PREMABASESiddhānta-kaumudī
Prakaraṇa 50 · SK 2543–2546

तिङन्तरुधादिप्रकरणम्

tiṅantarudhādiprakaraṇam · 4 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2543 · A 3.1.78V
रुधादिभ्यः श्नम् ॥ २५४३ ॥
rudhādibhyaḥ śnam
Siddhānta-kaumudī
{$ {!1438 रुधिर्!} आवरणे$} । नव स्वरितेत इरितश्च ॥ शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि ।श्नसोरल्लोपः SK 2469 । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न न पदान्त - SK 51 इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रुणद्धु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध ।{$ {!1439 भिदिर्!} विदारणे$} । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त ।{$ {!1440 छिदिर्!} द्वैधिकरणे$} । अच्छिदत् । अच्छैत्सीत् । अच्छित्त ।{$ {!1441 रिचिर्!} विरेचने$} । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त ।{$ {!1442 विचिर्!} पृथग्भावे$} । विनक्ति । विङ्क्ते ।{$ {!1443 क्षुदिर्!} संपेषणे$} । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त ।{$ {!1444 युजिर्!} योगे $}। योक्ता ।{$ {!1445 उच्छृदिर्!} दीप्तिदेवनयोः$} । छृणत्ति । छृन्ते । चच्छर्द । सेसिचि - SK 2506 इति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट ।{$ {!1446 उतृदिर्!} हिंसानादरयोः$} । तृणत्तीत्यादि छृणत्तिवत् ।{$ {!1447 कृती!} वेष्टने$} । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् ।{$ {!1448 ञिइन्धी!} दीप्तौ$} ॥ त्रय आत्मनेपदिनः ॥
Bālamanoramā
रुधादिभ्यः श्नम् - रुधादिभ्यः श्नम् । कत्र्रर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात्स्वार्थे इत्यर्थः । तदाह-शपोऽपवाद इति । श्नमि शमावितौ । मित्त्वस्य फलमाह - मित्त्वादन्त्यादचः पर इति । प्रत्ययत्वाच्छकारस्येत्संज्ञा । शकारनिर्देशस्तु 'श्नसोरल्लोपः' 'श्नान्नलोपः' इत्यत्र विशेषणाऽर्थः, नतु सार्वधातुकसंज्ञार्थः, फलाऽभावात् । न च 'सार्वधातुकमपि' दिति ङित्त्वे गुणनिषेधः फलमिति शङ्कयं, श्नमः पूर्वस्य इगन्तस्य अङ्गत्वाऽभावादेव गुणाऽप्रसक्तेः । ननु श्नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धीति स्यादित्यत आह - नित्यत्वाद्गुणं बाधते इति । कृते अकृते च गुणे प्रवृत्तेः श्नम् नित्यः । तस्मिन् सति लघूपधत्वाऽभावान्न गुण इति भावः । रुणद्धीति । रुनध् तीति स्थिते 'झषस्तथो' रितधत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रियां दर्शयति - श्नसोरल्लोप इति । क्ङिति सार्वधातुके तद्विधेरिति भावः । रुन्ध् तस् इति स्थिते नस्य णत्वमाशङ्क्याह - मत्वस्यासिद्धत्वादिति । ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह - तस्यासिद्धत्वादिति । परसवर्णसंपन्नस्येत्यर्थः । नन्विह अल्लोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वात् कथमनुस्वारपरसवर्णावित्यत आह - न पदान्तेति । रुन्द्ध इति ।झषस्तथो॑रिति धः । रुन्धन्तीति । रुणत्सि रुन्द्धः रुन्द्ध । रुणध्मि रुन्ध्वः रुन्ध्मः । रुन्द्धे इति । रुन्धाते रुन्धते । रुन्त्से रुन्धाथे रुन्द्ध्वे । रुन्धे रुन्ध्वहे रुन्ध्महे । रुरोध । रुरोधिथ । अरुणदिति । लङि हल्ङ्यादिना तिपो लोपः । धस्य चर्त्वविल्पः । सिपि तु हल्ङ्यादिना लुप्तेदश्चे॑ति रुत्वविकल्पं मत्वाह -अरुणत् अरुण इति । रुन्ध्यात् । रुन्धीत । रुत्सीष्ट । इरित्त्वादङ्विकल्पं मत्वाह — अरुधत् अरौत्सीदिति । अङभावे सिचि हलन्तलक्षणा वृद्धिः । लुङस्तह्राह - अरुद्धेति ।