PREMABASESiddhānta-kaumudī
Prakaraṇa 57 · SK 2650–2656

तिङन्तयङ्लुक्प्रकरणम्

tiṅantayaṅlukprakaraṇam · 7 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2650 · A 2.4.74V
यङोऽचि च ॥ २६५० ॥
yaṅo'ci ca
Siddhānta-kaumudī
यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि - SK 2149 इति परस्मैपदम् । अनुदात्तङित - SK 2157 इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य - SK 425 इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित - SK 2157 । इत्यनुबन्धनिर्देशात् । तत्र च [(परिभाषा - ) श्तिपा शपा...] इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥
Tattvabodhinī
alignment inferredNSP p. 449
—अनैमित्तिकोऽयमिति । अच्प्रत्यये विधीयमानो यङ्लुक् तु तन्निमित्त एव । तेन लोलुवः पोपुवः इत्यादौ ‘न धातुलोप—’ इति निषेधः सिध्यति ॥—यङन्तत्वादिति । ‘सन्यङोः’ इति षष्ठी न तु सप्तमी । अन्यथा यङो लुका लुप्तत्वेन प्रत्ययलक्षणाप्रवृत्तेर्द्वित्वं न स्यादिति भावः । न चाङ्गाधिकारविहितकार्यस्यैव ‘न लुमता—’ इति निषेधाद्विलमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यम् । ‘न लुमता—’ इत्यत्राङ्गाधिकारो न गृह्यते किं तु आङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथा राजपुरुष इत्यादौ नलोपो न स्यात्, लदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भवेन पदलवाधात् । यद्यपि ‘एकाचः—’ इति विधीयमानं द्वित्वं ‘इतिपाशपा—’ इत्यादिना निषिध्यते तथापि तत्स्यादेव । ‘गुणो यङ्लुकोः’, ‘रुग्रिकौ च लुकि’ इत्याद्यभ्यासकार्यविधिभिर्द्विलानिषेधस्य ज्ञापनात् ॥—प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यते ‘ऋतेरीयङ्’ इत्यादिषु, अप्रत्ययेऽपि दृश्यते चित्रङादिषु । एवं च यङो लुकि प्रत्ययलक्षणेन यङाग्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्क्यमिति भावः । ङित इत्यनुवन्धनिर्देशादिति परिहारस्त्वत्र नोक्तः शीङादीनामिव भू इत्यादिधातूनामनुवन्धेनानिर्दिष्टलात् । यङो लुकारस्य प्रत्ययानुवन्धत्वेन समुदायाननुवन्धलात् यङन्तोऽपि धातुरनुवन्धेनानिर्दिष्ट इति वोध्यम् ॥—सुदृपदिति । शोभना दृषदोऽस्मिन्निति वहुव्रीहौ दृषच्छब्दो जसन्तः ॥—दीघों नेति । असिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्या-साधारणरूपानाश्रयणात्प्रत्ययलक्षणेनासन्तलाभावादिति भावः ॥—तेभ्योऽपीति । ये लनुदात्तेतः प्रत्ययलक्षणं विनैव ङितश्च तेभ्योऽपीत्यर्थः ॥—अदादौ पाठादिति । तथा च ‘अदिप्रभृतिभ्यः शपः’ इत्यनेन यङ्लुगन्तात्परस्य शपो लुगित्यर्थः
SK 2651 · A 7.3.94V
यङो वा ॥ २६५१ ॥
yaṅo vā
Siddhānta-kaumudī
यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः - SK 2224 इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते SK 3596 इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । [(परिभाषा - ) प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात्] । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था - SK 2223 इति सिचो लुक् । यङो वा - SK 2651 इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः SK 2425 । पास्पर्धि । लङ् । अपास्पतर् । अपास्पदर् । सिपि दश्च SK 2468 इति रुत्वपक्षे रो रि SK 173 । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर् । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश - SK 2428 इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च SK 2309 । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः SK 341 अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त - SK 2299 इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च SK 2430 इति कुत्वं यद्यपि हो हन्तेः SK 358 इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । [(परिभाषा - ) श्तिपा शपा...] इति निषेधस्तवनित्यः गुणो यङ्लुकोः SK 2630 इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः SK 2695 इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य - SK 2637 इति तपरत्वान्न गुणः । हलि च SK 354 इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन - SK 2504 इत्यात्वम् । चङ्खातः । गमहन - SK 2363 इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा SK 2319 । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः SK 2443 इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः SK 2497 । जाहीतः । इह जहातेश्च SK 2498 आच हौ SK 2499 लोपो यि SK 2500 घुमास्था - SK 2462 एर्लिङि - SK 2374 इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि - SK 2645 इत्युत्वं न । रुदादिभ्यः - SK 2464 इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि - SK 2409 इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥
Tattvabodhinī
NSP p. 449–451
—यङो वा । ‘नाभ्यस्तस्याचि—’ इति सूत्रात्पिति सार्वधातुक इति ‘उतो वृद्धिः—’ इत्यतो हलीति चानुवर्तते ‘त्रुव ईट्’ इत्यत ईडिति च । तदेतदाह—यङन्तादित्यादि । यङो लुक्यपि प्रत्ययलक्षणेनात्र यङन्तलम् । एतेन यङन्ताद्वलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम् । उक्तरीत्या यङन्तलानपायात् । किं च यङन्ताद्वलादिपित्र संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपि ‘सन्यङोः’ इति द्विलस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां वीजाभावाद्यङ्लुकि द्विलाभावप्रसङ्गादिति दिक् ॥—छन्दसि निपातनादिति । गुणनिषेधे सिद्धे निपातनमिदं छन्दस्येव गुणनिषेधो नान्यत्रेति नियमार्थमित्यर्थः ॥—वोभूत्विति । समुदायस्यातिरिक्तलात् ‘भूसुवोः—’ इति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह—न चेति ॥—द्विःप्रयोग इति । तथा च प्रकृतिग्रहणे यङ्लगन्तस्यापि ग्रहणमित्येतन्यायसिद्धं नापूर्वं वचनमिति भावः ॥—वोभुवतीति । अदभ्यस्तादित्यत् ॥—अवोभूवीदिति । केचिदिह ‘भुवो वुक्—’ इति सूत्रे ‘ओः सुपि’ इत्यत ओरित्यनुवर्तते । तथा च । उवर्णान्तस्य भुवो बुगित्यर्थात् गुणे कृते वुकः प्राप्तिर्नास्तीत्यनित्यो वुक् । स च पराभ्यां गुणवृद्धिभ्यां वाध्यते । तेन वोभवीदिति रूपमाहुः । तच्चिन्त्यम् । भुवो वुको नित्यत्वादिति भाष्यग्रन्थविरोधात् । तस्माद्वुको नित्यत्वमाश्रित्य ‘इन्धिभवतिभ्यां च’ इति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनमसंमतमेव । आत इति नियमाज्जुसभावमाशङ्क्याह—अभ्यस्ताश्रय इति । अयं भावः । ‘सिजभ्यस्त—’ इति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायं नियमो न त्वभ्यस्ताश्रयस्य जुस इति ॥ ‘जुसि च’ इति गुणमाशङ्क्याह—नित्यत्वाद्वुगिति ॥—अवोभुवुरिति । न चात्र परत्वात् ‘अदभ्यस्तात्’ इति अदादेशः स्यादिति वाच्यम् । अभ्यस्ताश्रयजुसोऽदादेशापवादत्वात् ॥—पास्पर्धीतीति । स्पर्धं सङ्घर्षे । ‘दीर्घोऽकितः’ इत्यभ्यासस्य दीर्घः । ‘यङो वा’ इति ईड्डिकल्पः । इडभावपक्षे ‘झषस्तथोः—’ इति धत्वं, ‘झरो झरि सवर्णे’ इति वा धलोपः । लिटि पास्पर्धाचकार । पास्पर्धिता । लृटि पास्पर्धिष्यति । लोटि पास्पर्धीतु पास्पर्धु । पास्पर्धात् । पास्पर्धाम् । पास्पर्धतु । पास्पर्धीति । हेर्धित्वे वा धिलोपः । तङि इडागमपक्षे अपास्पर्धीत् ॥—रुत्वपक्षे इति । पक्षान्तरे तु अपास्पर्त् अपास्पर्द् । लिङि । पास्पर्ध्यात् । पास्पर्ध्यास्ताम् । पास्पर्ध्यास्ताम् । लुङि । ‘अस्तिसिचोऽपृक्ते’ इति नित्यमिद् । ‘इट ईटि’ इति सलोपः । अपास्पर्धीत् । अपास्पर्धिष्ठाम् । अपास्पर्धिषुः । लङ्कि अपास्पर्धिष्यत् ॥—जागाद्धीति । गाधृ प्रतिष्ठादौ । ईद्पक्षे तु जागाधीति ॥—जाघात्सीति । ‘एकाच’ इति भव्भावः । धस्य चत्वम् । लोटि जागाधीतु जागाद्धु । जागाद्धां । जागाधतु । लङ्कि । अजागाधीत् । अजाघात् । अजागाद्धाम् । अजागाधुः । लङ्कि । अजागाधीत् । अजागाधिष्ठाम् । नाथृ नाथृ याच्यादौ ॥