PREMABASESiddhānta-kaumudī
Prakaraṇa 45 · SK 2423–2488

तिङन्तादादिप्रकरणम्

tiṅantādādiprakaraṇam · 66 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2423 · A 2.4.72V
अदिप्रभृतिभ्यः शपः ॥ २४२३ ॥
adiprabhṛtibhyaḥ śapaḥ
Siddhānta-kaumudī
{$ {!1011 अद!} भक्षणे$} । द्वौ परस्मैपदिनौ ॥ लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥
Bālamanoramā
अदिप्रभृतिभ्यः शपः - अदिप्रभृतिभ्यः ।ण्यक्षत्रियार्षञितः॑ इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति । शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति । तदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः ।
SK 2424 · A 2.4.40V
लिट्यन्यतरस्याम् ॥ २४२४ ॥
liṭyanyatarasyām
Siddhānta-kaumudī
अदो घसॢ वा स्याल्लिटि । जघास । गमहन - SK 1263 इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि - SK 2410 इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति - SK 2384 इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥
Bālamanoramā
लिट्यन्यतरस्याम् - लिटन्यतरस्याम् । 'अदो जग्धि' रित्यतोऽद इति, 'लुङ्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह — अद इति । आदेशे ऌकार इत् । घसादेशोऽत्राऽनिट् । जघासेति । अकित्त्वात्गमहने॑त्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह — गमहनेत्युपधालोप इति ।असंयोगा॑दिति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह — तस्येति । उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह — शासीति । थलितु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात् । रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम् ।यस्तासावस्ति अनिट् चे॑ति हि भाष्यम् । तदाह — घसेस्तासाविति । जघसिथेति । जक्षयुः जक्ष । जघासजघस जक्षिव जक्षिम । घसादेशाऽभावपक्षे त्वाह — आदेति । थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति । आदिथेति । आदथुः आद । आद आदिव आदिम । अत्ता । अत्स्यतीति । अनिट् । दस्य तः । अत्तु अत्तात् अत्तामदन्तु । अद् — हि इति स्थितेझयो होऽन्यतरस्या॑मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते —
SK 2425 · A 6.4.101V
हुझल्भ्यो हेर्धिः ॥ २४२५ ॥
hujhalbhyo herdhiḥ
Siddhānta-kaumudī
होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥
Tattvabodhinī
NSP p. 400
—हुम्लद्भ्यो हेर्धिः । जुहुधि । ‘घसिभसोर्हली’त्यतो हलीत्यनुवर्त्य हलादेरिति व्याख्यानात् । रुदिहि खपिहि इत्यादाविडादेर्हेर्धिर्न भवति, अत्तादित्यत्र तु धित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनर्धित्वं तु ‘सकृद्गतौ’ इति न्यायान्नेत्याहुः । अन्ये तु हेर्धिरित्यत्र स्थान्यादेशयोर्द्वयोरपीकार उच्चारणार्थ इति हकारस्य धकार आदेशः । तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातङो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मात्स्वित्याहुः
Bālamanoramā
हुझल्भ्यो हेर्धिः - हुझल्भ्यो हेर्धिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात्तदन्तविधिरिति भावः । अनेकाल्त्वात्सर्वादेशः ।रुदिही॑त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात्परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायात् । अत्तमत्त । अदानीति ।आडुत्तमस्ये॑त्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लहि आद् त् इति स्थिते —
SK 2426 · A 7.3.100V
अदः सर्वेषाम् ॥ २४२६ ॥
adaḥ sarveṣām
Siddhānta-kaumudī
अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥
Tattvabodhinī
NSP p. 400
—अदः सर्वेषाम् । ‘अङ्गार्यगालवयोः’ इत्यतः अडित्यनुवर्तते । गार्यगालवयोरित्यस्य त्वनुवृत्तिशङ्कां निवारयितुं सर्वेषां प्रहणम्
Bālamanoramā
अदः सर्वेषाम् - अदः सर्वेषाम् । 'अद' इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते' इत्यतः 'अपृक्ते' इति, 'तुरुस्तुशम्यमः' इत्यतः 'सार्वधातुके' इति चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् 'अतो येयः' इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते —
SK 2427 · A 2.4.37V
लुङ्सनोर्घसॢ ॥ २४२७ ॥
luṅsanorghasḷ
Siddhānta-kaumudī
अदो घसॢ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् ।{$ {!1012 हन!} हिंसागत्योः$} । प्रणिहन्ति ॥
Tattvabodhinī
alignment inferredNSP p. 400
—लुङ्सनोः—। जिघत्सति ॥—प्रणिहन्तीति । ‘नेर्गद—’ इति णत्वम्
Bālamanoramā
लुङ्सनोर्घसॢ - लुङ्सनोर्घस्लृ ।अदो जग्धिः इत्यतोऽद इत्यनुवर्तते । तदाह — अद इति । लृदित्त्वस्य प्रयोजनमाह — लृदित्त्वादिति । हनधातुरिनिट् । प्रणिहन्तीति । शपो लुक् । नस्याऽनुस्वारपरसवर्णौ ।नेर्गदे॑ति णत्वम् ।
SK 2428 · A 6.4.37V
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ॥ २४२८ ॥
anudāttopadeśavanatitanotyādīnāmanunāsika lopo jhali kṅiti
Siddhānta-kaumudī
अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥
Tattvabodhinī
NSP p. 400–401
—अनुदात्तोपदेश—। यद्यत्र एतेषामनुनासिकस्य लोप इति व्याख्यायेत तदा मन्यतेर्नमन्नहमिहमुचमस्जादीनां चानन्त्यस्यापि लोपः स्यात्, तथा च मतः नतः नद्धः मीढः मम इत्यादि न सिध्येत् । अत आह—लुप्तपृष्ठीकमिति ॥—वनतीत-रेपामिति । वनतेरव्यभिचाराद्विशेषणं व्यर्थमिति भावः । वतिः । इह किनि ‘नेङ्गशि कृति’ इतीण्निषेधाज्ज्ञलि कृति न लोपः ॥—लोपः स्यादिति । ‘अलोऽन्त्यस्ये’इत्यन्त्यस्येति भावः । अनुनासिकान्तानुदात्तोपदेशान्दर्शयति—यमिरमीति । तनोत्यादीनप्यनुनासिकान्तान्दर्शयति—तनुक्षणुक्षिणिवति । करोतिवर्जितास्तनोत्यादयो नव तन्मध्ये सनोतेः ‘जनसन-खनाम्—’ इत्यात्वं वक्ष्यतीति न स परिगणितः । ततः क्षतः क्षितः इत्यादीन्युदाहरणानि । तनोत्यादीनामुदित्त्वात् क्त्वा-यामिङ्गिकल्पनान्निष्ठायां नेट् । अनुनासिकान्तानामिति किम् । शक्तः । रुद्धः । क्षलीति किम् । गम्यते । नम्यते । क्वि-तीति किम् । गन्ता । मन्ता ॥—जघान । जम्रतुरिति । यद्यप्यत्र ‘अभ्यासाच्च’ इत्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्त१ लुप्तपृष्ठीकमिति—असमस्तं सौत्रत्वाल्लघुनि प्रक्तिकमित्यर्थः । रङ्गलात् ‘हो हन्तेः—’ इत्युपन्यस्तम् ॥—आभीयतयेति । सन्निपातपरिभाषयापि हेर्छक् नेति वक्तुं शक्यमिति केचित् । तन्मन्दम् । ‘अतो हेः’ इत्यारम्भसामर्थ्यात्तस्याप्रवृत्तेरिति नव्याः ॥—चधादेशोऽदन्त इति । तेन आदेशोपदेशेऽनेकाच्लात् अवधीदित्यत्र ‘एकाचः’ इतीणिनेषेधाप्रवृत्ताविडादौ सिचि ‘अतो हलादेः—’ इति प्राप्ता वृद्धिरल्लोपस्य स्थानिवत्त्वान्नेति भावः । दुह प्रपूरणे । प्रपूरणं त्याजनम् ।—लङ्कदपीति । अदुग्ध । अदुग्धाः । अधुग्ध्वम् । अदुह्वहि ॥—दिह । उपचयो वृद्धिः ॥—प्रणिदेग्धीति । ‘नेर्गद—’ इति णत्वम् ॥—अलिक्षतेति । ‘शल इगुपधा—’ इति क्सः । अलिक्षाताम् । अलिक्षन्त ॥—अलीढेति । ‘लुग्वा दुह—’ इति वा लुक् । अलीढाः । अलीढुम् ॥—चक्षिङ् ॥—दर्शनेऽपीति । ‘विश्वा रूपा अभिचष्टे शचीभिः’ इत्यत्र दर्शनार्थत्वेन व्याख्यातत्वादिति भावः ॥—युजर्थ इति । ‘अनुदात्तेतश्च हलादेः’ इति युच् ॥—अन्तेदित इति । ‘इदितः’ इति नुमविधौ ‘गोः पादान्त’ इत्यस्मादन्त इत्यनुवर्तत इति भावः । एवं च नुमागमशङ्कानुत्थानाय चक्षिङ इकारस्थानेऽकार एवासक्तुमुचितः । अनुदात्तत्वेनैव तङि सिद्धे डकारो व्यर्थं इत्याशङ्क्याह—डकारस्त्विति ॥—स्फायच्चिति । स्फायी वृद्धावित्यनुदात्तेतो लटः शत्रादेशः ॥—चष्टे इति । ‘स्कोः—’ इति कलोपः । ष्टुत्वम् ॥—ख्रादिरिति । तेन पुंख्यानमित्यत्र ‘पुमः खय्यम्परे’ इति रुत्वं नेत्यादि पूर्वार्धे एवोक्तम् ॥—असिद्धकाण्डे इति । णत्वप्रकरणानन्तरमिति शेषः । तेन पर्याख्यानमित्यत्र शकारेण व्यवधा- नात् ‘कृत्यचः’ इति णत्वं न तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीयः । यत्नस्यासिद्धत्वात् ‘धन्वयोपधात्’ इति बुञ् न । किं तु छ एवेति बोध्यम् ॥—अचष्टेति । ‘स्कोः—’ इति कलोपः । प्रुत्नम् ॥ ‘अस्यतिवक्तिख्याति—इत्यत्र विधिसामर्थ्याद्यत्वं नासिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयतया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादडि सिद्धे तर्द्ध्य ग्रहणमित्यादि पुषादिषु वक्ष्यति ॥—वक्तीति । ‘त्रुवो बचिः’ ‘वच परिभाषणे’ इति उभयोर्ग्रहणम् । ईर । ईरिता । ईरिव्यते । लडि । ऐतं । ऐराताम् । ऐरत । ऐरि । ऐर्वहि । ऐर्महि
Bālamanoramā
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति - अनुदात्तोपदेश ।ऊदृदन्तै॑रित्यादिभिः सङ्गृहीता अनुदात्तोपदेशाः, वनतिभौवादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतेषामनुनासिकस्य लोपः स्याज्झलादौ क्ङितीति प्रतीयमानार्थः । एवं सतिमुक्त॑मित्यादौ मुचादीनामपि मकारादिलोपः स्यात् । तत्राह — अनुनासिक इति लुप्तषष्ठीकं पदमिति । एवमप्युक्ताऽतिप्रसङ्गतादवस्थ्यादाह — वनतीतरेषां विशेषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधावनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गः । तदाह — अनुनासिकान्तानामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम्, अव्यभिचारादिति भावः । अत्रानुदात्तोपदेशाननुनासिकान्तान्दर्शयति -यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव षण्णामनुनासिकान्तत्वादिति भावः । अथ तनोतीत्यादीननुनासिकान्तान्दर्शयति — तनुक्,णुक्षिण्विति । 'मनु' इत्यन्तं समाहारद्वन्द्वात्प्रथमैकवचनम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करणे' इत्यन्ता दश धातवस्तनोत्यादयः । तत्रकरोतिरनुनासिकान्तात्वाऽभावादिह न गृह्रते,जनसनखनां सन्झलो॑रिति सनोतेरात्त्वस्य वक्ष्यमाणत्वात्सोऽप्यत्र न गृहीतः । 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया, उदित्त्वेन वनतिग्रहणेनाऽग्रहणात्तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वात्उदितो वे॑ति क्त्वायामिड्विकल्पात्यस्य विभाषे॑ति निष्ठायामिडभावे वतः वतवानित्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाऽभावान्निष्ठायां सेट्कतवेऽपि क्तिनि वतिरित्युदाहरणम्, तत्रतितुव्रतथसिसुसरकसेषु चे॑ति इण्निषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वान्नकारलोपः, 'सार्वधातुकमपि' दिति तसो ङित्त्वात् । घ्नन्तीति । अजादिङित्परकत्वात्गमहने॑त्युपधालोपे 'हो हन्ते' रिति कुत्वेन हस्य घः । हसि हथः हथ ।
Footnotes (NSP 1915 ed.)
NSP p. 401 ज्ञापनार्थं इति—इदं च माधवमतानुरोधेन । परे तु ज्ञापकत्वं भाष्यानुक्तम्, स्फायन्नित्यादि तु असाध्वेवेति वदन्ति ।
SK 2429 · A 8.4.23V
वमोर्वा ॥ २४२९ ॥
vamorvā
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः -SK 358 इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥
Bālamanoramā
वमोर्वा - वमोर्वा ।उपसर्गादसमासेऽपी॑त्यतः उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः' इति सूत्रमनुवर्तते ।हन्तेरत्पूर्वस्ये॑त्यतोहन्ते॑रिति । तदाह - उपसर्गस्यान्निमित्तादिति । णलि जहानेति स्तिते आह — हो हन्तेरिति ।अभ्यासाच्चे॑त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जघ्नतुरिति ।गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वम् । थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्चहो हन्ते॑रिति कुत्वाऽप्राप्तौ ।
SK 2430 · A 7.3.55V
अभ्यासाच्च ॥ २४३० ॥
abhyāsācca
Siddhānta-kaumudī
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः - SK 2366 इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥
Bālamanoramā
अभ्यासाच्च - अभ्यासाच्च ।हो हन्ते॑रित्यनुवर्तते ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणं च । तदाह — अभ्यासात्परस्येत्यादिना । जघनिथ जघन्थेति । इडभावे नस्याऽनुस्वारपरसवर्णौ । जघ्नथुः । जघ्न । जघान — जघन, जघ्निव जघ्निम । लृटि स्ये इण्निषेधमाशङ्क्याह — ऋद्धनोरिति । हन् हि इति स्थिते 'हुझल्भ्यः' इति धित्वे प्राप्ते — ।
SK 2431 · A 6.4.36V
हन्तेर्जः ॥ २४३१ ॥
hanterjaḥ
Siddhānta-kaumudī
हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥
Bālamanoramā
हन्तेर्जः - हन्तेर्जः ।शा हौ इत्यतो हौ इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — हौ परे इति । कृते जादेशेअतो हे॑रिति हेर्लुकमाशङ्क्य आह — आभीयतयेति । जहीति । हतात् हतम् । हत । हनानीति । आटः पित्त्वेन हित्त्वाऽभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपिइतश्चे॑ति इकारलोपेसंयोगान्तस्ये॑ति तकारलोपः । न्याय्यत्वाद्धल्ङ्यादिलोपो वा । अहनमिति । अहन्व । अहन्म । झलादिपरकत्वाऽभावान्नोपधादीर्घः । विधिलिङि हन्यात् हन्यताम् इत्यादि । आशीर्लिङि वधादेशं वक्ष्यन्नाह-
SK 2432 · A 2.4.35आर्धधातुके इत्यधिकारः (प्रथमः)
आर्धधातुके ॥ २४३२ ॥
ārdhadhātuke
Siddhānta-kaumudī
इत्यधिकृत्य ॥
Bālamanoramā
आर्द्धधातुके - आर्धधातुके । इत्यधिकृत्येति ।अदो जग्धि॑रित्यादिविधयो वक्ष्यन्ते॑ इति शेषः । तदधिकारस्थं सूत्रमाह —
SK 2433 · A 2.4.42V
हनो वध लिङि ॥ २४३३ ॥
hano vadha liṅi
Bālamanoramā
हनो वध लिङि - हनो वध ।वधे॑ति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिङीत्र्थः ।
SK 2434 · A 2.4.43V
लुङि च ॥ २४३४ ॥
luṅi ca
Siddhānta-kaumudī
वधादेशोऽदन्तः । आर्धधातुके SK 2300 इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः SK 2308 । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः SK 359 इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः SK 2284 इति न वृद्धिः । अवधीत् ॥ अथ चत्वारः स्वरितेतः ॥{$ {!1013 द्विष!} अप्रीतौ$} । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥
SK 2435 · A 3.4.112V
द्विषश्च ॥ २४३५ ॥
dviṣaśca
Siddhānta-kaumudī
लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् ।{$ {!1014 दुह!} प्रपूरणे$} । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह SK 2365 इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि ।{$ {!1015 दिह!} उपचये$} । उपचयो वृद्धिः । प्रणिदेग्धि ।{$ {!1016 लिह!} आस्वादने$} । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि ।{$ {!1017 चक्षिङ्!} व्यक्तायां वाचि$} । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु [(परिभाषा - ) अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्] इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके SK 2377 इत्यधिकृत्य ॥
Bālamanoramā
द्विषश्च - द्विषश्च ।झेर्जु॑सितिलङः शाकटायनस्ये॑ति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लङो झेरिति । अद्विषन्निति । अद्वेट् अद्विष्टमद्विष्ट । अद्वेषमद्विष्व अद्विष्म । विधिलिङि परस्मैपदे आह - द्विष्यादिति । द्विष्याताम् द्विष्युः — इत्यादि । तङि आह — द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् — इत्यादि । तङ्याह — द्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह — अद्विक्षदिति । 'शल इगुपधात्' इति क्सः । अद्विक्षतामद्विक्षन्नित्यादि । तङित्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह — प्रपूरणं पूरणाऽभाव इति । ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधशः सकाशात्क्षारणे इति यावत् । ननु प्रपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह — धात्वर्थं बाधते कश्चिदिति । प्रसिद्धं धात्वर्तं कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्र्थः । दोग्धीति ।दादे॑रिति हस्य घः,झषस्तथो॑रिति तकारस्य धकारः, घस्य जश्त्वेन गः । एवं दुग्ध इत्यपि । दुहन्ति । धोक्षीति । हस्य घः, चर्त्वेन कः, षत्वमिति भावः । दुग्धः दुग्ध.दोहृ दुह्वः दुह्मः । लटि आत्मनेपदे आह — दुग्धे इति । घधगाः । दुहाते दुहते । धुक्षे इति । हस्य घः, दस्य भष् धकारः, घस्य कः, षत्वम् । दुहाथे । धुग्ध्वे इति । हस्य घः, भष्, घस्य गः । दुह्वहे दुहृहे । दुदोह, दुदुहतुः, दुदुहुः । अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट् । दुदोहिथ, दुदुहथुः दुदुह.दुदोह दुदुहिव दुदुहिम । दुदुहे दुदुहाते दुदुहिरे दुदुहिषे दुदुहाथे दुदुहिढ्वे — दुदुहिध्वे । दुदुहे दुदुहे दुदुहिवहे दुदुहिमहे । दोग्धा । धोक्ष्यति । धोक्ष्यते । दोग्ध्विति.दुग्धात् दुग्दाम् दुहन्तु । दुग्धीति । हेर्धिः ।घत्वजश्त्वे । दुग्धात् । दुग्धम् । दुग्ध । जश्त्वचर्त्वे । षत्वम् । दुहाथाम् । धुग्ध्वमिति । हस्य घः, भष्, घस्य जश्त्वम् । दोहै इति । आटः पित्त्वादङित्त्वाद्गुण इति भावः । दोहावहै दोहामहै । लङि परस्मैपदे आह — अधोगिति । तिप इकारलोपः, हल्ङ्यादिलोपः, हस्य घः, दस्य भष्, घस्य चर्त्वविकल्पः । अदुग्धामदुहन् । अधोक् अदुग्धमदुग्ध । अदोहमिति । अदुह्व अदुहृ । लङस्तङ्याह — अदुग्धेति । हस्य घः, तकारस्य धः, घस्य गः । अदुहातामदुहत । अदुग्धाः, अदुहाथाम् । अधुग्ध्वमिति ।क्सस्याऽचि॑ । अधुक्षातामधुक्षन्त । अधुक्षथाः, अधुक्षाथाम्, अधुक्षध्वम् । अधुक्षि, अधुक्षावहि, अध#उक्षामहि । लुग्वेति । त थास् ध्म् वहि — एषु चतुर्षु दन्त्यादिषु परेषुलुग्वा दुहे॑ति क्सस्य लुक्पक्षे लङीव रूपाणीत्यर्थः । तथा च अदुग्ध, अदुग्धाः, अधुग्ध्वम्, तदुह्वहि — इत्यपि रूपाणीति फलितम् । अधोक्ष्यत् । अधोक्ष्यत । दिह उपचये इति । #उपचयो वृद्धिःओओ । अनिट् । प्रणिदेग्धीति ।नेर्गदे॑ति णत्वम् । दुहधातुवद्रूपाणि । लिह आस्वादने इति । अनिट् । लेढीति । शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति । सिपि हस्य ढः ।षढो॑रिति ढस्य क इति भावः । लीढः लीढ । लेहमि लिह्वः लिह्मः । लटि तङ्याह — लीढे इति.लिहाते लिहते । लिक्षे इति । ढकषाः । लिहाते इति सुगमम् । लीढ्वे इति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे लिह्वहे लिहृहे । लेढा । लेक्ष्यति । लेक्ष्यते । लेढ्विति । लीढात् लीढाम् लिहन्तु । लीढीति । हेर्धिः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् लीढम् लीढ । लेहानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । लेहाव लेहाम । लीढाम् लिहाताम् लिहताम् । लिक्ष्व लिहाथाम् लीढ्वम् । लेहै लेहावहै लेहामहै । अलेडिति । लङि तिपि शपो लुकि इकारलोपे हल्ङ्यादिलोपे हस्य ढः । चर्त्वविकल्प इति भावः । अलीढामलिहन् । अलेट् अलीढमलीढ । अलेहमलिह्व अलिहृ । अलीढ अल#इहातामलिहत । अलीढाः । अलिहाथामलीढ्वम् । अलिहि अलिह्वहि अलिहृहि । अलिक्षिदिति । लुङि क्सः । अलिक्षतामलिक्षन्त । अलिक्षथाः — अलीढाः, अलिक्षाथामलिक्षध्वम् — अलीढ्वम् । अलिक्षि ।लुग्वा दुहे॑ति लुग्विकल्पं मत्वा आह — अलिक्षावहि अलिह्वहीति । अलेक्ष्यत् अलेक्ष्यतेति । लृङि रूपे । द्विषादयश्चत्वारः स्वरितेतो गताः । चक्षिङ् व्यक्तायां वाचीति । गूढार्थस्य स्पष्टप्रतिपत्त्यर्थे विवरणे इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौपूर्वाऽपरं चरतो माययैतो । शिशू क्रीजन्तौ परियातो अध्वरम् । विआआन्यन्यो भुवनानि चक्षे । ऋतूनन्यो विदधज्जायते पुनः इत्यादौ तथा दर्शनादिति नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं,ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति । नाप्यनुदात्तेत्त्वप्रयुक्तात्मनेपदार्थं तदिति शक्यं वक्तुं, ङित्त्वादेव तत्सिद्धेरित्यत आह — इकारोऽनुदात्तो युजर्थ इति ।अनुदात्तेतश्च हलादे॑रिति ल्युडपवादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घ्य इकारोच्चारणं तु उच्चारणार्थत्वाऽभावप्रतिपत्त्यर्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह — नुम् तु नेति । कुत इत्यत आह — अन्ते इदित इति ।इदितो नुम् धातो॑रित्यत्र 'गोः पादान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थमनुदात्तत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवान्ङकारोच्चारणं व्यर्थमित्याशङ्क्य आह — ङकारस्त्विति । ङकारो नित्यात्मनेपदार्थः । अनुदात्तेतत्वप्रयुक्तं त्वात्मनेपदं कदाचिन्न स्यात्, अतो ङकारोच्चारणम् । अत एवअनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्य॑मिति विज्ञायत इत्यर्थः । स्फायन्निति ।स्फायी वृद्धा॑वित्यनुदात्तेतोऽपि लटः शत्रादेश न त्वात्मनेपदं शानजिति बावः । वस्तुतस्तु अन्त्येकत्ववयाघातेन चरितार्थत्वान्ङकारोच्चारणमुक्तार्थे कथं ज्ञापकम् , भाष्ये तथाऽनुक्तत्वाच्च । अतःपृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः । चष्टे इति ।स्को॑रिति कलोपः, ष्टुत्वं चेति भाव- । चक्षाते इति । चक्षते । थासः सेभावेस्को॑रिति कलोपेषढोरिति षस्य कत्वे षत्वे च कृते चक्षे चक्षाथे । ध्वमिस्को॑रिति कलोपे षस्य जश्त्वेन ङकारे चड्ढ्वे । चक्षे चक्ष्वहे चक्ष्महे । आर्धधातुके इत्यनन्तरम् 'इत्यनुवर्तमाने' इति शेषः ।
SK 2436 · A 2.4.54V
चक्षिङः ख्याञ् ॥ २४३६ ॥
cakṣiṅaḥ khyāñ
Bālamanoramā
चक्षिङः ख्याञ् - चक्षिङः ख्याञ् । चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः ।
SK 2437 · A 2.4.55V
वा लिटि ॥ २४३७ ॥
vā liṭi
Siddhānta-kaumudī
अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे ।
vārttika
शस्य यो वा इति स्थितम्
(वार्तिकम्) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया - SK 5023 इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥
Bālamanoramā
वा लिटि - वा लिटि । चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति ।चक्षिङः ख्या॑ञिति सूत्रभाष्ये 'ख्शादिरयमादेश' इति,पूर्वत्रासिद्ध॑मित्यधिकारेख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः । तेनपुंख्यान॑मित्यत्र यत्वस्याऽसिद्धत्वात् 'पुनः खय्यम्परे' इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम् । ञित्त्यात्पदद्वयमिति । परस्मपैदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य वत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट् — चख्यिथ-चख्याथ, चख्यथुः चख्य । चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट् । लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह - चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये । चख्यिवहे । चख्यिमहे । शस्य वत्वाऽभावपक्षे त्वाह - चक्शौ चक्शे इति । खस्य चर्त्वेन क इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशह्क्य निराकरोति — खय इति । अथ ख्यानादेशाऽभावपक्षे आह — चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यतीति । चष्टाम् चक्षाताम् चक्षताम् । चक्ष्व चक्षाथाम् चड्ढ्वम् ।चक्षै चक्षावहै चक्षामहै । लडआह — अचष्टेति । अचक्षातामचक्षत ।अचष्ठ#आ#ः अचक्षाथामचड्ढ्वम् । अचक्षि अचक्ष्वहि अचक्ष्महि । विधिलिडआह — चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह - ख्यायात् ख्येयादिति ।वाऽन्यस्ये॑त्येत्वविकल्पः । शस्य यत्वाऽभावपक्षे आह — क्शायात् क्शेषादिति । लुङि च्लेः सिचि प्राप्ते आह —
SK 2438 · A 3.1.52V
अस्यतिवक्तिख्यातिभ्योऽङ् ॥ २४३८ ॥
asyativaktikhyātibhyo'ṅ
Siddhānta-kaumudī
एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ।
vārttika
वर्जने ख्शाञ् नेष्टः
(वार्तिकम्) ॥ समचक्षिष्टेत्यादि ॥ अथ पृच्यन्ता अनुदात्तेतः- ॥{$ {!1018 ईर!} गतौ कम्पने च$} ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ।{$ {!1019 ईड!} स्तुतौ$} । ईट्टे ॥
Bālamanoramā
अस्यतिवक्तिख्यातिभ्यः अङ् - अस्यतिवक्ति ।च्लेः सिजित्यतश्च्लेरित्यनुवर्तते । तदाह — एभ्यश्च्लेरिति । अस्यत् अस्यतेति । यत्वपक्षे रूपम् । आल्लोपः । ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपक्षे तु आह — अक्शासीदिति । अङ्विधौ ख्यातीति आत्मनेपदे लुङि रूपम् । अक्शासातामित्यादि । अख्यास्यत् अख्यास्यत । अक्सास्यत् । अक्शास्यत । वर्जने क्शाञ् नेष्ट इति । इत्येतत्पर्यन्ता इत्यर्थः । ईर्गसाविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईराधेईर्ध्वे । ईरे ईर्वहे ईर्महे । ईराथामित्यपि ज्ञेयम् । ईध्र्वमिति । ई रै ईरावहै ईरामहै । ऐर्त ऐराताम् ऐरत । ऐर्याः ऐराथाम् ऐध्र्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ठ । ऐरिष्ठ । ऐरिष्यत । ईड स्तुतौ । ईद्वे इति । तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः । ईडाते ईडते । ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते —
SK 2439 · A 7.2.77V
ईशः से ॥ २४३९ ॥
īśaḥ se
Tattvabodhinī
NSP p. 401–402
—ईशः से । यथाश्रुत- सूत्रन्यासे ईशो ध्वे शब्दे परे ईशिध्वे ईशिध्वमिति न सिद्धेदत आह—ईशीइजनामिति
Bālamanoramā
ईशः से - ईशः से ।
SK 2440 · A 7.2.78V
ईडजनोर्ध्वे च ॥ २४४० ॥
īḍajanordhve ca
Siddhānta-kaumudī
ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ [(परिभाषा - ) एकदेशविकृतस्यानन्यत्वात्] । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् ।{$ {!1020 ईश!} ऐश्वर्ये$} । ईष्टे । ईशिषे । ईशिध्वे ।{$ {!1021 आस!} उपवेशने$} । आस्ते । दयायासश्च SK 2325 । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट ।{$ {!1022 आङः!} शासु इच्छायाम्$} । आशास्ते । आशासाते । आङ्पूर्वत्वं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ।{$ {!1023 वस!} आच्छादने$} । वस्ते । वस्से । वध्वे । ववसे । वसिता ।{$ {!1024 कसि!} गतिशासनयोः$} । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे ।{$ {!1025 णिसि!} चुम्बने$} । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ।{$ {!1026 णिजि!} शुद्धौ$} । निङ्क्ते । निङ्क्षे । निञ्जिता ।{$ {!1027 शिजि!} अव्यक्ते शब्दे$} । शिङ्क्ते ।{$ {!1028 पिजि!} वर्णे$} । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त ।{$ {!1029 वृजी!} वर्जने$} । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् इत्यन्ये । वृङ्क्ते ।{$ {!1030 पृची!} संपर्चने$} । पृक्ते । {$ {!1031 षूङ्!} प्राणिगर्भविमोचने$} । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-SK 2224 इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ।{$ {!1032 शीङ्!} स्वप्ने$} ॥
Tattvabodhinī
alignment inferredNSP p. 402
—वैचित्र्यार्थ इति । ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्योत्तरत्रानुवृत्तिरित्येवं विचित्रवोधार्थ इत्यर्थः । इह काशिकादौ जनेरुदाहरणमुक्तम् । तथा हि । जनी प्रादुर्भाव इत्यस्माच्छयनश्छान्दसो लुक् उपधालोपाभावश्च । जनिषे । जनिध्वे । जनिध्व । जनिध्वम् । जन जनने इति श्रुविकरणस्याप्युपधालोपे व्यतिजङ्घिषे । व्यतिजङ्घिध्वे । ‘कर्तरि कर्मव्यतिहारे’ इति तङ् ॥—नमोवाकमिति । ‘नमस्ते रुद्रमन्यवे’ इत्यादि नमोवचनम् । वचेर्धन् । ‘चजोः’ इति कुलम् ॥—वचसे इति । वादित्वादेत्याभ्यासलोपौ न । णिसि चुम्बने ॥—वभ्रामेति । ‘नुम् विसर्जनीय—’ इति सूत्रे वृत्तिपदमज्जयादिभिरुक्तं ‘नुमादिभिः प्रत्येकं व्यवाये षलमिष्यते तेन निस्से निस्से इत्यत्र न भवति’ इति तच्चास्य सान्तत्वे युज्यते । शान्तत्वे तु ‘ब्रश्च—’ आदिषत्वे ‘षढोः—’ इति कत्वे कवर्गात्परत्वेन षत्वं दुर्वारमिति प्रत्युदाहरणमिदं न संगच्छत इति भावः । णिजि शुद्धौ । अनिट्केषु णिजिरिति जौहो-त्यादिकस्य ग्रहणादयं सेडिति ध्वनयति—निजितेति ।—शिजि अव्यक्ते शब्दे । क्तप्रत्यये शिजितम् । आवश्यकणि-न्यन्तान्दीपि शिजिनी । ‘भूषणानां तु शिजितम्’ । ‘मौर्वी ज्या शिजिनी गुणः’ इति चामरः ॥—सुषुविषे इति । ‘स्वरतिसूति—’ इति विकल्पं वाधित्वा ‘श्रुकः किति’ इति निषेधे प्राप्ते कादिनियमान्नित्यमिद् । शीङ् स्वप्ने ॥—क्लिति चेत्यस्येति । अन्यत्र ‘सार्वधातुकार्धधातुकयोः’ इत्यनेन सिद्धमिति भावः
