‘आत्मनेपदेष्वन्यतरस्याम्’इति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायाभावादिति भावः ॥—आर्धधातुके सीयुटीत्यादि । यथापि ‘हनो वध लिङि’इत्यत्रापि आर्धधातुकाधिकारादार्धधातुके लिङीत्यपि समानं, तथापि लिङिति पदद्वयसाधारणं सीयुट् तु आत्मनेपद एवेति विशेषविहितलमूर्तीति भावः ॥—अहस्तातामिति । ‘चिण्वदिटोऽभावे ‘हनः सिच्’ इति कित्त्वात् ‘अनुदात्तोपदेश—’ इत्यनुनासिकलोपः । चिणि वधादेशस्य दृष्टलाच्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्क्य परिहरति—नचेत्यादिना ॥—अदर्शिषातामिति । ‘न दृशः’ इति क्सस्य निषेधादिह सिचि चिण्वदिट् ॥—सिचः कित्त्वादिति । ‘लिङ्सिचावात्मनेपदेषु’ इत्यनेन ॥—लत्वमिति । ‘अचि विभाषा’ इति गिरते रेफस्य लत्वे षट् ॥—लत्वमिति । ‘विभाषेटः’ इत्यनेन षण्णां लत्वे द्वादश ॥ द्वित्वत्रयं चेति । ‘अनचि च’ इति द्वादशानां मध्ये षण्णां लत्व षण्णां धस्य च द्वित्वे चतुर्वैशतिः । मय इति पञ्चमी यण इति पृष्ठीति पक्षे वकारस्य द्वित्वे लष्टचलार्गिशत् । ‘अनचि च’ इति चिन्ति चेति ॥ स्पष्टम् ॥—शंशामितेत्यादि । चिणि, अशंशामि अशंशामि । णमुलि, शशमंशशमं शशामंशशाममित्यादि द्रष्टव्यम् ॥—दीर्घौनास्तीति । यङोऽश्लोपस्य स्थानिवत्त्वेन णिच्परत्वाभावादुपधादीर्घस्योपधाद्वद्देश्याप्रवृत्तेः । तथा च फलभेदादीर्घप्रवृत्तप्रत्याख्यानं न युज्यत इति भावः ॥—शम्यते मुनिनेति । अकर्मकत्वात् भाव लः
Bālamanoramā
आतो युक् चिण्कृतोः - आतोयुक् । अङ्गस्येत्यत्यधिकृतमाता विशेषितं, तदन्तविधिः ।अचो ञ्णिती॑त्यो ञ्णितीत्यनुवृत्तं कृतएव विशेषणं, नतु चिणः, तस्य णित्त्वाऽव्यभिचारात् । तदाह — आदन्तानामित्यादि । दायितेति.चिण्वदिट्पक्षे युक् । अदायिषातामिति ।स्थाध्वोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिम्वदिटि कृतेघुमास्थे॑तीत्त्वं न, अजादित्वात्त्वं न, अजादित्वात् । पुनःस्थाध्वोरिच्चे॑रिति तु न भवति, अझलादित्वात् । तत्र हिइको झ॑लिति सूत्रझलित्यनुवृत्तं । तथा च झलादिरेव सिच् किदिति लाभादिडादिः सिज्न कित्, तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नाऽत्र काचित् क्षतिः । सिचः कित्तवेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह — हन्यते इति । अचिण्णलोरिति । लुटि चिण्वदिटि वृद्धौहनस्तोऽचिण्णलो॑रिति हनो नकारस्य तकारो न भवति, चिण्ववत्त्वादित्यर्थः । कुत्वमिति । तस्यणिति विहितस्याऽत्र चिण्वत्त्वात्प्राप्तिरिति भावः । घानिष्यते इति ।ऋद्धनो॑रिति बाधित्वा नित्यत्वाच्चिण्वदिट ।ऋद्धनो॑रिति तु चिण्वदिटि कृते न भवतीत्यनित्यं, तत्र वलीत्यनुवृत्तेरिति भावः । नन्वाशीर्लिङि घानिषीष्टेत्यत्र हन् सीष्ट इत#इ स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्याऽन्तरङ्गत्वादित्यत आह — आशीर्लिङीत्यादि । नु घानितेत्यादौ अप्राप्तेऽपि वधादेशे आरम्भात्कथं वधादेशस्य चिण्वद्भावोऽपवादः स्यादित्यत आह — आर्धधातुके सीयुटीति ।स्यसिच्सीयु॑डिति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके, सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि । एवं हनग्रहदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आर्धधातुके सीयुटिचिण्वदिड्विधिर्निरवकाशत्वाद्वधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्रकर्तरि लिङि चरितार्थत्वादिति भावः । पक्षे इति । चिण्वत्त्वाऽभावपक्षे ।हनो वध लिङी॑ति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षम इडिति वाच्यम्, 'एकाच उपदेशे' इत्यत्र 'अच' इत्येकत्वसामर्थ्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम्, 'एकाच उपदेशे' इत्यत्र 'अच' इत्येकत्ववसामर्थ्यादेकत्वे सिद्धे पुनरकेग्रहणबलेनय उपदेशे एकाजेव नतु कदाप्यनेका॑जिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्त्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः । आत्मनेपदेष्वन्यतरस्या॑मिति वधादेशाऽभावः । अघानिषातामिति । चिण्वदिटि वधादेशाऽभावपक्षे रूपम् ।अहसातामिति । चिण्वदिडभावपक्षेहनः सि॑जिति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः । पक्षे अवधीति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशपक्षे इत्यर्थः अवधिषातामिति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशस्यापि पाक्षिकतयाऽप्राप्तेपि वधादेशे चिण्वत्त्वस्यारम्भन्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात्स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्क्य परिहरति — न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ 'ग्रह उपादाने' इत्यस्माददुपधात्कर्मलकारे उदाहरति — गृह्रते इति ।ग्रहिज्ये॑ति संप्रसारणम् । अथ लुटि तासि चिण्वदिटिग्रहोऽलिटी॑ति दीर्घमाशङ्क्याह — चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह — प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैवग्रहोऽलिटी॑ति दीर्घविधौ ग्रहणं नतु चिण्वदिट इति भाष्ये स्पष्टम् । अथ दृशेः कर्मलकारे उदाहरति — दृश्यते इति । लिटि- ददृशे । लुटि तासि चिण्वदिट्पक्षे — दर्शिता । चिण्वत्त्वाऽबावेसृजिदृशो॑रित्यम् । द्रष्टा.दर्शिष्यते । द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तुलिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति.चिणि लघूपधगुणः । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्त्वाऽभावे त्वाह — सिचः कित्त्वादम्नेति ।लिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न भवति, अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वेहलि चे॑ति दीर्घे — गीर्यते । जगरे । लुटि तासि चिण्वत्त्वपक्षे — गारिता । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि गुणे रपरत्वे — गरिता गरीता ।वृतो वे॑ति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्त्वाऽभावपक्षे तुलिङ्सिचोरात्मनेपदेषु॑ इति इड्विकल्पः । इडभावपक्षेउश्चे॑ति कित्त्वम् । इत्त्वम् । रपरत्वम् ।हलि चे॑ति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु — गारिषीष्ट । लुङि — अगारि । अगारिषाताम् । अगीर्षाताम्- अगरिषातामिति सिद्धवत्कृत्य आह — लुङि ध्वमि चतुरधिकं शतमिति ।रूपाणी॑ति शेषः । तदेवोपपादयति — तथाहिति । अगारिध्वमिति । गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वेधिचे॑ति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिण्वदिडभावपपक्षे वलादितलक्षणे सिच इटि ऋकारस्य गुणे रपत्वेधि चे॑ति सलोपे 'वतो वा' इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वमिति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्यअचि विभाषे॑ति लत्वम् । 'विभाषेटः' इति वा धस्य ढत्वम् । तथा धस्य,तदादेशढस्य,वस्य, मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः तत्र धढयोर्मस्य चअनचि चे॑ति द्वित्वविकल्पः । वकारस्य तु 'मय' इति पञ्चमीमाश्रित्य 'यणो मयः' इति द्वित्वविकल्पैति विवेकः । यद्यपि धढयोर्वस्य मसय् च द्वित्वचतुष्टयमिति वक्तुमुचितं, तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्यद्वित्वत्रय॑मित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणीति षट् (६) । एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश (१२) । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश (१२) । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । (२४) । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशति, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । (४८) । एषु मस्यद्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत्,द्विमान्यष्टाचत्वारिंशदिति (९६) षण्णवतिरित्यर्थः । लिङ्सिचोरितीति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटोलिङ्सिचोरिति विकल्पितत्वात्तदभावपक्षे 'उश्चे' ति सिचः कित्त्वाद्गुणाऽभावे ऋत इत्त्वे रपरत्वेहलि चे॑तिदीर्गे रेफादिणः परत्वात्इणः षीध्व॑मिति नित्यं ढत्वे अर्गीढ्वमिति रूपमित्यर्थः । ढवमानामिति । ढस्यअचो रहाभ्या॑मिति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोर्वस्य 'यणो मयः' इति द्वित्वविकल्पे एकवे द्वे , द्विवे द्वे इति चत्वारि (४) । एषु चतुर्षु मस्यअनचि चे॑ति द्वित्वविकल्पे एकमानि चत्वारि, द्विमानि चत्वारीत्यष्टौ (८) रूपाणीत्यर्थः । षण्णवत्येति । उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिध्यति सा चतुरुत्तरशतसङ्क्या (१०४) उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन सङ्गृह्णाति — इट्दीर्घ इत्यादिना । वलादिलक्,ण इट्,वृतो वे॑ति दीर्घः । अजन्तलक्षणश्चिण्वदिट्,अचि विभाषे॑ति लत्वं, 'विभाषेट' इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पाच्चतुरधिकं शतं रूपाणीत्यर्थः ।शमय्ते मोहो मुकुन्देने॑त्यत्र प्रक्रियां दर्शयति — हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ मन्तत्वेन मित्त्वाद्ध्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे, हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । तङि कृतेसार्वधातुके य॑गित्यनेन॑ति शेषः । णिलोप इति ।णेरनिटीत्यनेने॑ति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाह्रस्वे प्राप्ते -
SK 2762 · A 6.4.93V
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ॥ २७६२ ॥
ciṇṇamulordīrgho'nyatarasyām
Siddhānta-kaumudī
चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-SK 2568 एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ॥
Bālamanoramā
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् - चिण्णमुलोः । 'दोषो णौ' इत्यतो णाविति, 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति, 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते । तदाह — चिण्परे इत्यादिना । नन्विह दीर्घ ग्रहणं व्यर्थं,चिण्णमुलोरन्यतरस्या॑मित्येतावतैव 'मितां ह्रस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्रस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह — प्रकृत इत्यादि । कुत इत्यत आह — ण्यन्ताण्णाविति । शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽऽभीयत्वेनाऽसिद्धतया 'अनिटी' ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । ह्रस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात्, प्रथमणिलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह — दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति । ह्रस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रभाष्ये तुपूर्वत्रासिद्धे न स्थानिवदि॑त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । 'सुद्ध्युपास्य' इत्यत्रअनचि चे॑ति द्विर्वचनस्य, शिण्ढीत्यत्रनश्चे॑त्यनुस्वारस्य,अनुस्वारस्य ययी॑ति परसवर्णस्य च, प्रतिदीब्न इत्यत्रहलि चे॑ति दीर्घस्य, सग्धिरित्यत्रझलां जश् झशी॑ति जश्त्वस्य, जक्षतुरित्यत्रखरि चे॑ति चर्त्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः । ननु ण्यन्ताण्णौचिण्णमुलो॑रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, 'चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः । एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह — णावितीति ।चिण्णमुलो॑रिति दीर्घविधौ चिण्परे णमुल्परे च 'णौ' इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिण्णमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इतिन पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः । शामिता शमितेति । शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः । शमियितेति । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे 'शंशम्यते' इति रूपमित्यर्थः । शंशामिता शंशमितेति ।चिण्मुलो॑रिति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम् । भाष्यमते त्विति ।न पदान्त॑सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः । यङन्तादिति ।ण्यन्ता॑दिति शेषः । यङन्ताण्णिचि यलोपे अल्लोपे च कृतेशंशमी॑त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपेशंशमिते॑त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात्चिण्णमुलो॑रिति दीर्घो नास्ति, भाष्यमतेन पदान्त॑सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः ।
SK 2763 · A 7.3.34V
नोदात्तोपदेशस्य मान्तस्यानाचमेः ॥ २७६३ ॥
nodāttopadeśasya māntasyānācameḥ
Siddhānta-kaumudī
उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि ।
vārttika
अनाचमिकमिवमीनामिति वक्तव्यम्
(वार्तिकम्) ॥ चिणि आयादयः -SK 2305 इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः SK 2512 इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु SK 2480 इत्युक्तेर्न गुणः । अजागारि ॥
Tattvabodhinī
NSP p. 477
—नोदात्तोपदेशस्य—। अति कृति । शमः । दमः । घञ् । णिति कृति । शमकः । दमकः । ण्वुल् । उपदेश इति किम् । शमी । दमी । इह धिनुणि कृते वर्ज्यमानस्वरेण उदात्तत्वाभावान्निषेधो न स्यात् । कथं तर्हि ‘हरेर्यदकामि पदैककेन खम्’ इति श्रीहर्षप्रयोग इति चेत् । अत्राहुः । निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिचि ततश्चिण् बोध्यः । तथा च णिचोऽकृत्वाद्वद्देरनिषेधः । मितामिति हस्तस्तु न भवति ‘वां चित्तविरागे’ इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति घटादावुक्तत्वात् । किं च हस्त्वे जातेऽपि न क्षतिः । ‘चिण्णमुलोः’ इति दीर्घविकल्पनात् इति कथमड उद्यमे यम उपरमे इति प्रयोगः । संज्ञापूर्वकविधेरनित्यत्वाद् वृद्ध्यभाव इति ज्ञेयम् । अथवा उद्यमोपरमशब्दौ घञ्यै कविधानाद् बोध्यौ ॥—णिङ्गिचोरप्येवमिति । णिङ्ग्ताणिजन्ताद्वा कर्मश्चिणि ‘णेरनिटि’ इति णिलोपे सति रूपं तुल्यमिति भावः
Bālamanoramā
नोदात्तोपदेशस्य मान्तस्यानाचमेः - नोदात्तोपदेशस्य ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति, 'अत उपधायाः' इत्यत उपधाया इति,अचो ञ्णिती॑त्यतो ञ्णितीति, 'आतो युक्' इत्यततश्चिण्णकृतोरिति चानुवर्तते । तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात् । तदाह — उपधाया इत्यादिना । अनुदात्तोपदेशाः - सङ्गृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः । अशमि अदमीति । शमधातोर्दमधातोश्च लुङि चिणि 'अत उपधायाः' इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति ।अनाचमे॑रित्युक्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति । आचामिकमिवमिवर्जानामित्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह — चिण्यायादय इति । णिङणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः । ननुजनिवध्योश्चे॑ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेवजनिवध्योश्चे॑त्यत्र गृह्रत इत्यभ#इप्रेत्य आह - वध हिंसायां हलन्त इति ।
SK 2764 · A 6.4.33V
भञ्जेश्च चिणि ॥ २७६४ ॥
