SK 2629 · A 3.1.22धात्वधिकारः (प्रथमः)धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ २६२९ ॥dhātorekāco halādeḥ kriyāsamabhihāre yaṅSiddhānta-kaumudīपौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥
SK 2630 · A 7.4.82Vगुणो यङ्लुकोः ॥ २६३० ॥guṇo yaṅlukoḥSiddhānta-kaumudīअभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः - SK 2304 इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः - SK 2453 इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥vārttikaसूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः(वार्तिकम्) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥
SK 2631 · A 6.4.49Vयस्य हलः ॥ २६३१ ॥yasya halaḥSiddhānta-kaumudīयस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य SK 44 । अतो लोपः SK 2308 । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥TattvabodhinīNSP p. 447—यस्य हलः ॥—संघातग्रहणमिति । तेन ईर्ध्वता अहर्यादित्यादौ यलोपो न । संघातग्रहणेन चार्थवग्रहणपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः । वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवात्र यलोप इति भावः । हलः किम् । लोल्यिता । पोपूयिता
SK 2632 · A 7.4.83Vदीर्घोऽकितः ॥ २६३२ ॥dīrgho'kitaḥSiddhānta-kaumudīअकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥TattvabodhinīNSP p. 447—दीर्घोऽकितः । अकितः किम् । यंयम्यते । रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाचा ‘अत्र लोपोऽभ्यासस्य’ इत्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतीत्यादौ । तत्र हि परलाभुक्ति कृतेऽभ्यासस्याजन्तलाभावादीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाकित इत्यनेन । न चाभ्यासावयवस्याचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिंश्चन प्रयोजनवदिति वाच्यम् । संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् । येन नाप्राप्तिन्यायेन नुको दीर्घापवादलस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः । डोढौक्यते इत्यत्राभ्यासहस्रं वाधित्वा परत्वात् ‘दीर्घोऽकितः’ इति दीर्घे कृते डोढौक्यत इति स्यात् । तस्माद् अभ्यासविकारेषु उत्सर्गविधीन् वाधका न वाधन्त इति ज्ञापनायाकित इति ग्रहणं कर्तव्यमिति । तथा चोक्तंज्ञापकनिर्वाहाय ‘दीर्घोऽकितः’ इत्यत्राभ्यासस्याच इति वैयधिकरण्यपक्षस्याश्रयणात् यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकिं कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् ॥—अटाट्यत इति । इह व्यशब्दस्य द्वित्वम् ॥—यङ्कि च । इह ‘गुणोऽर्तिसंयोगाद्योः’ इत्येतत्सर्वमप्यनुवर्तते ॥—यकारपरस्येति । यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति
SK 2633 · A 7.4.30Vयङि च ॥ २६३३ ॥yaṅi caSiddhānta-kaumudīअर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्तवान्नोपधागुणः । बेभिदिता ॥
SK 2634 · A 3.1.23Vनित्यं कौटिल्ये गतौ ॥ २६३४ ॥nityaṃ kauṭilye gatauSiddhānta-kaumudīगत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥TattvabodhinīNSP p. 447–448—नित्यं कौटिल्ये । नित्यंशब्दोऽवधारणार्थक इत्याह—कौटिल्य एवेति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्यानित्यत्वज्ञापनार्थम् । तेन ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने क्तेनावाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति । ततश्च ‘क्तस्य च वर्तमाने’ इति षष्ठी न प्रवर्तत इति ‘पूजितो यः सुरासुरैः’ इति तृतीया साधुरेव ॥—इत्यादीति । जंजभ्यते । दंदश्यते । दंदह्यते । वंभज्यते । पस धातुर्दन्त्यान्तः सौत्रो गत्यर्थं इति सश वाधनसर्वानयोरित्यत्र भाधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते । एवं जजपीति । जज्जमीति । दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम्