Bālamanoramā
ईडजनोर्ध्वे च - ईडजनोर्ध्वे च ।इडत्यर्ती॑त्यत इडिति, 'रुदादिभ्यः' इत्यतः सार्वदातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं व्याख्याने तु ईशो ध्वेशब्दे परे न स्यात्, ईडजनोः सशब्दे परे न स्यादिति भावः । ननु तर्हिईशीडजनां सेध्वयो॑रित्येकमेव सूत्रं कुतोन कृतमित्यत आह — योगविभागो वैचित्र्यार्थं इति । 'से' इत्यस्य उत्तरत्रानुवृत्तिः, 'ध्वे' इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । इडे ईड्वहे ईड्महे । लिटि तु ईडाचक्रे इत्यादि । ईडिता । ईडिष्यते । ईडाम् । नतु ईडिष्वेत्यत्र कथमिट्, सेशब्दाऽभावात् । तत्राह — एकदेशेति । एकदेशविकृतत्वात्खशब्दस्य इटि ईडिध्व इति रूपमित्यर्थः । ननु तर्हि ईड्ढ्वमित्यत्र कथं नेट्, ध्वस्वरूपापेक्षयाध्व॑मित्यस्य एकदेशविकृतत्वादित्यत आह — विकृतीति । प्रकृतिग्रहणे तदेकदेशविकृतस्य ग्रहणम्, न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेग्र्रहणम् ।पुरुषमानये॑त्युक्ते हि अन्धोऽनन्धो वा पुरु, आनीयते । 'अन्धमानये' त्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडै ईडावहै ईडामहै । ऐड ऐडाताम् ऐडत । ऐडाः ऐडाथाम् ऐड्ढ्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति । आध्यमिति ।धि चे॑त सलोपः । आसै आसावहै आसामहै । आस्त, आसाताम्, आसत । आस्थाः, आसाथाम्, आध्वम् । आसि आस्वहि, आस्महि । आसीत् आसीयाताम् । आसिषीष्ट आसिषीयास्ताम् । आसिष्टेति । आसिषातामित्यादि । आसिष्यत । आङः शासु । आङः परः शासधातुरिच्छायामित्यर्थः । नमोवाकमिति । वचेर्घञि वाकः । नमश्शब्दस्य वचनं कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् । आसिवद्रूपाणि । वस आच्छादने इति । परिधाने इत्यर्थः । वध्वे इति ।धि चे॑ति सलोपः । ववसे इति । वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति । अनिट्सु शब्विकरणस्यैव वसेग्र्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि सि गतीति । वसधातुवत् । इदित्त्वान्नुमिति विशेषः । तालव्यान्त इति । तालव्योष्मान्त इत्यर्थः । कष्टे इति ।व्रश्चे॑ति शस्य षः, ष्टुत्वम् । कक्षे इति । शस्य षः, षस्यषढो॑रिति कः, षत्वम् । कड्वे इति । शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति । णोपदेशोऽयम् । नुमिनश्चे॑त्यनुस्वारः । निंस्ते इत्यादि । निंस्से इति । नुमोऽनुस्वारः । थासः सेभावः । दन्त्यान्तोऽयमिति । दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ।नुम्विसर्जनीयशव्र्यवायेऽपी॑ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति । णोपदेशोऽयम् । अनिट्सु इरितएव ग्रहणादयं सेट् । निङ्क्ते इति । नुमि निन्ज् ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्त्वेन कः, नस्य अनुस्वारे परसवर्णो ङकारः । निञ्जाते । निङ्क्षे निञ्जाथे निङ्ग्ध्वे । निञ्जे निञ्ज्वहे निञ्ज्महे । लिटि संयोगात्परत्वात्कित्त्वाऽभावान्नलोपो न । निनिञ्जे निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्तः । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुरृदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चने इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्धातुः षोपदेशः,सेट् । ङित्त्वात्तङ् । सूते इति । सुवाते सुवते ।सूषे सुवाथे सूध्वे । सुवे सूवहे सूमहे । सुषुविषे इति ।स्वरती॑तीड्विकल्पं बाधित्वाश्र्युकः किती॑ति निषेधे प्राप्ते, क्रादिनियमान्नित्यमिट् ।स्वरतिसूती॑ति इड्विकल्पं मत्वा आह — सोता सवितेति । तिङस्तासा व्यवधानात्भूसुवो॑रिति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सुवताम् । सूष्व सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह — भूसुवोरिति । सुवै इति । सुवावहै सुवामहै । असूत । सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेट् । ङित्त्वात्तङ् ।
SK 2441 · A 7.4.21V
शीङः सार्वधातुके गुणः ॥ २४४१ ॥
śīṅaḥ sārvadhātuke guṇaḥ
Siddhānta-kaumudī
क्ङिति च- SK 2217 इत्यस्यापवादः । शेते । शयाते ॥
Bālamanoramā
शीङः सार्वधातुके गुणः - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकार्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते —
SK 2442 · A 7.1.6V
शीङो रुट् ॥ २४४२ ॥
śīṅo ruṭ
Siddhānta-kaumudī
शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी ।{$ {!1033 यु!} मिश्रणेऽमिश्रणे च$} ॥
Tattvabodhinī
NSP p. 402
—शीङो रुद्र । ‘शोन्तः’ इत्यतो झ इत्य-नुवर्तते । ‘अदभ्यस्तात्’ इत्यतोऽदिति च । तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठ्यन्तलमाश्रित्य व्याचष्टे—झादेश-स्यात इति । झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता ॥—शिश्ये इति । ‘एरनेकाचः’ इति यण् । शेताम् । शयाताम् । शेरताम् । शेष्व । शयाथाम् । शेध्वम्
Bālamanoramā
शीङो रुट् - शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — शीङः परस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति ।षीध्वंलुङ्लिटा॑मित्युक्तेर्न ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे — शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । सेष्व शयाथाम् शेध्वम् । शयै शयावहै शयामहै । अशेत अशयातामशेरत । अशेथाः अशयाथाम् ।अशेध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्टेति । अशयिष्यतेत्यपि ज्ञेयम् । स्तौत्यन्ता इति ।ष्टुञ् स्तुता॑वित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । ञित्त्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । अमिश्रणं पृथग्भावः । सेडयम् ।
SK 2443 · A 7.3.89V
उतो वृद्धिर्लुकि हलि ॥ २४४३ ॥
uto vṛddhirluki hali
Siddhānta-kaumudī
लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्न इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् ।{$ {!1034 रु!} शब्दे$} ॥
Tattvabodhinī
alignment inferredNSP p. 402
—उतो वृद्धिः—। ‘नाभ्यस्तस्याचि पिति—’ इत्यतो निषेधानुवृत्तेराह—न त्वभ्यस्तस्येति । उतः किम् । एति । एषि । लुकीति किम् । युनोति । जुहोति । हलि किम् । यवानि । यवाव । ‘आङ्घतमस्य—’ इत्याडागमः पित् । पिति किम् । युतः । रुतः । ‘नाभ्यस्तस्य’ इति किम् । योयोति । रोरोति । सार्वधातुके किम् । यूयात् । न चात्र डिच्च पित्रेति व्याख्यानान्निर्वाहः शङ्क्यः । ‘किदाशिषि’ इति यामुटः कित्वात् । केचित्तु युयात् सुयात् इत्यादावपि डिच्च पित्रेत्येतदनाश्रित्य व्याचक्षते । संज्ञापूर्वकविधेरनित्यलाङ्घ-द्धिनं भवति । अन्यथा ‘उत औत्’ इत्येव वदेदिति
Bālamanoramā
उतो वृद्धिर्लुकि हलि - उतो वृद्धिर्लुकि हलि ।नाभ्यस्याचि पिति सार्वधातुके॑ इति अचिवर्जमनुवर्तते । लुकीति विषयसप्तमी, दर्शनाऽभावस्य लुकः परत्वाऽसंभवात् ।तदाह — लुग्विषय इत्यादिना । यौतीति । गुणं बाधित्वा वृद्धिः । युत इति । अपित्त्वान्न वृद्धिः । युवन्तीति । अपित्त्वाद्वृद्ध्यभावे ङित्त्वाद्गुणाऽभावे उवङिति भावः । यौषि युथः युथ । यौमि युवः युमः । युयावेति । युयुवतुः युयुवुः । युयविथ युयुवथुः युयुव । युयाव-युयव युयुविव युयुविम । यवितेति । उवङं बाधित्वा परत्वाद्गुण- । यविष्यति । यौतु युतात् युताम् युवन्तु । हौ अपित्त्वान्न वृद्धिः । युहि — युतात् युतम् युत । आटि पित्त्वेऽपि हलादित्वाऽभावान्न वृद्धिः । पित्त्वेन ङित्त्वाऽभावाद्गुणः । यवानि यवाव यवाम । अयौत् अयुतामयुवन् । अयौः अयुतमयुत । अयवमयुव अयुम । विधिलिङ्याह — युयादिति । अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह - इह उतो वृद्धिर्नेति । कुत इत्यत आह — भाष्ये इति । व्याख्यानादिति । 'हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात्पिच्च ङिन्ने॑त्युक्तवचनेनयासुट् परस्मैपदेषु॑ इति ङित्त्वस्याऽप्यभावात्क्ङिति चे॑त#इ गुणनिषेधाऽभावाद्गुणः स्यादित्यत आह — विशेषविहितेनेत्यादि, बाधादित्यन्तम् ।यासुट् परस्मैपदेषु॑ इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपोङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधान्ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह — यूयादिति । आर्धधातुकत्वान्न वृद्धिः ।अकृत्सार्वधातुकयो॑रिति दीर्घः । यूयास्तामित्यादि । लुङ्याह — अयावीदिति । सिचि वृद्धिः ।इट ईटी॑ति सिज्लोपः । अयाविष्टामित्यादि । अयविष्यत् ।
SK 2444 · A 7.3.95V
तुरुस्तुशम्यमः सार्वधातुके ॥ २४४४ ॥
turustuśamyamaḥ sārvadhātuke
Siddhānta-kaumudī
एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -SK 2403 इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति ।{$ {!1035 णु!} स्तुतौ$} । नौति । नविता ।{$ {!1036 टुक्षु!} शब्दे$} । क्षौति क्षविता ।{$ {!1037 क्ष्णु!} तेजने$} । क्ष्णौति । क्ष्णविता ।{$ {!1038 ष्णु!} प्रस्रवणे$} । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् ।{$ {!1039 ऊर्णुञ्!} आच्छादने$} ॥
Tattvabodhinī
NSP p. 402–403
—तुरुस्तु—। तुः सौत्रो धातुरिति वक्ष्यति ॥—अपिदर्थमिति । भोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति । शम्यमोरुद्धन्दसि विकरणस्य लुकि सति हलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशलास्तु ‘तुरुस्तुशम्यमः सार्वधातुके छन्तसि’ इति षष्ठन्ति तिम्भसे कुत्रमिदं छन्द- स्येव
Bālamanoramā
तुरुस्तुशम्यमः सार्वधातुके - तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात्पञ्चम्येकवचम् ।उतो वृद्धि॑रित्यतो हलीति,भूसुवो॑रित्यतस्तिङीति,ब्राउव ई॑डित्यत ईडिति,यङो वे॑त्यतो वेति चानुवर्तते । तदाह - एभ्य इत्यादिना । नाभ्यस्तस्येति ।नाभ्यस्तस्याऽचि पिति सार्वधातुके इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणं पितीत्यस्याऽनुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतिति । ईट्पक्षे हलादित्वाऽभावादुतो वृद्धिर्नेति भावः । रौतीति । ईडभावेउतो वृद्धि॑रिति भावः । रुवीतः रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाऽभावादीडभावे उवङिति भावः । शाम्यतीति । श्यनस्तिङ्त्वाऽभावादीण्नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावेअकृत्सार्वधातुकयो॑रिति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसङ्ग्रहः । रुयात् रुवीयादिति । हलादिसार्वधातुकत्वादीड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुकेउतो वृद्धि॑रिति बोध्यम् । ननु धातुपाठे तुधातोरदर्शनाद्धातुत्वाऽभावात्कथं ततः सार्वधातुकस्य ईड्विधिरित्यत आह — तु इति सौत्रो धातुरिति । गतिवृद्धिहिंसास्विति । अत्र व्याख्यानमेव शरमम् । ननु शपा व्यवदानादस्य सार्वधातुकपरत्वं कथमित्यत आह — अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिङ ईड्विधानमेवाऽत्र बीजम् । शम्यमोस्तुशमीध्वमभ्यमीती॑ति वेदे शपो लुकि बोध्यम् । अयमनिट् । हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह -तोतेति । णु स्तुताविति । णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नु धातवः सेट । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । सुष्णाव इति । षोपदेशोऽयमिति भावः । ऊर्णुञ्धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्यं प्राप्तौ —
SK 2445 · A 7.3.90V
ऊर्णोतेर्विभाषा ॥ २४४५ ॥
ūrṇotervibhāṣā
Siddhānta-kaumudī
वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । उर्णुवाते । ऊर्णुवते ।
vārttika
ऊर्णोतेराम्नेति वाच्यम्
(वार्तिकम्) ॥
Tattvabodhinī
NSP p. 403
—ऊर्णोतेर्विभाषा । ‘उतो वृद्धिः’ इति नित्ये प्राप्ते विभाषेयम् । हलादौ किम् । ऊर्णवानि । पिति किम् । ऊर्णुतः । सार्वधातुके किम् । ऊर्णूयात् ॥—ऊर्णोतेरास्नेति । ‘ऊर्णोतेर्णुवद्भावो वाच्यः’ इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः
Bālamanoramā
ऊर्णोतेर्विभाषा - ऊर्णोतेर्विभाषा ।उतो वृद्धि॑रित्यतो वृद्धिरिति, हलीति चानुवर्तते ।नाभ्यस्तस्ये॑त्यतः 'पिति सार्वधातुके' इति च । इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — वृद्धिः स्यादित्यादिना । लिटिइजादे॑रिति,कास्यनेका॑जिति च आमि प्राप्ते आह — ऊर्णोतेराम् नेति । ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाऽभावादिति भावः । णलि ऊर्णु अ इति स्थितेअजादेर्द्वितीयस्ये॑तिर्नु॑इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते — —
SK 2446 · A 6.1.3V
न न्द्राः संयोगादयः ॥ २४४६ ॥
na ndrāḥ saṃyogādayaḥ
Siddhānta-kaumudī
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] इति त्वनित्यम् । उभौ साभ्यासस्य SK 2606 इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥
Tattvabodhinī
NSP p. 403
—न न्द्राः—। अजादेरिति वर्तते । स च कर्मधारयः । आदिग्रहणस्य तु प्रकृतेऽनुपयोगस्तदेतदाह—अचः परा इति । उन्दिदिषति । इन्दिदिषति । अङ्गिडिषति । आचिंचिषति । ‘न न्द्राः’ इति किम् । ईक्षतेः सनि ईचिक्षिषते । संयोगादयः किम् । प्राणिणिषति । अरिरिषति । अचः पराः किम् । इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिद्रीयिषति । इह नकारस्य द्विलाभावेऽपि दकारस्तु द्विरुच्यत एव । अचः परलाभावात् ॥—नुशब्दस्येति । उपदेशे नकार एव । णत्वं तु ‘रपाभ्याम्—’ इत्यनेनेति भावः ॥—पूर्वत्रासिद्धीयमिति । अत्र द्विर्वचनशब्देन षाष्टमाष्टमिकं चोभयं गृह्यते । तत्र षाष्टस्य ऊढिमाख्यत् औडिढत् इत्युदाहरणम् । आष्टमिकस्य तु द्रोग्धा द्रोढा द्रोढेति । इह त्रिपादीस्थं घलढलादिकं द्विर्वचने सिद्धमेव । असिद्धत्वे तु त्रिपादीस्थकार्यात्पूर्वमेव द्रोहता इत्यस्य द्वित्वे पश्चात् ‘वा इह—’ इति घलढलयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यात् न तु द्रोग्धा द्रोग्धेति । समानजातीयस्यैव नियमेन द्विर्वचनं सिध्यति । किंच षट् सन्त इत्यत्र डस्य चत्वें टकारस्य द्वित्वं ‘पूर्वत्रासिद्धीयमद्वित्वे’ इत्युक्तेरिति मनोरमादावुक्तम् । अत एव सुज्जुपास्य इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः ॥—अनित्यमिति । अत एव हतिशब्दस्य द्विलमौजिढदित्यपि नामधातुषु वक्ष्यति ॥—उभौ साभ्यासस्येति । अनितेरित्यनेन णत्वं कृत्वा द्विर्वचने कृते प्राणि- णत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः । एवं च प्रणिनायेत्यादौ द्वितीयस्य णत्वाभावः सिद्धः
Bālamanoramā
न न्द्राः संयोगादयः - न न्द्राः ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।अजादेर्द्वितीयस्ये॑त्यतोऽजादेरिति । अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी । न्, द्, र् एषां द्वन्द्वः । तदाह — अचः परा इति । ननुणु॑इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह — नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । लिङ्गादिति ।उभौ साभ्यासस्ये॑त्यस्याऽयमर्थः — साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणदित्युदाहरणम् ।अत्र अनिते॑रिति णत्वे कृतेपूर्वत्रासिद्धीयमद्विर्वचने॑ इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्यणी॑त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेःउभौ साभ्यासस्ये॑ति वचनंपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यतां गमयतीत्यर्थः । ऊर्णुनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्यरषाभ्या॑मिति णत्वम् । द्वितीयस्य तुअट्कुप्वा॑ङिति न णत्वम्,उभौ साभ्यासस्ये॑ति लिङ्गादेव ।
SK 2447 · A 1.2.3ङित्त्वातिदेशः
विभाषोर्णोः ॥ २४४७ ॥
vibhāṣorṇoḥ
Siddhānta-kaumudī
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥
Tattvabodhinī
NSP p. 403
—विभाषोर्णोः । ‘गाङ्कुटादिभ्यः’ इत्यतो ङिदिति ‘विज इद्’ इत्यत इङिति चानुवर्तते इत्याशयेनाह—इडादिप्रत्यय इत्यादि । तेन गुणविकल्पे पक्षे उवङ्
Bālamanoramā
विभाषोर्णोः - विभाषोर्णोः । 'गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते, 'विज इ' डित्यत इडिति, — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — इडादीति । ऊर्णुनुविथेति । ङित्त्वपक्षे गुणाऽभावादुवङ् । ऊर्णुनविथेति । ङित्त्वाऽभावपक्षे गुणः । ऊर्णुनुवथुः ऊर्णुनुव । ऊर्णुनाव — ऊर्णुनव । लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह — ऊर्णविता ऊर्णुवितेति । ऊर्णविष्यति ऊर्णुविष्यति । ऊर्णविष्यते — ऊर्णुविष्यते । लङि और्णुदिति स्थितेऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पे, गुणे च प्राप्ते —
SK 2448 · A 7.3.91V
गुणोऽपृक्ते ॥ २४४८ ॥
guṇo'pṛkte
Siddhānta-kaumudī
ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्न इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥
Tattvabodhinī
NSP p. 403
—गुणोऽपृक्ते । ‘नाभ्यस्तस्याचि’ इत्यतः पिति सार्वधानुक्ते इति ‘उतो वृद्धिर्लुकि हलि’ इत्यतो हलीति चानुवर्तते तदाह—हलादावित्यादि
Bālamanoramā
गुणोऽपृक्ते - गुणोऽपृक्ते ।ऊर्णोतेविभाषे॑त्यत ऊर्णोतेरिति,नाभ्यस्तस्ये॑त्यतः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । तदाह — ऊर्णोतेरित्यादि । वृद्ध्यपवाद इति ।ऊर्णोतेर्विभाषे॑ति वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णुयादित्यत्रविभाषोर्णो॑रिति वृद्धिविकल्पमाशङ्क्याह — इह वृद्धिर्नेति । भाष्यादिति । तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः । नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेनङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति 'यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे आशीर्लिङ्याह — ऊर्णूयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः । ऊर्णूयास्तामित्यादि । आत्मनेपदे लिडआह — ऊर्णविषीष्ट ऊर्णुविषीष्टेति ।विभाषोर्णो॑रिति ङित्त्वविकल्प इति भावः । लुङि परस्मैपदे और्णु — ईदिति स्थितेविभाषोर्णो॑रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह — और्णुवीदिति । ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते ।
SK 2449 · A 7.2.6V
ऊर्णोतेर्विभाषा ॥ २४४९ ॥
ūrṇotervibhāṣā
Siddhānta-kaumudī
इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् ।{$ {!1040 द्यु!} अभिगमने$} । द्यौति । द्योता ।{$ {!1041 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् ।{$ {!1042 कु!} शब्दे$} । कोता ।{$ {!1043 ष्टुञ्!} स्तुतौ$} । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः - SK 2385 इतीट् । अस्तावीत् । प्राक्सितात् - SK 2276 इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा SK 2359 । पर्यष्टौत् । प्रयस्तौत् ।{$ {!1044 ब्रूञ्!} व्याक्तायां वाचि$} ॥
Tattvabodhinī
NSP p. 403
—ऊर्णोतेर्विभाषा । ‘सिचि वृद्धिः’ इति सूत्रं ‘नेटि’ इत्यत इटीति चानुवर्तत इत्याशयेनाह—इडादावित्यादि ॥—स्तवीतीति । ‘तुरुषुशम्यमः’ इति ईड्वा । ‘सुषु-धूञ्भ्यः’ इत्यत्र परस्मैपदेष्वित्युक्तेः । आत्मनेपदे तु नेट् । अस्तोष्ट । अस्तोषाताम्
Bālamanoramā
ऊर्णोतेर्विभाषा - ऊर्णोतेर्विभाषा ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवर्तते,नेटी॑त्यत इटीति च । तदाह — इडादाविति । आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट । और्णविष्यत् — और्णुविष्यत् । और्णविष्यत — और्णुविष्यत । द्यु इति । अनिट् । द्यौतीति । उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति । द्योष्यति । अद्यौषीत् । षु प्रसव इति । षोपेशोऽयम् । अनिट् । सौतीत्यादि द्युदातुवत् । एवं कु शब्दे इतय्पि । ष्टुञ् स्तुताविति । उभयपदी अनिट् । 'तुरुस्तुशम्ययः' इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिंध च मत्वा आह — स्तौति स्तवीतीति । स्तुवन्ति । स्तौषि — स्तवीषि, स्तुथः — स्तुवीथः, स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि, स्तुवःस्तुवीमः । स्तुमः । स्तुवीमः । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह — स्तुते । स्तुवीते इति । स्तुवाते स्तुवते । स्तुषे — स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे ।स्तुवे स्तुवहे — स्तुवीवहे स्तुमहे — स्तुवीमहे । लिटि — तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वात्थल्यपि नेड्भवति । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव — तुष्टव । तुष्टुव तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति स्तोष्यते । स्तौतु — स्तुवीतु, स्तुतात् — स्तुवीतात्, स्तुताम् — स्तुवीताम्, स्तुवन्तु । स्तुहि — स्तुवीहि, स्तुतात् — स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत । स्तवानि स्तवाव स्तवाम । स्तुताम् — स्तुवीताम्, स्तुवाताम्, स्तुवताम् । स्तुष्व — स्तुवीष्व स्तुवाथाम् स्तुध्वम् — स्तुवीध्वम् । स्तवै स्तवावहै स्तवावहै । लङि — अस्तौत्-अस्तवीत् अस्तुताम् — अस्तुवीतामस्तुवन् । अस्तौः — अस्तवीः, अस्तुतम् — अस्तुवीतम्, अस्तुत — अस्तुवीत । अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम । अस्तुत — अस्तुवीत अस्तुवातामित्यादि । विधिलिङि स्तुयात् — स्तुवीयादित्यादि । आत्मनेपदे स्तोषीष्टेत्यदि । लुङि सिचि इडभावे प्राप्ते आह — स्तुसुधूञ्भ्य इति । तथा चइट ईटी॑ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न । अस्तोष्ट अस्तोषातामित्यादि ।
SK 2450 · A 3.4.84V
ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ २४५० ॥
bruvaḥ pañcānāmādita āho bruvaḥ
Siddhānta-kaumudī
ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥
Tattvabodhinī
alignment inferredNSP p. 403–404
—ब्रुवः पञ्चानाम्—। ‘विदो लटो वा’ इत्यतो लटो वेति वर्तते । ब्रुव इत्येतदादिमं पश्चम्यन्तमन्तिमं तु षष्ट्यन्तमित्याशयेनाह—ब्रुवो लट इत्यादि ॥—चत्वेमिति । प्रक्रियालाघवात् ‘आहस्तः’ इत्येव सुवचमित्याहुः
Bālamanoramā
ब्रुवः पञ्चानामादित आहो ब्रुवः - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते —
SK 2451 · A 8.2.35V
आहस्थः ॥ २४५१ ॥
āhasthaḥ
Siddhānta-kaumudī
झलि परे । चर्त्वम् । आत्थ । आहथुः ॥
Bālamanoramā
आहस्थः - आहस्थः । 'आह' इति षष्ठन्तम् । 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — झलि परे इति । आह् इत्यस्य थकारः स्याज्झलीति फलितम् ।अलोऽन्त्यस्ये॑त्यन्त्यस्य भवति । चत्त्र्वमति । आथ् — थेति स्थिते प्रथमथकारस्यखरि चे॑ति चर्त्वे आत्थेति रूपमित्यर्थः । आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानं णलाद्यभावपक्षे आह — —
SK 2452 · A 7.3.93V
ब्रुव ईट् ॥ २४५२ ॥
bruva īṭ
Siddhānta-kaumudī
ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥
Tattvabodhinī
NSP p. 404
—ब्रुव ईद् । हलादेः किम् । त्रवाणि । पितः किम् । ब्रूतः ॥—झलीति थत्वविधानादिति । ईडागमे कृते झलादिलाभावादिति भावः ॥ इण् गतौ ॥—इयङोऽपवाद् इति । येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परलादस्य वाधिके । अयनम् । आयकः । दीर्घं इणः किति । ‘अत्र लोपोऽभ्यासस्य’ इत्यतोऽभ्यासस्येत्यनुवर्तते ‘व्यथो लिटि’ इत्यतो लिटीति च । किति किम् । इयाय । अत्र वदन्ति । इह दीर्घे कृतेऽपि ‘अभ्यासस्यासवर्णे’ इतीयङा रूपसिद्धेः कितीति व्यर्थम् । न च दीर्घस्येयङि दीर्घविधानं व्यर्थमिति वाच्यम् । ईयतुः । ईयुरित्यत्र ‘वार्णादाङ्गं वलीयः’ इति यणि कृते दीर्घविधेरावश्यकत्वात् । किंच लिटीत्यनुवर्तनमपीह व्यर्थमेव व्यावर्त्याभावादिति । एता । एष्यति । एतु । इतात् । इताम् । यन्तु । इहि । उत्तमे तु । अयानि । अयाव । अयाम । लङ्मध्यमे । ऐः । ऐतम् । ऐत । उत्तमेतु । आयम् । ऐव । ऐम ॥—ईयादिति । ‘अकृत्सार्व-’ इति दीर्घः
Bālamanoramā
ब्रुव ईट् - सन्वल्लघुनि । 'अनग्लोपे' इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मदारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयथ्र्यात् । ननु बहुव्रीह्राश्रयणेऽपिअत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवृत्तौ चङपरके लघुनि परेऽभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यः श्रिद्रुरुआउभ्यश्चङि द्वित्वे अशिश्रियत् अदुद्रुवत् असुरुआउवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्चदीर्घो लघो॑रिति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत आह — अन्यपदार्थो णिरिति । तथा च चङ्परे णौ इति लभ्यते । अशिश्रियादित्यादौ च णेरभावान्न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः, अङ्गस्येत्यावृत्तौ एकं चङ्परे इत्यत्रान्वेति । निमित्तनिमित्तभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चङपरके वर्णे परे इति लभ्यते । चङ्परकश्च वर्णोऽर्थाण्णेरिकार एव, न तु श्रिद्रुरुआउवामन्त्यवर्णः, तस्य अप्रत्ययत्वेन अङ्गसंज्ञाप्रापकत्वाऽभावात् । एतदर्थमेव अङ्गस्येत्स्य निमित्तषष्ठन्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु णाविति न लभ्यते, श्रिद्रुरुआउषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतत् अभ्यासस्येत्यनुवृत्तेन अन्वेति ।सन्व॑दिति सप्तम्यन्ताद्वतः । तदाह — अङ्गसंज्ञानिमित्तमित्यादिना । अथवेति । अस्मिन्व्याख्याने 'चङ्परे' इत्येतदङ्गस्येत्यत्रान्वेति, न तु लघुनि । अङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति । तदाह — चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपेऽसतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, 'अजजागर' इत्यत्र चङ्परे णौ यल्लघु, तदभ्यासव्यवहितमिति न सन्वत्त्व॑मिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देण्र्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेनाऽभ्यासस्य तथाविधलघुपरकत्वविरहात्सन्वत्त्वाऽभावान्नाऽभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् — 'उन्दिद्' इत्येतत् , — तदीयोऽभ्यासश्चङमादाय,लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृते क कम त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् ।
SK 2453 · A 2.4.53V
ब्रुवो वचिः ॥ २४५३ ॥
bruvo vaciḥ
Siddhānta-kaumudī
उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्न इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति SK 2438इत्यङ् ॥
Bālamanoramā
ब्रुवो वचिः - ब्राउवो वचिः । ब्राउवो वचिरादेशः स्यादार्धधातुके इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । अकिति द्वित्वे कृतेलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राक्वचिस्वपियजादीना॑मिति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् 'अभ्यासस्याऽसवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः । वचिर्निट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट् । तदाह — उवचिथ उवक्थेति । इडभावेचोः कुः ।ब्राउव ई॑डित्यत्रनाभ्यस्तस्ये॑त्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीण्न । ऊचथुः ऊच । उवाच — उवच ऊचिम ऊचिम । क्रादिनियमादिट् । ऊचे इति ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्यादेशे इण्निषेधः । वक्ष्यति वक्ष्यते । ब्रावीतु ब्राऊतादिति । ननु तिबादेशस्य तातङ पित्त्वात्ब्राउव ई॑डिति ईडागमः स्यादित्यत आह — ङिच्चेति । ब्राऊताम् ब्राउवन्तु । ब्राऊहि ब्राऊतात् ब्राऊतम् ब्राऊत । ब्रावाणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । ब्रावाव ब्रावाम । ब्राऊताम् ब्राउवाताम् ब्राउवताम् । ब्राऊष्व ब्राउवाथाम् ब्राऊध्वमिति सिद्धवत्कृत्य आह — ब्रावै इति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः । ब्रावावहै ब्रावामहै । लङि — अब्रावीत् अब्राऊतामब्राउवन् । अब्रावीः अब्राऊतमब्राऊत । अब्रावमब्राऊव अब्राऊम । विधिलिङ्याह — ब्राऊयादिति । ब्राऊयादिति । ब्राऊयातामित्यादि । आशीर्लिङ्याह — उच्यादिति । वच्यादेशेवचिस्वपी॑ति संप्रसारणमिति भावः । उच्यास्तामित्यादि । आत्मनेपदे आशीर्लिङि — वक्षीष्ट वक्षीयास्तामित्यादि । अकित्त्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह — अस्यतीति । अवच् अ त् इति स्थिते —
SK 2454 · A 7.4.20V
वच उम् ॥ २४५४ ॥
vaca um
Siddhānta-kaumudī
अङि परे । अवोचत् । अवोचत ॥ अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ।{$ {!1045 इण्!} गतौ$} । एति । इतः ॥
Bālamanoramā
वच उम् - वच उम् । शेषपूरणेन सूत्रं व्याचष्टे - अङि परे इति ।ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादचः परः । आद्गुणः । तदाह — अवोचदिति । अवक्ष्यत् अवक्ष्यत । इङ् त्विति । 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण्गताविति ।इणो य॑णित्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्गुणः । इत इति । अपित्त्वेन ङित्त्वान्न गुणः । इ — अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते -
SK 2455 · A 6.4.81V
इणो यण् ॥ २४५५ ॥
iṇo yaṇ
Siddhānta-kaumudī
अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥
Bālamanoramā
इणो यण् - इणो यण् ।अचि श्नुधातु॑इत्यतोऽचीत्यनुवृत्तस्य अङ्गाधिकारलब्धाऽङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — अजादौ प्रत्यये परे इति । इयङोऽपवाद इति । इयङि प्राप्ते एव तदारम्भादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथा — अयनम् । आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः । इयायेति । द्वित्वे सति उत्तरखण्डवृद्धावायादेशे 'अभ्यासस्याऽसवर्णे' इतीयङ् । अतुसि तु द्वित्वे कित्त्वाद्गुणाऽभावे इ इ अतुस् इति स्थितेइणो य॑णित्युत्तरखण्डस्य यणि इ-यतुरिति स्थिते -
SK 2456 · A 7.4.69V
दीर्घ इणः किति ॥ २४५६ ॥
dīrgha iṇaḥ kiti
Siddhānta-kaumudī
इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥
Bālamanoramā
दीर्घ इणः किति - दीर्घ इणः । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,व्यथो लिटीत्यतो लिटीति चानुवर्तते । तदाह — इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनियमातॢ वडिति मत्वा आह — इययिथ इयेथेति । इयथुः ईय । इयाय इयय ईयिव ईयिम । एता । एष्यति । एतु — इतात् इताम् यन्तु । इहि — इतात् इतम् इत । अयानि अयाव अयाम । ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति । झेरन्तादेसे इकारलोपे इ — अन् इति स्थितेइणो य॑णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । आयम् ऐव ऐम । विधिलिङ्याह — इयादिति । इयाताम् । इयुरित्यादि । आशीर्लिङ्याह — ईयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ईयास्तामित्यादि ।
SK 2457 · A 7.4.24V
एतेर्लिङि ॥ २४५७ ॥
eterliṅi
Siddhānta-kaumudī
उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥
Tattvabodhinī
NSP p. 404
—एतेलिङि । इहार्धधातुक इति स्वरूपकथनार्थं प्रक्षिप्तम् । किति लिङीत्येतावतैवेष्टसिद्धेः ॥—उभयत आश्रयण इति । अन्तादिशब्दावयवविशेषवाचिनौ । तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश आश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात् । एवं परस्यादिवत्त्वे पूर्वस्यान्तवद्भावो न स्यादेकस्योभयापेक्षया पारतच्छयविरोधादिति भावः । नन्वेवं रामौ इत्यस्य सुप्तिङन्तमिति पदत्वं न स्यात् । परादित्वे रामेति प्रकृतेरभावात् । ‘यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण’मिति स्वीकाराद्राम इत्यस्य प्रकृतित्वात् । पूर्वान्तत्वे तु परत्र प्रत्ययाभावात् । अत्राहुः । पूर्वपदसंज्ञा पश्चादेकादेश इति नोक्तदोषः । इह च ज्ञापकं ‘सुपिप्तूतिसमाः’ इति । विध्यादौ समीयादिति न भवत्येव । आशीर्लिङि तु ‘अकृत्सार्व-’ इति दीर्घे कृतेऽपि हस्तत्वेन भाव्यमित्याशङ्क्याह—भौवादिकस्येति । इटकिटकटीत्यत्र प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम् । वी गतीत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यत इति मते तु विध्यादिलिङ्यपि भवत्येवेति वाच्यम्
Bālamanoramā
एतेर्लिङि - एतेर्लिङि ।उपसर्गाद्ध्रस्व ऊहते॑रित्यत 'उपसर्गाद्ध्रस्व' इति ,केऽणः॑इत्यतोऽण इति,अयङ्यि क्ङिती॑त्यतः कितीति चानुवर्तते । तदाह — उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते, इण आर्धधातुकलिङो ङित्त्वाऽभावात् । नन्वमीयादित्यत्रापि ह्रस्वः स्यादित्यत आह — उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन 'अभ्' इत्यस्य उपसर्गत्वाऽभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च 'अभ्' इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । सम#एयादिति । आ-इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित्समीया॑दिति प्रयोगः कथमित्याशङ्क्याह — समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशीर्लिङिअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घो बोध्य इति भावः । लुङि विशेषमाह —
