SK 2534 · A 3.1.77V
तुदादिभ्यः शः ॥ २५३४ ॥
tudādibhyaḥ śaḥ
Siddhānta-kaumudī
{$ {!1281 तुद!} व्यथने$} ॥ इतः षट् स्वरितेतः ॥
तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ।{$ {!1282 णुद!} प्रेरणे$} । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता ।{$ {!1283 दिश!} अतिसर्जने$} । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत ।{$ {!1284 भ्रस्ज!} पाके$} । ग्रहिज्या - SK 2412 इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥
Bālamanoramā
तुदादिभ्यः शः - तुदादिभ्यः शः । कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् 'सार्वधातुकमपि' दिति ङित्त्वान् गुण इति भावः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट् ।तदाह — तुतोदिथेति । तोत्तेति । अनिडिति भावः । अतौत्सीदिति । हलन्तलक्षणा वृद्धिः । णुदधातुर्णोपदेशः । अनिट् ।दिशधातुरप्यनिट् । देष्टेति । व्रश्चेति षत्वे ष्टुत्वम् । स्ये तुषढो॑रिति षस्य कत्वं च — देक्ष्यति । दिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । 'शल इगुपधा' दिति क्सं मत्वाह — अदिक्षत् । अदिक्षतेति । भ्रस्ज पाके । अनिट् । भ्रस्ज अ तीति स्थिते आह — ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः । भृस्ज् अ तीति स्थिते आह — सस्येत्यादि । णलि भ्रस्ज् अ इति स्थिते —