—नानात्तीति । ईद्पक्षे नानाधीति । दध धारणे । ईद्पक्षे दादधीति । लङ्कि ‘अतो हलादेः’ इति वा वृद्धिः ॥—चोस्कुन्तीति । स्कुदि आप्रवणे । ‘इदितः’ इति नुम् । ईडभावे ‘झरो झरि सवणे’ इति वा लोपः । लङ्कि ईद्पक्षे । अचोस्कुन्दीत् । लङ्कि तु ‘अस्तिसिचः’ इति नित्यमिद् । अचोस्कुन्दीत् । अचोस्कुन्दिष्ठाम् ॥—मोमुदीतीति । मुद हवें । ‘नाभ्यस्तस्याचि’ इति लघूपधगुणनिषेधः ॥—मोमोदितेति । न चात्र ‘न धातुलोप’ इति गुणनिषेधः शङ्क्यः । वहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात् ॥—लुङ्कि गुण इति । सिज्जिमित्तकोऽयं गुणस्तेन ‘नाभ्यस्तस्याचि’ इति निषेधो न शङ्कनीय इति भावः ॥—चोकूर्तीति । कुर्द खुर्द गुर्द गुद क्रीडायाम् । लङ्कि तिपि । ईद्पक्षे अचोकूर्दीत् । अचोखूर्दीत् । अजोगूर्दीत् ॥—पक्षे अचोकूरिति । ‘दध्व’ इति रुलपक्षे इत्यर्थः ॥ वनीवञ्चीतीति । वङ्ग गतौ । ‘नित्यं कौटिल्ये गतौ’ इति यङ् । ‘नीग्वङ्गु’ इत्यभ्यासस्य नीगागमः । यङो लुका लुप्तत्वात् न तदाश्रितो नलोपः ॥—वनीवक्त इति । तसो ङित्त्वादिह स्यादेव ‘अनिदिताम्’ इति नलोपः । लोटि वनीवश्रीतु । वनीवङ्गु । वनीवक्तात् । वनीवक्ताम् । वनीवचतु । वनीवग्धि । वनीवध्वानि ॥—जङ्गमीतीति । ‘जुगतोऽजुनासिकान्तस्य’ इति जुक् ॥—जङ्गमतीति । ‘गमहन’ इत्युपधालोपः—अजङ्गन्निति । ईद्पक्षे लजङ्गमीत् । अजङ्गताम् । अजङ्गमः । अजङ्गमीः । अजङ्गतम् । अजङ्गम् । अजङ्गम् । अजङ्गम् । अजङ्गम् । अजङ्गम् । —सामान्यापेक्षेति । अयं भावः । एकाच इत्यत्रैकाज्प्रहणाद्युड्लुकि द्विर्वचनं न कुत्रापि प्राप्नोति । तथा च ‘गुणो यड्लुकोः’ इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विना निवेशमलभमानः सन् ‘श्तिपाशपा’ इति सर्वेषामपि निषेधानां क्वचिद्यड्लुक्यप्रवृत्तिं ज्ञापयतीति । तथा च प्रयुज्यते ‘राजा वृत्रं जङ्घनत्’ इत्यादि ॥—द्वित्वं तु न भवतीति । वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्य ‘हनो वध लिङि, लुङि’ च’ इति वधादेशात्पुनर्द्वित्वं न भवतीत्यर्थः । तत्र हेतुमाह—स्थानिवत्त्वेनेति ॥—आङ्पूर्वादिति । प्रकृतिग्रहणे यड्लुगन्तस्यापि ग्रहणादिति भावः ॥—चञ्चूर्तीति । चरतिर्गतौ भक्षणे च । ‘चरफलोश्च’ इत्यभ्यासस्य उक्तं । ‘उत्परस्यातः’ इत्युत्तम् । ‘हलि च’ इति दीर्घः । अचञ्चूरित्यत्र तु पदान्तविषयत्वात् ‘वोरुपधायाः’ इति दीर्घः ॥—चञ्चूर्नीति । खतु अवदारणे ॥—चञ्चूर्नीति इति । यतु केचिद्धातुग्रहणेन कृतं कार्यं यड्लुकि वेति ‘जनसन’ इत्यात्वाभावे ‘अनुनासिकस्य क्विजलोः’ इति दीर्घोऽपि न भवति । क्विप्साहचर्याद्धि जलादिः कृदेव तत्र गृह्यते न तु तिङित्यभ्युपेत्य चञ्चूर्नीति इति रूपमाहुस्तदयुक्तम् । धातुग्रहणेन कृतस्य यड्लुक्यप्रवृत्तौ मानाभावात् । सत्यपि प्रमाणे आत्वं वेति विकल्पोक्त्या चञ्चूर्नीति इति रूपं केन वार्यताम् । यच्चोक्तम् । ‘अनुनासिकस्य’ इति सूत्रे क्विप्साहचर्याज्जलादिरपि कृदेव गृह्यते इति तदप्ययुक्तमेव । यदि हि कृदेव क्विप् स्यात्तदा साहचर्योक्तिः सङ्गच्छेत किं तु कृद्भिन्नोऽप्यस्येवाचारक्रिप् । अत एव राजानति चर्माणति इत्यादौ माधवादिभिः क्विनिमित्तो दीर्घ उक्तः ॥—चञ्चूर्नीति । हेरपित्त्वेन ङित्त्वात् ‘जनसन’ इत्यात्वम् ॥—अचञ्चूर्नीति । ‘अतो हलादेः’ इति वा वृद्धिः ॥—जाहेतीत्यादि । हाड्हाकोस्तुत्यानि रूपाणि । ङित्त्वप्रयुक्तस्यात्मनेपदस्य यड्लुक्यप्रवृत्तेः । ‘भृष्यामित्’ इति हाड् इत्यस्य दलनिमित्ताभ्यासस्यैव विहितत्वाच्च । नच अकित इति निषेधेन हाकोऽभ्यासस्य दीर्घो दुर्लभ इति कथमुभयोस्तुत्यरूपतेति शङ्काम् । अकित इत्यत्र हि न विद्यते किद्यस्याभ्यासस्येति वहुव्रीहिराश्रीयते, तेन ‘द्विःप्रयोगो द्विर्वचनं षांष्ठम्’ इत्यभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनीवच्चीतीत्यादाविव कित्त्वाभावान् दोषः । किं च द्वित्वाभावे केवलस्यार्थवत्त्वेऽपि द्वित्वे सति समुदाय एवार्थवानिति हि सर्वसंमतम् । तथा कित्त्वमपिः समुदायस्यैवास्तु न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिवन्धः ॥—जाहीयादिति । ‘इं हल्यधोः’ इतीत्वम् ॥—लुकालुत इति । सर्वविधिभ्यो लुग्विधेर्वलीयस्त्वादकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्कामेवेति भावः ॥—उत्त्वं नेति । फलितार्थकथनमिदम् । ‘स्वपिस्यमीत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः ॥—असास्वापीदिति । ‘अतो हलादेः’ इति विकल्पेन वृद्धिः
SK 2652 · A 7.4.91V
रुग्रिकौ च लुकि ॥ २६५२ ॥
rugrikau ca luki
Siddhānta-kaumudī
ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥
Tattvabodhinī
NSP p. 451
—रुग्रिकौ च—। चकारेण ‘रीगदुपधस्य’ इत्यतो रीगनुकृष्यते । रुक उकार उच्चारणार्थः
SK 2653 · A 7.4.92V
ऋतश्च ॥ २६५३ ॥
ṛtaśca
Siddhānta-kaumudī
ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः SK 2348 इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर् 3 । सिपि दश्च SK 2468 इति रुत्वपक्षे रो रि SK 173 । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च SK 2653 इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः SK 2179 । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे SK 2290 इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि SK 1731 इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति - SK 2380 इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर् 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि SK 2562 इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर् 3 । अजर्गृद्धाम् 3 । सिपि दश्च SK 2668 इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या - SK 2412 इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड् - SK 2561 इति शः । व्रश्च - SK 294 इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः - SK 2561 इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः - SK 2561 इति यत्रोठ् तद्विषयकम् । ज्वरत्वर - SK 2564 इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥
Tattvabodhinī
NSP p. 451–454
—ऋतश्च—। ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः । ऋदन्ताद्धातोरिति पाठस्तु फलितार्थकथनपरतया नेयः । लोटि । वर्वृतीतु ३ । वर्वेर्तु ३ । वर्वृतात् । वर्वृताम् ३ । वर्वृततु ३ । वर्वृद्धि ३ ॥— अङ्नेति । ‘पुषादिद्युतादि-’ इत्यनेन ॥ चर्करीतीति । डुकृञ् करणे ॥चर्कयादिति । सार्वधातुकलात् ‘अकृत्सार्व-’ इति न दीर्घः । लुङि ‘सिचि वृद्धिः-’ इति वृद्धिः । अचर्कारीत् ३ । अचर्कारिष्टाम् ३ । अचर्कारिपुः ३ । अचर्कारीः ३ ॥—चाकर्तीति । इदपक्षे चाकरीति । लोटि । चाकरीतु । चाकर्तु । चाकीर्तात् चाकीर्ताम् । चाकिरतु । चाकीर्हि । लुङि अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । लिङि । चाकीर्यात् । आशिषि तु चाकीर्यास्ताम् । लुङि अचाकारीत् । अचाकारिष्टाम् । एवं तातरीतीत्यादि ॥—अर्तेरिति । भौवादिकजौहोत्यादिकयोर्प्रहणम् ॥—उरदत्वमिति । केचित्तु ‘गुणो यङ्लुकोः’ इत्यभ्यासस्य गुणमाहुः । फले तु न विशेषः ॥—रिगरीकोस्त्विति । एवं च अरियतीति रूपमुभयोस्तुत्यमिति भावः ॥—आरतीति । ‘रो रि’ इति लोपे ‘दूलोपे-’ इति दीर्घः । ‘दीघोऽकितः’ इति दीर्घस्तु न भवति कित्वात् ॥—अरियतीति । परलात्पूर्वमियङ् । ततो यण् रिप्रीकोस्तुत्यमिदम् । मध्यमोत्तमयोस्तु । अरर्षि । अरियर्षि । अररीषि । अरियरीषि । अर्कृथः । अरियृथः । अरर्मि । अरियर्मि । अररीमि । अरियरीमि । अर्कृवः । अरियृवः । लिटि अररांचकार । रिप्रीकोस्तु । अरियरांचकार । लुटि । अररिता । रिप्रीकोस्तु । अरियरिता । अररिष्यति । ४ अरियरिष्यति । अरर्तु । अरियर्तु । अर्कृतात् । अरियृतात् । अर्कृताम् । अरियृताम् । आरतु । अरिय्रतु । अर्कृहि । अरियृहि । अरराणि । अरियराणि । अरराव । अरियराव । लुङि । आरः । आरियः । आररीत् । आरियरीत् । आर्कृताम् । आरियृताम् । आररुः । आरियरुः । आरः । आरियः । आररीः । आरियरीः । आर्कृतम् । आरियृतम् । आर्कृत । आरियृत । आररम् । आरियरम् । आर्कृव । आरियृव । विधिलिङि । अर्कृयात् । अरियृयात् । अरियृयाताम् । अर्कृयुः ॥—लिङीति । आशीर्लिङीत्यर्थः ॥—अरिय्रियादिति । रिप्रीकोः अरियृ इति स्थिते लिङि रिङ् । वहिरङ्गत्वेन रिडोऽसि-द्वलावलोपो न भवति ‘अचः परस्मिन्-’ इति स्थानिवत्वाच्च । न च ‘न पदान्त-’ इति निषेधः शङ्क्यः । स्वरदीर्घय-लोपेषु लोपरूपाजादेश एव न स्थानिवदित्युक्तलात् । न च अकृतव्यूहपरिभाषया इयङ् नेति शङ्क्यम् । रिङः स्थानि-वत्त्वेन निमित्तविनाशाभावाद् उक्तपरिभाषाया अप्रवृत्तेः । अत एव अरियतीत्यपि सिद्धम् । तत्रापि यणः स्थानिवत्त्वेन निमित्तविनाशाभावात् तत्परिभाषाऽप्रवृत्तेरियङो निर्वाधलात् । क्वचित्तु मूलपुस्तकेषु परलात्रित्यलाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन आरिरियात् आरीरियादिति पठ्यते तदापाततः । अरियतीति रूपासिद्ध्या पूर्वोत्तरप्रन्थयोर्विरो-धापत्तेः । लुङि । आरारीत् । आरियारीत् । लुङि आररिष्यत् । आरियरिष्यत् ॥—जर्गृहीतीति । ‘नाभ्यस्तस्याचि-’ इति गुणनिषेधः । मध्यमोत्तमयोस्तु जर्गृहीषि ३ । जर्गृही ३ । जर्गृहः ३ जर्गृहीमि ३ जर्गृही ३ जर्गृहः ३ जर्गृहः ३ । जर्गृ-हांचकार । जर्गृहिता । जरीगृहिता । इहानुवन्धनिर्देशाद्ददिल्लक्षण इच्छिकत्यो न । जर्गृहीतु । जर्गृहे । जर्गृहाम् । जर्गृहतु ३ जर्गृहि ३ । मिपि । जर्गृहाणि ३ । लुङि अजर्गृहीत् ३ । ईडभावे ‘एकाच-’ इति भष्मावः । अजर्घर्द् ३ । यद्यपि इह यत्रैकाज्प्रहणं चेति निषेधाद्भष्मावो दुर्लभस्तथापि ‘गुणो इङ्लुकोः’ इत्यनेन ‘रितपा शपा-’ इत्यादिनिषेधस्यानित्यल-ह्यापनात् भष्मावोऽत्र प्रवर्तते इत्याहुः । अजर्गृहाम् । अजर्गृहुः ३ । अजर्गृहीः । अजर्घर्द् ३ अजर्गृहे ३ अजर्गृहम् ३ । अजर्गृह ३ । जर्गृहात् ३ । अजर्गृहीत् । अजर्गृहिष्टाम् ३ । अजर्गृहिष्यत् ॥—जाग्रहीतीति । ग्रह उपादाने । यङो लुका-लुक्तलात्तन्निमित्तं ‘प्रहिज्या-’ इति संप्रसारणमिह नेति भावः ॥—जर्गृह इति । ‘उरत्’ । ‘दीघोऽकितः’ । तत्रैकाच इति अनुवर्तत इति ‘एकाचो द्वे’ इति अस्मिन् सूत्रे हरदत्तेनोक्तलादिति भावः ॥—माधवस्त्विति । अयं भावः । ‘प्रहोऽलिटि-’ इति सूत्रे यङ्लोपे चोक्तमिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहितेत्यादिषु प्रहेर्यङन्तात्तृच-स्तासेवां य इद तस्य दीघोभावे युक्तिद्वयं लभ्यते । पूर्वस्मादपि विधौ स्थानिवद्भाव इत्येके । प्रहेर्विहितो य इद् तस्य दीर्घ इत्यपरे । तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या । ताभ्यां हि ‘पूर्वत्रासिद्धे न स्थानिवत्’ इत्यवश्यम् दीघोदिग्रहणस्य प्रत्याख्यानात् । त्रैपादिकदीर्घातिरिक्तदीर्घेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचलात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य निषिद्धतात्तन्मते स्थानिवद्भावस्य वक्तुमशक्यतात् । एवं च यङ्लुकि दीर्घप्रवृत्तौ न किञ्चिद् बाधकम् । यङ्लुकोऽन्नैमित्तिकतात् अज्झलादेशत्वाच्च स्थानिवद्भावयोगात् । ‘द्विःप्रयोगो द्विवचनं षाष्टम्’ इति सिद्धान्ताद्यङ्लुगन्ताद् गृह्णातेर्वहितस्य प्रहेर्विहितलानपायाच्च ॥—तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ गृह्येते । विरोधश्चात्र मनोरमायामुपपादितः । तथा हि ‘एकाचो द्वे प्रथमस्य’ इति सूत्रे प्रहेरङ्गादिति भाष्यमुपादाय कैयट आह ‘तृचो हि जरीगृहीत्यङ्गं न तु प्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण’मिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तिसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते । एकाज्प्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः । न ह्यस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति । एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति प्रहेर्विहितस्य य इद तस्य दीर्घ इति च प्रायुक्तसमाधानमुपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्तांशे उपायान्तरपरतया नेयम् । न च प्रहीति यथाश्रुतरूपाश्रयणे गृहीत इत्यादाविटो दीर्घो न स्यादिति वाच्यम् । अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात् । प्राहितमित्यादौ तु नैवम् । एकाच इति समाधानं तु णिज्भिन्नविषयकमेव, ‘निष्ठायां सेटि’ इति णिलोपे प्राहितमित्यादावेकाच्लानपायात् । तदित्थम्—‘यङ्लुगन्ताणिजन्ताच्च यङन्ताच्च प्रहेरिटः । द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता’ । अस्यार्थः । यङ्लुगन्तादीर्घे प्राप्ते समाधानद्वयम् । प्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति । णिजन्तात्तु प्रहित्यरूपाभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम् । यङन्तात्समाधानचतुष्टयम् । ‘एकाचः—’ इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति ॥—अजर्घा इति । गृध्रु अभिकाङ्क्षायाम् । इह अपदान्तस्यापि रेफस्य ‘रो रि’ इति लोपो भवत्येव, तत्र मण्डूकश्चत्या पदस्येत्यनुवर्तनात् ॥—पापप्रष्टोति । प्रच्छ ज्ञीप्सायाम् । ‘त्रश्च—’ इति षः । पापच्छिता । पापच्छिष्यति । पापष्टु । पापष्टात् । पापष्टाम् । पापच्छतु । पापइति । पापच्छानि । अपापच्छीत् । अपाप्रद् । अपाप्रष्टाम् । अपाप्रच्छुः । अपाप्रच्छीः । अपाप्रद् । अपाप्रष्टम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छु । अपाप्रश्म ॥—भाष्ये ध्वनितमिति । ‘छ्वोः शूङ्—’ इति सूत्रे भाष्ये किद्प्रहणमनुवर्तते न वेति विकल्प काश्चिद्दोषानुद्भाव्य परिहत्य चोक्तम् । एतावानेव विशेषः । अनुवर्तमाने किद्प्रहणे ‘च्छः षत्वं वक्तव्यम्’ इति । अननुवर्तमानेत्वेन च्छः सत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये त्रश्चादिसूत्रे छप्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता उद्भाविभ्यो यङ्लुक् नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि इंडभावपक्षे देदेति देदेषि इत्यादौ कठो भावाभावाभ्यां महान् विशेषः स्यात् । तत्र किद्प्रहणाननुवृत्तावूढः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्येवकारो विरुध्येत ॥—स्त्रिविमव्योस्त्विति । सिद्ध गतिशोषणयोः । मव वन्धने ॥—जाहामीति । इदपक्षे । जाहयीमि । लोटि । जाहयीतु । जाहतु । जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहतात् । जाहयानि । जाहयाव । जाहयाम । लङि । अजाहयीत् । अजाहत् । अजाहताम् । अजाहयुः । अजाहयीः । अजाहः । अजाहतम् । अजाहत । अजाहयम् । अजाहाव । अजाहाम । जाहयात् । ‘इयन्तक्षण—’ इति वृद्धिनिषेधः । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् ॥—ज्वरत्वर—ज्वर रोगे । यित्वरा संभ्रमे । अत्र वृत्तौ झलादौ क्वितीत्युक्तं तत्र क्वितीत्येतद्रमसकृतमेवेत्याह—क्वितीति नानुवर्तत इति ॥—अवतेस्तुनीति । ‘ज्वरत्वर—’ इत्युपधावकारयोरुठि गुणे च कृते ओतुरिति सिद्ध्यति नान्यथा । तेनात्र क्वितीति नानुवर्तनीयमिति भावः ॥—अवतेरिति । उपधावकारयोरूढि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं क्विपि जूः जुरौ जुरः । झलादौ तु । जूतिः । जूणः । जूणवान् । त्वर । तूः । तुरौ । तुरः । तूर्तिः । तूणः । तूणवान् । स्त्रिवि । सूः । सुवौ । सुवः । सुतिः । अवि । ऊः । उवौ । उवः । ऊतिः । मव । मूः । मुवौ । मुवः । मूतः । मूतिः ॥—मामोषीत्यादि । ईद्पक्षे मामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति वोध्यम् ॥—राल्लोपः । ‘छ्वोः श्रुङ्— इत्यतः छ्वोरित्यनुवर्तते । क्वानुदाहरणम् । तूः । तुरौ । तुरः । धुर्वी । धूः । धुरौ । धुरः । मुर्छा । मूः । मुरौ । मुरः
Footnotes (NSP 1915 ed.)
NSP p. 453 १ गृधेर्यलोपे लङ्कि सेरिलोपे हरङ्ग्यादिलोपे रपरे.गुणे च ॥ भषूभावजश्त्वे च श्रेफरत्वे ढूलोपदीर्घे च भवेदजर्घाः ॥ १ ॥
SK 2654 · A 6.4.20V
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ २६५४ ॥
jvaratvarasrivyavimavāmupadhāyāśca
Siddhānta-kaumudī
ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥
SK 2655 · A 6.4.21V
राल्लोपः ॥ २६५५ ॥
rāllopaḥ
Siddhānta-kaumudī
रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥
SK 2656 · A 1.1.4V
न धातुलोप आर्धधातुके ॥ २६५६ ॥
na dhātulopa ārdhadhātuke
Siddhānta-kaumudī
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि च SK 354 इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥
Tattvabodhinī
NSP p. 454–455
—न धातुलोप—। आर्धधातुके धातुलोपो नास्तीति लक्षणया व्याचष्टे—धात्वंशेति । यद्यपि ‘दुरिणो लोपश्च’ इत्यौ-णादिके रक्प्रत्यये धातुलोपः प्रसिद्धस्तथापि प्रयोजनवानप्रसिद्धः । इणो लुप्तलादेव गुणाप्रसङ्गात् । प्रत्ययसन्नियोगेन धातुलोपविधानात् आर्धधातुकस्य निमित्तलमपि नास्ति । अत एव दूरमित्यत्र ‘दूलोपे—’ इति दीर्घे कर्तव्ये धातुलोपस्य स्थानिवत्त्वं नास्ति, इह धातोलोपो यस्मिन्निति वहुव्रीहिर्विशेष्यं चार्धधातुकमित्याशयेनाह—लोपनिमित्ते इति ।—गुणवृद्धी न स्त इति । यद्यपि ‘क्विति च’ इति सूत्रे लैगवायन इत्यत्र गुणनिषेधो माभूदिति ‘इग्लक्षणे गुणवृद्धी न स्तः’ इति व्याख्यातं, तथापि इह प्रयोजनाभावादिग्लक्षण इति नोक्तम् । धात्विति किम् । ल्ल् । लविता । पूञ् । पविता । नन्वत्रानुवन्धलोपनिमित्तमार्धधातुकं न भवतीति द्यङ्गविकलमिदमिति चेत् । अत्राहुः । धातुग्रहणे सति धातो-लोपो यस्मिन् इति वहुव्रीहिलाभात् लोपनिमित्त इत्यर्थो लभ्यते, तदभावे तु लोपे सत्यार्धधातुक इत्यर्थाल्लवितेत्यादौ दोषः स्यादेवेति । यदा तु लोपयतीति लोपः तस्मिँल्लोपनिमित्ते आर्धधातुके इको गुणवृद्धी न स्त इति व्याख्यायते, तदा धातुग्र-हणं स्पष्टप्रतिपत्त्यर्थम् । उत्सृष्टानुवन्धस्य धातुलमिति कैयाटादिमते तु धातुलोप इत्यत्र वहुव्रीह्याश्रयणं विनापि धात्व-यवलोपे सत्यार्धधातुक इति व्याख्यायां लवितेत्यादौ नातिप्रसङ्ग इति वोध्यम् । आर्धधातुके किम् । ‘त्रिधा वद्धो वृषभो रोरवीति’ । रु शब्द इत्यस्मात् ‘धातोरेकाच—’ इति यङि तस्य लुक् यङन्तस्य धातुत्वे यङो धात्वयवलाल्लुप्त-लाच्चात्रापि निषेधः स्यात्तन्माभूदिति । नन्वत्र यङ्लुकोऽनैमित्तिकलादिको लोपनिमित्तपरत्वं नास्तीति द्यङ्गविकलमिति चेत् । अत्राहुः । आर्धधातुकग्रहणे सति अन्यपदार्थलाभात् वहुव्रीहिर्लभ्यते, तदभावे लवयवलोपे सति गुणवृद्धी न स्त इत्यर्थाद्रोरवीतीत्यत्र दोषः स्यादेवेति । केचित्तु धातुं लोपयतीति धातुलोपः, ‘दूलोपे—’ इत्यत्रेव ‘कर्मण्यण्’ इत्यभ्युपेत्य व्यधिकरणवहुव्रीह्याश्रयणं विनैव धात्वयवलोपनिमित्ते गुणवृद्धी न स्त इति व्याचक्षते । इक इति किम् । रागः, अभाञि । ‘घञि च भावकरणयोः’ इति रजेर्नलोपे कृते वृद्धिः । अभाजीत्यत्र तु ‘भजेश्च चिणि’ इति नलोपे वृद्धिः । तेन नेह निषेध इति । सूत्रस्योदाहरणं तु लोलुवः, पोपुवः, मरीमृज इत्यादि वोध्यम् । तत्र लोल्लयपोपूयशब्दाभ्यां पचायचि ‘यङोऽचि च,’ इति यङ्लुकि कृते अच्प्रत्ययमाश्रित्य प्राप्तो गुणो निषेध्यते, मरीमृज इत्यत्र तु वृद्धिः । ननु लोल्लयादिभ्योऽच्प्रत्यये ‘अतो लोपः’ इत्यल्लोपे यकारस्य ‘यङोऽचि च’ इति लुक्यल्लोपस्य स्थानिवत्त्वादच्प्रत्ययनिमित्तः ‘सार्वधातुकार्धधातुकयोः’ इति गुणो ‘मृजेर्वृद्धिः’ इति वृद्धिश्च न भवेदिति किमनेन निषेधसूत्रेण । न चैवमपि लोलुव इत्यादावुवङि कृते लघूपधगुणः स्यात् तद्वारणाय निषेधोऽयमावश्यकः । उवङ आदिष्टादचः पूर्वत्वेन लघूपधगुणे कर्तव्ये स्थानिवत्त्वाभावादिति वाच्यम् । स्थानिद्वारानादिष्टादचः पूर्वत्वेन उवङो दृष्टत्वात् । स्थानिद्वारा दृष्टत्वेऽपि स्थानिवद्भवतीत्येतत् ‘न पदान्त—’ इति सूत्रे सवर्णग्रहणेन ज्ञापितम् । न हि शिण्डि इत्यत्र स्थानिभूतादचः पूर्वत्वेनानुसारो दृष्टः किं तु स्थानिद्वारा । तथा च अनु-सारस्य परसवर्णे कर्तव्ये श्रम अल्लोपस्य स्थानिवत्त्वनिषेधाय तत्र सवर्णग्रहणं कृतमितीह स्थानिवद्भावः सिद्धः । नोनावे-त्यत्र तु लिङ्गत्पत्तेः प्रागेव वहुलग्रहणादकारविशिष्टस्य यङो लुकि स्थानिवद्भावाप्रसक्त्या न वृद्ध्यभावशङ्केति ‘न धातुलोप—’ इति सूत्रस्य न किञ्चित्प्रयोजनमिति चेत् । सत्यम् । अत एव भाष्ये प्रत्याख्यातमिदमिति संक्षेपः ॥—तोतोतीति । यद्यप्यत्र ‘लोपो व्योः—’ इत्यनेन वलोपः सिध्यति, तथापि तोतूर्ते इत्यादौ वलोपार्थं ‘राल्लोपः’ इत्युपन्य-स्तम् । अन्यथा तत्र ‘लोपो व्योः—’ इति लोपं वाधित्वा वस्य ‘च्छ्वोः श्रुङ्—’ इति ऊठ् स्यात् ॥—तोथोर्तीत्यादि । धुर्वी धुर्वी हिंसायाम् । मुर्छा मोहसमुच्छ्रययोः । मोमूर्छीपि । मोमोर्षि । मोमूर्थः । मोमूर्थ । मोमूर्छीमि । मोमोर्मि । मोमूर्छ्यः । मोमूर्मः । मोमूर्छाचकार । मोमूर्छिता । मोमूर्छीतु । मोमोर्तु । मोमूर्तात् । मोमूर्हि । अमोमूर्छीत् । अमोमोः । अमोमूर्छ्यः । मोमूर्छ्यात् । अमोमोर्छीत् । अमोमूर्छिष्यत् । अमोमूर्छिष्यत् ॥ ॥ इति यङ्लुगन्तप्रक्रिया ॥ सुप आत्मनः क्यच् ॥ ‘धातोः कर्मणः—’ इति पूर्वसूत्रात् कर्मण इच्छायां वेल्युवर्तते । ततश्च सन्निधानादिच्छा-कर्मण एव भवतीत्याह—इपिकर्मण इति । परस्य पुत्रमिच्छतीत्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः । स तु स्वशब्दपर्यायः स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापितलादेपितैव गृह्यते तदाह—एषितृसंवन्धिन इति । सुवन्तस्योक्तविशेषणद्वयमर्थद्वारकं बोध्यम्