SK 2458 · A 2.4.45V
इणो गा लुङि ॥ २४५८ ॥
iṇo gā luṅi
Siddhānta-kaumudī
गातिस्था SK 2223 इति सिचो लुक् । अगात् । अगाताम् । अगुः ।{$ {!1046 इङ्!} अध्ययने$} । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥
Bālamanoramā
इणो गा लुङि - इणो गा । इण्धातोर्गा इत्यादेश स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह — गातिस्थेतीति । लृङि ऐष्यते । इङ् अध्ययने इति । अधिरुपरिभावे ।उपरिभावश्च पठने नियमपूर्वकत्व॑मिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्ग न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीते इति ।सार्वधातुकमपि॑दिति ङित्त्वाद्गुणनिषेध सवर्णदीर्घः । अजादौ तु इयङ् ।तदाह — अधीयाते अधीयते इति । अधीषे अधीयाथे अधीध्वे । अधीये अधीवहे अधीमहे ।
SK 2459 · A 2.4.49V
गाङ् लिटि ॥ २४५९ ॥
gāṅ liṭi
Siddhānta-kaumudī
इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् SK 3066 इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥
Tattvabodhinī
NSP p. 404–405
—गाङ् लिटि ।—लावस्थायामिति । वार्तिकमते तु एकादेशात्प्रागेव गाङादेशे ‘द्विर्वचनेऽचि’ इति सूत्रं न प्रवर्तते द्विलनिमित्ताचोऽभावात् ॥—विवक्षित इति । भाष्यमते तु सुतरां न प्रवर्तते अनैमित्तिकलादिति भावः ॥—निर्देशान्न भवतीति । ‘वार्णादाङ्गं वलीयः’ इति समाधानं तु न प्रवर्तते व्याश्रयत्वादिति भावः ॥—अध्यैयतेति । ‘आत्मनेपदेष्वनतः’ इति झस्य अत् । लङ् मध्यमे तु अध्यैथाः । अध्यैयाथाम् । अध्यै- ध्वम्—अध्येषीष्टेति । लिङः सीयुट् । अध्येषीयास्ताम् । अध्येषीरन्
SK 2460 · A 2.4.50V
विभाषा लुङ्लृङोः ॥ २४६० ॥
vibhāṣā luṅlṛṅoḥ
Siddhānta-kaumudī
इङो गाङ् वा स्यात् ॥
Bālamanoramā
विभाषा लुङ्लृङोः - आगस्त्य । अगस्तयः । कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च ।यस्कादिभ्यो गोत्रे॑ इत्यारभ्यआगस्त्यकौण्डिन्ययोः॑ इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम्- ।
SK 2461 · A 1.2.1ङित्त्वातिदेशः
गाङ्कुटादिभ्योऽञ्णिन्ङित् ॥ २४६१ ॥
gāṅkuṭādibhyo'ñṇinṅit
Siddhānta-kaumudī
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥
Tattvabodhinī
NSP p. 405
—गाङ्कुटादिभ्यो—। इह गाङ् गताविल्यस्य न ग्रहणम् । तदर्थतया डकारानुवन्धस्य तत्र चरितार्थलात् । आदेशङकारस्तु अचरितार्थः । स्थानिवद्भावेनैव तदुः सिद्धलादत आह—गाङ्गादेशादिति । कुटादिस्तुदाद्यन्तर्गणः । केचित्तु कुट आदिर्येषां ते कुटादयः । कुटस्य आदिः कुटादिः कुटादिश्च कुटादयश्च कुटादयः इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः । तच्च ‘रलो व्युपधात्—’ इति सूत्रस्थेन लिखित्वा लेखित्वा लिलिखिषति लिलेखिषति इति वृत्तिग्रन्थेन, ‘शकुनि-प्चालेखने’ इति सौत्रप्रयोगेण च विरुध्यते । अञ्णिदिति किम् । घञि कोटः । पोटः । णलि चुकोट । पुपोट
Bālamanoramā
गाङ्कुटादिभ्योऽञ्णिन्ङित् - गाङ्कुटादिभ्यो । ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित् । गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात्इणो गा लुङी॑त्यस्य न ग्रहणमित्युक्तम् । नापि 'गाङ्गतौ' इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह — गाङादेशादिति । एवं च सिचो ङित्त्वे आह —
SK 2462 · A 6.4.66V
घुमास्थागापाजहातिसां हलि ॥ २४६२ ॥
ghumāsthāgāpājahātisāṃ hali
Siddhānta-kaumudī
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत ।{$ {!1047 इक्!} स्मरणे$} । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-SK 613 इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥
vārttika
इण्वदिक इति वक्तव्यम्
(वार्तिकम्) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति ।{$ {!1048 वी!} गतिव्याप्तिप्रजनकान्त्यसनखादनेषु$} । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् ।{$ {!1049 या!} प्रापणे$} । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥
Tattvabodhinī
NSP p. 405
—घुमास्था—। ‘दीङो युडचि—’ इत्यतः क्रितीत्यनुवर्तते । आर्धधातुक इति चाधिक्रियत एव । क्रिति किम् । दाता । धाता । हलादौ किम् । ददतुः । ददुः । अन्यथा आतो लोपात्परत्वादीत्वं स्यात् । आर्धधातुके किम् । मातः । माथः ॥—अध्यगीष्टेति । सिचो डित्त्वादीत्यम् । इक् स्मरणे । ककार इह ‘इण्वदिकः’ इति विशेषणार्थः । एरित्युक्ते तु इट किट कटीत्यत्र प्रश्लिष्टस्य ईधातोरपि ग्रहणं स्यादित्याहुः ॥—केचित्त्विति । आर्धधातुकाधिकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादतिदेश इति भावः ॥—अधीयन्निति । स्मरन्नित्यर्थः । राघवयोरित्यत्र ‘अधीगर्थः- दयेशां कर्मणि’ इति षष्ठी ॥—बी गति—॥अचियन्निति । अडागमात्परलादियङ् ॥—अडागमे सतीति । कृताकृतप्रसङ्गिलमात्रेण अटो निल्यलादिति भावः । अत एवापरितोषात् ‘असिद्धवदत्राभात्’ इति समानाश्रये यणि कर्तव्ये अटोऽसिद्धलादियङ्बोचित इत्याशयेन वा केचिदित्युक्तम् । लावस्थायामेवाडागम इति पक्षे तु यणेवेति बोध्यम् ॥— ईकारोऽपीति । प्रयुज्ञते च ‘न हि तरणिरुदीते दिक्पराधीनवृत्तिः’ इति व्याख्यातं च मनोरमायाम् । कर्मव्यतिहारे तङ् । न च ‘न गतिर्हिसार्थभ्यः’ इति निषेधः शङ्काः । उत्पूर्वस्याविर्भावार्थलादिति । अत्र वदन्ति । व्यतिशब्दं विना कर्मव्यतिहारकल्पनं छेशावहम् । परकीयकर्म च कर्मव्यतिहारोऽपेक्ष्यते तच्चात्र नोपात्तम् । परस्परकरणं तु न संभवत्येव । ततश्चोदीते इति भावे निष्ठा ज्ञेया । तथा चोदये दिक्पराधीनवृत्तिस्तरणिनैत्यर्थः सुगम इति
Bālamanoramā
घुमास्थागापाजहातिसां हलि - घुमसाथा । 'षो अन्तकर्मणि' इत्यस्य कृतात्वस्य निर्देशः । घु मा स्था गा पा जहाति साएषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'आतो लोप इटि चे' त्यत आत इतिईद्यती॑त्यत ईदिति,अनुदात्तोपदेशे॑त्यतः क्ङिति — इति चानुवर्तते । तदाह — एषामित्यादिना । अध्यगीष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्थे' तिन सिज्लोपः, परस्मैपदाऽभावात् । अध्यगीषातामध्यगीषत । अध्यगीष्टाः अध्यगीढ्वम् । अध्यगीषि अध्यगीष्वहि अध्यगीष्महि । गाङभावपक्षे आह — अध्यैष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषातामध्यैषत । अध्यैष्ठाः अध्यैषाथामध्यैढ्वम् ।धि चे॑ति सलोपः । अध्यैषि अध्यैष्वहि अध्यैष्महि । लृडआह — अध्यगीष्यतेति ।विभाषा लुङ्लृङो॑रिति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः' इति ङित्त्वेघुमास्थे॑ति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह — अध्यैष्यतेति । अध्यैष्येतामित्यादि । इक्स्मरणे । अयमपीति । इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य 'नित्यमधिपूर्व' इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम्, अस्य तु तथात्वे किं प्रमाणमित्यत आह — अधीगर्थेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थदातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाऽभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात्तत्र अधीति व्यर्थं स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इण्वदिक इति । षष्ठन्ताद्वतिः । इणो यत् कार्यम् 'इणो यणि' त्यादि, तदिको भवतीत्यर्थः । अध्येति, अधीत इति सिद्धवत्कृत्य आह — अधियन्तीति । अन्तादेशे इयङपवादः ।इणो य॑णिति यणिति भावः । अध्येषि अधीथः अधीथ । अध्येमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थितेइणो य॑णिति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्यदीर्घ इणः किती॑ति दीर्घे सवर्णदीर्घे — अधीयतुः अधीयुः । अधीययिथ — अथीयेथ अधीयथुः अधीय । अधीयाय — अधीयय अधीयिव अधीयिम । अध्येता । अध्येष्यति । अध्येतु- अधीतात् अधीतामधियन्तु । अधीहि — अधीतात् अधीतमधीत । अध्ययानि अध्ययाव अध्ययाम । अध्यैत् अध्यैतामध्यायन् । अध्यैः अध्यैतमध्यैत । अध्यायमध्यैव अध्यैम । इति सिद्धवत्कृत्य लुङ्याह — अध्यगादिति । इण्वत्त्वात्इणो गा लुङी॑ति गादेशे 'गातिस्थे' तिसिचो लुका लुप्तत्वात्घुमास्थे॑ति ईत्त्वं न । अध्यगाताम् । अध्यगामध्यगाव । अध्यैष्यत् । केचित्त्विति । 'आर्धधातुके' इत्यधिकारेइणो गा लुङी॑ति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणमुपस्थितत्वादिति भावः । तन्मते यण् नेति ।इणो य॑णित्यस् आर्धधातुकाधिकारस्थत्वाऽभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयङि सवर्णदीर्घे अधीयन्तीत्याद्यूह्रम् । राघवयोरधीयन्निति ।अधीगर्थे॑ति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वादिग्धातोर्लटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घे अधीयदिति शत्रन्तात्सुबुत्पत्तौ सौ रूपम् । वी गतीति ।अजेव्र्यघञपो॑रिति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्त्वाद्यणभावादियङिति भावः । लोटि वेतु — वीतात् वीताम् वियन्तु । इति सिद्धवत्कृत्याह — वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लडआह — अवेदिति । अवियन्निति । वी — अन्निति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह — अडागमे सतीति ।लावस्थायाम॑डिति पक्षे इयङं बाधित्वा अनेकाच्त्वाद्यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्बीजं तुकृतेऽप्यटि यणि कर्तव्ये आभीयतया अटोऽसिद्धत्वादनेकाच्त्वाऽभावाद्यणभावादियङेवोचित इति शब्देन्दुशेखरे विस्तरः । अत्रेति । वी-ई इति सवर्णदीर्घे॑ वी गती॑ति निर्देश इति भावः । ईयादिति । विधिलिङि आशीर्लिङि च रूपमिदं समानम् । 'स्को' रिति सलोपः । तत्र विधिलिङि ईयातामित्यादि, आशिषितु ईयास्तामित्यादी॑ति विशेषः । ऐषीदिति । सिचि वृद्धिः । या प्रापणे इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह — प्रापणमिह गतिरिति । णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति ।नेर्गदे॑ति णत्वम् । ययौ । याता । यास्यति । यातु । अयात् अयाताम् ।
SK 2463 · A 3.4.111V
लङः शाकटायनस्यैव ॥ २४६३ ॥
laṅaḥ śākaṭāyanasyaiva
Siddhānta-kaumudī
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् ।{$ {!1050 वा!} गतिगन्धनयोः$} । गन्धनं सूचनम् ।{$ {!1051 भा!} दीप्तौ$} ।{$ {!1052 ष्णा!} शौचे$} ।{$ {!1053 श्रा!} पाके $}।{$ {!1054 द्रा!} कुत्सायां गतौ$} ।{$ {!1055 प्सा!} भक्षणे $}।{$ {!1056 पा!} रक्षणे$} । पायास्ताम् । अपासीत् ।{$ {!1057 रा!} दाने$} ।{$ {!1058 ला!} आदाने$} । द्वावपि दाने इति चन्द्रः ।{$ {!1059 दाप्!} लवने$} । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् ।{$ {!1060 ख्या!} प्रकथने$} । अयं सार्वधातुकमात्रविषयः ॥
vārttika
सस्थानत्वं नमः ख्यात्रे इति वार्तिकम्
(वार्तिकम्) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः ।{$ {!1061 प्रा!} पूरणे$} ।{$ {!1062 मा!} माने$} । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-SK 2285 इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति ।{$ {!1063 वच!} परिभाषणे$} । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ।{$ {!1064 विद!} ज्ञाने$} ॥
Tattvabodhinī
alignment inferredNSP p. 405–406
—प्रणिदातीति । ‘शेषे विभाषा’—इति णलविकल्पः ॥—अदासीदिति । अघुलान्न सिज्छुक् ॥—नमः ख्यात्रे इति । यच्यमाधंधातुकोऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परे ‘शरूपरे विसर्जनीयः’ इत्यस्याप्रवृत्त्या कुण्वोरिति जिह्वामूलीयो दुर्बारः स्यादेवेति तङ्ग्रावः ख्यादित्वे प्रयोजनमिति वार्तिककाराद्युक्तिर्व्याकुण्येतेति भावः ॥—संपूर्वस्येत्यादि । संख्यातीत्यादिप्रयोगो नास्त्येव । संख्येति प्रयोगस्तु ख्याचादेशस्येति न्यासकाराशयः । मा माने ॥—नास्येति । घुम्रकृतिमाङ् इति पाठात् डितामेव तत्र ग्रहणं, ततश्च ‘शेषे विभाषा’—इति बिकल्प एव प्रवर्तत इत्याह—प्रणिमाति । प्रनिमातीत्यादि । वच परिभाषणे । उवाच । वक्ता । वक्ष्यति । वक्तु । वक्तात् । अवक्ताम् ॥—अयमन्तिपर इति । तथा च बृजन्ति, बृध्न्यति, बृहन्तु, लीखन्ति, Varainghiz अवक्ष्यतिस्येवोऽसाधवः गीतं - उद्भूयश्चमपर इति । अस्मिन् पक्षे लटि मध्यमे । वक्थः । उत्तमे तु । वच्मः । लिटि । ऊचुः । मध्यमे । ऊच । उत्तमे तु । ऊचिम । लुटि वक्तारः । लिङि वच्यायुः । उच्यायुरित्यादयोऽप्यसाधवः ॥—शिपर इति । अस्मिन् पक्षे । वक्थः । वच्मः । ऊचे । लिटि ऊच ऊचिमेत्यादयः साधव इति दिक्
Bālamanoramā
लङः शाकटायनस्यैव - लङः शाकटायनस्यैव ।झेर्जुसि॑ति 'आत' इति चानुवर्तते । तदाह — आदन्तादिति । जुस्वेति । शाकटायनग्रहणाद्वकल्पलाभ इति भावः । एवकारस्तु 'लिट् च'लिङाशिषी॑त्युत्तरार्थ इति भाष्ये स्पष्टम् । नचलोटो लङ्व॑दित्यतिदेशाद्यान्तु इत्यत्रापिजुस्विकल्पः शङ्क्यः,॒नित्यं ङितः॑ इत्यतो हित इत्यनुवृत्त्यैव सिद्देर्लङ्ग्रहमस्य लङ्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य ष्टुत्वेन णत्वनिर्देशः । स्नाति । स्नायात्-स्नेयात् । पा रक्षणे ।एर्लिङी॑ति सूत्रेगातिस्थे॑त्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न । तदाह — पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाऽभावात्शेषे विभाषे॑ति णत्वविकल्पं मत्वा आह — प्रणिदाति प्रनिदातीति । घुत्वाऽभावादाशीर्लिङि एत्वं, लुङि लुक्, च नेति मत्वाऽऽह अदायास्तामिति । अदासीदिति च । ख्या प्रकथन.सार्वधातुकमात्रविषय इति । मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातोः प्रयोगः,न त्वार्धधातुक इत्यर्थः । कुत इत्यत आह — सस्थानत्वमिति ।चक्षिङ ख्या॑ञिति सूत्रे ख्यास्थाने 'ख्याञ्' इति वक्तव्यम् । अस्य शकारस्यपूर्वत्रासिद्ध॑मित्यधिकारे यकारो वक्तव्य इत्युक्तवाप्रयोजननं सौप्रख्ये वुञ्विधि॑रित्युपक्रम्यसस्थानत्वं नमः ख्यात्रे॑ इत्युक्तं वार्तिके । तत्र नञमध्याह्मत्य 'नमः ख्यात्रे' इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे - सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स = जिह्वामूलीयो नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्याञादेशस्य ख्श्यादित्वविधौ, शस्य यत्वविधौ च प्रयोजनमित्यर्थः । ख्श्यादित्वे इति । यत्वविधावित्यस्याप्युपलक्षणम् । शकार्थानिकयत्वस्याऽसिद्धत्वात् 'शर्परे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तकह्मदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोदसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाऽभावादसिद्धत्वाऽभावात् 'शर्परे विसर्जनीयः' इत्यस्याऽप्रवृत्तौ कुप्वोर्जिह्वामूलीयोदुर्वारः स्यात् । ततश्चाद्र्धदातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते,ज्ञापकस्य सामान्यापेक्षत्वादिति भावः । संपूर्वस्येति । सार्वधातुकेऽपीति भ#आवः । अत्र व्याख्यानमेव शरणम् । एवं चसङ्ख्यती॑त्यादि नास्तीति फलितम् । सङ्ख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम् । मा माने इति । मानं परिमितिरिति भावः । तदाह — अकर्मक इति ।माति घृतं पात्रेऽस्मि॑ न्निति उदाहरणम् । परिमितं भवतीत्यर्थः । संगृहीतं भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति — तनो ममुस्तत्रेति ।तनौ मुमस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः॑ इति माघकाव्ये तपोधनस्य नारदस्य अभ्यागमेन आगमनेन संभवाः मुदः = संतोषाः, कैटभद्विषः = श्रीकृष्णस्य तनौ = शरीरे , न ममुः= परिमिता न बभूवुः । आधिक्यान्न संगृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति । परिच्छेदे त्वित्यर्थः । उदरमिति ।उदरंपरिमाति मुष्टिना कुतुकी कोऽपिदमस्वसुः किमु॑ इति नैषधकाव्ये । कोऽपिकुतुकी दमस्वसुः =दमयन्त्याः, उदरं मुष्टिना परिमाति किमु , किमुपरिगृह्णातीत्यर्थः । नास्य ग्रहणमिति ।घुप्रकृतिमा॑ङिति भाष्यादिति भावः । एवं च 'शेषे विभाषाऽकखादौ' इति णत्वविकल्प इति मत्वाऽऽह -प्रणिमाति प्रनिमातीति । ममौ ।ममिथ — ममाथ । ममिव । मात । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वचपरिभाषणे । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः । बहुवचनपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति । झिपर इति । 'न प्रयुज्यते' इति शेषः । अस्मिन् पक्षे लिडादिष्वपि [प्रथमपुरुष] बहुवचनं नास्तीति भावः । तत्र लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणम् । उवाच । किति तुवचिस्वपी॑ति संप्रसारणम् । ऊचतुः । उवचिथ — उवक्थ । ऊचिव । वक्ता वक्ष्यति । वक्तु । अवक् । वच्यादिति । विधिलिङि रूपम् । आशीर्लिङिवचिस्वपी॑ति संप्रसारणं मत्वाऽऽह — उच्यादिति । अवोचदिति । लुङिअस्यतिवक्ती॑ति च्लेरङिवच उ॑मिति भावः । विद ज्ञाने इति । अनिट्सु लुग्विकरणस्याऽग्रहणादयं सेट् ।
Footnotes (NSP 1915 ed.)
NSP p. 406 १ न विवक्षिते इति—तयोर्नान्तरीयकतया उच्चार्यमाणत्वादिति भावः ।     २ सार्वधातुके क्लितीति—अत्र सार्वधातुके इति निष्फलम् । आर्धधातुके तस्य भूभावात् । ईद्दामासेत्यादौ ‘अत आदेः’ इति दीर्घे सति परस्य लोपेऽपि क्षलभावात् ।     भ्रस्य सार्व-धातुके एव सत्त्वाच्च ।
SK 2464 · A 3.4.83V
विदो लटो वा ॥ २४६४ ॥
vido laṭo vā
Siddhānta-kaumudī
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-SK 2341 इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥
Tattvabodhinī
NSP p. 406
—विदो लटो वा । पञ्चमीयं न तु षष्ठी । तेन विद्यति विन्दत्योरव्यवहित-परस्य लटोऽभावान्नैते आदेशास्तदाह—वेत्तेरिति ॥—लोटो लुगिति । ‘आमः’ इति सूत्रे ‘मन्त्रे घस-’ इत्यतो लेरि-त्यनुवर्त्य आमः परस्य लेलुगिति व्याकुर्वतां मतेनेदमुक्तम् । निष्कर्षे तु तेनैव लुगिति वोध्यम्
Bālamanoramā
विदो लटो वा - विदो लटो वा ।परस्मैपदानां णलतु॑सित्यादिसूत्रमनुवर्तते ।विद॑इति पञ्चमी । तदाह — वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः । इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्षे इति । न लघूपधगुण इत्यन्वयः । कुत इत्यत आह — अकारान्तनिपातनादिति ।उषविदे॑ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः । वेदितेति । वेदिष्यतीत्यपि ज्ञेयम् ।
SK 2465 · A 3.1.41V
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥ २४६५ ॥
vidāṅkurvantvityanyatarasyām
Siddhānta-kaumudī
वेत्तेर्लोट्याङ्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥
Tattvabodhinī
alignment inferredNSP p. 406
—पुरुषवचने इति । प्रथमपुरुषो बहुवचनं चेत्यर्थः । परस्मैपदमप्यविवक्षितमेवेति केषांचिन्मते कर्मव्यतिहारे तङि । व्यतिविदांकुरुताम् । व्यतिविदांकुर्वातामित्यादि ज्ञेयम् ॥—तेनेति । विश्वसेदित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविश्वस्तमित्य-त्रेडभावः कथमिति चेदागमशास्त्रस्यानित्यत्रादिति गृहाण
Bālamanoramā
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् - विदाङ्कुवन्त्वित्यन्तयतरस्याम् ।कृञ् चानुप्रयुज्यते लिटी॑त्युत्तरमिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः । वेत्तेरिति । लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः । लोडन्तेति । आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः । ननुविदाङ्कुर्वन्तु॑ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह — पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इति शब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः ।
SK 2466 · A 3.1.79V
तनादिकृञ्भ्य उः ॥ २४६६ ॥
tanādikṛñbhya uḥ
Siddhānta-kaumudī
तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥
Bālamanoramā
तनादिकृञ्भ्य उः - तनादिकृञ्भ्यः उः । शपोऽपवाद इति । अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् ।सार्वधातुके य॑गित्यतः सारवधातुकग्रहणस्यकर्तरि श॑बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्याऽनित्यतया 'आसे' दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः । वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्विआसेदित्यसंबद्धमेवेत्याहुः ।विआस्त॑मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः । विदांकरोत्विति । अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः ।तत्र लोटस्तिपि 'एरु' रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते —
SK 2467 · A 6.4.110V
अत उत् सार्वधातुके ॥ २४६७ ॥
ata ut sārvadhātuke
Siddhānta-kaumudī
उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-SK 2334इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-SK 2226 इति झेर्जुस् । अविदुः ॥
Tattvabodhinī
NSP p. 406
—अत उत्सार्व—। क्विति किम् । करोति । करोषि ॥—लुकोऽसिद्धत्वादिति । सार्वधातुकप्रहणमुत्तरार्थमेव नात्रावश्यकम् । इह भूतपूर्वगत्या सार्वधातुकपरत्वमाश्रीयत इति वृत्तिमते त्वसिद्धवर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम्
Bālamanoramā
अत उत् सार्वधातुके - अत उत् । उप्रत्ययान्तस्येति ।उतश्च प्रत्यया॑दित्यतस्तदनुवृत्तेरिति भावः । अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह -तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदाङ्कुरुतामिति । विदाङ्कुर्वन्त्वित्यपि ज्ञेयम् ।न भकुर्छुरा॑मिति निषेधात्हलि चे॑ति दीर्घो न । हेर्लुगिति । तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह — आभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदांकरवाणीति । आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लडआह -अवेदिति । हल्ङ्यादिना सिपो लोपे विशेषमाह -
SK 2468 · A 8.2.75V
दश्च ॥ २४६८ ॥
daśca
Siddhānta-kaumudī
धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् ।{$ {!1065 अस!} भुवि$} । अस्ति ॥
Tattvabodhinī
NSP p. 406
—दश्च । ‘सिपि धातोरुर्वा’ इत्यनुवर्त्तते, पदस्येति, ‘झलां जशोऽन्ते’ इत्यस्मादन्त इति च तदाह—धातोर्दस्येत्यादि । सिपि किम् । तिपि । अचेत् । दान्तस्य धातोः सिपि रुर्वेत्येतावतैवेष्टसिद्धौ पदान्तानुवृत्तिर्मन्दप्रयोजनेत्याहुः । तच्चिन्त्यम् । वेत्सीत्यत्रातिप्रसङ्गाच्चत्वैस्यासिद्धत्वेन दान्तत्वात्
SK 2469 · A 6.4.111V
श्नसोरल्लोपः ॥ २४६९ ॥
śnasorallopaḥ
Siddhānta-kaumudī
श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-SK 2191 इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके SK 2432 इत्यधिकृत्य ॥
Tattvabodhinī
NSP p. 406
—श्रसोरल्लोपः । ‘अत उत्-’ इति सूत्रादत इत्यनुवर्त्याद्वहणं त्यक्तुं शक्यमित्याहुः ॥—श्रसोरिति । शकन्ध्वादि-त्वात्पररूपमित्याह—श्रस्यास्तेश्चेति । श्रस्योदाहरणम् । रुन्धः । रुन्धन्तीत्यादि । क्विति किम् । रुणद्धि । अस्ति । तपरकरणमास्तामासन्नित्यत्र ह्याडागमे कृते तस्य लोपो माभूदित्येतदर्थम् । निष्कर्षस्तु अनुपदं स्फुटीभविष्यति
Bālamanoramā
श्नसोरल्लोपः - श्नसोरल्लोपः ।अ॑दिति लुप्तष्ठीकं पदम् । श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते,गगमहने॑त्यतः क्ङितीति । तदाह — श्नस्येत्यादिना ।
SK 2470 · A 2.4.52V
अस्तेर्भूः ॥ २४७० ॥
asterbhūḥ
Siddhānta-kaumudī
बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥
Bālamanoramā
अस्तेर्भूः - अस्तेर्भूः । असधातोर्भूभावः स्यादार्धधातुके परे इत्यर्थः । अस् हि इति स्थिते —
SK 2471 · A 6.4.119V
घ्वसोरेद्धावभ्यासलोपश्च ॥ २४७१ ॥
ghvasoreddhāvabhyāsalopaśca
Siddhānta-kaumudī
घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-SK 2469इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-SK 2225इतीट् । आसीत् । श्नसो-SK 2469 इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥
Tattvabodhinī
NSP p. 406–407
—ध्वसोरेद्धा-। एत्वमलोऽन्त्यस्य लोपस्तु शित्वात्सर्वस्येति भाष्यादौ स्पष्टम् । देहि । घेहि ॥—असिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात् ‘श्रसोः-’ इत्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत् । अत्राहुः । आभाच्छास्त्रस्यानि-त्यताज्ञापनाय तपरकरणम् । तेन देभनुरित्यादि सिद्धमिति । स्यादेतत् । अत्र केचित् । अद्वहणस्य निष्फलत्वे तपरकर-णस्य ज्ञापनार्थत्वं न सिध्येत् । न च ‘अत उत्-’ इति सूत्रस्यतपरकरणमेव ज्ञापनार्थमस्त्विति वाच्यम् । अस्येत्युक्तौ गौरवादर्थमात्रालाघवाय तत्र तपरलमिति सुवचलात् । तस्मादुक्तज्ञापनार्थमब्रह्णमावश्यकमित्याहुः
SK 2472 · A 8.3.87V
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ २४७२ ॥
upasargaprādurbhyāmastiryacparaḥ
Siddhānta-kaumudī
उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः ।{$ {!1066 मृजू!} शुद्धौ$} ॥
Tattvabodhinī
NSP p. 407
—उपसर्गप्रादुर्भ्याम्—। प्रादुस् इति सान्तमव्ययम् । प्रादुषश्चेति पाठे प्रादुर्भ्यामिति निर्देशो न युज्यते इति प्राचां षान्तपाठः प्रामादिकः ॥—परस्येति । अयमस्तेः सस्य विशेषणं न लस्तेः । तेन प्रादुरस्त्रीत्यत्र न पत्नम् । उपसर्गेत्यादि किम् । दधि स्यात् । अस्तेः किम् । परिसृजति । मृजू शुद्धौ । अयं न धित् । भिदादिपाठसामर्थ्यात्
Bālamanoramā
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः - उपसर्गप्रादुभ्र्याम् । उपसर्गः प्रादुस् अनयोद्र्वन्द्वः । इण्कोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न प्रादुसि, ततः परस्य अस्तेः सस्य इणः परत्वाऽसंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्ठर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते, मूर्धन्य इत्यधिकृतम् । य् अच् — अनयोद्र्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अचि च परे इति लभ्यते । तदाह — उपसर्गेण इति । उपसर्गेण इति । उपसर्गस्थादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम्,न त्वस्तेः, तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति — निष्यात् प्रादुष्ष्यादिति । प्रादुसिति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तुप्रादुभ्र्या॑मिति रुत्वनिर्देशो नोपपद्यते । अच्परकत्वने उदाहरति — निषन्ति प्रादुष्षन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिड्विकल्पार्थम् ।षिद्भिदादिभ्यो॑ऽङित्यङर्थं षित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करममनार्षमित्याहुः ।
SK 2473 · A 7.2.114V
मृजेर्वृद्धिः ॥ २४७३ ॥
mṛjervṛddhiḥ
Siddhānta-kaumudī
मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ।
vārttika
क्ङित्यजादौ वेष्यते
(वार्तिकम्) ॥ व्रश्च SK 294 इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर् । अमार्जम् । अमार्जीत्-अमार्क्षीत् ।{$ {!1067 रुदिर्!} अश्रुविमोचने$} ॥
Tattvabodhinī
NSP p. 407
—मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपप्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह—धातुप्रत्यये इति । धातुप्रत्यये किम् । कंसपरिमृद्भ्याम् ॥—क्लित्यजादाविति । एतच्चान्येषां वैयाकरणानां मतं ‘इको गुणवृद्धी’ इति सूत्रे भाष्यकृता स्वीकृतम् ॥—मृद्दीति । ‘हुशल्भ्यः’ इति हेर्धिः । पलट्टलजदलानि
Bālamanoramā
मृजेर्वृद्धिः - मृजेर्वृद्धिः । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितम् । मृजेरित्यवयवषष्ठी । तदाह — मृजेरिको वृद्धिः स्यादिति ।धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान॑मिति परिभाषामभिप्रेत्य आह — धातुप्रत्यये परे इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः । गुणापवादोऽयम् । क्ङित्यजादौ वेष्यते ।मृजेर्वृद्धि॑रिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । व्रश्चेति ष इति । मृज्-तीति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिर्नापि गुण इति भावः । मृजन्ति मार्जन्तीति ।क्ङित्यजादा॑विति वृद्धिविकल्प इति भावः । मार्षि मृष्ठः मृष्ठ । मार्ज्मि मृज्वः मृज्मः । ममार्जेति । णलिमृजेर्वृद्धि॑रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह — ममार्जतुः ममृजतुरिति । ममार्जुः ममृजुरित्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृदिंध च मत्वा आह — ममार्जिथ ममार्ष्ठेति । इडभावे जस्य व्रश्चेति षः । थस्य ष्टुत्वेन ठ इति भावः । ममार्जथुः — ममृजथुः, ममार्ज — ममृज । ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म । लुटआह - मार्जिता मार्ष्टेति । ऊदित्त्वदिटि, तदभावे चमृजेर्वृद्धि॑रिति भावः । मार्जिष्यति — माक्ष्र्यति । मार्ष्टु — मृष्टात्, मृष्टाम्, मार्जन्तु — मृज्नतु । मृड्ढीति । हेरपित्त्वेन ङित्त्वान् वृद्धिः । व्रश्चादिना जस्य षः । हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः । मृष्टात् मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । लङ्याह — अमार्डिति । तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः । अमृष्टाममार्जन्- अमृजन् । अमार्ट् अमृष्टममृष्टं । अमार्जमिति । अमृज्व अमृज्म । मृज्यात् । मृज्याताम् । मृज्यात् । मृज्यास्ताम् । अमार्जीत् अमार्क्षीदिति । ऊदित्त्वादिड्विकल्प इति भावः । इट्पक्षे अमार्जिष्टाममार्जिषुरित्यादि सुगमम् । इडभावे आमार्ष्टाममार्क्षुः । अमार्क्षीः । अमाष्र्टममाष्र्ट । अमाक्र्षममार्क्ष्व अमार्क्ष्म । अमार्जिष्यत — अमाक्ष्र्यत् । रुधिर्धातुरितित् । सेट् ।
SK 2474 · A 7.2.76V
रुदादिभ्यः सार्वधातुके ॥ २४७४ ॥
rudādibhyaḥ sārvadhātuke
Siddhānta-kaumudī
रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥
Tattvabodhinī
alignment inferredNSP p. 407
—वलादेः सार्वधातुकस्येति । वलादेः किम् । रुदन्ति । सार्वधातुके किम् । स्वप्ना ॥—धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थं इत्यादिप्रागुक्तसमाधानाद्वेति भावः
Bālamanoramā
रुदादिभ्यः सार्वधतुके - रुदादिभ्यः । इड्वलादेरित्यनुवृतिंत मत्वाह — वलादेरिति । रुदित इति । ङित्त्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । [रुरुदुः] रुरोदिथ । [रुरुदथुः । रुरुद । रुरोद] ।रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु — रुदितात् रुदिताम् रुदन्तु । रुदि हि इति स्थिते 'हुझल्भ्यः' इति धित्वमाशङ्क्य आह — हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम ।
SK 2475 · A 7.3.98V
रुदश्च पञ्चभ्यः ॥ २४७५ ॥
rudaśca pañcabhyaḥ
Siddhānta-kaumudī
हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥
Tattvabodhinī
NSP p. 407
—रुदश्च—। पञ्चभ्यः किम् । जागर्तेर्लेङि अजागः
Bālamanoramā
रुदश्च पञ्चभ्यः - रुदश्च । 'नाभ्यस्तस्य' त्तः पिति सार्वधातुके इति,उतो वृद्धि॑रित्यतो हलीति, 'गुणोऽपृक्ते' इत्यतोऽपृक्ते इति,ब्राउव ई॑डित्यत ईडिति चानुवर्तते । 'रुद' इति पञ्चमी । 'रुदादिभ्य' इति विवक्षितमित्यभिप्रेत्य सूत्रशेषं पूरयति — हलादेरित्यादिना ।
SK 2476 · A 7.3.99V
अड्गार्ग्यगालवयोः ॥ २४७६ ॥
aḍgārgyagālavayoḥ
Siddhānta-kaumudī
अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् ।{$ {!1068 ञिष्वप्!} शये$} । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥
Tattvabodhinī
alignment inferredNSP p. 407
—प्रकृतिप्रत्ययेत्यादि । हलादिपित्सार्वधातुकापृक्तापेक्षलाच्च वहिरङ्गलमङीटोः ॥—अरुददिति । ‘इरितो वा’ इत्यह् ॥—अरोदीदिति । ‘अस्तिसिच्च’ इति ईद् । ‘रुदश्च’ इत्यनेन तु न, सिच्चा व्यवधानेन रुदादेः परलाभावात् ॥—सुषुपतुरिति । ‘वचित्सवि’ इति संप्रसारणम् । ततो द्विलम् ॥—सुपिसूतिसमा इति । सूतीति किञ्चन्तः । समेति पचाय- जन्तः । सुषुप्तिः । सुषूतिः । सुषमा । विषमः ॥—अद्विर्वचन इति । तेन षलसहितस्य द्विलम् ॥—सुपिरूपाभावादिति । ‘एकदेशविकृतमनन्यवत्’ इति तु न प्रवर्तते । तस्य स्थानिवत्सूत्रशेषलात् । षलस्य त्रैपादिकत्वेन तत्कार्यं प्रति स्थानिवत्त्वाभावादित्याहुः । वस्तुतस्तु ‘स्थानिवदादेश’ इत्येनं प्रति त्रिपादी सिद्धेत्युक्तम् । तस्मादिह समाधानान्तरमूह्यमित्यन्ये
Bālamanoramā
अड्गार्ग्यगालवयोः - अड्गाग्र्यगालयवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमः स्यादिति स्पष्टोऽर्थः । अरोदीरिति.अरुदितमरुदितेत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञेयम् । ननु लिङस्तिपि यासुटंबाधित्वा परत्वात्अड्गाग्र्यगालवयो॑रिति, 'रुदश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह — प्रकृतिप्रत्ययेति । हलादिपित्सार्वधातुकाऽपृक्ताऽपेक्ष्टवाच्चेत्यपि ज्ञेयम् । लुङिइरितो॑वेत्यङ्पक्षे आह — अरुदिदिति । अङभावपक्षे त्वाह — अरोदीदिति । 'अस्तिसिचः' इति ईट् । 'रुदश्च पञ्चभ्य' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । ञि ष्वप् शये इति । षोपदेशोऽयम् । आर्धधातुके अनिट् । स्वपितीति । 'रुदादिभ्यः' इति इट् । स्वपित इति । स्वपन्ति । स्वपिषि स्वपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणे पूर्वरूपे आदेशसकारत्वात् षत्वमिति भावः । सुषुपतुरिति ।वचिस्वपी॑ति संप्रसारणे कृते द्वित्वादीति भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप — सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुभ्र्यः । कृतस#ंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्रते । समेत्यनेनाऽपि समशब्दस्य ग्रहणम् । षष्ठर्थे प्रथमा । 'सहेः साडः स' इत्यत स इति षष्ठन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् । तदाह -एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारमस्य स्वप्धातोग्र्रहमात्सुखप्र इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरित्यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारमस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्वं द्वित्वे कृते पश्चात्वचिस्वपी॑ति संप्रासरणं तदा हलादिशेषे उत्तरखण्डस्यैववचिस्वपी॑ति संप्रसारणं, न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात्,न संप्रसारमए संप्रसारण॑मिति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसारणत्वाऽभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाऽभावात्कथमनेन षत्वम्, इण्कवर्गाभ्यां इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते ।पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति परिभाषया सु इत्युपसर्गसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्यैवआदेशप्रत्ययो॑रिति षत्वं स्यान्नतु पूर्वखण्डस्य,सात्पदाद्यो॑रिति निषेधात् । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुब्राऊपत्वाऽभावेन 'सुविनिर्दुभ्र्यः' इत्यस्याऽप्यप्रवृत्तिः । न च एकदेशविकृतस्याननयत्वं शङ्क्यम्, एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहमपरिभाषया षत्वस्य तत्राऽप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्क्याह — पूर्वं धातुरित्यादिना । लक्ष्यानुरोधादिहपूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेने॑त्याश्रीयते । ततश्च द्वित्वात्परागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुबित्यस्य कृतषत्वस्य कतं द्वित्वं , द्वित्वे कत्र्वये षत्वस्याऽसिद्धत्वादित्यत आह — पूर्वत्रासिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे ष्टवं श्रूयेतेत्यत आह — पिति त्विति । पिति णलि कित्त्वाऽभावात्वचिस्वपी॑त्यस्याऽप्रवृत्तौ कृते द्वित्वेलिच्यभ्यासस्ये॑ति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते 'सुविनिर्दुर्भ्यःर' इति षत्वस्याऽसिद्धत्वात् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति । हलादिभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु-स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि-स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लडआह — सुप्यादिति ।वचिस्वपी॑ति संप्रसारणमिति भावः । 'सुविनिर्दुभ्यः' इति षत्वं मत्वाह — सुषुप्यादिति । असवाप्सीदिति । अनिट्कत्वान्न सिज्लोप इति भावः । आस प्राणने इति । वलाद्यार्धधातुके सेडयम् । सार्वधातुके तु वलादौ 'रुदादिभ्यः' इति इट् । लङस्तिपिरुदश्चे॑ति ईटम्,अड्गार्ग्ये॑त्यटं च मत्वा आह — अआसीत् अआसदिति । विध्याशीर्लिङो आस्यादिति सिद्धवत्कृत्य आह — आस्याताम् । आस्यास्तामिति । अन चेति । अनधातुरपि प्राणने वर्तते इत्यर्थः । सेडयम् । सार्वधातुकेऽपि वलादौ 'रुदादिभ्यः' इति इट् । लङि ईडटौ मत्वा आह — आनीत् आनदिति ।
SK 2477 · A 8.3.88V
सुविनिर्दुर्भ्यः सुपिसूतिसमाः ॥ २४७७ ॥
suvinirdurbhyaḥ supisūtisamāḥ
Siddhānta-kaumudī
एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः SK 2179 । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् ।{$ {!1069 श्वस!} प्राणने$} । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ह्म्यन्तक्षण -SK 2299 इति न वृद्धिः । अश्वसीत् ।{$ {!1070 अन!} च$} । अनिति । आन । अनिता । आनीत् । आनत् ॥
SK 2478 · A 8.4.19V
अनितेः ॥ २४७८ ॥
aniteḥ
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ।{$ {!1071 जक्ष!} भक्षहसनयोः$} । जक्षिति । जक्षितः ॥
Tattvabodhinī
NSP p. 407
—अनितेः । ‘उपसर्गादसमासेऽपि’ इत्यत उपसर्गादिति वर्तते, ‘रषाभ्याम्’ इत्यतो ‘नो णः’ इति च तदाह—उपसर्गस्थादित्यादि
Bālamanoramā
अनितेरन्तः - अन्तः ।अनिते॑रिति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च । अन्त इति षष्ठर्थे प्रथमा.पदस्याऽन्तो विवक्षितः ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । हे प्राणिति । प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः । नलोपस्तु न, 'न ङिसंबुद्ध्योः' इति निषेधात् । मित्रशीरिति । मित्राणि शास्तीति विग्रहः । शासः क्विप् । 'शास इदङ्हलोः' नित्युपधाया इत्त्वम्, 'र्वोरुपधायाः' इति दीर्घः । मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः । आशासः क्वाविति ।आङः शासु इच्छाया॑मित्यात्मनेपदी । तस्य 'शास इदङ्हलोः' इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः । अतआशासःर क्वा॑विति विधिः । इत्त्वोत्त्वे इति । गृ धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, 'र्वोरुपधायाः' इतिदीर्घे गीरिति रूपम् । पृधातोः क्विपि,उदोष्ठपूर्वस्ये॑ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः ।
SK 2479 · A 7.1.4V
अदभ्यस्तात् ॥ २४७९ ॥
adabhyastāt
Siddhānta-kaumudī
झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-SK 2226 इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥ ।{$ {!1072 जागृ!} निद्राक्षते$} । जागर्ति । जागृतः । जाग्रति । उषविद-SK 2341 इत्याम्वा । जागरांचकार । जजागार ॥
Tattvabodhinī
alignment inferredNSP p. 407
—अन्तापवाद इति । ‘झोऽन्तः’ इत्यस्य अदादेशोऽपवादः अस्य लपवादो जुसिति ज्ञेयम् ॥—वभ्रामेति । ‘जक्षन् क्रीडन् रममाण’ इत्युपनिषदि जशादित्यस्य निर्विवादलात् । ‘नाभ्यस्ताच्छतुः’ इति निषेधेन जक्षन् इति नुमश्छान्दसत्वेऽपि जशादित्यस्य तत्कल्पनाया अन्याय्यलात् । धातुवृत्त्यादौ जशादिपाठाच्च
Bālamanoramā
अदभ्यस्तात् - अदभ्यस्तात् । झस्येति । 'झोऽन्त' इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । 'जक्षित्यादयः ष' डित्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः — अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह — सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तः स्थादिरिति । तालव्याऽन्तः स्थादिरित्यर्थः । बभ्रामेति ।जक्षन्क्रीडन् रममाणः॑ इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृ धातुरृकारान्तः । सेट् । जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति ।जक्षित्यादयः ष॑डित्यभ्यस्तसंज्ञायाम्अदभ्यस्ता॑दिति जेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । लिटिकास्यनेका॑जिति नित्यमामि प्राप्ते आह — उषविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । आमभावे आह — जगागारेति । अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते -
SK 2480 · A 7.3.85V
जाग्रोऽविचिण्णल्ङित्सु ॥ २४८० ॥
jāgro'viciṇṇalṅitsu
Siddhānta-kaumudī
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥
Tattvabodhinī
NSP p. 407–408
—जाग्रोऽविचिण्णल्—॥ ङिङ्ग्योऽन्यस्मिन्निति । जाग्रविः । विन्नङ्गेन वादिप्रत्ययो गृह्यते । इकारस्तूत्रारणार्थं इति वदतां मते क्रसावपि न भवति । जजागृवान् । जजागृवांसौ । चिण् । अजागारि । णल् । जजागार । डित् । जागृतः । जागृथः ॥—वृद्धिविषये इति । ण्वुलि । जागरकः । घञि । जागरः । णिचि । जागरयति । न चैतेषु गुणे कृतेऽपि ‘अत उपधायाः’ इति वृद्धिः स्यादिति वाच्यम् । गुणविधेश्विण्णल्प्रतिषेधस्य चानर्थं क्यापत्तेः
Bālamanoramā
जाग्रोऽविचिण्णल्ङित्सु - जाग्रोऽवि । 'जाग्र' इति षष्ठी । 'मिदेर्गुणः' इत्यतो गुण इत्यनुवर्तते । तदाह — जागर्तेर्गुणः स्यादिति ।अविचिण्णल्ङित्स्वि॑ति च्छेदः । वि चिण् णल् हित् एषां द्वन्देव नञ्समासः । तदाह — विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति । चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः । ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः । तदाह — वृद्धिविषये चेति । जजागतुरिति । अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ जजागरथुः जजगार । जजागार — जजागर, जजागरिव जजागरिम । विचिण्णल्ङित्सु तु न गुणः । वि — जागृविः । चिण् — अजागारि । णल् — जजागार । ङित् — जागृतः । वृद्धिविषये यथा ण्वुलि — जागरकः । प्रतिषेधविषये यथा — जजागरतुः । कित्त्वेऽपि गुण इत्याद्यूह्रम् ।जागरिता । जागरिष्यति । जागर्तु — जागृतात् जागृताम् जाग्रतु । जागृहि — जागृतात् जागृतम् जागृत । जागराणि जागराव जागराम । लङ्याह — अजागरति । तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह — अब्यस्तत्वाज्जुसिति ।सिजब्यस्तविदिभ्यश्चे॑त्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थितेसार्वधातुकमपि॑दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह —
SK 2481 · A 7.3.83V
जुसि च ॥ २४८१ ॥
jusi ca
Siddhānta-kaumudī
अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि SK 2268 इति निषिद्धा, ततः अतो हलादेः- SK 2284 इति बाधित्वा अतो ल्रान्तस्य SK 2330 इति प्राप्ता, ह्म्यन्त-SK 2299 इति निषिध्यते ॥ तदाहुः - गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । ।{$ {!1073 दरिद्रा!} दुर्गतौ$} । दरिद्राति ॥
Tattvabodhinī
NSP p. 408
—जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः । ‘क्सस्याचि’ इत्यतोऽचीत्यनुवर्तत इत्याह—अजादाविति ॥—जागृयुरिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति वोध्यम् । यासुटो डित्त्वाच्छृणुयुरित्यादौ गुणो नेति प्राचोक्तिस्तु मनोरमायां दूषिता, ‘जुसि च’ इति गुणस्य निषेधापवादलादिति । केचित्तु ‘जुसि च’ इत्यत्र उसीत्यावर्त्य उस्रूपे जुसीति व्याख्यानान्नोक्तदोष इत्याहुः । अजादौ जुसीति समाधानं तु भाष्यारूढम् ॥ जागर्तेः सिच इटि कृते यणादिप्राप्तिकर्म दर्शयति—जागृ इस् इत्यत्रेति ॥—तत्र कृते इति । हलन्तलक्षणाया वृद्धेर्जागर्तिगुणेन वाधस्तेन गुणेन हलन्तलसंपादनात् । या हि गुणप्रवृत्तिसमये वृद्धिः सा वाध्यते नान्येति भावः । अजागरिष्टाम् । अजागरिषुः । अजागरीदित्यादि । दरिद्रा
Bālamanoramā
जुसि च - जुसि च । अङ्गस्येत्यधिकृतम् । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः ।क्सस्याची॑इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः । तदाह — अजादावित्यादिना । अजगरुरिति । अजागः अजागृतमजागृत । अजागरमजागृव अजागृम । विधिलिङि यासुटो ङित्त्वान्न गुणः । जागृयात् जागृयताम् । जागृयुरिति ।जुसि चे॑त्यत्र अजादावित्युक्तेर्न गुण इति भावः । जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति — जागृ इसित्यत्रेति । तत्र कृते इति ।जाग्रोऽविचिण्ण॑लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । 'वृद्धा' इति शेषः । अजागरिष्टामजागरिषुरित्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः = धनहीनीभवनम् । दारिद्रातीति । धनहीनीभवतीत्यर्थः ।
SK 2482 · A 6.4.114V
इद्दरिद्रस्य ॥ २४८२ ॥
iddaridrasya
Siddhānta-kaumudī
दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥
Tattvabodhinī
NSP p. 408
—इदरिद्रस्य । इदरिद्र इति वक्तुमुचितम्
Bālamanoramā
इद्दरिद्रस्य - इद्दरिद्रस्य । सौत्रो ह्रस्वः ।गमहने॑त्यतः क्ङितीत्यनुवर्तते ।ई हल्यघो॑रित्ते हलीति,अत उदि॑त्यतः सार्वधातुके इति । तदाह — दरिद्रातेरिति ।श्नाभ्यस्तयो॑रित्याल्लोपाऽपवादः । अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारः । दरिद्रित इति ।सार्वधातकमपि॑दितितसो ङित्त्वादाकारस्य इकारः ।
SK 2483 · A 6.4.112V
श्नाऽभ्यस्तयोरातः ॥ २४८३ ॥
śnā'bhyastayorātaḥ
Siddhānta-kaumudī
अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः SK 2371 इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥
vārttika
दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः
(वार्तिकम्) ।
vārttika
लुङि वा
(वार्तिकम्) ।
vārttika
सनि ण्वलि ल्युटि च न
(वार्तिकम्) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदिरिद्रीत् । इट्सकौ । अदरिद्रासीत् ।{$ {!1074 चकासृ!} दीप्तौ$} । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच SK 2249 इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥
Tattvabodhinī
alignment inferredNSP p. 408
—श्राभ्यस्त—। क्रीणन्ति । क्रीणते । पुनन्ति । पुनते । दधति । दधते । क्रिति किम् । क्रीणाति । पुनाति । दधाति । अतः किम् । विभ्रति ॥—ओद्दत्येव सिद्धे इति । प्रथमत्यागे मानाभावादिति भावः ॥—निर्मूलमेवेति । यत्तु व्याख्यातृभिः समर्थ्यते आमोऽभावे आतो लोपे कृते आदन्तलाभावादौत्वं नेति । तन्न । ‘आत औ णलः’ इत्यत्र प्राथम्यादोकारे कर्तव्ये औकारविधानं दरिद्रातेराल्लोपेऽपि ध्रवणार्थं सत् आमभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः स्वग्रन्थेन च विरोधात् । तत्कथमौत्यस्याप्रवृत्तिभवेत् । यदप्युक्तम् । ओकारौकारयोर्द्विमात्रलाविशेषादौकारविधानमिति । तदपि स्थवीयः । तस्मिन्पक्षे आमो दुर्वारल-प्रसङ्गात् ॥—विवक्षित इति । तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति परसंप्तम्यां तु ‘श्याध्यधा—’ इत्यादन्तलक्षणो णः स्यात् । सति तु तस्मिन् ‘आतो युक् चिण्कृतोः’ इति युकि दरिद्राय इति स्यादिति भावः ॥—सनि ण्वुलीति । एतेष्वालोपो नेत्यर्थः । दिदरिद्रासति । दरिद्रायकः । दरिद्राणम् ॥—अदरिद्रुरिति । ‘सिजभ्यस्त—’ इति क्षेजुंस् । ‘लडः शाकटायनस्यैव’ इत्यादन्तलक्षणो विकल्पस्तु न भवति । परलात् ‘श्राभ्यस्तयोः’ इत्याल्लोपे आकारान्तस्यैवाभावात् । ‘ईहल्यघोः’ इत्यत ईलमिह न शङ्क्यमेव । क्षेजुंसि हलादिपरलाभावादिति भावः । ननु दरिद्रा झि इति स्थिते जुसः प्रागेव आल्लोपात्परलादपवादलाच्च ईत्वं स्यात् । मैवम् । अकृतव्यूहपरिभाषाया जागरूकत्वात् । इलनिमित्तं हि हलादित्वं तच्च विनाशोन्मुखं जुसो भावित्वात् ॥—झस्य अदिति । ‘अदभ्यस्तादित्यनेन
Bālamanoramā
श्नाऽभ्यस्तयोरातः - श्नभ्यस्तयोरातः ।गमहने॑त्यतो लोपः क्ङितीत्यनुवर्तते ।अत उ॑दित्यतः सार्वधातुके इति । तदाह — अनयोरिति । स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः । दरिद्रतीति । जक्षित्यादित्वादभ्यस्तत्वात्अदभ्यास्ता॑दिति झस्य अदादेशे आकारलोपः । दरिद्रासि दरिद्रिथः । दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटआह — अनेकाच्त्वादामिति । इदं चकास्प्रत्यया॑दिति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । आमि सवर्णदीर्घः । कैयटमतमाह — आत इति । 'आत औ णलःर' इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः । वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकराविधानं दरिद्राधातोर्णलिदरिद्रातेरार्धधातुके लोपो वक्तव्यः॑ इत्याल्लोपे 'ददरिद्रौ' इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते । आमि सति णल एवाऽप्रसक्तेरित्यर्थः । इदं चवस्वेकाजाद्धसा॑मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति । ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । आर्धधातुके विवक्षिते इति ।आतो लोप इटि॑चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः । आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तुश्याद्वद्यधे॑त्यादन्तलक्षमो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोपं बाधित्वाआतो युक् चिण्कृतोरिति युकि 'दरिद्राय' इति स्यात् । आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आल्लोपो वा वक्तव्य इत्यर्थः ।अद्यतन्यां वेति वक्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात् । सनि ण्वुलि ल्युटि च नेति । एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा — दरिद्रायकः । आतो युक् । ल्युटि यथा — दरिद्राणः । अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः । सनि यथा — दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः । तेनतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति दरिद्रातेः सन इट्पक्षेआतो लोप इटि चे॑त्याल्लोपो भवत्येव - दिदरिद्रिषति । तासि इटि उदाहृतव#आर्तिकेन आल्लोपः । 'आतो लोप इटिचे' त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु — दरिद्रितात् दरिद्रिताम् दरिद्रतु । दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । लडआह - अदरिद्रादिति । इत्त्वं मत्वा आह — अदरिद्रितामिति । अदरिद्रुरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः अदरिद्रितमदरिद्रित ।अदरिद्रामदरिद्रव अदरिद्रिम । दरिद्रियादिति । विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः । आशीर्लङ्याह — दरिद्रआदिति । आतो लोप इति भावः । लुङि आतो लोपपक्षे आह — अदरिद्रीदिति । अदरिद्रिष्टामित्यादि । आल्लोपाऽभावपक्षे त्वाह — इट्सकाविति । अदरिद्रिष्यत् । चकासृ दीप्ताविति । ऋदित् । सेट् । चकास्ति चकास्त इतिसिद्धवत्कृत्याह — झस्य अदिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्सि चकास्थः चकास्थ । चकास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता.चकासिष्यति । चकास्तु [चकास्तात्] चिकास्ताम् चकासतु । हेर्धिभावे चकास् धि इति स्थितेधिचे॑ति सलोप इति सिद्धन्तः । तत्र मतान्तरमाह -सिच एवेत्येके इति ।धिचे॑ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः ।धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन॑मिति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः । तदाह — चकाद्धीति । 'एके' इत्यस्वरसोद्भावनम् ।तद्बीजं तुधिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः ।तदाह — चकाधीत्येव भाष्यमिति । चकास्तात् चटकास्तम् चकास्त । चकासानि चकासाव चकासाम । लङि अ चकास् त् इति स्थिते —
SK 2484 · A 8.2.73V
तिप्यनस्तेः ॥ २४८४ ॥
tipyanasteḥ
Siddhānta-kaumudī
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥
Tattvabodhinī
NSP p. 408
—तिप्यनस्तेः । पदान्तस्य किम् । चकास्ति । सस्येति किम् । वशेलङ्कि तिपि अवट् । तिपि किम् । क्रिपि चकाः । अनस्तेः किम् । सर्वमा इदम् । आदति लडि तिपि अस्ते रूपम् । ‘वहुलं छन्दसि’ इति ईट् न
Bālamanoramā
तिप्यनस्तेः - र्वोरुपधायाः । र्च, व् च र्वौ, तयोरिति विग्रहः । 'सिपि धातो रुर्वा' इत्यतो धातोरित्यनुवर्तते । र्वोरिति तद्विशेषणं, ततस्तदन्तविधिः ।पदस्ये॑त्यधिकृतम् । 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इत्यनुवर्तते । तदाह — रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीभ्र्यामिति । 'स्वादिषु' इति पदत्वात् 'र्वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणे दीर्घ इति भावः । सुपि विशेषमाह — वा शरीति । पिपठिष्-सु इति स्थिते षत्वस्याऽसिद्धत्वाद्रुत्वे, दीर्घे, विसर्जनीये, तस्य सत्वं बाधित्वंवा शरी॑ति विकल्पेन विसर्जनीयः । तदभावपक्षे विसर्जनीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः-सु इति स्थिते,इण्कवर्गाभ्यां परत्वाऽभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते- ।
SK 2485 · A 8.2.74V
सिपि धातो रुर्वा ॥ २४८५ ॥
sipi dhāto rurvā
Siddhānta-kaumudī
पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् ।{$ {!1075 शासु!} अनुशिष्टौ$} । शास्ति ॥
Bālamanoramā
सिपि धातो रुर्वा - सिपि धातोः । पदस्येत्यधिकृतम् । 'झलां जशोऽन्ते' इत्यतोऽन्ते इत्यनुवृत्तम् ।ससजुषो॑रित्यतः स इति लुप्तषष्ठीकमनुवर्तते ।तदाह — पदान्तस्येति । पक्षे इति । 'वसुरुआंस्वि' त्यतस्तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासधातुरुदित् । सेट् ।
SK 2486 · A 6.4.34V
शास इदङ्हलोः ॥ २४८६ ॥
śāsa idaṅhaloḥ
Siddhānta-kaumudī
शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-SK 2410 इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥
Tattvabodhinī
NSP p. 408–409
—शास इदङ्हलोः । अडि । अशिपत् । अशिपताम् क्रिति । शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेलम् । नेह । आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेलमिति व्याख्याय व्यतिशिष्टे व्यतिशिष्टे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति
Bālamanoramā
शास इदङ्हलोः - शास इदङ्हलोः । 'अनिदितां हलः' इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । 'आशास्ते' इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह -
Footnotes (NSP 1915 ed.)
NSP p. 409 पससस्तीति—‘जक्षित्यादयः’ इति सूत्रस्यभाष्यप्रयोगानु सस्तिधातुरत्र नास्तीति प्रतीयते । मूलपाठस्तु माधवानुरोधेनेति धोध्यम् । २ चक्रीरतमिति—यङ्कुकः संज्ञेयमित्यर्थः ।
SK 2487 · A 6.4.35V
शा हौ ॥ २४८७ ॥
śā hau
Siddhānta-kaumudī
शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-SK 2382 इत्यङ् । अशिषत् । अशासिष्यत् ॥ ।{$ {!1076 दीधीङ्!} दीप्तिदेवनयोः $}। एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-SK 272 इति यण् । दीध्याते ॥
Tattvabodhinī
NSP p. 409
—शा हौ । पूर्वसूत्रे उपधापदान्वयानुरोधेन शास इत्यवयवपश्चापि इह स्थानपश्चेव उपधाया इत्यस्य निवृत्तलादित्याह—शास्तेः शादेश इति । ‘धि.च’ इति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्यासिद्धत्वात् ‘शास इत्—’ इति इत्वं स्यात् तद्वा- रणाय शाविधानमित्याहुः
Bālamanoramā
शा हौ - शा हौ । 'शा' इति लुप्तप्रथमाकम् ।शास इदङित्यतः शास इत्यनुवर्तते । तदाह — शास्तेरिति । इत्त्वापवारदः । ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह — तस्याभीयत्वेनेति । यद्यपिधि चे॑ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात्शास इ॑दिति इत्त्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । लङ्याह — अशादिति । 'तिप्यनस्ते' रिति दत्वे चर्त्वविकल्प इति भावः । अशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः अशादिति ।सिपि धातो॑रिति रुत्वदत्वविकल्प इति भावः । अशिष्टमशिष्ट । अशासमशिष्व अशिष्म । शिष्यादिति ।शास इत् इति इत्त्वेशासिवसी॑ति ष इति भावः । अशिषदिति । अङि इत्त्वमिति भावः । दीधीङ्धातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे आह —
SK 2488 · A 7.4.53V
यीवर्णयोर्दीधीवेव्योः ॥ २४८८ ॥
yīvarṇayordīdhīvevyoḥ
Siddhānta-kaumudī
एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे । इति लोपं बाधित्वा नित्यात्वाट्टेरेत्वम् । दीध्ये । दीधीवैवीटाम् SK 2190 इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते ।{$ {!1077 वेवीङ्!} वेतिना तुल्ये$} । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥ अथ त्रयः परस्मैपदिनः ॥{$ {!1078 षस!} {!1079 षस्ति!} स्वप्ने$} । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । पूर्वत्रासिद्धम् SK 12 इति सलेपस्यासिद्धत्वात् अतो हेः SK 2202 इति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् । सन्ति । इदित्वान्नुमि कृते संस्तः इति स्थिते स्कोः-SK 380 इति सलोपे झरो झरि सवर्णे SK 71 इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोः-SK 380 इति लोपाभावात् । संस्ति । संस्तः इत्येके ।{$ {!1080 वश!} कान्तौ$} । कान्तिरिच्छा । वष्टि । उष्टः । उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्ढि । अवट् । अवड् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् ।{$ {!1081 चर्करीतं!} च (गणसूत्रम् -) $}॥ यङ्लुगन्तमदादौ बोध्यम् ॥{$ {!1082 ह्नुङ्!} अपनयने$} । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट । इत्यदादयः ॥
Tattvabodhinī
alignment inferredNSP p. 409–410
—यीवर्णयोः । य्वोरित्युक्तेऽपीष्टसिद्धौ यकारेकारयोरिति स्फुटप्रतिपत्तिर्न स्यादिति वर्णम्- हणं कृतम् । यिश्व इवर्णश्च यीवर्णौ तयोः । यिश्वेति इकार उच्चारणार्थो न तु विवक्षितस्तदाह—यकारे इवर्णे चेति । यिवर्णयोरिति पाठस्तूचितः ॥—लोपं वाधित्वेति । लोपस्य तदाहरणम् । आदीध्य गतः । आवेव्य गतः । दीधिता । दीधिष्यते । वेविता । वेविष्यते । यीवर्णयोरिति किम् । आदीध्यनम् । आवेव्यनम् । षस ॥—असदिति । ‘तिप्य- नस्तेः’ इति दलम् ॥—अस इति । ‘सिपि धातोः—’ इति रुवां । पक्षे दः ॥—सन्तीति । इदिलालुमि सन्नसतति इति स्थिते ‘स्कोः’ इति सलोपे ‘झरो झरि सवर्णे’ इति तकारस्य वा लोपः ॥—संस्ति संस्त इति । इहापि पूर्ववत्तलोपो वा वोध्यः । वश कान्तौ । भाषायामप्यस्य प्रयोगो दृश्यते । ‘वष्टि भायुरिरल्लोपं’ ‘जयाय सेनान्यमुशन्ति देवाः’ इति ॥—चर्करीतं च । गणसूत्रमिदम् । चर्करीतमिति यङ्लुगन्तस्य पूर्वाचार्याणां संज्ञा ॥—अदादौ वोध्यमिति । तेन यङ् ळुगन्तेपु ‘अदिप्रभृतिभ्यः—’ इति शपो ळुग् भवतीति भावः । प्राचा तु चकरीतमिति यङ्ळुगन्तं परस्मैपदमित्युक्तं तच्चे- हाप्रकृतलादुपेक्षितम् ॥ इत्यदादयः ॥ शानचोऽप्रवृत्तावपि चानशन्तलात् ॥—आदीति । ‘आडुत्तमस्य’ इत्यनेन ॥—परत्वादिति । ‘हुश्रुवोः’ इति यणपेक्षया परलादित्यर्थः
Bālamanoramā
यीवर्णयोर्दीधीवेव्योः - यीवर्णयोर्दीधीवेव्योः । यिश्च इवर्णश्चेति द्वन्द्वात्सप्तमी । 'यि' इत्यत्र इकार उच्चारणार्थः ।तासस्त्यो॑रित्यतो लोप इत्यनुवर्तते ।अलोऽन्त्यस्ये॑त्यन्त्यस्य॑ लोपः । तदाह - एतयोरित्यादि । 'आदीध्यगतः'आवेव्य गतः॑ । अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरणं वक्ष्यते । इति लोपमिति । लट इडादेशे दीधी इ इत्यत्रयीवर्णयो॑रिति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरित्त्वमित्यर्थः । कृते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाऽभावान्न लोप इति भावः । गुणनिषेध इति । दीधी — आमिति स्थितेसार्वधातुकार्धधातुकयो॑रिति प्राप्तस्य निषेध इत्यर्थः । दीधितेति । इटि कृते इवर्णपरकत्वादीकारस्य लोप इति भावः । दीधीताम् दीध्याताम् दीध्यताम् । दीधीष्व दीध्याथाम् । दीधीध्वम् । दीध्यै दीध्यावहैदीध्यामहै । अदीधीत अदीध्यातामदीध्यत । अदीधीथाः अदीध्याथामदीधीद्वम् । अदीधि दीधीवहि अदीधीमहि । दीधीत् दीधीयाताम् । दीधिषीष्ट दीधिषीयास्ताम् । दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टानुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवीङ वेतिना तुल्ये इति । दीधीवद्रूपाणि । इति जक्षित्यादयः ।षस षस्ति स्वप्ने इति । षोपदेशावेतौ । द्वितीय इदित् । तत्र षसधातोरुदाहरति — सस्तीति । ससन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वा आह — सेसतुरिति । सेसुः । ससिथ सेसथुः सेस । ससास — ससस सेसव सेसिम । ससिता । ससिष्यति । सस्तु — सस्तात् सस्ताम् ससन्तु । सस् हि इति स्थिते हेर्धिभावे 'धि चे' ति सलोपं मत्वाह — सधीति । तत्रधि इत्यस्य स्थानिवत्त्वेन हित्वात्अतो हे॑रिति लुकमाशङ्क्याह - पूर्वत्रेति । सस्तात् सस्तम् सस्त । ससानि ससाव ससाम । लङ्याह — असदिति । असस् त इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थिते हल्ङ्यादिना तकारलोपेतिप्यनस्ते॑रिति सस्य दत्वमिति भावः । असस्तामिति । अससन्नित्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थितेसिपि धातो॑रिति रुर्वा । पक्षे दः । हल्ङ्यादिलोपः । तदाह — असः असदिति । असस्तमसस्त । अससमसस्व असस्म । लिङ्याह — सस्यादिति । सस्याताम् । सस्यास्तामित्यादि । लुङ्याह — असासीदिति ।अतो हलादे॑रिति वृद्धिविकल्प इति भावः । अससिष्यत् । अत षस्तिधातोरुदाहरति — सन्तीति । इद#इत्त्वान्नुम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारे संस् त् तीति स्थिते,स्को॑रिति सलोपे,परसवर्णे,झरो झरी॑ति प्रथममतकारस्य लोपविकल्पे , एकतं द्वितं वा रूपमिति भावः । संस्तन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि संस्त् सि इति स्थितेस्को॑रिति सलोपे अनुस्वारस्य परसवर्णो नकारः । सवर्णपरत्वाऽभावात्झरो झरी॑ति तकारलोपे न । सन्त्सि सन्थः सन्थ । संस्त्मि संस्त्वः संस्त्मः । ससंस्त ससंस्ततुः । ससंस्तिथ । ससंस्तिव ससंस्तिम । संस्तिष्यति । सन्तु — सन्तात् सन्ताम् संस्तन्तु । संस्त् हि इति स्थिते हेर्धिभावेस्को॑रिति सलोपे परसवर्णे सन्त् धि इति स्थितेझरो झरी॑ति तकारस्य लोपः । सन्धि । लोपाऽभावे तकारस्य जश्त्वे सन्द्धि — सन्तात् सन्तम् सन्त । संस्तानि संस्ताव संस्ताम । लङस्तिपि असंस्त् त् इति स्थिते हल्ङ्यादिलोपे संयोगादिलोपे संयोगान्तस्य लोपे — असन् । असन्तामसंस्तन् । असन् असन्तमसन्त । असंस्तमसंस्त्व असंस्त्म । संस्त्यात् । असंस्तीत् । असंस्तिष्यत् । मतान्तरमाह -बहूनामिति । इत्याश्रित्येति । तथा च प्रकृते लटस्तिपि संस्त् तीति स्थिते झलि परे अनुस्वारसकारतकाराणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात्स्को॑रिति लोपाऽभावात् संस्तीत्याद्यूह्रमित्यर्थः । वश कान्ताविति । कान्तिरिच्छा । सेट् । वष्टीति ।व्रश्चे॑ति शसय् षत्वे तकारस्य ष्टुत्वेन टः । उष्ट इति । ङिति 'ग्रहिज्या' इति संप्रसारणे रूपमिति बावः । उवाशेति । लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणमिति भावः । ऊशतुरिति । परत्वाद्ग्रहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः । उवशिथ ऊशथुः ऊश । उवाश — उवश ऊशिव ऊशिम । वशितेति । अनेन सेट्त्वं द्योतितम् । वशिष्यति । उष्टामिति । उशन्त्वत्यपि ज्ञेयम् । उड्ढीति । वश् हि इति स्थिते धिबावे अपित्त्वेन ङित्त्वाद्ग्रहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः । वशानि वशाव वशाम । लङ्याह — अवडिति । हल्ङ्यादिलोपे शस्य षः, षस्य डः, तस्य चर्त्वविकल्प इति भावः । औशन्निति । अवट् औष्टम् औष्ट । अवशमिति । पित्त्वान्न संप्रसारणमिति भावः । औआ औश्म । वध्याशीर्लिङो उश्यादिति सिद्धवत्कृत्य आह — उश्यातामुश्यास्तामिति । अवशीत् अव्राशीत् । अवशिष्यत् । तदेवं दीधीह् वेवीङ् षस षस्ति वश एते पञ्च धातवस्छान्दसा एवेति माधवादयः । तत्रदीधीवेवीटा॑मिति सूत्रेदीधीवेव्योश्छन्दोविषयत्वा॑दिति भाष्यम् । 'जक्षित्यादयः ष' डिति सूत्रेषसिवशी छानदसा॑विति भाष्यम् । एतद्भाष्यादेव षस्तिधातोर्नाऽत्र पाठ इति प्रतीयते । अत एव 'षस शास्ति स्वप्ने' इति पाठमभ्युपगमस्य स्तिपा निर्देशेन शास एवाथभेदात्पुनः पाठ इति कैयट आह । अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम्,वष्टि भागुरिरल्लोपंजयाय सेनान्यमुशन्ति देवाः॑ इत्यादिप्रयोगदर्शनादित्यास्तां तावत् । चर्करीतं चेति । धातुपाठे गणसूत्रमिदम् ।चर्करीत॑मिति यङ्लुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा । तदाह — यङ्लुगन्तमदादाविति । तेन यङ्लुगन्ताच्छबेव विकरणः, तस्य लुक्, न तु श्यनादि विकरणान्तरम् । 'परस्मपैदिन' इत्युपक्रमाद्यङ्लुगन्तस्य परस्मैपदित्वमेव । ह्नुङ् अपनयने इति । अनिडयम् । ह्नुते इति । ह्नुवाते ह्नुवते इत्यादि । जुह्नुवे इति । जुह्नुवाते जुह्नुविरे । क्रादिनियमादिट् । जुह्नुविषे । जुह्नुविवहे । ह्नोता । ह्नोष्यते । ह्नुताम् । ह्नुष्व । ह्नवै ह्नवावहै । अह्नुत । इति सिद्धवत्कृत्य विधिलिङ्याह — ह्नुवीतेति आशीर्लिङ्याह — ह्नोषीष्टेति । लुह्राह — अह्नोष्टेति । इति बालमनोरमायां लुग्विकरणम् ।