PREMABASESiddhānta-kaumudī
Prakaraṇa 61 · SK 2679–2744

तिङन्तात्मनेपदप्रकरणम्

tiṅantātmanepadaprakaraṇam · 66 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2679 · A 1.3.13V
भावकर्मणोः ॥ २६७९ ॥
bhāvakarmaṇoḥ
Siddhānta-kaumudī
बभूवे । अनुबभूवे ॥
Bālamanoramā
भावकर्मणोः - अथ आत्मनेपदप्रक्रिया निरूप्यते । आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति — अनुदात्तङित इति ।आत्मनेपद॑मित्येतत्शेषात्कर्तरि परस्मैपद॑मित्यतः प्रागनुवर्तते । भावकर्मणोः । भावः भावना क्रियेति पर्यायाः । कर्मशब्दः कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति — बभूवे इति । वृत्ता भवनक्रियेत्यर्थः । कर्मण्युदाहरति — अनुबभूवे इति । 'आनन्द' इति शेषः । आनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः ।
SK 2680 · A 1.3.14V
कर्तरि कर्मव्यतिहारे ॥ २६८० ॥
kartari karmavyatihāre
Siddhānta-kaumudī
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ श्नसोरल्लोपः-SK 2469 । व्यतिस्ते । व्यतिषाते । व्यतिषते । तासस्त्योः -SK 2191 इति सलोपः । व्यतिसे । धि च -SK 2241 । व्यतिध्वे । ह एति -SK 2250 । व्यतिहे । व्यत्यसै । व्यतिषीत् । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ॥
Tattvabodhinī
NSP p. 464–465
—कर्तरि कर्म-॥—अन्यस्येति । शूद्रस्य योग्यं सस्यादिलवनं व्राह्मणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिदारः । संपादनते राज्याः पृथक्कृतवारमादेव सिद्धे कर्तृ- अर्हणमुत्तरार्थम् ॥—व्यतिस्ते इति । यच्परलाभावान्न षः ॥—व्यतिस इति । ‘उपसर्गप्रादुर्भ्याम्’ इति नेह प्रलम् । सकारस्यास्त्यवयवलाभावात् । ‘आदेशप्रत्यययोः’ इति षटवं तु ‘सात्पदाद्योः’ इति निषिद्धम् । एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदलात्
Bālamanoramā
कर्त्तरि कर्मव्यतिहारे - कर्तरि कर्म । कर्मव्यतिहारशब्दं विवृण्वन्नाह — क्रियाविनिमये द्योत्ये इति । एवं च कर्मशब्दः क्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । अन्यस्येति । शूद्रादियोग्यं सस्यादिलवनं ब्राआहृणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । संप्रहरन्ते राजानः । कर्तृग्रहणं भावकर्मणोरित्यस्याऽनुवृत्तिनिवृत्त्यर्थम् ।अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्धे कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह — श्नसोरिति । तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः । इहउपसर्गप्रादुभ्र्या॑मिति न षः, यच्परकत्वाऽभावादिति भावः । व्यतिषाते इति । इह अच्परकत्वादुपसर्गप्रादुभ्र्यामिति षः । व्यति स् से इति स्थिते आह — तासस्त्योरिति ।उपसर्गप्रादुभ्र्या॑मिति नेह ष्टवम्, अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यति स् ध्वे इति स्थिते आह — धि चेति । 'सलोप' इति शेषः । व्यितस् ए इति स्थिते आह — ह एतीति । सकारस्य हकार इति भावः । व्यत्यसै इति । लोडुत्तमपुरुषैकवचनम् । व्यत्यास्तेति । लङि रूपम् । व्यतिषीतेति । लिङि रूपम् । व्यतिराते इति । लटि प्रथमपुरुषैकद्विबहुवचनेषु समानमेव र#ऊपम् । व्यतिभाते इति । भाधातो रूपम् । व्यतिबभे इति । लिटि रूपम् ।
SK 2681 · A 1.3.15V
न गतिहिंसार्थेभ्यः ॥ २६८१ ॥
na gatihiṃsārthebhyaḥ
Siddhānta-kaumudī
व्यतिगच्छन्ति । व्यतिघ्नन्ति ।
vārttika
प्रतिषेधे हसादीनामुपसंख्यानम्
(वार्तिकम्) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥
vārttika
हरतेरप्रतिषेधः
(वार्तिकम्) ॥ संप्रहरन्ते राजानः ॥
Tattvabodhinī
NSP p. 465
—न गतिर्हिंसार्थेभ्यः । अर्थशब्दः प्रत्येकमभिसंवध्यते । कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः । अर्थग्रहणासामर्थ्यात् ये शब्दान्तरमनपेक्ष्य गतिर्हिंसयोर्वर्तन्ते त एवेह गृह्यन्ते । हरतिस्तूपसर्गवशात् हिंसायां प्रवर्तते इति ‘हरतेरप्रतिषेधः’ इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः ॥—इतरेतरा—नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितलात्तद्द्योतकमात्मनेपदं न प्राप्नोतीति किमर्थो निषेधः । अत्राहुः । लौकिके व्यवहारे लाघवानाद-रादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते । अत एव व्यतिलुनीत इत्यादौ कर्मव्यतिहारद्योतनाय व्यतीत्युपसर्गावात्म-नेपदं च समुच्चित्य प्रयुज्यत इति
Bālamanoramā
न गतिहिंसार्थेभ्यः - न गतिहिंसार्थेभ्यः । कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह — हसप्रकारा इति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । ह्मञ्धातुस्तु उपसर्गबलादिंधसायां वर्तते इति न तस्य प्रतिषेध इत्याह — हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् ।
SK 2682 · A 1.3.16V
इतरेतरान्योन्योपपदाच्च ॥ २६८२ ॥
itaretarānyonyopapadācca
Siddhānta-kaumudī
।
vārttika
परस्परोपपदाच्चेति वक्तव्यम्
(वार्तिकम्) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥
Bālamanoramā
इतरेतरान्योन्योपपदाच्च - इतरेतर.॒नात्मनेपद॑मिति शेषः ।
SK 2683 · A 1.3.17V
नेर्विशः ॥ २६८३ ॥
nerviśaḥ
Siddhānta-kaumudī
निविशते ॥
Tattvabodhinī
NSP p. 465
—नेर्विशः । नेः किम् । प्रविशति । अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुप-सर्गस्य ग्रहणम् । तेनेह न । ‘मधूनि विशन्ति भ्रमराः’ । ‘इत्युक्त्वा मैथिली भर्तुरङ्गे निविशती भयात्’ इत्यत्र तु अङ्गानि विशतीति पाठ्यम् । न च पदसंस्कारपक्षे लङ्के निविशतीति पाठेऽप्यदोष इति वाच्यम् । त्वं करोति भवान् करोषीत्यादि-प्रयोगस्यापि लदुक्तरीत्या साधुलापत्तेः, वा लिप्सायामित्यादेवैयर्थ्यापत्तेश्च । स्यादेतत् । ‘नवाम्बुवश्यामतनुर्न्यविक्षत्’ इत्य-त्रात्मनेपदं न स्यात् । अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम् । अङ्गभक्तस्याटो विकरणविशिष्टस्यावय-वत्येऽपि धातोरनवयवलादिति चेत् । अत्राहुः । लावस्थायामडागम इति भाष्यमते न कश्चिद्दोषः । मतान्तरे तु उपसर्ग-नियमे अड्व्यवाये उपसंख्यानमिति वार्तिकमस्तीति दिक् ॥—आङ्गो दो—अकर्त्रभिप्रायार्थमिदम् । तेन ‘व्यादत्ते-विहगपतिर्मुखं स्वकीयम्’ इति प्रयोग आस्यविहरणेऽपि सिद्धः । क्रियाफलस्य कर्तृगामित्वविवक्षणात्
Bālamanoramā
नेर्विशः - नेर्विशः । निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्टो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापिअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् ।
SK 2684 · A 1.3.18V
परिव्यवेभ्यः क्रियः ॥ २६८४ ॥
parivyavebhyaḥ kriyaḥ
Siddhānta-kaumudī
अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ॥
Bālamanoramā
परिव्यवेभ्यः क्रियः - परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह — अकत्र्रभिप्रायार्थमिति ।
SK 2685 · A 1.3.19V
विपराभ्यां जेः ॥ २६८५ ॥
viparābhyāṃ jeḥ
Siddhānta-kaumudī
विजयते । पराजयते ॥
Bālamanoramā
विपराभ्यां जेः - विपराभ्यां जेः । वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । पराजयते इति । निकृष्टो भवतीत्यर्थः ।
SK 2686 · A 1.3.20V
आङो दोऽनास्यविहरणे ॥ २६८६ ॥
āṅo do'nāsyaviharaṇe
Siddhānta-kaumudī
आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ।
vārttika
पराङ्गकर्मकान्न निषेधः
(वार्तिकम्) ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥
Bālamanoramā
आङो दोऽनास्यविहरणे - आङो दो । आस्यविहरणं — मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह — ददातेर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम् । अविवक्षितमिति । 'अविहरणे' इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति, - वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः ।
SK 2687 · A 1.3.21V
क्रीडोऽनुसम्परिभ्यश्च ॥ २६८७ ॥
krīḍo'nusamparibhyaśca
Siddhānta-kaumudī
चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -SK 549 इत्यनोः कर्मप्रवचनीयत्वम् ।
vārttika
समोऽकूजने
(वार्तिकम्) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥
vārttika
आगमे क्षमायाम्
(वार्तिकम्) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ।
vārttika
शिक्षेर्जिज्ञासायाम्
(वार्तिकम्) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ।
vārttika
आशिषि नाथः
(वार्तिकम्) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ।
vārttika
हरतेर्गतताच्छील्ये
(वार्तिकम्) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति ।
vārttika
किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम्
(वार्तिकम्) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥
Tattvabodhinī
alignment inferredNSP p. 465
—शिक्षेर्जिज्ञा-सायामिति । शिक्ष विद्योपादान इत्यस्य नेह ग्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धेः । किं तु शकेः सन्नन्तस्येति ध्वनयति—धनुर्विषय इत्यादिना ।—नियमार्थमिति । नाथतेरनुदात्तेत्त्वं तु ‘अनुदात्तेतश्च हलादेः’ इति युचि नाथन इति रूपसिद्ध्यर्थमिति भावः ॥—मातुरनुहरतीति । सादृश्यमात्रमत्र विवक्षितं न तु प्रकारताच्छील्ये
Bālamanoramā
क्रीडोऽनुसम्परिभ्यश्च - क्रीडोऽनु । चादाङ इति । तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः ।अनोः कर्मपर्वचनीयान्ने॑ति वार्तिकम् । तदिदं न्यायसिद्धमित्याह — उपसर्गेण समेति । 'समोऽकूजने' इति वार्तिकम् । समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमेः क्षमायामिति ।आत्मनेपद॑मिति शेषः । वर्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति । भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति । कंचित्कालं सहस्वेत्यर्थः । आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते ।हन्त्यर्थाश्चे॑ति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् ।शिक्षेर्जिज्ञासाया॑मितय्पि वार्तिकम् । धुनुषि शिक्षते इति । वैषयिके आधारे सप्मती । शकिः सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह — धनुर्विषये इत्यादि ।सिक्ष विद्योपादाने॑ इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः । कथमिति । भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः । आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः ।हरतेर्गते॑त्यादि वार्तिकम् ।आत्मनेपद॑मिति शेषः । गतं प्रकार इति । वृत्तमित्यर्थः । ताच्छील्यं = स्वभावानुसरणम् । गतिताच्छील्यमिति यावत् । गतेति पाठे भावे क्तः । पैतृकमआआ इति । पैतृकं वृत्तआआः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । 'अनुहरन्ते' इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह — हर्षादयो विषया इति । धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः । कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः । इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाहृतत्वादिति भावः ।
SK 2688 · A 6.1.142V
अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ २६८८ ॥
apāccatuṣpācchakuniṣvālekhane
Siddhānta-kaumudī
अपात्किरतेः सुट् स्यात् ।
vārttika
सुडपि हर्षादिष्वेव वक्तव्यः
(वार्तिकम्) ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयर्थी च । हर्षादिषु इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति ।
vārttika
आङि नुप्रच्छ्योः
(वार्तिकम्) ॥ आनुते । आपृच्छते ।
vārttika
शप उपालम्भे
(वार्तिकम्) ॥ आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥
Tattvabodhinī
alignment inferredNSP p. 465–466
—गजोऽपकिर- तीति । अत्र हवें सत्यपि आलेखनाभावात् सुरोऽप्राप्तिः ॥—कृष्णाय शपते इति । ‘श्लाघहुङ्’ इति संप्रदानसंज्ञा । ‘नीवीं’ प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि’ इत्यत्र तु खाशयं प्रकाशयामीत्यर्थो विव-क्षितो न तु शपथ इति न तङ्क्ति
Bālamanoramā
अपाच्चतुष्पाच्छकुनिष्वालेखने - अपाच्चतुष्पात् । 'सुट्कात्पूर्वः' इत्यधिकृतम् । 'किरतौ लवने' इत्यतः किरतावित्यनुवर्तते । तदाह -अपात्किरतेः सुट् स्यादिति । चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनं = खननम् ।सुडपि हर्षादिष्वेवे॑ति - वार्तिकम् । अपस्किरते वृषो ह्मष्ट इति । हर्षाद्भूमिं लिखन् धूल्यादि विक्षिपतीत्यर्थः । कुक्कुटो भक्षार्थीति । 'अपस्किरते' इत्यनुषज्यते । आआ आश्रयार्थीति । 'अपस्किरते' इत्यनुषज्यते । अपकिरति कुसुममिति ।वृषादि॑रिति शेषः । ह्यियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः । अत्र हर्षाद्यभावान्नात्मनेपदम्, नापि सुट् । तदाह — इह तङ्सुटौ नेति । ननुअपस्किरते वृषो ह्मष्ट॑ इत्याद्युदादहरणत्रये यदि हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वासेखनमपि, तदा तङेव स्यान्न तु सुडित्यत आह - हर्षादिमात्रेत्यादि । आलेखनाऽभावेऽपीत्यर्थः । नेष्यते इति ।करितेर्षर्षजीविके॑त्यात्मनेपदविधौ ससुक्टानामेव भाष्ये उदाहरणादिति भावः । भाष्यस्थान्युदाहरणान्यालेखनविषयाण्येव भविष्यन्तीत्यस्वरसं सूचयति - आहुरिति । गजोऽपकिरतीति । स्वभावाख्यानमत्रेति भावः । 'आङि नुप्रच्छ्यो' रिति वार्तिकम् । आनुते इति । सृगाल इति भाष्यम् । सृगाल उत्कण्ठ#आपूर्वकं शब्दं कोरतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्वरितेत्त्वादेव सिद्धे 'शप उपालम्भे' इत्यात्मनेपदविधिव्र्यर्थ इत्यत आह — आक्रेशार्थादिति । 'शप आक्रोशे' इति स्वरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम्, अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात्तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति ।श्लाघह्नुङ्स्थाशपा॑ मिति संप्रदानत्वाच्चतुर्थी ।
SK 2689 · A 1.3.22V
समवप्रविभ्यः स्थः ॥ २६८९ ॥
samavapravibhyaḥ sthaḥ
Siddhānta-kaumudī
सन्तिष्ठते । स्थाघ्वोरिच्च -SK 2389 । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ।
vārttika
आङः प्रतिज्ञायामुपसंख्यानम्
(वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥
Bālamanoramā
समवप्रविभ्यः स्थः - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।
SK 2690 · A 1.3.23V
प्रकाशनस्थेयाख्ययोश्च ॥ २६९० ॥
prakāśanastheyākhyayośca
Siddhānta-kaumudī
गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ॥
Tattvabodhinī
NSP p. 466
—प्रकाशन—। प्रकाशनं ज्ञापनम् । स्थेयो विवादपदनिर्णेता । तिष्ठन्तेऽस्मिन् विवादपदनिर्णयार्थमिति व्युत्पत्तेः । वाहुलकादधिकरणे ‘अचो यत्’ । ‘स्थेयो विवादस्थानस्य निर्णेतारि पुरोहिते’ इति मेदिनी । कर्णादिधिति अधिकरणे सप्तमी । तेषां स्थेयत्वं तिष्ठते इत्यात्मनेपदेन द्योत्यते तमेवार्थमाह—कर्णादीनिति । प्रकाशनेत्यादि किम् । चैत्रे तिष्ठति
Bālamanoramā
प्रकाशनस्थेयाख्ययोश्च - प्रकाशन । प्रकाशनं — स्वाभिप्रायाविष्करणम् । स्थेयः — विवादपदनिर्णेता । तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे 'अचो यत्' इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः ।स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते॑ इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः । आख्या = अभिधानम् । प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः । प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति ।श्लाघह्नुङ्स्थाशपा॑मिति संप्रदानत्वाच्चतुर्थी । स्थेये उदाहरति- - संशय्येति । कर्णादिष्विति विषयसप्तमी । फलितमाह — कर्णादीनिति ।
SK 2691 · A 1.3.24V
उदोऽनूर्ध्वकर्मणि ॥ २६९१ ॥
udo'nūrdhvakarmaṇi
Siddhānta-kaumudī
मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ।
vārttika
ईहायामेव
(वार्तिकम्) ॥ नेह । ग्रामाच्छतमुत्तिष्ठति ॥
Tattvabodhinī
NSP p. 466
—उदोऽनूर्ध्वकर्मणि । स्थ इत्यनुवर्तते । ऊर्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्ध्व-कर्म । ‘उदोऽनूर्ध्व-’ इत्युक्तेऽनूर्ध्वक्रियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव । तथापि परिसन्दा-र्थलाभाय कर्मपदमित्यभिप्रेत्याह—ईहायामेवेति । इच्छापूर्विका चेष्टा ईहा । सा च ग्रामाच्छतमित्यत्र नास्ति
Bālamanoramā
उदोऽनूर्द्ध्वकर्मणि - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः ।
SK 2692 · A 1.3.25V
उपान्मन्त्रकरणे ॥ २६९२ ॥
upānmantrakaraṇe
Siddhānta-kaumudī
आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ।
vārttika
उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्
(वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ।
vārttika
वा लिप्सायामिति वक्तव्यम्
(वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥
Tattvabodhinī
NSP p. 466
—उपान्मन्त्रकरणे । मन्त्रः करणं यत्र मन्त्रकरणं स्तुतिः, तत्र वर्तमानादुत्पूर्वात्तिष्ठतेरात्मनेपदं स्यात् ॥—आग्नेय्येति । अग्निदेवताकया ऋचा आमीध्रमग्निविशेषं स्तौतीत्यर्थः । अत्र केचित् श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्र्या गार्हपत्यमुपतिष्ठते । आग्नेय्या आमीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तङ्किति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपावस्थानमेवार्थः । न च तत्र यथ्यादिवन्मन्त्रस्य करणत्वं न संभवतीति वाच्यम् । उपस्थानस्वरूपे तस्योपयोगाभावेऽपि तत्कार्ये स्तुतानुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहृन्यते । आमीध्रमिति द्वितीया तु करणत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चाग्नेय्या आमीध्रं स्तोतुं तत्समीपे तिष्ठ-तीत्येव वाक्यार्थः । आदित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्यासंभवादादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थं इत्याहुः ॥—गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना गङ्गा तु पश्चाद्यमुनया सह मिलितेति प्रतीयते ॥—स्वाङ्ग-कर्मकाञ्चेति । चकारेणाकर्मकस्य संग्रहः ॥—नत्वद्रवमिति । अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः
Bālamanoramā
उपान्मन्त्रकरणे - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः ।
SK 2693 · A 1.3.26V
अकर्मकाच्च ॥ २६९३ ॥
akarmakācca
Siddhānta-kaumudī
उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥
Bālamanoramā
अकर्मकाच्च - अकर्मकाच्च । उपात्तिष्ठतेरिति ।उपान्मन्त्रकरणे इत्यतः, 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः ।
SK 2694 · A 1.3.27V
उद्विभ्यां तपः ॥ २६९४ ॥
udvibhyāṃ tapaḥ
Siddhānta-kaumudī
अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ।
vārttika
स्वाङ्गकर्मकाच्चेति वक्तव्यम्
(वार्तिकम्) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः ॥
Bālamanoramā
उद्विभ्यां तपः - उद्विभ्यां तपः ।अकर्मकादित्येवे॑ति भाष्यम् । दीप्यते इति । दीप्तिमान् भवतीत्यर्थः । स्वाङकर्मकाच्चेति । 'उद्विभ्यां तप' इत्यनुवर्तते । चकारादकर्मकसमुच्चयः । स्वाङ्गशब्दोऽत्र यौगिक इत्याह — स्वमङ्गमिति । सुवर्णमुत्तपतीति । अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः । स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यस्य् प्रयोजनमाह - चैत्रो मैत्रसय् पाणिमुत्तपतीति । अत्रअद्रवं मूर्तिम॑दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः ।
SK 2695 · A 1.3.28V
आङो यमहनः ॥ २६९५ ॥
āṅo yamahanaḥ
Siddhānta-kaumudī
आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥
Tattvabodhinī
NSP p. 466–467
—आङ्गो यमहनः ॥—प्राप्येति । तथा च । हन्तेरकर्मकतया आजग्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः ॥—मेत्तुमित्यादीति । एवं च त्यन्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः ॥—समीपमेत्येति । विषमविलोचनस्य समीपमेत्य वक्षः आजग्ने । स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयांचक्रे इत्यर्थात्स्वाङ्गकर्मकत्वमस्त्येवेति भावः ॥—आत्मनेपदेऽधिति । तङ्कीत्येव सुवचम् ॥ ‘समो गम्यृच्छिप्रच्छिखरत्यतिंश्रुविदिभ्यः’ इति वृत्तिस्थं पाठम्- पेक्ष्य भाष्यस्थं पाठमनुसरति—समो गम्यृच्छिभ्यामिति ॥—संगच्छत इति । सङ्गतं भवतीत्यर्थः ॥ वा गमः । ‘असंयोगाद्धिद् कित्’ इत्यतः किदनुवर्तते, ‘इको ज्ञाल्’ इत्यतो ज्ञात्प्रहणं, ‘लिङ्सिचौ’ इत्यतो लिङ्सिचाविति चानुवर्तते । कित्वपक्षे ‘अनुदात्तोपदेश’—इति मलोपः । समृच्छिष्यत इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र प्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम् ॥—ग्रामं संगच्छतीति । ‘तच्चैक्यं समगच्छत’ इत्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकलमेवेति तङ् । एकमेवैक्यम् । स्वार्थं ष्यङ् ॥—विदिप्रच्छि—। परस्मैपदिसाहचर्यादाह—वेत्तेरेवेति । विन्दतिर्हि स्वरितेत् । सत्ताविचारणार्थयोस्तु अनुदात्तेत्त्वादेव सिद्धम् । न च निरनुवन्धपरिभाषयैव वेत्तेर्ग्रहणं स्यादिति वाच्यम् । ‘लुग्विकरणाऽलुग्विकरणयोः’ इति परिभाषया तु विन्दतेर्ग्रहणप्रसङ्गात्
Bālamanoramā
आङो यमहनः - आङो यमहनः । आङः परस्माद्यमो, हनश्चात्मनेपदमित्यर्थः । आयच्छते इति । रज्जुर्दीर्घीभवतीत्यर्थः । दीर्घीकरोति पादमिति वा । आहते इति ।स्वोदर॑मिति शेषः । परस्य शिर आहन्तीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मकत्वाऽभावाच्च नात्मनेपदम् । कथं तर्हीति । स्वीयाऽङ्गकर्मकत्वाऽभावादकर्मक्तवाऽभावाच्चात्मनेपदाऽसंभवादिति भावः । प्राप्येति । विषमविलोचनस्य वक्षः प्राप्याअजघ्ने इति, रघूत्तमं प्राप्त माऽऽहध्वमिति च प्राप्तिक्रियां प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । यद्यपि हननक्रियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याऽविक्षितत्वादकर्मकत्वमेव,धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॑ इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् । ननु प्राप्येत्यध्याहारेप्रासादात्प्रेक्षते॑ इत्यादिवत्पञ्चमी स्यादित्यत आह — ल्यब्लोपे इति ।ल्यब्लोपे पञ्चमी॑त्येतत्तु यत्राऽर्थाध्याहारमाश्रित्य ल्यबन्तार्थावगतिस्तद्विषयकम् । अत्र तु ल्यबन्तशब्दाध्याहारान्नाऽत्र पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भाव- । 'आजघ्ने विषमे' त्यत्र परिहारान्तरमाह — समीपमेत्येति वेति । 'अध्याहार' इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचक्रे इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । लुङि आहन् स् त इति स्थिते —
SK 2696 · A 2.4.44V
आत्मनेपदेष्वन्यतरस्याम् ॥ २६९६ ॥
ātmanepadeṣvanyatarasyām
Siddhānta-kaumudī
हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥
SK 2697 · A 1.2.14कित्त्वातिदेशः
हनः सिच् ॥ २६९७ ॥
hanaḥ sic
Siddhānta-kaumudī
कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥
Bālamanoramā
हनः सिच् - हनः सिच् ।कित्स्या॑दिति शेषपूरणम् ।असंयोगाल्लिट्कि॑दित्यतस्तदनुवृत्तेरिति भावः । हनधातोः परः सिच् कित्स्यादिति फलितम् । अनुनासिकलोप इति । 'अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते -
SK 2698 · A 1.2.15कित्त्वातिदेशः
यमो गन्धने ॥ २६९८ ॥
yamo gandhane
Siddhānta-kaumudī
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
Bālamanoramā
यमो गन्धने - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य 'अनुदात्तोपदेशे' ति लोपः ।
SK 2699 · A 1.3.29V
समो गम्यृच्छिभ्याम् ॥ २६९९ ॥
samo gamyṛcchibhyām
Siddhānta-kaumudī
अकर्मकाभ्याम् इत्येव । संगच्छते ॥
Bālamanoramā
समो गम्यृच्छिभ्याम् (॰प्रच्छिस्वरत्यर्तिश्रुविदिभ्यः) - समो गम्यृच्छिभ्याम् ।आत्मनेपद॑मिति शेषः । अकर्मकाभ्यामित्येवेति ।स्वाङ्गकर्मकाच्चे॑ति तु निवृत्तमिति भावः । सङ्गच्छते इति । संगतं भवतीत्यर्थः ।
SK 2700 · A 1.2.13कित्त्वातिदेशः
वा गमः ॥ २७०० ॥
vā gamaḥ
Siddhānta-kaumudī
गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति ।
vārttika
विदिप्रच्छिस्वरतीनामुपसंख्यानम्
(वार्तिकम्) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥
Bālamanoramā
वा गमः - वा गमः । 'इको झल्' इत्यतो झलिति,लिङ्सिचावात्मनेपदेषु॑ इत्यतो लिङ्सिचाविति, 'असंयोगाल्लिट्' इत्यतः किदिति चानुवर्तते । तदाह — गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचः कित्तवपक्षे 'अनुदात्तोपदेशे' ति मकारलोपेह्रस्वादङ्गादि॑ति सिचो लुक् । समृच्छते इति ।ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु॑ इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति — समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः । वेत्तेरिति । लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः । व्याख्यानादिति भावः ।
SK 2701 · A 7.1.7V
वेत्तेर्विभाषा ॥ २७०१ ॥
vettervibhāṣā
Siddhānta-kaumudī
वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संपृच्छते । संस्वरते ।
vārttika
अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्
(वार्तिकम्) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ।
vārttika
उपसर्गादस्यत्यूह्योर्वेति वाच्यम्
(वार्तिकम्) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥
Tattvabodhinī
NSP p. 467–468
—वेत्तेर्विभाषा । ‘शीङो रुट्’ इत्यतो रुडनुवर्तते, ‘अदभ्यस्तात्’ इत्यतः अदित्यनुवर्त्य षष्ठ्यन्तत्वेन विपरिणम्यत इत्याह—अतो रुडागम इति ॥—अङ्किधौ त्विति । ‘सर्तिशास्त्यति’—इति लुप्तविकरणेन शासिना साहचर्यादिति भावः ॥—मा समृतेति । ‘उश्च’ इति कित्वम् । माङ्योगादडभावः ॥—समार्तेति । ननु सिज्लोपस्यासिद्धत्वात् ‘आटश्च’ इति वृद्धौ कृतायां ‘हस्वादङ्गात्’ इति सिज्लोपाप्रवृत्त्या समाष्टेति रूपं स्यात् । न च हस्वाद्विहितस्येति व्याख्यानादिष्टसिद्धिरिति वाच्यम् । विहितविशेषणे मानाभावात् । उदायत आहतेत्याद्यसिद्ध्यापत्तेश्च । अत्र केचित् । ‘सिज्लोप एकादेशे सिद्धो वाच्यः’ इत्यनेन पूर्वं सिज्लोपे पश्चात् वृद्धिर्भवति । एकादेश इति विषयसप्तम्याश्रयणात् । न चैवमध्यैष्टेति न सिध्येत्तत्राप्युक्तरीत्या पूर्वं सिज्लोपे वृद्धौ सत्यामध्यैतेति रूपप्रसङ्गादिति वाच्यम् । ‘वार्णादाङ्गं वलीयः’ इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इति ‘आटश्च’ इति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्वाधत्वात् । समार्तेत्यत्र तु ‘उश्च’ इति कित्वेन गुणाप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चात् ‘आटश्च’ इति वृद्धिरिति वैषम्यमित्याहुः । अन्ये तु सिज्लोपानन्तरं यत्रैकादेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो यथा अग्रहीदिति । न चात्र तादृशो विषयोऽस्ति । किं च ‘वार्णादाङ्गं वलीयः’ इति पूर्वमेव गुणे कृते इत्यादि यदुक्तम् । तदसत् । समानाश्रये हि वार्णादाङ्गं वलीयः । अन्यथा द्यौरिवाचरति द्यवतीत्यत्र यण् न स्यात् किं तु ‘पुगन्त’—इति गुण एव स्यात् । तथा च समाष्टेत्येव वक्तव्ये समार्तेति लेखकप्रमाद इत्याहुः ॥—गन्धनं हिंसेति । गन्ध अर्दने । अर्दं हिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः । ‘ओजःसहोम्भसा’—इति ठक् । तत्स कर्म साहसिक्यम् । ब्राह्मणादित्वात्व्यञ् ॥—परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्यर्थः । तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात् किं तु प्रयोगोपाधिरित्यभिप्रेत्याह—तेषु सहसेति ॥—एधो दकस्येति । एधशब्दोऽकारान्तः ‘अवो- दैधीय—इति निपातितः । एधाश्च उदकं च तेषां समाहारः । यद्वा एधःशब्द सकारान्तः । तथा च एधांसि च दकं चेति विग्रहः । दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हलायुधे—‘प्रोक्तं प्राह्मैर्भुवनमसृतं जीवनीयं दकं च’ इति
Bālamanoramā
वेत्तेर्विभाषा - वेत्तेर्विभाषा । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते ।अदभ्यस्ता॑दित्यत आदित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।शीङो रु॑डित्यतो रुडिति च । तदाह — वेत्तेः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति ।संपूर्वेभ्यस्त॑ङिति शेषः । द्वयोरिति । भौवादिकस्य, इयर्तेश्चेत्यर्थः । अङ्विधौ त्विति ।सर्तिशास्त्यर्तिभ्यश्च॑ इत्यत्रेत्यर्थः । मा समृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोपः । माङ्योगे मा समृतेत्यादि । माङ्योगाऽभावे तु समार्तेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माङ्योगाऽभावे आडागमे उदाहरति — समार्तेति । समा ऋ स् त इति स्थितेउश्चे॑ति कित्त्वाद्गुणनिषेधे 'आटश्च' इति वृदिंध बाधित्वा परत्वात्ह्रस्वादङ्गा॑दिति सिचो लोपेआटश्चे॑ति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिज्लोपस्याऽसिद्धत्वात् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याऽप्रवृत्त्या समार्ष्टेत्येवोचितमिति वाच्यम्,सिज्लोप एकादेशे सिद्धो वाच्यः॑ इति वचनेन पूर्वं सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । सर्तिश#आस्त्यर्ति॑ इत्यङ्, तत्र इयर्तेग्र्रहणादिति भावः । 'ऋदृशोऽङि' इति गुणः । समारतेति । 'आटश्च' इति वृद्धिः । इति चेति । इयर्ते रूपमत्यन्वयः । तदेवमर्तिश्रुदृशिभ्य इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुदातोरुदाहरति — संशृणुते इति । दृशेरुदाहरति - संपश्यते इति । अकर्मकादित्येवेति ।समो गम्यृच्छिभ्या॑मित्यत्र अक्रमकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मंस्तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति ।प्रमादिक इत्याहु॑रित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदाऽसंभवादिति भावः । अध्याहारो वेति ।इति कथयद्भ्यट इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भ्यः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवोऽकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति, धात्वर्थेनोपसंग्रहादिति, प्रसिद्धेरिति, अविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । 'कर्मण' इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकर्मकत्वमिति भावः । अस्याऽर्थान्तरे क्वचिदकर्मकत्वमुदाहरति — नदी वहतीति । स्यन्दते इति । प्ररुआवतीत्यर्थः । धात्वर्थोपसङ्ग्रहे उदाहरति — जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतेस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् । मेघो वर्षतीति । वर्षकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद्यो न संशृणुते = स्वरहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिन्नकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणोऽविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्रोर्वेति ।आत्मनेपद॑मिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूह्योः सकर्मकत्वनियमादिति भावः ।
SK 2702 · A 7.4.23V
उपसर्गाद्ध्रस्व ऊहतेः ॥ २७०२ ॥
upasargāddhrasva ūhateḥ
Siddhānta-kaumudī
यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥
Bālamanoramā
उपसर्गाद्ध्रस्व ऊहतेः - उपसर्गाद्ध्रस्व ऊहतेः । 'यादौ क्ङिति' इति शेषपूरणम् । 'अयडि क्ङिति' इत्यतस्तदनुवृत्तेरिति भावः । ब्राहृ समुह्रादिति । ऊह वितर्के । सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रस्वः । अग्न समुह्रेति । परितः संमृज्येत्यर्थः । क्त्वादेशस्य ल्यपः कित्त्वमिति भावः ।
SK 2703 · A 1.3.30V
निसमुपविभ्यो ह्वः ॥ २७०३ ॥
nisamupavibhyo hvaḥ
Siddhānta-kaumudī
निह्वयते ॥
Bālamanoramā
निसमुपविभ्यो ह्वः - निसमुपवि । ह्वेञः कृतात्त्वस्य ह्व इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते । उपह्वयते । विह्वयते । अकत्र्रभिप्रायार्थमिदम् ।
SK 2704 · A 1.3.31V
स्पर्द्धायामाङः ॥ २७०४ ॥
sparddhāyāmāṅaḥ
Siddhānta-kaumudī
कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥
Bālamanoramā
स्पर्धायामाङः - अथ स्वारितसंज्ञामाह-समाहारः स्वरितः । पूर्वसूत्राभ्यामुदात्त इति अनुदात्त इति चानुवर्तते । ऊकालोऽजित्यस्मादजित्यनुवर्तते । ततश्चोदात्तोऽनुदात्तश्च अच समाह्यियमाणः स्वरित इत्यर्थः प्रतीयते । एवं सति वर्णद्वयस्य स्वरितसंज्ञा स्यान्न त्वेकस्य । अतो नैवमर्थः । किंतु उदात्तानुदात्तपदे अनुवृत्ते धर्मप्रधाने षष्टन्ततया च विपरिणम्येते । यत्र समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः ।
SK 2705 · A 1.3.32V
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ॥ २७०५ ॥
gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ
Siddhānta-kaumudī
गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥
Bālamanoramā
गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः - गन्धनावक्षेपण ।आत्मनेपदमकत्र्रभिप्रायेऽपी॑ति शेषः । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचयतीति । परदोषमाविषकरोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः , हिंसाया असत्त्वादित्यत आह — सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका - शकुनिविशेषः । साहसिक्ये उदाहरति — परदारान् प्रकुरुते इति । साहसप्रवृत्तिविषयीकरोतीत्यर्थः । सहसा वर्तते साहसिकः ।ओजस्सहोऽम्भसा वर्तते॑ इति ठक् । तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम् । तदाह — तेषु सहसा प्रवर्तते इति । फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति । एधशब्दोऽदन्तःअवोदैधौद्मप्रश्रथहिमश्रथाः॑ इति सूत्रे निपातितः । एधश्च उदकं चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः । एधश्च दकं चेति विग्रहः । दकशब्द उदकवाची ।प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च॑ इति हलायुधः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि॑त्यमरः । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह — गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम् ।
SK 2706 · A 1.3.33V
अधेः प्रसहने ॥ २७०६ ॥
adheḥ prasahane
Siddhānta-kaumudī
प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ॥
Bālamanoramā
अधेः प्रसहने - अधेः प्रसहने । अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः ।
SK 2707 · A 1.3.34V
वेः शब्दकर्मणः ॥ २७०७ ॥
veḥ śabdakarmaṇaḥ
Siddhānta-kaumudī
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥
Bālamanoramā
वेः शब्दकर्मणः - वेः शब्दकर्मणः । शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः ।
SK 2708 · A 1.3.35V
अकर्मकाच्च ॥ २७०८ ॥
akarmakācca
Siddhānta-kaumudī
वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥
Bālamanoramā
अकर्मकाच्च - अकर्मकाच्च । वेः कृञ इत्यवेति । तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । 'विकुर्वते' इत्येतद्व्याचष्टे — विकारं लभन्ते इति । लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम् ।
SK 2709 · A 1.3.36V
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ २७०९ ॥
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ
Siddhānta-kaumudī
अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥
Tattvabodhinī
NSP p. 468
—संमानन—उपनयनपूर्वकेणेति । उपनयनं वटुसंस्कारः । तस्य परगामिलात्परस्मैपदे प्राप्ते अनेनात्मनेपदं विधीयते । नह्युपनयनमात्रेण आचार्यलं भवति किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधिलं परंपरया ज्ञेयम् । ‘उपनीय ददद्वेदमाचार्यः स उदाहृतः’ इति स्मृतिः
Bālamanoramā
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः - संमननोत्सञ्जना । एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति । संमाननाऽऽचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । संमानने उदाहरति — शास्त्रे नयते इति । अत्र णीञ् प्रापणार्थकः ।सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः । उत्सञ्जने इति । 'उदाह्यियते' इति शेषः । उत्सञ्जनमुत्क्षेपः । उत्क्षिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामर्थ्यात् । तदाह - विधिना आत्मसमीपं प्रापयतीति । तत्राऽऽचार्यकरणस्यार्थिकत्वमुपपादयति — उपनयनपूर्वकेणेति ।माणवकमुपनयीत,तमध्यापयीते॑त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते,उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ इतिस्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति — कर्मकरानुपनयते इति । भृतिः = वेतनं । तदर्थ#ं कर्म करोतीति कर्मकरः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपप्रापणार्थकः । तदाह — राज्ञे देयं भागंपरिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति — शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह — विनियुङ्क्ते इत्यर्थ इति ।
SK 2710 · A 1.3.37V
कर्तृस्थे चाशरीरे कर्मणि ॥ २७१० ॥
kartṛsthe cāśarīre karmaṇi
Siddhānta-kaumudī
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित SK 2158 इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥
Tattvabodhinī
NSP p. 468
—कर्तृस्थ—॥—कर्मणीति । आत्मगामिनि क्रियाफले इत्यर्थः
Bālamanoramā
कर्तृस्थे चाशरीरे कर्मणि - कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह — सूत्रे इति । शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह — तत्फलस्येत्यादि । गडुं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तर्हीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः ।
SK 2711 · A 1.3.38V
वृत्तिसर्गतायनेषु क्रमः ॥ २७११ ॥
vṛttisargatāyaneṣu kramaḥ
Siddhānta-kaumudī
वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥
Tattvabodhinī
NSP p. 468
—वृत्तिसर्ग—। तायृ सन्तानपालनयोः । तायनं स्फीतता तदाह—स्फीतानीति । प्रवृद्धानीत्यर्थः ॥—वैः पादः—। यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थलादेवमुक्तम्
Bālamanoramā
वृत्तिसर्गतायनेषु क्रमः - वृत्तिसर्ग ।आत्मनेपद॑मिति शेषः । तायने उदाहरति — क्रमन्तेऽस्मिन्निति । तायनं = वृद्धिः । तदाह — स्फीतानीति ।
SK 2712 · A 1.3.39V
उपपराभ्याम् ॥ २७१२ ॥
upaparābhyām
Siddhānta-kaumudī
वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥
Tattvabodhinī
NSP p. 468
—प्रोपाभ्याम्—। प्रोपाभ्यां प्रारम्भे इत्येव मुक्तम् ॥—उपक्रामतीति । वृत्त्याद्यर्थेष्वेवोपपराभ्यामिति प्रवृत्तेर्नात्रात्मनेपदं शङ्कामिति भावः ॥—वृत्त्यादौ त्विति । न च वृत्त्यादिसूत्रं सोपसर्गं चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेपि विभाषैवास्त्विति वाच्यम् । उपपराभ्यामिति नियमस्योक्तलात्
Bālamanoramā
उपपराभ्याम् - राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । 'विप्रश्न' इत्येतद्व्याचष्टे — विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्ग इति । गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ 'ईक्ष दर्शने॑ । इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, 'यस्य विप्रश्न' इति लिङ्गात् । तदाह — शुभाशुभं पर्योलोचयतीत्यर्थ इति । अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथाराधोऽकर्मकादि॑ति नियमाच्छ्यन्न स्यात् । एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः । कृष्णस्य संप्रदानत्वं । षष्ठपवादः ।
SK 2713 · A 1.3.40V
आङ उद्गमने ॥ २७१३ ॥
āṅa udgamane
Siddhānta-kaumudī
आक्रमते सूर्यः । उदयत इत्यर्थः ।
vārttika
ज्योतिरुद्गमन इति वाच्यम्
(वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥
SK 2714 · A 1.3.41V
वेः पादविहरणे ॥ २७१४ ॥
veḥ pādaviharaṇe
Siddhānta-kaumudī
साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥
Bālamanoramā
वेः पादविहरणे - पादविहरणं = पादविक्षेपः । तद्वृतेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः ।
SK 2715 · A 1.3.42V
प्रोपाभ्यां समर्थाभ्याम् ॥ २७१५ ॥
propābhyāṃ samarthābhyām
Siddhānta-kaumudī
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥
Bālamanoramā
प्रोपाभ्यां समर्थाभ्याम् - प्रोपाभ्याम् ।क्रम आत्मनेपद॑मिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह — समर्थौ तुल्यार्थाविति । सवर्णदीर्घमाशङ्क्य आह — शकन्ध्वादित्वादिति । ननु 'प्रक्रमते' इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह — प्रारम्भेऽनयोस्तुल्यार्थतेति । तथाच आरम्भार्थकाम्यामिति फलितमिति भावः ।
SK 2716 · A 1.3.43V
अनुपसर्गाद्वा ॥ २७१६ ॥
anupasargādvā
Siddhānta-kaumudī
क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥
Bālamanoramā
अनुपसर्गाद्वा - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।
SK 2717 · A 1.3.44V
अपह्नवे ज्ञः ॥ २७१७ ॥
apahnave jñaḥ
Siddhānta-kaumudī
शतमपजीनीते । अपलपतीत्यर्थः ॥
Bālamanoramā
अपह्नवे ज्ञः - अपह्नवे ज्ञः । अपह्नवः = अपलापः । तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः ।
SK 2718 · A 1.3.45V
अकर्मकाच्च ॥ २७१८ ॥
akarmakācca
Siddhānta-kaumudī
सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ॥
Tattvabodhinī
NSP p. 468–469
—अकर्मकाच्च । ‘अनुपसर्गाज्ज्ञः’ इत्यनेनैव सिद्धे सर्पिषोऽनुजानीते इत्यादिसोपसर्गार्थमिदं सूत्रम् ॥ भासनोपसंभाषा । एषु किम् । यत्किञ्चिद्वदति ॥—अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापसंयेति तुल्यार्थयोगे शेषलक्षणा षष्ठी
Bālamanoramā
अकर्मकाच्च - अकर्मकाच्च ।ज्ञ आत्मनेपदटमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते ।ज्ञोऽविदर्थस्य करणे॑ इति तृतीयार्थे षष्ठी । तदाह — सर्पिषोपायेन प्रवर्तते इति । 'अनुपसर्गाज्ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते ।
SK 2719 · A 1.3.46V
सम्प्रतिभ्यामनाध्याने ॥ २७१९ ॥
sampratibhyāmanādhyāne
Siddhānta-kaumudī
शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च SK 2718 इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥
Bālamanoramā
संप्रतिभ्यामनाध्याने - ॒ज्ञ आत्मनेपद॑मिति शेषः । अवेक्षते इत्यर्थ इति । अकर्मकत्वाऽभावात् पूर्वेणाऽप्राप्तिरिति भावः । अनाध्याने किम् मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकंस्मरणमाध्यानम् । ननु यदा आध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजानातीति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । ततर्संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदस्याऽप्रवृत्तावपिअकर्मकाच्चे॑ति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मतारं संजानातीति सकर्मके चरितार्थत्वादित्यत आह — अनाध्याने इति योगो विभज्यते इति । ततश्चसंप्रतिभ्या॑मित्येको योगः ।संप्रतिपूर्वाज्ज्ञ आत्मनेपदमित्यर्थः । 'अनाध्याने' इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थ- । ततः किमित्यत आह — अकर्मकाच्चेति प्राप्तिरपि बाध्यते इति । ननु अनन्तरस्येति न्यायेनसम्प्रतिभ्या॑मित्यस्यैव बाधो युक्त इत्यत आह — तत्सामर्थ्यादिति । एकसूत्रत्वेनैव सिद्धे अनाध्याने इति योगविभागाद्व्यवहितस्यापि बाध इत्यर्थः । ननुमातरं मातुर्वा संजानाती॑त्यत्र मातुः कर्मत्वाद्द्वितीयैव युक्तेत्यत आह — कर्मणः शेषत्वविवक्षायां षष्ठीति । नचैवमपिअधीगर्थदयेशां कर्मणि॑ इति षष्ठएव स्यान्नतु द्वितीयेति वाच्यम्, तत्र शेष इत्यनुवर्त्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वात्अधीगर्थे॑ति व्यर्थमिति वाच्यम्,मातुः स्मरण॑मित्यादौ शेषष्ठ्याः समासाऽभावार्थत्वादिति कारकाधिकारे प्रपञ्चितम् ।
SK 2720 · A 1.3.47V
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ २७२० ॥
bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ
Siddhānta-kaumudī
उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥
Bālamanoramā
भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः - भासनोपसंभाषा ।आत्मनेपद॑मिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदंसम्माननोत्सञ्जने॑त्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा इति । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति - विषसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः । तदाह — प्रार्थयते इत्यर्थ इत ।
SK 2721 · A 1.3.48V
व्यक्तवाचां समुच्चारणे ॥ २७२१ ॥
vyaktavācāṃ samuccāraṇe
Siddhānta-kaumudī
मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥
Bālamanoramā
व्यक्तवाचां समुच्चारणे - व्यक्तवाचाम् । व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः । समित्येकीबावे । तदाह — मनुष्यादीनामिति । संप्रवदन्ते ब्राआहृणा इति । संप्रवदन्ते ब्राआहृणा इति । संभूयोच्चारयन्तीत्यर्थः ।
SK 2722 · A 1.3.49V
अनोरकर्मकात् ॥ २७२२ ॥
anorakarmakāt
Siddhānta-kaumudī
व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ॥
Bālamanoramā
अनोरकर्मकात् - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् ।
SK 2723 · A 1.3.50V
विभाषा विप्रलापे ॥ २७२३ ॥
vibhāṣā vipralāpe
Siddhānta-kaumudī
विरूद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ॥
Tattvabodhinī
NSP p. 469
—विभाषा विप्रलापे । अप्राप्तविभाषा
Bālamanoramā
विभाषा विप्रलापे - विभाषा विप्रलापे ।व्यक्तवाचां समुच्चारणे॑ इत्यनुवर्तते । विरुद्धोक्तिर्विप्रलापः । तदाह — विरुद्धोक्तिरूपे इति ।
SK 2724 · A 1.3.51V
अवाद्ग्रः ॥ २७२४ ॥
avādgraḥ
Siddhānta-kaumudī
अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥
Bālamanoramā
अवाद्ग्रः - अवाद्ग्रः । आत्मनेपद॑मिति शेषः । 'गृ' इत्यस्य 'ग्र' इति पञ्चमी ।प्रकृतिवदनुकरण॑मित्यस्याऽनुत्यत्वात्ऋत इद्धातो॑रिति न भवति । तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् ।अवगृणाती॑त्यत्राप्यात्मनेपदमाशङ्क्य आह — गृणातिस्त्विति । एवं च तुदादेरेव ग्रहणमिति भावः ।
SK 2725 · A 1.3.52V
समः प्रतिज्ञाने ॥ २७२५ ॥
samaḥ pratijñāne
Siddhānta-kaumudī
शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥
Bālamanoramā
समः प्रतिज्ञाने - समः प्रतिज्ञाने । गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् - अभ्युपगमः । सङ्गिरति ग्रासमिति । भक्षयतीत्यर्थः ।
SK 2726 · A 1.3.53V
उदश्चरः सकर्मकात् ॥ २७२६ ॥
udaścaraḥ sakarmakāt
Siddhānta-kaumudī
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥
Bālamanoramā
उदश्चरः सकर्मकात् - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः ।
SK 2727 · A 1.3.54V
समस्तृतीयायुक्तात् ॥ २७२७ ॥
samastṛtīyāyuktāt
Siddhānta-kaumudī
रथेन संचरते ॥
Bālamanoramā
समस्तृतीयायुक्तात् - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते ।
SK 2728 · A 1.3.55V
दाणश्च सा चेच्चतुर्थ्यर्थे ॥ २७२८ ॥
dāṇaśca sā ceccaturthyarthe
Siddhānta-kaumudī
संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥
Bālamanoramā
दाणश्च सा चेच्चतुर्थ्यर्थे - दाणश्च सा ।समस्तृतीयायुक्ता॑दित्यनुवर्तते । तदाह — संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते । तदाह — तृतीया चेदिति । दास्या संयच्छते इति ।अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या॑ इति तृतीया । ननुरथेन समुदाचरते इत्यत्रसमस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात्त्समादित्युत्तरस्ये॑ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात् । तथादास्या संप्रयच्छते॑ इत्यत्रापिदाणश्च सा चे॑दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह — पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठआ पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठआश्रयणेनेत्यर्थः । सूत्रद्वयमिति ।समस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्थस्य षष्ठन्तस्यैव समःदाणश्चे॑ति सूत्रेऽप्यनुवृत्तेरिति भावः ।
SK 2729 · A 1.3.56V
