SK 2554 · A 3.1.81V
क्र्यादिभ्यः श्ना ॥ २५५४ ॥
kryādibhyaḥ śnā
Siddhānta-kaumudī
{$ {!1473 डुक्रीञ्!} द्रव्यविनिमये$} ॥
क्रीणाति । ई हल्यघः SK 2497 क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः श्नाभ्यस्तयोः - SK 2483 इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणाते । चिक्राय । चिक्रियतुः । चिक्रियिथ । चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीतात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट ।{$ {!1474 प्रीञ्!} तर्पणे कान्तौ च$} । कान्तिः कामना । प्रीणाति । प्रीणीते ।{$ {!1475 श्रीञ्!} पाके$} ।{$ {!1476 मीञ्!} हिंसायाम्$} । हिनुमीना SK 2530 प्रमीणाति । प्रमीणीतः । मीनातिमिनोति SK 2508 इत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त ।{$ {!1477 षिञ्!} बन्धने$} । सिनाति । सिनीते । सिषाय । सिष्ये । सेता ।{$ {!1478 स्कुञ्!} आप्रवणे$} ॥
Bālamanoramā
क्र्यादिभ्यः श्ना - क्र्यादिभ्यः श्ना.कत्र्रर्थे सार्वधातुके परे क्र्यादिभ्यः श्नाप्रत्ययः स्यात्स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति । श्नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति । हलादौ क्ङिति सार्वधातुके ईत्त्वमिति भावः । क्री णा झीति स्थितेई हल्यघो॑रिति ईत्वमाशङ्क्य आह — ईत्वात्पूर्वमिति । नित्यत्वादिति । अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः । एवं झस्येति । क्री णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्त्वात्पूर्वमित्यर्थः । तत इति । अन्तादेशाददादेशाच्च पश्चादित्यर्थः । अजादौ क्ङिति सार्वधातुके श्नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्थलि वेडिति मत्वाऽऽह — चिक्रयिथ चिक्रेथेति । चिक्रियिवेति । क्रादिनियमादिडिति भावः । क्रीणातु । क्रीणीहि । अक्रीणात् । अक्रीणीत । क्रीणीयात् । क्रीणीत ।