SK 2635 · A 3.1.24Vलुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ॥ २६३५ ॥lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyāmSiddhānta-kaumudīएभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥
SK 2636 · A 7.4.87Vचरफलोश्च ॥ २६३६ ॥caraphaloścaSiddhānta-kaumudīअनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥vārttikaस च पदान्तवद्वाच्यः(वार्तिकम्) ॥ वा पदान्तस्य SK 125 इति यथा स्यात् ॥
SK 2637 · A 7.4.88Vउत् परस्यातः ॥ २६३७ ॥ut parasyātaḥSiddhānta-kaumudīचरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च SK 354 इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥
SK 2638 · A 7.4.86Vजपजभदहदशभञ्जपशां च ॥ २६३८ ॥japajabhadahadaśabhañjapaśāṃ caSiddhānta-kaumudīएषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥
SK 2639 · A 8.2.20Vग्रो यङि ॥ २६३९ ॥gro yaṅiSiddhānta-kaumudīगिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था - SK 2462 इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः SK 2420 । शोशूयते । शेश्वीयते । यङि च SK 2623 । सास्मर्यते । रीङृतः SK 1234 । चेक्रीयते । सुट् । संचेस्क्रीयते ॥TattvabodhinīNSP p. 448—ग्रो यङि । ‘कृपो रो लः’ इत्यतो रो ल इति वर्तते तदाह—रेफस्य लत्वमिति ॥—चेकीयते इति । परलाद्रीङि कृते द्विर्वचनम् ॥—संचेस्कीयते इति । रीङि द्वित्वे च सुट् । न च संकृ इत्यस्यामवस्थायां द्विलात्परलात्सुटि कृते संयोगादित्वेन रीङ्प्रवृत्तेः प्राक् गुणः स्यादिति वाच्यम् । अङ्म्यासव्यवायेऽपीत्यस्यारम्भे अङ्म्यासयोः कृतयोरेव सुट् न तु ततः प्रागिति सिद्धान्तात् । एतेन सुटो वहिरङ्गलाघ्न संयोगादित्वेन गुण इति केषांचित्समाधानं परास्तम् । अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादिलमृदन्तत्वं च नास्तीति गुणप्राप्तेरभावात् । ननु ‘अङ्म्यासव्यवायेऽपि सुट् कात्पूर्वः’ इति वार्तिकप्रत्याख्यानाय ‘पूर्वं धातुरुपसर्गेण युज्यते’ इति पक्षं स्वीकृत्य भाष्यकृता संचस्करतुरित्यादावन्तरङ्गलात्सुटि ससुट्कस्यैव द्विलाभ्युगमात् संचेस्कियते इति न सिध्येत् । तत्र हि सुटि कृते रीङं वाधित्वा परत्वात् ‘यङि च’ इति गुणे संचस्कर्यत इत्यनिष्ठरुपप्रसङ्गात् । यदि तु इष्टानुरोधेन पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति मताश्रयणेन रीङादेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हि ‘अङ्म्यासव्यवायेऽपि’ इति वचनं स्वीकर्तव्यमेव स्यादिति चेत् । अत्राहुः । अङ्म्यासे-त्यादिवार्तिकं विनापि संचस्करतुरित्यादिरूपसिद्धये भाष्यकृता ‘पूर्वं धातुरुपसर्गेण युज्यते’ इति पक्ष आश्रितः । संचेस्की-यते समचेस्कियत इत्यादिसिद्धिस्तु वार्तिकायत्तैवेति
SK 2640 · A 8.3.112Vसिचो यङि ॥ २६४० ॥sico yaṅiSiddhānta-kaumudīसिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥TattvabodhinīNSP p. 448—सिचो यङि । अभ्याससकारस्य ‘उपसर्गात्सुनोति—’ इति, ततः परस्य तु ‘स्थादिष्वभ्यासेन च—’ इति पत्वे प्राप्ते निषेधोऽयम् । यङि किम् । अभिषिषिक्षति
