Prakaraṇa 44 · SK 2151–2422
तिङन्तभ्वादिप्रकरणम्
tiṅantabhvādiprakaraṇam · 272 sūtras · Sanskrit source — translation forthcoming
उत्तरार्धम् · opening
Tattvabodhinī
section openingNSP p. 341ॐ श्रीः ॥ अज्ञाननाशने दक्षं दीक्षितं भक्तरक्षणे । वटमूलाश्रयं व्यक्षं दक्षिणामूर्तिमाश्रये ॥ १ ॥ प्रन्थमध्ये विघ्नविधाताय कृतं मङ्गलं शिष्यशिक्षार्थं निवध्राति—श्रौत्रेत्यादिना । श्रोत्रियस्य भावः श्रौत्रम् ‘हायनान्तयुवादिभ्योऽण्’ इति सूत्रे ‘श्रोत्रियस्य यलोपश्च’ इति वार्तिकाद्यलोपे अण्प्रलये च ‘यस्येति च’ इतीकारलोपः । अर्हतो भाव आर्हन्ती । ‘गुणवचनब्राह्मणादिभ्यः—’ इति सूत्रे ‘अर्हतो नुम् च’ इत्युक्तेर्नुम् ष्यञ् च । षित्त्वान्क्षीषि ‘हलस्तद्धितस्य’ इति यलोपः । ताभ्यां वित्तैः श्रौत्रार्हन्तीचणैः । ‘तेन वित्तः—’ इति चणप् । श्रोत्रियलयोग्यलाभ्यां प्रसिद्धैरिल्यर्थः । किं च गुण्यैर्गुणवद्भिः । प्रशस्तगुणयुक्तैरिति यावत् । ‘रूपादाहतप्रशंसयोः—’ इति सूत्रे ‘अन्येभ्योऽपि दृश्यते’ इत्युक्त्वा ‘गुण्या ब्राह्मणाः’ इत्यस्य भाष्यादावुदाहतलात् ॥—अहर्दिवमिति । अहन्यहनि, प्रलहमित्यर्थः । ‘अचतुर—‘इत्यादिना निपातनात्साधुः ॥—तोष्ट्यमान इति । स्तौतेर्यङन्तात्कर्मणि शानच् ‘सार्वधातुके यक्’ इति धातोर्यक् ‘आने मुक्’ इति मुक् । अपिशब्देन आपाततो विरोधं द्योतयति । वस्तुतस्तु न विरोधः । स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि वियदादिवद्यावहारिकलात्तदभावस्य पारमार्थिकलात् । एतच्चोत्तरमीमांसायां स्पष्टमेव । विभुर्यापकः परमेश्वरः । अतिशयेन विजयते विजयतेतराम् । सर्वोत्कर्षेण वर्तते इति फलितोऽर्थः । ‘विपराभ्यां जेः’ इति तङ् । तदन्तात् ‘द्विवचनविभज्य—’ इत्यादिना तरपि ‘किमेत्तिङ्ययधादामु—’ इत्याम् । नन्विह तरप् दुर्लभ एव, विजयत इत्यस्य अप्रातिपदिकलादतिङन्तलाच्च । नच ‘सह सुपा’ इत्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं स्यादेवेति वाच्यम् । स च छन्दस्येवेति तत्रत्यग्रन्थेन सह विरोधापत्तेः । किंच प्रातिपदिकलाभ्युपगमे सोक्ष्तपत्तिः स्यात्, लिङ्गसर्वनामताभ्युपगमेन नपुंसकलात्सोर्लुक्यपि ‘हस्तो नपुंसके’ इति हस्तो दुर्वारः स्यात् । समुदायान्तर्गतस्य ‘जयते’ इत्यस्य तिङन्तत्वेऽपि साकाङ्क्षत्वेनासामर्थ्यात्तोऽपि भवितुं नार्हति । ‘समर्थः पदविधिः’ इति परिभाषितलात् । ‘आमन्तेन विशब्दो युज्यते’ इति कल्पनायां लन्तरङ्गलात्परस्मैपदप्रवृत्तौ विजयतितरामिति स्यादिति चेत् । अत्राहुः । समुदायान्तरगताच्चयत इत्यस्मादेव तरप् । नच तस्य विशब्देन सह साकाङ्क्षत्वेनासामर्थ्यं शङ्क्यम् । तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाभावात्, उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थं एव नास्तीति साकाङ्क्षताया वक्तुमशक्यलाच्चेति । वृत्तकथनपूर्वकं वर्तिष्यमाणमाह— पूर्वार्धं इति । हलन्तेषु ‘स्पृशोऽनुदके किन्’ ‘ऋत्विक्दध्दक्लग्’ इत्यादिना किन्नादिव्युत्पादनं प्रासङ्गकमिति भावः ॥— तुर्यश्वतुर्थः । ‘चतुरश्छयतावाद्यक्षरलोपश्च’ इत्युक्तलात् ॥—अथेति । इहापि कृत्सु ‘णचः क्रियामञ्’ ‘अणिनुणः’ इत्यवादिव्युत्पादनं प्रासङ्गिकं बोध्यम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः ॥ अनुबन्धभेदेन भेदमाश्रित्याह—दश लकारा इति ॥—प्रदर्श्यन्त इति । यद्यपि पञ्चमलकाररूपाण्यधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदर्श्यते ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ ‘लस्य’ इत्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः ॥—पञ्चम इति । लेडित्यर्थः । लट्लिङिति स्वोक्तकमापेक्षयैव लेटः पञ्चमत्वं, न तु सूत्रोक्तकमेणेति वोध्यम् ॥
Footnotes (NSP 1915 ed.)
NSP p. 341 ↑ श्रौतेति-- श्रौतं : बेदाध्ययनकार्तृत्वं, तद्विहितकर्मानुष्ठानव्वमार्हन्ती तान्भ्यां प्रतिद्वैरित्यर्थः ।
SK 2151 · A 3.2.123वर्तमानाधिकारः
वर्तमाने लट् ॥ २१५१ ॥
vartamāne laṭ
Siddhānta-kaumudī
वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥
Tattvabodhinī
NSP p. 342—वर्तमाने लट् । वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्याह—वर्तमानक्रियावृत्तेर्धातोरिति । धातोरिति सूत्रमातृतीयाध्यायान्तमधिक्रियत इति भावः ॥—लट् स्यादिति । तस्य वाच्यत्वमनुपदमेव स्फुटीभविष्यति । वर्तमानकालस्तु न तद्वाच्यः किंतु द्योत्य एव । लङादिष्वपि भूतादिकालो यथायथं द्योत्य एवेत्यवगन्तव्यम् । वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि युगम इति विध्यादिसूत्रे वक्ष्यामः ॥—अटाविताविति । अकार उच्चारणार्थ इति तु नोक्तम्, लिङादिवैलक्षण्यसंपादनात्तस्यावश्यकत्वात्
Bālamanoramā
वर्त्तमाने लट् - वर्तमाने लट् ।धातो॑रिति सूत्रमा तृतीयाध्यायसमाप्तेरधिकृतम् । 'वर्तमाने' इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोर्लडिति लभ्यते । फलितमाह — वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकालवृत्तित्वम् । कालस्य तु वर्तमानत्वम् — अतीतानागतभिन्नकालत्वम् ।भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः काल॑ इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकत्र्रादिविशेषणम् । अतीतपाकादिक्रिये कर्तरि वर्तमाने पचतीत्याद्यापत्तेः, किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट् तु तस्य द्योतक एव । अटाविताविति । न च अकार उच्चारणार्थ एवास्त्विति वाच्यं, लिडादि वैलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञां विना निवृत्त्युपायाऽभावादित्संज्ञैवादर्तव्येति भावः ।
SK 2152 · A 3.4.69V
लः कर्मणि च भावे चाकर्मकेभ्यः ॥ २१५२ ॥
laḥ karmaṇi ca bhāve cākarmakebhyaḥ
Siddhānta-kaumudī
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
Tattvabodhinī
NSP p. 342–344—लः कर्मणि च— । चकारात् ‘कर्तरि कृत्’ इत्यतः कर्तरीत्यनुकृष्यते, सकर्मकविषयं चेदम् । अकर्मकेषु कर्मणीत्यंशस्य वाधितत्वात्, भावे चेत्युत्तरवाक्येन तत्र विशेषविधानाच्च तदेतदाह—सकर्मकेभ्य इति ॥—भावे चेति । चकारेण कर्तैवानुकृष्यते न तु कर्म, असंभवात्तदाह—भावे कर्तरि चेति । ननु भावकर्मणोरात्मनेपदविधानात् ‘शेषात्कर्तरि—’ इति परस्मैपदविधानाच्च ज्ञापकालकाराणां भावकर्मकर्तारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण । मैवम् । असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घञादिवद्भावे लकारापत्तौ घटं क्रियते देवदत्तेनेत्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात् । न चैवम् ‘अकर्मकेभ्यो भावे लः’ इत्येव सूत्र्यतां, भावे अकर्मकेभ्य एवेति नियमार्थमिति वाच्यम् । अकर्मकेभ्यो भाव एवेति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकारानापत्तेः । तस्माद्भावे चेति चकार आवश्यकः । न चैवं ‘भावे चाकर्मकेभ्यः’ इत्येवास्त्विति वाच्यम् । भावे इव कर्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः । नन्वेवमपि ‘लक्ष्य भावे चाकर्मकेभ्यः’ इत्येवास्तु चकारेण कर्तरीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकर्मकेभ्यो भावे कर्तरि च स्युरित्यर्थं पर्यवसिते कर्मणि तूक्तज्ञापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेत् । मैवम् । उत्तरसूत्रे तयोरित्यनेन कर्मणोऽपि परामर्शार्थं तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयर्थ्यात् । तस्माद्यथान्या-समेव रमणीयम् । अत्र नैयायिकाः—‘लकाराणां कृतावेव शक्तिर्लघवान्न तु कर्तरि । कृतिमतः कर्तृत्वेन तत्र शक्तौ गौ-रंवात्, देवदत्त इत्यादिप्रथमान्तपदे तल्लाभाच्च । देवदत्तः पचतीत्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम्, आश्रयत्वं तु संसर्गः । तथाच पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सुष्ट्रपपद्यते’ इति । तन्न पचतीत्युक्ते पाककर्ता क इत्याकाङ्क्षानुरोधेन लकाराणां कर्तरि शक्तिरित्यभ्युपगन्तुमुचितत्वात् । पाकानुकूला कृतिरिति शाब्दबोधाभ्युपगमे तु कस्मि-न्नित्याकाङ्क्षा स्यात्, कस्येति वा । न चैककर्तृका पचिक्रियेति शाब्दबोधाभ्युपगमेऽपि क इत्याकाङ्क्षा नोपपद्यत एवेति श-ङ्गाम् । कर्तृसामान्यबोधे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाभावात् । नापि देवदत्तकर्तृका पचिक्रियेत्युक्तेऽपि कस्मि-न्नंस्ति कस्य वेत्याकाङ्क्षा दुर्वारैवेति शङ्गाम् । विकृत्यनुकूलव्यापारस्यैव पचिक्रियात्वात् तदाश्रयस्य देवदत्तस्य कर्तृत्वात् क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याद्याकाङ्क्षाया अप्रवृत्तेः । किंच पचन्तं देवदत्तं पश्य, पचते देवत्ताय देहि, पचमानस्य देवदत्तस्य द्रव्यम्, इत्यादौ शतृशानजादीनामपि तिवादिवल्लादेशलाविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः । न चेष्टापत्तिराधयत्वं संसर्ग इत्युक्तवेन पाकानुकूलकृत्याध्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाभावादिति वाच्यम् । नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात् । न चैवं नामार्थयोरभेदसंसर्गव्युत्पत्त्यनुरोधेन शतृशानजादीनां कर्तरि शक्तिस्त्विवादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्यादोषलादिति वाच्यम् । स्थान्येव वाचको लाघवान्न लादेशो गौरवादिति स्वसिद्धान्तस्य परित्यागापत्तेः । रामः, ज्ञानं, कतरत्, इत्यादौ सोर्विसर्गे सोरमि सोरदडि च कृते लाघवात्सुत्वेनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्यासांगत्यापत्तेश्च । एवं च तिवादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वं बोधकस्तु लकार एवेति स्थिते स च शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृतिं बोधयेत् । ‘अव्याप्तेश्वानेकार्थत्वम्’ इति न्यायात् । यदि तु वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्यभ्युपगम्यते तर्हि घटं, घटेन, हरेऽव, विष्णोऽवेत्यादिषु ‘सर्वे सर्वपदादेशाः’ इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिद्ध्येदिति भवतां तन्महदनिष्ठम् । किं च ‘कर्तरि कृत्’ इति यत्कर्तृग्रहणं तदेव ‘लः कर्मणि—’ इति सूत्रे चकारेणानुकृष्यत इति कथं ण्वुलादीनां लकाराणां च शक्तौ वैलक्षण्यम् । न च नामार्थयोरभेदान्वयसंसर्गाभ्युपगम एव ण्वुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यम् । पचतिरूपं पचतिकल्पं देवदत्त इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुरेव वाच्यतौचित्यात् । ननु समुदायस्य नामत्वेऽपि तिङ्प्रत्ययो न नामेति चेत्पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम् । अकान्तं नामेति चेत् रूपवाद्यन्तमपि नामेति तुल्यम् । ततश्चात्र प्रशस्तपाकंकर्ता देवदत्त इत्याद्यभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिङ्क्ष्वपि कर्तुर्वाच्यता स्वीकर्तव्यैव । किं च कर्तुर्वाच्यत्वा- वर्तमानक्रियेति—वर्तमानकालक्रियेत्यर्थः । वर्तमानत्वं प्रारब्धापरिसमाप्तक्रियाश्रयत्वं कालगतं बोध्यम् । २ ल इति— इदमुच्चारणार्थाकारेण सह जातावेकवचनम्, लस्येत्यत्र तथा दृष्टत्वात् । ३ फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् । फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । नन्युपगमे ‘युष्मदि समानाधिकरणे मध्यमः’ ‘अस्मद्युत्तमः’ इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था ‘अभिहिते कर्तरि प्रथमा’ इत्यादिकं च भवन्मते कथं संगच्छताम् । यत्तु अनभिहित इत्यस्यानभिहितसंख्याक इत्यर्थवर्णनेन ‘देवदत्तः पचलो-दनम्, ओदनः पच्यते देवदत्तेन’ इत्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तम् । तन्न । कृतद्धितसमासेषु संख्याभिधानस्याप्रसिद्धत्वात् । ततश्च पक्तव्यस्तण्डुलः, शत्यः शतिकोऽश्वः, प्राप्तोदको प्राप्तः, इत्यादिषु ‘कर्मणि द्वितीया’ इत्यस्य प्रवृत्तौ प्रथमा न स्यात् । न च तिष्ठतीत्यध्याहारेण संख्याभिधानमिहाप्यस्तीति वाच्यम् । स्थित इत्याद्यध्याहारे तदभावात् । शाब्दिकोऽयं देवदत्तो न तु नैयायिक इत्यादिषु नीलमिदं न तु रक्तमित्यत्रेव क्रियापदाध्याहारस्यानावश्यकतया आख्यातेन ‘क्ष-ब्ददर्शुरं करोति’ इति ठक्प्रत्ययेन वा कर्तृसंख्याया अनुक्तलाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च । तस्मादनभिहिते कर्तरीत्यादिव्याख्यानमेवाभ्युपेतव्यम् । अपि च धातूपात्तव्यापाराश्रयः कर्ता तत्राश्रयमात्रं कृतां लकाराणां चार्थः न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात् । अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयोर्नानन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारेणान्वयः क्लिष्टः स्यात् । यस्तु वदति ‘कृधातोः कृतिरर्थः कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि । ‘कर्तरि कृत्’ इत्यत्र हि कर्तरीति भावप्रधानो निर्देशः । कर्तृत्वं कृतिमत्त्वम् । तच्च कृतिरेव । यत्र तु देवदत्तादिपदसमभिव्याहारस्तत्र तृजादौ कृतिमति लक्षणेत्यादि तन्मते पूर्वोक्तकर्त्तेत्यादौ सुतरामनन्वयः । ‘कर्मवत्कर्मणा—’ इति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यलार्थत्वे तु करिष्यते घट इत्यादि न सिद्ध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम् । आश्रयमात्रस्य प्रत्ययार्थत्वे तु रथो गच्छतीत्यत्र रथस्याचेतनस्य यलाभावेऽपि गमनानुकूलचक्रभ्रमणादिव्यापाराश्रय-लाभ काचिदनुपपत्तिः । एवं स्थिते कृतौ शक्तिरित्यस्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात्, जानातीत्यादावाश्रयत्वं प्रत्ययस्यार्थं इति स्वीकृत्य यलार्थत्वस्य त्वयापि वक्तव्यत्वात् । न हि यलमन्तरेण ज्ञानं नोदे-तीति कश्चिदभ्युपैति । तस्मात्कृतां तिष्ठां च वैलक्षण्यं दुर्लभमिति कर्त्रर्थकलमभ्युपेयम् । एतेन कर्त्रधिकरणे आख्यातवाच्यत्वं कर्तुर्निरस्य जज्ञभ्यमानाधिकरणे यङन्ताद्विहितस्य जज्ञभ्यमान इति शानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रत्युक्ताः । यत्तु तैरुक्तं शानजंशे ‘कर्तरि कृत्’ इति व्याकरणं शक्तिप्राहकमस्तीति । तन्न । कृद्वाक्यशेषो ह्ययमर्थाकाङ्क्षायाम-निर्दिष्टार्थेषु ण्युलादिष्वेवोपतिष्ठते ‘आकाङ्क्षितविधानं ज्यायः’ इति न्यायात्, न तु शत्रादिषु । स्थानिभूतलकारार्थेनैवैतेषां निराकाङ्क्षत्वात्, अन्यथा भावे कर्मणि च शानचो दौर्लभ्यापत्तेः । ततश्च शय्यमाने आस्यमाने चायं गत इत्यादिप्रयोगो भावे न स्यात् । कर्मणि तु क्रियमाण इत्यादिप्रयोगो न स्यात् । यत्तु भट्टपादा आहुः । कर्तरि यदेकत्वं तत्र तिप्, कर्तरि यद्वित्वं तत्र तस्, इत्यादिक्रमेण ‘लः कर्मणि—’ इत्यस्य ‘द्येकयोः—’ इत्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तृवाच्यता सूत्रादायातीति । तच्चिन्त्यम् । ‘तान्येकवचनद्विवचन—’ इति विहितद्विवचनादिसंज्ञा हि तिवादादेशनिष्ठा । ततश्च द्विवचनादिसंज्ञकतिवा-दिविधिना ‘द्येकयोः—’ इत्यस्यैकवाक्यतास्तु । न च तिवादिविधौ कर्तरीत्यस्ति यद्वित्वैकलादिविशेषणतया कथंचिन्नीयेत । ननु ‘लः कर्मणि—’ इति सूत्रे ‘कर्तरि कृत्’ इत्यतोऽनुवृत्तं कर्तृग्रहणं तिवादिविधावस्त्येव, लविधितिवादिविध्योरप्येकवाक्यतास्वीकारादिति चेत् । सत्यम् । वाक्यैकवाक्यता हि सा न तु पदैकवाक्यता ‘लः कर्मणि—’ इति विहितलकारानुवादेन तिवाद्यादेशविधेः प्रवृत्तत्वात् । तथा च लविधौ श्रूयमाणं कर्तृग्रहणं कथं संख्यां विशिनष्टु । न हि यत्र कर्तृग्रहणं तत्र संख्योपस्थापकमस्ति । लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात् । ततश्च कर्तरि यदेकत्वमिति व्याख्या कथमपि न संभवत्येव । स्यादेतत् । ‘लः कर्मणि—’ इति सूत्रे ल इत्यकारानुवन्धकयोर्लङ्लटोः सामान्यग्रहणं न भवति किंतुत्सृष्टानुवन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम् । तत्र ‘ल’ इति जसन्तं माभूत् किं तु ङसन्तमस्तु । ‘लः परस्मैपदम्’ इति वदादेशापेक्षा चेयं षष्ठी, लस्य य आदेशः स कर्मणि चेत्यादि । न चाविहितस्य लस्यानुवादो न संभवतीति वाच्यम् । ‘वर्तमाने लट्’ इत्यादिभिरेव लविधानात् । तथा च लस्य स्थाने य आदेशः स सकर्मकात्कर्मणि कर्तरि च स्यादकर्मकाद्भावे कर्तरि चेत्यर्थः सुलभ इति भट्टपादोक्तयोजनिका निर्वाधैव चेत् । अत्राहुः । ल इत्यस्य षष्ट्यन्तत्वे आदेशानामेवार्थं उक्तः स्यात् । सोऽपि तिवादीनामेव न तु शबादीनाम्, तेषां द्विवचनादिसंज्ञाविरहात् । ‘झ्लेकयोः—’ इत्यादिनात्यैकवाक्यताया भवद्भिरुक्तत्वात् । न च भवदुक्तरीत्या ‘कर्तरि कृत्’ इत्यनेनैव निर्वाहः । भावे कर्मणि च शानचो दौर्लभ्यापत्तेरुक्तत्वात् । न च शानजिवधिना सहात्मनेपदव्यवस्थापकानामेकवाक्यतया ‘भावकर्मणोः’ इत्यनेनेष्टसिद्धिः । सकर्मकादपि भावे शान- जापत्तेः । किं च जसन्तत्वे श्रुतेनैव संबन्धः षष्ठ्यन्तत्वे त्वादेश इत्यध्याहाराद्गौरवमित्यादि ॥ अत्रेदं बोध्यम् । ‘भावे चाकर्मकेभ्य’ इत्यकर्मकग्रहणेनाविवक्षितकर्माणोऽपि गृह्यन्ते । अत एव ‘णेरणौ—’ इति सूत्रे नेह पञ्चते नेह भुज्यते इति भावे लकार इति हरदत्तः । अत्यन्ताविद्यमानकर्मकाणामेव ग्रहणं, नेह, पञ्चते इत्यादौ तु कर्मण्येव लकारः । गम्यमानत्वाच्च कर्म न प्रयुज्यत इति मतान्तरम् । एतच्च ‘गतिबुद्धि—’ इत्यादिसूत्रे हरदत्तग्रन्थे स्पष्टम् । यत्तु कैश्चिदुक्तम् इह ‘अविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्तम्’ इति तच्चिन्त्यम् । पक्षद्वयस्यापि भाष्यकैयटादिग्रन्थारूढत्वात् । प्रत्युताविवक्षितकर्माणोऽप्यकर्मका इति पक्ष एव प्रबलः । तथाहि ‘समानकर्तृकेषु तुमुन्’ इति सूत्रे इच्छता कियत इति भावे लङ्कृतो हरदत्तेन, ‘कैरङ्ग्ययन्ने श्रुतेनम्’ इति सूत्रे कैयटहरदत्तादिभिरूपि मपुंसके भावे क्कः अकर्मकेभ्या एव, ‘क्षयोरेव कृत्यक्त— इत्यत्र कृन्मात्रस्य प्रहणात्तत्र भावे चाकर्मकेभ्य इत्यनुवर्तनादन्यथा घटं कृतमिति प्रसज्येतेति सिद्धान्तितम् । एवं स्थिते यद्यविवक्षितकर्माणोऽपीह सूत्रेऽकर्मकग्रहणेन गृह्येरन्, तर्हि पीता गावो भुक्ता ब्राह्मणा इत्यादौ भावे क्तान्तादर्शाधाजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम्, ‘आदिकर्मणि क्तः’ इति सूत्रे हरदत्तेन वक्ष्यमाणं कृतपूर्वीत्यत्र भावे क्त इति कैयटाद्युक्तं च कथं संगच्छेत्, कथं च ‘गतं तिरश्चीनम्’ इत्यादिप्रयोगाः संगच्छेरन् । ‘गतिवुद्धि—’ इति सूत्रे लकर्मकग्रहणेनाविवक्षितकर्माणो न गृह्यन्त इत्युक्तं तेनाणौ यः कर्ता स प्णन्ते कर्म न भवतीति देवदत्तेन पाचयतीति सिद्धम् ‘गत्यर्थाकर्मक—’ इति सूत्रेऽपि न गृह्यन्ते, तेन हि सूत्रेण कर्त्तर्यपि क्तो विधीयत इति दत्तवान् पक्ववान् इत्याद्यर्थे दत्तः पक्व इत्याद्यापत्तेः, इह सूत्रे लविवक्षितकर्मणामकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत्
Bālamanoramā
लः कर्मणि च भावे चाकर्मकेभ्यः - लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् ।लः कर्मणि चे॑ति प्रथमं वाक्यम् । 'ल' इति प्रथमाबहुवचनान्तम् । चकारेणकर्तरि कृ॑दित्यतःकर्तरी॑त्यनुकृष्यते ।धातो॑रित्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम्, अकर्मकेषुकर्मणी॑त्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्य इति । एवं च सकर्मकेभ्यो भावे लकारान भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तुदेवदत्तेन घटं क्रियते॑ इत्यादौ भावलकारेण कर्मणोऽनभिहितत्वाद्द्वितीया स्यादिति भावः । 'भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम् । अत्रापि चकारेण कर्तैवानुकृष्यते, न तु कर्म, असंभवात् । तदाह — अकर्मकेभ्यो भावे कर्तरि चेति । अत्राऽकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन 'देवदत्तेन भुज्यते' इत्यत्र सतोऽप्योदनरूपकर्मणोऽविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः ।
SK 2153 · A 3.4.77लाधिकारः
लस्य ॥ २१५३ ॥
lasya
Tattvabodhinī
NSP p. 344–345—लस्य । वर्णग्रहणे प्रत्ययग्रहणपरिभाषा, अर्थवह्न्यपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल, इत्यदौ तिवाद्यादेशः कुतो न भवतीति चेत् । अत्राहुः । ‘लः कर्मणि’ इति सूत्रे निर्दिष्टानां कर्त्राद्यर्थानामनुवृत्तेः कर्त्राद्यर्थे विहितस्य लकारस्य ग्रहणमिति । अतोऽपि तिवाद्यादेशानुवादेन कर्त्राद्यर्थविधिरिति कल्पनां निरस्ता । लस्यानिकतिवादीनां कर्त्राद्यर्थविधानं, कर्त्राद्यर्थे विहितस्य लस्य तिवादिविधानमित्यन्योन्याश्रयापत्तेः । यद्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह ग्रहणमिति नोक्तातिप्रसङ्गः । लस्येत्संज्ञा तु न भवति, फलाभावात् । न च लित्स्वरः फलं, णलो लित्वेन तदभावस्य ज्ञापनात् । नाप्यश्रवणमेव फलं, तदुच्चारणस्यानर्थ- क्यापत्तेरादेशविधिनेवाश्रयणलाभाच्च । लस्य तिवादिस्थानिलाभ्युपगमे तु ‘लः परस्मैपदम्’ इत्यादिस्वरसतः संगच्छत इति दिक् ॥—तिप्रतस्झि—। समाहारे द्वन्द्वः । इटष्टकार आगमलिङ्गं न भवति सप्तदशभिरादेशैः समभिव्याहारात् । किंतु ‘इटोऽत्’ इति विशेषणार्थः । एरदित्युच्यमाने एधेवहि एधेमहीत्यत्रापि स्यात्, वर्णग्रहणे प्रत्ययग्रहणार्थवद्वहणपरिभाषयो-रप्रवृत्तेः । केचित्तु ‘इटोऽत्’ इत्यत्र लिङ्ग इत्यनुवर्तनाल्लिङ्गादेशस्यैवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमही-त्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र इकारमात्रमादेशो भवति । तेन ‘इटोत्’ इत्यत्र टकारः स्पष्टप्रतिपत्त्यर्थं एवेत्याहुः । त-च्चिन्त्यम् । इकारस्य विशेषणत्वे विशेषणेन तदन्तग्रहणादवर्णान्तस्य लिङ्गोत्स्यादित्यर्थप्रसक्त्या उक्तातिप्रसङ्गस्य तदवस्थ-त्यात् । वहिमहीत्यस्यापि स्थानिवत्त्वेन लिङ्गत्वात् । महिङ्गो ङ्कारस्तङ् तिङ्किति प्रत्याहारार्थः, स च समुदायानुवन्धो न त्ववयवानुवन्धो व्याख्यानात् । तेनेषेः कर्मणि आशीर्लिङ्गि एषिषीमहीत्यत्र गुणनिषेधो न, तथा च वृक्षतेः पृच्छतेश्च कर्मणि लिटि च वत्रश्चिमहे पत्रच्छिमहे इत्यत्र ‘ग्रहिज्या’— इति संप्रसारणं न ॥—तङ्गानौ—। लस्येत्यस्यानुवृत्तेर्लादेश एवानौ गृ-ह्यते इत्याशयेनाह—शानचूकानचौ चेति । तेन परस्मैपदिभ्योऽपि ‘ताच्छीत्यवयोवचन’— इति चानश् भवत्येव । कतीह निघ्नानाः ॥—अनुदात्तङ्कितः—। अनुदात्तश्च डश्च अनुदात्तङ्गै तौ इतौ यस्य सोऽनुदात्तङ्कित् । द्वन्द्वान्ते श्रूयमाण इच्छव्दः प्रत्येकं संवध्यते । तत्रानुदात्तांशे तदन्तविधेः फलाभावात् अंशान्तर एव तदन्तग्रहणमित्याशयेनाह—अनुदात्तेत इत्यादि । ‘उपदेशेऽजनुनासिक’— इत्यतोऽनुवृत्तमुपदेशग्रहणमपि ङिदंश एव संवध्यते नान्यत्र, अव्यभिचारात्तदाह—उपदेशे यो ङिदिति । विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह—धातोरिति ॥—लस्येति । नन्विहानुवृत्तेरभावादुभ-यमपि दुर्लभं ‘भूवादयः’ इति सूत्रान्मण्हकमुत्यानुवृत्तस्य धातव इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरिति पदे लब्धेऽपि लस्येत्येतत्र लभ्यत इति चेत् । अत्राहुः । ‘इको झल्’ इत्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोराक्षेपो वोध्यः तिङ्ग लादेशलाल्लस्य च धातोर्विधानादिति । उपदेश इति किम् । चुकुटिषति । ‘गाङ्कुटादिभ्यः’— इति सन आतिदेशिकं ङित्त्वम् । धातोः किम् । चङ्ङ्भ्यां माभूत् । अदुहवत् । अवोचत् । ननु लावस्थायामेव वृतादिभ्यः ‘स्यतासी’— इत्यादिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गलात्स्यप्रत्ययात्पूर्वमेव लस्य तिवादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिद्ध्यत्येवेति ‘वृन्न्यः स्यसनोः’ इति सूत्रे स्यग्रहणं व्यर्थं सत् तेनैव स्यग्रहणेन ‘विक-रणेभ्यो नियमो वलीयान्’ इति ज्ञापितम् । तेनानुदात्तेत्त्वाद्वर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्ते ‘वृन्न्यः स्यसनोः’ इति पर-स्मैपदमपि पक्षे भवति । तथा च विकरणेभ्यो नियमस्य वलीयस्त्वाच्चङ्गोर्न दोषः विकरणात्प्रागेव परस्मैपदवृत्तेरिति चेत् । सत्यम् । स्यग्रहणं विकरणव्यवधानेऽपि नियमप्रवृत्तिं ज्ञापयतीति पक्षे चङ्गोर्दोषः स्यादेव । अयं च पक्षः ‘शदेः शितः’— इति सूत्रे भाष्यकैकटयोः स्पष्टः । किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावश्यकं ‘धातोरेकाच—’ इत्यादिना यङ् । योभूयते । ‘ऋतेरीयङ्’ ऋतीयते ॥ शेते हुते इत्यत्र तु व्यपदेशिवद्भावेन ङिदन्तलम् । ‘नमोवरिविश्वत्रङः—’ इति क्यचि चित्रीयते इत्येतत्कथमिति चेत् । अत्राहुः । अवयवेऽचरितार्थो ङकारः क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावेनैव ङिदन्तत्वं बोध्यमिति
Bālamanoramā
लस्य - लस्य ।धातो॑रित्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि सङ्ग्रहः । 'चूडाल' इत्यादौ च नातिप्रसङ्गः ।
Footnotes (NSP 1915 ed.)
NSP p. 345 १ क्रियाफले इति—क्रियाफलं च यदुद्देशेन क्रियाप्रवृत्तिरवगता तदेव नतु दक्षिणादिरूपम् । २ उपपदे इति—उपोच्चरितं पदमुपपदं नतु कृत्रिमम्, तस्येद्दानुपयोगादप्राप्तेश्च । ३ अविषये इति—तेन देवदत्तश्च त्वं च इत्यत्र एकशेषे युवां भवयः इत्येव युध्मदर्शविपयत्वात् । एकशेषेऽपि शिष्टशब्दप्रवृत्तिनिमित्तंनैव लुप्तार्थबोधात् । ४ सत्तायामिति—सत्ता इह आत्मधारणं, सत्तायामित्यादेर्वर्तत इति शेषो बोध्यः ।
SK 2154 · A 3.4.78V
तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् ॥ २१५४ ॥
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdhvamiḍvahimahiṅ
Siddhānta-kaumudī
एतेऽष्टादशलादेशाः स्युः ॥
Bālamanoramā
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् - तिप्तस् । तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त , आताम्, झ,थास्, आथाम्, ध्वम्, इड्, वहि, महिङ् । एषां समाहारद्वन्द्वात्प्रथमैकवचनम् । लस्येति स्थानषष्ठन्तमधिकृतम् । तेन आदेश इति लभ्यते । फलितमाह — एत इति । तसादौ रुत्वाऽभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपदिति ङित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति ।
SK 2155 · A 1.4.99परस्मैपदसंज्ञा
लः परस्मैपदम् ॥ २१५५ ॥
laḥ parasmaipadam
Siddhānta-kaumudī
लादेशाः परस्मैपदसंज्ञाः स्युः ॥
Bālamanoramā
लः परस्मैपदम् - लः पर । 'ल' इति स्थानषष्ठी । 'आदेश' इत्यध्याहार्यम् । तदाह — लादेशा इति ।
SK 2156 · A 1.4.100आत्मनेपदसंज्ञा
तङानावात्मनेपदम् ॥ २१५६ ॥
taṅānāvātmanepadam
Siddhānta-kaumudī
तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥
Bālamanoramā
तङानावात्मनेपदम् - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । 'भूवादयो धातव' इत्यस्मान्मण्डूकप्लुत्या 'धातव' इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र 'गाङ्कुटादिभ्य' इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु 'बोभूयते' इत्यादौ 'सनाद्यन्ता' इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । 'ङित' इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् ।
SK 2157 · A 1.3.12V
अनुदात्तङित आत्मनेपदम् ॥ २१५७ ॥
anudāttaṅita ātmanepadam
Siddhānta-kaumudī
अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥
SK 2158 · A 1.3.72V
स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ २१५८ ॥
svaritañitaḥ kartrabhiprāye kriyāphale
Siddhānta-kaumudī
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥
Tattvabodhinī
NSP p. 345—स्वरितजितः—। पूर्ववदिच्छशब्दः प्रत्येकं संबध्यते । कर्तारमभिप्रैति गच्छतीति कर्त्रमिप्रायं, कर्मण्यण् ॥—धातोरिति । धातोर्लस्येत्यर्थः । लकारधात्वोराक्षेपः पूर्ववद्वोध्यः ॥ —तिङ्खीणि त्रीणि—। तिङः षट् त्रिकाः संज्ञासु तिष्ठ इति यथासंख्यं न प्राप्नोतीत्यत आह—उभयोरिति । परस्मैपदमात्मनेपदमिति चानुवर्तते । तेन पदद्वये प्रत्येकं त्रयस्त्रिका इति यथासंख्यं संज्ञाः प्रवर्तन्त इति भावः । ननु प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रिकद्वयस्य यथासंख्यं प्रथममध्यमोत्तमसंज्ञाः स्युर्न त्वेकैकस्येति । एवं ‘णलुत्तमो वा’ इति सूत्रं विरुध्येत णल उत्तमसंज्ञकलालाभात्, ततश्च प्रथममध्यमोत्तमा इत्यत्र कृतद्वन्द्वानां प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्चेत्येकशेष आश्रीयताम्, तथाहि सति संज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिकेशं विनैवेष्टसिद्धिरिति चेत् । मैवम् । एकशेषाश्रयणे गौरवाद्वैयर्थ्याच्च लयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्यमेव । अन्यथा शतृकस्योः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया वाध्येत । ततश्च काम्यति कामतीत्यादौ ‘क्रमः परस्मैपदेषु’ इति दीर्घो न स्यात् । आकामत्रित्यादौ तस्य सावकाशलात् । यदि तु ‘परस्मैपदानाम्—’ इति विहितस्य णलो ‘णलुत्तमो वा’ इति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न वाध्यत इति म्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम्
Bālamanoramā
स्वरितञितः कर्त्रभिप्राये क्रियाफले - स्वरितञितः । स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः । इच्छब्दः प्रत्येकं सम्बध्यते । तदाह — स्वरितेतो ञितश्चेति । धातोरित्यनन्तरंलस्य स्थाने॑इति शेषः । कर्तारमभिप्रैति गच्छतीतिकत्र्रभिप्रायम् । कर्मण्यण् । तदाह — कर्तृगामिनीति । एवं चहोता याज्यया यजती॑त्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाऽभावान्नात्मनेपदम् । तथावेतनेन यज्ञदत्तभृतो देवदत्तः पचती॑त्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाऽभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् । लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिस्तस्यैवात्र क्रियाफलशब्देन । विवक्षित्वात् । कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थः । आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् ।
SK 2159 · A 1.3.78V
शेषात् कर्तरि परस्मैपदम् ॥ २१५९ ॥
śeṣāt kartari parasmaipadam
Siddhānta-kaumudī
आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥
Bālamanoramā
शेषात् कर्तरि परस्मैपदम् - शेषात्कर्तरि । 'अनुदात्तङित' इति 'स्वरितञित' इति चोक्तादात्मनेपदविषयादन्यः शेषः । तदाह — आत्मनेपदनिमित्तहीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् । तत्र तिबादिनवके युगपत्पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्तेयुष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॑ 'अस्मद्युत्तमः' 'शेषे प्रथमः' इति व्यवस्थां वक्ष्यन् प्रथमादिसंज्ञां तावदाह — तिङस्त्रीणि त्रीणि ।
SK 2160 · A 1.4.101उत्तमसंज्ञा
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ २१६० ॥
tiṅastrīṇi trīṇi prathamamadhyamottamāḥ
Siddhānta-kaumudī
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
Bālamanoramā
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः - तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह — तिङ उभयोः पदयोरिति ।लः परस्मैपद॑मित्यतः परस्मैपदमिति,तङानावात्मनेपद॑मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम् ।
SK 2161 · A 1.4.102एकवचनसंज्ञा
तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ २१६१ ॥
tānyekavacanadvivacanabahuvacanānyekaśaḥ
Siddhānta-kaumudī
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥
Tattvabodhinī
NSP p. 345—तान्येकवचन—। तानीत्यस्य व्याख्यानं तु लब्धेत्यादि । अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात् । इष्टापतौ तु अत्तेलोटो ‘मेर्निः’ इति कृते एकलविवक्षायामुत्तमसंज्ञाभावात् ‘आङ्कतमस्य—’ इत्यस्याप्रवृत्त्या अद्वीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः ॥—प्रत्येकमिति । यत्तु प्राचाएकैकश इत्युक्तं तदयुक्तम् । शसैव वीप्साया उक्तत्वेन द्विवचनायोगात्, येन नाप्राप्तिन्यायेन द्विवचनापवादः शासिति सिद्धान्तात् । तथा ‘सुपः’ इति सूत्रेऽप्येकैकश इति प्राचोक्तमयुक्तमेव । एतच्च मनोरमाग्रन्थानुरोधेनोक्तम् । अन्ये तु एकैकमेवैकैकशः स्वार्थे शस् न लत्र वीप्सायाम् । न च स्वार्थे यः शस् स आकरग्रन्थान्नावगम्यत इति वाच्यम् । एकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वेति भाष्यात् शसन्तस्य प्रत्येकमित्यर्थकत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानलात् । ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवायुक्तमित्याहुः ॥—युष्मादि—। समानाधिकरण इत्यस्य व्याख्यानं तिङ्वाच्यकारकवाचिनीति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । समानाधिकरणे किम् । लां पश्यति, लया कियते, तुभ्यं ददाति
Bālamanoramā
तान्येकवचनद्विवचनबहुवचनान्येकशः - अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्तेद्व्येकयोर्दविवचनैकवचने॑बहुषु बहुवचन॑मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह — तान्येक । तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते । तदाह — लब्धप्रथमादिसंज्ञानीति ।एकश॑इत्यस्य विवरणं — प्रत्येकमिति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति शसिति भावः ।
SK 2162 · A 1.4.105V
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ २१६२ ॥
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ
Siddhānta-kaumudī
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥
Bālamanoramā
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः - युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोच्चारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्,लः परस्मैपद॑मित्यतस्तदनुवृत्तेः । तथा च फलितमाह — तिङ्वाच्यकारकवाचिनि युष्मदीति । स्थानं — प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन् । प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति । तथा चस्थानिनी॑त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति । तदाह — अप्रयुज्यमान इति ।स्थानिनी॑त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादावव्याप्तिः स्यात् । अपिना लब्धमाह — प्रयुज्यमानेऽपीति ।युष्मद्युपपदे स्थानिनी॑त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् ।भवानागच्छती॑त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम् ।
SK 2163 · A 1.4.106V
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ २१६३ ॥
prahāse ca manyopapade manyateruttama ekavacca
Siddhānta-kaumudī
मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥
Tattvabodhinī
NSP p. 345–346—प्रहासे—। मन्योपपद इति सप्तम्यन्तस्यानुगुणत्वेन व्याचष्टे—तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थान इत्यर्थः ॥—तथाभूतेति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः ॥—तिङ्गिति—। धात्वधिकारोक्ता इति किम् । हरीन् । शसः ‘सार्वधातुकमपित्’ इति ङित्वे ‘घेङिति’ इति गुणः स्यात्, लिहः श्रियः इत्यादिशसन्तेषु ‘सार्वधातुके यक्’ इति यक् च स्यात् । केचित्तु वारिणीत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तन्न । कृतिति निषेधात्, इगन्तलप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च
Bālamanoramā
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च - प्रहासे च । वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे' इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे — मन्यतेस्तूत्तमः स्यादिति । 'युष्मद्युपपदे' इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मध्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति ।
Footnotes (NSP 1915 ed.)
NSP p. 346 १ कर्तरि—कर्तृग्रहणमुत्तरार्थम्, भावकर्मणोस्तु यका वाधात् । अन्यथापवादविप्रतिपेधेन भावकर्मणोरपि ‘दिवादिभ्यः इयन्’ स्यात् । यक्तु पुरस्तादपवादन्यायेन शप एव वाधकः स्यात् । २ परोक्षे इति—पारोक्षं च साक्षात्कृतमित्येतादृशविपयताशालिज्ञानविपयत्प्रम् । ३ अभूतेति अत्र भूतस्य कालविमानस्य संग्रतिकोणिस्तम्बश्च शित्यम् ।
SK 2164 · A 1.4.107V
अस्मद्युत्तमः ॥ २१६४ ॥
asmadyuttamaḥ
Siddhānta-kaumudī
तथाभूतेऽस्मद्युत्तमः स्यात् ॥
Bālamanoramā
अस्मद्युत्तमः - अस्मद्युत्तमः । तथाभूत इति । तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः ।
SK 2165 · A 1.4.108V
शेषे प्रथमः ॥ २१६५ ॥
śeṣe prathamaḥ
Siddhānta-kaumudī
मध्यमोत्तमयोरविषये प्रथमः स्यात् ।{$ {!1 भू!} सत्तायाम्$} ॥ कर्तृविवक्षायां भू तीति स्थिते ॥
Bālamanoramā
शेषे प्रथमः - शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः । तदाह — मध्यमोत्तमयोरविषय #इति । 'त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः ।देवदत्तस्त्वं च पचथ॑ इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम् । भू सत्तायामिति । 'वर्तते' इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्रभू॑इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते । स्वरूपेणाऽवस्थानमिति यावत् । कर्तृविवक्षायामिति । वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-तीति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः ।
SK 2166 · A 3.4.113सार्वधातुकसंज्ञा
तिङ्शित्सार्वधातुकम् ॥ २१६६ ॥
tiṅśitsārvadhātukam
Siddhānta-kaumudī
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥
Bālamanoramā
तिङ्शित्सार्वधातुकम् - तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह — तिङ्शित् । धातोरित्यधिकृतं । तदाह — धात्वधिकारोक्ता इति । तेनहरी॑नित्यत्र शसः सार्वधातुकत्वं न,अन्यथा तिङ्शित्सार्वधातुक॑मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात् ।
SK 2167 · A 3.1.68V
कर्तरि शप् ॥ २१६७ ॥
kartari śap
Siddhānta-kaumudī
कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥
Tattvabodhinī
NSP p. 346—कर्तरि शप् । ‘सार्वधातुके यक्’ इत्यतः सार्वधातुक इत्यनुवर्तते ‘धातोरेकाचः—’ इति सूत्राद्धातोरिति च, तदाह । कर्त्रयं इत्यादि
Bālamanoramā
कर्तरि शप् - कर्तरि शप् ।सार्वधातुके य॑गित्यस्मात्सार्वधातुक इत्यनुवर्तते ।धातोरेकाचो हलादे॑रित्यस्माद्धातोरिति । तदाह — कत्र्रर्थ इत्यादिना । तिङि परे धातोर्विहितानां प्रत्यायानां शबादीनां विकरणसंज्ञा प्राचीनाचार्यसिद्धा । शपाविताविति । शकारपकारौ 'लशक्वतद्धिते' इतिहलन्त्य॑मिति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोर्लोपेऽकारमात्रं शिष्यत इत्यर्थः ।
SK 2168 · A 7.3.84V
सार्वधातुकार्धधातुकयोः ॥ २१६८ ॥
sārvadhātukārdhadhātukayoḥ
Siddhānta-kaumudī
अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥
Bālamanoramā
सार्वधातुकार्धधातुकयोः - भू-अ-ति-इति स्थिते — सार्वधातुकाद्र्ध । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'मिदेर्गुण' इत्यस्माद्गुण इत्यनुवर्तते । तदाह — अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति ।ओकारस्येटति शेषः । तथा च परिनिष्ठितं रूपमाह — भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते — झोऽन्तः ।
SK 2169 · A 7.1.3V
झोऽन्तः ॥ २१६९ ॥
jho'ntaḥ
Siddhānta-kaumudī
प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे SK 191 । भवन्ति । भवसि । भवथः । भवथ ॥
Tattvabodhinī
NSP p. 346—झोऽन्तः । तकारादकार उच्चारणार्थः । ‘आयनेयीनी—’ इति सूत्रात्प्रत्ययप्रहणमनुवर्तते न लादिग्रहणम्, एकदेशे स्वरितलप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तु शयान्ते इति न सिध्येत् । शीङो ‘लेटोडाटौ’ इत्यन्तरङ्गलादन्तादेशात्प्रागाटि कृते इत्यादिलाभावात्, तदेतदाह—प्रत्ययावयवस्येति । प्राचा तु प्रत्ययान्तस्येत्युक्तं तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तं तदापाततः अन्यत्राप्रवृत्तस्यादिग्रहणस्य निवृत्तलायोगात्, निवृत्तमित्यस्याननुवृत्तमित्यर्थं इति वा कथंचिद्व्याख्येयम् । यत्तु प्रत्ययादेरिति प्रन्थसमर्थनाय व्याचक्षते आङागमे कृते तत्सहितोऽपि प्रत्ययोऽस्तु नाम न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न । अवयवविनिर्मुक्तस्यावयविलायोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिङागमापत्तेः । ननु अङ्गात्परस्य प्रत्ययस्येटः यामुडन्तं तु नाङ्गमिति चेत् । न । आगमविनिर्मुक्तस्यापि प्रत्ययलमिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणवलेन यामुडन्तस्याप्यङ्गताया दुर्वारलात् । किं च लविषीयेत्यत्र विशेषविहितलात्सीयुटि कृते लिङः स्थाने इट् तस्यागमेनादिलविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्नोतीत्याशङ्क्य प्रत्ययस्वरे कर्तव्ये आगमा अविद्यमानवदित्यतिदेश ‘आद्युदात्तश्चे’ति सूत्रे भाष्यादौ स्वीकृतः । न चैतत्केवलस्यापि प्रत्ययत्वे युज्यते, न च तन्मते आगमसहितस्यापि प्रत्ययलादिकारस्याप्युदात्तः स्यात्, तद्वारणाय प्रत्ययस्वरे कर्तव्य इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाकरग्रन्थविरोध इति वाच्यम् । ‘आगमा अनुदात्ताः’ इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते आद्युदात्तलस्य तत्राप्रवृत्तेरिति दिक् ॥—झस्येति । क्षकारादकार उच्चारणार्थः—अतो गुणे इति । ‘अतो दीर्घो यञि’ इति तु न प्रवर्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः
Bālamanoramā
झोऽन्तः - झः अन्त इति च्छेदः । 'झ' इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । 'अन्त्' इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु 'शयान्तै' इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च 'भव-झी' त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्तीति स्थिते, 'अतो गुण' इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्तौ तुस्मा' इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।
SK 2170 · A 7.3.101V
अतो दीर्घो यञि ॥ २१७० ॥
ato dīrgho yañi
Siddhānta-kaumudī
अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे SK 2162 इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥
Tattvabodhinī
NSP p. 346—अतो दीर्घो— ‘तुरुस्तुशम्यमः—’ इति सूत्रात्सार्वधातुक इत्यनुवर्तते । सार्वधातुके किं, केशवः अङ्गना । अत आत् इति वक्तव्ये दीर्घप्रहणं दीर्घ एव यथा स्यादित्येवमर्थम् । अन्यथाऽपाक्षीरोदनं देवदत्त ननु पचामि भोरित्यत्रानन्त्यस्यापि प्रश्नाख्यानयोरिति इतः स्यात् । केचित्तु अत आदिति सुवचं तपरकरणसामर्थ्याद्विकारनिवृत्तिर्भवेदिति इतस्यापि प्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्यादि तु ‘स्थानेऽन्तरतमः’ इत्यनेनैव सिद्धम् । अत एव ‘वृषाकप्यमि—’ इति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तु ‘स्थानेऽन्तरतमः’ इत्येव सिद्धमिति मनोरमादावुक्तम् । ततश्च प्रयोजनाभावात्तपरकरणमनणि विध्यर्थमिति नाशङ्कनीयमेव । यदि तु ‘हल्ङ्याब्भ्यः’ इत्यत्र आ आबिति वदत आ इत्यत्रापि आ आ इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरित्याहुः । ‘प्रहासे च—’ इति सूत्रस्योदाहरणमाह—एहि मन्ये इति । ओदनं भोक्ष्ये इति त्वं मन्यस इत्यर्थः ॥—एतं एत वेति । एतं मन्ये ओदनं भोक्ष्येथे एतं मन्ये ओदनं भोक्ष्यध्वे इत्यन्वयः । भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः
Bālamanoramā
अतो दीर्घो यञि - उत्तमपुरुषैकवचनेऽपि शपि गुणे अवादेशे भव-मि इति स्थिते -अतो दीर्घो यञि ।अङ्गस्ये॑त्यधिकृतमता विशेष्यते । तदन्तविधिः । 'तुरुस्तुशम्यम' इत्यतः सार्वधातुक इत्यनुवृत्तं यञा विशेष्यते । तदादिविधिः । तदाह — अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति भूधातुरेवाऽङ्गं , न तु भवेति विकरणान्तमिति वाच्यं,यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्ग॑मित्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणेऽवादेशे अतोदीर्घे रुत्वे विसर्गे च रूपे । 'न विभक्ता' विति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह — स भवतीत्यादि ।अथ प्रहासे चे॑ति सूत्रस्योदाहरति — एहीति । सर्वेषु भुक्तवत्सु भोक्तुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः ! एहि = आगच्छ, 'ओदनं भोक्ष्ये' इति त्वं मन्यसे, नैतद्युक्तमित्यर्थः । कुतैत्यत आह — भुक्तः सोऽतिथिभिरिति । स ओदनोऽतिथिभिर्भिक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्येतस्तु मध्यमपुरुषे प्राप्ते उत्तमः पुरुषः । #एतम् एत चेति । हे जामातरौ ! आगच्छतम्, 'ओदनं भोक्ष्यावह#ए' इति मन्येथे इति, भो जामातरः ! 'ओदनं भोक्ष्यामहे' इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेरुत्तमे प्राप्ते मध्यमः । मन्यतेस्तु मध्यमे प्राप्ते उत्तमः, द्वित्वबहुत्वयोरेकवचनं व्याचष्टे — मन्यस इत्यादिना । अनुवर्तत इति ।प्रहासे चेति सूत्रे॑ इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाऽभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट्प्रक्रिया ।
SK 2171 · A 3.2.115V
परोक्षे लिट् ॥ २१७१ ॥
parokṣe liṭ
Siddhānta-kaumudī
भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥
Tattvabodhinī
NSP p. 346–347— परोक्षे लिट् । यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव । उक्तं हि भाष्ये—‘क्रियानामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुमिति, तथापि तदनुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्षयमिह विवक्षितम्, तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिट् भवत्येव । अयं पपाच त्वं पेचिथ । ननु क्रियाशब्दवाच्याधि- ध्ययाधः श्रयणादिव्यापाराणां युगपत्रस्य क्षाविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः, ततश्च लिङ्गत्तमपुरुषो दुर्लभ इति चेत् । अत्राहुः । स्वव्यापारस्यापि वर्तमानतादशायां व्यासङ्गादिना स्वयमप्रतिसंधाने ततः कार्येणानुमितौ भवत्येव । ‘वहु जगद पुरस्तात्तस्य मत्ता किलाहम्’ इति वदिति
Bālamanoramā
परोक्षे लिट् - परोक्षे लिट् । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह — भूतानद्यतनेत्यादिना । अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्सूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 347 १ आदिभूतादिति—अनेन चाधिकारसूत्रे द्वितीयस्येति न कर्तव्यमिति ध्वनितम् । २ अन्ये इत्यादि—इतरनिवृत्तिपूर्वकाव-स्थानस्य शेषशब्दार्थत्वादिदमुक्तम् ।
SK 2172 · A 3.4.115आर्धधातुकसंज्ञा
लिट् च ॥ २१७२ ॥
liṭ ca
Siddhānta-kaumudī
लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥
Tattvabodhinī
NSP p. 347—लिङ्गच । आर्धधातुकसंज्ञ एवेति । ‘लङः शाकटायनस्य—’ इति सूत्रादेवकारोऽनुवर्तत इति भावः ॥—परस्मैपदानाम्—। अत्र यशब्दस्याकारो विधीयमानोऽन्तस्य प्राप्नोति । न चाकारस्याकारविधौ निरर्थकलमिति वाच्यम् । यथासंख्यसंपादनेन कृतार्थलात् । अत्राहुः । धातोरित्यधिकारात् ‘आदेः परस्य’ इति व्यञ्जनमात्रस्य कृते, द्वयोः ‘अतो गुणे’ इति पररूपम् । यद्वा द्वयोरकारयोः पररूपेण सूत्रे निर्देशस्तथा चानेकाल्लात्सर्वादेशे सिद्धमिष्टमिति । ननु सुवन्तानामेव द्वन्द्वस्तत्र लकारद्वयकल्पनायां सवर्णदीर्घ एव स्यादिति चेत् । मैवम् । आदेशानां स्थान्यर्थेनैवार्थवत्त्वात् यशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवत्त्व भवतीति समुदितस्य प्रातिपदिकत्वेन ‘अतो गुणे’ इति पररूपस्यैव प्रवृत्तेः ॥—भुवो बुक्—। ‘अचि भुधातु—’ इति सूत्रादचीत्यनुवर्तते तदाह—लुङ्गलिटोरचीति । अचीति किम् । अभूत् अभूः इत्यत्र बुकि सति ‘लोपो व्योः—’ इति लोपं वाधित्वा परलाद्धल्ङ्गादिलोपः स्यात् । ननु हल्ङ्गादिलोपादन्तरङ्गलात् ‘लोपो व्योः—’ इति लोप एव भविष्यति । तथा च मव्यतेर्यङ्छुगन्ताल्लङ्घि तिपसिपोः अमामत् अमाम इत्यत्र व्योर्लोप एव माधवादिभिः स्वीकृतः । एवं चाज्प्रहणं ‘मादुपधाया’— इत्युत्तरार्थमनुवर्तमानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितं न त्वावश्यकतयेत्येव निष्कर्षं उचित इति चेत् । अत्राहुः । ‘भुको वुक्—’ इत्यस्याङ्गलाद्वह्नपेक्षत्वेन हल्ङ्यादिलोपस्येव वुक्रोऽपि बहिरङ्गतया असिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाभावादज्प्रहणमिहार्थमपीत्येव युक्तमिति । अयं च शङ्काग्रन्थः समाधानग्रन्थश्च मनोरमायां स्थितः ॥ अत्र नव्याः । मव्यतेर्यङ्लुगन्त एव नास्ति, अमामदित्यादि रूपं तु दूरादपास्तमेव, यकारवकारान्तानामूढभाविनां यङ्लुग् नास्तीति ‘छ्वोः शूङ्—’ इति सूत्रे भाष्ये ध्वनितम् । कैयटेन स्पष्टीकृतम् । इदं च छ्वोरिति यत्रोद्तद्विषयकं ‘ज्वरत्वर—’ इत्यूढभाविनोः स्त्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । ‘मव्य वन्धने’ अयं यान्तक्रढभावीति मूले वक्ष्यमाणत्वात् । तथाच तद्वन्धेन सहात्रत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः । यदि तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठ्यते तदा तत्र पूर्वापरग्रन्थविरोधो नास्तीति दिक् ॥—अजादेरिति । यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति इन्द्रीयितुमिच्छति इन्दिद्रीयिषति इत्यत्र दकारस्य ‘न न्द्राः—’ इति द्वित्वनिषेधः स्यात्, किंतु अच्चासावादिश्चाजादिस्तस्मादिति कर्मधारयादेषा पञ्चमी तदाह—आदिभूतादचः परस्य त्विति ॥ तत्र—भूवभूव इति । यद्यप्यत्र धात्वयवत्वं प्राथम्यं च न संगच्छते तथापि व्यपदेशिवद्भावेन तद्वोध्यम् । नन्विह चत्वार एकाचस्तत्रावयवात्मयः, तत्र भू ऊ ऊव् इति भूविति समुदायश्चतुर्थः, तथा चानियमेन यस्य कस्यचिद्वित्वं स्यात् । मैवम् । समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यलात्तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत् ॥—अत्रेति । एकाचो द्वे इति प्रकरणे
Bālamanoramā
लिट् च - लिट् च ।लि॑डिति लुप्तस्थानषष्ठन्तम् ।तिङ्शित्सार्वधातुक॑मित्यस्मात्तिङित्यनुवर्तते । 'आर्धधातुकं शेष' इत्यस्मार्धधातुकमिति । तदाह — लिडादेशस्तिङिति । एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह — आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्यैवे॑ति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः ।
SK 2173 · A 3.4.82V
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ २१७३ ॥
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ
Siddhānta-kaumudī
लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥
Bālamanoramā
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः - परस्मैपदानां । लिटस्तझयोरित्यस्माल्लिट इत्यनुवृत्तिमभिप्रेत्याह — लिटस्तिबादीनामिति । णलादय इति । णल्, अतुस्, उस् । थल्, अथुस् अ । णल्, व , म-इत्येते नव यथासङ्ख्यं स्युरित्यर्थः । तत्र तिपो णल् सर्वादेशः । न च णकारलकारयोः 'चुटू' इतिहलन्त्य॑मिति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वामिति वाच्यं, सर्वादेशत्वात्प्राग्णलः प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्तेः । णित्त्वं तु जुहावेत्यादौ वृद्ध्यर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानोऽकारःअलोऽन्त्यस्ये॑त्यन्यस्य स्यात् । अकारस्य अकारविधिस्तु यथासङ्ख्यापादनार्थ इति चेत्, सत्यम्, द्वयोरकारयोः परूपेण 'अ' इति सूत्रे निर्देशादनेकाल्त्वात्सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात्पूर्वं विभक्तित्वाऽभावेन 'न विभक्ता' विति निषेधाऽभावत्सकारस्येत्त्वं दुर्वारमिति वाच्यं, सकारादुपरि सकारान्तस्य संयोगान्तलोपेन लुप्तया श्रूयमाणसकारस्योपदेशेऽन्त्यत्वाऽभावादित्यलम् ।
SK 2174 · A 6.4.88V
भुवो वुग्लुङ्लिटोः ॥ २१७४ ॥
bhuvo vugluṅliṭoḥ
Siddhānta-kaumudī
भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥
Bālamanoramā
भुवो वुग्लुङ्लिटोः - भुवो वुक् । अचीति ।अचि श्नुधात्वि॑त्यतस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वाद्वुकं बाधित्वाअचो ञ्णिती॑ति वृद्धिः स्यात्, बभूविथेत्यत्र तुसार्वधातुकार्धधातुकयो॑रिति गुणः स्यादित्यत आह — नित्यत्वादिति । कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते । ततश्चकृताऽकृतप्रसङ्गी यो विधिः स नित्य॑ इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः । वुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः ।
SK 2175 · A 6.1.1द्वित्वाधिकारः
एकाचो द्वे प्रथमस्य ॥ २१७५ ॥
ekāco dve prathamasya
Bālamanoramā
एकाचो द्वे प्रथमस्य - भूव्-अ इति स्थिते । एकाचः । अजादेः इत्यधिकृत्येति । षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तुष्यङः संप्रसारण॑मित्यतः प्रागनुवर्तेते एवेति भावः ।
SK 2176 · A 6.1.2V
अजादेर्द्वितीयस्य ॥ २१७६ ॥
ajāderdvitīyasya
SK 2177 · A 6.1.8V
लिटि धातोरनभ्यासस्य ॥ २१७७ ॥
liṭi dhātoranabhyāsasya
Siddhānta-kaumudī
लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥
Bālamanoramā
लिटि धातोरनभ्यासस्य - लिटि धातोः ।एकाचो द्वे प्रथमस्ये॑त्यधिकृतं । धातोरित्यवयवषष्ठी । तदाह -धात्ववयवस्येति । 'एकाच' इतिप्रथमस्ये॑ति च धात्ववयवस्य विशेषणम् । एकोऽच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परेऽभ्यासभिन्नस्यैकाऽच्कस्य प्रथमस्य धात्वयवस्य द्वे उच्चारणे स्त इत्यर्थः ।एकाच॑इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् ।अजादेर्द्वितीयस्ये॑त्यप्यधिकृतम् । तत्राऽच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात्पञ्चमी । तदाह — आदिभूतादचः परस्य तु द्वितीयस्येति । 'एकाच' इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद्द्वित्वं तर्हि द्वितीयस्यैवैकाचो द्वित्वं नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याह्मत्यैकाचः प्रथमस्येति कृद्योगलक्षमषष्ठी चाश्रित्य द्विः प्रयोग एवात्र विधीयते, न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् ।आदेशप्रत्यययो॑रिति सूत्रभाष्येऽपि द्विःप्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्राश्रयणे तु इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयित#उमिच्छति इन्दिद्रीयषतीत्यादौन न्द्राः संयोगादय॑ इति दकारस्य द्वित्वनिषेधश्च स्यत्, तत्राऽजादेरित्यनुवृत्तेः । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यान्न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौलिटि धातो॑रिति द्वित्वे कृतेलक्ष्ये लक्षणस्ये॑ति न्यायेन पुनर्द्वित्वस्याऽप्रसक्तेनरनभ्यासग्रहमं व्यर्थमिति वाच्यं, यङन्तात्सन्यङो॑रिति यङ्निमित्तकद्वित्वविशिष्टत्वात्सनि सन्निमित्तकद्वित्वनिवृत्तये, सन्नन्तात्सन्यङो॑रिति कृतद्वित्वाण्णिचि लुङि चङि कृतेचङी॑ति द्वित्वनिवृत्तये चाऽनभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु — कृष्णो नोनाव वृषभो यदीद॑मित्यादौ नुधातोर्यङन्तात्सन्यङो॑रिति कृतद्वित्वान्नोनूयेत्यस्माल्लिटिकास्प्रत्ययादाममन्त्रे लिटी॑ति मन्त्रपर्युदासादामभावे 'यस्य हल' इति यकारलोपे अतो तिपो णलि वृद्धावावादेशो नोनावेत्यत्र यङन्तात्सनि, सन्नन्ताण्णिचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः । तत्र 'भू' इति प्रथमः,ऊ॑विति द्वितीयः, 'ऊ' इति व्यपदेशिवद्भावेन तृतीय एकाच्,भू॑विति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वेऽवयवा द्विरुच्यन्त इतिभू॑विति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टं । तदाह — भूव् भूव् अ इति स्थित इति । अत्रभू॑वित्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्बोध्यम् ।
SK 2178 · A 6.1.4अभ्याससंज्ञा
पूर्वोऽभ्यासः ॥ २१७८ ॥
pūrvo'bhyāsaḥ
Siddhānta-kaumudī
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥
Bālamanoramā
पूर्वोऽभ्यासः - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां 'द्वे' इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति ।
SK 2179 · A 7.4.60V
हलादिः शेषः ॥ २१७९ ॥
halādiḥ śeṣaḥ
Siddhānta-kaumudī
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥
Tattvabodhinī
NSP p. 347—हलादिः—। अभ्यासस्येति जातिपरो निर्देशस्तेन आततुः आटतुरित्यादौ तकारादिनि- वृत्तिः सिद्ध्यति, कचिदभ्यासे आदेर्हलः सत्त्वमाश्रित्य सर्वत्रानादेर्लोपविधानात्
Bālamanoramā
हलादिः शेषः - हलादिः शेषः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः, कर्मणि घञ् । शिषधातुरितरनिवृत्तिपूर्वकाविस्थितौ । तदाह — अभ्यासस्येत्यादिना । इति वलोप इति । भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः ।
SK 2180 · A 7.4.59V
ह्रस्वः ॥ २१८० ॥
hrasvaḥ
Siddhānta-kaumudī
अभ्यासस्याचो ह्रस्वः स्यात् ॥
Bālamanoramā
ह्रस्वः - भू भूव् अ इति स्थिते — ह्रस्वः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह — अभ्यासस्याऽचेति । भु भूव् अ इति स्थितम् । यद्यपि 'भवतेर' इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम् ।
SK 2181 · A 7.4.73V
भवतेरः ॥ २१८१ ॥
bhavateraḥ
Siddhānta-kaumudī
भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥
Tattvabodhinī
NSP p. 347–348—भवतेरः । ‘अत्र लोपोऽभ्यासस्य’ इति सूत्रादभ्यासपदमनुवर्तते । अत्र प्राचोक्तम् । भवतेरिति कर्तृनिर्देशात् भावकर्मणोर्नालमिति, व्याख्यातं च तत्पौ- त्रेण कर्त्रर्थयोः दितपश्योर्निर्देशादित्यर्थं इति । तन्न । धातुनिर्देशमात्रे दितपो विधानात् शपथ विकरणत्वेनानर्थकत्वात् कर्त्र्यके परे विहितस्यापि तस्य दितपः शित्वसामर्थ्यादेवेह प्रवृत्तेः, अन्यथा लङ्कुरीत्या ‘उपसर्गात्सुनोतिसुवति—इत्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपश्च एव स्यात्, अपसिद्धान्तश्चायमिति स्पष्टमेवाकरदृशाम् । प्रयुञ्जते च कर्मण्यप्यकारं कवयः ‘तस्यातपत्रं विभरांवभूवे’ ‘विभावरीभिर्विभरांवभूविरे’ इत्यादि । एतच्च प्रक्रियाप्रसादप्रन्थदूषणं मनोरमायां स्थितम् । अत्र नव्याः । दितपः शित्वसामर्थ्यादेवेह शपः प्रवृत्तिरिति यदुक्तं तन्न । पिवति ग्लायतिरित्यादौ पिबाद्यादेश-प्रवृत्त्या आत्त्वनिवृत्त्या च शित्वस्य चरितार्थलात् । एवं च ‘उपसर्गात्सुनोतिसुवति—’, ‘भवतेरः’, ‘ध्यायतेः संप्रसारणं च’ इत्यादिनिदेशादकर्तृवाचिन्यपि परे शवादय इत्येव व्याख्येयम् । अन्यथा ‘इक्ष्वितपौ—’ इति सूत्रे वक्ष्यमाणस्वप्रन्थेन सह विरोधापत्तेः । केचित्तु शित्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौ ‘आर्धधातुकत्येह वलादेः’ इतीडागमनिवृत्त्या, ब्रवीतिरित्यत्र ‘श्रुव इंद्’ इतीडागमप्रवृत्त्या च शित्वं चरितार्थमिति व्याचख्युः, तच्चिन्त्यम् । ‘तितुत्र—’ इत्यनेनेण्निषेधादार्थधातुकत्वेऽपि क्षत्यभावात् । ‘श्रुव इंद्’ इत्यत्र श्रुवः परस्य हलादेः पित इंडागम इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकत्येति विशेषणाभावेऽपि क्षत्यभावात् । न च हलादेः पितप्रत्ययस्य सार्वधातुकत्येति विशेषणाभावे श्रुवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्रातिप्रसङ्गः स्यादिति वाच्यम् । थलोऽत्र पित्वाभावात् । न च स्थानिवद्भावेन पित्त्वं, भ्रः शानचः शित्वेन लिङ्गेन कचिदनुबन्धकार्येऽप्यनत्विधाविति तन्निषेधात् । तस्मात्पूर्वोक्तरीत्यैव दितपः शित्वसामर्थ्याकद- तैर्यपि शपः प्रवृत्तिरिति ग्रन्थो निराकर्तव्य इत्याहुः । तदपरे न क्षमन्ते । थलः पित्तवाभावे हि ‘असंयोगाल्लिद् कित्’ इति कित्वात् ‘वचित्सपि—’ इति संप्रसारणे सत्युवचिथ उवक्थेति न सिद्धेत् किंतु ऊचिथ ऊक्थेति स्यात् । तस्मात्स्था-निवर्त्त्वेन थलः कित्वेऽभ्युपगते उवक्थेत्यादावतिप्रसङ्गवारणाय पितः सार्वधातुकस्येडागम इति व्याख्यातव्यमेव, तथाच ब्रवीतिरित्यत्र इंडागमप्रवृत्त्या शित्वं चरितार्थमिति कैश्चिद्धक्तं तदपि सम्यगेवेति
Bālamanoramā
भवतेरः - भवतेरः । भवतेः- अ इति छेदः । भवतेरिति निर्देशः । भूधातोरित्यर्थः ।इक्श्तिपौ धातुनिर्देशे॑ इत्युक्तेः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येनुव्रतते । 'व्यथो लिटि' इत्यस्माल्लिटीति । भूधातोरभ्यासस्य भवन्नकारः 'अलोऽन्त्यस्ये' त्यन्त्यस्योकारस्य भवति । तदाह - अभ्यासोकारस्येति ।नानर्थकेऽलोन्त्यविधि॑रिति तु नेह प्रवर्तते, 'अनभ्यासविकारे' इत्युक्तेः ।
SK 2182 · A 8.4.54V
अभ्यासे चर्च ॥ २१८२ ॥
abhyāse carca
Siddhānta-kaumudī
अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥
Bālamanoramā
अभ्यासे चर्च्च - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — 'शर्पूर्वाः खय' इति । हकारस्य त्वभ्यासे 'कुहोश्चु' रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।
SK 2183 · A 6.4.22असिद्धवदधिकारः
असिद्धवदत्राभात् ॥ २१८३ ॥
asiddhavadatrābhāt
Siddhānta-kaumudī
इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ।
vārttikaवुग्युटावुवङयणोः सिद्धौ वक्तव्यौ
(वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥
Tattvabodhinī
NSP p. 348–349—असिद्धवदत्राभात् । वत्करणं प्रतिपत्तिलघवाय, अन्यथा सिद्धे असिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात् । यथा राज-भिन्ने पुरोहिते राजायमिति प्रयोगो राजवदिति कथंचित्कल्पयति, राजवदयं पुरोहित इत्युक्ते तु लघुप्रतिपत्तिर्भवति, तथा चागत्या ‘षलतुकोरसिद्धः’ इत्यत्रासिद्धवदिति कल्प्यते । ‘असंयोगाल्लिद् कित्’ इत्यत्रापि किद्वदित्यगत्यैव कल्प्यत इति ज्ञेयम् । आ भादित्यभिविधावाह् । भाधिकारमभिव्याप्येत्यर्थः । अधिकारश्चायम् । अत्रप्रहणं समानाश्रयप्रतिपत्त्यर्थम् । आभाद्प्रहणं विषयनिर्देशार्थम् । भाधिकारस्यावधिलाभस्तु ‘अङ्गस्य’, ‘प्रत्ययः’, ‘परश्व’ इत्यादाविव व्याख्यानेनैव सिद्ध्यति । एवं ‘अनुदात्तोपदेशे’त्यत्रास्योपस्थाने सत्ययमर्थो भवति । एषामनुनासिकस्य लोपः स्याज्झलादौ क्विति परे स चासिद्धो भवति । अत्र झलादिकिदाश्रित्यैव यदाभीयं प्राप्नोति तस्मिन्कर्तव्ये सति जङ्गहि जङ्गहि ‘अतो हेः’ इति लुग् न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनासिद्धत्वात् । नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि । ततश्च ‘ध्वसोः—’ इत्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नासिद्धं स्यादिति चेत् । भवेदयं दोषः शब्दाधिकारे । अर्थाधिकारस्त्वयम् । ततश्चेह ‘श्रान्नलोपः’ इत्यवधिनिर्णीतः स एव प्रतिसूत्र-मुपतिष्ठते, तदेतत्सकलमभिप्रेत्याह—इत ऊर्ध्वमिति । अत्रापि शास्त्रासिद्धत्वमेवाकरे स्थितम् । तेन एधि शाधीत्यत्र स्थानिनो झलन्तलबुद्धेरनिवर्तितत्वात्तन्निवन्धनं ‘हुन्नल्भ्यो हेर्षिः’ इति धित्वं सिद्ध्यति । प्राचोक्तकार्यासिद्धत्वपक्षे तु न सिद्ध्यति । देवदत्तस्य हन्तरि हते देवदत्तस्य जीवनं नेति न्यायेन एत्वविधिना झल्बुद्धौ निवर्तितायां पश्चादेत्यबुद्धिनिवर्तनेऽपि धित्वकार्यस्याप्रवृत्तेरित्याहुः । समानाश्रये इति किम् । पपुषः । चिच्युषः । लुलुषुषः । इह पाधातोश्विष्णो लुलश्च परस्य वसोर्यत्संप्रसारणं तत् ‘आतो लोप इटि च’ इत्यालोपे ‘एरनेकाचः—’ इति यण्युवहि च कर्तव्ये नासिद्धम् । आलोपादीनि हि क्वसौ, संप्रसारणं तु विभक्ताविति व्याश्रयत्वात् । न च बहिरङ्गत्वेनासिद्धतास्त्विति शङ्क्यम् । ‘नाजानन्तर्ये’ इति निपेधात् । ‘वाह ऊट्’ सूत्रस्थवहिरङ्गपरिभाषाया अप्याभीयत्वेनाल्लोपादिषु कर्तव्येष्वसिद्धत्वाच्च । न चोक्तपरिभाषाया अल्लोपादीनां च समानाश्रयत्वं नेति शङ्क्यम् । वसोः संप्रसाणे कृते ह्याजाद्याश्रयेणाल्लोपादीनि प्रवर्तन्ते तेषु कर्तव्येषु संप्रसारणस्यासिद्धत्वाय तद्विषये बहिरङ्गपरिभाषापि प्रवर्तत इति तेषां तत्सत्वादिति दिक् । विषयलाभार्थमाभाद्वहणं किम् । आभीयं प्रत्येवाभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम् । तेन अभाजि राग इत्यत्र ‘भजेश्च चिणि’, ‘रजेश्च’, ‘घनि च भावकरणयोः’ इति नलोपे कृते तस्यासिद्धत्वाभावात् ‘अत उपधायाः’ इति वृद्धिर्भवतीत्याहुः ॥ स्यादेतत् । देभतुः देभुरित्यत्र ‘श्रन्थिप्रन्थिदन्भि—’ इति वक्ष्यमाणवचनेन लिटः कित्वान्नलोपेऽप्येत्याभ्यासलोपौ न स्यातां, नलोप-स्यासिद्धत्वात् । अत्राहुः । ‘श्रसोरल्लोपः’ इति तपरकरणाल्लिङ्गादाभीयासिद्धत्वमनित्यमिति नास्त्यत्र दोषः । तपरकरणं हि करणेन । एवं च ‘दम्भेश्च’ इति वक्ष्यमाणं तपर्यं वार्तिकं किं विनित्यत्वबललम्यमेवेति ॥—बुक इति । ‘भुवो बुक्’ शास्त्रस्य । एवमग्रेऽपि । युट उदाहरणं दिदीपे ॥—वभूवेति । अत्र प्राचा ‘इन्धिभवतिभ्यां च’ इति सूत्रं पितोऽपि लिटः कित्वार्थमिति व्याख्याय ‘अचोऽञ्ज्यिति’ इति वृद्धिप्राप्तौ ‘क्विति च’ इति निषेध इत्युक्तं तदुपेक्षितम् । इग्लक्षणयोरेव गुणवृद्ध्योर्निषेध इति सिद्धान्तात् । अन्यथा इक्स्थानिकयोर्निषेधे लैगवायन इत्यत्रापि वृद्धिर्न स्यात् । न चात्र कित्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धेर्निषेध इति वाच्यम् । थलि उत्तमे णलि च गुणनिषेधेन कित्वस्य चरितार्थलात् । सूत्रं तु प्रत्याख्यातमेवाकरे । तथाच वार्तिकम् ‘इन्धेइछन्दोविषयलाङ्गुवो वुको नित्यलात्ताभ्यां लिटः किद्वचनानर्थक्यम्’ इति । यद्यपीह शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताकृतप्रसङ्गिलमात्रेणापि क्वचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रधेणिचि परामप्युपधावृद्धिं वाधित्वा नित्यलात् ‘रधिजमोरचि’ इति नुमि कृते रन्धयतीति सिद्धम् । नन्वेवमपि संयोगात्परस्य लिटः कित्वार्थमिन्धेश्वेत्यंशोऽपेक्षित एव । अन्यथा ‘समीधे दस्यु हन्तमम्’ इत्यत्रेन्धेर्नलोपो न स्यात् । मैवम् । ‘छन्दस्युभयथा’ इति सूत्रेण हि सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा च विधीयते, तेन ‘सार्वधातुकमपित्’ इति लिटो डित्वे स्यादेव नलोप इति वार्तिकाशयात् । अत्र नव्याः । वभूवेत्यत्र ‘द्विर्वचनेऽचि’ इत्यजादेशस्य निषेधाङ्गुणवृद्धिभ्यां प्रागेव वुकः प्रवृत्त्या भुवो वुको नित्यलादिति वार्तिके नित्यलादिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरस्य प्राप्त्या वुको नित्यत्वं नास्तीत्याशङ्क्य कृताकृतप्रसङ्गिलमात्रेणापि क्वचिन्नित्यत्वं स्वीक्रियत इत्यादि- समाधानमपि व्यर्थमेवेत्याक्षिप्य खयमेव समादधुः । पाष्ठद्विलप्रकरणान्ते हि वार्तिककृता पूर्वविप्रतिषेधः पत्र्यते ‘द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः’ इति । तथाच ‘द्विर्वचनेऽचि’ इति सूत्रं नारम्भणीयमित्याशयेन नित्यलादिति हेतुरुपन्यस्त इति । ‘द्विर्वचनेऽचि’ इति सूत्रेणाजादेशस्य स्थानिवद्भावो विधीयत इति पक्षे तु द्विलात्प्रागेव वृद्ध्याद्यादेशस्य स्वीकृतलादादेशानन्तरमपि बुकः प्रवृत्तिरस्तीति भुवो बुको नित्यलादित्यादिग्रन्थः सम्यगेव । न चैवमपि नामधातुषु लापयति मापयतीत्यत्र मपर्यन्तस्य लमौ पररूपात्पूर्वं नित्यलादिलोप इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यम् । ‘प्रकृत्यैकाच्’ इति सूत्रं भाष्ये प्रत्याख्यातमित्याशयेन तत्प्रवृत्तेः । अत एव लादयति मादयतीत्येवं न्याय्यमिति तत्रोक्तमिति दिक्
Bālamanoramā
असिद्धवदत्राभात् - तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थितेअचि श्नुधात्वि॑त्युवङादेशमाशङ्कितुमाह — असिद्धवदत्रा । षष्ठस्य चतुर्थपादे इदं सूत्रं 'श्नान्नलोप' इति सूत्रात्पूर्वं पठितम् । आ भादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः । तथा च आ पादपरिसमाप्तेरिति लभ्यते ।विहितं कार्य॑मिति शेषः । किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते । ततश्चा 'श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते । एवं च 'श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं 'श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात्समानाश्रये कार्ये कर्तव्ये सती॑ति लभ्यते । एतत्सर्वं भाष्ये स्थितम् । तदाह — इत ऊध्र्वमित्यादिना । तस्मिन्निति । आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्रध्वसोरेद्धावभ्यासलोपश्चे॑त्यस्तेरेत्वस्यशाहा॑विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात्हुझल्भ्यो हेर्धि॑रिति हेर्धित्वमाभीयं प्रवर्तते । तथाजङ्घही॑त्याद्यप्युदाहरणम् । हन धातोर्यङ्लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावेअनुदात्तोपदेशे॑ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति । समानाश्रय इति किम् । 'पपुष' इत्यत्र पाधातोर्लिटः क्वसौलिटि धातो॑रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम् ।आतो लोप इटि चे॑त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते,भञ्जेश्च चिणि॑,घञि च भावकरणयो॑रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात् । आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्रबहोर्लोपो भूच बहो॑रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम् । इति वुकोऽसिद्धत्वादिति । वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवडणोरिति । यथासङ्ख्यमन्वयः । बभूवेति । णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम् । बभूवतुरिति । तसोऽतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति । जेरुसादेशे वुगादि पूर्ववत् ।
Footnotes (NSP 1915 ed.)
NSP p. 349 १) बभूवेति—अभ्यासविकारेषु बाध्यवाक्कमावाभावेन हलदिःशैपात्वयोरत्र समावेशो बोधः ।।
SK 2184 · A 7.2.35V
आर्धधातुकस्येड् वलादेः ॥ २१८४ ॥
ārdhadhātukasyeḍ valādeḥ
Siddhānta-kaumudī
वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥
Tattvabodhinī
NSP p. 349—आर्धधातुकस्येङ्गलादेः । ‘नेड्डशिकृति’ इत्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंवद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तु ‘समर्थानां प्रथमाद्वा’ इत्यनुवृत्तस्य पदत्रयस्य मध्ये ‘प्राग्दिशः—’ इत्यनन्तरं ‘समर्थानां प्रथमात्—’ इति निवृत्तं ‘वा’ इति लनुवर्तत इति व्याख्यानमिव नेति निवृत्तम्, इडित्यनुवर्तत इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्यक्तुं शक्यं, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् । आस्ते, शेते । वलादेः किम् । एधनीयम् । ननु ‘रुदादिभ्यः सार्वधातुके’ इत्यनेन सार्वधातुकस्य यदीड् भवति तर्हि रुदादिभ्य एवेति नियमादास्ते शेत इत्यत्र इद् न भवेदित्यार्धधातुकस्येति ग्रहणं व्यर्थम् । न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रो- दितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम् । ‘रुदविदमुषमहिसपिप्रच्छः संश्व’ इति क्लासनोः कित्वस्य वैयर्थ्यप्रसङ्गात् लङ्कुरीत्या रुदादेः क्लासनोरिडागमाभावेन ‘न क्ला सेट्’ इति निषेधाग्रवृत्त्या क्लाप्रत्यये औपदेशिककिलस्य सुस्थलात् । ‘हलन्ताच्च’ इति झलादिसनः किलाच्च । तस्माद्विपरीतनियमासंभवेनार्धधातुकप्रहणं व्यर्थमेव । ननु तद्ब्रह्णाभावे वलादेरित्यस्याङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽप्यङ्गस्य स्यात् । मैवम् । कृतेऽप्यार्धधातुकप्रहणे वलादार्धधातुकस्य यदङ्गं तस्येडागम इति व्याख्यानापत्त्योक्तदोषतादवस्थ्यादकृतेऽपि तद्ब्रह्णेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयधापि व्याख्याने शरणीकर्तव्ये ‘आर्धधातुकस्य—इत्यस्य त्याग एव श्रेयान् । नन्वेवं केशवः, अङ्गना, वृक्षलमित्यत्रेट् स्यात् ‘ऋत इद्धातोः’ इत्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमो विहितविशेषणेनाप्ययं वारयितुमशक्यः, किञ्चन्ताः धातुत्वं न जहतीति पूभ्यां पूभिरित्यत्र भ्यामादेर्धातोर्विहितलानपायात् । किञ्च जुगुप्सते इत्यादौ ‘गुप्तिज्किञ्च्यः—’ इति धातोर्विहितस्य सन इट् दुर्वारः स्यात् । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं तच्च दुर्लभम् । ‘ऋत इद्धातोः’ इत्यत्र धातोरिति षष्ठ्यन्तत्वात्, तथा च वृक्षलमित्यादावपीडागमप्रसङ्ग इति वाच्यम् । शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात् । अस्तु वा षष्ठ्यन्तत्वं, विहितत्वं षष्ठ्यर्थं इति व्याख्यायामिष्टसिद्धेः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमार्धधातुकस्येति ग्रह- णम् । केचित्तु धातोरित्यावर्त्य धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्येडिति यदि व्याख्यायेत तदा ल्र्भ्यां जुगुप्सत इत्य- त्रातिप्रसङ्गाभावादार्धधातुकस्येति व्यर्थमित्याहुः ॥—बभूविवेति । न चात्र ‘श्रुकः किंति’ इतीण्निषेधे बुगागमोऽपि न स्यादिति शङ्काम् । कादिनियमादिटः प्रवृत्तेः
Bālamanoramā
आर्धधातुकस्येड् वलादेः - सिपस्थलि बभू थ इति स्थिते — आर्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आर्धधातुकस्येति किम् । जुगुप्सति । अत्र 'गुप्तिज्किद्भ्य' इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नार्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया ।
SK 2185 · A 3.3.15V
अनद्यतने लुट् ॥ २१८५ ॥
anadyatane luṭ
Siddhānta-kaumudī
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥
Tattvabodhinī
NSP p. 349–350—अनद्यतने—। अतीताया रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन सहितो दिवसोऽथतन इति 'कालोपसर्जने च तुल्यम्' इत्यत्र स्थितम्
Bālamanoramā
अनद्यतने लुट् - अनद्यतने लुट् । धातोरित्यधिकृतम् । 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह — भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः ।
SK 2186 · A 3.1.33V
स्यतासी लृलुटोः ॥ २१८६ ॥
syatāsī lṛluṭoḥ
Siddhānta-kaumudī
लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥
Bālamanoramā
स्यतासी लृलुटोः - भू-तीति स्थितेकर्तरि शबि॑ति शपि प्राप्ते — स्यतासी लृ । स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । ग्रहणमिति । लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः । धातोरित्यधिकृतम् । तदाह — धातोरिति ।
SK 2187 · A 3.4.114आर्धधातुकसंज्ञा
आर्धधातुकं शेषः ॥ २१८७ ॥
ārdhadhātukaṃ śeṣaḥ
Siddhānta-kaumudī
तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
Tattvabodhinī
NSP p. 350—आर्धधातुकम्—॥—धातोरिति । 'धातोरेकाचः—'इत्यतः धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् ॥ धातोरितिविहितेति किम् । लभ्यां जुगुप्सते ॥—अनेकव्यवहितस्येति । सार्वधातुकादिकमिको विशेषणं न लङ्गस्येति भावः
Bālamanoramā
आर्धधातुकं शेषः - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च 'जुगुप्सते' इत्यादौ 'गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।
SK 2188 · A 2.4.85V
लुटः प्रथमस्य डारौरसः ॥ २१८८ ॥
luṭaḥ prathamasya ḍāraurasaḥ
Siddhānta-kaumudī
डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥
Bālamanoramā
लुटः प्रथमस्य डारौरसः - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'लुट' इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामर्थ्याट्टेरिति टिलोप इत्यर्थः ।
SK 2189 · A 7.3.86V
पुगन्तलघूपधस्य च ॥ २१८९ ॥
pugantalaghūpadhasya ca
Siddhānta-kaumudī
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥
Bālamanoramā
पुगन्तलघूपधस्य च - तथा च भावित् — आ इति स्थिते — पुगन्तलघु । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तं । लघ्वी उपधा यस्य तल्लघूपधं । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितं स्थानषष्ठन्तमाश्रीयते । तदाह — पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टत्याद्युदाहरणम् । नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह — येन नेति । येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत आह — वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह -तेनेति । अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् - आ इति स्थिते डाभावसंपन्नस्याऽऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात् ।
SK 2190 · A 1.1.6V
दीधीवेवीटाम् ॥ २१९० ॥
dīdhīvevīṭām
Siddhānta-kaumudī
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥
Bālamanoramā
दीधीवेवीटाम् - दीधीवेवी ।दीधीह् दीप्तिदेवनयोः॑वेवीङ् वेतिनी तुल्ये॑ । दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इत्यतो गुणवृद्धी इति, 'न धातुलोप' इत्यतो नेति चानुवर्तते ।
SK 2191 · A 7.4.50V
तासस्त्योर्लोपः ॥ २१९१ ॥
tāsastyorlopaḥ
Siddhānta-kaumudī
तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥
Tattvabodhinī
NSP p. 350—तासस्त्योः—। 'सस्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तप्रत्ययस्य सीत्यनेन विशेषणात् । 'यस्मिन्विधिः—' इति तदादिविधिस्तदिदमाह—सादाविति । एवं रादावित्यत्राप्यूह्यम् ॥—प्राग्वदिति । तासेलोप इत्यर्थः । अस्तिस्तु नेह संवध्यते, ततो रादिप्रत्ययस्य संभवात्
Bālamanoramā
तासस्त्योर्लोपः - तदाह — तासस्त्योः । 'सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् ।
SK 2192 · A 7.4.51V
रि च ॥ २१९२ ॥
ri ca
Siddhānta-kaumudī
रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥
Bālamanoramā
रि च - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् ।
SK 2193 · A 3.3.13V
लृट् शेषे च ॥ २१९३ ॥
lṛṭ śeṣe ca
Siddhānta-kaumudī
भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥
Tattvabodhinī
NSP p. 350—लट् शेषे च । 'तुमुन्णुलौ क्रियायां क्रियार्थायाम्' इति प्रायुक्तं ततोऽन्यः शेष इत्याह—असत्यामिति । चार्थमाह—सत्यामिति । हरदत्तस्त्वाह । अखरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं च शेषे चेति सुत्यजमिति । तच्चिन्त्यम् । शयिष्यत इति स्थीयत इत्यादौ तुमुना लटो वाधापत्तेः । कल्युट्तुमुन्खल्धेषु वासरूपविधेरभावात् । अत्र च ज्ञापकं 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इत्यत्र लोटा वाधा माभूदिति पुनः कृत्यविधिरित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत् । यत्तु प्राचा भविष्यतीति ब्रजतीत्युदाहृतं तदापाततः । तुमुन्विषयेऽपि लट् भवति तुमुना ल्ष्ण वाध्यत इत्येतत्प्रतिपादनाय तस्यानुपयोगात् । न हि भविष्यतीत्यत्र कर्तारे तुमुनः प्राप्तिरस्ति, भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लङ्त्येतावत्सूत्रकरणेऽपि भविष्यतीति ब्रजतीत्ययं सिद्ध्यत्येवेत्यास्तां तावत्
Bālamanoramā
लृट् शेषे च - लृट् शेषे च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह -असत्यामिति । चार्थमाह — सत्यमिति । हरदत्तस्त्वाह — अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं चशेषे चे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑ इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधेरभावात् । अत्र च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत् । यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते॑ इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् । स्य इडिति । लृटस्तिपिस्यतासी लृलुटो॑रिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वादिडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादौ भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौअतो दीर्घो यञी॑ति दीर्घः । इति लृट्प्रक्रिया ।
SK 2194 · A 3.3.162V
लोट् च ॥ २१९४ ॥
loṭ ca
Siddhānta-kaumudī
विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥
Tattvabodhinī
NSP p. 350—लोट् च । 'विधिनिमन्त्रणा—' इत्याद्यनुवर्तते तदाह—विध्यादिष्विति
SK 2195 · A 3.3.173V
आशिषि लिङ्लोटौ ॥ २१९५ ॥
āśiṣi liṅloṭau
Tattvabodhinī
NSP p. 350—आशिषि लिङ्लोटौ । ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशीःस्वित्युच्यतां किमनेन पृथक्सूत्रकरणेनेति चेत् । अत्राहुः । इह हि 'क्तिचूकौ च—' इत्युत्तरसूत्रार्थमाशिषीति तावदावश्यकम् । लिङ्लोटावपीहैव विधेयौ । विध्यादिसूत्रे आशीर्प्रहणे हि 'स्मे लोट्' इत्यादिना स्वविषये परलाक्षाधः स्यात् । सिद्धान्ते तु परलादेष विधिः 'स्मे लोट्' इत्यादेर्वाधक इति नहान्विशेष इति
Bālamanoramā
आशिषि लिङ्लोटौ - आशिषि लिङ् । आशिष्यपीत्यर्थः । आशासनमासीः, इष्टप्राप्तीच्छा ।
SK 2196 · A 3.4.86V
एरुः ॥ २१९६ ॥
eruḥ
Siddhānta-kaumudī
लोट इकारस्य उः स्यात् । भवतु ॥
SK 2197 · A 7.1.35V
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् ॥ २१९७ ॥
tuhyostātaṅṅāśiṣyanyatarasyām
Siddhānta-kaumudī
आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-SK 43 इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥
Tattvabodhinī
NSP p. 350—तुह्योस्तातङ्—। यद्यपि तिह्योस्तातङ्ति वक्तुं शक्यं तथापि लाघवाभावादतिप्रसङ्गवारणाय हिशब्दसाहचर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्योरित्युक्तम्
Bālamanoramā
तुह्योस्तातङाशिष्यन्यतरस्याम् - अथाऽऽशिषि लोटो विशेषमाह -तुह्रोस्तातङ् । तुश्च हिश्च तुही, तयोरिति विग्रहः । तातङि ङकार इत् । अकार उच्चारणार्थः । तादित्यादेशः शिष्यते । ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह — अनेकाल्त्वात्सर्वादेश इति । ननुङिच्चे॑त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते — यद्यपीति । परिहरति — तथापीति । परेण बाध्यत इति । तातङादेशेङिच्चे॑त्ययं विधिःअनेकाल्शित्सर्वस्ये॑ति परेण बाध्यत इत्यर्थः । ननुपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह — मन्थरं प्रवृत्त इति ।ङिच्चेति विधि॑रिति शेषः । तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह — अनन्यार्थेत्यादिना । अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम् । तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः — लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः । तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह — सम्भवत्प्रयोजनङकारे इति । सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ- । कथं सम्भवत्प्रयोजनकत्वमित्यत आह — गुणवृद्धिप्रतिषेध-सम्प्रसारणाद्यर्थतयेति । द्विष्टादित्यादौ लघूपधादिगुणनिषेधः । स्तुतात्,युतादित्यादा॑वुतो वृद्धिर्लुक हली॑ति विहिताया वृद्धेर्निषेधः । 'वश कान्तौ' उष्टादित्यत्रग्रहिज्यावयी॑ति सम्प्रसारणम् । आदिना ब्राऊतादित्यत्रब्राउव ई॑डितीटोऽभावस्य सङ्ग्रहः । ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापिपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय॑ इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह — इहेति । इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः । अयं भावः — अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये — ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश॑ इति । अधिकास्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः । ङकार इत् । द्वितीयतकारादकार उच्चारणार्थः ।
SK 2198 · A 3.4.85लकारप्रत्ययातिदेशः
लोटो लङ्वत् ॥ २१९८ ॥
loṭo laṅvat
Siddhānta-kaumudī
लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
Tattvabodhinī
NSP p. 350–351—लोटो लङ्वत् । लोट इत्युपमेये षष्ठीदर्शनादुपमानादपि पश्चान्तादेव वतिस्तदाह—तेनेति । अडाटौ तु नातिदिश्येते । न हि तौ लङः क्रियेते किं तु लङि अङ्गस्येति भावः । नन्वेवमपि यान्तु वान्तु इत्यत्र 'लङः शाकटायनस्य—' इति जुस् स्यात्, जुह्वतु विदन्त्वित्यत्र तु 'सिजभ्यस्त—' इति जुस्त्यात् । अत्राहुः । 'विदो लटो वा' इति वाग्रहणमिहानुवर्त्य व्यवस्थितविभाषाश्रयणान्न जुस् । यद्वा ‘लङः शाकटायनस्य—’ इति सूत्रे ‘नित्यं ङितः’ इत्यतो ङित इत्यनुवृत्त्यैवेष्टसिद्धेर्लङ्प्रहणमतिरिच्यते, लङि सिचा लङि स्यप्रत्ययेन च व्यवधानात्, लङि तु ‘क्षेर्जुस्’ इति जुसो विहितत्वाच्च । ङित इत्यस्य लङ्येव पर्यवसानात्ततो लङ्प्रहणं विभज्यते । नियमश्चायं ‘लङेव यो लङ् तस्यैव क्षेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्येत्यतो नोक्तदोष’ इति । तच्चिन्त्यम् । अदुरित्यत्र ‘सिजभ्यस्त—’ इति नित्यजुसं वाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्मालङ्प्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न च ‘आतः’ इति सूत्रेणादुरित्यत्र नित्यं जुस्स्यादिति वाच्यम् । तस्य नियमार्थत्वेन विध्यर्थत्वायोगात्, अन्यथा अभूवात्रित्यत्र ‘सिजभ्यस्त—’ इति जुस् दुर्वार एव स्यादिति नव्याः । यदि त्विह ‘आतः’ इति सूत्रमावर्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तदोषाभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात्, तदभावपक्षे पुनःप्रसङ्गविज्ञानात् । ‘सिजभ्यस्त—’ इति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवेति दिक् ॥—सकारान्तस्येति । ङिल्लकारोत्तमसकारस्येति प्राचो व्याख्यानं त्वयुक्तं, भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः ॥—ङिदुत्तमस्येति । ङिल्लकारोत्तमस्येत्यर्थः । तेन भवावः भवाम इत्यादौ नातिप्रसङ्गः ॥—सोऽपिच्चेति । एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तु ‘स्थानेऽन्तरतमः’ इत्यनुदात्तो न भवति ‘जहि शत्रून्’ ‘सुहि श्रुतम्’ ॥—भवतादिति । जुगपेक्षया परलादेस्तातङ्, अनन्तरङ्गमेव छुक् वाधते न तु परमिति भावः ॥—स पिच्चेति । स इति तच्छब्देन यस्याङ्गमः स परामृश्यत इत्याहुः
Bālamanoramā
लोटो लङ्वत् - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 351 भवतादिति—लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गानपीति न्यायस्तु शापकसिद्धत्वादनित्य इति शब्देन्दुशेखरे । २ अनद्य-तने इति—अयं बहुव्रीहिः, तेन अद्य श्रो वा भुङ्क्ष्महि इत्यत्र लुङेव । ३ संप्रश्नेति—संप्रश्नः विचारः तद्वा कर्तव्यमेतद्वेत्यादिरूपः ।
SK 2199 · A 3.4.101V
तस्थस्थमिपां तांतंतामः ॥ २१९९ ॥
tasthasthamipāṃ tāṃtaṃtāmaḥ
Siddhānta-kaumudī
ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥
Bālamanoramā
तस्थस्थमिपां तांतंतामः - तस्थस्थमिपां । तस्,थस्, थ, मिप्, — एषां द्वन्द्वात्षष्ठीबहुवचनम् । ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'नित्यं ङित' इत्यस्मान्ङित इत्यनुव्रतते । तदाह — ङितश्चतुर्णामिति । ङितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् ।
SK 2200 · A 3.4.99V
नित्यं ङितः ॥ २२०० ॥
nityaṃ ṅitaḥ
Siddhānta-kaumudī
सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्य -SK 42इति सस्य लोपः । भवताम् । भवन्तु ॥
Bālamanoramā
नित्यं ङितः - नित्यं ङितः । उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम्, प्रसङ्गादिहोपन्यस्तम् ।स उत्तमस्ये॑ति सूत्रमनुवर्तते । तत्र 'स' इति षष्ठन्तम् । तेन उत्तमो विशेष्यते । तदन्तविधिः । 'इतश्च लोप' इत्यतो 'लोप' इत्यनुवर्तते । तदाह — सकारान्तस्य ङिदुत्तमस्येति । ङितो लकारस्य य आदेशः — उत्तमपुरुषस्तस्येत्यर्थः ।वैतोऽन्यत्रे॑त्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । अलोऽन्त्यस्येत्यन्त्यलोपः । भवतामिति । लोटस्तस् । तस्य तामादेशः । शप् । गुणाऽवादेशौ । न च तामादेशस्य सर्वादेशत्वात्प्राग्विभक्तित्वाऽभावा॑न्न विभक्तौ तुस्मा॑ इति निषेधाऽभावान्मकारस्येत्संज्ञा शङ्क्या । संयोगान्तलोपेन मकारान्तप्रश्लेषेण उपदेशेऽन्त्यत्वाऽभावात् । भवन्त्विति । लोटो रेझन्तादेशे शिपि गुणेऽवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणाऽवादेशयोः भव सि इति स्थिते — ।
SK 2201 · A 3.4.87अपित्त्वातिदेशः
सेर्ह्यपिच्च ॥ २२०१ ॥
serhyapicca
Siddhānta-kaumudī
लोटः सेर्हिः स्यात्सोऽपिच्च ॥
Bālamanoramā
सेर्ह्यपिच्च - सेह्र्रपिच्च । 'हि' इति लुप्तप्रथमाकम् ।लोटो लङ्व॑दित्यतो 'लोट' इत्यनुवर्तते । तदाह — लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकमपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम् । एवञ्च ङिद्वत्त्वात् 'क्क्ङिति च' इति गुणो न । सेर्हर्हिङिच्चे॑त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि स्थिते —
SK 2202 · A 6.4.105V
अतो हेः ॥ २२०२ ॥
ato heḥ
Siddhānta-kaumudī
अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥
Bālamanoramā
अतो हेः - अतो हेः । 'अत' इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः 'अतो हे' रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः ।
SK 2203 · A 3.4.89V
मेर्निः ॥ २२०३ ॥
merniḥ
Bālamanoramā
मेर्निः - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति ।
SK 2204 · A 3.4.92पित्त्वातिदेशः
आडुत्तमस्य पिच्च ॥ २२०४ ॥
āḍuttamasya picca
Siddhānta-kaumudī
लोडुत्तमस्याडागमः स्यात्, सः पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥
Bālamanoramā
आडुत्तमस्य पिच्च - भव नि इति स्थिते — आडुत्तमस्येति ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम् । यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र 'एरु' रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति । सामर्थ्यादिति । अन्यथा — 'हु-नु' इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः । न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामर्थ्यात् । अन्यथा 'मो न' इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् । गुणावादेशौ । आडागमः । सवर्णदीर्घः । लङ्वद्भावात् 'नित्यं ङित' इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोट्प्रक्रिया ।
SK 2205 · A 3.2.111V
अनद्यतने लङ् ॥ २२०५ ॥
anadyatane laṅ
Siddhānta-kaumudī
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥
Bālamanoramā
अनद्यतने लङ् - अनद्यतने लङ् । धातोरिति, भूत इति चाधिकृतम् । भूत इति धात्वर्थेऽन्वेति । तदाह — अनद्यतनभूतार्थवृत्तेरिति ।
SK 2206 · A 6.4.71V
लुङ्लङ्लृङ्क्ष्वडुदात्तः ॥ २२०६ ॥
luṅlaṅlṛṅkṣvaḍudāttaḥ
Siddhānta-kaumudī
एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥
Bālamanoramā
लुङ्लङ्लृङ्क्ष्वडुदात्तः - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।
SK 2207 · A 3.4.100V
इतश्च ॥ २२०७ ॥
itaśca
Siddhānta-kaumudī
ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥
Tattvabodhinī
NSP p. 351—इतश्च । ‘इतश्च लोपः—’ इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ्येकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्यते तदाह—परस्मैपदमिकारान्तं यत्तस्येति । प्राचा तु परस्मैपदेष्विकारस्य लोप इत्युक्तम् । तदयुक्तम् । भवेदित्यादावतिव्याप्तेः । ननु ‘अतो येयः’ इत्यत्र इय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः ‘इतश्च’ इति तप-रकरणात् । अत एव अबोभवीदित्यादावपि न दोष इति चेत् । मैवम् । रुद्रेरुङ्कि अरुदितामित्यादौ दोषप्रौढ्यादिति मनो-रमायां स्थितम्
SK 2208 · A 3.3.161V
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ २२०८ ॥
vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ
Siddhānta-kaumudī
एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥
Tattvabodhinī
NSP p. 351–352—विधिनिमन्त्रणा—॥—द्योत्येषु वाच्येषु वेति । पक्षद्वयस्याप्याकरे स्थितत्वादिति भावः । अत्राये लित्यमुपपत्तिः—विध्यादीनां प्रत्ययार्थत्वमनुचितम् । तथाहि सति कर्त्रादीनामर्थानां लकारान्तरे चरितार्थानां विध्यादयोऽर्था वाधकाः स्युः, तथाच लिङ्कः कर्त्राद्यभिधायकत्वं न स्यात्, ततश्च द्विवचनबहुवचने न स्याताम्, शबाद-यश्च न स्युः, पुरुषव्यवस्था च न स्यात्, अभिहितलप्रयुक्तस्तृतीयादिविरहश्च न सिद्ध्येदिति । द्वितीये लित्यमुपपत्तिः—विध्यादिभिः कर्त्रादयो न वाध्यन्ते परस्परविरोधाभावात् । तथा च ‘लः कर्मणि—’ इत्यत्र ल इति बहुवचननिर्देशेन सर्व-लकाराणां संग्रहाल्लिङ्गादीनामपि कर्त्रादयोऽर्था भवेयुः । किं च कर्त्रादयोऽपि निरवकाशाः । न च लङ्कादयोऽवकाशाः । न्यायसाम्येन विध्यादिवद्वर्तमानलभूतत्वादेरपि तत्तल्लकारवाच्यत्वात् । न चैवं पचतीत्यादौ धालर्थं प्रति वर्तमानत्वादेः प्रत्ययार्थतया विशेष्यत्वं स्यात् । तथा चैककर्तृका वर्तमाना पञ्चिक्रियेत्यादिशाब्दबोधवर्णनमयुक्तं स्यादिति वाच्यम् । प्रत्ययार्थतया विशेष्यत्वापादनस्य कर्त्रादावपि तुल्यत्वात् । ननु प्रत्ययार्थः प्रधानं प्रकृत्यर्थो विशेषणमित्यौत्सर्गिकमाह्यार्त्ते त्यज्यते ‘भावप्रधानमाह्यातम्’ इति सिद्धान्तानुरोधादिति चेत्तर्हि तत एव नोक्तंदोष इति दिक् ॥—प्रवर्तनायामिति । प्रवर्तना लस्य विध्यादिषु चतुर्ष्वनुस्यूतलादिति भावः । अत्र वदन्ति । प्रवृत्तिः प्रवर्तना चोभयमपि व्यापारः, स च धाल्लर्थः । फलव्यापारयोर्धातुवाच्यलस्वीकारात् । तदाश्रयस्तु लकारार्थः, व्यापारत्वेन प्रवर्तनाया धाल्लर्थत्वेऽपि प्रवर्तनात्वेन । प्रवर्तना तु लिङ्लादिरूपेण लकारवाच्या द्योत्या चेति पक्षद्वयम् । प्रवृत्तिः पुरुषनिष्ठा आर्थी भावनेत्युच्यते । प्रवर्तना तु विधिः, मां प्रेरयतीत्यनुभवाल्लिङ्गादिनिष्ठा शाब्दी भावनेत्युच्यते । वेद एव लिङ्गादिनिष्ठा वक्तुरभावात्, लोके तु पुरुषनिष्ठेति कैचिदभ्युपगच्छन्ति । प्रवर्तनाया अस्याः पुरुषप्रवृत्तिरेव भाव्या । पुरुषप्रवृत्तेस्तु यजनदानादि भाव्यम् । एवं च धातूपात्तव्यापारस्य विषयविषयिभावेन द्वेधान्वये तात्पर्यप्राहका लिङ्गादय इति द्योतकतापक्ष एव ज्यायान् । लिङ्लादिरूपेण लकारस्य प्रवर्तनायां शक्त्यन्तरकल्पने गौरवात् । एवं णिच्यपि । इयांस्तु विशेषः । णिच्प्रत्ययद्योत्या प्रेरणा सर्वस्मिन्नपि मते पुरुषादिनिष्ठैव न तु णिज्निष्ठा, लिङ्गादिद्योत्या तु मतभेदेन लिङ्निष्ठा वा पुरुषनिष्ठा चेति ॥ स्यादेतत् । लिङ्गादिद्योत्या प्रवर्तना लोके पुरुषनिष्ठेति मते पाचयत्योदनं देवदत्तेन यज्ञदत्त इतिवत् पचेदोदनं देवदत्तेन यज्ञदत्त इति प्रयोगः स्यात् । प्रवृत्त्याश्रयः प्रवर्तनाश्रयश्च लकारेणोक्त इति कर्तरि तृतीया न भवति किं तु प्रथमैवेति चेत् । तर्हि ओवनं देवदत्तो यज्ञदत्तः पचेदिति प्रयोगः स्यात् । अत्राहुः । पुरुषनिष्ठेति मते प्रवर्तना लिङ्गादिवाच्यैव, न तु धातुवाच्या । तथा च लिङ्गपात्तव्यापाराश्रयस्य पुरुषस्य कर्तृलाभावान्नोक्तदोषः । देवदत्तेन पाचयति यज्ञदत्त इत्यादौ तु णिजन्तस्य धातुलाद्धातूपात्तव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयोरुभयोरपि कर्तृलालकारेणानुक्ते प्रयोज्ये कर्तरि तृतीयेति वैषम्यमिति । कौस्तुभादौ तु 'हेतुमति च' इति सूत्रे प्रयोजकव्यापारस्य णिज्वाच्यलपक्ष एव मुख्यत्वेन स्थापितः । व्यापारद्वयस्यापि णिच्प्रकृत्यर्थत्वे लभीत्यस्य णिज्यविशेष्यकत्वे अभिसावयति, प्रकृत्यर्थविशेष्यकत्वे तु 'उपसर्गात्सुनोति' इति षलमभिषावयतीति सिद्धान्तस्य स्वारस्यभङ्गापत्तेरिति । तथा च 'गतिबुद्धि' इति सूत्रे अणिकर्तेति विशेषणमव्यावर्तकं स्यात् । लन्मत्तै प्रयोजकव्यापारस्यापि णिच्प्रकृत्यर्थत्वेन प्रयोजकस्याप्यणौ कर्तृलमिति दिक् । प्रार्थनं याज्ञा ॥—कच्चिदिति । ज्ञापनफलं तु वक्ष्यमाणैत्यादौ टिटुगिल्लक्षणङ्गीवभाव इति 'टिट्ठा' इति सूत्र एवोक्तम् । रुयादित्यादौ 'उतो द्वद्विर्लुकि हलि' इति न प्रवर्तते, भाष्ये 'पिच्च डिन्न, डिच्च पिन्न' इति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य वाधादित्यादौ वक्ष्यमाणतया यासुटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह—श्नः शानचः शित्वमिति
Bālamanoramā
विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ् - विधिनिमन्त्रणाअ । ननु विध्यादयो हि न लिङो वाच्याः, लः, कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्त्रं लिङ्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यं, तथा सति यजेतेत्यादौ कर्तृवाचकत्वाऽभावेन शबाद्यनापत्तेरित्यत आह — द्योत्येष्विति ।लः कर्मणि चे॑ति सूत्रं सामान्यविषयं चेदपि विधिनिमन्त्रणेति विशेषशास्त्रेण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्टकत्र्रादिषु लिङिति फलतीति मत्वाह — वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् ।विधिः प्रेरण॑मिति भाष्यमर्थतस्सङ्गृह्णाति -विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनक्त्यमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति — भवान् वस्त्रं क्षालये॑दिति । आमन्त्रणाद्भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे - निमन्त्रणं नियोगकरणमिति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति — आवश्यके इति ।त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः॑ इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रतिइह श्राद्धे भवान् भुञ्जीते॑ति । आमन्त्रणं कामचारानुज्ञेति । 'यथेच्छं क्र#इयता' मित्यभ्यनुज्ञानमित्यर्थः । अधीष्टं सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् । 'अधीष्ट' मित्येव क्वचित्पाठः ।माणवकं भवानध्यापये॑ दित्युदाहरणम् ।इदं कार्यं न वे॑ति विचार्य निर्धारणं संप्रश्नः । यथा — किं भोः व्याकरणं भवानधीयीते॑ति । प्रार्थनं — याच्ञा । यथा 'भवानन्नं मे दद्या' दिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुर्षु अनुस्यूतत्वादिति भावः । प्रवृत्यनुकूलव्यापारः — प्रवर्तना । तत्र प्रवृत्तिः शिष्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 352 १ द्वयस्यापीति—पुरा प्रवृत्त्या लक्ष्यभेदात्पुनः प्रवृत्तिरिति भावः । २ सार्वेति—सार्वधातुकपदाननुवृत्तौ सूत्रस्यैतस्य सार्व-धातुकार्धधातुकोभयविषयकत्वे चोभयत्रापि दीर्घातोलोपयोरवश्यं प्राप्तौ बाधकतया प्रतीतबाधमुपेक्ष्याप्रतीतबाधायोग्यत्वमूलकेन मध्येपदादन्यायेनातोलोपस्यैव बाधः स्यादीर्घस्तु प्रवर्ततेत्र परत्वादिति विवक्षितलक्ष्यतावच्छेदकावच्छिन्नयावलक्ष्यासमन्विततया लक्षणस्यासंभवः स्मात् । अभ्यास्यतिभ्याप्तिप्रदर्शनमेतदिति केषांचिदुक्तिस्तु नो रोचते मे । विवक्षितलक्ष्यतावच्छेदकाधिकरणवृत्तित्वविशिष्टतदवच्छेदका-वच्छिन्नप्रतियोगिताकभेदसमानाधिकरणत्वरूपस्यातिभ्याप्तिलक्षणस्य विवक्षितलक्ष्यतावच्छेदकाधिकरणैकदेशावृत्तित्वविशिष्टान्यतदधिकरणवृत्तित्वरूपस्याभ्याप्तिलक्षणस्य प्रकृतेऽगमनात् अद्भ्यवहितपरत्वसार्वधातुकावयवत्वोभयधर्मावच्छिन्नतात्वरूपलक्ष्यतावच्छेदकधर्मावच्छिन्ने कुत्रापि लक्षणप्रवृत्तेरसंभवात्परेण दीर्घेण बाधात् ।
SK 2209 · A 3.4.103V
यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ २२०९ ॥
yāsuṭ parasmaipadeṣūdātto ṅicca
Siddhānta-kaumudī
लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥
Bālamanoramā
यासुट् परस्मैपदेषूदात्तो ङिच्च - अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते — यासुट् पर ।लिङ सीयु॑डित्यतो लिङ इत्यनुवर्तते । षष्ठर्थे सप्तमी । तदाह — लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वात्तिबादीनामाद्यवयवः । अवयवे ङित्त्वं चआनर्थक्यात्तदङ्गेषु॑ इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । 'आगमा अनुदात्ता' इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् 'आगमा अनुदात्ता' इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्वस्यन ल्यपी॑ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह — ङित्त्वोक्तेरिति । क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः । अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात् । ननुक्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध॑ इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् ।हलश्श्नश्शानज्झा॑विति सूत्रभाष्येङिच्च पिन्न पिच्च ङिन्ने॑ति प्रपञ्चितत्वादित्यस्वरसादाह — श्नः शानचः शित्तवमपीह लिङ्गमिति । इह — अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः — श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं — ज्ञापकमित्यर्थः । अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः । अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् ।
SK 2210 · A 3.4.107V
सुट् तिथोः ॥ २२१० ॥
suṭ tithoḥ
Siddhānta-kaumudī
लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥
Tattvabodhinī
NSP p. 352—सुट् तिथोः । तकारादिकार उच्चारणार्थः
Bālamanoramā
सुट् तिथोः - तथा च प्रकृते भव यास् त इति स्थिते — सुट्तिथोः । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवचनम् । इकार उच्चारणार्थः । तदाह — लिङस्तकारेति । सुटि टकार इत्, उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति — सुटा यासुण्न बाध्यत इति । तत्कुतः इत्यत आह — लिङो यासुडिति । लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः ।
SK 2211 · A 7.2.79V
लिङः सलोपोऽनन्त्यस्य ॥ २२११ ॥
liṅaḥ salopo'nantyasya
Siddhānta-kaumudī
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥
Tattvabodhinī
NSP p. 352—लिङः सलोपो—॥ 'रुदादिभ्यः' इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनम्यस्येत्यनेन विशेष्यते तदाह—सार्वधातुकलिङोऽनन्त्यस्येति ॥—सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भकलादिति भावः ॥—आशीर्लिङीति । भूयास्तामित्यादौ । ननु सुटि कृते 'अनचि च' इति द्वित्वस्यासिद्धलात्ततः प्रागेव 'स्कोः' इति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारकं रूपं तुल्यम् । मुडभावे यासुटः सकारस्य द्वित्वे कृते तु सुटि 'स्कोः' इति सलोपात्सुट एव सकारस्य द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह—स्फुटतरं त्विति । एधिषीं ष्टेत्यादाविति भावः
Bālamanoramā
लिङः सलोपोऽनन्त्यस्य - लिङः स । सेति लुप्तषष्ठीकं पदम् ।रुदादिभ्यः सार्वधातुके॑ इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठ्या विपरिणम्यते । तदाह — सार्वधातुकलिङ इति । सकाद्वयस्यापीति । अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह — सुटः श्रवणं त्वाशीर्लिङीति । भूयास्तमित्यादौ । लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः ।व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव॑ इति भाष्यादाह — स्फुटतरं त्विति । तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः ।
SK 2212 · A 7.2.80V
अतो येयः ॥ २२१२ ॥
ato yeyaḥ
Siddhānta-kaumudī
अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥
Tattvabodhinī
alignment inferredNSP p. 352–353—मध्येऽपवादन्यायेनेति । 'रुदादिभ्यः' इति सूत्रात्सार्वधातुक इत्यनुवृत्तावयं न्यायः प्रवर्तत इति भावः ॥—अन्तरङ्गत्वादिति । प्रत्ययमात्रापेक्षलात्, ‘अतो येयः’ इत्यस्य लाङ्गलात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन वहिरङ्गलादिति भावः । नच पदान्ताकारस्य जुस्रक्षाश्रयणात्पररूपस्याप्युभयसापेक्षलमस्त्येवेति चेत् । मैवम् । वर्णाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात् ॥—व्याख्येयमिति । एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम् ॥—आर्धधातुकसंज्ञ इति । ‘लङः शाकटायनस्यैव’ इत्यत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधिकारवहिर्भूतत्वेन सार्वधातुकसंज्ञापि स्यात्तत्क्ष पक्षे शबादिः स्यात्
Bālamanoramā
अतो येयः - तथा च भव या त् इति स्थिते — अतो येयः । 'या' इति लुप्तषष्ठीकं पदम् । 'अत इति' पञ्चमी । परस्येत्यध्याहार्यम् । 'इय' इत्यत्राऽकार उच्चारणार्थः । 'रुदादिभ्य' इत्यस्मात् 'सार्वधातुक' इत्यनुवृत्तमवयवषष्ठआ विपरिणम्यते । तदाह — अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति ।आद्गुण इत्येनेने॑ति शेषः । भवेय् त् इति स्थितम् । यलोप इति ।लोपो व्योरित्यनेने॑ति शेषः । भवेदिति.यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्य' इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं । सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिङि आर्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः । चिकीष्र्यादिति । कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष — यादिति स्थिते 'अतो लोप' इत्यकारलोपे चिकीष्र्यादिति रूपम् । तत्र 'अतो येय' इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष — यादिति स्थिते 'अतो येय' इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिङि चिकीर्ष -यादिति स्थिते नित्यत्वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव 'आतो येय' इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह — मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति । षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिङ आर्धधातुके चिकीर्ष — यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति,मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा॑निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः । एवं चार्धधातुके भव — यादिति स्थिते इयादेशं परत्वाद्बाधित्वाअतो दीर्घो यञी॑ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम् । चिकीष्र्यादित्यार्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः ।
SK 2213 · A 3.4.108V
झेर्जुस् ॥ २२१३ ॥
jherjus
Siddhānta-kaumudī
लिङो झेर्जुस् स्यात् ॥ ज इत् ॥
Bālamanoramā
झेर्जुस् - अथ लिङो झेर्झोऽन्त इति प्राप्ते — झेर्जुस् । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झेरिति । अनेकाल्त्वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वाच्चुटू इति जकार इत्संज्ञक इत्यर्थः । उसि शपिगुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेशं बाधित्वा पररूपप्रवृतिंत शङ्कितुमाह — उस्यप । एकः पूर्व्परयोरित्यधिकृतम् । आद्गुण इत्यस्मादादित्यनुवर्तते ।एङि पररूप॑मित्यस्मात्पररूपमिति । तदाह — अपदान्तादिति । उसीति । उसि योऽच् उकारस्तस्मिन् परत इत्यर्थः,इको यणची॑त्यतोऽचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याऽऽकारस्य च उसित्येकादेशेऽपि रूपं तुल्यं, तथापि अकः सवर्णे दीर्घ इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्द्युरित्याद्युदाहरणम् । इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गुणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याऽभावादिञ् न स्यादिति मन्यते — परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः । कृते पररूपे य् इत्यस्यैकदेशविकृतन्यायेन , एकादेशस्य पूर्वान्तवत्त्वेन वा इयादेशस्य निर्बाधत्वात् । ततश्च पररूपं बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूपमङ्गाधिकारस्थत्वाऽभावादङ्गानपेक्षत्वादन्तरङ्गम्, इयादेशस्तु आङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वाद्बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात्पररूपस्यान्तरङ्गतया बलवत्त्वात्पररूपमेव इह स्यादिति शङ्कते — यद्यपीति । परिहरति — तथापिति । अतः -यास्-इयः-इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासित्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननुलिङः स लोपोऽनन्तयस्ये॑ति सकारस्य लोप इयादेशं बाधित्वा नित्यत्वात्प्राप्नोतीति, ततश्च यास् इत्यस्य इय् इति कथमित्यत आह — एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामर्थ्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाऽभावेन पररूपस्याऽप्रवृत्तिरिति भावः । ननु यदि 'यास्-इयः' इति च्छेदस्तदा सकारस्य रुत्वे, भोभगो इति यत्वे,लोपः शाकल्यस्ये॑ति तस्य लोपे अतो — या इय इति स्यात् । आद्गुणे कर्तव्ये यलोपस्याऽसिद्धत्वादित्यत आह — सन्धिरार्ष इति ।आने मु॑गिति सूत्रे भाष्ये तुअतो या — इय इत्येव सूत्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । इतश्चेति इकारलोपः । यासुडागमः । सकारस्य लोपः । इयादेशः । आद्गुणः यलोपः । रुत्वविसर्गौ । एवं थसस्तमादेशे थस्य तादेशे च , भवेतं भवेतेति च रूपम् । भवेयमिति । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । आद्गुणः । भवेवेति । वस् । शप् । गुणावादैशौ । 'नित्यं ङित' इति सकारलोपः । यासुट् । सलोपः । इयादेशः । आद्गुणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिङ्प्रक्रिया ।
SK 2214 · A 6.1.96V
उस्यपदान्तात् ॥ २२१४ ॥
usyapadāntāt
Siddhānta-kaumudī
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः SK 2212 इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
Bālamanoramā
नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि) - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।
SK 2215 · A 3.4.116आर्धधातुकसंज्ञा
लिङाशिषि ॥ २२१५ ॥
liṅāśiṣi
Siddhānta-kaumudī
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
SK 2216 · A 3.4.104V
किदाशिषि ॥ २२१६ ॥
kidāśiṣi
Siddhānta-kaumudī
आशिषि लिङो यासुट् कित्स्यात् । स्कोः - SK 380 इति सलोपः ॥
Tattvabodhinī
NSP p. 353—किदाशिषि । ङित्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थं जागर्यादित्यत्र गुणार्थं च । जागर्तेर्गुणो हि ङिति पर्युदस्यते, ङित्वं चेह विशेषविहितेन कित्वेन बाध्यते ॥—सलोप इति । झल्परसंयोगादित्वेन यासुटः सस्य लोपः सुटसु पदान्तसंयोगादित्वेनेति भाव इति मनोरमायां स्थितं तदसंवद्धमिति मलात्र निष्कर्षमाहुः । भूयास्तां भूयास्तं भूयास्तेत्यत्र झल्परसंयोगादिलोपस्यासिद्धत्वेन यासुटः सस्य लोपः भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव । अन्यथा झल्परसंयोगादिलोपस्यासिद्धलात्संयोगान्तलोप एव स्यात् । मृष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपावाधकलादिति
Bālamanoramā
किदाशिषि - किदाशिषि ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।यासुट् परस्मैपदेष्वि॑त्यतो यासुडिति च । तदाह — आशिषि लिङ इति ।यासुट् परस्मैपदेष्वि॑ति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापिइज्या॑दित्यादौवचिस्वपियजादीनां किती॑ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिप्यार्धधातुकत्वाच्छबभावेइतश्चे॑तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह — स्कोरिति लोप इति । 'लिङसलोप' इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्रसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते ।
SK 2217 · A 1.1.5V
क्ङिति च ॥ २२१७ ॥
kṅiti ca
Siddhānta-kaumudī
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥
Tattvabodhinī
alignment inferredNSP p. 353–354—ङिन्निमित्ते इति । गिति किति ङिति परे इको गुणवृद्धी न स्त इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्यानिषेधप्रसङ्गात् । नचारम्भसामर्थ्यं शङ्क्यम् । चितं सुतमित्यादावव्यवहिते किति चरितार्थलादिति भावः । अन्ये तु कितीति प्रत्ययग्रहणात् प्रत्ययेन संनिधापितस्याङ्गस्य ङ्किति पर इति व्याख्याने तु छिन्नंभिन्नमित्यादि सिद्ध्यत्येव । न चैवं भवावः भवाम इत्यादावतिप्रसन्न इति वाच्यम् । अन्तरङ्गगुणं प्रति वहिरङ्गनिषेधस्याप्रवृत्तेरित्याहुः । ‘ङ्किति च’ इति सूत्रे चत्वेन गकारोऽपि प्रश्लिष्यत इत्या-शयेन गित्किन्डिन्निमित्त इत्युक्तम् । गिति किं ‘ग्लाजिस्थश्च ग्लुः’ जिष्णुः । किति त्वस्मिन्स्थाल्लुरित्यत्र ‘घुमास्था—’ इतीत्वं प्रसज्येत । न च स्लोर्गित्त्वे भूष्णुरित्यत्रेणनिषेधो न स्यात् ‘ग्लाजिस्थश्च—’ इति चकाराद्भवश्च ग्लुर्भवतीति स्वीकारादिति वाच्यम् । ‘श्रुयुकः किति’ इत्यत्रापि चत्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात् । न चैवं चत्वर्वस्यासिद्धतया ‘श्रुयुकः—’ इत्यत्र विसर्जनीयो न लभ्यत इति ‘हशि च’ इत्युत्त्वमेव स्यादिति वाच्यम् । सौत्रलात् । ‘न मु ने’ इत्यत्र नेति योगविभागेनासिद्धत्वाभावाद्वेष्टसिद्धेः । वामनस्तु ‘ग्लाजिस्थश्च—’ इति सूत्रे स्था आ इति प्रश्लेषात्स्थाल्लुरित्यत्र ‘घु-मास्था—’ इतीत्वं न भविष्यतीति गकारप्रश्लेषाभावान्न ‘श्रुयुकः किति—’ इत्यत्र चत्वर्वस्यासिद्धत्वाभावसमर्थनक्लेश इत्याह ॥ —इग्लक्षण इति । इक इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् । लैगवायनः । लिगोर्नडादित्वात्फक् । इहादिवृद्धेरोर्गु-णस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपि ‘किति च’ इत्यारम्भसामर्थ्यादत्र निषेधो न भवे-दिति शङ्क्यम् । नाडायनादौ तस्य चरितार्थलात् ॥—भूयादिति । इह ‘स्कोः—’ इति लोपस्यासिद्धत्वात्तकारस्य संयोगान्त-लोपः प्राप्तः पदान्तसंयोगादिलोपेनानवकाशेन बाध्यते । नन्वेवमपि संयोगादिलोपस्य ‘पूर्वत्रासिद्धम्’ इत्यसिद्धत्वाद्बल्भ्या- दिलोपः स्यात्, पदान्ते संयोगादिलोपेनानवकाशेन बाध्यते । नन्वेवमपि संयोगादिलोपस्य ‘पूर्वत्रासिद्धम्’ इत्यसिद्धत्वाद्लङ्घ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृद् भृङित्यादौ सावकाशत्वादिति चेत् । अत्राहुः । सुद्यासुदोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृच्छत्वाभावात्, हलन्तायाः प्रकृतेः परत्वाभावाच्चोक्तदोषशङ्कैव नास्तीति ॥—सर्वलकारापवाद इति । मास्तित्यादौ निषेधार्थकमाशब्दोऽन्य एव न तु माङित्याहुः ॥ चिल लुङि । इकार उच्चारणार्थं इति मनोरमा । न च ‘मन्त्रे घस्’—इति सूत्रे लेरिति स्थाने ल इत्युच्यमाने चिलभिन्नस्यापि लकारस्य लुक् स्यादिति शङ्खम् । ‘गातिस्था’—इति सूत्रात्सिच इत्यनुवर्त्य सिच्स्थानिनः स्थान्यर्हस्य लस्य लुगिति व्याख्यायामतिप्रसङ्गाभावाद्विभाषानुवृत्तेर्लुको वैकल्पिकतया छन्दसि रूपान्तरस्यानापाबतया च सिजनुवृत्तिं विनापि नातिप्रसङ्ग इत्याहुः ॥—शबाद्यपवाद इति । आदिशब्दात्तत्तद्गणप्रयुक्तानां शब्दादीनां प्रहणम् ॥—इत्राविताविति । तत्रेदित्वे प्रयोजनममं- स्तेत्यत्र ‘अनिदिताम्’ इत्युपधालोपाभावः
Bālamanoramā
क्क्ङिति च - क्ङिति च । ग् क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात् । ग् क् ङ् च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इत्यर्थ । इक इत्युचार्य विहिते इति लभ्यते ।न धातुलोप आर्धधातुके॑ इत्यतो नेत्यनुवर्तते । तदाह — गित्किन्ङिन्नमित्ते इत्यादिना । गितीत्यनुक्तौ तुग्लाजिस्थश्च ग्स्नु॑रिति ग्स्नुप्रत्ययेजिष्णु॑रित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सतिघुमास्थे॑ति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात् । स्थानिभूतस्येको हला व्यवधानात् । न च येन नाव्यवधानन्यायः शङ्क्यः । चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात् । यदि च 'इको गुणवृद्धी' इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम् । भूयास्तामिति । आशिषि लिङस्तस्तामादेशे आर्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च । भूयासुरिति । झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति । आशीर्लिङः सिपि इतश्चेतीकारलोपः । यासुटःस्को॑रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ । भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपोऽमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिङो वस् । 'नित्यं ङित' इति सकारलोपः । यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीर्लिङ्प्रक्रिया ।
Footnotes (NSP 1915 ed.)
NSP p. 354 १ भृष्टुबोरिति—अत्र पितीत्यस्यानुवर्तनाननुवर्तनयोः फलदोषयोरभावेन तदनुक्तिः । २ आदन्तादेवेति—विपरीतनियमस्तु न व्याख्यानात् ।
SK 2218 · A 3.2.110V
लुङ् ॥ २२१८ ॥
luṅ
Siddhānta-kaumudī
भूतार्थवृत्तेर्धातोर्लुङ्स्यात् ॥
Bālamanoramā
लुङ् - लुङ् । धातोरिति भूत इति चाधिकृतम् । तदाह — भूतार्थवृत्तेरिति ।
SK 2219 · A 3.3.175V
माङि लुङ् ॥ २२१९ ॥
māṅi luṅ
Bālamanoramā
माङि लुङ् - माङि लुङ् । माङि प्रयुज्यमाने धातोर्लुङ् स्यादित्यर्थः । ननु लुङित्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह — सर्वलकारापवाद इति । मास्त्वित्यादौ तु 'मा' इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः । आङ्माङोश्चे॑ति सूत्रभाष्ये तु ङितो माशब्दस्य निर्देशात्प्रमाछन्द इत्यत्र तुङ्न भवतीत्युक्तम् । माशब्दस्याऽव्ययान्तरस्य सत्त्वे तु तदेवोदाह्यियेत । मास्त्क्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये ।
SK 2220 · A 3.3.176V
स्मोत्तरे लङ् च ॥ २२२० ॥
smottare laṅ ca
Siddhānta-kaumudī
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
Bālamanoramā
स्मोत्तरे लङ् च - स्मोत्तरे लङ् च । चकारान्माङि लुङित्यनुकृष्यते ।स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः । तदाह -स्मोत्तरे माङिति । अयमपि सर्वलकारापवादः ।
SK 2221 · A 3.1.43V
च्लि लुङि ॥ २२२१ ॥
cli luṅi
Bālamanoramā
च्लि लुङि - च्लि लुङि । च्लीति लुप्तप्रथमाकम् । लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसङ्ग्रहः ।
SK 2222 · A 3.1.44V
च्लेः सिच् ॥ २२२२ ॥
cleḥ sic
Bālamanoramā
च्लेः सिच् - च्लेः सिच् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्यतु अमंस्तेत्यत्रअनिदितां हल उपधाया॑ इत्युपधालोपस्याऽप्रवृत्तिः प्रयोजनम् ।
SK 2223 · A 2.4.77V
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ॥ २२२३ ॥
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu
Siddhānta-kaumudī
एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥
Tattvabodhinī
NSP p. 354—गातिस्था—। इह व्यवहितोऽपि लुगनुवर्तते न तु रेःः, व्याख्यानादित्याशयेनाह—लुगिति ॥—गापाविति । गातीति रितपा विकरणशून्यस्य निर्देशाल्लुगिवकरण इणादेशो गृह्यते, ‘लुगिवकरणाल्लुगिवकरणयोरलुगिवकरणस्य ग्रहणम्’ इति परिभाषया पिवतिर्गृह्यते न तु पातिरित्यर्थः
Bālamanoramā
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु - गातिस्थाघु । गाति स्था घु पा भू एषां द्वन्द्वात्पञ्चमीबहुवचनम् । परस्येति शेषः । सिचेति षष्ठी । गातीति श्तिपा निर्देशाद्गाधातग्र्रहणम् । घु इत्येन दाधा घ्वदाबिति घुसंज्ञकयोर्दाधातोर्धाधातोश्च ग्रहणम् ।ण्यक्षत्रियार्षञितो यूनि लुगणिञो॑रित्यस्माद्व्यवहितादपि लुगित्यनुवर्तते,जुहोत्यादिभ्यः श्लु॑रित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात् । तदाह — एभ्यः सिच इत्यादिना । गापाविहेति । इह = गातिस्थेति, सूत्रे गातीत्यनेन पाग्रहणेन च इणो गा लुङीति लुग्विकरणस्येणो गादेशः, शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्रेते इत्यर्थः ।गापोग्र्रहणे इण्पिबत्योग्र्रहण॑मिति भाष्यादिति भावः । तथा च लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभू-त् इति स्थिते पित्त्वान्ङित्त्वाऽभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते —
SK 2224 · A 7.3.88V
भूसुवोस्तिङि ॥ २२२४ ॥
bhūsuvostiṅi
Siddhānta-kaumudī
भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥
Tattvabodhinī
alignment inferredNSP p. 354—भूसुवोः—। ‘पूङ् प्राणिगर्भविमोचने’ सुवतिसूयलोस्तु न ग्रहणं तिष्ठो विकरणेन व्यवधानात्
Bālamanoramā
भूसुवोस्तिङि - भूसुवोस्तिङि । 'मिदेर्गुण' इत्यतो 'गुण' इति,नाभ्यास्तस्याचि पिती॑त्यतो नेति सार्वधातुक इति चानुवर्तते । तदाह — एतयोरिति । भू सू इत्यनयोरित्यर्थः । इहषूङ् प्राणिगर्भविमोचने॑ इतिलुग्विकरणस्यैव ग्रहणं, न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि, तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशह्कितुमाह —
SK 2225 · A 7.3.96V
अस्तिसिचोऽपृक्ते ॥ २२२५ ॥
astisico'pṛkte
Siddhānta-kaumudī
सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥
Tattvabodhinī
NSP p. 354—अस्तिसिचोऽपृक्ते । अत्र प्राच्चः । अस्तिश्च सिचेति समाहारद्वन्द्वे अस्तिसिच् तस्मादिति विग्रहं मला अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम् । तत्र समासान्तस्यानित्यलाश्रयणे ‘द्वन्द्वाच्चुदषहान्ताद्’ इति प्राप्तस्य टचः परिहारेऽपि ‘समुद्राभ्राद्धः’ इति निर्देशात् ‘अल्पाच्चतरम्’ इत्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परलसमर्थनेऽपि ‘अस्तेर्भूः’ इति भूभावस्य स्थानिवत्त्वेनास्तितया तत्रापृक्तस्य हल इंडागमस्य दुर्वारलात्, तथा गातिस्थापुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः परलानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च । तदेतच्छ्वनयन्व्याचष्टे—सिच्च अस् चेति ॥—सौत्रं भत्वमिति । तेनात्र कुलजश्त्वे न भवत इति भावः ॥—चिद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः कृतभूभावादस्तेश्च नेति भावः । भाष्यकारास्लाहुः । ‘अस्तिसिचोऽपृक्ते’ इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः । अस् स् इति समुदायस्याधातुतया ‘इक्षितपौ धातुनिर्देशे’ इति रितप्रत्ययो न स्यादिति । अत्र वदन्ति । द्विसकारकनिर्देशे रितप् न स्यादिति यदुक्तं तद्रभसोक्तिमात्रम् । इत्थं हि भाष्याशयः । सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु रितपः ‘प्राक्, अत एव ‘सिचोऽपृक्ते’ इति द्विसकारकोऽयं निर्देश इत्युक्तं भाष्ये । अन्यथा अस्तीति निर्देशो द्विसकारक इत्येव ब्रूयात्, एवं च सान्तादस्तेः सान्तात्सिच इति चार्थो निर्वाध एव । द्वितीयश्च सकारो लुप्यते ‘संयोगान्तस्य पदान्तस्य’ इति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तलाद्वितीयसकारस्य । न च संयोगान्तलोपस्यासिद्धलात् ‘अतो रोः’— इत्युत्वं दुर्लभमिति वाच्यम् । ‘संयोगान्तलोपो रोरुत्वे’ इति वार्तिकेनासिद्धलनिषेधात्, संयोगान्तं यत्पदमिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्वयस्यापि रुत्वे कृते ‘अतो रोः’— इत्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकलस्य पश्वेकलवद्विवक्षितलात् । न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाहुणे सति समीहितरूपसिद्धेरिति वाच्यम् । एकपदाश्रयत्वेनान्तरलादाहुणे पश्वादवादेशप्रवृत्त्या ‘अस्ति सिचोऽपृक्ते’ इति रूपासिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम् । अत एव विधेयगतैकलस्य विवक्षितलात् ‘एकः पूर्वपरयोः’ इत्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः स लतः परो न भवति अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् । मैवम् । ‘रोः’ इति जातिपरनिर्देशेनातः परलस्य पूर्वलस्य च संभवात् । न चैवमपि परलात् ‘हशि च’ इति प्रथमस्यैव रोरुः स्यादिति वाच्यम् । रुलस्यासिद्धतया हश्परलाभावात् । न चाश्रयासिद्धलमिति वाच्यम् । स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात् । यद्यपि सलजातेरेकलादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुलविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदलादित्याहुः ॥—अपृक्तस्य हल इति । अपृक्तसार्वधातुकस्येति प्राचोक्तं लयुक्तम् । ऐधिपि इत्यादावतिव्याप्तेः, सार्वधातुकग्रहणव्यावर्त्यालाभाच्च
Bālamanoramā
अस्तिसिचोऽपृक्ते - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया 'अस्तिसिचः' इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिचेति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः ।
SK 2226 · A 3.4.109V
सिजभ्यस्तविदिभ्यश्च ॥ २२२६ ॥
sijabhyastavidibhyaśca
Siddhānta-kaumudī
सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥
Bālamanoramā
सिजभ्यस्तविदिभ्यश्च - सिजभ्यस्तविदि ।झेर्ज॑सिति सूत्रमनुवर्तते । 'नित्यं ङित' इत्यतो ङित इति च । तदाह — सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ।लिङो झेर्जुसी॑ति शेषः ।
SK 2227 · A 3.4.110V
आतः ॥ २२२७ ॥
ātaḥ
Siddhānta-kaumudī
सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ॥
Tattvabodhinī
NSP p. 354—आतः । सिज् ग्रहणमनुवर्तते ‘क्लेशुस्’ इति च । सिच आकाराच्च परस्य क्लेशुस् तत्र प्रत्ययलक्षणेन सिचः परलमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह—सिज्लुकीति । ‘गातिस्था’— इति सूत्रेणेत्यर्थः । ‘सिजभ्यस्त’— इति पूर्वसूत्रेणैवादन्तादपि क्लेः जुसि सिद्धे नियमार्थोऽयमित्याह—आदन्तादेवेति ।
Bālamanoramā
आतः - आतः ।झेर्जु॑सिति सूत्रमनुवर्तते ।आतः सिज्लुगन्तादिति वक्तव्य॑मिति वार्तिकं भाष्ये पठितम् । ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम् । तदाह — आदन्तादेवेति । अभूवन्निति । झिः । च्लिः । सिच् । लुक् । अट् । झोऽन्तः । इतश्चेति इकारलोपः । तकारस्य संयोगान्तलोपः ।भुवो वुग्लुङ्लिटो॑रिति वुक् । सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः । अभूरिति । सिप् च्लिः सिच् लुक् अट् इकारलोपः । रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः सिच् लुक् अट् । गुणनिषेधः । एवं थस्य तादेशे अभूतेति रूपम् । अभूवमिति । मिप् अम् । च्लिः सिच् । लुक् । अट् वुक् । अभूवेति । वस् च्लिः सिच् लुक् अट् । नित्यं ङित इति सकारलोपः । गुणनिषेधः । एवं मसि अभूमेति रूपम् । अथ माङि लुङि विशेषमाह — न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे -अडादौ न स्त इति ।लुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यत,आडजादीना॑मित्यश्च तदनुवृत्तेरिति भावः । मा भवान्भूदिति ।मा स्म भवद्भूद्वेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुङ्प्रक्रिया ।
SK 2228 · A 6.4.74V
न माङ्योगे ॥ २२२८ ॥
na māṅyoge
Siddhānta-kaumudī
अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥
SK 2229 · A 3.3.139V
लिङ्निमित्ते लृङ् क्रियातिपत्तौ ॥ २२२९ ॥
liṅnimitte lṛṅ kriyātipattau
Siddhānta-kaumudī
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥
Tattvabodhinī
alignment inferredNSP p. 354–355—हेतुहेतुमद्भावादीति । अत्र केचित् । आदिशब्देनाशंसावचनं गृह्यत इति व्याख्याय आशंसावचने लिङ्गो यत्रिमित्तं तत्रापि क्रियातिपत्तौ भविष्यति । लङ्, गुरुश्वेदायास्यत् । आशंसा, अहमध्येष्ये इत्याद्युदाहरन्ति । अन्ये तु ‘भविष्यति मर्यादा’- इत्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ् विहितस्तन्निमित्त एव क्रिया- तिपतौ लङ् भवति नान्यत्रेत्याहुः ॥—लिङ्निमित्तमिति । ‘हेतुहेतुमतोलिङ्’ ‘इच्छार्थेषु लिङ्लोटौ’ इत्यादिलकारार्थ- प्रक्रियायां स्फुटीभविष्यति ॥—अनिष्पत्ताविति । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यदिति तत्रैवोदाहरिष्यति ॥—प्रागेवेति । न परतः, नापि व्यवहित इत्यर्थः । अत एव ‘छन्दसि परेऽपि’ ‘व्यवहिताश्व’ इति सूत्रितम्
Bālamanoramā
लिङ्निमित्ते लृङ् क्रियाऽतिपत्तौ - लिङ्निमित्ते । हेतुहेतुमद्भावादीति । हेतुहेतुमतोर्लिङ् ,इच्छार्थेषु लिङ्लोटा॑वित्यादि लिङ्निमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति ।भविष्यति मर्यादावचने॑ इत्यतस्तदनुवृत्तेरिति॑ भावः । क्रियातिपत्तिपदं व्याचष्टे -क्रियाया अनिष्पत्ताविति ।सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्य॑दित्युदाहरणं बोध्यम् । अभविष्यदिति । लृङ् । तिप् । इतश्चेतीकारललोपः ।स्यतासी लृलुटो॑रिति शबपवादः स्यप्रत्ययः । अट् । वलादिलक्षम इट् । गुणावादैशौ । षत्वम् । अभविष्यन्निति । झिः । स्यः । अट् । इट् । गुणावादेशौ ।झोऽन्त इति झेरन्तादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यतमिति । थसस्तमादेशः । स्यः अट् । इट् । गुणः । अवादेशः । इतश्चेतीकारलोपः । षत्वम् । रुत्वविसर्गौ । अभविष्यमिति । मिपोऽम् । स्यः । अट् । इट् । गुणावौ । पूर्वरूपम् । षत्वम् । अभविष्यावेति । वस् । स्यः । अट् । इट् । नित्यं ङित इति सकारलोपः । अतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृङ्प्रक्रिया । अथ प्रसङ्गादाह —
Footnotes (NSP 1915 ed.)
NSP p. 355 १ एकपदे इति—एकपदशब्देन अखण्डं पदं गृह्यते, अखण्डत्वं च पदत्वाभावादुत्तरखण्डत्वम् । अतएव समासग्रहणं चरितार्थम् । अतएव अग्रे अग्रे इत्यादौ पदद्विर्वचनेऽपि संहिताऽनित्यैव । २ उपसर्गास्त्विति—तुना उपसर्गाणां श्रोतकत्वमेव, निपातानां श्रोतकत्वं वाचकत्वं वेति ध्वनितम् ।
SK 2230 · A 1.4.80निपातसंज्ञा
ते प्राग्धातोः ॥ २२३० ॥
te prāgdhātoḥ
Siddhānta-kaumudī
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥
Bālamanoramā
ते प्राग्धातोः - ते प्राग्धातोः । 'ते' इत्यस्य विवरणं — गत्युपसर्गसंज्ञा इति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो, नापि व्यवहिता इत्यर्थ- । इहधातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु॑रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः ।
SK 2231 · A 8.4.16V
आनि लोट् ॥ २२३१ ॥
āni loṭ
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि ।
vārttikaदुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः
(वार्तिकम्) ॥ दुःस्थितिः । दुर्भवानि ।
vārttikaअन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम्
(वार्तिकम्) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥
Tattvabodhinī
NSP p. 355—आनि लोट् । नि लोडित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्यानित्यतां ज्ञापयितुम् । तेन ‘सागरं तर्तुकामस्य जस्वा स्तोत्रम्’ इत्यादि सिद्ध्यति । लोट्प्रहणं स्पष्टप्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम् । उपसर्गग्रहणादर्थवद्वहणाच्चास्याप्रवृत्तेः । प्रातिपदिकान्तेति वैकल्पिकणत्वं त्विष्यत एव ॥—दुरः षत्वेति । ‘दुरः परस्य णत्वं नेति केचित्’ इति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात् तच्चाकरविरुद्धमिति भावः ॥—अन्तर्धेति । ‘आतश्चोपसर्गे’ इत्यङ् टाप् ॥—अन्तर्धिरिति । ‘उपसर्गे धोः किः’ अच्छब्दस्याङ्विधात्रुपसर्गत्वमुपसंख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन ‘प्रज्ञाश्रद्धा’- इति निपातनेन वा गतार्थत्वाच्च
Bālamanoramā
आनि लोट् - आनि लोट् । लोडिति आनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो ण' इत्यनुवर्तते,उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तदाह — उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः ।अट्कुप्वाङ्नुम्व्यवायेऽपी॑ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । अत्रोपसर्गात्सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्राऽऽनि लोडिति णत्वं न भवति । अन्तःशब्दस्येति । अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ- । प्रादित्वाऽभावादप्राप्ते वचनम् । अन्तर्धेति ।स्त्रिया॑मित्यधकारे धाधातोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । अन्तर्भवाणीति ।आनि लो॑डिति णत्वम् ।
SK 2232 · A 8.4.18V
शेषे विभाषाऽकखादावषान्त उपदेशे ॥ २२३२ ॥
śeṣe vibhāṣā'kakhādāvaṣānta upadeśe
Siddhānta-kaumudī
उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति ।{$ {!2 एध!} वृद्धौ $}। कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥
Tattvabodhinī
NSP p. 355—शेषे वि- भाषा—। ‘नेर्गदनद’- इति सूत्रोक्तापेक्षया शेष इत्याह—गदनदादेरन्यस्मिन्निति । उपदेशे किम् । प्रनिचकारं प्रनिचखादेत्यत्रापि निषेधो यथा स्यात् । अषान्तेति किम् । प्रनिपिनष्टि । उपदेशप्रहणात् प्रनिपेक्ष्यति । चक्षिङः ख्यान् । प्रतिचक्रशे इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । णलशास्त्रे संहितायामित्यधिकारात् संहितायां विवक्षितायां णलां-भावः संहितायां तु णलमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह—इहोपसर्गां गामित्यादि । एकपदं इत्यनेनैव सिद्धे समासग्रहणं गोवलीवर्दन्यायेनेति बोध्यम् ॥—वाक्ये त्विति । सा संहिता विवक्षाधीनां न लत्रं नित्येत्यर्थः ॥—उपलक्षणमिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र ‘कुर्दं खुर्दं गुर्दं गुर्दं क्रीडायामेव’ इत्येवकारो ज्ञापकः । ‘सेधतेर्गतौ’ इति सूत्रे गतावित्येतदपि ‘बिध गत्याम्’ इत्याद्यर्थनिर्देशस्योपलक्षणल एव घटते नान्यथेति दिक् ॥—उत्पद्यत इत्याद्यर्थादिति । एवं च उपसर्गं विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः ॥—उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तम्—‘स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः । अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः । मुप्रलापः मुवचनमपलापस्तु निह्ववः’ इति
Bālamanoramā
शेषे विभाषाऽकखादावषान्त उपदेशे - शेषे विभाषा । अकखादाविति च्छेदः ।नेर्गदनदे॑ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः । तदाह — गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह — इहोपसर्गाणामिति । उक्तमिति ।हरिणे॑ति शेषः । अत्र 'एकपदे' इत्येन अखण्डं पदं विवक्षितं, 'नित्यासमासे' इति लिङ्गात् । अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथाराजीयती॑त्यादौ 'अतो गुणे' इति शपा पररूपमेकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठेभू सत्ताया॑मित्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्सनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह — यागादिति । न चयागात्स्वर्गो भवती॑त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्क्यः,अनेकार्था अपि धातवो भवन्ती॑ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवं च 'सेधतेर्गता' विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह — उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेःउद्भवती॑त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह — प्रभवतीत्यादि । प्रभवतीत्यादि । प्रभवः — प्रकाशः उत्पत्तिः शक्तिर्वा । पराभवः — पराजयः । सम्भवः-सम्भावना । अनुभवः — उपभोगः । अभिभवः — हिंसा । उद्भवः — उत्पत्तिः । परिभवः — तिरस्कारः । उक्तं चेति ।हरिणे॑ति शेषः । प्रहारः — कशाद्याद्यातः । आहारो — भक्षणम् । संहारः — वधः । विहारः- क्रीडा । परिहारः- परित्यागः । इति भूधातुप्रक्रिया । एध वृद्धाविति । जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः । तत्र चतुर्थावस्था वृद्धिरुपचयः । कत्थ्यन्ता इति ।कत्थ श्लाघाया॑मित्यन्ता इत्यर्थः । अनुदात्तेत इति । ततस्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते —
SK 2233 · A 3.4.79V
टित आत्मनेपदानां टेरे ॥ २२३३ ॥
ṭita ātmanepadānāṃ ṭere
Siddhānta-kaumudī
टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥
Tattvabodhinī
NSP p. 355—टित आत्मने—। ननु शानचोऽपि लस्थानिकात्मनेपद-त्वात्पचमानो यजमान इत्यत्र टेरेत्वेन भवितव्यमिति चेत् । अत्राहुः । प्रकृतैस्तिवादिभिरात्मनेपदानां विशेषणान्न दोषः । एवं च ‘टितस्तद्धां टेरे’ इत्येवं वक्तुमुचितमिति
Bālamanoramā
टित आत्मनेपदानां {टे}रे - टित आत्म । टेः - ए इति च्छेदः । लस्येत्यधिकृतं । तदाह — टितो लस्येति ।आदेशाना॑मिति शेषः । अत्रात्मनेपदशब्देन तङेव गृह्रते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिवद्भावेनान्त्यादित्वेन टित्त्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने आतामित्यादेशेटित आत्मनेपदाना॑मिति आम एत्वे, शपि एध — आते इति स्थिते ङित्कार्यं वक्ष्यन्ङित्त्वमाह — सार्वधातुकमपित् । 'गाङ्कुटादिभ्य' इत्यतो ङिदित्यनुवर्तते । अङितो ङित्त्वं वास्तवं न संभवतीति ङिद्वदिति लभ्यते । तदाह — ङिद्वदिति ।
SK 2234 · A 1.2.4ङित्त्वातिदेशः
सार्वधातुकमपित् ॥ २२३४ ॥
sārvadhātukamapit
Siddhānta-kaumudī
अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
SK 2235 · A 7.2.81V
आतो ङितः ॥ २२३५ ॥
āto ṅitaḥ
Siddhānta-kaumudī
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
Bālamanoramā
आतो ङितः - आतो ङितः । ङित इत्यवयवषष्ठी । 'अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । 'ङिता॑मित्यनन्तरम्'अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, '#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते —
SK 2236 · A 3.4.80V
थासस्से ॥ २२३६ ॥
thāsasse
Siddhānta-kaumudī
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे SK 191 । एधे । एधावहे । एधामहे ॥
Tattvabodhinī
NSP p. 355–356—थासः से । एकारोच्चारणं ज्ञापनार्थमिति ‘लिटस्तज्जयोः—’ इत्यत्र स्फुटीभविष्यति ॥—अतो गुणे इति । इद एत्वे कृते आहुणं वाधिला वृद्धौ प्राप्तायामनेन पररूपमित्यर्थः ॥—इजाद्वेश्च—। ‘धातोरेकाचः—’ इत्यतो धातुग्रहणं ‘कास्प्रत्ययात्—’ इत्यतः आम् लिटीति चानुवर्तत इत्याह—इजाद्वियों धातुरित्यादि । गुरुमान् किम् । इयेष । ऋच्छेस्त्वानच्छं
Bālamanoramā
थासस्से - थासः से । 'से' इति लुप्तप्रथमाकम् । एधस इति । थासि शपि थासः सेभावः । एधेथे इति । लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति — अतो गुणे इति ।अतो गुणे॑इति पररूपे वृद्ध्यपवादे कृते सति 'एधे' इति रूपमित्यर्थः । एधावहे इति । लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधमह इति । लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिङिति ङकारस्तङ्प्रत्ययार्थः । इति लट्प्रक्रिया ।
Footnotes (NSP 1915 ed.)
NSP p. 356 १ आपकादिति—ननु मित्वादन्त्यादचः परत्वसामर्थ्यादसंजातविरोधन्यायेनात्र सवर्णदीर्घशधोऽरित्वति चेन्मैवम्, प्रधानसवर्ण-दीर्घशधोपेक्षया इत्संजावाधस्योच्चित्यात् । २ अनन्वितार्थस्यादिति—संपदेहि सिद्धवस्तुनो योग्यरूपान्तरापत्तिरूपार्थकत्वादिति भावः । ३ न तरुिति—इदमुपरुक्षणं कानचोऽपि ।
SK 2237 · A 3.1.36V
इजादेश्च गुरुमतोऽनृच्छः ॥ २२३७ ॥
ijādeśca gurumato'nṛcchaḥ
Siddhānta-kaumudī
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥
Bālamanoramā
इजादेश्च गुरुमतोऽनृच्छः - इजादेश्च । नञ ऋच्छ इत्यनेन समासेऽनृच्छ इत्यस्मात्पञ्चमी । 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते ।कास्प्रत्यया॑दित्यत आमिति,लिटीति चानुवर्तते तदाह — इजादिरित्यादिना । आस्कासोरिति ।कास्प्रत्ययादाममन्त्रे लिटी॑ति ,दयायासश्चे॑ति च कास्धातोः, आस्धातोश्चलिटि आम्विहितः । तत्र मकारस्य इत्संज्ञकत्वे 'मिदचोऽन्त्यात्पर' इति आकारादाकारान्तरं स्यात् । ततश्च सवर्णदीर्घे कृते कास् आस् इत्येव भवतीति आम्विधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एध् आम् ल इति स्थिते —
SK 2238 · A 2.4.81V
आमः ॥ २२३८ ॥
āmaḥ
Siddhānta-kaumudī
आमः परस्य लेर्लुक् स्यात् ॥
Tattvabodhinī
NSP p. 356—आमः । ‘लक्षणप्रतिपदोक्त’ परिभाषया ‘प्रत्ययग्रहण’-परिभाषया च नेह । आम । आमसुः ॥—परस्य लुगिति । ‘मन्त्रे घस—’ इति सूत्राल्लेखनुवर्त्य ‘लेङ्कं’ इति काशिकादौ व्याख्यातं तदत्रोपेक्षितं व्यावर्त्यालाभात् । तिङायपवादलाल्लावस्थायामेवायं लुक् । तेन आमन्तस्यातिङन्तलाद्वेव-दत्तादिपदात्परत्वेऽपि ‘तिङ्कतिङः’ इति न निघातः । आमन्तात्परस्य निघातश्च तिङन्तस्येत्यर्थः । न चातिङन्तत्वे पदला-भावादामन्तात्परस्य निघातो न सिद्ध्यतीति शङ्काम् । लिटः कित्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्ता-वामन्तस्याव्ययलात्सुपो लुक्यपि प्रत्ययलक्षणेन सुवन्ततया पदलात्
Bālamanoramā
आमः - आमः ।मन्त्रे घसह्वरे॑त्यतो लेरिति,ण्यक्षत्रियार्षञित॑ इत्यतो लुगिति चानुवर्तते । तदाह — आमः परस्य लेरिति । अत्रेदमवधेयम् — 'कृन्मेजन्त' इत्यत्र कृद्यो मान्तस्तदव्ययमिति व्याख्याने एधामित्यादि नाऽव्ययं , लिट एव कृत्त्वात्, तस्य च मान्तत्वाऽभावात् । तथा च प्रत्ययलक्षणेन कृदन्तत्वात्प्रातपदिकत्वे स्वाद्युत्पत्तौ 'आम' इति लुक् । लेरित तु नानुवर्तते ।मान्तं कृदन्तमव्यय॑मिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वादेधामिति मान्तमव्ययम् । ततः सुबुत्पत्तावव्ययादाप्सुप इति लुक् । 'आम' इत्यनेन तु परिशेषाल्लेरेव लुक्सिद्धेर्लेरितिनानुवर्तनीयम् ।आमः परस्य ले॑रिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम्, उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् ।
SK 2239 · A 3.1.40V
कृञ् चानुप्रयुज्यते लिटि ॥ २२३९ ॥
kṛñ cānuprayujyate liṭi
Siddhānta-kaumudī
आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य SK 2240 इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोगे SK 2117 इत्यतः कृञो द्वितीय - SK 2129 इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥
Tattvabodhinī
NSP p. 356—कृञ्चानुप्रयुज्यते—। कथं तर्हि ‘तं पातयां प्रथममास पपात पश्चात्’ । ‘प्रश्नंशयां यो नहुषं चकार’ इति । प्रमाद एवायम् । न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, आमन्तस्य विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चेति वार्तिक-विरोधात् ॥—अन्यस्यापीति । यदीह कृत्वा एक एव धातुग्रह्येत तदा धात्वन्तरस्य प्राप्त्यभावात् ‘आम्प्रत्यय-वत्—’ इति सूत्रेऽनुप्रयुज्यमानस्य कृत्वा इति विशेषणं व्यर्थं स्यादिति भावः । न चात्र ‘कृत् च—’ इति चकारेणैवाप्रयोगो-ऽन्यस्यापीति ज्ञायत इति शङ्काम् । धातोराम् स्यात् । अनुप्रयुज्यते च लिट्परः कृत् इत्यर्थसमर्पकतया तस्योपक्षीण-लात् ॥—अभेदान्वय इति । सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः । एवं च एधांचक्रे एधांवभूवे इत्यादौ एककर्तृकभूतानवतनपरोक्षा वृष्ट्यभिन्ना क्रियेति तुल्यो बोधः । ननु करोतिः सकर्मकः भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् । अत्राहुः । यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते घटं चक्रे राज्यं चकारेति तदा नियमेन सकर्मक-स्वम् । यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते जुहवांचकारेत्यादौ तदा यत्समानाधिकरणः करोतिस्तस्य सकर्मकलाकर्मकलाभ्यां स्वयमपि तथाभावं भजते । एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम् । अत एवानुप्रयुज्यमानाद्भवतेः सकर्मकलात्कर्मणि लिट् । तथा च माघः—‘तस्यातपत्रं विभरांवभूवे’- इति । श्री-हर्षश्च ‘तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांवभूविरे’ इति । अत्रेदमवधेयम् । जुहाव जुहवांचकार जुहवांवभूव इत्यादौ केवलो होमो गम्यते इतरत्र तु होमरूपा क्रियेति बोधः । फले तु न कश्चिद्विशेषः, घटमानय व्यघटमानयेत्यत्र यथा । एवं चाम्प्रकृत्यर्थगतिकारकसंख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति ॥—अनन्वितेति । संपद्यर्थस्याम्प्रकृत्य-र्थस्य चाभेदान्वयो न संभवति उभयोरपि विशेषरूपलादिति भावः
Bālamanoramā
कृञ् चानुप्रयुज्यते लिटि - कृञ्चानु । 'कास्प्रत्ययादा' मित्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।लिटि परे यः कृञ् सोऽनुप्रयुज्यत इत्यन्वयः । फलितमाह — आमन्ताल्लिट्परा इति । लिट्शिरस्का इत्यर्थः । कृभ्वस्तय इति ।कृ॑ञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः । अनुप्रयुज्यन्त इति । प्रशब्दादनुशब्दाच्चाऽव्यवहिताः पश्चात्पयुज्यन्त इत्यर्थः ।विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्यर्थं चे॑ति वार्तिकाद्भाष्याच्च । एवं चतं पातयां प्रथममास पपात पश्चात्प्रभ्रंशयां यो नहुषं चकारे॑त्यादिप्रयोगाः प्रामादिका एव । धातोराम् स्यात्, कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः । ननु कृञ एवाऽनुप्रयोगश्रवणात्कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह — आम्प्रत्ययवदित्यादिना । 'कृञ्चानुप्रयुज्यत' इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सतिआम्प्रत्यव॑दिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थं स्यात्, धात्वन्तरस्याऽनुप्रयोगाऽप्रसक्तेः । ततश्च 'कृञ' इति विशेषणादन्यस्ाप्यनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृञोऽन्यस्याऽप्यनुप्रयोगो विज्ञायतां, भ्वस्त्योरपीत्येव कुत आयातमित्यत आह — तेनेति । कृञ्ग्रहणेनेत्यर्थः । प्रत्याहाराश्रयणादिति । एतच्च भाष्ये स्पष्टम् । नन्वनुप्रयुज्यमानानां कृभ्वस्तीनामाम्प्रकृतिभूतानां च कथमन्वय इत्यत आह — तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन । सामान्यविसेयोरभेदान्वयस्य न्याय्यत्वादिति भावः । कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात्, धातूनामनेकार्थत्वादिति ज्ञेयम् । ननु 'कृभ्वस्तियोगे' इत्यस्य, 'कृञो द्वितीये' त्यस्य च सूत्रस्य मध्येअभिविधौ संपदा चे॑ति पठितम् । एवं च कृञ्प्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह — संपदिस्त्विति । अनन्वितार्थत्वादिति । सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्ध्यादिरर्थः । तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाऽभावेन अभेदान्वयाऽसंभवादित्यर्थः । अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गच्छत इति भावः । ननु आम्प्रत्ययवदिति कृञ आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थं, 'स्वरितञित' इत्येव तत्सिद्धेरित्याशङ्क्याह -कृञस्त्विति ।
SK 2240 · A 1.3.63V
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य ॥ २२४० ॥
āmpratyayavat kṛño'nuprayogasya
Siddhānta-kaumudī
आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥
Tattvabodhinī
NSP p. 356—आम्प्रत्ययवत्—। आम्प्रत्ययान्तस्यात्मनेपदा-भावादाह—अतहुण इति ॥—आम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति । तृतीयान्ताद्वतिः । अनुप्रयोगस्येत्यत्र कर्मणि घनिति भावः ॥ ‘अनुदात्तङित—’ इत्यतोऽनुवर्तनादाह—आत्मनेपदं स्यादिति । एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह—घाक्यभेदेनेति । अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव । अन्यथा पूर्ववदित्यनुवृत्त्यैवानुप्रयोगस्य कृत्वा आमः पूर्वेण तुल्यमित्यर्थलाभादिष्टसिद्धेः किं तेन ‘आम्प्रत्ययवत्’ इत्यनेन
Bālamanoramā
आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य - आम्प्रत्ययव । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । तत्राम्प्रत्ययस्यात्मनेपदाऽभावादाह — अतद्गुणसंविधानो बहुव्रीहिरिति । तस्य = अन्यपदार्थस्य, गुणाः = विशेषमानि वर्तिपदार्थरूपाणि,तेषां संविज्ञानं = क्रियान्वयो न तु चित्राणां गवामपि । तथा च प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययविनिर्मुक्त आम्प्रत्ययप्रकृतिभूत एधादिधातुरेव आम्प्रत्ययशब्देन लभ्यत इति भावः ।आम्प्रत्यव॑दिति तृतीयान्ताद्वतिः । अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी । तदाह — आम्प्रकृत्येत्यादिना । आम्प्रकृतेर्भवितुं योग्यं यदात्मनेपदं तत् अनुप्रयुज्यमानात्कृञोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम्,अनुप्रयोगस्ये॑त्येव सिद्धे कृञ्ग्रहणादिह न प्रत्याहारग्रहण॑मिति भाष्यम् । परगामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दंचकारेत्यादौ तु परगामिनि क्रियाफले नाऽनेनात्मनेपदम्, आम्प्रकृतेः 'इदि परमैआर्ये' इति धातोरात्मनेपदाऽभावात्, तस्य परस्मैपदित्वात् । एतदर्थमेव आम्प्रत्ययवदित्युपात्तम् । नन्विन्दांचकारेत्यादौ मास्त्वमनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले 'स्वरतञित' इत्यात्मनेपदं दुर्वारम् । अस्य सूत्रस्य एधाञ्चक्र इत्यादौ परगामिनि क्रियाफले आत्मनेपदस्याऽप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले 'स्वरितञित' इति प्राप्तस्यात्मनेपदस्य निवारणे सामर्थ्याऽभावादित्यत आह — इहेति । इह =आम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑ति सूत्रे 'पूर्ववत्सनः' इति पूर्वसूत्रात्पूर्ववदित्यनुवर्त्त्यआम्प्रत्ययवत्कृञोऽनुप्रयोगस्ये॑त्येकं वाक्यं,पूर्ववत्कृञोऽनुप्रयोगस्ये॑ति अन्यद्वाक्यमति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण = पूर्वप्रयुक्तेन एधादिधातुना, तुल्यमित्यर्थ- । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयथ्र्याद्द्वितीयं वाक्यं नियमार्थं संपद्यते ।पूर्ववदेव आत्मनेपदं न तु तद्विपरीत॑ मिति । एवं च पूर्ववाक्येन एधाञ्चक्रे इत्यादौ कृञः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले 'स्वरितञित' इत्यात्मनेपदस्य निवृत्तिः फलति । तदाह — तेनेति । द्वितीयवाक्येनेत्यर्थः । न तङिति । न आत्मनेपदमत्यर्थः । एवं चाऽनुप्रयुज्यमानात्कृञो लिटस्तङि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते — ।
SK 2241 · A 3.4.81V
लिटस्तझयोरेशिरेच् ॥ २२४१ ॥
liṭastajhayoreśirec
Siddhānta-kaumudī
लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं, तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥
Tattvabodhinī
alignment inferredNSP p. 357—लिटस्तझयोः—। एशिति शकारकरणमकारविशिष्टतकारस्यादेशलाय
Bālamanoramā
लिटस्तझयोरेशिरेच् - लिटस्तझयो । ननु लिटस्तझयोरिशिरिजित्येवास्तु, आदेशयोरेकारोच्चारणं व्यर्थं, टित आत्मनेपदानामित्येत्वेनैन सिद्धेरित्यत आत — एकारोच्चारणमिति । ज्ञापनस्य फलमाह — तन डारौरसां नेति डा रौ रस् — एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायादेत्वं नेति लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् । कृ ए इति स्थित इति । तकाराऽकारसङ्घातस्य एकारः शित्त्वात्सर्वादेश इति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 357 वन्ध्रक्षेति—अन्यथा उरत्त्वस्यापरनिमित्तत्वात्स्थानिवत्त्वाभावेन ‘न संप्रसारणे—’ इति निपेधानापत्तिः ।
SK 2242 · A 1.2.5कित्त्वातिदेशः
असंयोगाल्लिट् कित् ॥ २२४२ ॥
asaṃyogālliṭ kit
Siddhānta-kaumudī
असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च SK 2217 इति निषेधात् सार्वधातुकार्धातुकयोः SK 2168 इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥
Tattvabodhinī
alignment inferredNSP p. 357—असंयोगात्—। असंयोगादिति किम् । ममन्थे । अत्र नलोपो न
Bālamanoramā
असंयोगाल्लिट् कित् - असंयोगाल्लिट् । अपिदिति । 'सार्वधातुकमपित्' इत्यतस्तदनुवृत्तेरिति भावः । 'सार्वधातुकमपित्' इति ङित्त्वं तु नात्र प्रवर्तते, लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः ।
SK 2243 · A 1.1.59स्थानिवद्भावातिदेशः
द्विर्वचनेऽचि ॥ २२४३ ॥
dvirvacane'ci
Siddhānta-kaumudī
द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥
Tattvabodhinī
NSP p. 357–359—द्विर्वचनेऽचि । अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते । यद्वा । उच्यत इति वचनं द्विर्वचनं यस्मिन्नचि तद्विर्वचनम् । अथवा द्विर्वचनमस्मिन्नस्तीत्यर्थाश्च । तदेत-दाह—द्वित्वनिमित्तेऽचीति । इह ‘अचः परस्मिन्—’ इत्यतोऽच इति, ‘स्थानिवदादेशः—’ इत्यस्मादादेश इति, ‘न पदान्त—’ इत्यतो नेति चानुवर्तते तदाह—अच आदेशो न स्यादिति । यद्यपीह वृत्त्यादौ अजादेशः स्थानिवत्स्यादिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः । किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु । ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्यर्शनं वरम्’ इति न्यायात् । ‘न पदान्त—’ इति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः । इष्टानुरोधेन द्विर्वचन इत्यावर्यं कालावधारणपरतयापि व्याचष्टे—द्वित्वे कर्तव्ये इति । कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः ॥ द्विलनिमित्ते किम् । दुष्पूर्वतीत्यत्र द्विलात्परलादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात् तदा दिष्पूर्वतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्विलनिमित्त इत्युक्तम् । नह्यूठ् द्विलनिमित्तम् । अचीति किम् । जेष्टीयते । देध्मीयते । शाशय्यते । इह ‘ई घ्राध्मोः’ इति ईकारः । ‘अयङ् यि क्विति’ इत्ययङादेशश्च निषिध्यते स माभूदिति प्राम्बः । अन्ये लाहुः । अचीति व्यर्थं घ्रीयध्मायशय्य इति द्वितीयाज्वाधकस्यैकाचः कार्यितया यद्यो द्विलनिमित्तलाभावादिति । अचः किम् । असूषुपत् । इह ‘स्वापेक्षङि’ इति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत । न च द्वित्वे कृते पुनः संप्रसारणेन स्वापेरवयवलाविशेषादभ्यासे तदुत्तरस्वरूढे च उकारश्रवणं भवेदिति वाच्यम् । परस्य संप्रसारणे कृते यून इत्यत्रेव ‘न संप्रसारणे—’ इति पूर्वस्य यणः संप्रसारणनिषेधात् । स्यादेतत् । चक्रतुरित्यत्र अच आदेशस्य निषेधाप्रवृत्त्या यण् स्यादेव । अतुसो द्विलनिमित्तत्वेऽप्यकारस्यातथालात् । न च ‘द्विर्वचनेऽचि’ इत्यस्य वैयर्थ्यम् । चक्र इत्यादौ सावकाशलात् । तथा चैकाच्लाभावात् ‘लिटि धातोः—’ इतीह द्वित्वं न स्यादिति चेत् । मैवम् । इह द्विलनिमित्तशब्देन साक्षाद्वा समुदायघटकतया वा यद्विलप्रयोजकं लक्ष्यानुरोधेन तस्य सर्वस्य प्रहणात् । एतच्च ‘ठस्येकः’ इति सूत्रे कैयटे स्पष्टम् । तथाच कर्णोतेः सनि ‘सनीवन्त—’ इतीदपक्षे ‘विभाषोणांः’ इति ङित्वविरहे कर्णुनविषतीति सिद्धम् । सन्नन्तस्य द्विलविधानेऽपि सनो द्विलप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणावादेशयोर्द्वित्वे कर्तव्ये निषेधात् । अत एवाहुस्तद्भावभावितामात्रेणेह निमित्तलमिति । एवं च द्विलनिमित्तघटकतया सन इङागमोऽतुस अकारश्च द्विलनिमित्तमिति स्थितम् । नन्वेवम् ऋधातोः सनि ‘स्मिपूङ्-डवशां सनि’ इति इटि कृते इस्शब्दनिमित्तकस्य गुणस्य ‘द्विर्वचनेऽचि’ इति निषेधे ‘अजादेर्द्वितीयस्य’ इति द्विलप्रसङ्गादरिरिपतीति न सिध्येत् । रिस्शब्दनिमित्तकस्य द्वित्वे तु यद्यपि सिद्ध्यति तथापि गुणनिषेधे रिस्शब्द एव दुर्लभ इति चेत् । अत्राहुः । गुणे रपरे कृते रिस्शब्दस्यैव द्विलम् । नच द्विलनिमित्ते ह्यचि गुणस्य निषेधः । इस्शब्दस्तु नेह निमित्तं कार्यित्वात् । न हि कार्यो निमित्ततयाऽऽश्रीयते ‘स्थण्डिलाच्छयितरि व्रते’ इति ज्ञापकात् । अन्यथा शीडो ङित्वेन ‘क्विति च—’ इति गुणनिषेधाच्छयितरीति रूपस्यासिद्ध्यापत्तेः । न च किति ङिति परे गुणवृद्धी नेति व्याख्यायामुक्तार्थे शयितरीति न ज्ञापकमिति वाच्यम् । तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य ‘क्विति च’ इति सूत्र एवोपपादित्वात् । न चैवं कार्यिणो निमित्तलानाश्रयणे सन्नन्तस्य कार्यित्वात्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादर्शुनविषतीत्यपि न स्यादिति वाच्यम् । मलर्थयिनेनिना कार्यमनुभवत एव कीर्यित्वालाभात् । कर्णोतेर्हि नुशब्द एव द्विलरूपं कार्यमनुभवति न तु सन् । अरिरिपतीत्यत्र तु रिस्शब्दः कार्यभागिति वैषम्यादिति ॥—उभयान्वयीति । मध्ये पाठादेहलीदीपन्यायेन पूर्वोत्तराभ्यां संवध्यत इत्यर्थः । तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविण्निषेधः फलम् । नित्स्वरेण संप्रत्युदात्त्वात् । पिपक्षति विभत्सतीत्यादाविण्निषेधस्तु पूर्वान्वयस्य फलम् । द्वित्वे कृते अनेकाच्लात् ॥ नन्वेकाच इत्युक्ते ह्युपदेशपदेनाप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु उपदेशेऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते—एकाचः किमिति । पिपक्ष- तीलादाविव यङ्लक्यपीण्निषेधः स्यादेवेलाशङ्कायामाह—स्मरन्ति हीति ॥—दितपेत्यादि । दितपा यथा—स्यति- हन्तियातिवातिद्रातीलादि । तेन प्रन्यजङ्घनीदिलादौ ‘नेर्गद-’ इति णत्वं न । शपा यथा—भरेति । तेन विभर्तेः सनि विभरिषतीलत्र ‘सनीवन्तर्ध-’ इतीड्विकल्पो न किंतु नित्यमेवेद् । ‘एकाच-’ इति निषेधाप्रवृत्तेः । अनुवन्धेन निर्देशो द्विधा स्वरूपेणेत्संज्ञकत्वेन च । स्वरूपेण यथा—‘शीडः सार्वधातुके गुणः’ ‘दीडो युडचि’ इति । शेशितः । देवितः । तसि कंप्रत्यये चेमे क्रमेणोदाहरणे । इत्संज्ञकत्वेन यथा—‘अनुदात्तडितः-’ इति । तेन सर्धशीडादिभ्यः, ‘अनुदात्तडितः-’ इत्या- त्मनेपदं न । पासधीति । शेशयीति । गणेन यथा—वेभिदीति । ‘रुधादिभ्यः-’ इति श्रम् न । एकाच्प्रहणं प्रकृतसूत्रे । तेन वेभेदिता चेच्छेदितेलादाविण्निषेधो न ॥—एतच्चेति । न च दितपाशपायंशे कथमिदं ज्ञापकमिति शङ्क्यम् । एक- देशानुमतिद्वारा सर्वत्र ज्ञापनस्य ‘उपपदमतिङ्’ इत्यादौ दृष्टत्वात् । अत एव तत्र ‘गतिकारकोपपदानां कृद्भिः सह समा- सवचनं प्राक् सुवुत्पत्तेः’ इति सिद्धमित्युक्तम् । अनन्यार्थैः स्यतिहन्तिभरेत्यादिभिः दितवादिभिरेव ज्ञापनसंभवाच्च । ‘अप- रसराः-’ इति सूत्रे सातत्यप्रहणेन एकदेशानुमत्या ‘लुम्पेदवश्यमः कृत्ये’ इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवा- वीचाम । मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाया ज्ञापनस्य ‘गतिकारकोपपदानाम्-’ इत्यादौ दृष्टत्वा- दित्युक्तं तदयुक्तमिति नव्याः । ‘गतिकारकोपपदानाम्-’ इत्याद्येव हि पूर्वाचार्याणां परिभाषा । न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति ॥—तद्वत इति । न च मलयेलक्षणायां मानाभावः । वसलादीनामनुदात्तपाठस्यैव तत्र मानलात् । न चेदानीमनुदात्तपाठः परिभ्रष्टः, आधुनिकानां वसतिशक्तीलादिपाठस्लनार्षलान्न मानमिति शङ्क्यम् । पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैर्व्याख्यानृपरम्परया संगृहीतलात् । अन्यथा एकः अच् यस्येति बहुव्रीहिलाभार्थमेकप्रहणे कृतेऽन्यनुदात्तपाठस्य परिभ्रष्टलात् वसतिशक्त्यादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात् ॥— एकप्रहणेति । नन्वेकाज्प्रहणं यङ्लग्व्यावृत्त्यर्थमित्युक्तौ पुनरेकप्रहणसामर्थ्यादित्युक्तौ परसरव्याघातः स्यादिति चेत् । अत्राहुः । एकाच्छब्देनैकाज्प्रहणं यङ्लग्व्यावृत्त्यर्थमिति नार्थः किं तु वस्तुगत्यैवैकाज्प्रहणं तच्चैकप्रहणं विनैव लभ्यत इत्यदोष इति ॥—वधेरिति । यस्तु तथावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना स एव प्राचाऽनुमृतः । ‘अद्वद्वंदन्तम्बुक्षुण्णशीयुनुक्षुश्विडीङ्धिभिः । वृङ्ग्व्यां च विनैकाचः स्वरान्ता धातवोऽनिटः’ इति । स चादन्तपर्युदास इहोपेक्षितः । सूत्राननुगुणलात् । तथाहि—‘सर्वे सर्वपदादेशाः’ इति न्यायेन कृइत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् । अदन्तपर्युदाससामर्थ्यादिति चेत् । न । सूत्रकारेणाऽपर्युदस्तलादिति भावः ॥—इणः षीध्वम्—। ‘इण्कोः’ इत्यधिकारेऽपि पुनरिण्प्रहणं कवर्गात्परस्य माभूदित्येतदर्थम् । तेनेह न । पक्षीध्वम् ॥—अङ्गात्परेषामिति । विहितानामित्युक्तौ तु दानो लुङि अदिइंद्रुमित्यत्राव्यासिः स्यात् लिहदुहनहां तु ढलघलधत्वेषु लिक्षीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्यासिश्च स्यादिति बोध्यम् ॥ अङ्गात् किम् । वेविषीध्वम् । यद्यप्यर्थवतः षीध्वमित्यस्य प्रहणात् कृषीद्रुमित्यादावेव भवेत् नलत्र, तथाप्यर्थवद्ग्रहणपरिभाषा कचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम् । तेन ‘अनिनस्मन्प्रहणानि—’ इति सिद्धम् ॥—एधांवभूवेत्यादि । ‘आम्प्रत्ययवत्—’ इति सूत्रे कृत्र्यप्रहणादनुप्रयोगान्तरे तङ् नेति ‘शेषात्कर्तरि—’ इति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव एधांवभूवे ईक्षांवभूवे इति । अस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते । तथाहि । उभयत्रापि ‘ह एति’ इति हादेशे कृते एधामाहे ईक्षामाहे इति केचित् । तासिसाहचर्यादिव्येव हत्वं न त्वेशीत्यन्ये । तत्साहचर्यादेव सार्वधातुक एव एति हत्वम् । तथा च कर्मव्यतिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि । तेन एधामासे ईक्षामासे इत्येव रूपमित्यपरे ॥—कुभ्वितीति । यद्यपि कृत्र् इत्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं प्रत्याहाराश्रयणे कृते इति भावः ॥—पररूपापवाद इति । अपवाद इत्ययं ग्रन्थो नामधातुप्रक्रियास्थस्वग्रन्थेन सह विकृष्यते । तत्र हि अ इवाचरति अति । प्रत्ययप्रहणमपनीय कास्यनेकाज् इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् ‘अतो गुणे’ ‘अत आदेः’ इति दीर्घः । णल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात् प्रागेव परत्वात् ‘अत आदेः’ इति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति नव्याः
Bālamanoramā
द्विर्वचनेऽचि - द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं । द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् ।अचः परस्मिन्नित्यतोऽचेति, 'स्थानिवदादेश' इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं चद्वित्वे कर्तव्ये सती॑ त्यपि लभ्यते । तदाह — द्वित्वनिमित्तेऽचीत्यादिना ।द्वित्वे कर्तव्ये सती॑त्युक्तेः कृते द्वित्वे 'चक्रे' इत्यादौ यणादयो भवन्ति । अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा च 'द्यू' इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । न तूकारः । 'द्वित्वनिमित्ते' इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात् । अचीति किम् । जेघ्रीयते । अत्र घ्राधातोर्यङि द्वित्वात्प्राकई घ्राध्मो॑रितीकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्त यङ्निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात् । अचः किम् । असूषुपत् । इह स्वापेश्चङि द्वित्वात्प्राक्स्वापेश्चङी॑तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात् । ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति । संप्रसारणे निषिद्दे तु 'स्वप्' इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात्प्राग्लिटि धातो॑रिति द्वित्वे कृ कृ ए इति स्थिते — ।
Footnotes (NSP 1915 ed.)
NSP p. 358 १ पौध्वमिति—पकारोच्चारणं तु मुवीध्वमित्यत्रैकदेशविकृतन्यायेन सीध्वमः सत्त्वादतिव्याप्तिवारणार्थमिति । २ पररूपाप-वाद इति—पररूपप्रदमेकादेशोपलक्षणम् , अनुजे इत्यादौ गुणस्यैव प्राप्तेः । अभ्यासविकारेषु वाध्यवाधकभावाभावेन पूर्वोपस्थित-इलादिःश्लेषोत्तरं दीर्घं इति भावः ।
NSP p. 359 १ प्रत्यये इति—तेन पयो धावतीत्यादौ न सर्वोपः । २ पत्वमिति—लक्ष्यभेदात्पुनः प्रवृत्तिरिति भावः । युगपदेवो-भयोर्वा । ३ मते तु इति—तुना भाष्याननुग्रहरूपोऽस्वरसो बोधितः ।
SK 2244 · A 7.4.66V
उरत् ॥ २२४४ ॥
urat
Siddhānta-kaumudī
अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः SK 2179 प्रत्यये किम् । वव्रश्च ॥
Bālamanoramā
उरत् - उरत् । उः — अदिति छेदः ।ऋ॑इत्यस्य उरिति षष्ठएकवचनम् ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतं । तद्वशात्प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसंज्ञाविधानात् । तदाह — अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याऽकारस्योरण्रपर इति रपरत्वमित्यर्थः । तथा च कर् कृ ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः । प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'ओ व्रश्चू च्छेदने' , लिटि णल् द्वित्वं । लिटभ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः । उरत् । रपरत्वम् । हलादिः । शेषः । वव्रश्चेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्यन सम्प्रसारणे सम्प्रसारण॑मिति निषेधान्न सम्प्रसारममिति स्थितिः । उरदित्यत्र 'प्रत्यये परत' इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतोन सम्प्रसारणे सम्प्रसारण॑मिति निषेधो न स्यादिति भावः ।
SK 2245 · A 7.4.62V
कुहोश्चुः ॥ २२४५ ॥
kuhoścuḥ
Siddhānta-kaumudī
अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥
Bālamanoramā
कुहोश्चुः - एवं च — कृ कृ ए इति स्थिते — कुहोश्चुः । कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम् ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोषआआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात् । नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषआआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च । नापि चतुर्थः महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारआआसप्रयत्नत्वात् । नापि तृतीयपञ्चमौ, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः । तदाह — एधांचक्र इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ- । एधांचक्राते इति । कृञो लिट आतामि टेरेत्वम् ।द्वर्वचनेऽची॑ति यणि निषिद्धे 'कृ' इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिहद्वर्वचनेऽची॑ति यण्निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् ।
SK 2246 · A 7.2.10V
एकाच उपदेशेऽनुदात्तात् ॥ २२४६ ॥
ekāca upadeśe'nudāttāt
Siddhānta-kaumudī
उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाचेति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि - [(परिभाषा - ) श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि] ॥ 1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥
Bālamanoramā
एकाच उपदेशेऽनुदात्तात् - अथ लिटि थासः सेभावे 'कृ' इत्यस्य द्वित्वादौ एधां च कृ से इति स्थितेआर्धधातुकस्येड्वलादे॑रितीडागमे प्राप्ते -एकाच उपदेशे । 'ऋत इद्धातो' रित्यतो धातुरित्यनुवर्तते ।नेड्वशि कृती॑त्यतो नेति च । तदाह — उपदेशे यो धातुरेकाजिति । #एकोऽच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति । यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् । नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृदन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृतेञ्नत्यादिर्नित्य॑मित्याद्युदात्तत्वात् । यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह — उपदेश इत्युभयान्वयीति । 'उपदेश' इत्येतत्एका॑जित्यत्र, 'अनुदात्ता' दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः । ननूदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति — एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह — एतच्चेति । एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु 'हनो वध लिङि'लुङि चे॑ति आह — अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम् ।एकाच उपदेशेऽनुदात्ता॑दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शकॢपचिमुच्यादीनां परिगणनसामर्थ्येन 'अच' इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ- । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे — हनिति स्थान्युपदेशे — एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ- । कुत इत्यत आह — आदेशोपदेश इति ।अवधी॑दित्यत्र 'अतो हलादेर्लघो' रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के तेऽनुदात्ता धातव इत्यत आह — अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम् । पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृषे इति । इडभावे प्रत्ययावयवत्वात्षत्वम् । एधांचक्राथे इति । लिट आथामादेशः । टेरेत्वंद्वित्वादि पूर्ववत् । लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ — ध्वे इति स्थिते ।
SK 2247 · A 8.3.78V
इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ २२४७ ॥
iṇaḥ ṣīdhvaṃluṅliṭāṃ dho'ṅgāt
Siddhānta-kaumudī
इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । एधाम्बभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥
Bālamanoramā
इणः षीध्वंलुङ्लिटां धोऽङ्गात् - इणः षीध्वं । षीध्वं लुङ्लिट् एषां द्वन्द्वः । 'धः' इति षष्ठएकवचनम् । 'इण' इत्यङ्गविशेषणम् । तदन्तविधिः ।अपदान्तस्य मूर्धन्य॑ इत्यधिकृतं । तदाह — इणन्तादित्यादिना । धकारस्य ढकारो मूर्धन्यः, घोषसंवारनादमहाप्राणप्रयत्नसाम्यात् । तदाह — एधांचकृञढ्व इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववत् द्वित्वादौ कृते रूपमाह — एधांचक्रि इति । एधांचकृवह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववत् । एवं लोटि महिभावे द्वित्वादि पूर्ववत् । सर्वत्राऽसंयोगाल्लिट्कदिति कित्त्वाद्गुणाऽभावः । अथ भूधातोर्लिडन्तस्यानुप्रयोगे उदाहरति — एधांबभूवेति । एधाञ्चक्र इत्यनेन समानार्थकम्, अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वादस्तेर्भूरित्यार्धधातुके विहितो भूभावुः कुतो न स्यादित्यत आह — अनुप्रयोगेति । कृञ्चानुप्रयुज्यत इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति — अन्यथेति । अनुप्रज्यमानस्याऽस्तेर्भूभावाभ्युपमे कृञ्चानुप्रयुज्यत इत्यनुप्रयोगविदौक्रस्चानुप्रयुज्यते॑ इति वा,कृभु चानुप्रयुज्यते॑ इति वा ब्राऊयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपिकृ॑ञित्युतक्त्वौ लाघवमस्ति तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भाव । अत एवाऽत उत्सार्वधातुक इति सूत्रभाष्येऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते ।
SK 2248 · A 7.4.70V
अत आदेः ॥ २२४८ ॥
ata ādeḥ
Siddhānta-kaumudī
अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवाद । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
Bālamanoramā
अतः आदेः - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधामस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'दीर्घ इण' इत्यतो दीर्घ इतीति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् 'अ इवाचरति अती' त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।
SK 2249 · A 8.2.25V
धि च ॥ २२४९ ॥
dhi ca
Siddhānta-kaumudī
धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥
Bālamanoramā
हो ढः - अथ हकारान्ताः । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूपयितुमाह — हो ढः । 'ह' इति षष्ठन्तम् । झलो झलीत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् ।स्कोः संयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — हस्येति । झलीति । झलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य वेत्यर्थः । नच डकार एव कुतो न विहित इति वाच्यं,वा द्रुहे॑त्यत्र वक्ष्यमाणत्वात् । पदान्तत्वादिति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति ।लिह आस्वादने॑क्विष् । हल्ङ्यादिना सुलोपः । हस्य ढत्वे 'वावसाने' इति चर्त्वविकल्प इति भावः । लिड्भ्यामिति । स्वादिष्वसर्वनामस्थाने॑ इति पदत्वाज्झलां जशोऽन्ते॑ इति जश्त्वमिति भावः । इत्यादीति । लिड्भिः । लिड्भ्यः । लिहे । लिहः । लिहः लिहो लिहाम् । लिट्त्सु इति । लिह्-सु इति स्थिते हस्य ढः । तस्य जश्त्वेन डः ।खरि चे॑ति चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति धुट् । ततो डस्य चर्त्वेन टः । धुटश्चर्त्वसंपन्नस्य तकारस्याऽसिद्धत्वा॑च्चयो द्वितीयाः॑ इति न भवति ।न पदान्ता॑दिति तकारस्य ष्टुत्वं न । लिट्सु इति । धुडभावे रूपम् । हस्य ढः । तस्य जश्त्वेन डः । तस्य चर्त्वेन टः । तस्याऽसिद्धत्वा च्चयो द्वितीयाः॑ इति न । 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः ।
SK 2250 · A 7.4.52V
ह एति ॥ २२५० ॥
ha eti
Siddhānta-kaumudī
तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥
Bālamanoramā
ह एति - अथ लुट इडादेशे एत्वे तासि इटि एधितास्, ए इति स्थिते — ह एति । 'ह' इति प्रथमान्तम् । अकार उच्चारणार्थः । सः स्यार्धधातुक इत्यतः स इति, तासस्त्योर्लोप #इत्यतस्तासस्त्योरिति चानुवर्तते । तदाह — तासस्त्योरिति । तासः सस्य हकारे 'एधिताहे' इति रूपम् । एधितास्वहे इति । लुटो वहिभावः । टेरेत्वं । तास् । इट् । एवम् — एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटस्तादेशे टेरेत्वम् ।स्यतासी॑इति शबपवादः स्यः ।इट् । प्रत्ययावयवत्वात्षत्वम् । एधिष्येते इति । आताम् । टेरेत्वं । स्यः । इट् । 'आतो ङित' इत्याकारस्य इय् । लोपो व्योरिति यलोपः । आद्गुणः । षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वं । झकारस्य अन्तादेशः । स्यः ।इट् । पररूपं । षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से ।स्यः । इट् । षत्वम् । एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः । इट् । षत्वम् । एधिष्यद्वे इति रूपम् । इट एत्वे स्यः । इडागमः । षत्वम् । अतोगुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्रोष्टेरेत्वम् । स्यः । इट् । अतो दीर्घः । एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ।
SK 2251 · A 3.4.90V
आमेतः ॥ २२५१ ॥
āmetaḥ
Siddhānta-kaumudī
लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥
Bālamanoramā
आमेतः - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । 'आमेत' इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।
SK 2252 · A 3.4.91V
सवाभ्यां वामौ ॥ २२५२ ॥
savābhyāṃ vāmau
Siddhānta-kaumudī
सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥
Bālamanoramā
सवाभ्यां वामौ - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य 'व' इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । 'आतो ङि' इत्याकारस्य इय् । गुणः । यलोपः 'आमेत' इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।
SK 2253 · A 3.4.93V
एत ऐ ॥ २२५३ ॥
eta ai
Siddhānta-kaumudī
लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥
Bālamanoramā
इतश्च - इतश्च । लस्येत्यधिकृमतम् ।इतश्च लोपः परसमैपदेष्वि॑त्यस्माल्लोप इति, परस्मैपदेष्विति चानुवर्तते । परस्मैपदष्वित्येततत्षष्ठआ विपरिणम्यते । तदाह — ङितो लस्येत्यादिना । अलोऽन्त्यस्येत्यन्त्यस्य लोपः । तदाह — अभवदिति । अभवतामिति । लङस्तस्तामादेशः । शप् गुणावादैशौ । अट् । अभवन्निति । झेरन्तादेशः । शप् गुणावादेशौ ।अट् ।इतश्चे॑तीकारलोपः । तकारस्य संयोगान्तलोपः । अभव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ । अभवतमिति । थसस्तमादेशः । शप् । गुणावदेशौ । अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशेऽटि । अभवमिति । मिपोऽमादेशे शपि गुणेऽवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादेशौ । अट् ।अतो दीर्घो यञी॑ति दीर्घः । 'नित्यं ङित' इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लङप्रक्रिया ।
SK 2254 · A 6.4.72V
आडजादीनाम् ॥ २२५४ ॥
āḍajādīnām
Siddhānta-kaumudī
अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । आटश्च SK 269 । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥
Tattvabodhinī
NSP p. 359—आडजादीनाम् । एतच्चाजादीनामटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटि सति ‘वृद्धिरेचि’ इत्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिद्ध्येत् । किं च ‘अतो गुणे’ इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिद्ध्येत् । यदि तु ‘आटश्च’ इति सूत्रं ‘अटश्च’ इति क्रियेत तर्हि अस्वपोऽहसत् इत्यत्र वृद्धिः स्यात् । ‘रुदश्च पञ्चभ्यः’ ‘अड्गार्ग्यगालवयोः’ इति अडागमस्य सत्वात् ‘अतो रोरहुतात्’—इति रोरुत्वे सति अच्परत्वाच्चेति चेत् । न । ‘उपसर्गादृति धातौ’ इत्यतो धातावित्यपकृष्याजादौ धाताविति व्याख्यानात् । न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाट्त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम् । आदित्यनुवर्त्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तौ ‘अट गतौ’ इत्यस्माल्लयुटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तम् । न चैवमपि आतत् आतीत् इत्यादि न सिद्ध्यति । ‘अटश्च’ इत्यस्य ऐन्ददित्यादौ सावकशतया परत्वादिह ‘अतो गुणे’ इत्यस्यैव प्रवृत्तेरिति वाच्यम् । चकारोऽत्र पुनर्वृद्धिविधानार्थं इत्यभ्युपगमादन्तरङ्गत्वाद्वा ‘अटश्च’ इत्यस्यैव प्रवृत्तेः । स्यादेतत् । ‘आडजादीनाम्’ इति सूत्राभावे आस्ताम् आसन् इति कथमटा सिध्यति । ‘भ्रसोः—’ इत्यल्लो- पेन ‘अटश्व’ इति तत्र वृद्ध्यप्रवृत्तेः । मैवम् । अन्तरङ्गलात्प्रागेवाडागमे कृते वृद्धौ च कृतायां पश्चात् श्रसोरल्लोपस्याप्रसक्तेः । न च ‘वार्णादाङ्गं वलीयः’ इति वृद्धेः प्रागल्लोप एव स्यादिति शङ्क्यम् । व्याश्रयलात् ‘वार्णादाङ्गम्’ इति परिभाषाया अनिल्लाद्वा । तत्र हि ‘श्रसोरल्लोपः’ इति तपरकरणमेव लिङ्गम्, यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किं तेन तपरकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट् आव् इत्यादौ ‘छन्दस्यपि दृश्यते’ इत्याडागमस्य वक्ष्यमाणलात्तदर्थमाट्सूत्रं कर्तव्यं तथाप्याटं विनैवाड्व्यत्ययेन आङ्पूर्वकत्वेन वा तत्र कथंचिद्याख्येयमिति स्थितस्य गतिमाहुः ॥—सलोप इति । ‘लिङः सलोपोऽनन्त्यस्य’ इत्यनेन ॥—एध्येयातामिति । सीयुटः सलोपे आहुणः ॥—एधिषीध्वमिति । इणः परत्वेऽपि इणन्तादङ्गात्परलाभावात् ‘इणः षीध्वम्’ इति ढत्वं न भवति
Bālamanoramā
आडजादीनाम् - अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिंध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते — आडजादीनां । लुङादिष्विति । 'लुङ्लङ्लृङ्क्ष्वि' त्यनुवृत्तेरिति भावः । अटोऽपवाद इति । अटि सति पररूपं स्यादिति भावः ।आटश्चेत्यनन्तरंवृद्धि॑रिति शेषः । यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः । लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति ।आडजादीना॑मिति सूत्रं भाष्ये प्रत्याख्यातम् । ऐधेतामिति । आतामि शपि आटि वृद्धिः । 'आतो ङित' इत्याकारस्य #इय् । आद्गुणः । आटो वृद्धिः । ऐधावहि ऐधमहीति । वहिमह्योः शप्, आट्, वृद्धिः । इति लङ्प्रक्रिया ।
SK 2255 · A 3.4.102V
लिङस्सीयुट् ॥ २२५५ ॥
liṅassīyuṭ
Siddhānta-kaumudī
सलोपः । एधेत । एधेयाताम् ॥
Bālamanoramā
लिङस्सीयुट् - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।
SK 2256 · A 3.4.105V
झस्य रन् ॥ २२५६ ॥
jhasya ran
Siddhānta-kaumudī
लिङो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥
SK 2257 · A 3.4.106V
इटोऽत् ॥ २२५७ ॥
iṭo't
Siddhānta-kaumudī
लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥
Bālamanoramā
इटोऽत् - इटोऽत् । इटः -अत् इति च्छेदः ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।तदाह — लिङादेशस्येति । 'अच्च घे' रित्यत्रेव आदेशे तकार उच्चारणार्थ एव, नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदित्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । न विभक्ताविति निषेधस्तु न, आदेशत्वात्प्राग्विभक्तित्वाऽभावात् ।झस्य र॑न्नित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारानतरप्रश्लेषादुपदेशेऽन्त्यत्वाऽभावान्नकारस्य नेत्संज्ञेत्यलम् । एधेयेति । इट् । तस्य अकारादेशः ।सीयुट् शप् । सलोपः । आद्गुणः । एधेवहि । एधेमहीति । वहिमह्योः सीयुट् । सलोपः । शप् । आद्गुणः । यलोपः । इति विधिलिङ्प्रक्रिया । आर्धधातुकत्वादिति ।लिङाशिषी॑त्यनेनेति भावः । सलोपो नति । सार्वधातुकग्रहणस्य 'लिङः सलोप' इत्यत्रानुवृत्तेरिति भावः । सीयुट्सुटोरिति । लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमित्यन्ये । एधिषीष्टेति । आशिषि लिङस्तादेशः । आर्धधातुकत्वान्न शप् । सीयुट् । तकारस्य सुट् । सीयुटः सकारात्प्रागिडागमः । यलोपः । सीयुट सुटश्च सकारस्य षत्वं । तकारस्य ष्टत्वेन टकारः । एधिषीयास्तामिति । आताम् सीयुट् । अकारादुपरि तकारात्प्राक्सुट् ।सीयुः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरन्निति । झस्य रन् । सीयुट् । इजागमः । यकारलोपः । षत्वम् । एधिषीष्ठा इति । थास् सीयुट् । थकारस्य सुट् । सीयुटः प्रागिट् । सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । एधिषीयास्थामिति । आथाम् । सीयुट् । अकारादुपरि थकारात्प्राक्सुट् । सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम् सीयुट् यलोपः । सीयुटः प्रागिट् । षत्वम् । इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वं नास्ति, इटः प्रत्ययभक्तत्वात् । ततश्चइणः षीध्व॑मिति ढत्वं न भवति । एधिषीयेति । इटोऽत् । सीयुट् । इट् । षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योः सीयुट् । इट् षत्वम् । इत्याशीर्लिङ्प्रक्रिया । ऐधिष्टेति । लुङस्तादेशः । च्लिः । सिच् । इट् । धातोराट् । वृद्धिः । षत्वं ष्टुत्वम् । ऐधिषातामिति । आताम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् ।
SK 2258 · A 7.1.5V
आत्मनेपदेष्वनतः ॥ २२५८ ॥
ātmanepadeṣvanataḥ
Siddhānta-kaumudī
अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् SK 2247 ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः संगृह्यन्ते - ऊदॄदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ 1 ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥ 2 ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥ 3 ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥ 4 ॥ लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥ 5 ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥ 6 ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ 7 ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ 8 ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥ 9 ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ 10 ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ 11 ॥{$ {!3 स्पर्ध!} संघर्षे$} । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥
Tattvabodhinī
NSP p. 359–361—आत्मने—। ‘झोऽन्तः’ इत्यतो झ इति ‘अदभ्यस्तात्’ इत्यस्मात् अदिति चाजुवर्तते । तदाह—झस्यादिति । आत्मनेपदेषु किम् । अदन्ति । युन्वन्ति । अनतः किम् । एधन्ते । प्लवन्ते ॥—इङ्मिन्न एवेणिति । ‘विभाषेटः’ इति इयो विशिष्यग्रहणाद्गोवलीवर्दन्यायेन कैश्चिदिङ् विश्रामेणैह गृहत इति भावः ॥—ऊद्दन्तैरिति । ऊद्दन्तैर्विनां यौलादिभिर्विनां बृङ्कराध्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः । अनुदात्ता इत्यर्थः । तथा च दाता धाता चेता स्तोतेत्यादिषु इण् न भवति ऊदन्ता भूल्पभृतयः । ऋदन्ताः कॄतृप्रभृतयः । ‘यु मिश्रणादौ’ । ‘हं शब्दे’ । ‘हङ् गतिरेषणयो:’ इत्युभयोर्प्रहणम् । निरनुवन्धपरिभापया ‘छुखिकरणाऽछुखिकरणयो:’ इति परिभाषया च । नच साहचर्याल्लुखिकरणस्यैव प्रहणमिति शङ्काम् । तस्यानित्यत्वात् । ‘कृंग तेजने’ । ‘शीड् स्यामे’ । ‘णु प्रसवणे’ । ‘णु स्तुतौ’ । ‘दुष्टु शब्दे’ । ‘दुओश्चि गतिवृध्यो:’ । ‘ङीड् विहायसा गतौ’ । ‘श्रिञ् सेवायाम्’ । ‘बृङ् संभक्तौ’ । ‘बृञ् वरणे’ । नन्वेतद्भिन्नानामेकाचामेवानुदात्तत्वे ऊर्णुतः ऊर्णुतवानिलादि न सिध्येदिति चेत् । मैवम् । ‘ऊर्णोतेर्गुप्तङ्गावो वाच्य:’ इति वक्ष्यमाणवार्तिकेनेष्टसिद्धे: । तेन ऊर्णोनूयते इत्यत्र ‘धातोरेकाच—’ इति यड् । ऊर्णनावेलत्रानेकाच्त्वेन प्रबृत्तस्याऽभावश्च सिध्यति । उक्तं च भाष्ये—‘वाच्य ऊर्णोर्गुप्तङ्गावो यड्प्रसिद्धि: प्रयोजनम् । आमश्च प्रतिपेधार्थमेकाचश्चेदुपप्रहात्’ इति । ‘विभाषा गुणेऽस्त्रियाम्’ इति हेताविंश्य पञ्चमी । हेतुरिह फलम् । एतच्च कैयटे स्पष्टम् । उपप्रह: प्रतिपेधः । इदप्रतिपेधार्थमित्यर्थः । एवं च णुवङ्गावेनैकाच्छात्’ ‘भृयुक: किति’ इति निषेधप्रबृत्ते: ऊर्णुत इत्यादि सिध्यति । ‘एकाच उपदेशे—’ इतीणिनेषेधस्तु न प्रवर्तते, णुवङ्गावेनैकाच्त्वेऽप्यनुदात्तत्वभावात्, ऊर्णधातोर्गुप्तादीन्यं उदात्तत्वात्, तथा चोर्णविता और्णावीदिलाशयपि सिध्यम् । ‘वसतिशब्दघट्टम्य:’ इति प्राचो प्रन्थस्यं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह—शङ्ख इति । कान्त एकः । चान्तेषु पच्छच्छचिच्चिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिचिपद । ‘डूपचप् पाके’ । ‘पचि व्यक्तीकरणे’ । द्वावपि पचिलनेन गृह्यते । ‘मुच्छ मोक्षणे’ । रिचिलनेन ‘रिचिर् विरेके’ ‘रिच वियोजनसंपर्चनयो:’ इति यौजादिकश्च गृह्यते । वचिलनेन तु ‘बच परिभाषणे’ श्रुवो वचिरपि । वचियौजादिकोऽपि गृह्यते । ‘विचिर् पृथग्भावे’ । ‘पिच क्षरणे’ । छान्तेषु प्रच्छधेकः । जान्तेषु लाजनिजिर्मञ्जमञ्जूमुज्ज्ञस्त्वंज्ज्ञयज्युज्ज्ञस्त्वंज्ज्विजिर्सब्ज्ज्वृदश: पञ्चदश । भुजिलनेन ‘भुज पालनाभ्यवहारयो:’ ‘भुजो कौटिल्ये’ इति च गृह्यते । मुजिलनेन ‘मुजिर् योगे’ । ‘मुज समाधौ’ इति च गृह्यते । केचित्तु व्याघ्रभूतिश्छोके भाष्ये च मुजिल्येतत् ‘मुजिर् योगे’ इत्यत्रैकदेशोचारणमिलाहुसन्मते ‘मुज् समाधौ’ सेट् । मुजिलनेन तु ‘मुज विसर्गे’ दिवादिसुदादिश्च गृह्यते । दान्तेषु अद्भुदखिदछिदतुदतूपथभिदविघतिर्विनदशदसदस्विधस्कन्दहद: पञ्चदश । खिदिलनेन ‘खिद दैन्ये’ खिदातिखिन्दतिः खिन्तिश्च गृह्यते ॥—विद्यतीति । ‘विद सत्तायाम्’ ॥—विनदिति । ‘विद विचारणे’ धान्तेषु कुप्धूभूघुध्यवन्धयुध्दध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं ध्वं गृह्यते । नान्तेषु मन्यहनौ द्वौ । ‘मन ज्ञाने’ दिवादि: । पान्तेषु आपक्षिपूछुपत्पत्पत्पत्प्यटप्यलिप्छुपबपशपस्परभृयोदश । क्षिपिलनेन ‘क्षिप प्रेरणे’ क्षिप्यतिः क्षिपतिश्च गृह्यते । ‘छुप सर्धं’ तपिलनेन ‘तप संतापे’, ‘तप ऐश्वर्ये’ दिवादि:, ‘तप दाहे’ इत्यपि णिजभावपक्षे गृह्यते । ‘तिघ्ट क्षरणे’ तृप्यतिदृप्यलोवंट्कत्वेऽपि ‘अनुदात्तस्य चर्डुपधस्य—’ इत्यमर्थोऽयं पाठः । भान्तेषु यशूरभूतमस्त्रय: । मान्तेषु गमनम्यमरमश्चलारः । शान्तेषु कुबादंशदिशदशमशरीशहृदिशविशस्पृशो दश । ‘रिश् हश् हिंसायाम्’ । लिशिलनेन ‘लिश् अल्पीभावे’ दिवादि:, ‘लिश् गतौ’ तुदादिश्च गृह्यते ॥ षान्तेषु कृष्णपूछुपद्विपूडुपूष्ट्यपिपविष्शिपूङ्घपृश्छिष्य एकादश । कृषिति भैवादिकतौदादिकौ गृह्यते । विषिलनेन ‘बिष्ल्रं व्यासौ’ तिष्विषमिषिति दण्डकस्थोऽपि गृह्यते । शिषिलनेन तु ‘शिष्ल्रं विशेषणे’ कष खष शिषेति दण्डकस्थश्च गृह्यते ॥ विषिति ‘विष्ल्रं व्यासौ’ इति जौहोलादिक एव गृह्यते न तु दण्डकस्थः । शिषिलनेनापि ‘शिष्ल्रं विशेषणे’ इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादय: । सान्तेषु घट्टलवसती द्वौ, ‘घट्ट अदने,’ ‘छुङ् सनोर्घट्टः’ इत्यत्रैत्तरदेशस्य तु स्थान्यनुदात्तत्वेनापि सिध्यम् । हान्तेषु दहदिहृदूदमिहन्दह्दहिहद्योऽग्रौ । दुहिलनेन दुहिरिति भैवादिको न गृह्यते किं तु ‘दुह प्रपूरणे’ इति आदादिक एवेति प्राच्छ: । इह मनोरमायां संग्रहश्छोक उक्तः—कचच्छजा दधनपा भमशा: शसहा: क्रमात् । कचका णणटा: खण्डो गघञाष्टखजा: स्मृता:’ इति । तत्र पूर्वार्थॉपात्ता ये चतुर्दशं वर्णास्तदन्ता धातवः उत्तरार्थॉपात्तका- दिक्रमेण ये वर्णास्तत्संख्याका वोध्या इत्यर्थः । अत एव कान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम् । क इत्येकस्य, च इति षण्णां, ण इति पञ्चदशानां संज्ञेत्याद्यन्युपगमात् ॥ पान्तेषु द्वयोः इयना निर्देशस्य फलमाह—तुदादाविति । तृप्हपी मतभेदेन तुदादौ स्थितौ । चुरादौ तु तृपिः सर्वमतेन स्थितः दृपिस्त्वेकीयमतेनेति विवेकः । अत एव वक्ष्यति । ‘तृप तृम्फ तृप्तौ’ । द्वावपि द्वितीयान्तावित्यन्ये । ‘दृप दृम्फ उत्क्लेशे’ । प्रथमः प्रथमान्तः द्वितीयो द्वितीयान्त इत्येके इति च तुदादौ । चुरादौ तु ‘तृप तृप्तौ’ । ‘तृप दृप संदीपने’ इत्येके इति च ॥—अन्यनि-वृत्तये इति । निवर्तनीयास्तु ‘विध्विदा स्नेहनमोचनयोः’ । ‘पद स्थैर्ये’ । ‘विध गत्याम्’ । ‘विधू शास्त्रे माङ्गल्ये च’ । ‘बुधिर् बोधने’ इति भौवादिकाः । ‘मनु अवबोधने’ तानादिकः । ‘पुष पुष्टौ’ भौवादिकः क्रैयादिकोऽनुदात्तश्च । ‘श्लिष दाहे’ भौवादिकः । ‘वस आच्छादने’ आदादिकः, एते अनुदात्तत्वराहित्यात् सेटः । ‘युव् वन्धने’ क्रैयादिकोऽयमनुदात्त इत्यनिट् । इयना निर्देशेन संग्राह्यास्तु ‘विध्विदा गात्रप्रक्षरणे’ । ‘पद गतौ’ । ‘विधु संराद्धौ’ । ‘बुध अवगमने’ । ‘मन ज्ञाने’ । ‘पुष पुष्टौ’ । ‘श्लिष आलिङ्गने’ । ‘वस निवासे’ । एतेऽनिटः । ‘यु मिश्रणामिश्रणयोः’ अयं सेट् ॥—अमी तथेति । ‘णिजि शुद्धौ’ । ‘ओविजी भयचलनयोः’ । ‘शक मर्षणे’ । इत्येषां क्रमेण आदादिकतौदादिकदैवादिकानां व्या- वृत्तये सानुवन्धा निर्दिष्टा इत्यर्थः । विन्दतिरिति ‘विद् लाभे’ ॥—इष्ट इति । अनिद्वेनेति शेषः ॥—भाष्यानुक्ता इति । भाष्यकृताऽनुक्ताः, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः । ततश्च व्याघ्रभूत्यादिग्रन्थानुरोधात् शुष्क धृष्टौ ‘क्तेन नञ्विशिष्टेनानञ्’ इत्यादि सौत्रप्रयोगाद् तु प्रतिपत्तुमित्यादिसंबन्धैकिकव्यवहाराच्च उपलक्षणतयैव भाष्यं नेयमिति भावः ॥—अकर्मक इति । अत्र केचित् । अभिभवेच्छा धात्वर्थस्तथा च स्पर्धार्थकस्य सकर्मकता दृश्यते ‘आहास्त मेरावमरावतीं या’ इति । उदाहरिष्यते च ‘स्पर्धायामाहः’ इत्यत्र स्वयमेव ‘कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थः’ इति । श्रीहर्षोऽपि प्रायुः—‘तन्नासत्ययुगान्तं वा त्रेता स्पर्धितुमर्हति’ इति । अतोऽस्य सकर्मकत्वं न्याय्यमित्याहुः
Bālamanoramā
आत्मनेपदेष्वनतः - अथ झस्य आदेर्झकारस्य झोऽन्त इत्यन्तादेशे प्राप्ते — आत्मनेपदेषु । 'झोऽन्त' इत्यतो झ इति षष्ठन्तमनुवर्तते ।आत्मनेपदेष्वि॑ति षष्ठर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । 'अदभ्यस्ता' दित्यतोऽदित्यनुवर्तते । न अत् अनत् । तस्मादिति विग्रहः । तदाह — अनकारादित्यादना । ऐधिषतेति । झावयवझकारस्य अदित्यादेशः । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । ऐधिष्ठा इति । थास् च्लिः । सिच् इट् । आट् । वृद्धिः । षत्वं । थकारस्य ष्टुत्वेन ठकारः । रुत्वविसर्गौ । ऐधिषाथामिति । आथाम् । च्लिः । सिच् । इट् । आट् । वृद्धिः । षत्वम् । अथ ध्वमो धस्य ठत्वं स्मारयति — इणः षीध्वमिति । ऐधिढ्वमिति । ध्वम् । च्लिः । सिच् । इट् आट् वृद्धिः । धि चेति सस्य लोपः ।इणः षीध्व॑मिति धकारस्य ढत्वम् । इटो लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताऽङ्गत्वदिति भावः । इड्भिन्न एवेति । उत्तरसूत्रे 'विभाषेट' इत्यत्र इड्ग्रहणात्पूर्वसूत्रे इणः षीध्वमित्यत्र इड्भिन्न एव इण् गृह्रत इति केचिदाहुः । तन्मते तु प्रकृते इटः परत्वाद्धकारस्य ढत्वाऽभावे ऐधिध्वमित्येव रूपमित्यर्थः । इदं तु मतान्तरं भाष्याऽनारूढमिति सूचयितुंतु॑शब्दः । ढधयोरिति । मतभेदमाश्रित्येदम् । ढत्वाऽभावपक्षे धकारस्य अनचि चेति द्वित्वविकल्पाद्द्विधमेकधमिति रूपद्वयम् । एवं ढत्वे द्विढम्, एकढ॑मिति रूपद्वयम् । रूपचतुष्टयेऽपियणो मयो द्वे वाच्ये॑ इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादेकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथा च अष्टौ रूपाणि संपन्नानि । मकारस् द्वितवविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश (१६) रूपाणि संपन्नानीत्यर्थः । ऐधिषीति । लुङ इडादेशः । च्लिः । सिच् । इडागमः । आट् । वृद्धिः । वहिमह्रोस्तु च्लेः सिचि इडागमेआटि वृद्धौ ऐधिष्वहि ऐधिष्महीति रूपे । इति लुङ्प्रक्रिया । ऐधिष्यतेति । लृङस्तादेशः । स्यः । इट् ।आट् । वृद्धिः । षत्वम् । ऐधिष्येतामिति । आतां स्यः । इट् । आकारस्य इय् । आद्गुणः यलोपः । आट् वृद्धिः । षत्वम् । ऐधिष्यन्तेति । झावयवझकारस्यान्तादेशः । स्यः । इट् आट् वृद्धिः । षत्वम् । ऐधिष्यता इति । थास् । स्यः । इट् आट् । वृद्धिः । रुतविसर्गौ । ऐधिष्येथामिति । आथाम् । स्यः । इट् । आकारस्य इय् । आद्गुणः । यलोपः । आट् । वृद्धिः । षत्वम् ।ऐधिष्यध्वमिति । ध्वम् । स्यः । इट् । आट् । वृद्धिः । ऐधिष्य इति । इडादेशः । स्यः । इडागमः । षत्वम् । आद्गुणः । वहिमह्रोस्तु स्यः । इट् । अतो दीर्घः । आट् । वृद्धिः । षत्वम् । ऐधिष्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तेत्कत्वादेकाच उपदेशेऽनुदात्तादितीण्निषेधः कुतो न स्यादित्यत आह — उदात्तत्वादिति । एध धातुर्यद्यपि अनुदात्तेत्तथापि अनुदात्तस्याऽतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रसङ्गादिति.स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनां तदानीन्तनशिष्यपरम्परया आनुनासिक्यवदिदानीं ज्ञनं संभवतीति भावः । ऊदृदन्तैरिति । अजन्तेषु धातुषु ऊदन्तैः ॠदन्तैस्च धातुभिर्विना, यु रु क्ष्णु शीङ् स्नु नु क्षु इआ ङीङ् श्रि — एतैश्च धातुभिर्विना, वृङ् वृञ् — आभ्यां च विना, अन्ये एकाचोऽजन्तधातवो निहिताः = अनुदात्ताः स्मृताः । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः । अथ हलन्तेषु अनुदात्तान्धातून् परिगणयति — शक्लृ पच् मुचिति । शक्लृ पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर्भज् — एषां द्वन्द्वः । तत्र कान्तेषु शक्लृ इत्येकः । ऌकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच् वच् विच् सिच् इति षट् । अत्र डुपचष् इत्यस्यैव ग्रहणं,प्रसिद्धत्वात्, न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः । मुच्लृ मोक्षणे इत्यस्यैव ग्रहणं, न तु मुचि कल्कन इति भौवादिकस्य । अविशएषात्सर्वस्यत्यन्ये । छान्तेषु प्रच्छ् एकः । प्रच्छीतीकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भुञ्ज भुजित्यादि सृज इत्यन्तमेकं पदम् । जान्तेषु — त्यज् निज् भज् भञ्ज् भुज् भ्रस्ज मस्ज् यज् युज् रुज् रञ्ज् सृज् इति पञ्जदश । अद् क्षुदित्यादि नुद इत्यन्तमेकं पदम् । तत्र तुदेरिकार उच्चारणार्थः । पद्यभिदित्येकं पदम् । समाहारद्वन्द्वः ।पद्येति श्यना निर्देशः । विद्यतिरिति श्यना निर्देशः । विनदिति श्नमा निर्देशः ।शद्-सदीत्यादि बुध्यतीत्यन्तमेकं पदम् । समाहारद्वन्द्वः ।सदि स्कन्दि हदि क्षुधि इति इका निर्देशः ।स्विद्यति — बुध्यतीति श्तिपा श्यन्विकरणयोर्निदेशः । ततश्च दान्तेषु-अद् क्षुद् खिद् छिद् तुद् नुद् पद् (श्यन्विकरणः), भिद् विद् (श्यन्विकरणः), विद् (श्नम्विकरणः),शद् सद् स्विद्(श्यन्विकरणः), स्कन्द् हद् इति पञ्चदश । बन्धिरिति इका निर्देशः । युधि-रुधी इत्येकं पदम् । इका निर्देशः । 'राधिंव्यधशुधः' इत्येकं पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधीति इका निर्देशः । ततश्च धान्तेषु — क्रुध् क्षुध् (श्यन्विकरणः),बन्ध् युध् रुध् राध् व्यध् शुध् साध् सिध् (श्यन्विक्रणः) — इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकं पदम् । मन्येति श्यना निर्देशः । छुपीति इका निर्देशः ।तृप्यतिदृप्यती॑इति द्वन्द्वः । श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकं पदम् । सृपीति इका निर्देशः । रमिरिति भिन्नं पदम् । इका निर्देशः । तथा च नान्तेषु मन् हन्निति द्वौ । मनिः श्यन्विकरणः ।पान्तेषु — आप् क्षिप् छुप् तप् तिप् तृप् दृप् लिप् लुप् वप् शप् खप् सृप् इति त्रयोदश । भान्तेषु — यभ् रभ् लभ् इति त्रयः । मान्तेषु — गम् नम् यम् रम् इति चत्वारः । क्रुशिरित्यादि स्पृश इत्यन्तमेकं पमद् । दृशिरितिच इरित् । कृशि दिशि दंशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दंश् दृश् दिश् मृश् रिश् रुश् लिश् विश् स्पृश् इत्येते दश । कृषिरितिपृथक्पदम् । इका निर्देशः । त्विषित्यादि श्लिष्यतय इत्यन्तमेकं पदम् । पुष्येति श्यना निर्देशः । श्लिष्यतीति श्यन्विकरणस्य श्तिपा निर्देशः । तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् (श्यन्विकरणः), पिष् विष् शिष् शुष् श्लिष् (श्यन्विकरणः)-इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देशः । वसतिरिति पृथक्पदं । श्तिपा निर्देशः । सान्तेषु घस् वस् इति द्वौ । दह्दिहिदुह इति द्वन्द्वः । दिहीति इका निर्देशः । नह मिह रुह् लिह् इति समाहारद्वन्द्वः । वहिरिति पृथक्पदम् । इका निर्देशः । तथेति चकारपर्यायः । हान्तेषु — दह् दिह् दुह् नह् मिह रुह् लिह् वह् इत्यष्टौ । द्व्यधिकं शतमिति । भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह — तुदादाविति । यौ तृप्दृपी तुदादौ चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशोऽभ्युपगत इत्यर्थः । अत एवशे मुचादीना॑मिति सूत्रभाष्ये तृपतो दृपित इत्युदाहृतं सङ्गच्छत इति भावः । किं चेति । अन्यदपि वक्ष्यत इत्यर्थः । अन्यनिवृत्तय इति । विकरणान्तरनिवृत्तय इत्यर्थः । तच्चाग्रे तत्तदाद्र्धदातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दितिरिति । 'विद्लृ लाभे' इति तौदाद#इकः । चान्द्रदौर्गादिव्याकरणसम्मतः । भाष्येऽपि दृश्यत इति । विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः । एनमिति । विन्दतिमित्यर्थः । नेह पेठुरिति । तथापि भाष्यप्रामाण्यादस्याऽनिट्कत्वमिति भावः । 'रञ्जिमस्जी' इत्येकं पदम् । नुद् क्षुध् इति पृथक्कृते पदे । 'शुषिपुषी' इत्येकं पदम् । शिषिरित्यनन्तरम् 'इत्येते' इति शेषः । नवेहेति । नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत आह — व्याघ्रभूत्यादिसम्मतेरिति । भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानामप्येषामुपलक्षणमिति भावः ।तेन रक्तं रागात्,तदस्मिन्नन्नं प्रायेण॑,क्तोऽकृतमितप्रतिपन्नाः॑शुष्कधृष्टौ॑, क्तेन नञ्विशिष्टेने॑त्यादिसौत्रप्रयोगाः, नुन्नः मग्नः पुष्टः मङ्क्ता मङ्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । [इत्यनिट्कारिकाः] । स्पर्ध सङ्घर्षे इति । 'वर्तते' इति शेषः । पराभिभवेति । परस्याभिभवः पराजयः । तद्विषयकेच्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वद्देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौगतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणा॑मित्यकर्मककार्यं कथमित्यत आह — धात्वर्थेनोपसङ्ग्रहादिति ।धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व॑मितिसुप आत्मनः क्य॑जिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैवं सति पदव्यवस्थायां 'स्पर्धायामाङ' इत्यत्रकृष्णश्चाणूरमाह्वयते,स्पर्धत इत्यर्थ॑ इति मूलग्रन्थविरोध इति वाच्यं, तत्र स्पर्धेरभिवपूर्वकाह्वाने वृत्तेरित्यलम् । स्पर्धत इति ।कत्थन्ता षट्त्रशदनुदात्ते॑ इत्युक्तेरात्मनेपदम् । एधदातुवल्लटि रूपाणीति भावः । धातोरिजादित्वाऽभावादिजादेश्चेति लिटआम्न । अत एवा नानुप्रयोगोऽपि ।
Footnotes (NSP 1915 ed.)
NSP p. 360 पुकाच इति—अनेन जागृदीधीलादीनां व्यावृत्तिः । २ शक्ल इति—‘भाग्ये तु अनुवन्धरहितः पाठो दृश्यते’ इति शेखरकृतः । ३ पञ्चिति—‘दुपञ्चप् पाके’ इत्यस्यैव ग्रहणम्, प्रतिद्धत्वात् ।
NSP p. 361 अकर्मक इति—देवदत्तो यज्ञदत्तं स्पर्धते इत्यत्र तु स्पर्धापूर्वके शब्दने वृत्तिः।
SK 2259 · A 7.4.61V
शर्पूर्वाः खयः ॥ २२५९ ॥
śarpūrvāḥ khayaḥ
Siddhānta-kaumudī
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः SK 2179 इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ।{$ {!4 गाधृ!} प्रतिष्ठालिप्सयोर्ग्रन्थे च$} । गाधते । जगाधे ।{$ {!5 बाधृ!} लोडने$} । लोडनं प्रतिघातः । बाधते ।{$ {!6 नाथृ!} {!7 नाधृ!} याच्ञोपतापैश्वर्याशीःषु$} ।
vārttikaआशिषि नाथ इति वाच्यम्
(वार्तिकम्) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते ।{$ {!8 दध!} धारणे$} । दधते ॥
Tattvabodhinī
NSP p. 361—श-पूर्वाः—॥ अतद्गुणसंविज्ञानोऽयं वहुत्रीहिः । तेन शरो न शेषः किं तु स्वयामेव । इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति द्वितीयस्यैकाचः संबन्धिरेफस्यैव ‘न न्द्राः—’ इति निषेधादिति बोध्यम् । गाधृ । ऋकारो ‘नाग्लोपिशास्त्रदिताम्’ इति निषेधार्थः । अजगाधत् । आस्पदं स्थापनं अवस्थानं वा प्रतिष्ठा । एकत्र स्थापनं संदर्भो वा ग्रन्थः । नाधृ नाधृ । उपतापो रोगः ॥ अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिकमित्याह—आशिष्येवेति
Bālamanoramā
शर्पूर्वाः खयः - किन्तु लिटस्तादेशेलिटस्तझयो॑रिति तस्यैशिलिटि धातो॑रिति द्वित्वे 'हलादिः शेषः' इत्यभ्यासे प्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते — शूर्पर्वाः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । 'शर्पूर्वाः' इत्यत्र शर्पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर्न शिष्यते । शिष्यन्त इति । 'हलादिः शेषः' इत्यतः शेष इत्यनुवृत्तं कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यते ।न न्द्राः संयोगादय॑ इति रेफस्य द्वित्वनिषेधो न शङ्क्यः, द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह — पस्पर्ध इति । नच व्रवश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यं, हलादिः शेष इत्यतो हि आदिरित्यप्यनुरवर्तते । शव्र्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते, पस्पर्धिरे, पस्पर्धिषे पस्पर्धाथे, पस्पधिंध्वे , पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एध धातुवद्रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लृटि एधदातुवद्रूपाणीति भावः । स्पर्धतामिति । लोटि एधवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति । विधिलिङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अस्पर्धिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाडिति विशेषः । अस्पर्धिष्यतेति । लृङि एधिवद्रूपाणि । अडागमो विशेषः, न त्वाट् । गाधृ प्रतिष्ठेति । चतुर्थान्तो धातुः । ऋकारोनाग्लोपिशास्वृदिता॑मिति निषेधार्थः । अजगाधत् प्रतिष्ठा — आधारे स्थितिः । ग्रन्थः — ग्रन्थनं, रचनम् । जगाधे इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः । चुत्वम् । बाधृ इति । प्रतिघातः — पीडनम् । नाथृनाधृ इति । द्वितीयचतुर्थान्तौ धातू । उपतापः — ज्वरप्रयुक्ता पीडा । आशीः — आशासनम् । द्वितीयान्तस्य नाथृधातोर्विशेषमाह — आशिषि नाथ इति । अत्र 'नाथ' इति षष्ठी । 'अनुदात्तङित' इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तेत्वादेव सिद्धे नियमार्थमिदं वार्तिकं तदाह — अस्याशिष्येवेति । आशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेषुशेषात्कर्तरी॑ति परस्पैपदमेवेत्यर्थः । नाथत इति । आशास्ते इत्यर्थ- । अन्यत्रेति । याच्ञाद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति — नाधते इति । दधेति । चतुर्थान्तोऽयम् ।
SK 2260 · A 6.4.120V
अत एकहल्मध्येऽनादेशादेर्लिटि ॥ २२६० ॥
ata ekahalmadhye'nādeśāderliṭi
Siddhānta-kaumudī
लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥
Tattvabodhinī
NSP p. 361–362—अत एकहल्मध्ये—एकशब्दोऽत्रासहायवचनः । एकयोर्हलोमध्ये इत्यर्थः । तद्याचष्टे—असंयुक्तेति । इष्टानुरोधेन लिटीत्यावर्त्य आदेशविशेषणमेत्यस्य निमित्तं च क्रियत इत्याह—लिप्तमित्तेति । किति लिटीति च । यद्यपि ‘गमहन—’ इति सूत्रे क्रितीति वर्तते, तथापि प्रयोजनाभावात् क्रितीत्येतन्नानुवर्तत इति भावः । किति किम् । ननाद । लिटि किम् । पापच्यात् ॥ चकणतुरिति । न चैवमपि वभणतुरित्यत्र ‘अभ्यासे चर्च’ इत्यस्यासिद्धत्वादेत्याभ्यासलोपौ स्त एवेति वाच्यम् । फल- भजप्रहणेन एलविधिं प्रति तत्सूत्रस्य सिद्धलक्षापनात् । एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्यते इति व्याख्यानमवश्यं कर्तव्यमेवेति दिक् ।—मदि स्तुतीति—मोदः संतोषः । मदो गर्वः । स्वप्न आलस्यम्
Bālamanoramā
अत एकहल्मध्येऽनादेशादेर्लिटि - तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते । अत एकहलमध्ये । आदेश आदिर्यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते । एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः । 'अत' इत्स्यैव विशेषणमिदम् ।द्वसोरेद्धा॑वित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । आवृत्त्या उभयार्थलाभः । तदाह - लिण्निमित्तेत्यादिना ।
Footnotes (NSP 1915 ed.)
NSP p. 362 १ इदित इति—कर्मधारयणे धातोर्विशेषणं, तेन इदिदन्तस्य धातोर्नुमविधानात् चक्षिङादौ न दोषः । २ धात्वादेरिति—धातुग्रहणं स्पष्टार्थम्, नामधातुव्यावृत्तयेऽनुवृत्तेनोपदंशग्रहणेनैव पद्भ् पङ्क् इत्यादिसिद्धेः । ३ गुदेति—गुद इति पृथग्धातुः, अत प्रवोदाहरति—गोदते, जुगुदे इति ।
SK 2261 · A 6.4.121V
थलि च सेटि ॥ २२६१ ॥
thali ca seṭi
Siddhānta-kaumudī
प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे ।{$ {!9 स्कुदि!} आप्रवणे$} । आप्रवणमुत्प्लवनमुद्धरणं च ॥
Bālamanoramā
थलि च सेटि - थलि च । प्रागुक्तमिति । एकहल्मध्य इति यत्प्रागुक्तम् — एत्वादि, तत्सेटिथलि च स्यादित्यर्थः । थलः कित्त्वाऽभावात्पूर्वसूत्रेणाऽप्राप्तौ वचनम् । ननु देधे पेततुरित्यादौअभ्यासे चर्चे॑ति जशां चरां च जशि चरि च लिण्निमित्तादेशादित्वात्कथमेत्वाभ्यासलोपावित्यत आह — — आदेशश्चहेति । इह = 'अत एकहल्मध्ये' इति सूत्रे, आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः, स्थानिसरूपादेशास्तु न पर्युदास इत्यर्थः । शसिदद्योरिति ।न शसददवादिगुणाना॑मिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदीह यथाकतंचिदादेशादेः पर्युदासः स्यात्तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोरभावसिद्धौन शसददवे॑ति तत्प्रतिषेधोऽनर्थकः स्यात् । अतो वैरूप्यसंपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः । तेनेति । स्थानिसरूपादेशादेः पर्युदासाऽभावादित्यनेनेत्यर्थः । सत्स्वपीति । देधे पेततुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देधे इति । दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम् ।असंयोगाल्लिट्क॑दिति कित्त्वमिह बोध्यम् । देधिर इति । देधिषे देधाथे देधिध्वे । देधे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः । दिदिवतुरिति । दिव्धातोरतुसि द्वित्त्वे हलोर्मध्येऽतोभावादेत्त्वाभ्यासलोपौ नेति भावः । तत्परः किमिति । 'अत' इति तपरकरणं किमर्थमित्यर्थ- । ररासे इति । 'रासृ शब्दे' भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति ।त्सर च्छद्मगतौ॑ । लिटोऽतुसि द्वित्वे अभ्यासाऽकारस्य नाऽसंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति । 'कण शब्दे' लिटोऽतुसि द्वित्वे कुहोश्चुरिति ककारस्य चुत्वेन चकारः । तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ नेति भावः । अथलिण्निमित्तादेशादिक॑मित्यत्र लिण्निमित्तेत्यस्य प्रयोजनमाह — लिटेति । नेमिथेति ।णमु प्रह्वत्वे शब्दे च॑ । 'णो नः' इति नत्वम् । थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः । सेहे इति ।षह मर्षणे॑ । 'धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपा निर्बाधाविति भावः । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कुदीति । उत्प्लवनमुत्प्लुत्य गमनम् ।
SK 2262 · A 7.1.58V
इदितो नुम् धातोः ॥ २२६२ ॥
idito num dhātoḥ
Siddhānta-kaumudī
स्कुन्दते । चुस्कुन्दे ।{$ {!10 श्विदि!} श्वैत्ये$} । अकर्मकः । श्विन्दते । शिश्विन्दे ।{$ {!11 वदि!} अभिवादनस्तुत्योः$} । वन्दते । ववन्दे ।{$ {!12 भदि!} कल्याणे सुखे च$} । भन्दते । बभन्दे ।{$ {!13 मदि!} स्तुतिमोदमदस्वप्नकान्तिगतिषु$} । मन्दते । ममन्दे ।{$ {!14 स्पदि!} किंचिच्चलने$} । स्पन्दते । पस्पन्दे ।{$ {!15 क्लिदि!} परिदेवने$} । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे ।{$ {!16 मुद!} हर्षे$} । मोदते ।{$ {!17 दद!} दाने$} । ददते ॥
Bālamanoramā
इदितो नुम् धातोः - इदितः । इत् = ह्रस्व इकारः, इत् = इत्संज्ञको यस्य स इदित्, तस्येति विग्रहः । इत्संकेदनतधातोरित्यर्थः । तेन चक्षिङादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति ।नश्चापदान्तस्ये॑त्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे 'शर्पूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते ।कुहोश्चु॑रिति तस्य कुत्वेन चकारः । इआदीति । औत्यं — औत्यकरणम् । अकर्मक इति । औत्यस्य धात्वर्थेनोपसङ्ग्रहादिति भावः । ततश्चआन्दयति देवदत्तं यज्ञदत्त॑ इत्यादौगतिबुद्धिप्रत्यवसाने॑त्यादिनाऽकर्मककार्यं द्वितीया भवति । ओतीभवनं वा औत्यम् । इआन्दत इति । ओतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । तत्कारणभूतो व्यापारः — प्रणामादिरभिवादनम् । वन्दत इति । इदित्त्वान्नुम् । भदीति । कल्याणं — शुभक्रिया । सुखं — सुखीभावः । भन्दत इति । इदित्त्वान्नुम् बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः — सन्तोषः । मदः — गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । 'शर्पूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते । क्लिदीति । परिदेवनशब्दं व्याचष्टे — शोक इति । स्मृत्वा क्लेशः — शोकः । तदाह — सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन चकार इति भावः । मुदेति । हर्षः — तुष्टिः । मोदत इति । शपि लघूपधगुणः । मुमुद इति ।असंयोगल्लिट्कि॑दिति कित्वान्न गुणः । ददेति । न ममेति त्यागो दानं, न तु द्रव्यत्यागः । तथा सति धात्वर्थौपसङ्ग्रहादकर्मकत्वापत्तेः ।
SK 2263 · A 6.4.126V
न शसददवादिगुणानाम् ॥ २२६३ ॥
na śasadadavādiguṇānām
Siddhānta-kaumudī
शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ।{$ {!18 ष्वद!} {!19 स्वर्द!} आस्वादने$} । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥
Tattvabodhinī
NSP p. 362—न शसदद—। ‘शसु हिं-सायां’ दन्त्यान्तः । सूत्रेऽवयवावयविभावः षष्ठ्यर्थः । तथा च शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुण-रूपलाद्भेदनिवन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे—गुणशब्देन भावितस्येति । भावितत्वं च साक्षात्परम्परासाधारणम् । तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः । लुलविधेत्यादौ तु गुणशब्देन क्रियमाणो यः ओकारस्तत्स्थानिकस्यावादेशस्यावयवोऽकार इत्यर्थानास्त्यत्रानुपपत्तिः ॥—दददे इति । शश-सतुः । शशसुः । ववमतुः । ववमुरित्यादावपि निषेधो बोध्यः ॥—ष्वद् स्वर्द् ॥—अयमिति । प्रत्येकाभिप्रायेणोक्तमित्याहुः ॥—सकर्मक इति । स्वदस्य हव्यानि । हव्यान्यनुभवेत्यर्थः ॥—अकर्मक इति । ‘अपां हि तृप्ताय न वारिधारा स्वाहुः सुगन्धिः स्वदते तुपारः’ इति श्रीहर्षः । न स्वदते । न रोचते इत्यर्थः
Bālamanoramā
न शसददवादिगुणानाम् - न शसदद । शस दद वादि गुण — एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेर्लिटस्तादेशस्य एशि द्वित्वे 'अत एकहल्मध्ये' इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः । ष्वद स्वर्देति । आस्वादनम् — अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह — अयमिति । प्रत्येकाभिप्रायमेकवचनम् ।
SK 2264 · A 6.1.64V
धात्वादेः षः सः ॥ २२६४ ॥
dhātvādeḥ ṣaḥ saḥ
Siddhānta-kaumudī
धातोरादेः षस्य सः स्यात् । सात्पदाद्योः SK 2123 इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे ।{$ {!20 उर्द!} माने क्रीडायां च$} ॥
Tattvabodhinī
NSP p. 362—धात्वादेः—। धातुग्रहणं किम् । षट् षड् । आदेः किम् । लपति
Bālamanoramā
धात्वादेः षः सः - दात्वादेः । 'ष' इति षष्ठन्तं । तदाह — धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थ- । धातुग्रहणं किम् । षट् । अत्र धात्वादित्वाऽभावान्न सकारः । आदिग्रहणं किम् । लषति । न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्,आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवृत्तेः । एवं च षडित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च 'धात्वादेः षः सः' इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात् । नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह — सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति । चकारादास्वादनेऽपीति केचित् ।
SK 2265 · A 8.2.78V
उपधायां च ॥ २२६५ ॥
upadhāyāṃ ca
Siddhānta-kaumudī
धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे ।{$ {!21 कुर्द!} {!22 खुर्द!} {!23 गुर्द!} {!24 गुद!} क्रीडायामेव$} । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे ।{$ {!25 षूद!} क्षरणे$} । सूदते । सुषूदे ॥ - सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् ।{$ {!26 ह्राद!} अव्यक्ते शब्दे$} । ह्रादते । जह्रादे ।{$ {!27 ह्लादी!} सुखे च$} । चादव्यक्ते शब्दे । ह्लादते ।{$ {!28 स्वाद!} आस्वादने $}। स्वादते ।{$ {!29 पर्द!} कुत्सिते शब्दे$} । गुदरवे इत्यर्थः । पर्दते ।{$ {!30 यती!} प्रयत्ने$} । यतते । येते ।{$ {!31 युतृ!} {!32 जुतृ!} भासने$} । योतते । युयुते । जोतते । जुजुते ।{$ {!33 विथृ!} {!34 वेथृ!} याचने$} । विविथे । विवेथे ।{$ {!35 श्रथि!} शैथिल्ये$} । श्रन्थते ।{$ {!36 ग्रथि!} कौटिल्ये$} । ग्रन्थते ।{$ {!37 कत्थ!} श्लाघायाम्$} । कत्थते । एधादयोऽनुदात्तेतो गताः ॥ अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥{$ {!38 अत!} सातत्यगमने$} । अतति । अत आदेः SK 2248 आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥
Tattvabodhinī
NSP p. 362–363—उपधायां च । ‘सिपि धातोः—’ इत्यतो धातोरित्यनुवर्तते । ‘वोरुपधायाः—’ इत्यतः वोरिक इति । ‘हलि च’ इत्यतो हलीति च । तदाह—धातोरित्यादि । धातोः किम् । ‘ऊडुतः’ । कुरूः कुर्वां कुर्व इत्यत्रेको दीर्घो माभूत् । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधालाभावादेव दीर्घो न भवेदिति धातोरित्यनुवर्त-नमिहानावश्यकमिति वाच्यम् । पदस्येत्यनुवृत्तौ तु कूर्दते स्वर्दते इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानिव-दिति स्वीकारात् ‘अचः परस्मिन्’ इति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षे ‘असिद्धं वहिरङ्गम्—’ इति परि-भाषायाः प्रवृत्तेर्वहिरङ्गस्य यणोऽसिद्धलात् कुर्वां कुर्व इत्यत्र ‘उपधायां च’ इति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यनुवृत्त्या कूर्दते इत्यादौ दीर्घः सिद्ध्यत्येवेत्याहुः । रेफवकारयोः किम् । पुष्पविकसने पुष्पति । हल्परयोः किम् । चिरिणोति । जिरिणोति । इकः किम् । अर्वते । नर्दति । ननु ‘हलि च’ इत्यत्र रेफवकारयोर्हल्परयो-रिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूर्दते इत्यादिसिद्ध्यत्येवेति सूत्रमिदं व्यर्थमिति चेत् । अत्राहुः । ‘हलि च’ इत्यत्र धातुग्रहणमनुवर्तनीयमेव । अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा च उपधायां च’ इति सूत्राभावे उपधाभूतयोः वोः परतो दीर्घो न स्यात् किं तु रेफवान्तयोरेव धात्वोः ‘हलि च’ इति सूत्रेण स्यादित्येतत्सूत्रमावश्यक-मेवेति ॥—सूदते इति । सवतीत्यर्थः । ननु स्वर्देतिवत् स्वद सूदेति दन्त्यादय एव धातवः पत्र्यन्ताम् । षोपदेशान् पठित्वा सलविधौ गौरवात् । मैवम् । तथाहि सति ण्यन्ताच्चडि असिष्वदत् असूषुदत् इत्यादौ लिटि सुषूदे सिषेधेत्यादौ च ‘आदेशप्रत्यययोः’ इति पत्वं न स्यात् । इणः परस्य सकारमात्रस्य षलविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत् षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानीं परिभ्रष्टः । साधा-दिषु सादिपाठस्यैव दश्यमानलात् । अतो लक्षणमुखेन तान्व्यवस्थापयति—सेगित्यादि । दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः, दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसा-दयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पत्र्यमानः सकार उपदेशे न स्थित इत्यनुमेयमिति भावः । दन्त्येत्यादि किम् । चुस्कुन्दे । एकाचः किम् । सोसूच्यते । सोसूच्यते । सूचिसूत्री चुरादावदन्तौ ॥ उक्तलक्षण- स्यातिव्याप्तिं वारयितुमाह—सेगिति । ‘सेकृ गतौ’ । ‘सृष्ट्व गतौ’ । ‘सृ गतौ’ । ‘स्तृञ् आच्छादने’ । ‘सृज विसर्गे’ । ‘स्तृञ् आच्छादने’ । ‘स्त्यै शब्दसंघातयोः’ । एभ्योऽन्ये । पूर्वेण केषांचिदसंग्रहादाह—ष्वष्केति । ‘ष्वष्क गतौ’ । ‘अिष्विदा गात्रप्रक्षरणे’ । ‘स्वद आस्वादने’ । ‘ष्वज्ज परिष्वज्जे’ । ‘अिष्वप् शये’ । ‘स्मिङ् ईषद्धसने’ । एते षोपदेशा इत्यन्वयः । ‘स्वाद आस्वादने’ इत्यादावतिव्याप्तिमाशङ्क्याह—दन्त्यः केवलदन्त्य इति । तथा च असिखददित्यादौ पत्वं नेति भावः । ह्वादी सुखे च । चादव्यक्ते शब्दे । ईकारः ‘श्वीदितो निष्ठायाम्’ इतीण्निषेधार्थः । प्रहन्नः, प्रहन्नवान् । इह ‘ह्वादो निष्ठायाम्’ इत्युपधाहस्वः ॥—श्लाघायामिति । अविद्यमानगुणसंबन्धज्ञापनं श्लाघा ॥—आततुरिति । हल्मध्यस्थलाभावादेत्वं न
Bālamanoramā
उपधायां च - उपधायां च । सिपि धातोरिति, 'र्वोरुपाधाया' इत्यतो र्वोरिक इति,हलि चे॑त्यतो हलीति चानुवर्तते ।उपधयो॑रित्यर्थे उपधायामित्यार्षम् । तदाह — धातोरित्यादि । ऊर्दत इति । अत्र धातोः रेफवान्तत्वाऽभावात् 'र्वोरुपधायाः' इत्यस्यहलि चे॑त्यस्य चाऽप्राप्तौउपाधायां चे॑त्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात्पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊर्दित्यत्रैव स्यात्, ऊर्दत इत्यादौ न स्यात् । रेफवकारयोः किम् । पुष्प्यति । हल्परयोः किम् । चिरिणोति । इकः किं । नर्दति । ऊर्दांचक्र इति । इजादित्वादाम् ।कृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगः । कुर्देति । गुदेत्यपि पृथग्धातुः ।क्रीडायामेवे॑त्यर्थनिर्देशः । एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति । कूर्दत इति ।उपधायां चे॑ति दीर्घः । चुकूर्द इति ।कुहोश्चु॑रिति चुत्वम् । खूर्दत इति ।उपधायां चे॑ति दीर्घः । एवं गूर्दते इति । गोदत इति । शपि लघूपधगुणः । जुगुद इति ।असंयोगा॑दिति कित्त्वान्न गुणः । षूदेति । क्षरणं — प्ररुआवणम् । सूदत इति । प्ररुआवतीत्यर्थः ।धात्वादे॑रिति षस्य सः । अलघूपधत्वान् गुणः । सुषूद इति ।धात्वादे॑रिति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात्षत्वम् । यदि धातुपाठे सकारस्यैव पाठस्तर्हि इहादेशसकात्वाऽभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात्षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्क्य पाणिनीयपरम्परासिद्धान् षोपेदेशान् पठति — सेगिति श्लोकेन ।दन्त्याजन्तषादय एकाचः षोपदेशाः स्यु॑रित्यन्वयः । दन्त्यश्च अच्च दन्त्याचौ, तौ अन्तौ = अव्यवहितपरौ यस्य स दन्त्याऽजन्तः, तथाविधः षः = षकार आदिर्येषां ते — दन्त्याजन्तषादयः । दन्त्यपरकोऽच्परकश्च यः षकारस्तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिनोपदिष्टाः प्रत्येतव्या इत्यर्थः । 'सादय' इति पाठेऽप्येवमेव व्याख्येयम् ।अज्दन्त्यपराः षादयः षोपदेशाः॑ इति भाष्यम् । षूद क्षरणे इत्यादयोऽच्परकषोपदेशाः ।ष्ठा गतिनिवृत्ता॑वित्यादयस्तु दन्त्यपरकषोपदेशाः । दन्त्याजन्तेति किम् । स्कुदि आप्रवणे । चुस्कुन्दे । अत्र सकारो न दन्त्यपरको, नाप्यच्परकः । एकाचः किम् । सोसूत्र्यते ।सूत्र वेष्टने॑, चुरादिरजन्तोऽनेकाच् । यद्यप्येकाचेति भाष्ये न दृश्यते, तथापि यङ्विधौ सोसूच्यत इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध-संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननुसेकृ गतौ॑, 'सृप्लृ गतौ' ,सृ गतौ॑, 'सृज विसर्गे' एते चत्वारोऽच्परकसादयः । स्तृञ् आच्छादने॑ ऋदन्तः श्नुविकरणः, ।स्तृञ् आच्छादने ऋदन्तः श्नविकरणः, स्त्यै शब्दसङ्घातयोः॑ । एते त्रयो दन्त्यपरकसादयः । एषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्क्य तद्भिन्नत्वं विशेषणमाह - सेक् सृप् सृ स्तृ सृज् स्तृम्त्यान्ये इति । स्त्यै धातोः कृतात्वस्य निर्द्देशः श्लोके समावेशार्थः, स्त्यै इत्यैकारान्तस्य निर्देशे 'स्त्यार्यन्य' इत्येकस्याक्षरस्याधिक्यापत्तेः । नन्वेवमपि ष्वष्क् गतौ, ञिष्विदा गात्रप्ररुआवणे, ष्वद आस्वादने, ष्वञ्ज परिष्वङ्गे, ञिष्वप् शये, ष्मिङीषद्धसने — इत्येतेषु सकारस्य दन्त्यपरकत्वाऽभावादच्परकत्वाऽभावाच्च षोपदेशेष्वसङ्ग्रह स्यादित्यव्याप्तिमाशङ्क्य तानपि संङ्गृह्णाति — ष्वक् स्विद् स्वद् स्वप् स्मिङ इति ।अपी॑ति शेष- । ननुस्वृ शब्दोपतापयो॑रित्यादीनामपि दन्त्यवकारपरकत्वात्षोपदेशत्वं स्यादित्यत आह — दन्त्यः केवलदन्त्य इति । कुत इत्यत आह — ष्वष्कादीनांमिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि सुब्धातुष्ठिनुष्वष्कतीनां सत्वप्रतिषेध इति वार्तिकात्तल्लाभ इति भावः । हादेति । रेफवानयम् । अव्यक्तशब्दः - अमनुष्यवाक ।जहाद इति । अभ्यासस्य ह्रस्वः । चुत्वम् । ह्लादीति । लकारवानयम् ।स्वीदितो निष्ठाया॑मितीण्निषेधार्थमीत्वम् । स्वादेति केवलदन्त्यपरकत्वाऽभावान्नायं षोपदेशः । असिस्वदत् । पदेति । गुदरव इत्यर्थः । यतीति । ईदित्त्वमिण्निषेधार्थम् । येते इति । 'अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौ । युतृ जुतृ इति । ऋदित्त्वम्नाग्लोपिशास्वृदिता॑मित्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति ।असंयोगा॑दिति कित्त्वान्न गुणः । विथृ वेथृ इति । द्वितीयान्तविमौ । ननु 'विथृ' इत्येवास्तु, लघूपधगुणे सति घेथत इत्यस्याऽविशिष्टत्वादित्यत आह — विविते विवेथे इति । वेथृधातोर्विवेथे इति रूपम् । विथृधातोस्तु असंयोगादिति कित्त्वाद्गुणाऽभावे विविथ इति रूपमिति भावपः । श्रथीति । द्वितीयान्तः । शैथिल्यं — रुआंसनम् । श्रन्थते इति । इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । काटिल्यं — वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति । अविद्यमानगुणज्ञापनं श्लाघा । अथाष्टातिंरशदिति । अष्टौ च तिंरशदिति द्वन्द्वः । अष्टाधिका तिंरशदिति वा ।द्व्यष्टनः सङ्खाया॑मित्यात्वम् ।अष्ट तिंरश॑दिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितङ्ञित्त्वाऽभावात्शेषात्कर्तरी॑ति परस्मैपदिन एवेति भाव- । अतेति । सातत्यगमनं — संततगमनम् । लिटि णलि द्वित्वे हलादिशेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह — अत आदेरिति ।इति दीर्घ॑इति शेषः । तथा च अभ्यासाऽकारस्य दीर्गे सति सवर्णदीर्घः । तदाह-आतेति । अकारस्य हल्मध्यस्थत्वऽभावादेत्वाभ्यासलोपौ न । लुङिति । अतधातोर्लुङस्तिपि इतश्चेति इकारलोपे च्लेः सिचि तस्य इडागमे 'अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 363 १ अथि कौटिल्ये इति—कौटिल्यं शास्त्रं वक्रता वा । २ अष्टत्रिंशदिति—अष्ट त्रिंशदिति च भिन्ने पदे, समस्तत्वे तु अष्टा-त्रिंशदिति पाठो बोध्यः । ३ उपसर्गादिति—अभिपावयतीति ण्यन्तेऽपि पत्वं भवत्येव, शब्दशक्तिमहिम्नोपसर्गाणामपि प्रकृत्यर्थं एवान्वयात् ।
SK 2266 · A 8.2.28V
इट ईटि ॥ २२६६ ॥
iṭa īṭi
Siddhānta-kaumudī
इटः परस्य सस्य लोपः स्यादीटि परे ।
vārttikaसिज्जलोप एकादेशे सिद्धो वाच्यः
(वार्तिकम्) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥
Tattvabodhinī
NSP p. 363—इट इटि । ‘संयोगान्तस्य लोपः’ इत्यतो लोप इति ‘रात्सस्य’ इत्यतः सस्येति चानुवर्तते । तदाह—लोपः स्यादिति । इटः किम् । अहार्षीत् । इटि किम् । आतिष्ठाम् । आतिषुः ॥—सिज्लोप इति । अत्र वदन्ति । सलोप इति वक्तव्ये सिज्प्रहणं ‘झलो झलि’ इत्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम् । तेनेह न । सोमसुत् । स्तोता । द्विष्टराम् । द्विष्टमाम् । ‘धि च’ इति सूत्रे तु वामनमते सिचो लोपः । भाष्यमते तु सस्येति भेदो बोध्य इति
Bālamanoramā
इट ईटि - इट ईटि । 'इट' इति पञ्चमी । रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते । तदाह — इटः परस्येति । एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत् — इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति । तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह — सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति । लुङस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि आचि वृद्धौ षत्वम् । अपृक्तत्वाऽभावेन ईडभावात्सलोपो न । आतिषुरिति । लुङो झिः । च्लेः सिच् । जुस् इट् आट् वृद्धिः । षत्वं रुत्वविसर्गौ । आतीः आतिष्टमातिष्ट । आतिषमातिष्व आतिष्म ।
SK 2267 · A 7.2.3V
वदव्रजहलन्तस्याचः ॥ २२६७ ॥
vadavrajahalantasyācaḥ
Siddhānta-kaumudī
वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥
Tattvabodhinī
NSP p. 363—वदव्रज—। अवादीत् । अत्राजीत् । ‘अतो हलादेः—’ इति विकल्पं वाधित्वा अनेन नित्यं दृष्टिः । हलन्तस्योदा- हरणमपाक्षीत्, अधाक्षीदिति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । ‘हलोऽच्’ इत्युक्ते लजन्ताङ्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत । अच इति तु इक्ष्वपरिभाषाया अनुपस्थानार्थम् । अन्यथा अभैत्सीदित्यत्र स्यान्न लपाक्षीदित्यादौ
Bālamanoramā
वदव्रजहलन्तस्याचः - अत्र वृद्धिमाशङ्कितुमाह— वदव्रज। वद व्रज हलन्त एषां समाहाद्वन्द्वात् षष्ठ्येकवचनम्। अङ्गस्येत्यधिकृतम्। सिचि वृद्धिः परस्मैपदेष्वित्यनुवर्तते। तदाह— वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदव्राजीदित्यत्र अतो हलादेर्लघोरिति वृद्धिविकल्पबाधनार्थम्।
SK 2268 · A 7.2.4V
नेटि ॥ २२६८ ॥
neṭi
Siddhānta-kaumudī
इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः ।{$ {!39 चिती!} संज्ञाने$} । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ।{$ {!40 च्युतिर्!} आसेचने$} । सेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ।
vārttikaइर इत्संज्ञावाच्या
(वार्तिकम्) ॥ च्योतति । चुच्योत ॥
Tattvabodhinī
NSP p. 363—नेटि ॥—प्रागुक्तं नेति । हलन्तत्वादेव सिद्धे वदत्रजोविंशिष्य विधानान्न निषेधः, किंतु हलन्तलक्षणाया एव वृद्धेर्निषेधः, तस्या अनिडादौ सिचि चरितार्थत्वात् । अमुमेवार्थं मनसि निधाय क्वचित्पुस्तकेषु हलन्तलक्षणा वृद्धिर्नेत्येव पठ्यते ॥—इर इत्संज्ञेति । इकारस्य ‘उपदेशेऽजनुनासिकः’—इति, रेफस्य तु ‘हलन्त्यम्’ इति प्रत्येकमित्संज्ञायाम् ‘इदित’—इति नुम् स्यादिति भावः । एतस्य वैयर्थ्यं ‘चक्षिड् व्यक्तायां वाचि’ इत्यत्र स्फुटीभविष्यति ॥—चुश्चयोतेति । ‘शर्पूर्वाः खयः’
Bālamanoramā
नेटि - नेटि - नेटि। प्रागुक्तं नेति। ‘वदव्रजहलन्तस्याच’ इत्युक्तं नेत्यर्थः। तत्र वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम्। हलन्तलक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था। नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावात् किं तन्निषेधेनेत्याशङ्क्याह— मा भवानतीदिति। माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भावः। चितीति। ईदित्त्वं ‘श्वीदितो निष्ठाया’मिति इण्निषेधार्थम्। चेततीति। शपि लघूपधगुणः। चिचेतेति। तिबादेशणलः पित्त्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः। चिचिततुरित्यादौ तु कित्त्वान्न गुणः। अचेतीदिति। ‘इट ईटी’ति सलोपः। अचेतिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। च्युतिरिति। अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वान्नुमि प्राप्ते आह— इर इत्संज्ञेति। तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः। च्योततीति। लघूपधगुणः। चुच्योतेति। णलः पित्त्वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः। चुच्युततुरित्यादौ तु कित्त्वान्न गुणः। लुङि च्लेः सिचि प्राप्ते।
SK 2269 · A 3.1.57V
इरितो वा ॥ २२६९ ॥
irito vā
Siddhānta-kaumudī
इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ।{$ {!41 श्च्युतिर्!} क्षरणे$} । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति ।{$ {!42 मन्थ!} विलोडने$} । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिषि SK 2216 इति कित्त्वात्अनिदिताम्-SK 415 इति नलोपः । मथ्यात् ।{$ {!43 कुथि!} {!44 पुथि!} {!45 लुथि!} {!46 मथि!} हिंसासंक्लेशनयोः$} । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ।{$ {!47 षिध!} गत्याम्$} । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः SK 2123 इति निषेधे प्राप्ते ॥
Tattvabodhinī
alignment inferredNSP p. 363–364—यकाररहितोऽप्ययमिति । तथा च प्रयुज्यते ‘मधुश्रुतं घृतमिव सुपूतम्’ इति ॥—मन्थ । अयं क्यादावपि । ‘पिध गत्याम्’ । अयमुदिदिति केचित् । ननु सिद्ध्यतिबुद्ध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम् । ऊदित्वे तु ‘ऊदितो वा’ इति क्लायामिड्डिकल्पान्निष्ठायामिड् न स्यात्, ‘यस्य विभाषा’ इति निषेधात् ॥—स्विषेधेति । ‘आदेशप्रत्यययोः’ इति पत्न्यम् ॥—उपत्यगात्— ‘सुनोति सुवति’ इत्या- दिश्तिपा निर्देशो यङ्छुग्निवृत्त्यर्थस्तेन अभिसोपवीति अभिसोषोतीत्यादौ पत्वं नेति प्राच्चः । स्थादिष्वेवाभ्यासस्य पत्वं न सुनोत्यादिष्विति नियमान्नेह पलप्राप्तिरिति व्यर्थः प्रतिषेध इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामधातुः । सेनया अभियाति अभिपेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं न तु सिध्यतेः । परिसिध्यति ॥ गृहा दारा इत्यत्रेव तात्स्थ्यात्ताच्छब्धमित्याह—उपसर्गस्थादिति ॥—निमित्तादिति । इण्ल्लपात् । कवर्गस्तु नेह संवध्यते, असंभवात् । न च निःपुणोति निःपेधति निःपिञ्चतीत्यादौ व्यवधानेन इणः परलाभावात् सस्य पत्वं न स्यादिति शङ्क्यम् । पलविधौ ‘नुम्विसर्जनीयशर्ववायेऽपि’ इत्यधिकारात् । इणन्तादुपसर्गादिति व्याख्याने तु स्यादेवात्राव्याप्तिः । ‘दुरः पलणलयोः—’ इत्युपसर्गलप्रतिषेधाः सुनोति दुःसेधतीत्यादौ तु पत्वेन न भवितव्यमिति दिक् ॥ मूर्धन्यादेशे फलितमाह—सस्य पः स्यादिति । स्थादिषु ‘प्राक् सितात्—’ इत्यत्र कमज्ञानस्यापेक्षितलात्तेनैव क्रमेण पलसूत्राणि व्याचष्टे—सदिरप्रतेः । अप्रतेः किम् । प्रतिसीदति । पश्च्यर्थे प्रथमेत्याह—सदेरिति
Bālamanoramā
इरितो वा - इरितो वा । 'धातोरेकाच' इत्यतो धातोरिति,च्लेः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिब्य॑ इत्यतोऽङिति,पुषादिद्युतादी॑त्यतः परस्मैपदेष्विति चानुवर्तते । तदाह — इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युततामच्युतन् । अच्युतः अच्युततमच्युतत । अच्युतमच्युताव अच्युताम । अङभावे त्वाह — अच्योतीदिति ।इट ईटी॑ति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति.च्युतिवद्रूपाणि । चुश्च्योतेति । 'शर्पूर्वा' इति चकारः शिष्यते । यकाररहितोऽपीति ।मधुश्चुतं घृतमिव सुपूत॑मित्यादौ तथा दर्सनादिति भावः । मन्थेति । विलोडलनम् — आस्फालनम् । मन्थतीत्यादि । सुगमम् । आशीर्लिङि विशेषमाह — यासुट इति । कुथीति । चत्वारोऽपि द्वितीयान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह — इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः । षिध गत्यामिति । अच्परकषकारादित्वात्षोपदेशोऽयम् । ततश्च धात्वादेरिति सः । तदाह — सेधतीति । सिषेधेति । आदेशसकारत्वात्षत्वम् । अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम् । असेधीदिति ।इट इटी॑ति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि । अथ निषेधतीत्यादौउपसर्गात्सुनोती॑ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो॑रित्येव सिद्धेरित्याशङ्क्याह — सात्पदाद्योरिति ।
SK 2270 · A 8.3.65V
उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ॥ २२७० ॥
upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥
Bālamanoramā
उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनय- सेधसिचसञ्जस्वञ्जाम् - उपसर्गात्सुनोति । उपसर्गस्तादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इतिभावः । निमित्तादिति । इण्रूपादित्यर्थ- ।इण्को॑रित्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः स' इत्यतः स इति षष्ठन्तमनुवर्तत इति भावः । षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । अत्र सुनोतीत्यादिः श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थ इति प्राञ्चः । स्पष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातुः । सेधतीति शपा निर्देशात्सिध्यतेर्न ग्रहणम् । अभिषुणोतीत्याद्युदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यास ।
SK 2271 · A 8.3.66V
सदिरप्रतेः ॥ २२७१ ॥
sadiraprateḥ
Siddhānta-kaumudī
प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥
Bālamanoramā
सदिरप्रतेः - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् ।
SK 2272 · A 8.3.67V
स्तम्भेः ॥ २२७२ ॥
stambheḥ
Siddhānta-kaumudī
स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥
Tattvabodhinī
alignment inferredNSP p. 364—स्तन्भेः सौत्रस्येति । ‘स्तन्भु स्तुन्भु—’ इति सूत्रे निर्दिष्टस्य रोधनार्थस्य, न तु ‘ष्टमि प्रतिवन्धे’ इत्यस्येति भावः । एवं ‘जृस्तम्भु’ इत्यङ्विधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति वोध्यम् । एतच्च ‘लक्षणप्रतिपदोक्त’ परिभाषया लभ्यते । सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः । इदित्त्वानुमि ष्टमिर्लक्षणिकः । तेन विस्तम्भते इत्यादौ पत्वं न । ‘उदःस्थास्तन्भोः—’ इति सूत्रे मकारोपधग्रहणेनोभयोरपि ग्रहणादुत्तम्भते इति द्वयोरपि रूपं तुल्यं, मकारस्योभयत्रापि लक्षणिकलात् ॥—उत्तरार्थ इति । उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः । ननु ‘सदिस्तन्भ्योः’ इति सूत्रितेऽपि एकदेशे स्वरितलप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह—किञ्चेति ॥—नानुवर्तत इति । तथा च ‘स्तन्भेः’ इत्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः
Bālamanoramā
स्तम्भेः - स्तम्भेः । नकारोपधनिर्देशस्य प्रयोजनमाह — सौत्र्येति ।स्तन्भुस्तुन्भु॑इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । स हि प्रतिपदोक्तः । 'ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् ।उदः स्थास्तम्भ्वो॑रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननुसदिस्तन्भ्योरप्रते॑रित्येकमेव सूत्रं कुतो न कृतमित्यत आह — योगविभाग उत्तरार्थ इति ।अवाच्चालम्बनाविदूर्ययो॑रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह — किंचेति । नानुवर्तत इति । स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः ।अप्रते॑रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह -बाहुप्रतिष्टम्भेति ।
SK 2273 · A 8.3.68V
अवाच्चालम्बनाविदूर्ययोः ॥ २२७३ ॥
avāccālambanāvidūryayoḥ
Siddhānta-kaumudī
अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥
Tattvabodhinī
NSP p. 364—अवाच्चा—। चकारश्चिन्त्यप्रयोजन इत्याहुः । आलम्बनमाश्रयणम् । यथा यष्टिमवष्टभ्य आस्ते । तामाश्रित्य तिष्ठतीत्यर्थः । आविर्दूर्य सामीप्यम् । तच्च प्रयोगोपाधिः । अवष्टब्धा गौः । निरुद्धा सती समीपे आस्त इत्यर्थः । एतयोः किम् । अवस्तब्धो वृषलः शीतेन । केचिदिह अविदूरशब्दात्स्वार्थं ष्यञ् । आविर्दूर्यमनतिदूरम् । ईषदूरमित्यर्थः । तथा च अविदूरशब्दात् ‘न नञ्पूर्वात्तत्पुरुषात्’ इति निषेधे प्राप्ते अत एव निपातनाद्भावप्रत्यय इति मनोरमाग्रन्थोक्तिर्नातीवोपयुज्यत इत्याहुः
Bālamanoramā
अवाच्चालम्बनाविदूर्ययोः - अवाच्च । आलम्बनं च आविदूर्यं चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतोरिति । आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तम्भेरित्यन्वयः । अपूर्वविधिरयम्, इणः परत्वाऽभावादप्राप्तेः । आलम्बने — यथा — यष्टिवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविदूर्य — सामीप्यम् । अवष्टब्धा गौः । निरुद्धा सति समीपे आस्त उत्यर्थः ।
SK 2274 · A 8.3.69V
वेश्च स्वनो भोजने ॥ २२७४ ॥
veśca svano bhojane
Siddhānta-kaumudī
व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥
Tattvabodhinī
NSP p. 364—वेश्च—। विष्वणति । सशब्दं भुद्ध इत्यर्थः । ‘अट्कुप्वाङ्—’ इति णलम् । एवमवष्वणति । व्यष्वणत् । विषष्वाण । ‘स्थादिष्वभ्यासेन—’ इति पलम् । भोजने किम् । विस्वनति वीणा
Bālamanoramā
वेश्च स्वनो भोजने - वेश्च । अवादित्यनुकर्षणार्थश्चकारः । तदाह — व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थ- । अट्कुप्वाङिति णत्वम् ।
SK 2275 · A 8.3.70V
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ॥ २२७५ ॥
parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām
Siddhānta-kaumudī
परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥
Tattvabodhinī
NSP p. 364—परिनिविभ्यः—। सेवेत्यत्र अकार उच्चारणार्थः । न च यङ्छुग्निवृत्तये शपा निर्देश एवास्त्विति शङ्क्यम् । चकारान्तानामूढ्भाविनां यङ्छुग्नास्तीति वक्ष्यमाणलात् । ‘षेवृ सेवायाम्’ परिषेवते । ‘षिञ् वन्धने’ । कान्तः सितशब्दः, एरजन्तः पचायजन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टग्रहणं किम् । विसिनोति । ‘षिनु तन्तुसन्ताने’ । परिषीव्यति । ‘षह मर्षणे’ परिपहते । सुडागमः । परिष्करोति । विष्करोति । स्तुस्वज्ञोः ‘उपसर्गात्सुनोति—’ इत्येव सिद्धे परिनिविभ्यः परयोरेतयोः ‘सिवादीनां वाङ्व्यवायेऽपि’ इति विकल्पार्थ पुनर्वचनम्
Bālamanoramā
परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् - परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः ।षेवृ सेवाया॑मिति धातोग्र्रहणम् । परिषेवते । निषेवते । विषेवते । सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् । अस्यैव धातोरेरजन्तो वा पचाद्यजन्तो वा सयशब्दः । विषितः । विषयः । षिवु तन्तुसन्ताने । परिषीव्यति । षह मर्षणे । परिषहते । सुट् आगमः । परिष्करोति । स्तुस्वञ्जो॑रुपसर्गात्सुनोती॑त्येव सिद्धेसिवादीनां वे॑ति विकल्पार्थं पुनर्वचनम् ।
SK 2276 · A 8.3.63V
प्राक्सितादड्व्यवायेऽपि ॥ २२७६ ॥
prāksitādaḍvyavāye'pi
Siddhānta-kaumudī
सेवसित SK 2275 इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥
Tattvabodhinī
alignment inferredNSP p. 364–365—प्राक्सितात्—। ‘उपसर्गात्सुनोति—’ इत्यादिना विहितं दीन्युदाहर्तव्यानि ॥—स्थादिषु—। इह द्वे वाक्ये आद्यं पलविध्यर्थं द्वितीयं तु नियमार्थमित्याशयेनाह—व्यवायेऽपि पत्वमेषामेव चेति । स्थादीनां दशानामेवाभ्यासस्य पलमित्यर्थः । तत्फलं तु ‘पू प्रेरणे’ अभिसुसूपति । अत्रोक्तनियमादभ्याससकारस्य न पत्वं, द्वितीयस्य तु ‘स्तौतिष्योः’ इति नियमान्न भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य पत्वं पूर्वस्य तूक्तनियमान्नेति वोध्यम् ॥ स्यादेतत् । निषिषेधेत्यादौ अभ्यासस्य ‘उपसर्गात्सुनोति—’ इत्यनेन देशार्थम् । तथाहि । सेनया अभियातुमिच्छति अभिषिपेणयिषुति । अत्राहुः । फलत्रयार्थमाद्यं वाक्यं अषोपदेशार्थम् । तथाहि । सेनया अभियातुमिच्छति अभिषिपेणयिषुति । अत्रार्थाभ्यासार्थं केव । अधीसनं गोत्रभिदोऽ- धितशैं । ३ षणि प्रतिप्रसवार्थं च । अभिषिषिक्षति । ‘विच्च क्षरणे’ । ‘स्तौतिण्योरेव—’ इति नियमात् षभूते सनि निवतितमपि सत्यमुपसर्गमाश्रित्यात्र भवतीति
Footnotes (NSP 1915 ed.)
NSP p. 365 १ सेधतेर्गताविति—अयं निषेधोऽनन्तरस्येति न्यायेन ‘आदेशप्रलययोः’ इत्यस्य, तेन सिषेधेत्यादौ पत्वं भवत्येव इति केचित् । अन्ये तु सिचो यङीत्येतत्साहचर्यादयं सर्वपत्वनिषेधः, उपसर्गादित्यस्य तु नात्र संबन्धो विच्छिन्नत्वात्, तेन गङ्गां सिसेधेत्येव यथभिधानमस्तीति वदन्ति । २ सूतीति—अत्र गुणाभावश्छान्दसः ।
SK 2277 · A 8.3.64V
स्थाऽऽदिष्वभ्यासेन चाभ्यासस्य ॥ २२७७ ॥
sthā''diṣvabhyāsena cābhyāsasya
Siddhānta-kaumudī
प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥
Bālamanoramā
स्थाऽऽदिष्वभ्यासेन चाभ्यासय - स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते । तदाह - प्राक्सितादिति ।उपसर्गात्सुनोती॑ति सूत्रे स्थाधातुमारभ्यपरिनिविभ्यः सेवसिते॑त्यत्र सितशब्दात्प्राग्ये धातव उपात्तास्तेषु दशस्वित्यर्थः । निषिषेधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहत्वेन उपसर्गात्परत्वाऽभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्यौपसर्गादत्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्क्य नियमार्थमित्याह — एषामेवेति । अभ्यासस्थसकारस्य चेत्षत्वं तर्हि स्थादिदशानामेवेत्यर्थः । एवं चषू प्रेरणे॑, अभिसुसूषत । अत्राभ्यासस्य न षत्वम् । अभ्यासात्परस्य तु सस्य स्तौतिण्योरेवेति नियमान्न षत्वम् ।
SK 2278 · A 8.3.113V
सेधतेर्गतौ ॥ २२७८ ॥
sedhatergatau
Siddhānta-kaumudī
गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति ।{$ {!48 षिधू!} शास्त्रे माङ्गल्ये च$} । शास्त्रं शासनम् ॥
Tattvabodhinī
NSP p. 365—सेधतेर्गतौ । इतिपा निर्देशाद्रत्यर्थादस्माद्यङ्लुकि न निषेधः तेनोपसर्गमाश्रित्य पत्वं भवत्येव ॥—निषेधतीति । न च सेधेति शपा निर्देशाद्यङ्लुकि ‘उपसर्गात्मुनोति—’ इति पत्वं न भवेदिति शङ्क्यम् । दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चारितार्थ्यात् । अन्यथा सेधतेरिति इतिपा निर्देशस्य वैयर्थ्यापतेरिति दिक् । षिधू शास्त्रे । माङ्गल्यं मङ्गलक्रिया । स्वार्थे प्यञ्
Bālamanoramā
सेधतेर्गतौ - सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे — सस्य षत्वं न स्यादिति । सातेरवयवस्य, पदादेश्च सस्य षत्वं न स्यादित्यर्थः ।न रपरसृपी॑त्यतो नेति,अपदान्तस्ये॑त्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति — दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः । तस्यआदेशप्रत्यययो॑रिति षत्वे प्राप्ते ।ञनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।अग्निसा॑दित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्तेऽनेन निषेधः । अग्नीभवतीति । च्विप्रत्ययेच्वौ चे ति दीर्घः । महाविभाषयेति ।समर्थाना॑मित्यतो वाग्रहणानुवृत्तेरित्यर्थः । माहाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्वेः समावेशार्थम् ।
SK 2279 · A 7.2.44V
स्वरतिसूतिसूयतिधूञूदितो वा ॥ २२७९ ॥
svaratisūtisūyatidhūñūdito vā
Siddhānta-kaumudī
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥
Tattvabodhinī
NSP p. 365—स्वरतिसूति—। ‘स्वृ शब्दोपतापयोः’ भ्वादिः । ननु ‘स्वरतिसूधूवदितो वा’ इति सूत्र्यतां किमनेन सूतिसूयत्योः पृथग्प्रहणेन । मैवम् । तथाहि सति निरनुवन्धकपरिभाषया ‘पू प्रेरणे’ इति तौदादिकस्यैव ग्रहणं स्यान्न त्वादादिकदैवादिकयोरेतयोः । न चैवं पूड् इति पठ्यतामिति वाच्यम् । ‘लुग्विकरणाऽलुग्विकरणयोः’ इति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्प्रहणमेव ज्ञापकमित्याहुः । ‘धूञ् कम्पने’ स्वादिः क्रयादिश्च । सानुवन्धनिर्देशो ‘धू विधूनने’ इत्यस्य निवृत्त्यर्थः । ‘इट् सनि वा’ इत्यतो वेति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्विकल्पनिवृत्त्यर्थम् । अन्यथा लिङ्सिच्विशिष्टं वापदमत्रापि लिङ्सिचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु आर्धधातुकतयाग्रे विकल्पः सिद्ध इति भावः
Bālamanoramā
स्वरतिसूतिसूयतिधूञूदितो वा - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । 'धूञ् कम्पने' स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते ।
SK 2280 · A 8.2.40V
झषस्तथोर्धोऽधः ॥ २२८० ॥
jhaṣastathordho'dhaḥ
Siddhānta-kaumudī
झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥
Tattvabodhinī
NSP p. 365—झषस्तथोः—। अध इति किम् । धत्तः ॥—अभैत्सीदिति । ‘अस्तिसिचः—’ इति ईडागमः । ‘वदव्रज—’ इति वृद्धिः । ततश्चर्त्वम्
Bālamanoramā
झषस्तथोर्धोऽधः - झषस्तथोः । झष इति पञ्चमी । तश्च थ् चेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकायोरिति लभ्यते । 'धः' इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । 'अध' इति षष्ठन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह — झषः परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थितेझलां जस् झशी॑ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिदिव — सिषिध्व । सिषिधिम — सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह — सिषेधिथेति । सेद्धेति । लृट् तास् इडभावः । डा टिलोपः गुणः । धत्वं जश्त्वम् । सेद्धार इत्यादि । सेधितेति । इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्यः । इड्विकल्पः । असैत्सीदिति । लुङस्तिप् । इकारलोपः । च्लिः । सिच् । इडभावः । 'अस्तिसिचः' इति ईट् । वदव्रजेति वृद्धिः । धकारस्य चर्त्वम् ।
SK 2281 · A 8.2.26V
झलो झलि ॥ २२८१ ॥
jhalo jhali
Siddhānta-kaumudī
झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि ।{$ {!49 खादृ!} भक्षणे$} । ऋकार इत् । खादति । चखाद ।{$ {!50 खद!} स्थैर्ये हिंसायां च$} । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥
Tattvabodhinī
NSP p. 365—झलो झलि । ‘संयोगान्तस्य—’ इत्यतो लोप इति ‘रात्सस्य’ इत्यतः सस्येति चानुवर्तते तदाह—सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यासत्तेर्द्वालो झलि सस्येति निर्दिष्टानां त्रयाणामेकपदसंबन्धित्वे लोपोऽयम् । तेन सोमसुत् स्थानमित्यत्र न भवति । झलः किम् । अनैष्टाम् । झलि किम् । असैत्सीत् ॥—असेधीदिति । ‘नेटि’ इति वृद्धिप्रतिषेधः । गुणः । खाद्य ॥—ऋकार इदिति । तेन ‘नागलोपि—’ इति निषेधे अचखादत्
Bālamanoramā
झलो झलि - असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते — झलो झलि । झल इति पञ्चमी । संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते । तदाह — झलः परस्येत्यादि । असैद्धामिति । असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति । इट्पक्षे इत्यर्थः । असेधीदिति । इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति । अत्र ऋदित्वंनाग्लोपी॑त्याद्यर्थमित्यभिप्रेत्याह — ऋकार इदिति । खदेति । स्थैर्यं — स्थिरीभवनम् ।
SK 2282 · A 7.2.116V
अत उपधायाः ॥ २२८२ ॥
ata upadhāyāḥ
Siddhānta-kaumudī
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ॥
Tattvabodhinī
alignment inferredNSP p. 365—अत उप—। अतः किम् । तुतोद । उप-धायाः किम् । गणयति । इह अतो लोपं वाधित्वा परत्वाद्बुद्धिः स्यात्
Bālamanoramā
अत उपधायाः - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च ।
SK 2283 · A 7.1.91णित्त्वातिदेशः
णलुत्तमो वा ॥ २२८३ ॥
ṇaluttamo vā
Siddhānta-kaumudī
उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥
Bālamanoramā
णलुत्तमो वा - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।
SK 2284 · A 7.2.7V
अतो हलादेर्लघोः ॥ २२८४ ॥
ato halāderlaghoḥ
Siddhānta-kaumudī
हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् ।{$ {!51 बद!} स्थैर्ये$} । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् ।{$ {!52 गद!} व्यक्तायां वाचि$} । गदति ॥
Tattvabodhinī
NSP p. 365—अतो हलादेः । इह ‘सिचि वृद्धिः—’ इति सूत्रमनुवर्तते । ‘नेटि’ इति सूत्रादिटि इति ‘ऊर्णोतेर्विभाषा’ इत्यतो विभाषाग्रहणं च तदाह—इडादावित्यादि । वृद्धिर्ना स्यादिति । अतः किम् । अदेवीत् । हलादेः किम् । मा भवानतीत् । अटीत् । लघोः किम् । अगर्दात् । अरक्षीत् । इडादौ किम् । अपाक्षीत् । परस्मैपदे किम् । अयतिष्ठ । अयतिषाताम् । अचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाय ‘येन नाव्य-वधानम्’ इति न्यायेन यथेकवर्णव्यवधानमेवाधीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् ॥—पवर्गीयादिरिति । दन्त्योल्लादित्वे तु ‘न शसदद—’ इत्येत्वाभ्यासलोपनिषेधात् वेदतुः वेदि-येत्यादि न सिद्ध्येदिति भावः
Bālamanoramā
अतो हलादेर्लघोः - अतो हलादेः ।सिचि वृद्धिः परस्मैपदेष्वि॑त्यनुवर्तते ।नेटी॑त्यस्मादिटीति,ऊर्णोतेर्विभाषे॑त्यतो विभाषेति च । तदाह — हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थं, हलः परस्येत्येव सिद्धेः । अखादीत् अखदीदिति । वृद्धौ तदभावे च इट ईटीति सिज्लोपः । अखादिष्टाम्, अखदिष्टामित्यादि । बदेति । स्थैर्यं — स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यर्थः । नतु दन्त्योष्ठआदिरिति भाव- । बबादेति । 'अत उपाधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाऽभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाऽभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । अकित्त्वेपिथलि च सेटी॑त्येत्वाभ्यासलोपौ । बेदथुः बेद । अथ उत्तमपुरुषणलिणलुत्तमो वे॑ति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याह — बबाद बबदेति । बेदिव बेदिम । अबादीत् अबदीदिति ।अतो हलादे॑रिति वृद्धिविकल्पः । गदेति । व्यक्तवाक् — मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः चगदुरित्यादि ।
SK 2285 · A 8.4.17V
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ २२८५ ॥
nergadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca
Siddhānta-kaumudī
उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु । प्रणिगदति । जगाद ।{$ {!53 रद!} विलेखने$} । विलेखनं भेदनम् । रराद । रेदतुः ।{$ {!54 णद!} अव्यक्ते शब्दे$} ॥
Tattvabodhinī
NSP p. 365–366—नेर्गदनद—। गदादीनां चतुर्णां शपा निर्देशः स्यत्यादीनामेकादशानां इतिपा निर्देशश्च यइलुङ्निवृत्त्यर्थः । तेन प्रनिजागदीति । प्रनिनानदीति । प्रनिसासेति । प्रनिजंघनीति । इत्यादौ णत्वं न । धुशब्देन धुसंज्ञका दाधादयः षट् गृह्यन्ते । डुदान् । प्रणिददाति । दाण् । प्रणियच्छति । दो । प्रणिद्यति । देह् । प्रणिदयते । धेट् । प्रणिधयति । दुधान् । प्रणिदधाति । माशब्देन मेङ्माडोरेव ग्रहणम् । बुग्रकृतिमाङिति पठित्वा भाष्यादौ तथा व्याख्यानात्
Bālamanoramā
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्साति- वपतिवहतिशाम्यतिचिनोतिदेग्धिषु च - नेर्गद ।रषाभ्यां नो मः॑इत्यनुवर्तते ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तच् उपसर्गस्थे लाक्षणिकं । तदाह — उपसर्गस्थादिति । श्तिता शपा च निर्देशा यङ्लुग्निवृत्त्यर्था । प्रणिगदतीति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति । णलि उपधावृद्धिमभिप्रेत्याह — ररादेति । रेदतुरित्यादि । अरादीत् अरदीत् । णदेति । अव्यक्तशब्दः — अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः ।
SK 2286 · A 6.1.65V
णो नः ॥ २२८६ ॥
ṇo naḥ
Siddhānta-kaumudī
धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
Tattvabodhinī
NSP p. 366–367—णो नः ॥—धातोरिति । ‘धात्वादेः पः सः’ इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह अणति । णोपदेशान्पर्युदासमुखेनाह— णोपदेशास्त्विति । ‘नर्दं शब्दे’ । ‘नट अवस्यन्दने’ । चुरादिः । यस्तु नट नृत्ताविति घटादिः स नेह गृह्यते नाटीति दीर्घनिर्देशात् । ‘नाथ नाथ याज्ञादौ’ । ‘टुनदि समृद्धौ’ । ‘नक् नाशने’ । ‘नृ नये’ । ‘नृती गात्रविक्षेपे’ । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः ॥—तवर्गेति । तेषां मते तु पञ्चभ्यो भिन्ना णोपदेशाः ॥—उपसर्गाद्—। ‘समासेऽङ्कुलेः सङ्गः’ इत्यतोऽनुवर्तनात्समास एव स्यादित्यसमासग्रहणं, कृते तु तस्मिन्नसमास एव स्यादित्यपेग्रहणं कृतम्॥—प्रणिनदतीति । ‘नेर्गद—’इति णत्वम् । धातुनकारस्य तु ‘उपसर्गादसमास—’ इति णत्वं न भवत्यडादिभिन्नेन व्यवधानात् । तस्मात् तच्छब्देन कृतदीर्घाकारः परामृक्रियायामिति । दन्दशकर्तृकायामित्यर्थः ॥—आनन्तेति । इदित्वाभुम् ‘तस्माभुङ् द्विहलः’ इति नुट् ॥—वदनैकदेश इति । तत्क्रियायामित्यर्थः ॥ ‘आदिर्विटुडवः’ । ‘उपदेशेऽजनुनासिक’ इत्यतोऽनुवर्तनादाह—उपदेशे इति । उपदेशे किम् । भिकारीयति । विष्वप् ‘वीतः क्तः’ । सुप्तः । ‘द्वितोऽथुच्’ । नन्दथुः । ‘द्वितः क्रिः’ । कृत्रिमम् । क्लिदि परिदेवने । अनुदात्तेत्सु पठितस्येह पाठः क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थः । स्वरितेत्स्वयं न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ अथेत्यादि ॥—चुकुके इति । परमपि गुणं वाधित्वा नित्यत्वात् ‘असंयोगात्—’ इति कित्वम् ॥—सुब्धात्वित्यादि । सुब्धातोरुदाहरणानि । पट् दन्ता अस्य षोडन् । तमाच्छ्रे । णिति द्विशोक् । अकेव इति । एवं पृष्ठं करीत्याचष्टं ना पण्डयति । पण्डीयतीत्यत्र पण्डशब्दात् क्याचि ईत्वं वोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहि ‘धात्वादेः—’ इति सूत्रे उपदेश इति वर्तते । न च सुव्यातूनामुपदेशोऽस्ति । ष्टिवृष्वष्कती तु यकारादी । ‘लोपो व्योः—’ इति यलोपः ॥—प्रनिकस्तीति । ‘शेषे विभाषा—’ इत्यत्र अकस्तादाविति पर्युदासान्नेणत्वं नेति भावः ॥—असवर्णेऽचीति । असवर्णे किम् । ऊखतुः । अचि किम् । इयाज, उवाय ॥—उवोस्तेति । ‘द्विर्वचनेऽचि’ इति निपेधात्पूर्वं द्वित्वं पश्चादुकारस्य लघूपधगुणे कृते अभ्यासस्योवङ् । एवमियेषेत्यत्रेयङ् । असवर्णग्रहणसामर्थ्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति वोध्यम् ॥—संनिपातपरिभाषयेति । आमि सति लिट्परत्वं धातोर्न सिद्ध्येदिति भावः । अन्ये तु ‘इजादेः—’ इति सूत्रे गुरुमानिति नित्ययोगे मतुप् । ततश्च नित्यं यो गुरुमान् ‘एध वृद्धौ’ इत्यादिस्तत्रैव स्यादिति नात्र आमः प्रसक्तिरित्याहुः । ऊखतुरित्यत्र कित्त्वात् गुणाभावे ‘अभ्यासस्यासवर्णे’ इति उवङ् न भवति । ननु इयेष उवोषेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्त इतीष्टरूपासिद्धेः किं तत्रासवर्णग्रहणेनेति चेत् । अत्राहुः । ‘वार्णादाङ्गं वलीयः’ इति परिभाषाज्ञापनार्थमेवासवर्णग्रहणं कृतम् । तेन भवतीत्यत्रान्तरङ्गमपि यणं वाधित्वा गुणो भवति । तथा करोतेर्वचि कार इत्यत्र यणं वाधित्वा वृद्धिर्भवति । न चैवं सिवेरौणादिके नप्रत्यये स्योन इत्यत्र ‘छ्वोः शूङ्—’ इत्यूठि कृते लघूपधगुणं वाधित्वा यण् न स्यादिति वाच्यम् । समानाश्रय एव वार्णादाङ्गस्य वलीयस्त्वात् । इह तु निमित्तमेदेन व्याश्रयत्वमिति ॥—अभ्यासग्रहणेनेति । पूर्वस्यान्तवत्त्वेनेत्यर्थः
Bālamanoramā
णो नः - णो नः । 'ण' इति षष्ठन्तं । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह -धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति ।मेघादि॑रिति शेषः । 'णो नः' इति नत्वस्याऽनैमित्तकतया लिण्निमित्तादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ स्त एव, नेदतुरित्यादि । अथनृत्ननर्द्नन्दनक्क्नाट्नाथृनानृवर्ज णोपदेशाः॑ इति भाष्यं श्लोकार्धेन सङ्गृह्णाति — णोपदेशास्त्विति ।नर्द शब्दे॑ । 'नट अवस्यन्दने' चुरादिः । नाथृ नाधृ याञ्चादौ, द्वितीयचतुर्थान्तौ ।टु नदि समृद्धौ॑ ।नक्क नाशने॑ । नृ नये॑ ।नृती गात्रविक्षेपे॑ एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्ननकारादितयाणोपदेशाः प्रत्येतव्या इत्यर्थः ।नाटी॑ति ण्यन्तस्य प्रयोजनमाह — नाटेरिति । घटादिरिति ।नटनृत्ता॑विति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह — तवर्गेति । तवर्गचतुर्थान्तनाधधातोर्नृनन्द्योश्च णोपदेशेषु पर्युदासाऽभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् ।
SK 2287 · A 8.4.14V
उपसर्गादसमासेऽपि णोपदेशस्य ॥ २२८७ ॥
upasargādasamāse'pi ṇopadeśasya
Siddhānta-kaumudī
उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति ।{$ {!55 अर्द!} गतौ याचने च$} । अत आदेः SK 2248 ॥
Bālamanoramā
उपसर्गादसमासेऽपि णोपदेशस्य - ननु णकारमुपदिश्य तस्य किमर्थं नकारो विधीयते, नकार एवोपदिश्यतामित्याशङ्क्य तत्प्रयोजनमाह — उपसर्गात् ।रषाभ्यां नो णः॑इत्यधिकृतम् । तदाह — उपसर्गस्थादिति ।समासेऽङ्गुले सङ्गः॑इत्यतः समास इत्यनुवृत्तेरसमासे न स्यादित्यसमासग्रहणम् । तथा सतिप्रणाम॑इत्यादौ समासे न स्यादित्यपिग्रहणं । तदाह — समासेऽसमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः । प्रणिनदतीति । नेर्ददेति णत्वम् । न चात्रउपसर्गादसमास॑इति धातुनकारस्य णत्वं शङ्क्यम्, अट्कुप्वाङ्भिन्नेन व्यवधानात् । अर्देति ।उपधायां चे॑त्यत्र इक इत्यनुवर्तनादर्दतीत्यादौ न दीर्घः ।
SK 2288 · A 7.4.71V
तस्मान्नुड् द्विहलः ॥ २२८८ ॥
tasmānnuḍ dvihalaḥ
Siddhānta-kaumudī
द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् ।{$ {!56 नर्द!} {!57 गर्द!} शब्दे$} । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द ।{$ {!58 तर्द!} हिंसायाम्$} । तर्दति ।{$ {!59 कर्द!} कुत्सिते शब्दे$} । कुत्सिते कौक्षे । कर्दति ।{$ {!60 खर्द!} दन्दशूके$} । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द ।{$ {!61 अति!} {!62 अदि!} बन्धने$} । अन्तति । आनन्त । अन्दति । आनन्द ।{$ {!63 इदि!} परमैश्वर्ये$} । इन्दति । इन्दांचकार ।{$ {!64 बिदि!} अवयवे$} । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् ।{$ {!65 गडि!} वदनैकदेशे $}। गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति ।{$ {!66 णिदि!} कुत्सायाम्$} । निन्दति । प्रणिन्दति ।{$ {!67 टुनदि!} समृद्धौ$} ॥
Bālamanoramā
तस्मान्नुड् द्विहलः - लिटि णलि द्वित्वे हलादिशेषे अत आदेरित्यभ्यासाकारस्य दीर्घे आ अर्देति स्थिते — तस्मान्नुट् । द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देनअत आदे॑रिति कृतदीर्घः परामृश्यते । तदाह -दीर्घीभूतादिति । टकार इत् । उच्चारणार्थः । टित्त्वादाद्यवयवः । तदाह — आनर्देति । आर्दीदिति ।इट ईटी॑ति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह — कौक्ष इति । कुक्षिभवे इत्यर्थः । खर्देति । दन्दशूकः — दंशनस्वभावः सर्पः । 'दन्दशूको बिलेशयः' इत्यमरः । ननु सर्पस्य क्रियात्वाऽभावात्कथं धात्वर्थत्वमित्यत आह — दंशनेति । अति अदीति । इदित्त्वान्नुम् । तदाह — अन्ततीति । आनन्तेति ।अत आदे॑रिति दीर्घः ।तस्मान्नुड् द्विहलः॑ इति नुट् । एवम्-अन्दति । आनन्देति । नुट् । आन्दीत् । इदीति । परमैआर्यम् = परमेआरीभवनम् । इन्दतीति । इदित्त्वान्नुम् । इन्दांचकारेति ।इजादेश्चे॑त्याम् । बिदीति । इदित्त्वान्नुमित्याह — बिन्दतीति । नन्ववयवस्य अक्रियारूपत्वातक्थं धात्वर्थमित्यत आह — अवयवं करोतीत्यर्थ इति । अबिन्दीत् । अबिन्दिष्टामित्यादि । पाटान्तमिति । पवर्गीयचतुर्थादिरित्यर्थः । गडीति । वदनैकदेश इति । तत्क्रियायामित्यर्थः । गण्डति । अगण्डीत् । अन्तत्यादय इति । अति अदि बन्धने, इदि परमैआर्ये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवस्तिङ्प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति । काश्यपादन्ये मुनयस्तिङमपि एभ्य् इच्छन्तीत्यर्थः । णिदीति । इदित्त्वान्नुम् । णोपदेशत्वाण्णस्य नत्वम् । तदाह — निन्दतीति । प्रणिन्दतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । टु नदीति । समृद्धिः — प्रजापआआदिसम्पत्तिः ।
SK 2289 · A 1.3.5इत्संज्ञा
आदिर्ञिटुडवः ॥ २२८९ ॥
ādirñiṭuḍavaḥ
Siddhānta-kaumudī
उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् ।{$ {!68 चदि!} आह्लादे$} । चचन्द ।{$ {!69 त्रदि!} चेष्टायाम्$} । तत्रन्द ।{$ {!70 कदि!} {!71 क्रदि!} {!72 क्लदि!} आह्वाने रोदने च$} । चकन्द । चक्रन्द । चक्लन्द ।{$ {!73 क्लिदि!} परिदेवने$} । चिक्लिन्द ।{$ {!74 शुन्ध!} शुद्धौ$} । शुशुन्ध । नलोपः । शुध्यात् ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥{$ {!75 शीकृ!} सेचने $}। तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके ।{$ {!76 लोकृ!} दर्शने$} । लोकते । लुलोके ।{$ {!77 श्लोकृ!} संघाते$} । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते ।{$ {!78 द्रेकृ!} {!79 ध्रेकृ!} शब्दोत्साहयोः$} । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके ।{$ {!80 रेकृ!} शङ्कायाम्$} । रेकते ।{$ {!81 सेकृ!} {!82 स्रेकृ!} {!83 स्रकि!} {!84 श्रकि!} {!85 श्लकि!} गतौ$} । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके ।{$ {!86 शकि!} शङ्कायाम्$} । शङ्कते । शशङ्के ।{$ {!87 अकि!} लक्षणे$} । अङ्कते । आनङ्के ।{$ {!88 वकि!} कौटिल्ये$} । वङ्कते ।{$ {!89 मकि!} मण्डने$} । मङ्कते ।{$ {!90 कक!} लौल्ये लौल्यं गर्वश्चापल्यं च$} । ककते । चकके ।{$ {!91 कुक!} {!92 वृक!} आदाने$} । कोकते । चुकुके । वर्कते । ववृके ।
vārttikaऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन
(वार्तिकम्) ॥{$ {!93 चक!} तृप्तौ प्रतीघाते च$} । चकते । चेके ।{$ {!94 ककि!} {!95 वकि!} {!96 श्वकि!} {!97 त्रकि!} {!98 ढौकृ!} {!99 त्रौकृ!} {!100 ष्वष्क!} {!101 वस्क!} {!102 मस्क!} {!103 टिकृ!} {!104 टीकृ!} {!105 तिकृ!} {!106 तीकृ!} {!107 रघि!} {!108 लघि!} गत्यर्थाः$} । कङ्कते । डुढौके । तुत्रौके ।
vārttikaसुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः
(वार्तिकम्) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि ।{$ {!109 अघि!} {!110 वघि!} {!111 मघि!} गत्याक्षेपे$} । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च ।{$ {!112 राघृ!} {!113 लाघृ!} {!114 द्राघृ!} सामर्थ्ये $}। राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते ।{$ {!115 श्लाघृ!} कत्थने$} । श्लाघते ॥ अथ परस्मैपदिनः पञ्चाशत् ॥{$ {!116 फक्क!} नीचैर्गतौ$} । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क ।{$ {!117 तक!} हसने $}। तकति ।{$ {!118 तकि!} कृच्छ्रजीवने$} । तङ्कति ।{$ {!119 बुक्क!} भषणे$} । भषणं श्वरवः । बुक्कति ।{$ {!120 कख!} हसने$} । प्रनिकखति ।{$ {!121 ओखृ!} {!122 राखृ!} {!123 लाखृ!} {!124 द्राखृ!} {!125 ध्राखृ!} शोषणालमर्थयोः$} । ओखति । ओखांचकार ।{$ {!126 शाखृ!} {!127 श्लाखृ!} व्याप्तौ $}। शाखति ।{$ {!128 उख!} {!129 उखि!} {!130 वख!} {!131 वखि!} {!132 मख!} {!133 मखि!} {!134 णख!} {!135 णखि!} {!136 रख!} {!137 रखि!} {!138 लख!} {!139 लखि!} {!140 इख!} {!141 इखि!} {!142 ईखि!} {!143 वल्ग!} {!144 रगि!} {!145 लगि!} {!146 अगि!} {!147 वगि!} {!148 मगि!} {!149 तगि!} {!150 त्वगि!} {!151 श्रगि!} {!152 श्लगि!} {!153 इगि!} {!154 रिगि!} {!155 लिगि!} गत्यर्थाः$} । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥
Bālamanoramā
आदिर्ञिटुडवः - आदिः । 'भूवादयो धातवः' इत्यस्माद्धात्व इत्यनुवृत्तं षष्ठआ विपरिणम्यते । 'उपदेशेऽजनुनासिकः' इत्यस्मादुपदेशे इति, इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनं । तदाह — उपदेश इति । ट्विकरणंद्वितीऽथु॑जित्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वादनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति.अन्त्यात्, अन्द्यादित्यस्याप्युपलक्षणं । चदीति । इदित्त्वान्नुमित्याह — चन्दतीति । त्रदीति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह — त्रन्दतीति.क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवने इति । अनुदात्तेत्सुपठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्धतीति । शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाऽयं कुतो न पठित इत्यत आह — नलोप इति । आशीर्लिङिअनिदिता॑मिति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः । 'अथ कवर्गीयान्ता' इत्यादि 'लोकृ' इत्यन्तं स्पष्टम् । श्लोकृ इति । सङ्घातशब्दं व्याचष्टे — ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्क्याह — स चेहेति । ग्रन्थनं ग्रन्थः — सङ्घीभावःष सङ्घीकरणं वा । तत्र सङ्घीभवनं सङ्घनिष्ठम् । सङ्घीकरणं तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वेऽकर्मकः । सङ्घीकरणार्थत्वे सकर्मकः इत्यर्थः । श्लोकत इति । सङ्घीभवतीत्यर्थः । सङ्घीकरोततीति वा । द्रेकृ ध्रेकृ इति । शब्दनं शब्दः । [एच इगिति ह्रस्व इति । लिट एशि द्वित्वेहलादिः शेषे॑देद्रेक् ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् 'एच इग्घ्रस्वादेशे' इति इकारो भवतीत्यर्थः] । दिध्रेके इति । अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्व इकारः । रेकृ इति । शङ्का — संशयः, आक्षेपो वा । शीकृ सेचने इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेकृ इति । आद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयोऽदुपधा इदितः । त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पर्युदासान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह — सादित्वाऽभावान्न षोपदेशत्वं । ततश्च सकारस्यादेशसकारत्वाऽभावान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह -सिसेक इत्यादि । 'सरुआङ्के' इत्यादावदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह -शङ्कते । शशङ्क इति । अकीति । लक्षणं — चिह्नीकरणम् । अङ्क इति । इदित्त्वान्नुम् । आनङ्क इति ।तस्मान्नुड् द्विहलः॑इति नुट् ।वकि कौटिल्ये इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लगूपधगुणं मत्वा आह — कोकत इति । चुकुक इति ।असंयोगा॑दिति कित्त्वान्न लघूपधगुणः । अभ्यासे चुत्वं । लघूपधगुणे रपरत्वं मत्वाह — वर्कत इति । लिटिअसंयोगा॑दिति कित्त्वान्न गुण इति मत्वाह — ववृके इति । उरदत्वं, हलादिः शेषः । ननु कित्त्वात्परत्वाद्गुणः तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह — चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । 'कङ्कते' इत्यादाविदित्वान्नुम् । डुढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकारः, ओकारस्य ह्रस्व उकारः । अथ ष्वष्कधातोः षोपदेशपरिगणनाद्धात्वादेरिति सत्वे प्राप्ते आह — सुब्धात्विति । षष्वष्क इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च । तृतीय इति । तथा च 'स्वष्कते' इति रूपं । केवलदन्त्यपरकसादित्वाऽभावेन षोपदेशत्वाऽभावः । टेकते इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लघि भोजननिवृत्तावपीति । निवृत्तिः- विमुखीभवनम् । लङ्घते । न भुङ्क्त इत्यर्थः । अघीति । त्रयोऽपि चतुर्थान्ता इदितः । आनङ्घ इति ।तस्मान्नुड् द्विहलः॑ इति नुट् । वङ्घत इति । इदित्त्वान्नुम् । लिटि तु ववङ्घे इति रूपम् । वादित्वात्संयुक्तहल्मद्यस्थत्वात्संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इचि त्रयोऽपि ऋदितः । सामर्थ्यं — कार्यक्षमीभवनम् । ध्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति.आयामः — दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनं-स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्क नीचैरित्यादि स्पष्टं । प्रनिकखतीति ।शेषे विभाषे॑त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । ओखृ इति । अलमर्थः- भूषणक्रिया, पर्याप्तिः, वारणं वा । ओखति । ओखांचकार.शाखृ श्लाखृ इति । श्लाघृ इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । 'ईखि इत्यन्ता' इति शेषः । त्रयोदशेति । 'वल्गादय' इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाऽभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति । शपि लघूपधगुणः ।
SK 2290 · A 6.4.78V
अभ्यासस्यासवर्णे ॥ २२९० ॥
abhyāsasyāsavarṇe
Siddhānta-kaumudī
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः -SK 2237 इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । [(परिभाषा - ) वार्णादाङ्गं बलीयः] इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च ।{$ {!156 युगि!} {!157 जुगि!} {!158 बुगि!} वर्जने$} । युङ्गति ।{$ {!159 घघ!} हसने$} । घघति । जघाघ ।{$ {!160 मघि!} मण्डने$} । मङ्घति ।{$ {!161 शिघि!} आघ्राणे$} । शिङ्घति ॥ अथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥{$ {!162 वर्च!} दीप्तौ$} । वर्चते ।{$ {!163 षच!} सेचने सेवने च$} । सचते । सेचे । सचिता ।{$ {!164 लोचृ!} दर्शने$} । लोचते । लुलोचे ।{$ {!165 शच!} व्यक्तायां वाचि$} । शेचे ।{$ {!166 श्वच!} {!167 श्वचि!} गतौ$} । श्वचते । श्वञ्चते ।{$ {!168 कच!} बन्धने$} । कचते ।{$ {!169 कचि!} {!170 काचि!} दीप्तिबन्धनयोः $}। चकञ्चे । चकाञ्चे ।{$ {!171 मच!} {!172 मुचि!} कल्कने$} । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ।{$ {!173 मचि!} धारणोच्छ्रायपूजनेषु$} । ममञ्चे ।{$ {!174 पचि!} व्यक्तीकरणे$} ॥ पञ्चते ।{$ {!175 ष्टुच!} प्रसादे$} । स्तोचते । तुष्टुचे ।{$ {!176 ऋज!} गतिस्थानार्जनोपार्जनेषु$} । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे ।{$ {!177 ऋजि!} {!178 भृजी!} भर्जने$} । ऋञ्जते । उपसर्गादृति -SK 74 इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट ।{$ {!179 एजृ!} {!180 भ्रेजृ!} {!181 भ्राजृ!} दीप्तौ$} । एजांचक्रे ।{$ {!182 ईज!} गतिकुत्सनयोः$} । ईजांचक्रे ॥ अथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥{$ {!183 शुच!} शोके$} । शोचति ।{$ {!184 कुच!} शब्दे तारे$} । कोचति ।{$ {!185 कुञ्च!} {!186 क्रुञ्च!} कौटिल्याल्पीभावयोः$} । अनिदिताम् -SK 415 इति नलोपः । कुच्यात् । क्रुच्यात् ।{$ {!187 लुञ्च!} अपनयने$} । लुच्यात् ।{$ {!188 अञ्चु!} गतिपूजनयोः$} । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् ।{$ {!189 वञ्चु!} {!190 चञ्चु!} {!191 तञ्चु!} {!192 त्वञ्चु!} {!193 म्रुञ्चु!} {!194 म्लुञ्चु!} {!195 म्रुचु!} {!196 म्लुचु!} गत्यर्थाः$} । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥
Tattvabodhinī
alignment inferredNSP p. 367–368—पर्जन्यवल्लक्षणेति । उपयोगानुपयोगाविचारेण प्रवर्तमानं शास्त्रं हस्तस्थानेपि हस्तं प्रवर्तयतीत्यर्थः । तथा चैकस्मिँल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः ॥—आङ्गं वलीय इति । नन्वत्र हस्तसवर्णदीर्घयोनिमित्तभेदात्समानाश्रयलाभावे कथमाङ्गस्य वलीयस्त्वमिति चेत् । सत्यम् । इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयलाभ्युपगमात् । अत एवोङ्शब्दे इत्यस्माल्लिटि ऊवे उवाते इत्यादीष्टं सिध्यति । उवङः प्राक् सवर्णदीर्घ-प्रवृत्तौ तत्र सिध्येदिति दिक् ॥—परत्वाच्चेति । आपाततोऽयं हेतुः, हस्तस्याङ्गत्वेन वहिरङ्गलादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तलात् ॥—उङ्कतीति । इदित्वानुम् । लिटि उङ्कांचकार । आशिषि उख्यात् ॥—ववसतुरिति । वादिलादेत्याभ्यासलोपौ न । एखति । इङ्कति । इङ्कांचकार । ईखति । ईखांचकार । इङ्गति । इङ्गांचकार ॥—त्वगि कम्पने इति । अयं ‘उख उखि’इति दण्डके गतौ पठितस्य गतिविशेषे वृत्तिं बोधयितुं पठ्यते । अत एवानतिप्रयोजनलाद्वहुषु पुस्तकेषु न पठितः ॥—सेवने चेति । ‘यं पूरबो वृत्रहणं सचन्ते’ इत्यादौ सेवन्ते इत्यभियुक्तैर्व्याख्यातलात् । खरितेत्सु षच समवाय इति वक्ष्यते ॥ लोच् । ऋदिलात् ‘नागलोपि—’ इति हस्तनिषेधः । अल्लोचत् । ‘पचि । व्यक्तीकरणे’ । ‘पचि विस्तारवचने’ इति चुरादौ ॥ ऋज्ज गति । अर्जनं प्राधान्येन, उपार्जनं तु प्रासङ्गिकम् ॥—नुङ्गिधावि- त्यादि । ‘उद्विधिलादेशविनामेषु तु प्रतिविधेयम्’ इति वचनानुबादिविधिषु वर्णैकदेशस्य वर्णत्वेन ग्रहणादिति भावः । यद्वा द्विहल्यग्रहणं भाष्यादौ प्रत्याख्यायते । न च आट आटतुरित्यत्रातिप्रसङ्गः । ‘अश्रोतेश्व’ इत्यनेन अवर्णोपधस्य यदि भवति तर्ह्यश्रोतेरेवेति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः ॥—ऋजिभृजी । भजनं जलं विना तण्डुलादेः संतापविशेषः । इदित्वात् ‘श्वीदितो निष्ठायाम्’ इति नेट् । भृक्तः । भृक्तवान् ॥—पूजृ भ्रेजृ भ्राजृ । भ्राजेर्ऋदित्करणमनुदात्तेत्त्वमात्रफलम् । ‘भ्राजभास—’ इत्यादिना चङ्परे णौ उपधाहस्वस्य विकल्पितत्वात् । अविभ्रजत् । अवभ्राजत् ॥—परस्मैपदिन इति । चवर्गीयान्ताः परस्मैपदिनः ॥—पूजायां त्विति । ‘नाम्बेः पूजायाम्’ इति निषेधादिति भावः ॥—जृस्तम्भु ॥ स्तन्भुः सौत्रः । अजरत् । अजारीत् । अस्तमत् । अस्तम्भीत् । अश्वत् । अश्वताम् । अश्वन् । अश्वयीत् । ‘विभाषा धेट्द्भ्योः’ इति चङि अशिश्वियत् ॥ ‘अर्च पूजायाम्’ । अयं पूजादौ स्वरितेत् । इह पाठस्तु कर्तृगेऽपि फले परस्मैपदार्थः ॥ —दीर्घाभावादिति । स्वाभाविकहस्वस्थानिकदीर्घाभावादित्यर्थः
Bālamanoramā
अभ्यासस्यासवर्णे - लिटि णलः पित्त्वेन कित्तवाऽभावात्प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचीति' निषिद्धतया गुरुमत्त्वाऽभावादामभावे सति पूर्वं द्वित्वे कृते हलादिशेषे पश्चात् 'वार्णादाङ्गं बलीय' इति परिभाषाया अन्तरङ्गमपि सवर्णदीर्गं बाधित्वा लघूपधगुणे कृते उ ओख अ इति स्थिते, उवर्णस्य यणि प्राप्ते — अभ्यासस्य । 'अचि श्नुधात्वि' त्यतोऽचीति, य्वोरियङुवङाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । अभ्यासविशेषणमिदं ! तदन्तविधिः । तदाह — इवर्णोवर्णान्तरस्येति । ङित्त्वादन्तादेशौ । उवोखेति ।अचि श्नुधात्वि॑त्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाऽभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादित्यत आह — संनिपातेति । णलि परे विहितगुणसंपन्नामिजदिगुरुमत्त्वमाश्रित्य आमं गुणो न प्रवर्तयति, आमि सति धातोर्णल्परकत्वव्याघातादिति भावः । ऊखतुरिति । अपित्त्वेन कित्त्वाल्लघूपधगुणाऽभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्याससस्याऽसवर्ण इति इयङभावे सवर्णदीर्घे रूपमिति भावः । ननुऊखतु॑रित्यत्र ऊकारस्य सवर्णदीर्घसंपन्नस्य एकादेशतया पूर्वान्तत्वेनाऽभ्याससंबन्धित्वात् 'ह्रस्व' इत्यभ्यासस्याऽचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते — इहेति । अथ परहरति — न भवतीति । कुत इत्यत आह — सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति — आङ्गत्वादिति.उ-उखतुरिति स्थिते पर्जन्यवल्लक्षणप्रवृत्त्या अभ्यासह्रस्वे सवर्णदीर्घेऊखतु॑रिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासह्रस्वो न भवति ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायादित्यर्थः । ननु वर्णमात्रापेक्षत्वेनाऽन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति ह्रस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह — वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि ह्रस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम्, उक्तरीत्या अन्तरङ्गं सवर्णदीर्घं प्रति ह्रस्वस्य परत्वकथनाऽनौचित्यादिति चेन्न, परत्वादित्यस्य परकालप्राप्तकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाऽभावेन युगपदेव हलादिशेषे ह्रस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्व पूर्वमन्तरङ्गं, परं परं बहिरङ्ग॑मिति न्यायेन बहिरङ्गत्वादित्यलम् । उङ्खतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्णलि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्त्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम् । ववङ्ख । मेखतुरिति । एत्त्वाभ्यासलोपौ । [मङ्खतीति । मखिधातोरिदित्त्वाभ्यासलोपौ न । ममङ्खेति । संयुक्तहल्मद्यस्थत्वादेत्वाभ्यासलोपौ न । नखति नङ्खतीति । 'णो नः' इति नत्वम् । रखतीति । णलि तु उपधावृद्धिः । रराख । अतुसादावेत्वाभ्यासलोपौ — रेखतुरित्यादि । रङ्खतीति । इदित्त्वान्नुम् । ररङ्ख । एखतीति । इखधातोः शपि लघूपधगुणः । इयेख । ईखतुः । इङ्खतीति । इदित्त्वान्नुम् । इङ्खांचकार । ईङ्खतीति । अलधूपधत्वान्न गुणः । ईङ्खाचकार । वल्गतीति । लिटि ववल्ग ववल्गतुः । रङ्गतीति लङ्गतीति । ररङ्गतुः । अङ्गतीति । लिटि — आनङ्ग । वङ्गतीति । लिटि — ववङ्ग ववङ्गतुः । मङ्गतीति । लिटि — ममङ्ग ममङ्गतुः । तङ्गतीति । लिटि — ततङ्ग ततङ्गतुः । त्वङ्गतीति । लिटि तत्वङ्ग तत्वङ्गतुः । श्रङ्गतीति । लिटि — शश्रङ्ग शश्रङ्गतुः । श्लङ्गतीति । लिटि — शश्लङ्ग शश्लङ्गतुः । इङ्गतीति । लिटि इङ्गांचकार । रिङ्गतीति । लिटि — रिरिङ्ग रिरङ्गतुः । लिङ्गतीति । अथखान्तेषु रिखादिचतुर्णां मतान्तरसिद्धानामुदाहरणमाह — रेखतीति । शपि लघूपधगुणः । रिरेख रिरिखतुः । त्रखतीति । लिटि — तत्राख तत्रखतुः । त्रिङ्खतीति । लिटि — तित्रिङ्ख त्रित्रङ्खतुः । शिङ्खतीति । लिटि शिशिङ्ख शिशिङ्खतुः । त्वगि कम्पने चेति । चाद्गतौ । त्वङ्गति तत्वङ्ग । युगीति । त्रयोऽपि इदितः । युङ्गति बुङ्गति जुङ्गति । घघ हसने इति । घघति । णलि उपधावृद्धिः । जघाघ जघघतुः । लिण्निमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न । मघि मण्डन इति । इदित्त्वान्नुमित्याह — मङ्घतीति । ममङ्घ ममङ्घतुः । शिघि आघ्राण इति । शिङ्घति शिशिङ्घ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति । दीप्तिः- प्रकाशः । षच सेचन इति । अच्परकसादित्वात् षोपदेशोऽयम् । स्वरितेत्सु 'षच समवाये' इति वक्ष्यते । सेचेति । सत्वस्य लिण्निमित्तत्वाऽभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ । दम्भः शाठं चेति । परविरुआम्भार्थ धर्माद्याचरणं दम्भः — कापटआऽपरपर्यायः ।कपटोऽस्त्री व्याजदम्भोपधयःर॑ इत्यमरः । शाठं कुटिलीभावः ।निकृतस्त्वनृजुः शठः॑ इत्यमरः । पचि व्यक्तीकरम इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते ।पचे॑त्येके । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नष्टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः । तुष्टुचे इति । 'सर्पूर्वाः खयः' इति तकारशेषः । आदेशसकारत्वात् षत्वम् । ऋज गतीति । अर्जनं -संपादनम् । उपार्जनं — सेवनम् ।ऊर्जनेष्वि॑त्यन्ये । अर्जत इति । शपि लघूपधगुणः । रपरत्वम् । नुड्विधाविति । वार्तिकमिदम् । आनृज इति । लिटोऽसंयोगादिति कित्त्वाद्गुणाऽभावे द्वित्वे उदरत्वे रपरत्वे हलादिः शेषे अत आदेरिति दीर्घे नुडिति भावः । ऋजी भृजी इति.ऋदुपधौ द्वौ । आद्य इदित् । द्वितीयस्य ईदित्त्वात्श्वीदितो निष्ठाया॑मिति नेट् । इदित्त्वान्नुम् । अनुस्वारपरसवर्णौ । ऋञ्जांचक्र इति । नुमि सतिसंयोगे गुर्वि॑ति ऋकारस्य गुरुत्वादिजादेश्चेत्याम् । ऋञ्जिता । ऋञ्जिष्यते । ऋञ्जताम् । आर्ञ्जत । ऋञ्जेत । ऋञ्जिषीष्ट । अथ लुङि रूपं दर्शयति — आर्ञ्जिष्यत । भर्जत इति । शपिलघूपधगुणः । रपत्वम् । बभृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अभर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह — अभर्जिष्टेति । लुङस्तादेशः । च्लिः सिच् । इट् । गुणः । रपरत्वम् । अडागमः । षत्वं । ष्टुत्वम् । लृङि — अभर्जिष्यत । एजृ भ्रेजृ भ्राजृ इति । आद्ययोरृदित्वंनाग्लोपी॑त्यर्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्यात्मनेपदं सिध्यति । ऋदित्त्वस्य न किञ्चित्फलमस्ति । न चनाग्लोपी॑ति चङ्परे णौ उपधाह्रस्वः फलं भवितुमर्हति,भ्राजभासे॑त्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईज गतीति । अलघूपधत्वान्न गुणः । ईजते । ईजांचक्र इति । इजादेश्चेत्याम् । वर्चादय एकविंशतिर्वृत्ताः । द्विसप्ततिरिति । 'चवर्गीयान्ता' इति शेषः । शुच शोक इति । स्मृत्वा क्लेशः — शोकः । शोचतीति । वियुक्तं पित्रादिकं स्मृत्वा क्लिश्नातीत्यर्थः । कुच शब्द इति । शब्दनं शब्दः । चुकोच चुकुचतुः । अकोचीत् । कुञ्च क्रुञ्चेति । उभावपि चवर्गपञ्चमोपधौ । कुञ्चतौ अनुस्वारपरसवर्णसंपन्नस्य नकार्थानिकञकारस्य धातुपाठे निर्देशः । धातुपाठे॒नकारजावनुस्वारपञ्चमौ॑ इत्यभियुक्तवादात् । तदाह — अनिदितामिति । अनुस्वारपरसवर्णयोरसिद्धतया नकारस्य सत्त्वेन आशीर्लिङिअनिदिता॑मिति नलोपे कुच्यादिति रूपमतित्यर्थः । लिटि तु चुकुञ्च चुकुञ्चतुरित्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाऽभावान्नलोपो न भवति । क्रुञ्चधातुस्तु स्वाभाविकञकारोपध एव, न त्वनुसारपरसवर्णसंपन्नञकारोपध इतिपरेश्च घाङ्कयो॑रिति सूत्रे भाष्यकैयटयोः स्थितम् । अतस्तस्याशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति ।नाञ्चेः पूजाया॑मिति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षट् नोपधाः । अनुस्वारपरसवर्णाभ्यां ञकारनिर्देशः । तथा च तेषामाशीर्लिङिअनिदिता॑मिति नलोपः । तदाह — वच्याद#इति । लुङि अम्रुञ्चीत् । अम्लुञ्चीदिति नोपधयो रूपम् । सिज्लोपः ।
