SK 2523 · A 3.1.73V
स्वादिभ्यः श्नुः ॥ २५२३ ॥
svādibhyaḥ śnuḥ
Siddhānta-kaumudī
{$ {!1247 षुञ्!} अङिषवे$} । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ॥
सुनोति । सुनुतः । हुश्नुवोः - SK 2387 इति यण् । सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । स्तुसुधूञ्भ्यः - SK 2385 इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥
Bālamanoramā
स्वादिभ्यः श्नुः - स्वादिभ्यः श्नुः । कत्र्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः । शपोऽपवादः । सुनोतीति । लटस्तिपि श्नुः, शकार इत् । शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वातत्स्मिन् परे धातोर्न गुणः । श्नोस्तु तिपमाश्रित्य गुण इति भावः । सुनुत इति । तसो ङित्त्वात् स्नोर्न गुण इति भावः । सुनु — अतीति स्थिते 'अचि श्नुधातु' इति उवङमाशङ्क्याह — हुश्नुवोरिति । सुनोषि सुनुथः सुनुथ । सुनोमि । वसि मसि चलोपश्चास्यान्यतकरस्यां म्वो॑रित्युकारलोपविकल्पं मत्वाह — सुन्वः सुनुव इति । सुन्मः सुनुम इत्यपि ज्ञेयम् । अथ लटस्तङि — सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाथे सुनुद्वे । सुन्वे । इति सिद्धवत्कृत्य आह — सुन्वहे सुनुवहे इति ।लोपश्चास्ये॑त्युकारलोपविकल्प इति भावः । सुन्महे सुनुमहे इत्यपि ज्ञेयम् । सुषावेति.सुषुवतुः सुषुवुः । सुषविथ — सुषोथ सुषुवथुः सुषुव । सुषाव — सुषव सुषुविव सुषुविम । अथ लिटस्तह्राह — सुषुवे इति । सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे [सुषुविढवे] सुषुविधवे । सुषुवे सुषुविवहे सुषुविमहे ।सोतेति । अनिट्त्वसूचनमिदम् । सोष्यति सोष्यते । सुनोतु — सुनुतात् सुनुताम् सुन्वन्तु । इतिसिद्धवत्कृत्य आह — स#उनु इति ।उतश्च प्रत्यया॑दिति हेर्लुक् । सुनुतात् सुनुतम् सुनुत । सुनवानीति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्तवेनाऽङित्त्वादिति भावः । सुनवाव सुनवाम । लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । इति सिद्धवत्कृत्य आह — सुनवै इति ।हुश्नुवो॑रिति यणं बाधित्वा परत्वाद्गुणः, आटः पित्त्वेन ङित्त्वाऽभावादिति भावः । सुनवावहै सुनवामहै । असुनोत् असुनुतामसुन्वन् । असुनोः । असुनवमसुनुव असुन्व । असुनुत असुन्वातामसुन्वत । इत्याद्यूह्रम् । विधिलिङ्याह — सुनुयादिति । यासुटो ङित्त्वात्श्नोर्न गुण इति भावः । सूयादिति । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । सोषीष्ट । लुङि परस्मैपदे सिच इण्निषेधे प्राप्ते आह — स्तुसुधूञ्भ्य इतीडिति । असाविष्टामित्यादि । लुङस्तङ्याह — असोष्टेति । असोषातामित्यादि । असोष्यत् असोष्यतउपसर्गात्सुनोती॑ति षत्वं मत्वा आह — अभिषुणोतीति । षात्पर्तवाण्णत्वम् । अभ्यषुणोदिति ।प्राक् सितादड्व्यवायेऽपी॑ति षत्वम् । अभिसुषावेति ।स्थादिष्वभ्यासेने॑ति नियमादभ्यासस्य न षः ।आदेशप्रत्यययो॑रित्युत्तरखण्डस्य षः ।