SK 2641 · A 7.4.63Vन कवतेर्यङि ॥ २६४१ ॥na kavateryaṅiSiddhānta-kaumudīकवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥TattvabodhinīNSP p. 448—न कवतेर्यङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कुङ् शब्द इति भ्वादिरेव गृह्यते न तु कु शब्द इति अदादिः कूङ् शब्द इति तुदादिश्चेत्याशयेनाह—कौतिकुवत्योस्त्विति । ननु कोरित्युक्तेऽपि कूङः प्रसङ्गो नास्ति दीर्घान्तलाङ्गुविकरणपरि-भाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः । कोरित्युक्ते तु निरनुवन्धपरिभाषाया अपि जागरूकत्वादुभयोर्प्र-हणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देशः कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति कुङ इत्ये-वात्र सुवचम् ॥—इत्यादीति । दनीध्वस्यते । वनीध्रस्यते । चनीकस्यते । पनीपत्यते । पनीपत्यते । चनीस्कथते । एवं वनीवश्वीति । सनीसंसीति । दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम् ॥—ग्रीभाव इति । ह्रीभावे कृतेऽपि ‘अभ्यासाच्च’ इति कुत्वेन जेघ्रीयत इति सिध्यति, तथापि प्रक्रियालाघवाय घ्री इत्युक्तमिति मनोरमा । अन्ये तु ‘सेहिंः’ ‘मेर्निः’ इति इकारोच्चारणसामर्थ्याद्यथा ‘एहः’ इत्युत्वं न भवति तथा ह्रीभावे हि कृते ‘अभ्यासाच्च’ इति कुत्वं न स्यादित्याशयेन ग्रीभावः कृत इत्याहुः । अत्र च दिग्यादेशेनैव ग्रीभावेन द्वित्वं न वाध्यते पुनःप्रसङ्गविज्ञानादिति केचित् । वस्तुतस्तु यङन्तावयवस्य द्वितीयाजवधिकस्य द्वित्वं ग्रीभावस्तु प्रकृतिमात्रस्येति विपयभेदाद्वित्वं निर्वाधमेव
SK 2642 · A 7.4.84Vनीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ २६४२ ॥nīgvañcusraṃsudhvaṃsubhraṃsukasapatapadaskandāmSiddhānta-kaumudīएषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥
SK 2643 · A 7.4.85Vनुगतोऽनुनासिकान्तस्य ॥ २६४३ ॥nugato'nunāsikāntasyaSiddhānta-kaumudīअनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा SK 2319 । जाजायते । जञ्जन्यते ।vārttikaहन्तेर्हिंसायां यङि घ्नीभावो वाच्यः(वार्तिकम्) ॥ जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥
SK 2644 · A 7.4.90Vरीगृदुपधस्य च ॥ २६४४ ॥rīgṛdupadhasya caSiddhānta-kaumudīऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीकॢप्यते ।vārttikaरीगृत्वत इति वक्तव्यम्(वार्तिकम्) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥TattvabodhinīNSP p. 448—रीगृदुपधस्य च । कदिति किम् । चेकीत्यर्थं । णिजभावपक्षे एकाचूलाद्यङ्
SK 2645 · A 6.1.19Vस्वपिस्यमिव्येञां यङि ॥ २६४५ ॥svapisyamivyeñāṃ yaṅiSiddhānta-kaumudīसंप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥TattvabodhinīNSP p. 448–449—स्वपिस्यमि—। यङि किम् । स्वप्नक् ॥—सेसि-म्यते इति । स्यसु शब्दे दन्त्याजन्तसादिलाभाचेनाप्रदेकत्वात् स्वपिस्यमि—यङि किम् । स्वप्नक् ॥—सेसि-अकृत्सार्व— इति वा दीर्घः
SK 2647 · A 6.1.21Vचायः की ॥ २६४७ ॥cāyaḥ kīSiddhānta-kaumudīचेकीयते ॥TattvabodhinīNSP p. 449—चायः की । यङि परे चायः की स्यात् । दीघोच्चारणं यङ्लुगर्थम् । अत एव ‘न लुमता—’ इति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव । चेकीतः
SK 2648 · A 7.4.31Vई घ्राध्मोः ॥ २६४८ ॥ī ghrādhmoḥSiddhānta-kaumudīजेघ्रीयते । देध्मीयते ॥TattvabodhinīNSP p. 449—ई घ्राध्मोः । दीघोच्चारणं प्राग्वत् । जेघ्रीतः । ‘अस्य च्चौ’ इत्याद्यर्थं दीर्घप्रहणमिति तु सुवचम्
SK 2649 · A 7.4.22Vअयङ् यि क्ङिति ॥ २६४९ ॥ayaṅ yi kṅitiSiddhānta-kaumudīशीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥Tattvabodhinīalignment inferredNSP p. 449—शाशय्यते इति । परलादन्तरङ्गलाच्चायङादेशे कृते द्विलम् ॥ इति यङन्तप्रक्रिया ॥ यङोऽचि च ॥ यङा साहचर्यादचीति प्रत्ययो गृह्यते नतु प्रत्याहारः । ‘ण्यक्षत्रियार्षं—’ इत्यतोऽत्र लुगनुवर्तते । तदाह—अच्प्रत्यये लुक् स्यादिति । चकारेण ‘वहुलं छन्दसि’ इत्यतो वहुलमित्यनुकृष्यत इत्याह—वहुलं लुक् स्यादिति । केचित्तु छन्दसीत्यनुकर्पन्ति तेषामपि मते क्वचिद्भाषायां यङ्लुगभवत्येव । भूसुवोरिति गुणनिषेधे सिद्धे वोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति