PREMABASESiddhānta-kaumudī
Prakaraṇa 47 · SK 2505–2522

तिङन्तदिवादिप्रकरणम्

tiṅantadivādiprakaraṇam · 18 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2505 · A 3.1.69V
दिवादिभ्यः श्यन् ॥ २५०५ ॥
divādibhyaḥ śyan
Siddhānta-kaumudī
{$ {!1107 दिवु!} क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु$} । झृषन्ताः परस्मैपदिनः ॥ शपोऽपवादः । हलि च SK 354 इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ।{$ {!1108 षिवु!} तन्तुसन्ताने$} । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् ।{$ {!1109 स्रिवु!} गतिशोषणयोः$} ।{$ {!1110 ष्ठिवु!} निरसने$} । केचिदिहेमं न पठन्ति ।{$ {!1111 ष्णुसु!} अदने$} । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस ।{$ {!1112 ष्णसु!} निरसने$} । स्नस्यति । सस्नाम ।{$ {!1113 क्नसु!} ह्वरणदीप्त्योः$} । ह्वरणं कौटिल्यम् । चक्नास ।{$ {!1114 व्युष!} दाहे$} । वुव्योष ।{$ {!1115 प्लुष!} दाहे$} ।{$ {!1116 नृती!} गात्रविक्षेपे$} । नृत्यति । ननर्त ॥
Bālamanoramā
दिवादिभ्यः श्यन् - दिवादिभ्यः ।कर्तरि श॑बित्यतः कर्तरिति,सार्वधातुके य॑गित्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह — शपोऽपवाद इति । शकारनकारावितौ । दिव् यतीति स्थिते आह — हलि चेति दीर्घ इति । श्यनोऽपित्त्वेन ङित्त्वान्न गुण इति भावः । दीव्यतः दीव्यन्तीत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति — देवितेति । षिनुधातुरपि सेट् । षोपदेशः । दिवुधातुवदस्य रूपाणि.परिषीव्यतीति ।परिनिविभ्यः सेवे॑ति षत्वमिति भावः । परिषिषेवेति ।स्थादिष्वेवाभ्यासस्ये॑ति नियमस्तु न, तत्रप्राक्सिता॑दित्यनुवृत्तेरितिभावः ।सिवादीनां वाऽड्व्यवायेऽपी॑ति मत्वाह — न्यषेवीत् न्यसेवीदिति । रिउआवुधातुस्तु रेफवान् । ष्ठिवु निरसने इति ।सुब्दातुष्वक्कष्ठीवा॑मिति न सत्वम् । ष्ठीव्यतीत्यादि सुगमम् । आर्धधातुकेषु तु शब्विकरणस्थष्ठिबुधातुवद्रूपाणि । ष्णसुधातुश्च षोपदेशः । नृती गात्रेति । 'श्वीदितः' इत्याद्यार्थमीदित्त्वम् । सेडयम् ।
SK 2506 · A 7.2.57V
सेऽसिचि कृतचृतच्छृदतृदनृतः ॥ २५०६ ॥
se'sici kṛtacṛtacchṛdatṛdanṛtaḥ
Siddhānta-kaumudī
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ।{$ {!1117 त्रसी!} उद्वेगे$} । वा भ्राश - SK 2321 इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ।{$ {!1118 कुथ!} पूतीभावे$} । पूतीभावो दौर्गन्ध्यम् ।{$ {!1119 पुथ!} हिंसायाम्$} ।{$ {!1120 गुध!} परिवेष्टने$} ।{$ {!1121 क्षिप!} प्रेरणे$} । क्षिप्यति । क्षेप्ता ।{$ {!1122 पुष्प!} विकसने$} । पुष्प्यति । पुपुष्प ।{$ {!1123 तिम!} {!1124 ष्टिम!} {!1125 ष्टीम!} आर्द्रीभावे$} । तिम्यति । स्तिम्यति । स्तीम्यति ।{$ {!1126 व्रीड!} चोदने लज्जायां च$} । व्रीड्यति ।{$ {!1127 इष!} गतौ$} । इष्यति ।{$ {!1128 षह!} {!1129 षुह!} चक्यर्थे$} । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ।{$ {!1130 जॄष्!} {!1131 झॄष्!} वयोहानौ$} । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु - SK 2291 इत्यङ्वा । ऋदृशोङि गुणः SK 2406 । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ।{$ {!1132 षूङ्!} प्राणिप्रसवे$} । सूयते । सुषुवे । स्वरितिसूति - SK 2279 इति विकल्पं बाधित्वा श्र्युकः किति SK 2381 इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ।{$ {!1133 दूङ्!} परितापे$} । दूयते ।{$ {!1134 दीङ्!} क्षये$} । दीयते ॥
Tattvabodhinī
NSP p. 412
—सेऽसिचि—॥—नर्तिष्यति । नर्त्स्यतीति । निनर्तिषति । निनृत्सति । कर्तिष्यति । कर्त्स्यति । चिकर्तिषति । चिकृत्सति इत्यादि ज्ञेयम् ॥—अनर्तीदिति । असिचीत्युक्तलादिह नित्यमिद् ॥—त्रेसतुरिति । ‘वा जूभ्रमुत्रसाम्’ इत्येताभ्यासलोपौ । कुथ । पूतीभावः पवित्रीभवनम् । कुथ्यति भूमिः । पवित्रीभवतीत्यर्थः । पुष्प विकसने । ‘कालात्साधु—’ इत्यत्र पुष्यतिः शत्रन्तः । पचाद्यचि पुष्पम् । संज्ञायां कन् । पुष्पकम् । त्रीड । ‘गुरोश्च हलः’ इत्यप्रत्यये टाप् । त्रीडा । घनि तु त्रीडः । अत एव ‘त्रीडमावहति मे स संप्रति’ इति कालिदासः । ‘त्रीडादिवाभ्यासगतैर्विलिल्ये’ इति माधश्च । षह षुह । ‘परिविनिभ्यः—’ इत्यत्र सहेत्यकार उच्चारणार्थं इति षलमिह भवति । परिषह्यति । ‘तीषसह—’ इतीङ्गिकल्पस्तु नास्य भवति सहेति शवन्तनिर्देशात्, किं तु ‘पह मर्षणे’ इत्यस्यैव स इत्यात्रेयादयः । सहेति निर्देशस्योभयत्र तुल्यत्वे ‘तीषसह—’ इत्यत्र शपा निर्देशः । ‘परिनिविभ्यः—’ इत्यत्र तु नेत्यर्धजरतीयमिदं हेयमेव । तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम् । नपुंसके भावे क्तः । सुहितं तृप्तिः । अत एव ‘पूरणगुण—’ इति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्यातम् ॥—जेरतुरिति । ‘ऋच्छत्यृताम्’ इति गुणे कृते ‘न शसदद—’ इति गुणशब्देन भावितस्य निषेधात् ‘अत एकहल्मध्ये’ इत्यप्रवृत्तौ ‘वा जूभ्रमुत्रसाम्’ इत्येताभ्यासलोपविकल्पः । षूङ् । प्रसव उत्पत्तिः । मृत्पिण्डो घटं सूयत इत्यादिप्रयोगाभावात्प्राणीत्युक्तम् । ‘स्वादय ओदितः’ इति वक्ष्यमाणलात् ‘ओदितश्च’ इति निष्ठातस्य नलम् । प्रसूनम् ॥—विकल्पमिति । परमपीति शेषः ॥—निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः ॥—दीङ्गो—। पञ्चमीत्यभिप्रायेण व्याचष्टे—परस्येति ॥—अजादेरिति । डः सीत्यत्रेव उभयनिर्देशे पञ्चमी-निर्देशो वलीयानिति सप्तम्याः षष्ठीकल्पनम् । अचि किम् । देदीयते । क्वितीति किम् । उपदानम् । आभीयत्वेनासिद्धलमाशङ्क्याह—बुग्युटाविति—॥—दिदीये इति । परमपि यणं वाधिला नित्यलादादौ युद् । सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धलमुक्तम्
Bālamanoramā
सेऽसिचि कृतचृतच्छृदतृदनृतः - सेऽसिचि । से- असिचीति छेदः । सप्तमी षष्ठर्थे । कृत चृत छृत तृद नृत् एषां समाहारद्वन्द्वात्पञ्चमी ।उदितो वे॑त्यतो वेति, आर्धधातुकस्येडिति चानुवर्तते । तदाह — एभ्य इत्यादिना । नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति ।सेऽसिची॑त्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे ।वा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासविकल्पौ मत्वाह — त्रेसतुः तत्रसतुरिति । कुथ पूतीभावे इति । पवित्रीभवने इत्यर्थः, दुर्गन्धकरणे इति वा ।पूतिगन्धस्तु दुर्गन्धः॑ इत्यमरः । तिम ष्टिम ष्टीमेति । द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह षुहेति । षोपदेशौ । चकार्थस्तृप्तिरिति । यद्पिचक तृप्तौ प्रतिघाते चे॑त्युक्तं तथापि तृप्तिरेवेह विवक्षिता, व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरितिपूरणगुणे॑ति सूत्रे कैयटः । जृष् झृष् ।सेट्कौ । जीर्यतीति ।ऋत इद्धातो॑रिति इत्त्वेहलि चे॑ति दीर्घ इति भावः । अतुसादौऋच्छत्यृता॑मिति गुणे रपरत्वेवा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ ।॒वृतो वे॑ति मत्वाह — जरिता जरीतेति । षूङ् । प्रसवः — उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति । पीडने, पीडितीभवने वेत्यर्थः । आद्ये सकर्मकः । द्वितीये अकर्मकः । दीङ् क्षये इति । क्षयो — ह्रस्वो, नाशो वा ।
SK 2507 · A 6.4.63V
दीङो युडचि क्ङिति ॥ २५०७ ॥
dīṅo yuḍaci kṅiti
Siddhānta-kaumudī
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ।
vārttika
वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ
(वार्तिकम्) ॥ दिदीये ॥
Bālamanoramā
दीङो युडचि क्ङिति - दीङो युडचि । 'आर्धधातुके' इत्यधिकृतमचा विशेष्यते । तदादिविधिः । 'दीङ' इति पञ्चमी । सप्तमी षष्ठर्थे ।तदाह — दीङः परस्येत्यादिना । दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः । तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह -वुग्युटाविति ।
SK 2508 · A 6.1.50V
मीनातिमिनोतिदीङां ल्यपि च ॥ २५०८ ॥
mīnātiminotidīṅāṃ lyapi ca
Siddhānta-kaumudī
एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः ।{$ {!1135 डीङ्!} विहायसा गतौ$} । डीयते । डिड्ये ।{$ {!1136 धीङ्!} आधारे$} । धीयते । दिध्ये । धेता ।{$ {!1137 मीङ्!} हिंसायाम्$} । हिंसात्र प्राणवियोगः । मीयते ।{$ {!1138 रीङ्!} श्रवणे$} । रीयते ।{$ {!1139 लीङ्!} श्लेषणे$} ॥
Tattvabodhinī
NSP p. 412–413
—मीनाति—। मी हिंसायाम् । डुमिञ् प्रक्षेपणे । प्रमाय । उपदाय । प्रमातव्यम् । उपदातव्यम् । एजिमित्त इति विषयसप्तमी । तेन आदावात्वं पश्चाद्वञ् ‘आतो युक्’ इति युक् । उपदाय इति सिध्यति । अन्यथा एरचि कृते तत आत्वे उपदा इति स्यात् ॥—अदास्तेति । डीङः प्रतिषेधः ‘स्थाध्वोरिच्च’ इति न युलमित्यादितेति रूपं न भवतीत्येके । अन्ये तु ‘स्थाध्वोरिच्च’ इत्येतत्तु न भवति दीङोऽनुकरणे दारूपासंभवेना युलात् । अत एव प्रनिदातेत्यादौ ‘नेर्गद—’ इति णलमपि न भवतीत्याहुः । अयं भावः—‘दो अवखण्डने’ इत्यादेर्दा-रूपत्वं संभवति । ‘आदेच उपदेशे—’ इत्यस्यानैमित्तिकलात् । दीङस्तु एजिमित्तप्रत्ययविषये आत्वं दा इत्यनुकरण एजिमित्तस्याभाविलात्र युलम् । एवं च युप्रकृतिलमपि नास्तीति णलस्याप्रसक्तिरिति । डीङ् । डीनः डीनवान् । स्वादिषु पाठसामर्थ्यान्निष्ठायामिन्न । इटि हि सति व्यवधानात् ‘ओदितश्च’ इति नत्वं न स्यादिति । स्वादिषु पाठसामर्थ्यादिड्व्य-वधानेऽपि णलमस्त्विति न शङ्क्यमिष्टानुरोधात् । डयित इति प्रयोगस्तु भौवादिकस्य । ‘निष्ठा शीङि’त्यत्र निष्ठेति योगविभागादकित्वे गुण इत्याहुः । मीङ् हिंसायाम् । मीञ् इति न्यादौ ॥—पाण्यविश्रेय इति Gaamikehagane ग्राणैर्वियुज्यत इत्यर्थः । लीङ् । ली श्लेषण इति क्यादौ ॥—यकेति । ‘सार्वधातुके यक्’ इति विहितेन ॥—न तु इयनेति ॥ अन्यथा लीङ् इत्येव व्रूयादिति भावः । यका निर्देशस्य फलमाह—लीलीङ्गोरिति । त्यपि । विलाय । विलीय । व्रीङ् वृणोत्यर्थे । वरणम् । वृन् वरण इति स्वादौ पठिष्यमाणत्वात् । वरणे इति वक्तव्ये वृणोत्यर्थं इति वचनं वैचित्र्यार्थम् । त्री वरण इति क्यादौ । माङ् ॥—मायत इति । ‘घुमास्था—’ इतीत्वं तु न । तत्रार्धधातुक इत्यधिकारात् ॥—षोऽन्त—अन्तकर्म नाशनम् । ‘राघवस्य शरैर्घोरैर्घोरं रावणमाहवे’ इति । राघवेति संबुद्ध्यन्तम् । स्येति लोप्मध्यमैकवचनम् ॥—अभिष्यतीति । ‘उपसर्गात्सुनोति—’ इति षलम् ॥—अभ्यष्यदिति । ‘प्राक्सितादड्व्यवायेऽपि’ इति षलम् ॥—अभिससाविति । ‘स्थादिषु—’ इति नियमान्न षलम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः । खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः ॥—प्रणिदातेति । ‘नेर्गदे’ति णलम् ॥—देयादिति । ‘एलिङि’ इत्येलम् ॥—अदादिति । ‘गातिस्था—’ इति सिचो लुक्
Bālamanoramā
मीनातिमिनोतिदीङां ल्यपि च - मीनातिमिनोति ।आदेच उपदेशेऽशिती॑त्यताअदित्यनुवर्तते । तदाह — एषामात्त्वं स्याल्ल्यपीति । चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते । तत्रएचट इत्यनन्तरं 'निमित्ते' इति शेषः । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह — अशित्येज्निमित्ते इति । 'इति समुच्चीयते' इति शेषः । लुङ्याह - अदास्तेति । इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति,स्थाध्वोरित्त्वे दीङः प्रतिषेधः॑ इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तकादिति भावः । धीङ् आधारे इति । आधारः — आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति । लीयते । लिल्ये ।लिल्यिषे । [लिल्यिढ्वे । लिल्यिध्वे] ।
SK 2509 · A 6.1.51V
विभाषा लीयतेः ॥ २५०९ ॥
vibhāṣā līyateḥ
Siddhānta-kaumudī
लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये ।{$ {!1140 व्रीङ्!} वृणोत्यर्थे$} । व्रीयते । विव्रिये । (गणसूत्रम् -) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् ।{$ {!1141 पीङ्!} पाने$} । पीयते ।{$ {!1142 माङ्!} माने$} । मायते । ममे ।{$ {!1143 ईङ्!} गतौ$} । ईयते । अयांचक्रे ।{$ {!1144 प्रीङ्!} प्रीतौ$} । सकर्मकः । प्रीयते । पिप्रिये ॥ अथ परस्मैपदिनश्चत्वारः ।{$ {!1145 शो!} तनूकरणे$} ॥
Bālamanoramā
विभाषा लीयतेः - विभाषा लीयतेः । ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति स्नाविकरणस्य ग्रहणं न स्यादित्यत आह — यका निर्देश इति ।सार्वधातुके य॑गिति विहितयका लीयतेरिति निर्देशः । स च श्यन्श्नान्तसाधारणः,यक उभयत्रापि साधारण्यादिति भावः ।मीनातिमिनोती॑त्यतो ल्यपीति, 'आदेचः' इत्यत आदिति, एचेति चाऽनुवर्तते । तदाह — लीलीङोरित्यादिना । स्वादय ओदित इति । धातुपाठपठितं गणसूत्रमिदम् । 'षूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः । निष्ठानत्वमिति ।ओदितश्चे॑त्यनेनेति भावः । प्रीङ् प्रीताविति । प्रीतिस्तुष्टिः ।मुत्प्रीतिः प्रमदो हर्षः॑ इत्यमरः । एवं सत्यकर्मकः । यथा — फलमूलादिना हरिः प्रीयते । ह्मष्यतीत्यर्थः ।यदा तु प्रीतिः तर्पणं, 'प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तः, तदा तु सकर्मकः । तदाह — सकर्मक इति । प्रीयते इति । तर्पयतीत्यर्थः । अथ चत्वारः परस्मैपदिन इति । 'दो अवखण्डने' इत्यन्ता इति भावः । शो तनूकरणे । अनिट् ।
SK 2510 · A 7.3.71V
ओतः श्यनि ॥ २५१० ॥
otaḥ śyani
Siddhānta-kaumudī
लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट् - SK 2376 इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ।{$ {!1146 छो!} छदने$} । छयति ।{$ {!1147 षो!} ऽन्तकर्मणि$} । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ।{$ {!1148 दो!} अवखण्डने$} । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ अथात्मनेपदिनः पञ्चदश ॥{$ {!1149 जनी!} प्रदुर्भावे$} ॥
Bālamanoramā
ओतः श्यनि - ओतः श्यनि ।घोर्लोपो लेटि वे॑त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लोपः स्यादिति । शशाविति । 'आदेच' इत्यात्त्वे णल औत्त्वमिति भावः । शशतुरिति । शशिथ — शशाथ । शशिव.शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुङि सिचि विशेषमाह — विभाषा घ्रेति । सिचो लुक्पक्षे आह — अशादिति । 'आतःर' इति जुसिति मत्वा आह — अशुरिति । सिचो लुगभावे सगिटौ मत्वा आह — अशासीदिति । छोदातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ।ओतः श्यनी॑ति लोपः । अभिष्यतीति ।उपसर्गा॑दिति षत्वम् । अभ्यष्यदिति ।प्राक्सिता॑दिति षत्वम् । अभिससाविति ।स्थादिष्वि॑ति नियमान्न षः । दो अवखण्डने । प्रणिदातेति ।नेर्गदे॑ति णत्म् । देयादिति । आशीर्लिङिएर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् । अथात्मनेपदिन इति । 'वाशृ शब्दे' इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ।श्वीदितो निष्ठाया॑मित्याद्यर्थमीदित्त्वम् ।
SK 2511 · A 7.3.79V
ज्ञाजनोर्जा ॥ २५११ ॥
jñājanorjā
Siddhānta-kaumudī
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजन - SK 2328 इति वा चिण् ॥
Tattvabodhinī
NSP p. 413
—ज्ञाजनोर्जा । जानाति । शिति किम् । ज्ञाता । ज इति हस्तोच्चारणेऽपि ‘अतो दीर्घो यन्त्रि’ इति दीर्घे सिद्धे जाग्रहणमङ्गवृत्तपरिभाषाज्ञापनार्थम् । तेन पाधातोः पिवादेशे कृते गुणो न भवति पिवादेशस्यादन्तत्वाश्रयणं तूपायान्तरमित्याहुः ॥—अिति णिति कृति चेति । निति कृत्युदाहरणं घनि जनः । णिति कृति तु जनकः । जनयतीत्यत्रोपधावृद्धौ सत्यां ‘जनीजृष्’ इति मित्त्वात् ‘मितां हस्वः’ इति हस्वः । दीपी दीप्तौ । ईदित्त्वान्निष्ठा-यामिष्न । दीप्तः । एवं पूरीत्यादेरीदित्त्वात्पूर्णं इत्यादि ज्ञेयम् ॥—केचित्त्विति । ‘तेषां मते ऐश्वर्ये तप्यते इत्येव प्रयोगो न तु तपतीति
Bālamanoramā
ज्ञाजनोर्जा - ज्ञाजनोर्जा । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । जायते इति । ज्ञाधातोस्तुश्नविकरणत्वाज्जानातीत्युदाहरणम् । उभयत्रापि जादेशस्य ह्रस्वान्तत्वेअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति परिभाषया 'अतो दीर्घो यञी' त्यप्रप्तर्जार्देशस्य दीर्घान्तत्वमाश्रितम् । जज्ञे इति ।गमहने॑त्युपधालोपे नस्य श्चुत्वेन ञः । जायेत ।जनिषीष्ट । लुङि अजन् त इति स्थिते आह — दीपेति । वा चिणिति ।च्ले॑रिति शेषः । अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् —
SK 2512 · A 7.3.35V
जनिवध्योश्च ॥ २५१२ ॥
janivadhyośca
Siddhānta-kaumudī
अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ ।{$ {!1150 दीपी!} दीप्तौ$} । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ।{$ {!1151 पूरी!} आप्यायने$} । पूर्यते । अपूरि । अपूरिष्ट ।{$ {!1152 तूरी!} गतित्वरणहिंसनयोः$} । तूर्यते ।{$ {!1153 धूरी!} {!1154 गूरी!} हिंसागत्योः$} । धूर्यते । दुधूरे । गूर्यते । जुगूरे ।{$ {!1155 घूरी!} {!1156 जूरी!} हिंसावयोहान्योः$} ।{$ {!1157 शूरी!} हिंसास्तम्भनयोः$} ।{$ {!1158 चूरी!} दाहे$} ।{$ {!1159 तप!} ऐश्वर्ये वा$} । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः ।{$ {!1160 वृतु!} वरणे$} । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः ।{$ {!1161 क्लिश!} उपतापे$} । क्लिश्यते । क्लिशिता ।{$ {!1162 काशृ!} दीप्तौ$} । काश्यते ।{$ {!1163 वाशृ!} शब्दे$} । वाश्यते । ववाशे ॥ अथ पञ्च स्वरितेतः ।{$ {!1164 मृष!} तितिक्षायाम्$} । मृष्यति । मृष्यते । ममर्ष । ममृषे ।{$ {!1165 ईशुचिर्!} पूतीभावे$} । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट ।{$ {!1166 णह!} बन्धने$} । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् ।{$ {!1167 रञ्ज!} रागे$} । रज्यति । रज्यते ।{$ {!1168 शप!} आक्रोशे$} । शप्यति । श्प्यते ॥ अथैकादशानुदात्तेताः ॥{$ {!1169 पद!} गतौ $}। पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥
Tattvabodhinī
alignment inferredNSP p. 413
—न्यविक्षतेति । निपूर्वाद्विशतेर्लुङ्गि ‘शल इगुपधा’ इति क्सः । ‘नेर्विशः’ इति तङ् । वाशू शब्दे । ‘मन्दिवाशि’—इत्युरच् । वाशुरा रात्रिः ॥—तितिक्षायामिति । ‘गुप्तिजक्त्रियः’ इति सन् । तत्र हि ‘तिजेः क्षमा-या’मित्युक्तम् । ईशुचिर् । ईदित्त्वान्नेट् । शुक्तम् । क्लिन्नमित्यर्थः ॥ —ननद्धेति । ‘नहो धः’ इति धत्वम्
Bālamanoramā
जनिवध्योश्च - जनीवध्योश्च । 'अत उपधायाः' इत्यत उपधाया इति,मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,नोदात्तोपदेशस्ये॑त्यतो नेति,आतो यु॑गित्यतश्चिणकृतोरिति,अचो ञ्णिती॑त्यतो ञ्णितीति चानुवर्तते । तदाह — अनयोरिति । दीपीधातुरीदित् ।॒दीपजने॑ति च्लेश्चिण्विकल्पं मत्वाह -अदीपि अदीपिष्टेति । पूरीधातुरपि ईदित् ।दीपजने॑ति चिण्विकल्पं मत्वाह — अपूरि अपूरिष्टेति.तूरी इत्यादयोऽपि 'चूरी दाहे' इत्यन्ता ईदित एव.तप ऐआर्ये वेति ।श्यन् आत्मनेपदं चे॑ति शेषः । उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति — श्यनं तङं चेति । अन्यदा त्विति । ऐआर्यादन्यार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति । 'तप ऐआर्ये' 'वावृतु वरणे' इति धातुपाठे स्थितम् । तत्र 'वावृतु वरणे' इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवं च 'तप ऐआर्ये' इत्येव स्थितम् । अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः । तप्यते इति । ईष्टे इत्यर्थः । प्रथमपक्षे ऐआर्ये तपतीत्यपि भवति । पत इतीति । तपधातोस्तकारपकारयोः क्रमव्यत्यासेन 'पत ऐआर्ये वा' इति पाठान्तरमित्यर्थः । एवं व्यत्यासेन पाठे प्रयोगं दर्शयति — द्युतद्यामा नियुत इति । प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम् । 'पत्यमान' इत्यस्य ईशान इत्यर्थः । अत्र लटः शानजात्मनेपदं श्यन् च । पक्षान्तरे इति । 'वावृतु' इति पाठपक्षे इत्यर्थः । वावृत्यते इति । वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोगं दर्शयति — ततोवावृत्यमानेति । अपेक्षमाणेत्यर्थः ।न्यविवक्षतेति.॒नेर्विशः ॑ इत्यात्मनेपदम् ।शल इगुपधा॑दिति क्सः । अथ पञ्च स्वरितेत इति । 'शप आक्रोसे' इत्यन्ता इत्यर्थः । शुच्यतीति । क्लिन्नं भवतीत्यर्थः । अशुचदिति । इरित्त्वादङिति भावः । णह बन्धने इति । णोपदेशोऽयम् । अनिट् । ननाहेति । नेहतुः । भारद्वाजनियमात्थलि वेडिति मत्वाह — नेहिथ ननद्धेति । इट्पक्षेथलि चे सेटी॑त्येत्त्वाभ्यासलोपौ । इडभावे तु 'नहो धः' इति हस्य ध इति भावः । रञ्ज रागे । अनिट् । रज्यतीति ।अनिदिता॑मिति नलोप इति भावः । ररञ्ज ररञ्जतुः । ररञ्जिथ- ररङ्क्थ । ररञ्जिव । रङ्क्ता इत्यादि । अथैकादशेति । 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः । पद गतौ । अनिट् ।
SK 2513 · A 3.1.60V
चिण् ते पदः ॥ २५१३ ॥
ciṇ te padaḥ
Siddhānta-kaumudī
पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् ।{$ {!1170 खिद!} दैन्ये$} । खिद्यते । चिखिदे । खेत्ता । अखित्त ।{$ {!1171 विद!} सत्तायाम्$} । विद्यते । वेत्ता ।{$ {!1172 बुध!} अवगमने$} । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् ।{$ {!1173 युध!} संप्रहारे$} । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] इति वा ।{$ {!1174 अनो!} रुध कामे$} । अनुरुध्यते ।{$ {!1175 अण!} प्राणने$} । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके ।{$ {!1176 मन!} ज्ञाने$} । मन्यते । मेने । मन्ता ।{$ {!1177 युज!} समाधौ$} । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता ।{$ {!1178 सृज!} विसर्गे$} । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ - SK 2300 इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् ।{$ {!1179 लिश!} अल्पीभावे$} । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥ अथागणान्ताः परस्मैपदिनः ॥{$ {!1180 राधो!} ऽकर्मकाद्वृद्धावेव $}। एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रुह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् SK 2532 इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च ।{$ {!1181 व्यध!} ताडने$} । ग्रहिज्या SK 2412 इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ।{$ {!1182 पुष!} पुष्टौ$} । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि SK 2343 इत्यङ् । अपुषत् ।{$ {!1183 शुष!} शोषणे$} । अशुषत् ।{$ {!1184 तुष!} प्रीतौ$} ।{$ {!1185 दुष!} वैकृत्ये$} ।{$ {!1186 श्लिष!} आलिङ्गने$} । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥
Tattvabodhinī
NSP p. 413–415
—चिण् ते पदः । तशब्द इति सामर्थ्यादात्मनेपदग्रथमपुरुषैकवचनम् । तशब्दे किम् । अपत्थाः ॥—प्रण्यपादीति । ‘विणो लुकू’ इति तशब्दस्य लुक् । ‘नेर्गद-’ इति णलम् ॥—अचोधीति । ‘दीपजनडुभ्य-’ इति विष्णु । अनो रुध कामे । अनोः परो रुधधातुः कामे । काम इच्छा । दिवादिषु पाठसामर्थ्यात् ‘रुधादिभ्यः—’ इति श्रमं बाधित्वा इयन् ॥— नाप्यमिति । ‘घृजिह्लोस्त्रीयमकिति’ इत्यकित्येव विधानात् । लिश । आतपादिनानल्पस्य अल्पभावोऽल्पीभावः ॥— लिक्षीणेति । लिङ्गसचावात्मनेपदेषु इति किञ्चान्न गुणः ॥—अलिक्षतेति । ‘शल इगुपधाद्—’ इति क्सः ॥— राधोऽकर्मकात्—। भिन्नकर्मं दर्शयति—अकर्मकादेवेति । राधो बृद्धावेव इयन्निति व्याख्यायामकर्मकादिति विशेषणं व्यर्थं स्याद् बृद्धावस्याकर्मकलात् । अकर्मकात्किम् । शत्रुमपराभ्रोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ । राधो हिंसायामित्यनुवादाद्धिसायामप्ययम् ॥—उदाहरणमाहेति । अकर्मकलग्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः । अकर्मके इयन्नन्तस्य प्रयोगान्दर्शयति—यन्मह्यमित्यादिना ॥—कृष्णायेति । ‘राधीक्ष्योः-’ इति चतुर्थं ॥ —अपुषदिति । डिञ्चाङ्गुणभावः । शुष । शोष्टा । शोक्यति ॥—‘ऋषि आलिङ्गने’ इति सूत्रं योगविभागेन व्याचष्टे —ऋिष इति ॥—अनिटश्लेः क्स इति । एतच्च ‘ब्लैः सिच्’ ‘शल इगुपधाद्—’ इत्यतोऽनुवर्तत इति भावः । अनिटः किम् । ‘ऋिषु दाहे’ इति भौवादिकस्य सेटो माभूत् । अश्लेषीत् । ‘शल इगुपध-’ इति सिद्धे पुनः क्सविधेः फलमाह—पुषाचड इति ॥—सामर्थ्यादिति । यदि हिं ऋिष इति प्राप्त एव क्सो नियम्येत तर्हि योगविभागो व्यर्थः स्यादिति भावः ॥—शल इगुपधादित्यस्यापीति । तेन कर्मण्यातांप्रभृतिष्वनालिङ्गने सिजेव भवति न तु क्सः । समऋिक्षत जतूनि काष्ठैरिति क्सप्रत्यये सति तु समाऋिक्षन्तेति स्यादिति भावः ॥—प्रत्यासत्ताविति । आलिङ्गनं हिं प्राणिकर्तृकं न तु काष्ठादिकर्तृकमिति भावः । ऋिषश्लेरालिङ्गन एव क्स इति व्याख्यानफलं दर्शयति—कर्मणीत्यादिना । अऋिक्षातामित्यादौ यदपि क्ससचोविशेषो नास्ति ‘क्सस्याचि’ इत्यकारलोपात्तथापि धासादावस्त्येव विशेष इति ध्वन्यबुद्धहरति—अऋिष्ठाः । अऋिहङ्मिति ॥ यासजत्तणन्न्यूय इति यासजत्तणन्न्यूय इति ta ekvangtri syugm Kopha वर्तमाने को भवति । आदित्त्वान्निष्ठायां नेट् । खिन्नः । ‘विभाषा भावादिकर्मणोः’ । खिन्नम् । स्वेदितमित्यादि सिद्धम् । विधु । संराद्विर्निष्पत्तिः । ‘उदितो वा’ इति क्लायामिङ्गिकल्पः । इट्पक्षे ‘रलो व्युपधात्’ इति वा कित्त्वम् । सिधिला । सेधिला । सिद्ध्या
Bālamanoramā
चिण् ते पदः - चिण् ते पदः । पदश्च्लेरिति ।च्लेः सि॑जित्यत श्च्लेरित्यनुवर्तते इति भावः । तशब्दे इति । आत्मनेपदप्रथमैकवचनने इत्यर्थः । इदं च भाष्ये स्पष्टम् । प्रण्यपादीति । श्लेश्चिणि उपधावृद्धौचिणो लु॑गितितशब्दस्य लोपः ।नेर्गदे॑ति णत्वमिति भावः । विद सत्तायाम् । वेत्तेति । अनिडिति भावः । लिटि क्रादिनियमादिट् । एवं बुधष्टेति । 'लिङ्सिचौ' इति कित्त्वम् ।दीपजने॑ति चिण्विकल्पं मत्वा आह — अबोधि अबुद्धेति । कथं युध्यतीति । आत्मनेपदित्वादिति भावः । समाधत्ते — युधमिति । युध्शब्दो भावक्विबन्तः । युधमिच्थीत्यर्थे 'सुप आत्मनः' इति क्यजन्तात्परस्मैपदमित्यर्थः ।अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्य॑मिति समाधानं त्वनुचितं, तस्य भाष्याऽदृष्टत्वेनाऽप्रामाणिकत्वात् । अत एवव्यत्ययो बहुल॑मिति सूत्रभाष्येप्रतीपमन्य ऊर्मिर्युध्यती॑त्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुधेति । अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तत इत्यर्थः । युज समाधौ । अनिट् । अकर्मक इति । चित्त्वृत्तेर्धात्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति,सृजियुज्योः सकर्मकयोः कर्मवद्भाव॑ इति कर्मवत्सूत्रवार्तिकात् । एतच्च कर्मकर्तृप्रक्र#इयायां वक्ष्यते । लिटआह — ससृजिषे इति । क्रादिनियमादिडिति भावः । रुआष्टेति ।सृजिदृशोर्झल्यमकिती॑त्यमागमे ऋकारस्य यणि व्रश्चादिना जस्य षः । ष्टुत्वेन तकारस्य ट इति भावः । रुआक्ष्यते इति । पूर्वपदमि जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । आशीर्लिङि आह — सृक्षीष्टेति । अत्र लघूपधगुणमाशङ्क्याह -लिङ्सिचाविति । नाप्यमिति ।सृजिदृशोर्झल्य॑मित्यमपि नास्तीत्यर्थः । अकित्ये तद्विधानादिति भाव । लुङ्याह — असृष्टेति ।झलो झली॑ति सिचो लोपः ।लिङ्सिचावात्मनपदेषु॑ इति सिचः कित्त्वान्न गुणो नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । 'लिङ्सिचौ' इति कित्त्वान्न गुणः । अलिक्षतेति ।शल इगुपधा॑दिति क्सः । आगणान्तादिति । दिवादिगसमाप्तिपर्यन्तमित्यर्थः । राधोऽकर्मकाद्वृद्धावेवेति । श्य॑न्निति शेषः । राधधातोरकर्मकाद्वृद्धावेवाऽर्थे श्यनिति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरर्थान्तरे च श्यन् स्यात् । इष्यते हिअपराध्यती॑त्यादौ द्रोहाद्यर्थेऽपि श्यन् । तत्राह — एवकारो भिन्नक्रम इति । यस्मिन् कमे वृद्धावित्यत ऊध्र्वम एवकारः पठितः, ततोऽन्यः कमो यस्य स भिन्नक्रम इत्यर्थः ।वृद्धा॑वित्यत ऊध्र्वं पठित एवाकरोऽन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति — राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति ।शत्रुं हिनस्ती॑त्यर्ते शत्रुमपराध्नोतीत्यत्र सकर्मकत्वान्न श्यन्निति भाव- । तर्हि वृद्धावित्यस्य किं प्रयोजनमित्याशङ्क्य अकर्मकक्रिया एवं विधेति प्रदर्शनार्थं तत्, नतु परिसङ्ख्यानार्थमित्याह — उदाहरणमाह — वृद्धावितीति । एवं च वृद्धिग्रहणमकर्मकक्रियामात्रोपलक्षणमिति भावः । तथाविधाऽर्थान्तराण्युदाहरति — यन्मह्रमित्यादिना ।क्रुधद्रुहे॑ति संप्रदानत्वम् । कृष्णाय राध्यतीति ।राधीक्ष्योर्यस्य विप्रश्नःर॑ इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानां शुभमशुभं वेति पृष्टो दैवज्ञस्तस्य शुभाऽशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षते इति यावत् । ननु पर्यालोचने दैवस्य कर्मत्वात्कथमिह अकर्मकतेत्यत आह — दैवस्येति । ननुराधोऽकर्मकाद्वृद्धावेवे॑त्यत्र वृद्धिग्रहमस्यौपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकतवाद्रराधतुरित्यादौराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाऽभ्यासलोपौ स्यातामित्यत आह — राध इति । इह नेति.रराधतुरित्यादौ राधेर्हिंसार्थकत्वेराधो हिंसाया॑मिति वक्ष्यमाणावेत्त्वाभ्यासलोपौ न स्त इत्यर्थः । कुत इत्यत आह — हिंसार्थस्येति । नोन्मिषत्येवैषा शङ्का, राधेरकर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया दैवादिकत्वाऽभावादुक्तशङ्काया अनुन्मेषादित्यर्थः । ननु राध्नोति राधयतीति कथमित्यत आह — अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमान्नित्यमिट्, दीर्घाकारवत्त्वेन 'उपदेशेऽत्वतः' इत्यस्याऽप्रवृत्तेः, अजन्तोऽकारवानित्यत्र च ह्रस्वाऽकारस्यैव विवक्षितत्वात् । राद्धा । अरात्सीत् । व्यध ताडने इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वात्ग्रहिज्ये॑ति यकारस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणं ,न संप्रासरणे संप्रसारण॑मिति निषेधात् । विव्याधेति । द्वित्वे कृते अभ्यासस्यलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । विविधतुरिति । परत्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वित्वमिति भावः । भारद्वाजनियमात्थलि वेडित्याह — विव्यधिथ विव्यद्धेति ।लिटभ्यासस्ये॑ति संप्रसारणम् । अनिट्पक्षेझषस्तथो॑रिति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्ठौ । अनिट् । पुपोषिथेति । अजन्ताऽकारवत्त्वाऽभावाक्रादिनियमान्नित्यमिट् । अपुषदिति । पुषाद्यङ् ।ङित्त्वान्न गुणः । शुष धातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेपि । तुष् दुष् श्लिष् — एतेऽनिटः । लुङि स्लिषश्च्लेः सिजादेशे प्राप्ते -
SK 2514 · A 3.1.46V
श्लिष आलिङ्गने ॥ २५१४ ॥
śliṣa āliṅgane
Siddhānta-kaumudī
(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥(आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् ।{$ {!1187 शक!} विभाषितो मर्षणे$} । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति ।{$ {!1188 ष्विदा!} गात्रप्रक्षरणे$} । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् ।{$ {!1189 क्रुध!} क्रोधे$} । क्रोद्धा । क्रोत्स्यति ।{$ {!1190 क्षुध!} बुभुक्षायाम्$} । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः - SK 3046 इतीट् वक्ष्यते ।{$ {!1191 शुध!} शौचे$} । शुध्यति । शुशोध । शोद्धा ।{$ {!1192 षिधु!} संराद्धौ$} । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् ।{$ {!1193 रध!} हिंसासंराद्ध्योः$} । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि SK 2302 इति नुम् । ररन्धतुः ॥
Tattvabodhinī
alignment inferredNSP p. 415
—प्रामादिक इति । ऊदित्त्वे लनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः ॥—रधादिभ्यश्च । ‘खरतिसूति’ इत्यतो वेत्यनुवर्तते । योगविभागो वैचित्र्यार्थः । गणनिर्देशाद्यङ्लुकि रारधितेत्येव न तु रारद्धेति
Bālamanoramā
श्लिष आलिङ्गने - आलिङ्गने । 'श्लिष' इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'श्लिषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम् । तदाह — श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमःअनन्तरस्येटति न्यायात् 'श्लिष' इति सूत्रप्राप्तस्यैव स्यान्नतुशल इगुपधा॑दित्यस्यापीत्यत आह — शल इगुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह — योगविभागसमाथ्र्यादिति । यदि 'श्लिष' इति प्राप्तएव क्स आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात्, 'श्लिष् आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात् । अतःशल इगुपधा॑दिति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । अश्लिक्षत्कन्यां देवदत्त इति । आलिङ्गदित्यर्थः । अत्र पुषाद्यङं बाधित्वा अनेन क्सः । समाश्लिषज्जतु काष्ठमिति । जतु = लाक्षा । सा च काष्ठलग्नैवोत्पद्यते इति स्थितिः । जतु च काष्टं चेति समाहारद्वन्द्वः ।उपाश्लिषज्जतु काष्ठं चे॑त्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाऽभावान्न क्सः, किन्तु पुषाद्यङेवेति बावः । नन्वजादित्वाऽभावेन आडागमस्याऽसंभवात्समाश्लिषदित्ययुक्तमित्यत आह — आङिति । समाश्लिषदित्यत्र श्लिषेः प्रागाङुपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः । नन्वालिङ्गनं समाश्लेषणं, तथा च समाश्लिषज्जतु काष्ठमित्यत्रापि श्लिषेरालिङ्गनार्थकत्वात्क्सो दुर्वार इत्यत आह — प्रत्यासत्ताविहेति । इह = समाश्लिषज्जतु काष्ठमित्यत्र, श्लिषिः प्रत्यासत्तौ = संयोगे वर्तते, नतु बाह्वादिना संवलनात्मकसंबन्धविशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सो, न त्वनालिङ्गने इति नियमादनालिङ्गने 'शल इगुपधा' दित्यपि क्सो न भवतीत्युक्तमयुक्तं, समाश्लिषज्जतु काष्ठमित्यत्राऽनालिङ्गनेशल इगुपधा॑दितक्सं बाधित्वा परत्वात्पुषाद्यङ एव प्राप्त्या क्सस्याऽप्रसक्तेरित्यत आह - कर्मणीति । अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुङि च्लेः सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात्, कर्मणि लुङश्चभावकर्मणो॑रित्यात्मनेपदनियमात् । तस्य च 'शल इगुपधा' दिति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः । यदुक्तम् -आलिङ्गने श्लिषश्च्लेः क्सः पुषाद्यङ एवापवादो नतु चिण॑इति, तस्य प्रयोजनमाह — एकवचने चिणिति । तदेवोदाहृत्य दर्शयति — अश्लेषीति । आलिङ्गिता कन्या देवदत्तेनेत्यर्थः । श्लिषेरालिङ्गनार्थकात्कर्मणि लुङिप्रथमैकवचने तशब्दे परेचिण भावकर्मणो॑रिति च्लेश्चिणि कृतेचिणो लु॑गिति तशब्दस्य लुक् । अत्र 'श्लिष' इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाऽभावाच्चिण् निर्बाध इति भावः ।समाश्लेषि जतुना काष्ठ॑मित्यत्र त्वनालिङ्गनाच्च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथाऽनालिङ्गने श्लिषः कर्मणि लुङ आतामि च्लेः क्साऽभावात्सिचिषढो॑रिति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षामित्यत्र सत्यपि क्सेकस्स्याची॑त्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति — अश्लिक्षतेत्यादि । अश्लिष् स् झेति स्थिते जोऽन्तादेशं बाधित्वा 'आत्मनेपदेष्वनतः' इत्यदादेशे षस्य कत्वे सिचः सस्य षत्वे अश्लिक्षतेतीष्यते । च्लेः क्से तु सति अश्लिष् स् झ इति स्थितेक्सस्याची॑त्यकारलोपाऽप्रसक्तेरतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः । अश्लिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचिझलो झली॑ति सिचो लोपे ष्टुत्वे 'अश्लिष्ठा' इति रूपमिष्यते । क्से तु 'झलो झली' त्यसंभवादश्लिक्षथा स्यादिति भावः । अश्लिड्ढ्वमिति । श्लिषः कर्मणि लुङो ध्वमि सिचिझलो झली॑ति सस्य लोपे स्य झश्त्वेनन डकारे ष्टुत्वेन धस्य ढः । क्से तु सति अश्लिक्षध्वमिति स्यादिति भावः । शक विभाषित इति । मर्षणेऽर्थे शकधातुरविकल्पित इत्यर्थः । विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः, व्याख्यानात् । तदाह — उभयपदीति । मर्षणमिह — सामर्थ्यम् । शक्यति शक्यते वेति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिट्क एवेति भावः । नन्वनिट्कारिकासु लृदितः शकेः पाठात्कथमनिट्कत्वमित्यत आह — तन्मतेनेति । ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्याऽनिट्कारिकासु शकि र्लृदित्पठित इत्यर्थः । संपदादिक्विबन्तादिति । रक्षुध्यत इति क्षुध्, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतिक्षुधोरिति । वसेः क्षुधेश्च क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यते इति ।कृत्स्वि॑ति शेषः । षिधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थाऽन्तोयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वान्नलोपो नेति भावः ।
SK 2515 · A 7.2.45V
रधादिभ्यश्च ॥ २५१५ ॥
radhādibhyaśca
Siddhānta-kaumudī
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ॥
Bālamanoramā
रधादिभ्यश्च - रधादिभ्यश्च ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते,स्वरतिसूती॑त्यतो वेति चेत्यभिप्रेत्य शेषं पूरयति — वलाद्यार्धधातुकस्य वेडिति ।आर्धधातुकस्ये॑ति नित्ये प्राप्ते विकल्पोऽयम् । लुटि तासि इटिरधिजभोरची॑ति नुमि प्राप्ते —
SK 2516 · A 7.1.62V
नेट्यलिटि रधेः ॥ २५१६ ॥
neṭyaliṭi radheḥ
Siddhānta-kaumudī
निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम् - SK 415 इति नलोपः । अरधत् ।{$ {!1194 णश!} अदर्शने$} । नश्यति । ननाश । नेशतुः । नेशिथ ॥
Tattvabodhinī
NSP p. 415
—नेट्यलिटि—। इटीति किम् । रन्धकः । अलिटीति किम् । ररन्धिव । नुमि कृते संयोगात्परत्वेनाकित्त्वान्नलोपो न ॥—नंष्टेति । ‘नशेर्वा’ इति कुलमिह न शङ्क्यं पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्येत्
Bālamanoramā
नेट्यलिटि रधेः - नेटलिटि रधेः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — लिड्वर्जे इटीति । अङित्विति । पुषाद्यङि कृते सतीत्यर्थः । अरधदिति ।मो अहं द्विषतेऽरधम् ।॑ णश अदर्शने इति । णोपदेशोऽयं सेट् ।रधादिभ्यश्चे॑ति वट् । तत्र इट्पक्षे आह — नेशिथेति ।थलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश्- थ इति स्थिते —
SK 2517 · A 7.1.60V
मस्जिनशोर्झलि ॥ २५१७ ॥
masjinaśorjhali
Siddhānta-kaumudī
नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥
Tattvabodhinī
alignment inferredNSP p. 415
—प्रणश्यतीति । ‘उपसर्गादसमासेऽपि’ इति णलम् ॥—नशेः । ‘न भाभूपूकमिगमि’ इत्यतो नेत्यनुवर्तते तदाह—णत्वं न स्यादिति । षस्येत्युक्तेऽपि पदस्येत्यस्य विशेषणेन षान्तस्येति लाभादन्तप्रहणं व्यर्थं सज्ज्ञापयतीत्याह—भूतपूर्वेति
Bālamanoramā
मस्जिनशोर्झलि - नुम् स्यादिति ।इदितो नु॑मित्यतस्तदनुवृत्तेरिति बावः । ननंष्ठेति । व्रश्चादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति ।उपसर्गादसमासे॑इति णत्वम् ।
SK 2518 · A 8.4.36V
नशेः षान्तस्य ॥ २५१८ ॥
naśeḥ ṣāntasya
Siddhānta-kaumudī
णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति ।{$ {!1195 तृप!} प्रीणने$} । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् ।{$ {!1196 दृप!} हर्षमोहनयोः$} । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता ।{$ {!1197 द्रुह!} जिघांसायाम्$} । वा द्रुहमुह - SK 327 इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् ।{$ {!1198 मुह!} वैचित्ये$} । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् ।{$ {!1199 ष्णुह!} उद्गिरणे$} । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् ।{$ {!1200 ष्णिह!} प्रीतौ$} । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः ।{$ {!1201 शमु!} उपशमे$} ॥
Tattvabodhinī
alignment inferredNSP p. 415
—काष्ठानामिति । करणस्य शेषलविवक्षायां षष्ठी ॥—तत्रप्थेति । ‘अनुदात्तस्य चर्दुपधस्य’ इति विकल्पेनामागमः ॥—रधादय इति । रधनशतृपटपद्बहुमुहष्णुहष्णिह इत्यर्थः । शमु । उदित्त्वात्क्लायां वेट् । शमिला । शन्त्वा । ‘यस्य विभाषा’ इति निष्ठायामनिट् । शान्तः ॥ भ्रमु अनवस्थाने ॥—शेषमिति । श्यनि दीर्घो लुङि अङ् च विशेष उक्तस्ततोऽन्यदित्यर्थः ॥—चक्षण्वेति । ‘भ्वोश्च’ इति मस्य नत्वे कृते णलम्
Bālamanoramā
नशेः षान्तस्य - नशे षान्तस्य ।रषाभ्या॑मित्यतो ण इति, 'न भाभूपू' इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — णत्वं न स्यादिति । षान्तस्येति किम् । प्रणश्यति । भूतपूर्वेति । पूर्वं षकारस्य सत इदानीमादेशवशेन षान्तत्वाऽभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः । प्रनङ्क्ष्यतीति । अत्र षस्य कत्वे कृतेऽपि भूतपूर्वगत्या षान्तत्वान्न णत्वमिति भावः । तृप प्रीणने । तृप्तिस्तर्पणं चेति । आद्येऽकर्मकः । द्वितीये सकर्मकः । रधादित्वाद्वेडिति मत्वाह — ततर्पिथ ततर्प्थेति । तत्रप्थेति च ।अनुदात्तस्य चर्दुपधास्ये॑त्यमिति भावः । ततृपिव — ततृप्व.सिज्वेति । पक्षे पुषाद्याङिति भावः । रधादित्वादिड्विकल्पः । तत्र सिचि इट्पक्षे आह — अतर्पीदिति । इडभावपक्षे आह -अतार्प्सीदिति । रहलन्तलक्षणा वृद्धिरिति भावः ।अनुदात्तस्य चे॑त्यम्पक्षे आह -अत्राप्सीदिति । पुषाद्यङ्पक्षे आह — अतृपदिति । ङित्त्वान्न गुण इति भावः । दृप हर्षे इति । तृपधातुवत् । ननु रधादित्वादेव वेट्कत्वादनिट्कारिकासु तृप्यतिदृप्यत्योः पाठो व्यर्थ इत्यत आह — रदादित्वादिमौ वेट्कावमर्थमनुदात्ततेति । द्रुह जिघांसायाम् । अनुदात्तत्वाऽभावेऽपि रदादित्वाद्वेट् । तत्र इडभावे आह — वा द्रुहमुहेति । ध्रोक्ष्यतीति ।वा द्रुहे॑ति घत्वपक्षे दकारस्य भषि घस्य चर्त्वे सस्य षत्वे रूपम् । ढत्वपक्षेऽपिषढो॑रिति कत्वे एतदेव रूपम् । तदाह — ढत्वघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति । पुषादित्वादङिति भावः । मुहदातुरनुदात्तत्वाऽभावेऽपि रधादिद्वेट् ।मुमोहिथेति । इट्पक्षे रूपम् । अनिट्पक्षे तुवा द्रुहमुहे॑ति घत्वं मत्वाऽऽह — मुमोग्धेति । ढत्वपक्षे आह — मुमोढेति । मोक्ष्यतीति । घत्वढत्वयोस्तुल्यं रूपम् । ष्णुह ष्णिहेति । षोपदेशौ । तदाह - सुष्णोह सिष्णेहेति । थलादावनिट्पक्षेवा द्रुहे॑ति घत्वविकल्पः । पक्षे ढः । इतिरधादयः । आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्ताः पुषादय इत्यर्थः । सिद्धान्त इति । माधवादिभिस्तथाऽभ्युपगमादिति भावः । उपशमे इति । उपशमो — नाशः, इन्द्रियनिग्रहश्च ।
SK 2519 · A 7.3.74V
शमामष्टानां दीर्घः श्यनि ॥ २५१९ ॥
śamāmaṣṭānāṃ dīrghaḥ śyani
Siddhānta-kaumudī
शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् ।{$ {!1202 तमु!} काङ्क्षायाम्$} । ताम्यति । तमिता । अतमत् ।{$ {!1203 दमु!} उपशमे$} । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् ।{$ {!1204 श्रमु!} तपसि खेदे च$} । श्राम्यति । अश्रमत् ।{$ {!1205 भ्रमु!} अनवस्थाने$} । वा भ्राश - SK 2321 इति श्यन्वा । तत्र कृते शमामष्टानाम् - SK 2519 इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् ।{$ {!1206 क्षमू!} सहने$} । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमवित् । भ्वादिस्तु षित् । अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा ।{$ {!1207 क्लमु!} ग्लानौ$} । क्लाम्यति । क्लामति । शपीव श्यन्यपि ष्ठिवुक्लमु - SK 2320 इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् ।{$ {!1208 मदी!} हर्षे$} । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥ ।{$ {!1209 असु!} क्षेपणे$} । अस्यति । आस । असिता ॥
Tattvabodhinī
alignment inferredNSP p. 415–416
—शमादिपाठ इति । ‘शमिलाष्टाभ्यो धिनुण्’ ॥—शमादय इति । शमूतमृदमृध्रमृध्रमृक्कमृद इत्यर्थः
Bālamanoramā
शमामष्टानां दीर्घः श्यनि - शमामष्टानाम् । स्पष्टम् । बहुवचनाच्छमादिग्रहणम् । तदाह — शमादीनामिति ।शमस्तमुर्दमुरथ श्रमुभ्र्रमुरपि क्षमुः । क्लमुर्मदी चेत्येतेऽष्टौ शमादय इति स्थितिः ।॑ दमु उपशमे इति । ननु 'शमु यमु उपशमे' इत्येव पठितुं युक्तमित्यत आह — उपशम इति ण्यन्तस्येति । शमधातोर्हेतुमण्ण्यन्ताद्धञिनोदात्तोपदेशस्ये॑ति वृद्ध्यभाव इत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च् दाम्यतीत्यस्य शमयतीत्यर्थः । शेषं भ्वादिवदिति । आर्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षमु सहने । ऊदित्त्वात्थलि वमादौ च इड्विकल्पः । तदाह - चक्षमितेत्यादि । षित्त्वाऽषित्त्वयोः फलभेदं श्लोकार्द्धेन संगृह्णाति — अषित इति । अषितः क्षाम्यतेः — श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षानतिरिति रूपम् । अषित्त्वात् 'षिद्भिदादिभ्यः' इत्यङ्नाक्,मूषस्तु भौवादिकात् षित आत्मनेपदे शपि क्षपि परे इव श्यनि परेऽपि दीर्घसिद्धेः । न चष्ठिवुक्लमुचमांशिती॑त्यत्रैव क्लमुग्रहणं त्यज्यतामितिवाच्यं, शपि दीर्घार्थं तस्यावश्यकत्वादित्यशङ्क्य परिहरति — शपीव श्यन्यपीत्यादि, घिनुणर्थ इत्यन्तम् ।शमित्यष्टाभ्यो घिनु॑णिति विधानादिति भावः । शमादय इति । 'शमु उपशमे' इत्यारभ्य 'मदी हर्षे' इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः । असु क्षेपणे ।
SK 2520 · A 7.4.17V
अस्यतेस्थुक् ॥ २५२० ॥
asyatesthuk
Siddhānta-kaumudī
अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति - SK 2438 इति वचनं तङर्थम् । तङ् तु उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ।{$ {!1210 यसु!} प्रयत्ने$} ॥
Bālamanoramā
अस्यतेस्थुक् - अस्यतेस्थुक् । शेषं पूरयति — अङि परे इति ।ऋदृशोऽङी॑त्यतस्तदनुवृत्तेरिति भावः । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादस्धातोरन्तत्यावयवः । ननु पुषादित्वादेवाऽस्यतेश्च्लेरङि सिद्धेअस्यतिवक्तिख्यातिब्योऽङित्यत्राऽस्यतिग्रहणं व्यर्थमित्याशङ्क्य निराकरोति — अस्य पुषादित्वादित । तङर्थमिति ।पर्यास्थते॑त्यत्र आत्मनेपदेऽङर्थमस्यतिवक्तीत्यत्र अस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया आत्मनपदे अप्रसक्तेरिति भावः । नन्वस्यतेः केवलपरस्मैपदित्वादात्मनपदं दुर्लभमित्यत आह — तङ् तु उपसर्गादिति वक्ष्यते इति ।पदव्यवस्थाया॑मिति शेषः । यसु प्रयत्ने ।
SK 2521 · A 3.1.71V
यसोऽनुपसर्गात् ॥ २५२१ ॥
yaso'nupasargāt
Tattvabodhinī
NSP p. 416
—यसोऽनुप—अत्र वदन्ति । यस इत्येवास्तु । ततः समः नियमार्थं मिदम् । सोपसगौचसश्वेत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसगौदिति प्रहणमुत्तरत्र च यसश्चेति प्रहणं त्यक्तुं शक्यमिति
Bālamanoramā
यसोऽनुपसर्गात् - यसोऽनुपसर्गात् ।
SK 2522 · A 3.1.72V
संयसश्च ॥ २५२२ ॥
saṃyasaśca
Siddhānta-kaumudī
श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ।{$ {!1211 जसु!} मोक्षणे$} । जस्यति ।{$ {!1212 तसु!} उपक्षये$} ।{$ {!1213 दसु!} च$} । तस्यति । अतसत् । दस्यति । अदसत् ।{$ {!1214 वसु!} स्तम्भे$} । वस्यति । ववास । ववसतुः । न शसदद - SK 2263 इति निषेधः । बशादिरयमिति मते तु बेसतुः । बेसुः ।{$ {!1215 व्युष!} विभागे$} । अयं दाहे पठितः । अर्थभैदेन त्वर्ङ्गथं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ।{$ {!1216 प्लुष!} दाहे$} । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ।{$ {!1217 बिस!} प्रेरणे$} । बिस्यति । अबिसत् ।{$ {!1218 कुस!} संश्लेषणे$} । अकुसत् ।{$ {!1219 बुस!} उत्सर्गे$} ।{$ {!1220 मुस!} खण्डने$} ।{$ {!1221 मसी!} परिणामे$} । परिणामे विकारः । समी इत्येके ।{$ {!1222 लुठ!} विलोडने$} ।{$ {!1223 उच!} समवाये$} । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् ।{$ {!1224 भृशु!} {!1225 भ्रंशु!} अधः पतने$} । बभर्श । अभृशत् । अनिदिताम् - SK 415 इति नलोपः । भ्रश्यति । अभ्रशत् ।{$ {!1226 वृश!} वरणे$} । वृश्यति । अवृशत् ।{$ {!1227 कृश!} तनूकरणे$} । कृश्यति ।{$ {!1228 ञितृषा!} पिपासायाम्$} ।{$ {!1229 हृष!} तृष्टौ$} । श्यन्नङौ भौवादिकाद्विसेषः ।{$ {!1230 रुष!} {!1231 रिष!} हिंसायाम्$} । तीषसह - SK 2340 इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा ।{$ {!1232 डिप!} क्षेपे$} ।{$ {!1233 कुप!} ग्रोदे$} ।{$ {!1234 गुप!} व्याकुलत्वे$} ।{$ {!1235 युप!} {!1236 रुप!} {!1237 लुप!} विमोहने$} । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् ।{$ {!1238 लुभ!} गार्ध्ये$} । गार्ध्यमाकाङ्क्षा । तीषसह - SK 2340 इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः ।{$ {!1239 क्षुभ!} संचलने$} । क्षुभ्यति ।{$ {!1240 णभ!} {!1241 तुभ!} हिंसायाम्$} । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः ।{$ {!1242 क्लिदू!} आर्द्रीभावे$} । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता ।{$ {!1243 ञिमिदा!} स्नेहने$} । मिदेर्गुणः SK 2346 । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः ।{$ {!1244 ञिक्ष्विदा!} स्नेहनमोचनयोः$} ।{$ {!1245 ऋधु!} वृद्धौ$} । आनर्ध । आर्धत् ।{$ {!1246 गृधु!} अभिकाङ्क्षायाम्$} । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः ॥
Tattvabodhinī
alignment inferredNSP p. 416
—दाहे पठित इति । व्युष दाह इत्यस्मिन्नेव गणे पठित इत्यर्थः ॥—अङ्कर्थमिति । दाहे पठितस्य तु सिजेव । अब्धोषीत् ॥ इति दिवादयः ॥ षुञ् ॥—सुन्च इति । ‘लोपश्वास्या’- इत्युकारस्य वा लोपः ॥—सुनवानीति । ‘आङ्घृतमस्य’- इत्याटि कृते ‘हुध्रुवोः’- इति यणं वाधित्वा परत्वाद्भुजः
Bālamanoramā
संयसश्च - संयसश्च । सूत्रद्वमिदम् । श्यन् वा स्यादिति । शेषपूरणमिदम् । 'दिवादिभ्यः श्यन्' इत्यतो,वा भ्राशे॑त्यतश्च तदनुवृत्तेरिति भावः । अनुपसर्गाद्यसः श्यन्वा स्यादिति प्रथमसूत्रार्थः । सोपसर्गात्तु नित्य एव श्यन्, अनुपसर्गादिति पर्युदासात् । संपूर्वाद्यसेर्नित्यमेव श्यनः प्राप्तौ द्वितीयसूत्रम् । रव्युष विभागे । अयमिति । दिवादिगण एव पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः । पौनरुक्त्यमाशङ्क्याअह — अर्थबेदेन त्वङर्थं पठते इति । विभागात्मके अर्थविशेषे एव पुषाद्यङर्थमिह पुनः पाठ #इत्यर्थः । अव्युषदिति । 'व्युष दाहे' इति पूर्वं पठितस्य तु सिजेव । अव्योषीत् । ओष्ठआदिरिति । दन्त्योष्ठआदिर्दन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः । अयकार इति । दन्तोष्ठआदिर्दन्त्योष्मान्तो यो दातुरुक्तः स एवायं यकाररहित इत्यन्ये मन्यन्त इत्यर्थः ।अयकार॑मिति पाठे क्रियाविशेषणम् । प्लुष दाहे । ननु दिवादिगणे परस्मैपदिषु पुषादिभ्यः प्रागस्य पाठः क्वचित् दृस्यते तत्र पौनरुक्त्यशङ्कां परिहरति — पूर्वत्र पाठः सिजर्थ इति.पुषादावेव पाठे सति अङेव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अङभावात्सिच् श्रूयेत । तथा च सिचः कदाचिच्छ्रवणार्थः पूर्वं पाठ इत्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं दर्शयति — तद्भ्वादीति । तत् = दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं, भ्वादिपाठेनैव संपन्नप्रयोजनकमिति सुष्ठु वक्तुं शक्यमित्यर्थः । एवं च भ्वादिपाठाच्छब्विकरमो, लुङि सिचः श्रवणं च सिध्यति । पुषादौ पाठात्तु श्यन्विकरणः, अङ् च सिध्यति । अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः । एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात्प्राक् 'प्लुष दाहे' इति न पठितमिति बोध्यम् । मसी परिणामे इति । ईदित्त्वंश्वीदितः॑इत्येतदर्थम् । मस्यति । समी इत्येके इति । सम्यति । भृशु भ्रंशु । द्वितीयधातोराह -अनिदितामिति । युप रुप लुप । धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादायातः । इह पाठस्त्विति । क्षुभिनभितुभीनां इह दिवादिगणे पाठस्य श्यनेव प्रयोजनमित्यर्थः । वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त इति भावः । ञि मिदा । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ 'ञि मिदा स्नेहने' इत्यात्मनेपदिषु पठितः । लुङि तुद्युद्भ्यो लुङी॑त्यत्र परस्मपैदविकल्प उक्तः । द्युताद्यङ् तु परस्मैपद एव, न तु तङि । एवं च द्यातादिपाठादेव परस्मैपदपक्षे अङि अमिददिति, तङ#इ तु अङभावे अमेदिष्टेति सिद्धम् । तथा च पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादौ पाठादेव श्यन्सिद्धेरित्याशङ्क्ये — द्युतादिपाठादेवेत्यादिना, सिद्धे इत्यन्तेन । तामिमां शङ्कां परिहरति — इह पाठोऽमेदीदिति मा भूदितीति । पुषादावस्य पाठोऽमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि अङसंभवादमेदीदिति स्यादिति भावः । रनन्वेवं सति भवाद्यन्तर्गणे द्युतादावस्य पाठो व्यर्थः, द्यातादिभ्यो बहिरेवात्मनेपदिषु पठताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु अमिददिति सिद्धमित्याशङ्क्येष्टापत्त्या परिहरति — बहिरेवेति । 'सूचितः' इतिपाठे तु सुतरामुचित इति व्याख्येयम् । ञि क्ष्विदेत्यादि । व्यक्तम् । इति दिवादयः ।॥ इति बालमनोरमायाम् दिवादयः॥ *****अथ द्वन्द्वः ।*****