उपाद्यमः स्वकरणे ॥ २७२९ ॥
upādyamaḥ svakaraṇe
Siddhānta-kaumudī
स्वकरणं स्वीकारः । भार्यामुपयच्छते ॥
Tattvabodhinī
alignment inferredNSP p. 469
—स्वकरणं स्वीकार इति । स्वकरण-मित्यत्र चित्रनं भवति ‘समर्थानां प्रथमाद्वा’ इति विकल्पात् । स्वकरणशब्देन भार्यास्वीकारो गृह्यते इति वृत्तिकृत् । भट्टिसुं स्वीकारमात्रेऽपि प्रायुङ्क्त ‘उपायंस्त महास्त्राणि’ इति
Bālamanoramā
उपाद्यमः स्वकरणे - उपाद्यमः ।आत्मनेपद॑मिति शेषः । ननुस्वं वरुआमुत्पादयती॑त्यर्थेवस्त्रमुपयच्छती॑त्यत्राप्यात्मनेपदं स्यादित्यत आह — स्वकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः । च्विप्रत्ययस्तु वैकल्पिकः,समर्थानां प्रथमाद्वे॑त्युक्तेरिति भाष्ये स्पष्टम् ।
SK 2730 · A 1.2.16कित्त्वातिदेशः
विभाषोपयमने ॥ २७३० ॥
vibhāṣopayamane
Siddhānta-kaumudī
यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥
Tattvabodhinī
alignment inferredNSP p. 469
—गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्च ‘नवेति विभाषा’ सूत्रे भाष्ये उक्तः ॥—नित्यं कित्वमिति । ‘यमो गन्धने’ इति पूर्वसूत्रेणेत्यर्थः
SK 2731 · A 1.3.57V
ज्ञाश्रुस्मृदृशां सनः ॥ २७३१ ॥
jñāśrusmṛdṛśāṃ sanaḥ
Siddhānta-kaumudī
सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥
Tattvabodhinī
NSP p. 469
—ज्ञाश्रुस्मृ—। ‘अपहवे ज्ञः’ इत्यादिनां ज्ञाधातोः ‘अर्तिश्रुद्दशिभ्यश्च’ इति श्रुद्दशिभ्यां चात्मनेपदे कृते तस्मिन्विषये ‘पूर्ववत्सनः’ इत्यनेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम् ॥—निविविक्षत इति । ‘निर्विशः’ इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम्
Bālamanoramā
ज्ञाश्रुस्मृदृशां सनः - ज्ञानश्र । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपिअपह्नवे ज्ञः, 'अकर्मकाच्च'सम्प्रतिभ्यानाध्याने॑ इति सूत्रैः,अर्तिश्रुदृशिभ्यश्चे॑ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्,तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति — धर्मं जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ।अज्झनगमां सनी॑ति दीर्घः ।इको झ॑लिति सनः कित्त्वम् ।श्र्युकः किती॑ति इण्निषेधः । सुस्मूर्षते इति । स्मृधातोः सनिअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वेहलि चे॑ति दीर्घः ।
SK 2732 · A 1.3.58V
नानोर्ज्ञः ॥ २७३२ ॥
nānorjñaḥ
Siddhānta-kaumudī
पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सनः SK 2734 इति तङ् । अकर्मकाच्च SK 2718 इति केवलाद्विधानात् ॥
Bālamanoramā
नानोर्ज्ञः - नानोर्ज्ञः । अनुपूर्वाज्ज्ञाधातोः सन्नन्तान्नात्मनेपदमित्यर्थः । पुत्रमनुजिज्ञासतीति । अनुज्ञातुमिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थेसर्पिषोऽनुजिज्ञासते॑ ईत्यत्रापिअपह्नवे ज्ञः॑,अकर्मकाच्चे॑त्यात्मनेदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह — पूर्वसूत्रस्थेवेति । एवं चसर्पिषोऽनुजिज्ञासते॑ इत्यत्रअकर्मकाच्चे॑त्यात्मनेपदं निर्बाधमिति भावः । ननुअकर्मकाच्चे॑ति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथममात्मनेपदलाभ इत्यत आङ — पूर्ववदिति । केवलात्सन्विहीनाज्ज्ञाधातोरात्मनेपदविधानात्सन्न्नतादपि तस्मात् 'पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः ।
SK 2733 · A 1.3.59V
प्रत्याङ्भ्यां श्रुवः ॥ २७३३ ॥
pratyāṅbhyāṃ śruvaḥ
Siddhānta-kaumudī
आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रवचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः SK 2362 म्रियतेर्लुङलिङोश्च SK 2538 व्याख्यातम् ॥
Bālamanoramā
प्रत्याङ्भ्यां श्रुवः - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः ।
SK 2734 · A 1.3.62सन्नन्तपदनिर्णयातिदेशः
पूर्ववत् सनः ॥ २७३४ ॥
pūrvavat sanaḥ
Siddhānta-kaumudī
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः SK 2362 SK 2528 इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य SK 2240 एधांचक्रे ॥
Tattvabodhinī
alignment inferredNSP p. 469
—सनो नेत्यनुवर्त्येति । ‘नानोर्ज्ञः’ ‘पूर्ववत्सनः’ इति सूत्राभ्यामिति शेषः
Bālamanoramā
पूर्ववत् सनः - पूर्ववत्सनः । पूर्वेणेव पूर्ववत् ।तेन तुल्यटमिति तृतीयान्तद्वतिः । पूर्वशब्देन सन्प्रकतिर्विवक्षिता । तदाह — सनः पूर्व इत्यादि । एदिधिषते इति । सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम् । ननु 'शदेः शितः'म्रियतेर्लुङ्लङोश्चे॑त्यस्य ग्रहणम् ।शदे॑रित्यादिसूत्रद्वये 'पूर्ववत्सनः' इति, 'नानोर्ज्ञः' इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह — वाक्यभेदेनेति । 'शदेः शितः' म्रियतेर्लुङ्लिङोश्चे॑त्येकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति ।सनो ने॑त्यपरं वाक्यम् । शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम् । तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः ।
SK 2735 · A 1.3.64V
प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ २७३५ ॥
propābhyāṃ yujerayajñapātreṣu
Siddhānta-kaumudī
प्रयुङ्क्ते । उपयुङ्क्ते ।
vārttika
स्वराद्यन्तोपसर्गादिति वक्तव्यम्
(वार्तिकम्) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ॥
Bālamanoramā
प्रोपाभ्यां युजेरयज्ञपात्रेषु - प्रोपाभ्यां ।आत्मनेपद॑मिति शेषः । स्वरेति । स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः । तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति । द्वन्द्वं द्विशः, न्यञ्चि — अधोबिलानीत्यर्थ- ।
SK 2736 · A 1.3.65V
समः क्ष्णुवः ॥ २७३६ ॥
samaḥ kṣṇuvaḥ
Siddhānta-kaumudī
संक्ष्णुते शस्त्रम् ॥
Tattvabodhinī
NSP p. 469
—समः क्षणुवः । ‘समो गम्यु च्छिक्षणुभ्यः’ इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्थं इति ध्वनयनुदाहरति—संक्षणुते शस्त्रमिति
Bālamanoramā
समः क्ष्णुवः - समः क्ष्णुवः ।आत्मनेपद॑मिति शेष॒समो गम्यृच्चिभ्या॑मित्यत्रैवसमो गम्यृच्छिक्ष् णुव॑ इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति — संक्ष्णुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः ।
SK 2737 · A 1.3.66V
भुजोऽनवने ॥ २७३७ ॥
bhujo'navane
Siddhānta-kaumudī
ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥
Tattvabodhinī
NSP p. 469–470
—भुजोऽनवने । अवनं पालनम्, अदने इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम् । संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेर्प्रहणमित्येकम् । अदनादर्थादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयं, तदाह—वुभुजे पृथिवीपाल इति ॥—इहेति । उपभोग इत्युपलक्षणमात्मसात्करणस्यापि । पृथिवीं वुभुजे । स्वाधीनां चकारेत्यर्थः । भुज पालनाभ्यवहारयोरित्यस्य रुधादेरेव प्रहणमिति भुजो कौटिल्य इत्यस्माद्भुदादेः परस्मैपदमेव । पाणिं विभुजति । मूलानि विभुजति ॥—गेरणौ यत्कर्म । आत्मनेपदमित्यधिक्रियते । इहावान्तरवाक्यानि चलारि प्रतीयन्ते । णेरात्मनेपदमित्येकं वाक्यम् । तच्च स्यादित्यन्तेत व्याख्यातम् । अणौ यत्कर्म णौ चेदिति द्वितीयम् । कर्मशब्दः क्रियापरः ‘कर्तरि कर्मव्यतिहारे’ इतिवत् । तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः । एवं स्थिते फलितमाह—सैव चेद् ण्यन्तेनोच्येतेति । स कर्तेति तृतीयं वाक्यम् । अणावित्यादि चेच्छब्दश्चान्तमिहानुवर्तते । कर्मशब्दश्चात्र कारकविशेषपरः । शब्दाधिकाराश्रयणात्तदेतद्याचष्टे—अणौ यदित्यादिना स्यादित्यन्तेन । अनाध्यान इति वाक्यान्तरं व्याचष्टे—न त्विति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः । अस्मिन्पक्षे आध्यानभिन्ने इत्यर्थे सति फलितो न लाध्याने इति नेयः । तथा च अत्र वाक्यत्रयमेवेति वोध्यम् ॥—विकल्प इति । परलात्प्राप्ते इत्युत्तरेणान्वयः
Bālamanoramā
भुजोऽनवने - भुजोऽनवने । अवनं -रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु भुज पालनाऽब्यवहारयो॑ रिति धातुपाठे स्थितम् । तत्रबुभुजे पृथिवी॑मित्यत्र न पालनमर्थः । तथा सति 'अनवने' इति पर्युदासादात्मनेपदाऽयोगात् । नाप्यभ्यवहरणम्, असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथावृद्धो जनो दुःखशतानि भुङ्क्ते॑ इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात् । तत्राह — इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैवभुज पालनाभ्यवहारयो॑रित्यस्य ग्रहणम् — नतु 'भुजो कौटिल्ये' इति तौदादिकस्याऽपीति भाष्यम् । भुजति वासः = कुटिली भवतीत्यर्थः ।
SK 2738 · A 1.3.67V
णेरणौ यत्कर्म णौ चेत् स कर्ताऽनाध्याने ॥ २७३८ ॥
ṇeraṇau yatkarma ṇau cet sa kartā'nādhyāne
Siddhānta-kaumudī
ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौकर्ता स्यान्नत्वनाध्याने । णिचश्च SK 2564 इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेन SK 2744 इति विकल्पे अणावकर्मकात् SK 2754ति परस्मैपदेच परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञाविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्तयोर्द्वितीयचतुर्थ्योस्च तुल्योऽर्थः । तत्र तृतीयाकक्षायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तुत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एमारोहयते हस्तीत्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोरपि प्रेषणयोस्त्यागे । दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षेद्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये SK 2594 व्याख्यातम् ॥
Tattvabodhinī
alignment inferredNSP p. 470–471
—पूर्वविप्रतिषेधेनेति । ‘विभाषोपपदेन—’ इत्यस्यावकाशः । स्वं यज्ञं यजति । स्वं यज्ञं यजते इत्यादि । णेरणावित्यस्य तु दर्शयते राजेत्यादि । तथा ‘अणावकर्मकात्—’ इत्यस्य शेते कृष्णस्तं गोपी शाययतीत्यवकाशः । ‘णेरणौ—’ इत्यस्य तु लावयते केदारः स्वयमेवेति । तत्र हि ल्लयते केदार इति द्वितीयकक्षायामणावकर्मकलादिति भावः । न च पश्यति भव इतिवद्वितीयकक्षायां लुनाति केदार इत्येव प्रयोग इति भ्रमितव्यम् । लवनस्य कर्मस्थक्रियात्वेन ‘कर्मवत्कर्मणा—’ इति यगात्मनेपदप्रवृत्तेः । नव्यास्तु ‘अणावकर्मकात्—’ इत्यस्य वाधे दर्शयते राजेति भाष्यप्रयोगो मानम् । तत्र हि निवृत्तप्रेषणपक्षे दृशेरणावकर्मकलाच्च परस्मैपदप्राप्तेः । ‘विभाषोपपदेन—’ इति विकल्पवाधे तु न किञ्चिन्मानम् । किं च ‘अणावकर्मकात्—’ इत्यस्य वाधेऽपि नास्त्येव प्रमाणम् । पूर्वोक्तभाष्यस्य परगामिनि क्रियाफले चरितार्थलात्तथा च कर्तृगामिनि क्रियाफले परलात् ‘अणावकर्मकात्—’ इत्यस्य प्रवृत्तौ न किञ्चिद्वाधकमस्तीति पूर्वविप्रतिषेधेनेदमेवेष्यत इत्येतच्चिन्त्यमित्याहुः ॥ वस्तुतस्तु ‘णेरणौ—’ इति सूत्रस्याचित्तवत्कर्तृकेऽपि लावयते केदार इत्यादौ चरितार्थलात् ‘अणावकर्मकात्—’ इत्यनेन परगामिनि क्रियाफलेऽपि परलात्परस्मैपदे प्राप्ते दर्शयते राजेति भाष्यप्रयोगवलात्पूर्वविप्रतिषेधाभ्युपगमेन ‘णेरणौ—’ इत्यात्मनेपदप्रवृत्तावपि आत्मार्थं दर्शयते स्वार्थं दर्शयते इत्यादौ परलात् ‘विभाषोपपदेन—’ इत्यस्य प्रवृत्तौ न किञ्चिद्वाधकमस्ति । ततोऽपि परलात् ‘अणावकर्मकात्—’ इति परस्मैपदमेव स्यादिति तद्वाधेन पूर्वविप्रतिषेधे स्वीकृते ‘विभाषोपपदेन—’ इत्यस्याप्यर्थात्पूर्वविप्रतिषेधेन वाधो जात एवेति चेत् एवं तर्हि दर्शयते राजेति भाष्यप्रयोगस्य केवले चरितार्थलात्सोपपदप्रयोगे ‘अणावकर्मकात्—’ इति परस्मैपदमेवास्तु । तत्रापि पूर्वविप्रतिषेधेन ‘णेरणौ—’ इत्यस्य प्रवृत्तौ मानाभावादिति दिक् ॥ ‘कर्मवत्कर्मणा—’ इत्यनेन गतार्थलशङ्कां निरस्यति—कर्तृस्थभावका इति । अपरिसन्दनसाधनसाध्यो धात्वर्थो भावः । सपरिसन्दनसाधनसाध्या तु क्रिया साधनं कारकं तत्साध्यलाद्धात्वर्थस्य । ननु नृत्यन्तं भवं पश्यतीत्यत्र दृशेः कर्तृस्थभावकता न स्यात् किं तु कर्तृस्थक्रियाकतैव स्यात् । न च साधनशब्देन लकारवाच्यं कारकं विवक्षितमिति वाच्यम् । नृत्यन्मवः पश्यतीत्यत्र तद्दोषतादवस्थादिति चेत् । अत्राहुः । आरोहणादौ सपरिसन्द एव देवदत्तादिर्यथा साधनं तथा दर्शनश्रवणादौ न भवति किंतु सन्दनरहितोऽपीति नोक्तदोष इति । कर्तृस्थभावकमुदाहरति—पश्यन्तीति ॥