जलो झली॑ति सिज्लोपः । भिनत्तीति । भिन्त्तः भिन्दन्ति । भिनत्सि भिन्त्त्थः भिन्त्थ । भिनद्मि भिन्द्वः भिन्द्मः । भिन्त्ते इति । भिन्दाते भिन्दते । भिन्त्से भिन्दाथे । भिन्द्ध्वे । भिन्दे भिन्द्वहे । बिभेद । बिभेदिथ । बिभिदिव । बिभिदे । बिभिदिषे । अभिनत् अभिन इति । 'दश्चे' ति रुर्वेति भावः । अभिन्त्तेति । लङि तङि रूपम् । लुङः परस्मैपदे आह - अभिदत् अभैत्सीदिति । इरित्त्वादङ्वेति भावः । लुङि तङ्याह अभित्तेति । 'झलो झली' ति सिज्लोपः । अभित्सातामित्यादि । उच्छृदिरिति । उकार इत् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थः । ञि इन्धी दीप्तौ । ईदित्त्वं 'श्वीदितः' इत्येतदर्थम् । श्नमि कृते इन न् ध् ते इति स्थिते -
SK 2544 · A 6.4.23V
श्नान्नलोपः ॥ २५४४ ॥
śnānnalopaḥ
Siddhānta-kaumudī
श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः ।{$ {!1449 खिद!} दैन्ये खिन्ते$} । खेत्ता ।{$ {!1450 विद!} विचारणे$} । विन्ते । वेत्ता । अथ परस्मैपदिनः ।{$ {!1451 शिष्लृ!} विशेषणे$} । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि -SK 71इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् ।{$ {!1452 पिषॢ!} संचूर्णने$} । शिषिवत् । पिनष्टि ।{$ {!1453 भञ्जो!} आमर्दने$} । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता ।{$ {!1454 भुज!} पालनाभ्यवहारयोः$} । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ।{$ {!1455 तृह!} {!1456 हिसि!} हिंसायाम्$} ॥
Tattvabodhinī
NSP p. 423
—श्रान्नलोपः । अस्य मुख्योदाहरणम् । अनक्ति । भनक्ति । श्रादित्युत्सृष्टमकारानुबन्धस्य श्रमो ग्रहणमित्याह—श्रमः परस्येति । एवं च ‘यजयाच—’ इति विश्वशब्दस्यापि नुटि विश्रानामित्यत्र लक्षणप्रतिपदोक्तप्रत्ययग्रहणपरिभाषयोः प्रवृत्त्या नलोपशङ्गैव नास्तीत्याहुः । इन्धे इन्त्से । श्रमो नकारस्यानुस्वारपरसवर्णौ । ‘अनिदिताम्—’ इति नलोपस्तु न भवति । अल्लोपस्य ‘असिद्धवदत्र—’इत्यसिद्धत्वात्स्थानिवत्त्वाद्वा । भज्जो । ओदित्करणं निष्ठानत्वार्थम् । भमः । भुज पालनादौ । ‘भुजोऽनवने’ इत्यात्मनेपदं वक्ष्यते । भुङ्क्ते । भुजाते
Bālamanoramā
श्नान्नलोपः - श्नान्नलोपः । श्नसोरल्लोप इति । तताच इन्ध् ते इति स्थितेझषस्तथो॑रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति । यद्यपिअनिदिता॑मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्तस्व.इन्द्ध्वम् । इनधै इति । श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् 'श्नसोरल्लोपः' इत्यभावे रुपमिति भावः । अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यस्याऽप्रवृत्तेः । इनधावहै । लह्राह - ऐन्द्धेति । ऐन्द्धा इति ।झषस्तथो॑रिति थस्य धः । इन्धीत । लुहि - ऐन्धिष्ट । शिष्लृ ।अनिट् । शिशेषिथेति । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह — हेर्धिरित । शिन् ष् धीति स्थिते आह — जश्त्वमिति ।झलां जश् झशी॑ति षस्यड इति भावः । ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः । झर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्यनश्चे॑त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः ।न पदान्ते॑ति निषेधान्नाऽल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति — शिण्ढीति । ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः,दीर्घादाचार्याणा॑मित्युत्तरम्अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'तोर्लि'उदः स्थास्तम्भोः पूर्वस्य॑ 'झयो होऽन्यतरस्यां'शश्छोऽरटी॑ति षट्सूत्रपाठोत्तरं 'झलां जश् झशि' 'अभ्यासे चर्च' 'खरि च' 'वाऽवसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्टआझलां जश् झशी॑त्यस्यझरो झरी॑त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम् ।