bhañjeśca ciṇi
Siddhānta-kaumudī
नलोपो वा स्यात् । अभाजि । अभञ्जि ॥
Bālamanoramā
भञ्जेश्च चिणि - भञ्जेश्च चिणि । 'श्नान्नलोपः' इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।
SK 2765 · A 7.1.69V
विभाषा चिण्णमुलोः ॥ २७६५ ॥
vibhāṣā ciṇṇamuloḥ
Siddhānta-kaumudī
लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः । गौर्दुह्यते पयः । अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः । माणवके धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥
Tattvabodhinī
NSP p. 477–478
—विभाषा—। ‘लभेश्च’ इत्यतो लभेरिति वर्तते । णमुलि । लभंलभम् । लाभंलाभम् । प्रादेस्तु प्रलम्भंप्रलम्भमित्येव । अथ ये द्विकर्मकास्तेषु लकृत्यक्तखलर्थाः किं मुख्ये कर्मणि, उत गौणे, किं बोभयोरिति संदेहे व्यवस्थामाह—द्विकर्मकाणां त्विति ॥—दुह्यादेरिति । दुह्याच्पजिति श्लोके पूर्वार्धोपात्ता द्वादश दुह्यादयस्तेभ्यो गौणे कर्मणि लादयो मता इत्यन्वयः । ‘अकथितं च’ इति सूत्रेण यस्य कर्मसंज्ञा तद्गौणम् । ‘गतिवुद्धि-’ इति सूत्रेण ये द्विकर्मकास्तत्र व्यवस्थामाह- वुद्धिभक्षार्थयोरिति ॥—निजेच्छयेति । गौणे वा मुख्ये वा कर्मणीत्यर्थः । इह ‘गतिवुद्धि-’ इति सूत्रेण यस्य कर्मसंज्ञा तद् गौणम् ॥—प्रयोज्येति । अणौ कर्तुणां कर्मसंज्ञा यस्य तत्प्रयोज्यकर्म ॥—अन्येषामिति । गत्यर्थाकर्मकहकरोतीनाम् ॥—लादय इति । कृत्यक्त्वलर्था आदिश- व्देन प्राह्याः ॥—गौर्दुह्यते इति । देवदत्तेनेति शेषः । कृत्यादिषु गौर्दोग्धव्या दोहनीया पयः । गौः सुदोहा दुर्दोहा पयः । अजा प्रामं नेतव्या । नयनीया । हर्तव्या । हरणीया । अजा प्रामं नेया इत्याद्युदाहर्तव्यम् ॥—प्रामं गम्यत इति । यज्ञदत्तेनेत्यध्याहारः ॥—माणवक इति । अयं प्रयोज्यः कर्ता देवदत्तेनेति प्रयोजकस्त्वध्याहर्तव्यः ॥ ॥ इति भावकर्मप्रक्रिया ॥ दुहिपच्योरिति प्रतिप्रसूतस्य यको ‘नं दुहस्जुनमाम्’ इति निषेधः। उक्तप्रयोगानुरोधात् द्विकर्मकेषु गौणस्यैव कर्मणः कर्तृत्व- विवक्षा न मुख्यस्येत्याहुः तच्चिन्त्यम् । अजां प्रामं नयतीत्यत्र मुख्यकर्मणः कर्तृत्वविवक्षादर्शनात् । अत्रेदमवधेयम् । अधिकरणत्वविवक्षायां व्रजो गौणकर्मेति रुणद्धि व्रजो गां स्वयमेवेति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्यकर्मणोऽपि कर्तृत्वविवक्षा भवति ॥—रुध्यते व्रजो गौः स्वयमेवेति । तथा गोरपादानलविवक्षायां गोर्दुह्यते पयः स्वयमेवेत्यादि
Bālamanoramā
विभाषा चिण्णमुलोः - विभाषा चिण्णमुलोः ।लभेश्चे॑त्यतो लभेरिति,इदतो नु॑मित्यतो नुमिति चानुवर्तते इति मत्वा शेषं पूरयति — लभेर्नुमागमो वेति । ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह — व्यवस्थितेति । प्रादेरुपसर्गात्परस्य लभेर्नित्यं नुम्, अनुपसर्गात्परस्ये॑ति वार्तिकात्, भाष्ये 'उपसर्गात् खल्घञो' रित्यतौपसर्गादितिन सुदुभ्र्या॑मित्यतो नेति चानुवर्त्त्य उपसर्गात्परस्य लभेःविभाषा चिण्णमुलो॑रिति नेति व्याख्यातम् । एतेन प्रपूर्वस्य लभेर्नित्यं नुमिति व्याख्यानं परास्तम् ।लः कर्मणी॑ति लकाराविहिताः, तथातयोरेवे कृत्यक्तखलर्थाः॑ इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते । ते तावद्द्वकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह — द्विकर्मकाणां त्विति ।कर्मप्रत्ययव्यवस्था वक्ष्यतेट इति शेषः । तां व्यवस्थां साद्र्धश्लोकेन दर्शयति — गौणे कर्मणीत्यादिना । दुह्राच्पच्दण्ड्रुधिप्रच्छिचिब्राऊशासुजिमथ्मुषां गौणे कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणं कर्मेति बोध्यम् । प्रधाने इति । नीह्मकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधां कर्मेति बोध्यम् । अथगतिबुद्धी॑ति सूत्रेण ये द्विकर्मकास्तेषु व्यवस्तामाह — बुद्धीति । बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः । इहगतिबुद्धी॑त्यनेन यस्य कर्मसंज्ञा तद्गौणं कर्म । तदितरत्तु प्रधानं कर्म । प्रयोज्येति । अन्येषां = गत्यर्थानामकर्मकाणांह्मक्रो॑रिति सूत्रोपात्तह्मकृञोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः । अयं साद्र्धश्लोकःअकथितं चे॑ति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम् । गौर्दुह्रते पय इति ।गोपेने॑ति शेषः । अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः । तिङाऽभिहितत्वाद्गोः प्रथमा । प्रधानकर्मत्वात्पय इति द्वितीयान्तं, तस्य तिङाऽनभिहितत्वात् । बलिर्याच्यते वसुधाम् । अविनीतो विनयं याच्यते । तण्डुला ओदनं पच्यन्ते । गर्गाः शतं दण्डन्ते । व्रजो रुध्यते गाम् । माणवकः पन्थानं पृच्छ्यते । वृक्षोऽवचीयते फलानि । माणवको धर्ममुच्यते, शिष्यते वा । शंत जीयते देवदत्तः । सुधां क्षीरोदधिर्मथ्यते । देवदत्तः शतं मुष्यते । एतेषु गौणकर्मण लकारः । अथप्रधाने नीह्मकृष्वहा॑मित्यत्रोदाहरति — अजा ग्रामं नीयते इत्यादि । प्रतिक्रियमजा ग्राममित्यन्वेति । उह्रत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम् । अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्याऽनभिहितत्वाद्द्वितीया । बुद्ध्यर्थस्योदाहरति — बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति ।गुरुणे॑ति शेषः । अत्र माणवके गौणकर्मणि, धर्मे वा प्रधानकर्मणि ण्यन्ताल्लकारः । भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम् । शब्दकर्मस्य तु वेदोऽध्याप्यते विधैं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् । यदुक्तंगत्यर्थानामकर्मकाणां ह्मकृञोश्चेत्येतेषां प्रयोज्यकर्मणि लकार॑ इति । तत्र गत्यर्थस्योदाहरति — देवदत्तो ग्रामं गम्यते इति ।यज्ञदत्तेने॑ति शेषः । अत्र प्रयोज्यकर्मणि देवदत्ते गमेण्र्यन्ताल्लः । ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति वयवस्था व्यर्था । तत्र प्रयोज्यं विना अन्यस्य कर्मण्योऽभावादित्याशङ्क्यअकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्य॑मिति वार्तिकेन अकर्मकधातू#आनमपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य 'मासमास्यते माणवक' इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लो, न तु मासे कर्मणीत्युदाहरिष्यते । एवं तर्हि अण्यन्तेष्कर्मकेषुमासमास्यते देवदत्तेने॑ति भावे लकारो न स्यात्,सकर्मकेभ्यः कर्मणि कर्तरि च ल॑ इति नियमात् ।मास आस्यते देवदत्तेने॑त्येव कर्मणि लकारः स्यादित्याशङ्क्य आह — अकर्मकाणामित्यादि.ये अकर्मकाःकर्तुरीप्सिततमं कर्म॑,तथायुक्तं चानीप्सित॑मिति सूत्रसिद्धकर्मरहिताःआस उपवेशने॑, 'वृतु वर्तने' इत्यादयः, तेषाम्अकर्मकधातुभिर्योगे॑ इति वार्तिकसिद्धकर्मणां कर्मणि भावे च लकार इष्यते इत्र्थः । न चेदं वार्तिकमिति भ्रमितव्यं, भाष्ये अदर्शनात् । किंतु न्यायमूलकमेव, अकर्मधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारेअकर्मकधातुभिर्योगे॑ इति वचनव्याख्यावसरे अवोचाम । तदाह — मासो मासं वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वपक्षे कर्मणि लकारः, मासस्याऽभिहितत्वात्प्रथमा । मासस्य कर्मत्वाऽभावपक्षे तु भावे लकारः । मास इति सप्तमी । मासमिति त्वपपाठः । अथ प्रकृतनुमसरति — णिजन्तात्त्विति । आसधातो प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवक इति । ण्यन्तात्प्रयोज्यकर्मणि माणवके लः । मासस्याऽनभिहितत्वाद्द्वितीया । ह्मकोस्तु हार्यते वा भृत्यः कटं देवदत्तेन । इति भावकर्मप्रक्रिया ।अथ भावकर्मार्थाः । — — — — — -