—प्रेरणांशेति । सौकर्यविवक्षयेति भावः ॥—तत इति । त्वक्तप्रेरणांशकाद्धातोरित्यर्थः ॥—पुनर्ण्यर्थस्येत्यादि । न चैवं णिजपि गच्छतीति दर्शयते भव इति न सिद्धेदिति वाच्यम् । उपायनिवृत्तावप्युपेयानिवर्तनादिति कैयटोक्तेः । एवं च स्वार्थं एव णिजिति पर्यवसानादाह—द्वितीयचतुर्थ्योरिति ॥—तुल्योऽर्थ इति । न्यूनाधिकभावरहितः ॥—तत्र तृतीयेति । प्रथमाद्वितीययोस्तु ण्यन्तलाभावात् तद्भः प्रसक्तिरेव नास्तीति भावः ॥—क्रियासाम्येऽपीति । प्रथमकक्षयासहेत्यर्थः ॥—द्वितीयामादायेति । अणौ या क्रिया सैव चेद् ण्यन्ते इत्यस्य न्यूनाधिकभावव्यवच्छेदपरलमभ्युपेत्येदमुक्तम् । यदा लधिकव्यवच्छेदमात्रपरलमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति । इदानीं कर्तृस्थक्रियाकमुदाहरति—एवमित्यादिना ॥—आरोहति हस्तीति । प्रेषणांशलागे उदाहरणमिदम् ॥—ततो णिजिति । निवृत्तप्रेषणाद्धातोः प्रेषणांशविवक्षायां णिजित्यर्थः ॥ पुनर्ण्यर्थस्याविवक्षायामुदाहरणमाह—आरोहयते इति । एवं निवृत्तप्रेषणपक्षमुपपायेदानीमध्यारोपितप्रेषणपक्षमाह—यद्वेति ॥—हेतुत्वारोपादिति । प्रयोजककर्तृलारोपादित्यर्थः । अत्रापि सौकर्यविवक्षैव वीजम् ॥ पश्यत इति । पश्यतो भक्तान् आरोहतो हस्तिपकानिति क्रमेणार्थः ॥—आधिक्यादिति । अस्मिन्पक्षे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनलमपि । अन्यथा तृतीय- कक्षायामपि तङ् न स्यात् । प्रकृत्युपात्तप्रेषणांशस्य लागेन न्यूनतायाः सत्त्वादिति भावः । णेरिति किम् । पश्यलारोहती-लादिनिवृत्तप्रेषणान्माभूत् । न च णौ चेदिति श्रुतलात् ण्यन्तादेव स्यादिति वाच्यम् । अणाविलस्यापि श्रुतलात् । तस्या-प्रिमयोगार्थमवश्यं कर्तव्यस्य साधार्थमिहैव कर्तुमौचित्याच्च । अणौ या क्रिया सैव चेण्ण्यन्ते इति किम् । दर्शयति भवः । आरोहयति हस्तीलघ्नारोपितप्रेषणपक्षे द्वितीयकक्षायां माभूत् । कथं तर्हि ‘करेणुरारोहयते निषादिनम्’ इति माघप्रयोगः ‘स सन्ततं दर्शयते गतस्यः कृताधिपत्यामिव साधुवन्धुताम्’ इति भारविप्रयोगश्च संगच्छत् इति चेत् । अत्राहुः । ‘णिचश्च’ इत्यनेन क्रियाफले कर्तृगामिनि तङ् न तु प्रकृतसूत्रेणेति । अणौ यत्कर्म कारकं णौ चेत्स कर्तेति किम् । दर्श-यन्ति भवमिति निवृत्तप्रेषणपक्षे तृतीयकक्षायां माभूत् ॥—स्मरति वनगुल्ममिति । पक्षद्वयेऽपीयं प्रथमकक्षा ॥—स्मरयति वनगुल्म इति । निवृत्तप्रेषणपक्षे चतुर्थकक्षेयम् । अध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम् । केचित्तु एतत्सू-त्रस्थे भाष्ये दर्शयते भूत्यान् राजेत्युदाहरणं स्मरयत्येन वनगुल्म इति प्रत्युदाहरणं च दृश्यते । ततश्च अध्यारोपितप्रेष-णपक्षे द्वितीयकक्षायामेवानेनात्मनेपदं भवति न तु तृतीयकक्षायामिति प्रतीयते । तथा च कर्मपदमावत्यं तस्य क्रियावा-चित्वं स्वीकृत्याणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाधिक्यं न व्यवच्छिद्यते किं तु न्यूनतैवेत्यसादेव भाष्यादवगम्यते । एवं च दर्शयते भवः आरोहयते हस्तीति कर्मप्रयोगरहितं मूलग्रन्थसोदाहरणं स्मरयति वनगुल्म इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः । अन्यैस्त्वविवक्षितमिह कर्मेत्युक्त्वाऽत्र मूलग्रन्थाविरोधेनैव भाष्यग्रन्थः समर्थितः । तेषामयमाशयः । गभीरायां नद्यां घोष इत्यत्र गभीरा भिन्ननद्यामिति गभीरनदीपदार्थयोरमेद-वोधानन्तरं तीरलक्षणायां तीरस्य गभीरलाभावान्नद्यास्तु गभीरत्वेऽप्येकदेशान्वयासंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकवोधमादाय सार्थकं तद्विहितापि अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्यन्वितं ततो णिजर्थस्येव कर्म-णोऽपि लागे णिचः कर्मपदस्य च प्राथमिकवोधमादाय सार्थक्यम् । स्ववोध्यसंवन्धो दक्षणेत्यभ्युपगमात् । विशिष्टवाक्या-र्थस्य चेह वोध्यत्वेन तत्संवन्धस्य वोधकतारूपस्य वाक्ये सत्त्वात् । एवैवार्थवादः प्राशस्त्यलक्षणाया गतिः । अन्यथा ‘वायव्यं श्वेतमालमेत भूतिकामः’ इत्यादिविधिवाक्यस्य योऽर्थवादः ‘वायुर्वै क्षेपिष्ठा देवता’ वायुमेव स्वेन भागधेयेनोपधा-वति’ ‘स एवैनं भूतिं गमयति’ इत्यादिस्तत्र वायुमेव स्वेन भागधेयेन स एवैनमित्यादिरूपस्य विभक्तिमेदेन प्रयोगस्य वैयर्थ्यं स्यादिति । नन्वेतत्सूत्रसोदाहरणं च यथाश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनेन विद्यमानकर्मणोऽविवक्षित-त्वोपपादनक्लेशेनेति चेत् । मैवम् । निवृत्तप्रेषणपक्षे दर्शयते भव इत्याद्युदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्ते-व्यतया तदैकरूपस्यास्मिन्नपि पक्षे अकर्मकोदाहरणप्रत्युदाहरणयोः सिद्धये कर्मणोऽविवक्षितलव्याख्याया उचितलात् । किंच ‘कर्मवत्कर्मणा’—इत्यनेनैव सिद्धे कर्तृस्थभावक्रियार्थं सूत्रमिति भाष्यग्रन्थस्वारस्यादप्यकर्मकमेवोदाहरणं प्रत्युदाहरणं चायाति । न च ‘कर्मवत्कर्मणा’—इति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्वाधिक्यमिति स्वीकृते नास्ति भाष्यग्रन्थस्वारस्यभङ्ग इति वाच्यम् । तथा हि सति कर्मवत्कर्मस्थक्रिय इत्युक्तेऽपि कर्मस्था क्रिया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात् तत्समीहितसिद्धौ कर्मणा तुल्यक्रिय इत्यस्य वैयर्थ्यापत्तेः । द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायाश्च न्यगभवनविषयकप्रेरणायाश्च क्रमेण सत्वेऽपि विषयत्वापत्तिरूपाया न्यगभवनरूपायाश्च कर्मस्थक्रियायाः सत्त्वात् । यदि तु ‘कर्मणा तुल्यक्रियः’ इत्येतत्सार्थक्याय तुल्यशब्देनात्र न्यूनाधिकव्यवच्छेदः क्रियत इत्युच्यते, तदा कर्मवत्कर्मणेति सूत्रस्य द्वितीयकक्षायामप्रवृत्तेः कर्मवत्कर्मणेत्यनेनैव सिद्ध इत्यादिभाष्यग्रन्थस्वारस्यभङ्गो भवत्येव । ततश्च अध्यारोपितप्रेषणपक्षे तृतीयकक्षायामेवोदाहरणम् । न तु द्वितीयकक्षायामित्यभ्युपगन्तव्यम् । एतेनाध्यारोपितप्रेषणपक्षे णौ चेत्सा क्रियेत्यनेनाधिक्यमात्रं व्यवच्छिद्यते न्यूनत्वं नेत्यत्र विनिगमनाभावान्न्यूनलव्यवच्छेद एव स्वीकृते द्वितीयकक्षायां तङ् दुर्वार इति न्यूनाधिकव्यवच्छेद एव प्राह्यस्तेन कक्षाचतुष्टयपक्ष एव साधीयानिति वदन्तः परास्ताः । दर्शयते भूत्यान् राजेति भाष्योदाहरणवलेन अध्यारोपितपक्षस्यैव प्रवललादिति दिक् ॥—गृधि वञ्चयोः प्रलम्भने । अकर्त्रभिप्रायार्थं आरम्भः
Bālamanoramā
णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने - णेरणौ । इह चत्वार्यवान्तरवाक्यानि ।णे॑रिति प्रथमं वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदमित्यधिकृतं । तदाह — ण्यन्तादात्मनेपदं स्यादिति ।अणौ यत्कर्म णौ चे॑दिति द्वितीयं वाक्यम् ।कर्तरि कर्मव्यतिहारे॑ इतिवत्कर्मशब्दोऽत्र क्रियापरः । यत्तदोर्नित्यसम्बन्धात्तदिति लभ्यते । तथा च द्वितीयं वाक्यम् । तथा च अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वतर् अणौ क्रियायाण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम् । तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह — अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत ।स कर्ते॑ति तृतीयं वाक्यम् । अत्रअणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति । अत्र तच्छब्दस्य विदेयसमर्पककर्तृशब्दानुसारेण पुंलिङ्गता ज्ञेया,शैत्यं हि यत्सा प्रकृतिर्जलस्ये॑तिवत् । अथअनाध्याने॑ति चतुर्तं वक्यं व्याचष्टे — न त्वाध्याने इति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु आध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन सम#आसाऽसंभवात्पर्युदास एवाऽयम् । 'न त्वाध्याने' इतिमूलं तु फलितार्थकथनपरमेव । तथा च आध्यानभिन्नेऽर्थे विद्यमानाण्ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात्रीण्येवाऽतवाक्यानीति युक्तम् ।वाक्यत्रय॑मित्येव च भाष्ये दृश्यते । ननुणिचश्चे॑ति सिद्धे किमर्थमिदं सूत्रमित्यत आह — णिचश्चेतीति । परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः । स्यादेतत् ।विभाषोपपदेन प्रतीयमाने॑ इति सूत्रं वक्ष्यते । कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तदुपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः ।स्वं यज्ञं यजति यजते वे॑त्याद्युदाहरणम् । 'णेरणौ' इत्स्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यते इत स्थितिः । तत्रदर्शयते भवः स्वयमेवे॑त्यत्र फलस्य कर्तृगामित्वविवक्षायांणेरणा॑विति नित्यमात्मनेपदमिष्यते । तत्र परत्वात्विभाषोपपदेने॑ति विकल्पः स्यात्, 'णेरणौ' इत्स्य फले आत्मगामित्वगमकोपपदाऽभावे सावकाशत्वात् । किंचअणावकर्मकाच्चित्तवत्कर्तृका॑दिति वक्ष्यते । अण्यन्ते यो धातुरकर्मकः, चित्तवत्कर्तृकश्च तस्माण्ण्यन्तात् परस्मैपदं स्यादिति तदर्थः । शेते कृष्णः । तं गोपी शाययतीत्युदाहरणम् । णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणविषय इति स्थितिः । तत्र लूधातोर्लुनाति केदारं देवदत्त इत्यतर्चित्तवत्कर्तृकत्वात्, लूयते केदार इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च 'लावयते केदार' इति ण्यन्तात् 'णेरणौ' इत्यात्मनेपदं बाधित्वा पर्तवात्अणावकर्मका॑दिति परस्मैपदमेव स्यात्, णेरणावित्यस्य दर्शयतेभव इत्यत्र सावकाशत्वादित्यत आह — कत्र्रभिप्राये त्विति । पूर्वविप्रतिषेधेनेति । पूर्वविप्रतिषेधाश्रयणे 'राजा दर्शयते' इति भाष्यप्रयोगो मानम्, अन्यथा तत्रअणावकर्मका॑दिति परस्मैपदापत्तेः, दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वाच्चित्तवत्कर्तृकत्वाच्च ।विभाषोपपदेने॑ति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तुदर्शयते राजे॑ति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति । एवं च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किंचिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्त्यमित्याहुः । तच्चिन्त्यम्,अणावकर्मका॑दित्यस्य परगामिन्यपि फले परत्वात्प्रवृत्तेर्दुर्वारत्वात् । नह्रणावकर्मकादित्यत्र कत्र्रभिप्राय इत्यस्ति,स्वरितञितः कत्र्रभिप्राये॑ इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यतत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्यकर्मवत्कर्मणे॑ति कर्मवद्भावात्भावकर्मणो॑रित्यात्मनेपदसिद्धेः 'णेरणौ' इति सूत्रं व्यर्थमित्यत आह — कर्तृस्थेति । कर्तृस्थो भावो येषां ते कर्तृस्थकभावकाः, कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणे' त्यस्य तु कर्मस्थभावकाः, कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणे' ति सूत्रे च भाष्ये स्पष्टम । अतो विषयभेदात्कर्मवत् कर्मणे॑त्यनेनणेरणौ॑इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः । यथा दर्शनश्रवणादिः । सपरिस्पन्दनसाधनसाध्यो धात्वर्थः । क्रिया । यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवाऽत्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति — पश्यन्ति भवं भक्ता इति । सकर्मकेषु धातुषु फलव्यापारयोर्धातुर्वर्तते । यथा पचेर्विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादिव्र्यापारः । धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म । यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरण्तवात् । अतो दृशेश्चाक्षुज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः । तत्र ज्ञानविषत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्ापारो देवदत्तनिष्ठः । एवं च प्रयत्नादिव्यापारव्यधिकणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते । तदेतदाह — चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थ इति । प्रेरणेति । यदा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितो न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशस्तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः । सौकर्यातिशयविवक्षया अनुकूलव्यापारांऽशस्य अविवक्षा बोध्या । तथा च चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव । तदाह — विषयो भवतीत्यर्थ इति । लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः । नचाऽत्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात्कर्मवत्ककर्मणा तुल्यक्रियः॑ इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यं,कर्मवत्कर्मणे॑त्यस्य कर्मस्थभावकेषु, कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शबादिकमेवेति भावः । तत इति । कृञ्धातुगम्यं पेरषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः । दर्शयन्ति भवं भक्ता इति । चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थ- । तदाह — पश्यन्तीत्यर्थ इति । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । पुनरिति । चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थकेदर्शयन्ति भवं भक्ता॑ इत्युक्तोदाहरणे णिजर्थस्य आपादनांऽशस्याऽविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति 'दर्शयते भव' इत्युदाहरणमित्यर्थः । अत्र ण्यन्तस्यप्रेरणारहिऽथ लक्षणा । 'गङ्गायां घोष' इत्यत्र टाप इव णिचः स्थितिः । चुरादेराकृतिगणत्वात्स्वार्थिको णिजित्यन्ये । इहेति । अवस्था = पदविशेषात्मकावयवसंनिवेशविशेषः । प्रथमा च तृतीया च प्रथमतृतीये । तयोरवस्थयोरिति विग्रहः ।सर्वनाम्नो वृत्तिमात्रे॑ इति प्रथमाशब्दस्य पुंवत्त्वम् । पश्यन्ति भवं भक्ता इति प्रथमावस्था । पदविशेषसंदर्भ इति यावत् । अवस्थैव कक्ष्येति व्यवहरिष्यते मूले । कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा रामायणे — आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारय॑दित्यादि । इदं च प्रथमवाक्यं प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांऽशत्यागसय् प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याऽभावे असंभवात् । प्रेरणांऽशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य प्रवेशापत्तेः । तृतीयं वाक्यं त्विदं दर्शयन्तीति — ण्यर्थस्याऽविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्य्समानार्थकस्य ण्नय्तघटितस्योपपादकमिति स्पष्टमेव । तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ता इत्यनयोः , तथा पश्यन्ति भवः, दर्शयते भव इति द्वितीयचतुर्थ्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः । तत्र प्रथमद्वितीययोः कक्ष्ययोर्दृशेण्र्यन्तत्वाऽभावादेव तङो न प्रसक्तिरिति मत्वा आह — तत्र तृतीयकक्ष्यायां न तङिति । कुत इत्यत आह — क्रियासाम्येऽपीति ।दर्शयन्ति भवं भक्ता॑ इति तृतीयक्ष्यायाः,पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यासमनार्थकतयाअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते॑त्यंशस्य सत्तवेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्यदर्शयन्ति भवं भक्ता॑ इति तृतीयकक्ष्यायां णौ कर्तृत्वाऽभावादित्यर्थः । एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणं चेत्युक्तं भवति । अणा या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तङिति फलं वक्ष्यते । चतुर्थकक्ष्या तु प्ररकृतसूत्र्सयोदाहरणमित्याह — चतुर्थ्यां तु तङिति । 'णेरणौ' इति प्रकृतसूत्रेणे॑ति सेषः । तदेवोपपादयति - द्वितीयामादायेति । 'पश्यति भव' इति द्वितीयकक्ष्यायां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव 'दर्शयते भव' इति चतुर्थक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः । अनेनअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते त्यंश उपपादितः । अथअणौ यत्कर्मकारकं णौ स चेत्कर्ता स्या॑दित्यंशमुपपादयति — प्रथमायामिति ।पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यायामण्यन्तदृशिकर्मणो भवस्य 'दर्शयते भव' इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थः । अथ कर्तृस्थक्रियधातुमुद#आहरति — एवमारोहयते हस्तीत्यादि । तत्र प्रथमकक्ष्यामाह — आरोहन्ति हस्तिनं हस्तिपका इति । हस्तिनं पान्तीति हस्तिपाः । त एव हस्तिपकाः । स्वार्थे कः । उपरिभागाक्रमणानुकूलव्यापारो रुहरेर्थः । तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारः सोपानगमनादिः । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः । तच्च नीचीकरणं । तदाह — न्यग्भावयन्तीति । अत्र उपरिभागाक्रमणानुकूलन्यग्भवनानुकूलोऽङ्कुशपातादिव्र्यापारः । उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापारश्रयत्वाद्धस्तिपकाः कर्तारः । अत द्वितीयकक्ष्यामाह — तत इति । प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति, हस्तीति न्यग्भवतीत्यर्थः । प्रेषणांऽशपरित्यागे फलितमाह — न्यग्भवतीत्यर्थ इति । अथ तृतीयकक्ष्यामाह — ततो णिजिति । प्रेषणांऽशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद्धातोः प्रेषणविवक्षायायं हेतुमण्णिजिति भावः । आरोहयन्तीति । 'हस्तिनं हस्तिपका' इति शेषः । प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह - आरोहन्तीत्यर्थ इति । आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह — तत इति । अविवक्षितप्रेषणाण्ण्यन्तात्प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थः । प्रेषणांऽशत्यागे सति ण्यन्तस्य फलितमर्थमाह — न्यग्भवतीत्यर्थ इति.तददेवंनिवृत्तप्रेषणाअद्धातोः प्राकृतेऽर्थे णिजिष्यते॑ इति पक्षमाश्रित्योदाहृतम् । इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह — यद्वेति । पश्यन्तीति । पश्यनति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थः । द्वितयीकक्ष्यामाह — ततः कर्मण इति । दृशे रुहेश्च प्थमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजकर्तृकत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः । दर्शयति भव इति ।भक्ता॑निति शेषः । तदाह — पश्त आरोहतश्च प्रेरयतीत्यर्थ इति । चाक्षुषज्ञानविषयत्वमापादयतो भक्तान्भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्रहेतुमण्णिच् । तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम् । णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः । चतुर्थकक्ष्यामाह - ततो णिज्भ्यामिति । हेतुमण्णिज्भ्यां, तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सत चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति । तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयति भवः, आरोहयते हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्, प्रथमकक्ष्यायामणौ या क्रिया तस्या एवाऽत्र तृतीयकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्,प्रथमकक्ष्यामणौ या चाक्षुषज्ञानविषयं कुर्वन्तीति, न्यग्भावयन्तीति प्रकृत्युपात्तस्यप्रेषणांशसय् तृतीयकक्ष्यायां त्यागागदणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशसय्कथं प्रवृत्तिरिति वाच्यम्,सैव चेण्ण्यन्तेने॑त्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपीत्यदोषात् । ननु द्वितीयकक्ष्यामेव कुतो न तङित्यत आह — अस्मिन्पक्षे द्वितीयेति । कुत इत्यत आह — समानक्रियत्वाभावादिति । द्वितीयकक्ष्यायामणौ या क्रिया सैव चेण्ण्य्नतेनोच्येतेत्यंशस्याऽभावादिति यावत् । तदेवोपपादयति — णिजर्थस्येति । णेरिति किम् । पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् । स्मरति वनगुल्मं कोकिल इति । स्मृतिविषयत्वमापादयतीत्यर्थः । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितयीतृतीयकक्ष्योरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्षेस्मरति वनगुल्मट इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः ।स्मरयति वनगुल्मं कोकिल॑ इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । द्वितीयकक्ष्या । प्रेषणपक्षे तुस्मरयति वनगुल्मः कोकिल॑मिति द्वितीयकक्ष्या । स्मरन्तं प्रेरयतीत्यर्थः । स्मरयति वनगुल्म इति । प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् । 'स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वद्ध्रस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्दोन्दुशेखरेष्वनुसन्धेयः ।
SK 2739 · A 1.3.69V
गृधिवञ्च्योः प्रलम्भने ॥ २७३९ ॥
gṛdhivañcyoḥ pralambhane
Siddhānta-kaumudī
प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च SK 2592 व्याख्यातम् ॥
Bālamanoramā
गृधिवञ्च्योः प्रलम्भने - गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति । प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः ।
SK 2740 · A 1.3.71V
मिथ्योपपदात् कृञोऽभ्यासे ॥ २७४० ॥
mithyopapadāt kṛño'bhyāse
Siddhānta-kaumudī
णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले SK 2158 । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥
Tattvabodhinī
NSP p. 471–472
—मिथ्योपपदात्कृओऽभ्यासे । इह करोतिरुच्चारणार्थ-लादकर्मकः । उच्चारणं निःसरणम् । ण्यन्तस्तूच्चारणवृत्तिः सकर्मकः ॥—उच्चारयतीति । निःसारयतीत्यर्थः । असक्रुदुच्चारणे तु धातोर्लक्षणा आत्मनेपदं तु द्योतकं तेनैव द्योतितलात् ‘नित्यवीप्सयोः’ इति न द्विर्वचनम् ॥—ऋत्विजो यजन्तीति । दक्षिणादिकं तु न यागफलम् । स्वर्गकामो यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः
Bālamanoramā
मिथ्योपपदात् कृञोऽभ्यासे - मिथ्योपपदात् । अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः । इत ऊध्र्वंणे॑रिति निवृत्तम् ।
SK 2741 · A 1.3.73V
अपाद्वदः ॥ २७४१ ॥
apādvadaḥ
Siddhānta-kaumudī
न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च SK 2564 कारयते ॥
Bālamanoramā
अपाद्वदः - अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति । वचनेने निरस्यतीतय्र्थः ।किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः॑ इति न्यायात् ।
SK 2742 · A 1.3.75V
समुदाङ्भ्यो यमोऽग्रन्थे ॥ २७४२ ॥
samudāṅbhyo yamo'granthe
Siddhānta-kaumudī
अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥
Tattvabodhinī
NSP p. 472
—समुदाङ्भ्यो—। ‘आडो यमहनः’ इत्येव सिद्धे आङ्पूर्वकस्य वचनं सकर्मकार्थमिति ध्वनयनुदाहरति—वस्त्रमायच्छत इति
Bālamanoramā
समुदाङ्भ्यो यमोऽग्रन्थे - समुदाङ्भ्यो । सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः । व्रीहीन्संयच्छते इति । संगृह्णातीत्यर्थः । भारमुद्यच्छते इति । उदृह्णातीत्यर्थः । वरुआमायच्छते इति । कटआदौ निबध्नातीत्यर्थः । कत्र्रभिप्राये इत्येवेति । व्रीहीन् संयच्छतीति । परार्थं संगृह्णातीत्यर्थः । 'आङो यमहनः' इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् ।
SK 2743 · A 1.3.76V
अनुपसर्गाज्ज्ञः ॥ २७४३ ॥
anupasargājjñaḥ
Siddhānta-kaumudī
गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ॥
Tattvabodhinī
NSP p. 472
—अनुपसर्गाज्ज्वाः । अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थं आरम्भः
Bālamanoramā
अनुपसर्गाज्ज्ञः - अनुपसर्गाज्ज्ञः । अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः ।अकर्मकाच्चे॑त्येव सिद्धे सकर्मकार्थमिदम् । तदाह — गां जानीते इति । कथमिति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतयाअकर्मकाच्चे॑त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः । समाधत्ते — कर्मणि लिडिति । तथा चभावकर्मणोटरित्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति 'नृप' इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह — नृपेणेति विपरिणाम इति । अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः ।
SK 2744 · A 1.3.77V
विभाषोपपदेन प्रतीयमाने ॥ २७४४ ॥
vibhāṣopapadena pratīyamāne
Siddhānta-kaumudī
स्वरितञित SK 2158 इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदति अपवदते वा । स्वं यज्ञं कारयति कारयते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वां गां जानाति जानीते वा ॥
Tattvabodhinī
NSP p. 472