शिंष्टात् । शिंष्टम् शिंष्ट । शिनषाणीति । आटः पित्त्वेन ङित्तवाऽभावात्श्नसो॑रित्यल्लोप नेति भावः । अशिनडिति । लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः । अशिंष्टाम् । अशिंषन् । अशिनट् । अशिष्टम् । अशिंष्ट । अशिनषमशिंष्व अशिंष्म । भञ्जो । भनक्तीति । श्नमि भ न न् ज् तीति स्थिते 'श्नान्न लोपः' इति नलोप इति भावः । भङ्क्तः भञ्जन्तीत्याद्यूह्रम् । भारद्वाजनियमात्थलि वेडिति मत्वाह — वबञ्जिथ बङङ्क्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । 'भुजोऽनवने' इति तङ् वक्ष्यते । भुङ्क्ते भुञ्जाते इत्यादि.तृह हिसि.आद्य ऋदुपधः । सेट् । श्नमि कृते तृणह् तीति स्थिते —
SK 2545 · A 7.3.92V
तृणह इम् ॥ २५४५ ॥
tṛṇaha im
Siddhānta-kaumudī
तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ।{$ {!1457 उन्दी!} क्लेदने$} । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ।{$ {!1458 अञ्जू!} व्यक्तिम्रक्षणकान्तिगतिषु $}। अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥
Tattvabodhinī
NSP p. 423–424
—तृणह इम् । तृह् इति वक्तव्ये सश्रमो ग्रहणं विशेषविहितेन इमा श्रमो वाधो मा भूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्क्यम् । ततः परस्य हलादेः पितः सार्व-धातुकस्य विकरणेन व्यवधानात् । ‘नाभ्यस्तस्याचि पिति—’ इत्यतः पितीति ‘उतो वृद्धिः’ इत्यतो हलीति च वर्तते तदाह—हलादौ पितीति । ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते किं तु पितीति अनुवर्तत एव । तेन तृढ इत्यत्र नातिप्रसङ्गः । न च हलीत्यननुवृत्तौ तृणहानीत्यत्रातिप्रसङ्ग इति वाच्यम् । अचि नेत्यनु- वतनात् । उन्दी । केदनमार्द्रीभावः । अञ्च । व्यक्तिर्विवेचनम् । म्रक्षणं क्षिग्धता
Bālamanoramā
तृणह इम् - तृणह इम् । 'तृणह' इति षष्ठी । कृतश्नमस्तृहधातोर्निर्देशः । र॒नाभ्यस्तस्ये॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । फलितमाह - तृहः श्नमि कृते इति । मित्तवादन्त्यादचः परः । 'श्नमि कृते' इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम्बाध्येत,सत्यपि संभवे बाधनं भवती॑ति नयायात् । अन्यथाब्राआहृणेभ्यो ददि दीयतां, तक्रं कौण्डिन्याये॑त्यत्र तक्रेण दधि न बाध्येत, श्नमा शप्च न बाध्येत, देशभेदेन उभयसंभवादिति भावऋ । तृणेढीति । तृणह् तस् इति इमागमे आद्गुणे तृणेह् ति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्नमि कृते, तृणह् तस् इति स्थिते , तसोऽपित्त्वादिमागमाऽभावेश्नसो॑रित्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तृंहन्ति । तृणेक्षि तृण्ढः तृण्ढ । तृणेहिऋ तृंह्वः तृंह्मः । ततर्हेति.ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु - तृण्ढात् तृण्ढाम् तृंहन्तु । तृण्ढि - तृण्ड्ढि - तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतृणेडिति । लङ स्तिपि श्नमि इम् हल्ङ्यादिलोपः ढत्वजश्त्वे इति भावः । अतृण्ढामतंहन् । अतृणेट् अतृण्ढमतृण्ढ । अतृणहमतृंह्व अतृंह्म । तृंह्रात् । तृह्रात् । अतर्हीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति - हिनस्तीति । इह श्नमि इदित्त्वान्नुमि च कृते 'श्नान्न लोपःर' इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति । हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंस्वः हिंस्मः । जिहिंसेति । किति इदित्तवान्नलोपो न । जिहिंसतुः । जिहिंसिथ । हिंसितेति । सेडिति भावः । हिंसिष्यति । हिनस्तु हिंस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इतिनुमो लोपे हेरपित्त्वेन ङित्त्वात्श्नसो॑रित्यल्लोपेधिचे॑ति सलोपे, हिन्धीति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिस्तामहिंसन् । सिपि रुर्वा - अहिनः अहिनत्, अहिंस्तम् । अहिनसमहिंस्व । हिंस्यात् हिंस्याताम् । आशीर्लिङ श्नमभावान्नुमेव । इदित्त्वान्नलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः । उनद्मि उन्द्वः । उन्दामिति । इजादेश्चेत्याम् । उन्दिता । उन्दिष्यति । उनत्तु - उन्त्तात् । उन्द्धि । उनदानि । लह्राह - औनदिति । औत्त्वाद्वेट् । अनक्तीति । श्नमि कृते परसवर्णस्याऽसिद्धत्वात् 'श्नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्त्वेन क इत भावः । अङक्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः । गस्य चर्त्वेन कः । श्नमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपाऽल्लोपौ । श्नमो नस्य परसवर्णो ञ इति भावः । अनक्षि अङ्क्थः । अनज्मि अञ्ज्वः । अङ्ग्धीति । हौ श्नमि धिभावे नलोपाऽल्लोपौ । जस्य कुत्वेन गकारः । नस्य परसवर्णो ङकार इति भावः । अनजानीति । श्नान्नलोपः । आटः पित्त्वादल्लोपो न । लह्राह - आनगिति । आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् ।
SK 2546 · A 7.2.71V
अञ्जेः सिचि ॥ २५४६ ॥
añjeḥ sici
Siddhānta-kaumudī
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् ।{$ {!1459 तञ्चू!} सङ्कोचने$} । तनक्ति । तङ्क्ता । तञ्चिता ।{$ {!1460 ओविजी!} भयचलनयोः$} । विनक्ति । विङ्क्तः । विज इट् SK 2536 इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ।{$ {!1461 वृजी!} वर्जने$} । वृणक्ति । वर्जिता ।{$ {!1462 पृची!} संपर्के$} । पृणक्ति । पपर्च ॥
Tattvabodhinī
NSP p. 424–425
—अञ्जेः सिचि । नित्यमिद् स्यादिति । विभाषाग्रहणं नामुवर्तते इति भावः । सिचि किम् । अङ्क्ता । पृची । इदित्वानिष्ठायां नेद् । पृक्तः । ‘अपृक्त एकाल्—’ इत्यत्र नञ्पूर्वः ॥ इति रुधादयः ॥ अतनिष्ट । अतानिष्टेति । ‘तस्यस्यमिपाम्—’ इति तादेशः । ‘अतो हलादेः—’ इति वा वृद्धिः ॥—अततेति । ‘तनादिभ्यस्तथासोः’ इति सिज्जुक्यनुनासिकलोपः ॥—अतनिष्टेति । लुगभावपक्षे इद् । षणु दाने । नान्तोऽयं णकारस्तु लाक्षणिकः । तेन यङ्लुकि संसन्ति संसन्त इत्यादावनुस्वारपरसवर्णौ । क्षणु हिंसायाम् । क्षिणु च । इमावपि लाक्षणिकणकारौ । तेन विक्षन्ति । वेक्षन्ति इत्यत्रानुस्वारपरसवर्णौ ॥—सिचो लोप इति । न चास्मिन्पक्षे प्रत्ययलक्षणग्र१ आत्रेयादय इति—अत्रारचित्तु संश्वापूर्वकस्य विधेरनित्यत्वे भाष्यानुक्तत्वम् । वृत्त्या अकृतेत्यत्र गुणः स्यादिति वाच्यम् । ‘उश्च’ इति सिचः कित्वेन तन्निषेधात् ॥ ‘संपर्युपेभ्यः—’ इति वृत्तिस्थपाठं विहाय भाष्यवार्तिकानुसारेणाह—संपरिभ्यामिति ॥ इति तनादयः ॥ एवं अस्याद्भाव इति । ‘आत्मनेपदेष्वनतः’ इत्यनेन ॥—सौत्रा इति । नकारोपधा इत्यपि ज्ञेयाः ॥—विष्णु-भ्रोतीति । ‘अनिदिताम्—’ इति नलोपः । ‘स्तन्भेः’ इति षत्वम्
Bālamanoramā
अञ्जेः सिचि - अञ्जेः सिचि । 'इडत्त्यर्ती' त्यत इडित्यनुवर्तते । ऊदित्तवादेव सिद्धे नित्यार्थमिदम् । तदाह — अञ्जेरित्यादिना । तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देशः । अञ्जूवद्रूपाणि यथायोग्यमूह्रानि । ओ विजीति । ओकार इत् । अनिट्सु इरितो ग्रहणादयं सेट् । रुधादयः ॥ इति बालमनोरमायाम् रुधादयः॥अथ समासान्तप्रकरणम् । — — — — — — — -