—विभाषोपपदेन । उपपदेन फलस्य कर्तृगामित्वे द्योतिते तङोऽग्राप्तविभाषेयम् । कर्तृगामिनि क्रियाफले नित्ये प्राप्ते प्राप्तविभाषेत्यन्ये ॥ स्वयंज्ञमिति । समित्युपलक्षणम् । स्वार्थं यज्ञं यजति । आत्मार्थं यज्ञं यजति इत्याद्यपि बोध्यम् ॥ ॥ इत्यात्मनेपदप्रक्रिया ॥ शेषात् कर्तरि—॥ ‘अनुदात्तङितः—’ इत्यादिष्वात्मनेपदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथा च कर्तरि परस्मैपदमित्यनेन परस्मैपदमेवेति नियमिते तद्भिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्रतिपत्त्यर्थमित्याहुः । ‘अनुदात्तङित—’ इत्यादिष्वेवात्मनेपदमिति नियमात् ‘शेषात्कर्तरि—’ इत्यनेन परस्मैपदमेव तत्र भविष्यतीति परस्मैपदग्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित् ॥—अस्य वाधादिति । अनुपराभ्यामित्यस्येत्यर्थः । अत एव ‘कर्मवत्कर्मणा—’ इति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति । शास्त्रातिदेशपक्षे ‘कर्मवत्कर्मणा—’ इत्यनेनात्मनेपदं न विधीयते किं तु तद्विधायकं ‘भावकर्मणोः’ इति शास्त्रमतिदिश्यते, तस्य च पूर्वलात्परेण ‘अनुपराभ्याम्—’ इत्यनेन वाधमाशङ्क्याह—शास्त्रातिदेश इत्यादि ।—स्वरितेदिति । तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः
Bālamanoramā
विभाषोपपदेन प्रतीयमाने - विभाषोपपदेन । स्वरितञित इत्यादीति ।स्वरितञितः कत्र्रभिप्राये क्रियाफले॑,अपाद्वदः॑,णिचश्च॑,॒समुदाङ्भ्यो यमोऽग्रन्थे॑,॒अनुपसर्गाज्ज्ञः॑ इति पञ्चसूत्रीत्यर्थः । समीपोच्चारितं पदमुपपदम्, नततुतत्रोपपदं सप्तमीस्थ॑मिति सङ्केतितम्, असंभवात् । तदाह — समीपोच्चारितेन पदेनेति । फस्य कर्तृगामित्वे नित्यमात्नेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमितिन वेति विभाषा॑इति सूत्रे भाष्ये स्पष्टम् । स्वं यज्ञमिति । स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्याऽऽत्मगामित्वावगमात् 'स्वरितञितः' इति नित्यात्मनेपदस्यानेन विकल्पः । स्वं यज्ञं कारयतीत्यत्रणिचश्चे॑त्यस्याऽनेन विकल्पः । स्वं व्रीहिमिति । अत्र 'समुदाङ्भ्यो यमः' इत्यस्याऽनेन विकल्पः । स्वां गामिति । अत्र 'अनुपसर्गाज्ज्ञः' इत्यस्याऽनेन विकल्पः । इत्यात्मनेपदप्रक्रिया । स्वरादिनिपातमव्ययम् ।१.१.३७ ।स्वरादिनिपातमव्ययम् । स्वर् आदिः येषां ते स्वरादयः, ते च निपाताश्चेति समाहारद्वन्द्वः । फलितमाह — स्वरादय इति । स्वरादीन् पठति — स्वरित्यादिना । स्वरादीनांचादीनां च पृथक्पाठस्तुनिपाता आद्युदात्ताः॑ इति स्वरभेदार्थः, चादीनामसत्त्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्त्ववाचिनामसत्त्ववाचिनां च तदिति व्यवस्थार्थश्च । स्वर् — स्वर्गे पारत्रिकसुखविशेषे,परलोके च । अन्तर् — मध्ये । प्रातर्-प्रत्यूषे । पुनर् — अप्रथमे, विशेषे च । सनुतर — अन्तर्धाने । स्वराद्याः पञ् रेफान्ताः । र्तेन स्वर्याति प्रातरत्रेत्यादौहशि चे॑त्युत्त्वं न, तत्र 'रोः' इत्युकारानुबन्धग्रहणात् ।उच्चैस् — महति । नीचैस् — अल्पे । शनैस् — क्रियामान्द्ये । ऋधक् — सत्ये । वियोगशैघ्र्यसामीप्यलाघवेष्वित्यन्ये । ऋते — वर्जने । युगपत्-एककावे । आरात्-दूरसमीपयोः । पृथक् — भिन्ने । ह्रस्-अतीतेऽह्नि । दिवा-दिवसे । रात्रौ-निशि । सायं-निशामुखे । चिरं बहुकाले । मनाक्, ईषत् — इदं द्वयमल्पे । जोषं-सुखे, मौने च । तूष्णीम् — मौने । बहिस् अवस — इदं द्वयं बाह्रे । समया — समीपे, मध्ये च । निकषा — अन्तिके । स्वयम् — आत्मनेत्यर्थे । वृथा — व्यर्थे । नक्तम् — रात्रौ । नञ् — निषेधे ।तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इत्यन्ये । हेतौ — निमित्ते । इद्धां — प्रकाशये । अद्धा — स्फुचावधारणयोः । तत्त्वातिशययोरित्यन्ये । सामि — अर्धे, जुगुप्सिते च । वत् इत्यनेनतेन तुल्यं क्रिया चेद्वतिः॑ 'तत्र तस्येव' 'तदर्हम्' इति वतिप्रत्ययो गृह्रते ।उपसर्गाच्छन्दसि धात्वर्थे॑ इति वतिस्तु न गृह्रते,परावतो निवत उद्वतश्चे॑त्यत्राव्ययत्वाऽभावात् । वस्तुतस्तुतद्धितश्चासर्वविभक्तिः॑ इत्येव सिद्धे वतिग्रहणमिह व्यर्थमेव । ब्राआहृणवत्, क्षत्रियवदिति वतिप्रत्ययान्त स्योदाहरणम् । केवसप्रत्ययस्य अव्ययत्वे प्रयोजनाऽभावात् । सना, सनत्, सनात्-एतत्रयं नित्ये । उपधा-भेदा । तिरस् — अन्तर्धौ, तिर्यगर्थे, पराभवे च । अन्तरा — मध्ये, विनार्थे च । अन्तरेण — वर्जने । वस्तुतस्तुअन्तबोध्यम् । ज्योक् — कालभूयस्त्वे प्रश्ने, शीघ्रार्थे, सम्प्रतीत्यर्थे च । कम् — वारिमूर्धनिन्दासुखेषु । शम् — सुखे । सहसा आकस्मिकाविमर्शयोः । विना वर्जने । नाना अनेकविनार्थयोः । स्वस्ति-मङ्गले । स्वधा-पितृहविर्दाने । अलम् — भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट्, वौषट्, श्रौषट्, एतत्रयं देवहविर्दावे । अन्यत्-अन्यार्थे । अस्ति-सत्तयाम् ।उपसर्गविभक्तिस्वरप्रतिरूपकाश्चे॑ति चाद्यन्तर्गणसूत्रादेवअस्ति॑शब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयो स्थितम् । उपांशु — अप्रकाशोच्चारणे, रहस्ये च । क्षमा — क्षान्तौ ।विहायसा — आकाशो । दोषा — रात्रौ । मृषा मिथ्या-इदं द्वयं वितथे । मुधा-व्यर्थे । पुरा — अविरते, चिरातीते, भविष्यदासन्ने च । मिथो मिथस्-इदं द्वयं रहसि, सहार्थे च । प्रायस् — बाहुल्ये । मुहुस् — पुनरार्थे । प्रबाहुकम् — समानकाले, ऊध्र्वार्थे च । प्रवाहिका इति पाठान्तरम् । आर्यहलम् — बवात्कारे । शाकटायनस्तु — आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम्-पौनः पुन्ये । साकम् सार्धम् — इदं द्वयं सहार्थे । नमस्-नतौ । हिरुक् वर्जने । धिक्-निन्दाभत्र्सनयोः । अम्-शैध्न्ये, अल्पे च । आम्-अङ्गीकारे । प्रताम् — ग्लानौ । प्रशाम्-समानार्थे । प्रतान् — विस्तारे । अत्र 'प्रतान्' इति नान्तस्य पुनः पाठसामर्थ्यात् । प्रताम्, प्रशाम् इति पूर्वयोः 'मो नो धातोः' इति नत्वं न । प्रशान् इति नान्तपाठस्तु असाम्प्रदायिकः । 'कृन्मेजन्तः' इति सूत्रभाष्यस्वरसोऽप्येवभिति शब्देन्दुशेखरे स्थितम् । मा, माङ् — एतो निषेधे । आकृतिगणोऽयमिति । ततश्च अन्येऽप्येवंजातीयकाः स्वरादिगणे ज्ञेयाः । तथाहि — कामम्-स्वाच्छन्द्ये । प्रकामम्-अतिशये । भूयस् — पुनरर्थे । साम्प्रतम् — न्याय्ये । परम्-किन्त्वर्थे । साक्षात्-प्रत्यक्षे । साचि-तिर्यगर्थे । सत्यम् — अर्धाङ्गीकारे । मङ्क्षु, आशु — इदं द्वयं शैघ्र्ये । संवत्-वर्षे । अवश्यम् — निश्चये । सपदि — शैघ्र्ये । बलवत् — अतिशये । प्रादुस् आविस् — इदं द्वयं प्रकाशे । अनिशम्, नित्यम्, सदा, अजरुआम्, सन्ततम् — एतत्पञ्चकं सातत्ये । उषा — रात्रौ । रोदसी द्यावापृथिव्यर्थे । ओम् — अङ्गीकारे ब्राह्म्णि च । अत्र अश्च उश्च म् चेति समाहारद्वन्द्वे, ओम्शब्दो ब्राहृविष्णुशिवात्मकब्राहृवाची । 'अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्राहृण्यङ्गीकारे चेति विवेकः ।अवतेष्टिलोपश्चे॑त्यस्यायमर्थः, — अवधातोर्मन्स्यात्प्रत्ययस्य टिलोपश्चेति । अव्म् इति स्थितेज्वरत्वरे॑ति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घः,सार्वधातुके॑ति तस्य गुणः, ओमिति रूपम् । उभयोरपि स्वरादित्वम् । न चौणादिकस्य 'कृन्मेजन्तः' इत्येव सिद्धमिति वाच्यम्, उणादौ हिच्विकव्यय॑मिति पठते । च्व्यन्तानां नेतर॑दिति । ततश्च ओमित्यस्य औणादिकस्याऽप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः — पृथिव्याम् । भुवर् — अन्तरिक्षे । झटिति, द्राक्, तरसा-त्रयमिदं शैघ्र्य#ए । सुष्ठु — प्रशंसायाम् । दुष्ठु — निकृष्टे । सु-पूजायाम् । आः — आश्चर्ये । कु — कुत्सिते, ईषदर्थे च । अञ्जसा — तत्त्वे शीघ्रार्थे च । मिथुं-द्वावित्यर्थे । अस्तम् — विनाशे । स्थाने-युक्तार्थे । ताजक् — शैघ्र्ये । चिराय चिररात्राय, चिरस्य, चिरम्, चिरेण, चिरात् — इति षट्कं चिकार्थकम् । वरम् — ईषदुत्कर्षे । आनुषके-आनुपूर्व्ये । अनुषक् — अनुमाने । अमेनः-शीघ्रसाम्प्रतिकयोः । सुदि — शुक्लपक्षे । वदि-कृष्णपक्षे इत्यादि । इति स्वरादयः । अथ चादीनाह — च वा इत्यादिना । च — समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । वा — विकल्पादिषु ।वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये ।॑ ह — प्रसिद्धौ । अह — अद्भुते, खेदे च । एव — अवधारणे, अनवकॢप्तौ च । एवम्-उक्तपरामर्शे । नूनम् — निश्चये, तर्के च । शआत् — पौनःपुन्ये, नित्ये, सहार्थे च । युगपत् — एककाले । भूयस्-पुनरर्थे, आधिक्ये च । कूपत्-प्रश्ने, प्रशंसायां च । कुवित् — भूर्यर्थे, प्राशंसायां च । नेत् — शङ्कायां, प्रतिषेधविचारसमुच्चयेषु च । चेत् — यद्यर्थे । चण् अयं चेदर्थे णित्, समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित् — इष्टप्रश्ने । यत्र-अनवकॢप्त्यवमर्षगर्हाश्चर्य#एयु ।नावकल्पयामि, न मर्षये, गर्हे, आश्चर्यं वा यत्र भवान्वृषलं याजयेत् । नग-प्रत्यारम्भे । हन्त — हर्षे, विषादे, अनुकम्पायां, वाक्यारम्भे च । माकिः माकिम्, नकिः,-इदं त्रयं वर्जने । माङ्नञौ-स्वरादिषूक्तौ । अन्यतरत्र पाठ इति युक्तम्, उभयत्र पाठस्तु ब्यर्थ एव । नच निपातस्वरार्थ इह पाठ इति वाच्यं, 'फिषोऽन्त उदात्तः' इत्येव तत्सिद्धेः । नच सत्त्ववचनत्वेऽप्यव्ययत्वार्थं स्वरादिपाठ इति वाच्यं, तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्तेः । तस्माच्चादिष्वेव माङ्नञौ पाठआवित्याहुः । यावत् तावत्-इदं द्वयं साकल्यावधिमानावधारणेषु । त्वै — विशेषवितर्कयोः । द्वै-वितर्के । न्वै इति पाठान्तरम् । रै — दाने, अनादरे च । श्रौषट्, वौषट्, स्वाहा — इदं त्रयं देवहविर्दाने । स्वधा — पितृदाने । श्रौषडादीनामनेकाचां त्रयाणाअं स्वरभेदार्थ उभयत्र पाठः । तुम्-तुङ्कारे । तथाहि — निदर्शने । खलु — निषेधवाक्यालंकारनिश्चयेषु । किल — इवार्थे, वार्तायाम्, अलीके च । अथ — अयं मङ्गलानन्तरारम्भश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थंकत्वेऽप्यव्ययत्वम् । तथाच श्रीहर्षः — ॒ यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् इति । 'अथ स्नपयाम्बभूव' इत्यस्य मङ्गस्नानं कारयामासेत्यर्थः । निपातश्चाऽथशब्दः भृदङ्गादिध्वानवत् मङ्गवम् । सुष्ठु । स्वरभेदार्थः पुनः पाठः । स्म — अतीते, पादपूरणे च । आदह — उपक्रमहिंसाकुत्सनेषु । उपसर्गविभक्ति । चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः, विभक्त्यन्तप्रतिरूपकाः, अच्प्रतिरूपकाश्च चादिगणे पाठआ इत्यर्थः । तत्रोपसर्गप्रतिरूपकमुदाहरतिअवदत्तमिति । अत्र अवेत्युपसर्गप्रतिरूपकं, न तूपसर्गः । ततस्च 'अच उपसर्गातः' इति तो न भवति । तादेशे तुअवत्त॑मिति स्यात् । अहंयुरिति ।अह॑मिति सुबन्तप्रतिरूपकहङ्कारे ।अहंशुभमोर्यु॑सिति मत्वार्थीयो युस् । अत्र अहमिति न अस्मच्छब्दस्य प्रथमैकवचनम्, तथा सतिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य मदादेशे मद्युरित्यापत्तेः । अस्तिक्षीरेति । अस्ति क्षीरं यस्या इति बहुव्रीहिः । अत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं, नतु तिङन्तम् । तथा सति बहुव्रीह्रनुपपत्तेः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिविधौ सुबित्यनुवृत्तेः । एवं च बहुव्रीहिविधौअस्तिक्षीरेत्युपसंख्यान॑मिति वार्तिकं न कर्तव्यमिति 'अनेकमन्यपदार्थे' इत#इ सूत्रे भाष्ये स्पष्टम् ।स्वरप्रतिरूपकानुदाहरति — अ इत्यादिना । अ — सम्बोधने । आ — वाक्यस्मरणयोः । इ — सम्बोधनजुगुप्साविस्मयेषु । इ उ ऊ ए ऐ ओ औ इतचि सप्तकं सम्बोधने । पशु — सम्यगर्थे । शुकम् — शेघ्र्ये । यथाकथाच सङ्घातोऽयमनादरे । पाट् प्याट् अङ्ग है हे भो अये एते सप्त सम्बोधने । द्य हिंसाप्रातिलोम्यपादपूरणेषु विषुनानार्थे । एकपदे-अकस्मादिदित्यर्थे । युत्-कुत्सायाम् । आतः-इतोऽर्थे । चादिरप्याकृतिगण इति । यत् तत् द्वयंहेतौ । आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे ष । सुकमतिशये । अनु वितर्के । शम्बत्(ट) अन्तःकरणे, आभिमुख्ये च । व पादपूरणे इवार्थे च । चटु चाटु द्वयं प्रियवाक्ये । हुम् भत्र्सने । इव सादृश्ये । अद्यत्वे-इदानीमित्यर्थे इत्यादि । अत्र स्वरादिचाद्योराकृतिगणत्वेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तु उभयत्र बोध्याः । इति चादयः ।