SK 2291 · A 3.1.58V
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ॥ २२९१ ॥
jṝstambhumrucumlucugrucuglucugluñcuśvibhyaśca
Siddhānta-kaumudī
एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् ।{$ {!197 ग्रुचु!} {!198 ग्लुचु!} {!199 कुजु!} {!200 खुजु!} स्तेयकरणे$} । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् ।{$ {!201 ग्लुञ्चु!} {!202 षस्ज!} गतौ$} । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन शः, जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि){$ {!203 गुजि!} अव्यक्ते शब्दे$} । गुञ्चति । गुञ्ज्यात् ।{$ {!204 अर्च!} पूजायाम्$} । आनर्च ।{$ {!205 म्लेच्छ!} अव्यक्ते शब्दे$} । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ।{$ {!206 लच्छ!} {!207 लाच्छि!} लक्षणे$} । ललच्छ । ललाञ्छ ।{$ {!208 वाच्छि!} इच्छायाम्$} । वाञ्छति ।{$ {!209 आच्छि!} आयामे$} । आञ्छति । अत आदेः - SK 1248 इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ ।{$ {!210 ह्रीच्छ!} लज्जायाम्$} । जिह्रीच्छ ।{$ {!211 हुर्च्छा!} कौटिल्ये$} । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां च SK 2265 इति दार्घः । हूर्छति ।{$ {!212 मुर्च्छा!} मोहसमुच्छ्राययोः$} । मूर्छति ।{$ {!213 स्फुर्च्छा!} विस्तृतौ$} । स्फूर्च्छति ।{$ {!214 युच्छ!} प्रमादे$} । युच्छति ।{$ {!215 उच्छि!} उञ्छे$} । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार ।{$ {!216 उच्छी!} विवासे$} । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति ।{$ {!217 ध्रज!} {!218 ध्रजि!} {!219 धृज!} {!220 धृजि!} {!221 ध्वज!} {!222 ध्वजि!} गतौ$} । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति ।{$ {!223 कूज!} अव्यक्ते शब्दे $}। चुकूज ।{$ {!224 अर्ज!} {!225 षर्ज!} अर्जने$} । अर्जति आनर्ज । सर्जति । ससर्ज ।{$ {!226 गर्ज!} शब्दे$} । गर्जति ।{$ {!227 तर्ज!} भर्त्सने$} । तर्जति ।{$ {!228 कर्ज!} व्यथने$} । चकर्ज ।{$ {!229 खर्ज!} पूजने च$} । चखर्ज ।{$ {!230 अज!} गतिक्षेपणयोः$} । अजति ॥
Tattvabodhinī
alignment inferredNSP p. 368–369—मुखसुखार्थमिति । कृतहस्वस्थानिकदीर्घाकारात्परस्यापि उद् भवत्येवेति भावः । ‘युच्छ प्रमादे’ ॥—युच्छतीति । अन्तरङ्गत्वात् ‘छे च’ इति तुकि लघूपधत्वाभावान्न गुणः । न च ‘वार्णादाङ्गं वलीयः’ इति वाच्यम् । आङ्गवार्णयोर्युगपत्प्रवृत्तावेव आङ्गस्य वलीयस्त्वात् । न च युच्छेति चकारलकारानुच्चार्येतां किमनेन तुग्विधिनेति शङ्काम् । वहुषु धातुरूपेषु चकारलकारयोरुच्चारणे गौरवात् ‘छे च’ इत्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च ॥—अजेर्व्य—। वी इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति ॥—आर्धधातुकविषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हलादित्वाभावायङ् न स्यादिति भावः । यङ् लक् तु अस्मान्न भवति । लका यङोऽपहारे आर्धधातुकविषयत्वाभावान्नार्धधातुकाभिव्यक्तिरिति वीभावस्यैवाप्रसक्तेः । एतच्च ‘न लुमता—’ इति सुत्रे कैयटे स्पष्टम् । अघजपोः किम् । समाजः । ‘समुदोरजः पशुषु’ इत्यप् । समजः । उदजः ॥ —विव्यतुरिति । ‘एनेकाचः—’ इति यण् ॥—लोपाजादेश एवेति । एतच्च ‘न पदान्त—’ इति सूत्र एवास्माभिरुपपादितम् ॥—एकाच इतीति । अजेरुदात्तवेऽपि वीभावोऽनुदात्तः, ऊद्दन्तादिभिन्ना एकाचोऽजन्ताः सर्वेऽप्यनुदात्ता इत्यन्युपगमात् ॥—कृस्वृभृ—। ‘डुकृञ् करणे’ । ‘कृञ् हिंसायाम्’ । इह निरनुवन्धग्रहणादेकानुवन्धक्षनुवन्धयोरुभयोर्ग्रहणम् । एवमग्रेऽपि ‘भृञ् भरणे’ । ‘डुभृञ् धारणपोषणयोरित्युभयोर्ग्रहणम् । ‘सृ गतौ’ । ‘वृङ् संभक्तौ’ । ‘वृञ् वरणे’ । इह निरनुवन्धकग्रहणाद्भिन्नानुवन्धयोरप्युभयोर्ग्रहणम् ॥ कृ सृ भृ एषामनुदात्तलात् ‘एकाच उपदेश—’ इति प्रकृत्याश्रये निषेधे प्राप्ते वृङ्वृञोस्तूदात्तलात् ‘श्युकः किति’ इति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह—क्रादीनां चतुर्णामिति । इह स्तुद्वादीनां चतुर्णां ग्रहणस्य भारद्वाजनियमप्रापितेण्निषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम् ॥—इण्निषेध इति । ‘नेडुशि—’ इति प्रक्रमान्ननापादितस्यैवाभावस्य नियमो नतु विभाषावलम्ब्यस्यापि । ‘अनन्तरस्य—’ इति न्यायादपि संनिहितस्यैव नियम उचितः । तेन सिषेधिथ । सिषेद्ध । सिषिधिव । सिषिध्व इत्याद्युभयं भवति
Bālamanoramā
जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च - जृस्तन्भु ।च्लेऋः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति,इरितो वेत्यतो वेति चानुवर्तते । तदाह — एभ्यश्च्लेरङ् वेति ।जृष् वयोहानौ॑,स्तम्भुः॑सौत्रो धातुः,म्रचुम्लुचू गत्यर्थौ॒॑ग्रुचु ग्लुचु स्तेयकरणे॑,ग्लुञ्चु गतौ, — इत्येतेभ्य इत्यर्थः । अम्रुचदिति । च्लेरङि सति ङित्त्वान्न लघूपधगुणः । अम्रोचीदिति । अङभावेइट ईटी॑ति सिज्लोपः । ग्रुचु ग्लुचु इति ।जृस्तन्भु॑इत्यङ् वेत्याह — अग्रुचत् अग्रोचीदिति । आद्यस्य रूपे । अथ द्वितीयस्य अङ्विकल्पमुदाहरति — अग्लुचत् अग्लोचीदिति । अङि सति ङित्त्वान्न लघूपधगुणः । अङभावे सिज्लोपः । ग्लुञ्चु षस्जेति । आद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात् । त्तर आद्यस्य लुङि विशेषमाह — अङ्वेति ।जृस्तम्भ्वित्येनेने॑ति शेषः । ग्लुचुग्लुञ्च्वोः पृथग्ग्रहणसामर्थ्यान्नलोपो नेति वृत्तिकृतम् । ग्लुञ्च्यात् । सस्येति । धात्वादेः षस्य सत्वे सस्ज् स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः । तस्येति । शकारस्यझलां जश् झशी॑ति जकार इत्यर्थः । गुजीति । इदित्त्वादाशीर्लिङि नलोपो नेत्याह — लच्छतीति रूपम् । ललच्छ ललच्छतुः । आछीति । लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्रस्वे अ आञ्छ् अ इति स्थितेअत आदे॑रिति दीर्घं,तस्मान्नुड्द्विहल॑ इति च नुटमाशङ्क्याह — अत आदेरिति । तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाऽभावादेव ह्रस्वाकारस्य दीर्घैति सिद्धावत इति तपरकरणं स्वाभवाकिस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः । ततः किमित्यत आह — तेनेति ।अत आदे॑रिति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन,अत आदे॑रिति दीर्घस्याऽभावान्न नुडित्यर्थः । आञ्छेति । द्वित्वे हलादिशेषेऽभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति । तथा च ह्रस्वस्थानिकदीर्घाकारादपि परसय् नुड् भवत्येवेति भावः ।ह्यीछ लज्जाया॑मित्यादि स्पष्टम् । युछ प्रमाद इति । यकारादिरुदुपधोऽयम् । युच्छतीति । अन्तरङ्गत्वात्छे चे॑ति तुकि लघूपधत्वाऽभावान्न गुणः । उञ्छांचकारेति । नुमि कृते 'संयोगे गुरु' इत्युकारस्य गुरुत्वात्इजादेश्चे॑त्यामिति भावः । धृजेति । आद्यौ ऋदुपधौ । इतरे चत्वारोऽदुपधाः । द्वितीयचतुर्थषष्ठा इदितः । धर्जतीति । शपि लघूपधगुणः । रपरत्वम् । दधर्ज दधृजतुः । धृज्यात् । अधर्जीत् । धृञ्जतीति । इदित्त्वान्नुम् । दधृञ्ज । इदित्त्वान्नलोपो न । धृञ्ज्यात् । अधृञ्जीत् । ध्रजतीति । णलि — दध्राज दध्रजतुः । अध्राजीत् — अध्रजीत् । ध्रञ्जतीति । अदुपधोऽयम् । दध्रञ्ज । इदित्त्वान्नलोपो न — दध्रञ्जतुः । ध्वजतीति । दध्वाज । ध्वञ्जतीति । दध्वञ्ज । कूज अव्यक्त इति । स्पष्टम् । सर्जतीत्यत्र षोपदेशत्वात्षत्वम् । अज गतीति । लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह — अजेव्र्यघञपोः ।वी॑ति दीर्घान्तं लुप्तप्रथमाकम् । 'आर्धधातुके' इत्यधिकृतं । विषयसप्तम्येषा, नतु परसप्तमी, व्याख्यानात् । तदाह — आर्धधातुकविषय इत्यादि । अजेरिति इका निर्देशः । अजधातोरित्यर्थः । आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात्, वीभावात्प्रागजादित्वाद्यङसंभवात् । विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः । अघञपोः किम् । घञि समाजः । 'समुदोरजः पशुषु' इत्यपि समजः । अत्रअघञपोरिति न वक्तव्यं ।वा लिटी॑त्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयं । घञि अपि च न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्र तु आर्धधातुके नित्य॑मिति भाष्यकयटयोः स्थितं । तदाह — वलादावार्धधातुके वेष्यत इति । उक्तव्यवस्थितविभाषोपलक्षणमिदं । विवायेति । लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वेऽभ्यासह्रस्वे 'अचो ञ्णिति' इति व#ऋद्धावायादेश इति भावः । विव्यतुरिति । वीभावे सति अतुसि द्वित्वेऽभ्यासह्रस्वेअसंयोगा॑दिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाचः' इति यणि रूपम् । एवमुसि विव्युरिति रूपं । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वात्उपधायां चे॑तीकारस्य दीर्घः स्यादित्याशह्क्य ईकारस्थानिकस्य यकारस्यअचः परस्मि॑न्नति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाऽभावात्तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति — अत्र वकारस्येत्यादि अच्पर[क]त्वमित्यन्तम् । ननु दीर्घविधौन पदान्ते॑ति निषेधात्कथमिह यकारस्य स्थानिवत्तवमित्याशङ्क्य निराकरोति — न च न पदान्तेति निषेध इति । 'शङ्क्य' इति शेषः । कुत इत्यत आह-स्वरदीर्घेति । इत्युक्तेरिति ।वार्तिककृते॑ति शेषः । थलि एकाचेति । अजधातोरनुदात्तोपदेशानन्तर्भावेऽपिवी॑ति तदादेशोऽनुदात्तः, अजन्तेषु ऊदृदन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः ।
SK 2292 · A 2.4.56V
अजेर्व्यघञपोः ॥ २२९२ ॥
ajervyaghañapoḥ
Siddhānta-kaumudī
अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ।
vārttikaवलादावार्धधातुके वेष्यते
(वार्तिकम्) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च SK 2265 इति दीर्घ प्राप्ते अचः परस्मिन्-SK 50 इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-SK 51 इति निषेधः ।
vārttikaस्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः
(वार्तिकम्) ॥ थलि एकाचः SK 2246 इतीण्निषेधे प्राप्ते ॥
SK 2293 · A 7.2.13V
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ २२९३ ॥
kṛsṛbhṛvṛstudrusruśruvo liṭi
Siddhānta-kaumudī
एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥
Tattvabodhinī
alignment inferredNSP p. 369—नान्येभ्य इति । तेन पेचिव, वभूविवेत्यादि सिद्धम् । न चैवं क्रादिनियमेनैव ‘नेडुशि कृति’ इति निषेधस्याप्यग्रहतौ सेदिवान् जक्षिवानित्यादि सिध्यत्येवेति ‘वस्वेकाजाद्वसाम्’ इतीड्विधानं किमर्थमिति शङ्काम् । तस्य नियमार्थत्वेन व्याख्यास्यमानलात् । अन्यथा वभूवानित्यत्रापीडागमः स्यादिति । नन्विह क्रादिभ्यश्चेदिण् स्यात्तर्हि लिब्येवेति विपरीतनियमः किं न स्यात् । तथा च कर्ता अकार्षीदित्यादाविडागमः स्यादिति चेत् । मैवम् । ‘कृते ग्रन्थे’ ‘तमधीष्टो भृतः’ ‘परिवृतो रथः’ इत्यादिनिदेशविरोधापत्तेः ॥—वमादिष्विति । आदिशब्देन सेध्वेवहिमहीनां ग्रहणम् । तुष्टुवे । तुष्टुवे । तुष्टुवे । तुष्टुवे । तुष्टुमहे इत्यादि । स्यादेतत् । अस्तु प्रकृत्याश्रयनिषेधस्य नियमः प्रत्ययाश्रयस्य तु न संभवति । वृग्रहणस्य ववर्येत्यत्राप्राप्तनिषेधप्रापकलात् । न ह्यत्र प्रत्ययाश्रयो निषेधः प्राप्नोति थलोऽकित्वात् । नापि प्रकृत्याश्रयः वृञ् उदात्तलात् । न चैवमपि वृङो नियमार्थलमस्तिति वाच्यम् । तस्य विशिष्याग्रहणात् । यद्यपि विशिष्य ग्रहणं वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकलात् वृ इति वृञ् एव ग्रहणं भवेत्, विधिनियमयोर्विधिरेव ज्यायानिति न्यायात् । एवं च वभूविवेत्यादौ ‘श्युकः किति’ इतीण्निषेधो दुर्वारं इति चेत् । अत्राहुः । ‘वभूयाततन्त्रजगम्भववर्ये’ति इति सूत्रेण छन्दसि ववर्येति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थलविषयलायोगाद्भादीनां च कित्वेन नियमस्य सुस्थलादिति
Bālamanoramā
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि - कृसृ । कृ सृ भृ वृ स्तु द्रु रुआउ श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठर्थे सप्तमी । 'नेड्वशि कृती' त्यतो नेति इडिति चानुवर्तते । तदाह — एभ्य इति । ननुएकाच उपेदशेऽनुदात्ता॑दिति, 'श्र्युकः किति' इति च सिद्धे किमर्थमिदं सूत्रमित्यत आह -क्रादीनामिति । कृ सृ भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह - प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणामनुदात्तोपदेशान्तर्भूतानामेकाच उपदेश इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोःश्र्युकः किती॑ति पत्र्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात्तर्हि कृसृभृवृ इत्येभ्य एव परस्य लिटो भवति, नतु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ 'एकाच उपदेशे' इति निषेधः, बभूविव बभूविमेत्यादौश्र्युकः किती॑ति निषेधश्च न भवति । अथ स्तुद्रुरुआउश्रुवां ग्रहणस्य प्रयोजनमाह — — तत इति ।अन्येषा॑मिति शेषः । चतुर्णामिति ।ग्रहम॑मिति शेषः । ततः = तेभ्यः कृसृभृवृ इत्येभ्यः — अन्येषां स्तुद्रुरुआउश्रुवां ग्रहणं थलि तुष्टोथ दुद्रोथ सुरुआओथ शुश्रोथ इत्यत्रऋतो भारद्वाजस्ये॑ति वक्ष्यमामेनऋदन्तस्यैव थलि नेट् अन्यस्य तु स्यादेवे॑ति नियमेन प्र#आप्तस्य इटो निषेधार्थम्, तथा तुष्टुव तुष्टुमेत्यादौ 'कृसृभृवृ' इत्युक्तेनक्रादिभ्य एव परस्य लिट इण्निषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवे॑ति नियमेन प्राप्तस्य इटो निषेदार्थं चेत्यर्थः । तदेवमजेस्थलि वीभावे 'एकाचः' इति निषेधाऽभावादिडागमो निर्बाध इति स्थितम् ।
SK 2294 · A 7.2.61V
अचस्तास्वत् थल्यनिटो नित्यम् ॥ २२९४ ॥
acastāsvat thalyaniṭo nityam
Siddhānta-kaumudī
उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥
Tattvabodhinī
NSP p. 369—अचस्तास्वत्—। उत्तरसूत्रादुपदेश इत्यपकृष्यते तच्चाजन्तस्य विशेषणमित्याह—उपदेशोऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्यधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व च नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते । ‘तासि च कुपः’ इति सन्निहितं वाऽनुवर्तते । ‘न वृन्द्यः’ इत्यस्मान्नेत्यनुवर्तते, तदाह—तासौ नित्यानिट् ततः परस्येति । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । अच इति किम् । विभेदिथ । स्रोधिथ । उपदेशे इति किम् । जहर्थं । इह परत्वान्नित्यत्वाच्च गुणे रपरत्वे च कृते अजन्तलाभावादेतस्याप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम् । थलीति किम् । पपिव पपिम । नित्यमनिटः किम् । सस्वरिथ । सस्वर्थं । नायं तासौ नित्यमनिट् । ‘स्वरतिसूति—’ इति विकल्पितेद्लात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत् । तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः
Bālamanoramā
अचस्तास्वत् थल्यनिटो नित्यम् - अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति -अचस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । 'अच ' इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इतिऋतो भारद्वाजस्ये॑ति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । 'अनिट' इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । 'तासि च कॢप' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठर्थे सप्तमी ।गमेरिट् परस्मैपदेष्वि॑त्यत इडिति,न वृद्भ्यश्चतुभ्र्य॑ इत्यतो नेति चानुवर्तते ।तास्व॑दिति सप्तम्यान्तद्वतिः । तदाह — उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम् ।तास्व॑ — दिति सेषः । यथा तासि नेट् तथा थल्यपि नेडित्यर्थः । चिचेथ जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । अजन्तात्किम् । बिभेदिथ । उपदेश इति किम् । 'ह्मञ्' जहर्थ । इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् । 'स्वृ गतौ' सस्वरिथ ।स्वरितसूती॑ति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लूत्वा लुलविथ । थलः किम् ।पपिव पिम । इह तासीत्यनुव#ऋत्त्यैव सिद्धेःतास्व॑दिति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम् । तेनलिटन्यतरस्या॑मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति — अद भक्षम इति धातौ मूल एव वक्ष्यते ।यस्तासावस्ति अनिट् चे॑ति भाष्यम् । एव वेञो वयादेशेऽपि न निषेध ति बोध्यम् ।
SK 2295 · A 7.2.62V
उपदेशेऽत्वतः ॥ २२९५ ॥
upadeśe'tvataḥ
Siddhānta-kaumudī
उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥
Tattvabodhinī
NSP p. 369—उपदेशोऽत्वतः । पपक्थ । इयष्ट । उपदेशे किम् । कर्ष्य । चकर्षिथ । अकारवदिति किम् । भेत्ता । विभेदिथ । तपरकरणं किम् । राद्धा । रराधिथ । तासौ किम् । जिघृक्षति । जग्रहिथ । ‘सनि ग्रहगुहोश्च’ इति सनि नित्यमनिट् । क्रान्तः । चक्रमिथ । ऊदित्वेन क्लायां वेट्कलात् ‘यस्य विभाषा’ इति निष्ठायां नेट् । नित्यानिटः किम् । अङ्का । अजिता । आनजिथ । किं च नित्यग्रहणानुवर्तनाच्चक्रमिथेत्यपि सिध्यति । नहि क्रमिस्तासौ नित्यानिट् । ‘लुकमोरनात्मनेपदनिमित्ते’ इति परस्मैपदे सेट्कलात्
Bālamanoramā
उपदेशेऽत्वतः - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् ।
SK 2296 · A 7.2.63V
ऋतो भारद्वाजस्य ॥ २२९६ ॥
ṛto bhāradvājasya
Siddhānta-kaumudī
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् । ऋदन्त ईदृङ् नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ 1 ॥ न च स्तुद्रुस्रुश्रुवामपि थलि विकल्पः शङ्कयः । अचस्तास्वत् - SK 2294 इति उपदेशेऽत्वतः SK 2295 इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥
Tattvabodhinī
NSP p. 369–370—ऋतो भारद्वाजस्य । तपरकरणात्कृगप्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते । हस्वान्तेषु हृञ्भृञादिषु ‘अचस्तास्वत्—’ इत्येव सिद्धं, वृञ्वृङौ तु यद्यपि सेटौ तथापि वृङः थलेव नास्ति, आत्मनेपदित्वात् वृञ्स्य छन्दसि ‘ववर्थं’ इति निपातनाद्भवरिथेति भाषायामित्य भाव्यम् । तसान्नियमोऽयमेलाह—ऋदन्तादेवेति । जहर्थः । दधर्थः ॥—अन्यस्य स्यादेवेति । एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः । पपिथ पपाथ । पेचिथ । पपक्थ । इयजिथ इयष्ट ॥—अकारवानिति । हस्ताकारवानिलश्चैः ॥—ईदृगिति । यस्तास्यनिट् स ऋदन्तः थलि निल्यानिट् भवतीलश्चैः । ननु सुद्धुमुखेवामपि थलि भारद्वाजनियमादिद् स्यात् । न चैवं कादिसूत्रे तेषां पठनं निरर्थकं स्यादिति वाच्यम् । तत्पठनस्य वमादिश्चिण्निवृत्त्यर्थतया सफल्लात् । अन्यथा कादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्क्याह—न चेति ।—योगद्धेवेति । कादियोगप्रापितस्य तु न निवर्तकं इति भावः । कृत इलाकाङ्क्षायामाह—अनन्तरस्येति । न चैवम् ‘उपदेशेऽखतः’ इत्यस्यैव वाधः स्यादिति वाच्यम् । अत्यत्सु धातुषु ऋदन्तलादर्शनेन यथालतः थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तृमशक्यलात् । ननु तर्हि ‘अचस्ताखत्—’ इत्यस्यैव वाधोऽस्तु तत्कथं योगद्धयप्रापितस्येत्युक्तम् । अत्राहुः । उपदेशेऽचस्ताखदित्येवं सूत्रे कृतेऽपि तास्वत्थलीलादिपदानामिबोपदेशपदस्याप्यनुवृत्तिसंभवे अत्यत इति सूत्रे उपदेशपदस्याच इति पूर्वसूत्रे तु तास्वत्थलीलादेश्वाकरणादुभयोः समानयोगक्षेम इति ज्ञायते । तस्मादिष्टानुरोधाच्च योगद्धयमपि भारद्वाजनियमेन वाध्यते । यदि तु ‘उपदेशेऽखतोऽचस्ताखत्थल्यनिटो नित्यम्’ इति एको योगः स्वीक्रियते तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति । अन्ये तु व्याचक्षते ‘अचस्ताखत्—’ इति सूत्रानन्तरमेव ‘ऋतो भारद्वाजस्य’ इति पठनीयं द्वयोरनन्तरमस्यारम्भादिह तास्वत्थल्यनिटो नित्यं तासीत्यनुबलं योऽयं तासि निल्यानिटस्थलि इण्निषेधः स भारद्वाजमते ऋकारान्तस्यैवेति व्याख्यायते अनेन सर्वेष्टसिद्धिः । यद्वा कादिसूत्रे स्तुप्रभृतीनां ग्रहणमेवेड्ढयस्यापि वाधकमस्तु । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । अनाश्रितबिधानविशेषमिण्मात्रमनारम्याधीतेन प्रतिषेधेन यथा वाधेतेत्येतदर्थो हि स आरम्भः । अमुमेवार्थं सिद्धवत्कृत्य ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु कादिनियमप्रापितस्य चेटो निषेधार्थमिति मूलेऽप्युपनिबद्धमिति ॥—विवियव विवियमेति । कादिनियमान्नित्यमिट्
Bālamanoramā
ऋतो भारद्वाजस्य - ऋतो भा । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितं । ह्मञ्धृञादौअचस्तास्व॑दित्येव सिद्धम् । अतो नियमार्थमिदमित्याह — ऋदन्तादेवेति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह — अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्निवृत्तिरति भारद्वाजमते फलतीति न वैयथ्र्यमिति भावः । तथा च अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट्,मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत ति च तत्र नेडति विकल्पः फलतीति भावः । तद्यथा — पपिथ-पपाथ । पेचिथ- पपक्थ । अयमत्रेति । कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति,अचस्तास्वत्थल्यनिटो नित्य॑मिति, 'उपदेशेऽत्वत' इति,ऋतो भारद्वाजस्ये॑ति च सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाऽजन्तो ह्रस्वाकारवान् वा तासौ नित्याऽनिट् नित्याऽनिडित्यर्थः ।अचस्तास्व॑दिति पाणिनिमतेऋतो भारद्वाजस्ये॑ति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुर्लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनामष्टानां लिटि नित्यानिट्कत्ववगतं तदनुपपन्नं, स्तुद्रुरुआउश्रुवामृदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमतेऽप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति कृसृभृवृ इति सूत्रे स्तुद्रुरुआउश्रुग्रहणमनर्थकमिति वाच्यं, तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्क्य निराकरोति — न चेति । कुत इत्यत आह — अचस्तास्वदिति । ऋदन्तादेव परस्य थल इण्निषेधः, अनृदन्तात्परस्य तु थल इण्निषेधो नेति भारद्वाजीयं मतम् । अयं च इण्निषेधस्य निषेधः 'अचस्त्वास्व' दिति 'उपदेशेऽत्वत' इतिच सूत्रद्वयप्राप्तस्यैव इण्निषेधस्य पक्षे निवर्तको न तुक्रादिसूत्रप्राप्तस्य इट् प्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह — अनन्तरस्येति ।अचस्तास्व॑दिति 'उपदेशेऽत्वत' इतिऋतो भारद्वाजस्ये॑तिच सूत्रक्रमः । कृसृभृवृ इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच 'नेड्वशि कृती' त्यादिप्रतिषेधकाण्डोत्तरम्आर्धधातुकस्येड्वलादे॑ रिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुस्रुश्रुवामिण्निषेधो भारद्वाजनियमं बाधत इति 'नेड्वशि कृती' त्यत्र ,वस्वेकाजाद्धसा॑मित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्याऽनिट्त्त्वाच्च इड्विकल्प इति सिद्धं । तदाह -विवयिथ विवेथेति । सिबादेशस्य थलः पित्त्वादसंयोगादिति कित्त्वाऽभावाद्गुणः । इट्पक्षेऽयादेशः । आजिथेति ।वलादावार्धधातुके वेष्यते इति वीभावाऽभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिः शेषः ।अत आदे॑रिति दीर्घः । विव्यथुरिति । अथुसि वीभावे द्वित्वे अभ्यासह्रस्वे असंयोगादिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाच' इति यणि रूपम् । विव्येति । थस्य अकारे वीभावादि । विवाय विवयेति ।णलुत्तमो वे॑ति णित्त्वविकल्पाद्वृद्धिविकल्पः । विव्यिव विव्यिमेति ।क्राद्यन्यो लिटि सेड्भवे॑दिति नित्यमिटि यण् । वेता अजितेति । लुटि तासि वीभावविकल्पः । वेष्यति अजिष्यतीति । लृटि स्ये वीभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आर्धधातुकत्वाद्वीभावः ।
SK 2297 · A 7.2.1V
सिचि वृद्धिः परस्मैपदेषु ॥ २२९७ ॥
sici vṛddhiḥ parasmaipadeṣu
Siddhānta-kaumudī
इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् ।{$ {!231 तेज!} पालने$} । तेजति ।{$ {!232 खज!} मन्थे$} । खजति ।{$ {!233 खजि!} गतिवैकल्ये$} । खञ्जति ।{$ {!234 एजृ!} कम्पने$} । एजांचकार ।{$ {!235 टुओस्फूर्जा!} वज्रनिर्घोषे$} । स्फूर्जति । पुस्फूर्ज ।{$ {!236 क्षि!} क्षये$} । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥
Tattvabodhinī
alignment inferredNSP p. 370—सिञ्चि वृद्धिः—। ‘इको गुणवृद्धी’ इति परिभाषोपस्थानादाह—इगन्तेति । परस्यैपदेश्विति किम् । अधबिष्ट । अधोष्ठ । सिञ्चि किम् । एति । विभर्ति । गुणं वाधिला वृद्धिः स्यात् । खज मन्थे । कजेति केचित्पठन्ति । एजू कम्पने । दीप्तौ लात्मनेपदी गतः । टुओस्फूर्जा । ‘ट्रितोऽशुच्’ । स्फूर्जशुः । ‘ओदितश्व’ इति निष्ठानलार्थंभोकारः । स्फूर्णैः । स्फूर्णबान् । आकारस्तु ‘ओदितश्व’ इति निष्ठायामिटो निषेधार्थः, ‘विभापा भावादिकर्मणोः’ इति विकल्पार्थश्च । स्फूर्णं स्फूर्जितमनेनत्यादि । ‘उपधायां च’ इति दीर्घस्यानित्यलङ्गापनार्थमिह दीर्घोपदेशः । तेन हुर्छति मुर्छति इत्यपि भवतीति केचित् । क्षि णोपस्थानादाह—अजन्तेति
Bālamanoramā
सिचि वृद्धिः परस्मैपदेषु - अथ लुङि सिचि वीभावेसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते — सिचि वृद्धिः । इगन्तस्येति । वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणं, तदन्तविधिरिति भावः । एवं च अकोषीत्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति । लुङिस्तिप् । इकारलोपः । सिचि वीभावः । 'एकाच' इति इण्निषेधः । वृद्धिः । अडागमः । षत्वम् । आजीदिति । सिज्लोपः ।वदव्रजे॑ति हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायामाडागमेआटश्चे॑ति वृद्धिः । लृङि अवेष्यत् आजिष्यत् । तेज पालन इत्यादि । स्पष्टम् । एजृ कम्पन इति । दीप्तौ त्वात्मनेपदी गतः । टु ओ स्फूर्जेति । 'आदिर्ञिटुडव' इति टुरित्, उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् ।ट्वितोऽथु॑जित्थथुच्,आदितश्चे॑ति निष्ठानत्वम्,ओदितश्चे॑ति निष्ठायामिण्निषेधश्च । तत्फलानि ।उपधायां चे॑ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुर्छतीत्यादौ न दीर्घ इत्याहुः । स्फूर्जतीति । लिटि — पुस्फूर्ज, अस्फूर्जीत् । क्षि क्षय इति । क्षयो — नाशः । अन्तर्भावितण्यर्थ इति । नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति । नश्यतीत्यर्थः,नाशयतीति वा । शपि गुणेऽयादेशः । चिक्षायेति । णलि वृद्धिः । आयादेशः । चिक्षियतुरिति ।असंयोगा॑दिति कित्त्वान् गुणः । इयङ् । चिक्षयिथ — चिक्षेथेति । पित्त्वेन कित्त्वाऽभावाद्गुणः । अजन्तत्वात्तासौ नित्याऽनिट्त्वाच्च भारद्वाजनियमात्थलि वेट् । इट्पक्षेऽयादेशः । चिक्षियथुः । चिक्षिय । चिक्षाय चिक्षय । वस्मसोस्तु क्रादिनियमान्नित्मिट् । तदाह -चिक्षियिव चिक्षियिमेति । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ।
SK 2298 · A 7.4.25V
अकृत्सार्वधातुकयोर्दीर्घः ॥ २२९८ ॥
akṛtsārvadhātukayordīrghaḥ
Siddhānta-kaumudī
अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् ।{$ {!237 क्षीज!} अव्यक्तेशब्दे$} । कूजिना सहायं पठितुं युक्तः । चिक्षीज ।{$ {!238 लज!} {!239 लजि!} भर्जने$} ।{$ {!240 लाज!} {!241 लाजि!} भर्त्सने च $}।{$ {!242 जज!} {!243 जजि!} युद्धे$} ।{$ {!244 तुज!} हिंसायाम्$} । तोजति । तुतोज ।{$ {!245 तुजि!} पालने$} ।{$ {!246 गज!} {!247 गजि!} {!248 गृज!} {!249 गृजि!} {!250 मुज!} {!251 मुजि!} शब्दार्थाः$} । गज मदने च ।{$ {!252 वज!} {!253 व्रज!} गतौ$} । वदव्रज - SK 2267 इति वृद्धिः । अव्राजीत् । अथ टवर्गीयान्ताः शाङ्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥{$ {!254 अट्ट!} अतिक्रमणहिंसयोः$} । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे ।{$ {!255 वेष्ट!} वेष्टने$} । विवेष्ट ।{$ {!256 चेष्ट!} चेष्टायाम्$} । अचेष्टिष्ट ।{$ {!257 गोष्ट!} {!258 लोष्ट!} संघाते$} । जुगोष्टे । लुलोष्टे ।{$ {!259 घट्ट!} चलने$} । जघट्टे ।{$ {!260 स्फुट!} {!261 अठि!} गतौ$} । अण्ठते । आनण्ठे ।{$ {!262 वठि!} एकचर्यायाम्$} । ववण्ठे ।{$ {!263 मठि!} {!264 कठि!} शोके$} । शोक इह आध्यानम् । मण्ठते । कण्ठते ।{$ {!265 मुठि!} पालने$} । मुण्ठते ।{$ {!266 हेठ!} विबाधायाम्$} । जिहेठे ।{$ {!267 एठ!} च$} । एठांचक्रे ।{$ {!268 हिडि!} गत्यनादरयोः$} । हिण्डते । जिहिण्डे ।{$ {!269 हुडि!} संघाते$} । जुहुण्डे ।{$ {!270 कुडि!} दाहे$} । चुकुण्डे ।{$ {!271 वडि!} विभजने$} ।{$ {!272 मडि!} च$} । ववण्डे ।{$ {!273 भडि!} परिभाषणे$} । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे ।{$ {!274 पिडि!} संघाते$} । पिपिण्डे ।{$ {!275 मुडि!} मार्जने$} । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते ।{$ {!276 तुडि!} तोडने$} । तोडनं दारणं हिंसनं च । तुण्डते ।{$ {!277 हुडि!} वरणे$} । वरणं स्वीकारः । हरण इत्येके । हुण्डते ।{$ {!278 चडि!} कोपे$} । चण्डते ।{$ {!279 शडि!} रुजायां संघाते च$} । शण्डते ।{$ {!280 तडि!} ताडने$} । तण्डते ।{$ {!281 पडि!} गतौ$} । पण्डते ।{$ {!282 कडि!} मदे$} । कण्डते ।{$ {!283 खडि!} मन्थे$} ।{$ {!284 हेडृ!} {!285 होडृ!} अनादरे$} । जिहेडे । जुहोडे ।{$ {!286 बाडृ!} आप्लाव्ये $}। बशादिः । आप्लाव्यमाप्लवः । बाडते ।{$ {!287 द्राडृ!} {!288 ध्राडृ!} विशरणे$} । द्राडते । ध्राडते ।{$ {!289 शाडृ!} श्लाघायाम्$} । शाडते ॥ अथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥{$ {!290 शौटृ!} गर्वे$} । शौटति । शुशौट ।{$ {!291 यौटृ!} बन्धे$} । यौटति ।{$ {!292 म्लेटृ!} {!293 म्रेडृ!} उन्मादे$} । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति ।{$ {!294 कटे!} वर्षावरणयोः$} । चटे इत्येके । चकाट । सिचि अतो हलादेर्लघोः SK 2284 इति वृद्धौ प्राप्तायाम् ॥
Tattvabodhinī
alignment inferredNSP p. 370–372—यादौ प्रत्यय इति । ‘अयङ् यि कृति’ इत्यतो यीत्यनुबलं अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते विशेषणेन तदादिविधिः । ‘यस्मिन्विधिः—’ इति परिभाषोपस्थानादिति भावः ॥—न त्विति । कृचकारे । प्रकृत्य । ग्रहत्य । उचैःकृत्य । तुकं वाधिला परलात् दीर्घः स्यात् । तुग्विधिस्तु अमिचित् । सोममुत् । इत्यादौ चरितार्थः । त्यपः पित्त्वमप्यनुदातार्थतया चरितार्थमित्याहुः । सार्वधातुकयकारे तु चिनुयात् सुनुयात् ॥—कूजिनेति । अर्थैक्यादेकत्र पाठ उचित इति भावः ॥—लज लजि । लज्यात् लज्यात् ॥ लज प्रकाशने इति कथादौ ॥—भर्त्सने चेति । चात् भर्जने । लुजि पालने । भापार्थोऽयं युजादौ । गूज मजि । उ नीला व कृष्णा । Cyan Kosha मदनं मदः चित्तविकारः । वज्र व्रज । वादिलादेलाभ्यासलोपौ न । ववज्रतुः । ववज्रतुः ॥—शाङ्यन्ता इति । शाङ् श्लाघायामित्यन्ता इत्यर्थः ॥—दोपधोऽयमिति । तथा च ष्टुलशास्त्रस्यासिद्धलात् ‘न न्द्राः—’ इति द्विलनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाहकारस्य द्वत्वे चत्वें च अटिटिषते आटिटित्यादि सिध्यति । टोपधत्वे तु अटिटिषते । आटिटिति स्यादिति भावः ॥—तोपध इति । अस्मिन्नु पक्षे अतिटिषते । आतिटित्यादि बोध्यम् । हलादिःशेषेण टकारनिवृत्तौ तन्निमित्तस्यापि ष्टुलस्य निवृत्तलादिति नव्याः । मनोरमायां तु ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इति ष्टुलस्यासिद्धलाभावाट्टकारद्वयसहितस्य द्वित्वे हलादिःशेषे अटिटिषते आटिटित्यादि सिध्यतीत्युक्तम् । ‘निमित्तापाये नैमित्तिकस्याप्यपायः’ इति लनित्यमिति तदाशयः ॥—आनट्टे इति । इह ‘न न्द्राः—’ इति निषेधो न । तत्र द्वितीयस्येत्यनुवर्तनात् द्वितीयैकाच एव नदराणां निषेधात् । घट्ट चलने । अयं चुरादावपि । स्फुट । अयं कुटादावपि । आनण्टे इति । ‘तस्मान्नुड् द्विहलः’ इति नुट् । वण्ठते इति । सहायं विना चरतीत्यर्थः । मडि च । पृथक्पाठादयं वेष्टनेपीत्याहुः । मडि भूषायामित्यप्रे परस्मैपदिषु । मडि । ‘यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्’ इत्यमरः । शडि । ‘शण्डोऽसुरपुरोहितः’ । द्राड् । विशरणमवयवविभागः । शाड् । डलयोरैक्यात् शालते इति काश्यपः ॥ शौट्ट गर्वे । अस्योणादिषु ईरन्वक्ष्यते । ‘तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति’ इति कल्पतरुः । कटे ॥—हयन्तक्षण—॥ अग्रहीत् । टुचम् । अवमीत् । हय गतौ । अहयीत् । क्षणु हिंसायाम् । अक्षणीत् । श्वस् प्राणने । अश्वसीत् । जागृ निद्राक्षये । अजागरीत् । ण्यन्ते छन्दसि ‘नोनयतिध्वनयति—’ इत्यादिना चडि निषिद्धे औनयीदिति उदाहरणम् । टुओश्चि । अश्वयीत् ॥—इडादौ सिचीति । इडादौ किम् । दह भस्मीकरणे । अधाक्षीत् । किट खिट ॥—इट किटेति । किटिगतौ पठिष्यते । इह पाठस्त्वर्थभेदात् । जट झट । जेटतुः । जझटतुः । इह लादेशादिलादेलाभ्यासलोपौ न । खट । ‘अन्द्रापुषिलटिखटिकणिविशिभ्यः कन्’ । खट्टा । णट नृतौ । प्रणटति । णोपदेशपर्युदासेनाटीति सवृद्धिकनिर्देशेन नट अवस्यन्दने इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव । हट दीतौ । हाटकं सुवर्णम् । ‘संज्ञायां च’ इति ण्वुल् वाहुलकादस्त्रियामपि । न्नाट । पचायजन्ताटाप् । ‘सटा जटाकेसरयोः’ । चिट । ‘सर्वधातुभ्यः—’ इति औणादिक इन् । चेदिः । ‘कृदिका- रात्-’ इति डीष् । चेटी । विट् । इगुपधलक्षणः कः । विटः ॥—इयायेति । द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः । ‘अभ्यासस्यासवर्णे’ इति इयङ् ॥—इयतुरिति । द्वित्वे कृते ‘एरनेकाच-’ इति यणं वाधित्वा अन्तरङ्गत्वात्सवर्णदीर्घः । ततः ‘अचि श्रुधातु-’ इतीयङ् । एकादेशस्य पूर्वान्तत्वेन अभ्यासग्रहणेन ग्रहणात् । ‘अभ्यासस्यासवर्णे’ इत्यनेनेत्येके । केचित्तु ‘वार्णादाङ्गं वलीयः’ इति दीर्घं वाधित्वा यण् । न चेह समानाश्रयत्वं नेति वाच्यम् । अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयोः समानाश्रयत्वात् । अत एव इयतुरित्यत्र ‘इणो यण्’ इति यणि ततो ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घो विधीयते । अन्यथा सूत्रमिदं निर्विषयं स्यात्, अभ्यासाभावादित्याहुः । स्यादेतत् । णल्थलोस्त्वभ्यासस्येयङ् दुर्लभः । तस्मिन्कर्तव्ये ‘अचः परस्मिन्-’ इति वृद्धिगुणयोः स्थानिवद्भावेन असवर्णे इति प्रतिषेधादिति चेत् । मैवम् । असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वस्याप्रवृत्तेः । ननु नास्ति सामर्थ्यम् । इयति इयत् इत्यादौ सावकाशत्वादिति चेत् । अत्राहुः । न ह्येकमुदाहरणं योगारम्भं प्रयोजयति । अन्यथा ह्यभ्यासस्यार्ताविति न्रूयात् । एवं चान्तरङ्गत्वात्सवर्णदीर्घे कृते ततो वृद्धिगुणयोः सतोः णलि आय, थलि एथ, इद्पक्षे तु अयिथेति स्यादित्याशङ्कापि न कार्या । ‘अभ्यासस्यासवर्णे’ इत्यस्य वैयर्थ्यापत्तेरिति । एता । एष्यति । ‘अकृत्सार्व-’ इति दीर्घः । इयात् । ऐषीत् । कुडि । वैकल्यमदिह पाठस्तु उचितः । अन्तत्यादिषु तु पञ्चैते न तिङ्विषया इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः । तिष्ठ तेष्टु
Bālamanoramā
अकृत्सार्वधातुकयोर्दीर्घः - आशीर्लिङि विशेषमाह — अकृत्सार्व । अङ्गस्येत्यधिकृतम् ।अयडि क्ङिती॑त्यतो यीतिसप्तम्यन्तमनुवृत्तमङ्गाक्षिप्तप्रत्ययविशेषणं, तदादिविधिः । दीर्घश्रुत्या 'अच' इत्युपस्थितमङ्गविशेषणं । तदन्तविधिः ।तदाह — अजन्तस्येत्यादिना । अकृत्सार्वधातुकयोरिति किम् । प्रकृत्य । तुकं बाधित्वा परत्वाद्दीर्घो न । चिनुयात् । सार्वधातुकत्वान्न दीर्घः । क्षीजेति । ईदुपधः । कूजिनेति ।कूज अव्यक्ते शब्दे॑ इत्यनुपदमेव पठितं, तत्रैवकुज क्षीज अव्यक्ते शब्दे॑ इति पठितुं युक्तमित्यर्थः, अर्थैक्यादिति भावः । लज लजि । भत्र्सन इति क्वचित्पाठः ।भत्र्सनं त्वपवादगी॑रित्यमरः । द्वितीय इदित् । आशीर्लिङि — लञ्ज्यात् । लाज लाजि । भर्जन इति क्वचित्पाठः । आदुपधौ । द्वितीय इदित् । जज जजीत्यादि । स्पष्टम् । वज व्रजेति । आद्यस्य असंयुक्तहल्मद्यस्थाऽकारवत्त्वेऽपिन शसददवादिगुणाना॑मित्येत्त्वाभ्यासलोपौ नेत्याह — ववजतुरिति । अवाजीत् । अवजीत् । द्वितीयस्य तु संयुक्तहल्मध्यस्थाऽकारवत्त्वादेवैत्त्वाऽभ्यासलोपयोर्न प्रसक्तिः ।अव्राजी॑दित्यत्रअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्याह - वदव्रजेति वृद्धिरिति । हलन्तत्वादेव सिद्धे व्रजग्रहणस्यअतो हलादे॑रिति विकल्पनिरासार्थत्वनादिति भावः । शुचादयो द्विसप्ततिर्वृत्ताः । शाड्रन्ता इति ।शाडृ श्याघाया॑मित्यन्ता इत्यर्थः । 'शाडन्ता' इति क्वचित्पाठः । अट्टेति । तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपधनिर्देशः । तदाह — दोपधोऽयमिति । तथा च अट्टधातोः सनि इटि अट्टिस् इति स्थिते ष्टुत्वचर्त्वयोरसिद्धत्वादजादेर्द्वितीयस्येति प्रवर्तमानं द्वित्वंन न्द्राः संयोगादय॑ इति दकारं विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचर्त्वयोः 'अट्टिटिषते' इतीष्टं सिध्यति । स्वाभावकमूर्धन्योपधत्वे 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ अटिट्टिषते इत्यनिष्टं प्रसज्येतेति भावः । तोपध इत्यन्य इति । ष्टुत्वेन टोपधनिर्देश इति भावः । अस्मिन्पक्षे सनि द्वित्वे कर्तव्ये ष्टुत्वस्याऽसिद्धत्वेऽपि 'न न्द्रा' इति निषेधाऽभावात्तकारविशिष्टस्य त्टिस् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भाव- । आनट्टे इति । इह 'न न्द्रा' इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः । घट्ट चलन इति । अयं चुरादावपि । स्फुट विकसन इति । अयं कुटादावपि । अठि गताव#इति । लिटि नुमि द्वित्वे हलादिशेषेअत आदे॑रिति दीर्घेतस्मान्नुड् द्विहल॑ इति नुडिति मत्वाह — आनण्ठ इति । वठि एकचर्यायामिति । असहायचर्यायमित्यर्थः । मडि चेति । विभाजन इत्यनुषज्यते ।मडि भूषाया॑मिति परस्मैपदेषु वक्ष्यते । शाडृ श्लाघायमिति । डलयोरैक्याच्छालत इति काश्यपः । इत्यट्टादयः षट्तिंरशद्गताः । अथ टवर्गीयान्ता [गडन्ता] इति ।गडि वदनैकदेशे॑इत्यन्ता इत्यर्थः । म्लेट्ट म्रेड्ट इति । एदुपधौ । द्वितीयो डान्त इति । टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेष्वस्य कथं पाठः चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठित्वं युक्तत्वादित्यत आह — टान्तमध्ये इति । नाथतिवदि त । 'एध वृद्धा' वित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तेषु यथानाथृ नाधृ याच्ञे॑ति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः । कटे इति । कण्ठआदिः । चटे इति । तालव्यादिः । आद्यस्य लिटि अभ्यासस्य चुत्वमित्याह — चकाटेति । चकटतुः । द्वितीयस्य चेटतुः । वैरूप्यापादकाऽऽदेशादित्वाऽभावादेत्त्वाभ्यासलोपौ । प्राप्तायामिति । हलन्तलक्षणाया नित्यवृद्धेर्नेटीति निषेधात्अतो हलादे॑रिति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः ।
SK 2299 · A 7.2.5V
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ २२९९ ॥
hmyantakṣaṇaśvasajāgṛṇiśvyeditām
Siddhānta-kaumudī
हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ।{$ {!295 अट!} {!296 पट!} गतौ $}। आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः ।{$ {!297 रट!} परिभाषणे$} । रराट ।{$ {!298 लट!} बाल्ये$} । ललाट ।{$ {!299 शट!} रुजाविशरणगत्यवसादनेषु$} । शशाट ।{$ {!300 वट!} वेष्टने$} । ववाट । ववटतुः । ववटुः । ववटिथ ।{$ {!301 किट!} {!302 खिट!} त्रासे $}। केटति । खेटति ।{$ {!303 शिट!} {!304 षिट!} अनादरे $}। शेटति । शिशेट । सेटति सिषेट ।{$ {!305 जट!} {!306 झट!} संघाते $}।{$ {!307 भट!} भृतौ$} ।{$ {!308 तट!} उच्छ्राये$} ।{$ {!309 खट!} काङ्क्षायां {!310 णट!} नृत्तौ$} ।{$ {!311 पिट!} शब्दसंघातयोः$} ।{$ {!312 हट!} दीप्तौ$} ।{$ {!313 षट!} अवयवे$} ।{$ {!314 लुट!} विलोडने$} । डान्तोऽयमित्येके ।{$ {!315 चिट!} परप्रेष्ये$} ।{$ {!316 विट!} शब्दे$} ।{$ {!317 बिट!} आक्रोशे$} । बशादिः । हिटेत्येके{$ {!318 इट!} {!319 किट!} {!320 कटी!} गतौ$} । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् SK 3039 इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-SK 2237 इत्यामि अयांचकारेत्याद्युदाहरन्ति ।{$ {!321 मडि!} भूषायाम्$} ।{$ {!322 कुडि!} वैकल्ये$} । कुण्डति । कुण्डत इति तु दाहे गतम् ।{$ {!323 मुड!} {!324 प्रुड!} मर्दने$} ।{$ {!325 चुडि!} अल्पीभावे$} ।{$ {!326 मुडि!} खण्डने$} । मुण्डति । पुडि चेत्येके । पुण्डति{$ {!327 रुटि!} {!328 लुटि!} स्तेये$} । रुण्टति । लुण्टति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे{$ {!329 स्फुटिर्!} विशरणे$} । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति ।{$ {!330 पठ!} व्यक्तायां वाचि$} । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ।{$ {!331 वठ!} स्थौल्ये$} । ववठतुः । ववठिथ ।{$ {!332 मठ!} मदनिवासयोः$} ।{$ {!333 कठ!} कृच्छ्रजीवे$} ।{$ {!334 रट!} परिभाषणे$} । रठेत्येके ।{$ {!335 हठ!} प्लुतिशठत्वयोः$} । बलात्कार इत्येके । हठति । जहाठ ।{$ {!336 रुठ!} {!337 लुठ!} {!338 उठ!} उपघाते$} । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार ।{$ {!339 पिठ!} हिंसासंक्लेशनयोः$} ।{$ {!340 शठ!} कैतवे च$} ।{$ {!341 शुठ!} प्रतिघाते$} । शोठति । शुठीति स्वामी । शुण्ठति ।{$ {!342 कुठि!} च$} । कुण्ठति ।{$ {!343 लुठि!} आलस्ये प्रतिघाते च$} ।{$ {!344 शुठि!} शोषणे$} ।{$ {!345 रुठि!} {!346 लुठि!} गतौ$} ।{$ {!347 चुड्ड!} भावकरणे$} । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ।{$ {!348 अड्ड!} अभियोगे$} । अड्डति । आनड्ड ।{$ {!349 कड्ड!} कार्कश्ये$} । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि ।{$ {!350 क्रीडृ!} विहारे$} । चिक्रीड ।{$ {!351 तुडृ!} तोडने$} । तोडति । तुतोड । तूड इत्येके ।{$ {!352 हुडृ!} {!353 हूडृ!} {!354 होडृ!} गतौ$} । हुड्यात् । हूड्यात् । होड्यात् ।{$ {!355 रौडृ!} अनादरे$} ।{$ {!356 रोडृ!} {!357 लोडृ!} उन्मादे$} ।{$ {!358 अड!} उद्यमे$} । अडति । आड । आडतुः । आडुः ।{$ {!359 लड!} विलासे$} । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः ।{$ {!360 कड!} मदे$} । कडति । कडि इत्येके । कण्डति ।{$ {!361 गडि!} वदनैकदेशे $}। गण्डति । इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् ।{$ {!362 तिपृ!} {!363 तेपृ!} {!364 ष्टिपृ!} {!365 ष्टेपृ!} क्षरणार्थाः$} । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ॥
Bālamanoramā
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् - ह्रन्त । ह्रन्त क्षम आस जागृ इआ एदित् — एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः । तदाह — हमयान्तस्येति । क्षणादेरिति । आदिना आस जागृ इत्यनयोग्र्रहणम् । ण्यन्तस्येति । प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । आयतेरिति । इआधातोरित्यर्थः । एदित इति । एत् इद्यस्येति विग्रहः । वृद्धिर्न स्यादिति ।सिचि वृद्धि॑रित्यतो,नेटी॑त्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ।सिचि वृद्धि॑रित्यतः सिचीति,नेटी॑त्यत इटीति चानुवर्तत इति भावः । अकटीदिति । एदित्वान्न वृद्धिः । अट पटेति ।अत आदे॑रिति दीर्घं मत्वाह - आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वटवेष्टने । ववटतुरिति ।न शसददवादिगुणाना॑मिति निषेधः । ववटिथेति । अत्रथलि च सेटी॑ति प्राप्तस्यन शसददे॑ति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गता' विति अग्रे किटधातुः पठते, तथाप्यर्थ भेदात्पुनरिह पाठः । खिट त्रासे,किट गतौ चेति पठितुं युक्तम् । शिट षिटेति । आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति । आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ । द्वितीयस्य तु न । जेटतुः जझटतुः । णट नृत्ताविति । णोपदेशेः । चुरादारेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति ।कटे वर्षाऽवरणयो॑रिति कटिः पूर्वमेदित्पठितः । इह ईदित्पठते । एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति । अकटीत् अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठत इत्यत आह — ईकार इति । केचित्त्विति । कटि इति ह्रस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये त्विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्येति । कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणेऽयादेशः । इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवर्णे' इति इयङ् । इयुतिरिति । इकारोऽत्र ह्रस्वः । तथाहि — इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावेद्विर्वचनेऽची॑ति निषेधाद्यणभावे 'इ' इत्यस्य द्वित्वे इ इ अ — तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति 'वार्णादाङ्गं बलीय' इति सवर्णदीर्घं बाधित्वा 'एरनेकाच' इत्युत्तरखण्डस्य यणिइयतु॑रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह — इययिथेति । थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ् । न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाऽप्रसक्तेः । एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह — इयेथेति । थलि द्वित्वे गुणेऽभ्यासस्येयङ् । अथुसि इयथुः । इयेति । थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि रूपम् ।णलुत्तमो वे॑ति णित्त्वपक्षे आह-इयायेति । द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ् । णित्त्वाभावे आह — इययेति । द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु आयत् अयेत् । आशीर्लिङि तुअकृत्सार्वधातुकयो॑रिति दीर्घः । ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति । दीर्घस्य ईधातोरित्यर्थः । तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह — अयाञ्चकारेति । ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च । कुडि वैकल्य इति । वैकल्यमविवेक इत्याहुः । अपूर्णभावो वा । मुड प्रुड मर्दन इत्यादि । स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह - पेठतुरिति । पेठिथेति । पित्त्वेन अकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलौपौ । अपठीत् अपाठीदिति ।अतो हलादेर्लघो॑रिति वृद्धिविकल्पः । वठ स्थौल्य इति । स्थौल्यं — स्थूलीभवनम् ।न शसददवादिगुणाना॑मित्येत्वाभ्यासलोपनिषेध इति मत्वाह — ववठतुः । ववठिथेति । दोपधा इति । ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति । चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ 'वावसाने' इति चर्त्त्वे चुदिति रूपम् । अदिति । अड्डधातोः क्विपि पूर्ववद्रूपम् । कदिति । कड्डधातोः क्विपि रूपम् । इत्यादीति । आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः । एकत्वस्मरणादिति ।शिक्षादा॑विति शेषः । गडडि वदनेति । तवर्गान्तेषु गडीति गतम् । परस्मैपदिनः शौटु गर्व इत्यादयो गताः । तिपृ इति । प्रथमतृतीयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति । तिपृधातुरित्यर्थः । भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति । भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति — तेपत इति । शपि लघूपधगुणः । तितिप इति ।असंयोगा॑दिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र 'एकाच उपदेश' इति निषेधमाशङ्क्याह - क्रादिनियमादिति । तेप्स्यत इति । लोडादौ तु तेपतामा, अतेपत, तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति । तत्र लघूपधगुणे प्राप्ते — ।
SK 2300 · A 1.2.11कित्त्वातिदेशः
लिङ्सिचावात्मनेपदेषु ॥ २३०० ॥
liṅsicāvātmanepadeṣu
Siddhānta-kaumudī
इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-SK 2281 इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च ।{$ {!366 ग्लेपृ!} दैन्ये$} । ग्लेपते ।{$ {!367 टुवेपृ!} कम्पने$} । वेपते ।{$ {!368 केपृ!} {!369 गेपृ!} {!370 ग्लेपृ!} च$} । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ।{$ {!371 मेपृ!} {!372 रेपृ!} {!373 लेपृ!} गतौ$} ।{$ {!374 त्रपूष्!} लज्जायाम्$} । त्रपते ॥
Tattvabodhinī
NSP p. 372–373—लिङ्गसिचावात्मनेपदेषु । ‘इको झल्’ ‘हलन्ताच्च’ इति वर्तते । ‘असंयोगाल्लिट् कित्’ इत्यतः किदिति च तदाह—इक्समीपादित्यादि । इकः किम् । यक्षीष्ट । सति कित्वे संप्रसारणं स्यात् । आत्मनेपदेति किम् । अद्राक्षीत् । कित्वे सति ‘सृजिदृशोर्द्वात्मकिति’ इत्यम् न स्यात् । आत्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य । लिङ्गः परत्वासंभवात् ॥ तेष्टु कम्पने च । चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यर्च्छुं शक्यः । केचित्तु तिष्ठ तेष्टु इति पठन्ति ॥ दुवेष्टु । वेष्टुः । केष्टु गेष्टु ग्लेष्टु च । योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते, तदाह—न्नात्कम्पने गतौ चेति । योगविभागसामर्थ्यादेवार्थद्वयलाभे चकारो व्यर्थ इत्यन्ये ॥—पुनः पाठ इति । दैन्ये पठितस्य कम्पनावर्थलाभार्थमिति भावः ॥—तृफल—॥ तरतेरकारस्य गुणशब्देन भावितलात्फलभजोर्वैरूप्यसंपादकादेशादिलात् त्रपतेस्त्वेकहल्मध्यस्थलाभावादप्राप्ते विधिरयम् । तेरतुः । तेरुः । फेलतुः । फेलुः । भेजतुः । भेजुः ॥ अवि शब्दे । अस्मात् ‘गुरोश्च हलः’ इति अप्रत्यये अम्बाशब्दः । तिस्रः अम्बा अकारोकारमकारात्मकाः शब्दा यस्य इति वहुत्रीहौ ‘शेषाद्विभाषा’ इति कप्रत्यये त्र्यम्बक इत्येके । केचित्तु त्रीणि अम्बकानि नेत्राणि यस्येति विगृहन्ति ।—अभिरभी इति । ‘सर्वधातुभ्योऽसुन्’ इत्यधिकारे ‘उदके नुम्भौ च’ इति वक्ष्यमाणलात् धालन्तरेणापि अम्भःशब्दः सिद्ध्यतीति बोध्यम् । अम्भस्तोयम् । तस्यापत्यमाम्भिः भीष्मः । ‘अम्भसो लोपश्च’ इति बाह्वादिपाठादित्रि सलोपः ॥—तद्वीजं त्विति । पूर्वसवर्णप्रवृत्तेः षलाप्रवृत्तेश्च वीजमित्यर्थः
Bālamanoramā
लिङ्सिचावात्मनेपदेषु - लिङ् । इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते ।असंयोगा॑दित्यतः किदिति च । इक इति सामीप्ये षष्ठी, हलि अन्वेति । तदाह — इक्समीपादित्यादिना । आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात् । इकः किम् ।वह्वक्षीष्ट । सति तु कित्त्वेवचिस्वपी॑ति संप्रसारणं स्यात् । आत्मनेपदेषु किम् । अद्राक्षीत् । इह कित्त्वे सतिसृजिदृशोर्झल्यमकिती॑त्यम्न स्यात् । अतिप्तेति । लुङस्तादेशे, च्लिः, सिच् ।झलो झली॑ति लोपः । आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह — तितेपे इति । इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति — तेपितेति । तेपिषीष्ट । अतेपिष्ट । ष्टिपृधातोस्तु 'धात्वादेः षः स' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह — तिष्टिप इति । 'शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः । कित्त्वान्न गुणः । तिष्टेप इति । ष्टेपृधातो रूपम् । तेपृ कम्पने चेति । चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पूरवत्रास्य पाटस्त्यक्तुं शक्यः । केचित्तुदेपृ॑इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति । अनुक्तसमुच्चयार्थश्चकार इति भाव- । एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ॒क्पाठाल्लभ्यते । अर्थभेदादिति । ग्लेपृ दैन्ये॑ इति पूर्वं पठितम् । #इह त्वर्थभेदात्पुनः पाठः । अन्यथाग्लेपृ दैन्ये कम्पने गतौ चे॑ति गौरवं स्यादिति भावः । त्रपूषिति । ऊकारः षकारश्च इत् । अदुपधः ।
SK 2301 · A 6.4.122V
तॄफलभजत्रपश्च ॥ २३०१ ॥
tṝphalabhajatrapaśca
Siddhānta-kaumudī
एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट ।{$ {!375 कपि!} चलने$} । कम्पते । चकम्पे ।{$ {!376 रबि!} {!377 लबि!} {!378 अबि!} शब्दे$} । ररम्बे । ललम्बे । आनम्बे ।{$ {!379 लबि!} अवस्रंसने च$} ।{$ {!380 कबृ!} वर्णे$} । चकबे ।{$ {!381 क्लीबृ!} अधार्ष्ट्ये$} । चिक्लीबे ।{$ {!382 क्षीबृ!} मदे$} । क्षीबते ।{$ {!383 शीभृ!} कत्थने$} । शीभते ।{$ {!384 चीभृ!} च$} ।{$ {!385 रेभृ!} शब्दे$} । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते ।{$ {!386 ष्टभि!} {!387 स्कभि!} प्रतिबन्धे$} । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-SK 118 इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-SK 2272 इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-SK 118 इति पवर्गीयोपधपाठः, स्तन्भेः SK 2272 इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे ।{$ {!388 जभि!} {!389 जृभि!} गात्रविनामे$} ॥
Bālamanoramā
तॄफलभजत्रपश्च - संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह — तृफल । 'अत एकहल्मध्ये' इत्यतोऽत इति लिटीति चानवर्तते ।ध्वसो॑रित्यत एदिति, अभ्यासलोपश्चेति च,गमहने॑त्यस्मात्कितीति,थलि च सेटी॑ति सूत्रं च । तदाह — एषामिति । गुणशब्देन भाविताऽकारवत्त्वाद्वरूपादेशादित्वादेकहल्मध्यस्थत्वाऽभावाच्चाऽप्राप्ते विधिरियम् । आन्ब इति । द्विहल्त्वान्नुट् । ष्टभि स्कभीति । आद्यः षोपदेशः,ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् । ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः । तदाह -स्तम्भत् इति । नुम्यनुस्वार इति । इदित्त्वान्नुमिनश्चापदान्तस्ये॑ति तस्यानुस्वारः ।नुस्वारस्य ययी॑ति तस्य परसवर्णौ मकारः ।ष्टम्भे॑त्येव पाठे तु प्रतिपदोक्तत्वात्उदः स्थे॑त्यत्राऽस्यैव ग्रहणं स्यादिति भावः । पूर्वसवर्ण इति । सकारस्य थकारः । तस्यखरि चे॑ति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्यं तदुदः स्थास्तम्भोरित्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति ।सात्पदाद्यो॑रिति षत्वनिषेध इति भावः । नन्वेवमपिस्तम्भे॑रिति षत्वं कुतो न स्यादित्यत आह - स्तम्भेरिति षत्वं तु नेति । कुत इत्यत आह — श्नविधाविति ।स्तन्भुस्तुन्बुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चे॑ति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः । नन्वेवं सतिउदः स्थास्तम्भो॑रिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह — तद्बीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणं, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह — इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि 'शपूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो नतु ष्टुत्वसंपन्न इत्यर्थः । तन्मते इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । 'शर्पूर्वा' इतिटकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति । गात्रस्य विनामः = वक्रभावः । आद्य इदित् । द्वितीय इदित् । आद्यस्य इदित्त्वंश्वीदितो निष्ठाया॑मिति इण्निषेधार्थम् ।
SK 2302 · A 7.1.61V
रधिजभोरचि ॥ २३०२ ॥
radhijabhoraci
Siddhānta-kaumudī
एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे ।{$ {!390 शल्भ!} कत्थने$} । शशल्भे ।{$ {!391 वल्भ!} भोजने$} । दन्त्योष्ठ्यादिः । ववल्भे ।{$ {!392 गल्भ!} धाष्टर्थे$} । गल्भते ।{$ {!393 श्रम्भु!} प्रमादे$} । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते ।{$ {!394 ष्टुभु!} स्तम्भे$} । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ परस्मौपदिनः ॥{$ {!395 गुपू!} रक्षणे$} ॥
Tattvabodhinī
NSP p. 373—रधिजभोरचि । रन्धयति । परापि वृद्धिर्नित्येन नुमा वाध्यते । अचीति किम् । रद्धा । जब्धा
Bālamanoramā
रधिजभोरचि - रधिजभोः ।रध हिंसाया॑मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — एतयोरिति । अनिदित्त्वान्नुम्विधिः । जम्भत इति । शपि नुम् ।जम्भिते॑त्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदेशोऽयम् । विष्टोभत इति ।उपसर्गात्सुनोती॑ति षत्वम् । व्यष्टोभिष्टेति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्,ण इति । ऊदिदयम् ।
SK 2303 · A 3.1.28V
गुपूधूपविच्छिपणिपनिभ्य आयः ॥ २३०३ ॥
gupūdhūpavicchipaṇipanibhya āyaḥ
Siddhānta-kaumudī
एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-SK 2189 इति गुणः ॥
Bālamanoramā
गुपूधूपविच्छिपणिपनिभ्य आयः - गुपूधूप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाऽभावादाह — स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तुगोपायतं नः सुमनस्यमान॑ इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापिएकादेश उदात्तेनोपादात्तः॑ इत्युदात्तत्वे,त॑मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्यउदात्तादनुदात्तस्य स्वरितः॑ इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाच' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्त्वात्कार्यं गुणादि भवति । तदाह - पुगन्तेति गुण इति ।
SK 2304 · A 3.1.32धातुसंज्ञा
सनाद्यन्ता धातवः ॥ २३०४ ॥
sanādyantā dhātavaḥ
Siddhānta-kaumudī
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥
Tattvabodhinī
NSP p. 373—सनाद्यन्ताः—॥—सनादय इति । ‘सनक्यच्छाम्यच्छयङ्क्यषोऽधाचारक्तिप् णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः’ ॥—धातुत्वादिति । प्रत्ययविशिष्टस्य धातुलादित्यर्थः । सुप्तिङन्तमित्यनेन ‘संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रहणं नास्ति’ इति ज्ञापितलाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तप्रहणं कृतम् । ‘भूवादयो धातवः’ इत्यस्यानन्तरं सनाद्यन्ताश्चेति न सूत्रितम् । सनादयो द्वादशैवेति निर्धारणालाभापत्तेः । ‘सनाद्यन्ता धातवः’ इत्यस्यानन्तरं तु ‘भूवादयश्च’ इति पठित्वा धातव इत्येतत्तत्रत्यक्तुं शक्यम् ॥—आयादयः—। आयेयङ्णिङ इत्यर्थः
Bālamanoramā
सनाद्यन्ता धातवः - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गणे' इति पररूपम् ।
SK 2305 · A 3.1.31V
आयादय आर्धधातुके वा ॥ २३०५ ॥
āyādaya ārdhadhātuke vā
Siddhānta-kaumudī
आर्धधातुकविवक्षायामायादयो वा स्युः ॥
Tattvabodhinī
alignment inferredNSP p. 373—विवक्षायामिति । परसप्तम्यां तु आर्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न संगच्छेतेति भावः । अन्ये तु ‘गुपू रक्षणे’ इत्यस्मात् क्तिनि पश्चादाय्प्रत्यये गोपायतिरित्यनिष्टं प्रसज्येत, विवक्षायामि- त्युक्ते तु आय्प्रत्यये कृते क्तिनं वाधित्वा ‘अप्रत्ययात्’ इत्यकारप्रत्यये टापि च गोपाया धूपायेति सिध्यतीत्याहुः
Bālamanoramā
आयादय आर्धधातुके वा - आयादयः । आय आदिर्येषां ते आयादयः ।आय ईयङ्णिङ् चेति त्रय आयादयो मताः॑ । गुपूधूपविच्छिपणिपनिभ्य आयः, ऋतेरीयङ्, कमेर्णिङित्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । 'आर्धधातुके' इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात्, आर्धधातुकोपदेशकालेऽदन्तत्वाऽभावादिति भावः ।
SK 2306 · A 3.1.35V
कास्प्रत्ययादाममन्त्रे लिटि ॥ २३०६ ॥
kāspratyayādāmamantre liṭi
Siddhānta-kaumudī
कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ।
vārttikaकास्यनेकाज् ग्रहणं कर्तव्यम्
(वार्तिकम्) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाचेति वाच्यमित्यर्थः ॥
Tattvabodhinī
NSP p. 373—कास्प्रत्यया—। अमन्त्रेति किम् । कृष्णो नोनाव । अच्छन्दसीति तु नोक्तम् । मन्त्रभिन्ने छन्दसि आम इष्टत्वात् । यथा पुत्रमामन्त्रयामास । प्रत्ययान्तत्वादाम् । ‘अथ ह शुनःशेप ईक्षांचक्रे’ । ‘इजादेश्व’ इत्याम् । इह च छुम्पचकासदरिद्रादिभ्य आमोऽप्राप्तौ ‘कास्यनेकाच—’ इति वार्तिकमारभ्यते ॥—प्रत्ययग्रहणमपनीयेति । अन्यथा अ इवाचरति अति । अस्य लिटि औ अतुरित्यादि वक्ष्यमाणं न सिद्धेदिति भावः । अन्ये तु भाष्यवार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनुक्त्या प्रत्ययान्तादेकाचोप्याम् भवत्येव । अ इवाचरति इत्याचारे क्विपि लिटि आंचकार आंचकतुरित्यादीत्याहुः
Bālamanoramā
कास्प्रत्ययादाममन्त्रे लिटि - तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे आह -कास्प्रत्ययात् । आम् — अमन्त्रे इति च्छेदः । चकासृ दीप्तौ, जागृ निद्राक्षये इत्यादिभ्योऽपि लिटि आमिष्यते । प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति । क्विबन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कासृधातोश्च, अनेकाचः प्रत्ययान्ताच्चेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह — प्रत्यग्रहणमपनीयेति । तथाच कास्धातोरनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः । वस्तुतस्तु अ इवाचरति अतीत्यादि नास्त्येवेति सुब्धातुनिरूपणे वक्ष्यते । तथा च गोपया — आमिति स्थितम् ।
SK 2307 · A 6.4.46आर्धधातुके इत्यधिकारः (द्वितीयः)
आर्धधातुके ॥ २३०७ ॥
ārdhadhātuke
SK 2308 · A 6.4.48V
अतो लोपः ॥ २३०८ ॥
ato lopaḥ
Siddhānta-kaumudī
आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् । गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् ।{$ {!396 धूप!} संतापे$} । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि ।{$ {!397 जप!} {!398 जल्प!} व्यक्तायां वाचि$} । जप मानसे च ।{$ {!399 चप!} सान्त्वने$} ।{$ {!400 षप!} समवाये $}। समवायः संबन्धः सम्यगवबोधो वा । सपति ।{$ {!401 रप!} {!402 लप!} व्यक्तायां वाचि$} ।{$ {!403 चुप!} मन्दायां गतौ$} । चोपति । चुचोप । चोपिता ।{$ {!404 तुप!} {!405 तुम्प!} {!406 त्रुप!} {!407 त्रुम्प!} {!408 तुफ!} {!409 तुम्फ!} {!410 त्रुफ!} {!411 त्रुम्फ!} हिंसार्थाः$} । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि SK 2216 इति कित्वान्नलोपः । तुप्यात् । (गणसूत्रम् -) प्रात्तुम्पतौ गवि कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितायान्ताः । अष्टावप्युकारवन्तः ।{$ {!412 पर्प!} {!413 रफ!} {!414 रफि!} {!415 अर्ब!} {!416 पर्ब!} {!417 लर्ब!} {!418 बर्ब!} {!419 मर्ब!} {!420 कर्ब!} {!421 खर्ब!} {!422 गर्ब!} {!423 शर्ब!} {!424 षर्ब!} {!425 चर्ब!} गतौ$} । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति ।{$ {!426 कुबि!} आच्छादने$} । कुम्बति ।{$ {!427 लुबि!} {!428 तुबि!} अर्दने$} । लुम्बति । तुम्बति ।{$ {!429 चुबि!} वक्रसंयोगे$} । चुम्बति ।{$ {!430 षृभु!} {!431 षृम्भु!} हिंसार्थौ $}। सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति ।{$ {!432 शुभ!} {!433 शुम्भ!} भाषणे$} । भासने इत्येके । हिंसायामित्यन्ये ॥ अथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥{$ {!434 घिणि!} {!435 घुणि!} {!436 घृणि!} ग्रहणे$} । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे ।{$ {!437 घुण!} {!438 घूर्ण!} भ्रमणे$} । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ ।{$ {!439 पण!} व्यवहारे स्तुतौ च$} ।{$ {!440 पन!} च$} । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने ।{$ {!441 भाम!} क्रोधे$} । भामते । बभामे ।{$ {!442 क्षमूष्!} सहने$} । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥
Tattvabodhinī
NSP p. 373–374—अतो लोपः । अनुदात्तोपदेश इति सूत्रादुपदेश इत्यनुवर्तते । तदाह—आर्धधातुकोपदेशेत्यादि । उपदेशे इति किम् । अय पय गतौ । आभ्यां क्रिपि ‘वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन’ इति वार्तिकात् ‘लोपो व्योः—’ इति यलोपे ‘अतो लोपः’ इति लोपो माभूत् । अत् यत् । इह ‘ह्रस्वस्य पिति—’ इति तुक् । आर्धधातुके पर इति किम् । कथयते । वृद्धौ कर्तव्यायां ‘अचः परस्मिन्—’ इति स्थानिवत्त्वं यथा स्यात् ॥—गोपायामिति । नन्विह आयप्रत्ययस्यादन्ततामाश्रित्य लोपकरणे फलाभावादुच्चारणार्थं एव तत्राकारोदित्यति चेत् । अत्राहुः । ‘गोपायतं नः’ इत्यत्र गोपायशब्दस्य धातुलात् धातोरन्त उदात्तो भवति ततः शबकारेणैकादेशेऽपि ‘एकादेश उदात्तेन—’ इत्युदात्त एव, तकाराकारस्तु ‘तास्यनुदात्तेन्द्रियदुपदेशात्’ इत्यनुदात्तः ततश्च ‘उदात्तादनुदात्तस्ये’ति स्वरिति भवति । ‘स्वरितात्संहितायामनुदात्तानाम्’ इति न इत्यस्य एकश्रुतिः । आयप्रत्ययस्य अनदन्तत्वे नेदमिष्टं सिध्यतीति ॥—स्तुतावेवेति । भट्टिस्तु व्यवहारेऽपि आयं प्रायुक्त । ‘न चोपलेभे वणिजां पणायाम्’ इति । वणिजां व्यवहारमित्यर्थः । ‘अ प्रत्ययात्’ इति आयप्रत्ययान्तादकारप्रत्यये टाप् ॥—चक्षंस इति । इह ‘अनुनासिकस्य क्रिष्टालोः—’ इत्युपधादीर्घो न कृतः संज्ञापूर्वकविधेरनित्यलादिति स्थितस्य गतिमुत्प्रेक्षयन्ति ॥ कमु कान्तौ ॥ अस्य णिङ्भावे ‘उदितो वा’ इति क्लायामिङ्गिकल्पः । कमित्वा । कान्त्वा । निष्ठायां तु ‘यस्य विभाषा’ इति निषेधात्कान्तः
Bālamanoramā
अतो लोपः - अतो लोपः ।अनुदात्तोपदेशवनती॑त्यत उपदेशग्रहणमनुवर्तते । आर्धधातुक इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयं तु लोपे परनिमित्तम् । तदाह — आर्धधातुकोपदेश इतत्यादिना । आर्धधातुकोपदेश इति किम् । अय पय गतौ, आभ्यां क्विपि,लोपो व्यो॑रिति लोपे,ह्रस्वस्य पिती॑ति तुकि, अपृक्तलोपे अत् पत् इतीष्टे । अत्र यलोपे सति अतो लोपो न भवति, आर्धधातुकोपदेशकाले धातोर्यकारान्तत्वात् । 'आर्धधातुकोपदेश' इत्यत्र आर्धधातुकग्रहणाऽभावेचिकीर्षित॑मित्यत्र अल्लोपो न स्यात्, सन उपदेशकाले नकारान्तत्वात् । आर्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात्सन्प्रत्ययादेव क्तप्रत्ययस्य आर्धधातुकस्योत्पत्तेः । आर्धधातुके पर इति किम् । कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति,अचः परस्मि॑न्नित्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाऽभावात्स्थानिवत्त्वं न स्यात् । तथा च प्रकृते गोपाय — आमिति स्थिते अतो लोपे गोपायामिति सिध्यति । यद्यपि सवर्णदीर्घेणाप्येतत्सिद्धं, तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाऽभावपक्षे आह — जुगोपेति । पित्त्वेन कित्त्वाऽभावाल्लघूपधगुणः । जुगुपतुरिति । कित्त्वान्न गुणः । ऊदित्त्वाद्वेडिति ।थलादा॑विति शेषः । जुगुपिव — जुगुप्व । जुगुप्म । क्रादिनियमस्तु नञ्प्राप्तस्यैवाऽभावस्य, नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति । लुटि आयप्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाऽभावपक्षे इड्विकल्पः । ऊदित्त्वस्य केवले चरितार्थत्वात् । तदाह — गोपिता गोप्तेति । गोपायिष्यति गोपिष्यति गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत् । आशीर्लिङ आयप्रत्ययपक्षे आह — अगोपायीदिति । आयप्रत्ययाऽभावपक्षे इटि रूपमाह - अगोपीदिति ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति हलन्तलक्षवृद्धेर्निषेधः । इडभावे तु इटः परत्वाऽभावान्न सिल्जोल इत्याह — अगौप्सीदिति ।वदव्रजे॑ति वृद्धिः । अगोपायिष्यत् अगोपिष्यत् अगोप्स्यत् । धूप संताप इति ।गूपूधूपे॑त्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति । षोपदेशोऽयम् । चुप मन्दायामिति । चवर्गप्रथमादिरयम् । चवर्गद्वितीयादिस्त्वनिट्कः । तुप तुम्पेति । अष्टावप्युदुपधाः, तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्त इति मूले स्पष्टीभविष्यति ।तुतुम्पतु॑रित्यत्र नलोपमाशङ्क्याह — संयोगादिति । आशीर्लिङि विशेषमाह — किदाशिषीति । प्रात्तुम्पताविति । श्तिपा निर्देशोऽयम् । प्रात् — प्रेत्युपसर्गात् — तुम्पधातौ परे सुट् स्याद्गवि कर्तरि सतीत्यर्थः । तुपधातोः सुट् आद्यवयवः । सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह — यङ्लुकि नेति ।शपाऽनुबन्धेने॑त्युक्तेरिति भावः । षृभु षृम्भु इति । ऋदुपधौ षोपदेशौ । सृभ्यादिति । आशीर्लिङि अनिदित्त्वान्नलोपः । षिभु षिम्भु इत्येक इति । आद्य इदुपधो, द्वितीयो मोपधः । शुभ शुम्भेति । द्वितीयस्य आशीर्लिङि अनिदित्त्वान्नलोपः । इतिगुपू॑इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः । कम्यन्ता इति । 'कमु कान्तौ' इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति । द्वितीयस्य दीर्घपाटः स्पष्टार्थः,उपधायां चे॑त्येव दीर्घसिद्धेः । केचित्तु घुर्णेति ह्रस्वमेव पठन्ति । स्तुतावित्येवेति । न तु व्यवहार इत्येवकारार्थः । पृथङ्निर्देशादिति । अन्यथापण पन व्यवहारे स्तुतौ चे॑त्येव निर्दिशेदिति भावः । यद्यपि पृथङ्निर्देशो यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यं, तथापि संप्रदायानुरोधादेवमुक्तम् । पनिसाहचर्यादिति । पनधातुः स्तुतावेव वर्तते, तत्साहचर्याद्गुपूधूपविच्छेत्यत्र पणधातुरपिस्तुत्यर्थक एव गृह्रते, न तु व्यवहारार्थकः । अतः स्तुतार्वव पणधातोरायप्रत्ययो न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं, पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः । न च आयप्रत्ययान्तस्यानुदात्तेत्वं नेति शङ्क्यं, पणधातौ श्रुतस्यानुदात्तेत्त्वस्य 'आनर्थक्यात्तदङ्ग' न्यायेन आयप्रत्ययान्तेऽन्वयोपपत्तेरित्यत आह -स्तुताविति । अनुबन्धस्य अनुदात्तात्मकस्य इतः, — याअर्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते चरितार्थत्वादायप्रत्ययान्तादात्मनेपदं नेत्यर्थः । एवं च तुल्यन्यायत्वादेकाच उपदेश इति निषेधोऽपि नेति सूचितम् । क्षमष् सहन इति ।षद्भदादिभ्योऽ॑ङित्यर्थं षित्त्वम् । ऊदित्त्वादिड्विकल्पं मत्वाह — चक्षमिषे चक्षंस इति । इडभावपक्षेअनुनासिकस्य क्विझलो॑रिति दीर्घस्तु न भवति, क्विसाहचर्येण तिङ्भिन्नस्यैव झलादेस्तत्र ग्रहणात् । वहिमह्रोरिडभावपक्षे विशेषमाह — म्वोश्च ।मो नो धातो॑रित्यनुवर्तते । तदाह — मान्तस्येति । णत्वमिति । षात्परत्वादट्कुप्वाङिति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं व#आरयति — कान्तिरच्छेति ।स्वर्गकाम॑इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः ।कामोऽभिलाषस्तर्षश्चे॑ त्यमरः ।
Footnotes (NSP 1915 ed.)
NSP p. 374 चक्षुंसे इति—‘अनुनासिकस्य—’ इति दीर्घस्तु न, किएताहचर्येण तिङ्भिन्नस्यैव झलादेर्ग्रहणात् ।
SK 2309 · A 8.2.65V
म्वोश्च ॥ २३०९ ॥
mvośca
Siddhānta-kaumudī
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त ।{$ {!443 कमु!} कान्तौ$} । कान्तिरिच्छा ॥
SK 2310 · A 3.1.30V
कमेर्णिङ् ॥ २३१० ॥
kamerṇiṅ
Siddhānta-kaumudī
स्वार्थे । ङित्त्वात्तङ् । कामयते ॥
Bālamanoramā
कमेर्णिङ् - कमेर्णिङ् । शेषपूरणेन सूत्रं व्याचष्टे -स्वार्थे इति । अर्थविशेषाऽनिर्देशादिति भावः । णङावितौ ।णेरनिटी॑त्यत्रोभयोग्र्रहणायाऽनुबन्धकरमम् । ङित्त्वात्तङिति । अनुदात्तेत्वं तु णिङभावे 'चकमे' इत्यादौ चरितार्थमिति भावः । कामयत इति । णिङि 'अत उपधाया' इति वृद्धौकामी॑ति णिङन्तम् ।क्ङिति चे॑ति निषेधस्तु न,अनिग्लक्षणत्वात् । णिङन्तस्य धातुत्वाल्लडादयः । तत्र लटि शपि गुणेऽयादेशे कामयते इति रूपम् । कामयेति इत्यादि सुगमम् । लिटि 'कास्यनेकाच' इत्यामि, 'आम' इति लिटो लोपे ' कामि-आम्' इति स्थिते, सार्वधातुके॑ति गुणं बाधित्वाणेरनिटी॑ति वक्ष्यमाणे णिलोपे प्राप्ते ।
SK 2311 · A 6.4.55V
अयामन्ताल्वाय्येत्न्विष्णुषु ॥ २३११ ॥
ayāmantālvāyyetnviṣṇuṣu
Siddhānta-kaumudī
आमन्त आलु आय्य इत्रु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय आर्धाधातुके वा SK 2305 । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥
Tattvabodhinī
NSP p. 374–375—अयामन्ता—। नामन्तेति सूत्रितेऽपि ‘णेरनिटि’ इति वक्ष्यमाणलोपस्य निषेधे गुणायादेशयोः सतोः कामयांचक्रे इत्यादिरूपाणि सिध्यन्त्येव, तथापि ‘ल्यपि लघुपूर्वात्’ इत्येवमर्थमयादेशवचनम् । प्रस्तनय्य । सङ्गमय्य । नह्यत्र गुणायादेशौ लभ्येते । आम् । कारयामास । अन्त । गण्डयन्तो मण्डयन्तः । ‘दृभूवहिवसिभासिसाधिगडिमण्डिजनन्दिभ्यश्च’ इत्यौणादिको झच् । ‘झोऽन्तः’ । ‘सृहिगृहि—’ इत्याद्युच् । सृहयाद्युः । ‘श्रुदक्षिसृहिगृहिभ्यः—’ इत्यौणादिक आय्यः । सृहयाय्यः । ‘स्तनिहविपुधि—’ इत्यौणादिक एव इत्युच् । स्तनयित्युः । ‘णेश्छन्दसि’ इति इष्णुच् । वीरुधः पारयिष्णवः
Bālamanoramā
अयामन्ताल्वाय्येत्न्विष्णुषु - अयामन्ता । अयति छेदः ।णेरनिटी॑त्यतो णेरित्यनुवर्तते । तदाह — णेरयादेशः स्यादिति । तथा च कामयामित्यमन्तं स्थितम् । ततःकृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगाल्लिडिति मत्वाह — कामयांचक्र इति । णिङ आयादिष्वन्तर्भावाल्लिडादावाद्धधातुके तद्विकल्पमुक्तं स्मारयति - आयादय इति । चकम इति । सेट्कोऽयम् । चकमिषे । चकमिध्वे ।चकमिवहे । चकमिमहे । कामयियेति । लुटि णिङपक्षे तासि इटि वृद्धौ गुणेऽयादेशे रूपम् । कामयताम् । अकामय.कामयेत । कामयिषीष्ट — कमिषीष्ट ।
Footnotes (NSP 1915 ed.)
NSP p. 375 १ किजन्तमिति—किर्दुर्लभः 'अ प्रत्ययाद्' इत्यनेन बाधादिति भावः । २ बहुव्रीहिरिति—परग्रहणसामर्थ्यादिति भावः ।
SK 2312 · A 3.1.48V
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ २३१२ ॥
ṇiśridrusrubhyaḥ kartari caṅ
Siddhānta-kaumudī
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । काम् इ अ त इति स्थिते ॥
Tattvabodhinī
NSP p. 375—णिश्रिद्रु—॥ च्छेः सिचोऽपवादः
Bālamanoramā
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् - अथ णिङन्तात्कामीत्यरस्माल्लुङस्तादेशे च्लेः सिजादेशे प्राप्ते — णिश्रि । णि श्रि द्रु रुआउ एषां द्वन्द्वः । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहमम् ।च्लि लुङी॑त्यतो लुङीति,च्लेः सि॑जित्यतश्च्लेरिति चानुवर्तते । तदाह — ण्यन्तादित्यादिना । चङावितौ ।
SK 2313 · A 6.4.51V
णेरनिटि ॥ २३१३ ॥
ṇeraniṭi
Siddhānta-kaumudī
अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः -SK 272 इति यणि प्राप्ते ॥
vārttikaण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम्
(वार्तिकम्) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥
Tattvabodhinī
NSP p. 375—णेरनिटि । णेरिति णिङ्णिचोऽंहणम् । एवमन्यत्रापि वोध्यम् । अनिटीत्यनेनाधिकृतमार्धधातुक इत्येतद्विशेष्यते । ‘यस्मिन्विधिः’ इति तदादिविधिः । ‘अतो लोपः’ इत्यस्माल्लोप इति चानुवर्तते, तदाह—अनिडादावित्यादि ॥—यणि प्राप्त इति । ननु परत्वादियङ्यणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावाणि प्रहणेन प्रहणाल्लोपो भविष्यतीति चेत् । नैवं शङ्क्यम् । इयङादेशे ह्यन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्च ‘अतो लोपः’ इति सूत्रे भाष्ये स्थितम् । न चात्र कारणा कारक इत्यादौ गुणवृद्ध्योः कृतयोरन्तरङ्गत्वादयादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियङादेशे एव दोष उक्त इति शङ्क्यम् । ‘वार्णादाङ्गं वलीयः’ इत्ययायौ वाधित्वा णिलोपो भविष्यतीति भाष्याशयात् ॥—ण्यल्लोपाविति । णिलोपः इयङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन । अल्लोपस्तु वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तिसंभव एव नास्तीत्यत आह—पाकिरित्यादि किञ्चन्तमिति । तत्र ‘तितुत्र—’ इतीण्निषेधादिति भावः ॥—वचनसामर्थ्यादिति । अयं भावः । णेरित्येतावति सूत्रे कृतेऽप्यार्धधातुक इत्यनुवृत्त्या आर्धधातुके परतो वर्तमानो णिलोप इयङ्यणादिभिर्वाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयर्थ्यं प्रसज्येत, तथा चानिडाद्याधेधातुकं सर्वमप्यस्य विषयो न तु क्तिजन्तमेवेति ॥—अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेन चिकीर्षक इत्यत्र वृद्धिः चिकीर्घ्यादित्यत्र ‘अकृत्सार्व-’ इति दीर्घं वाधित्वा पूर्वविप्रतिषेधेन ‘अतो लोपः’ इति लोपो भवतीत्याहुः
Bālamanoramā
णेरनिटि - णेरनिटि । आर्धधातुक इत्यधिकृतम् । 'अतो लोप' इत्यस्माल्लोप इत्यनुवर्तते ।अनिटी॑त्यस्य आर्धधातुकविशेषणत्वात्तदादिविधिः ।तदाह — अनिडादाविति । तथा च णिलोपे काम त इति स्थिते — परत्वादिति । 'एरनेकाच' इत्यस्यणेरनिटी॑त्यपेक्षया परत्वाण्णिलोपं बाधित्वा यणि प्राप्ते सतीत्यर्थः । कृते तु यणि लोपे दुर्लभः, णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम्, यण्स्थानिनमिकारमलं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याऽल्विधित्वेन तत्र स्तानिवत्त्वाऽसंभवात् । स्पष्टा चेयं रीतिर्भोभगो इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । ण्यल्लोपाविति । णिलोप इयङ्यण्गुणवृद्धिदीर्घेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथाच पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत्, आटिटत्, कारणा, कारकः,कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयडण्गुणवृद्धिदीर्घाणामवस्यं प्राप्ेतर्णिलोपस्य निरवकाशत्वादेव इयङादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम्, सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयादित्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकासत्वादित्यत आह — णिलोपस्य त्विति । पच्धातोर्णिचि उपधावृद्धौ पाचीति ण्यन्तात्स्त्रियां क्ति॑न्निति क्तिनि,तितुत्रतथसिसुसकरसकेषु चे॑तीण्निषेधे,णेरनिटी॑ति णिलोपे, कुत्वे पाक्तिरिति स्थितिः ।क्तिजन्त॑मिति पाठे तुक्तिच्क्तौ च संज्ञाया॑ मिति क्तिज्बोध्यः ।पाक्ति॑रिति कस्यचित्संज्ञा । अत्र इयङादीनामप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियङादिप्राप्तौ तन्निवृत्त्यर्थं वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह — वस्तुस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ परानपि इयङादीन् णिलोपोऽपवादत्वाद्बाधते । परापेक्षयाऽपवादस्य प्रबलत्वात् । परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र अनिटीति व्यर्थम् । कारयितेत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततस्च अनिटीति वचनसामर्थ्यादिनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियङादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोपैति, — अस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयङादिबाधसिद्धेर्वार्तिकमिदं व्यर्थमित भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु 'चिकीर्षक' इत्यत्र वृदिंध,चिकीष्र्या॑दित्यत्रअकृत्सार्वधातुकयो॑रिति दीर्घं च बाधित्वा पूर्वविप्रतिषेधाद्भवति । नह्रतो लोपोवृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्दिदीर्घयोरप्राप्तयोरप्यतो लोपस्यारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षिदिति । तक्षदातोण्र्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वक्तवादेरनेकाचेति यणभावे इयङि प्राप्ते पूर्वविप्रतिषेधाण्णिलोपे हलादिशेषेऽडागमेऽततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोण्र्यन्तादाटीत्यस्माल्लुङि तिपि इकारलोपे चङि 'टी' त्यस्य द्वित्वे 'एरनेकाच' इति यणं बाधितवा पूर्वविप्रतिषेधाण्णिलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारणेति ।स्त्रिया॑मत्यधिकारे कृञ्धातोण्र्यन्तात्कारीत्यस्माण्ण्वुलि अकादेशे वृदिंध बाधित्वा पूर्वविप्रतिषेधाण्णिलोपे रूपम् । दीर्घ इति । उदाहरणसूचनम् । कार्यत इति । कृञ्धातोर्ण्न्तात्कारीत्यस्मात्कर्मण लटि यकिअकृत्सार्वधातुकयो॑रिति दीर्घं बाधित्वा पूर्वविप्रतिषेधाण्णिलोपः । तथा च प्रकृते काम् इ अ त इत्यत्र 'एरनेकाच' ति यणं बाधित्वा णिलोपे काम त इति स्थितम् ।
SK 2314 · A 7.4.1V
णौ चङ्युपधाया ह्रस्वः ॥ २३१४ ॥
ṇau caṅyupadhāyā hrasvaḥ
Siddhānta-kaumudī
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥
Tattvabodhinī
NSP p. 375—णौ चक्षुषधाया ह्रस्वः । उपधायाः किम् । अचकाङ्कीत्
Bālamanoramā
णौ चङ्युपधाया ह्रस्वः - णौ चङि । अङ्गाधिकारादाह — यदङ्गमिति । उपधायाः किम् । अचकाङ्क्षत् । चङि किम् । कारयति । णौ किम् ।चह्रुपधाया ह्रस्व॑इत्युच्यमाने अदीदपदित्यत्र दाधातोण्र्यन्ताल्लुङि चङि दा इ अ त् इति स्थिते आकारस्य ह्रस्वे सति पुङ्न स्यात् । णावित्युक्तौ तु आकारस्य णौ परत उपधात्वाऽभावान् ह्रस्वः ।द्विर्वचनेऽची॑ति निषेधस्तु न शङ्क्यः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम त इति स्थितम् । चङि ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतम् ।लिटि धातोरनभ्यासस्ये॑ति सूत्रं लिटीति वर्जमनुवर्तते । तदाह — चङि पर इत्यादिना । तथा च कमित्यस्य द्वित्वे हलादिशेषे क कम त इति स्थितम् ।
SK 2315 · A 6.1.11V
चङि ॥ २३१५ ॥
caṅi
Siddhānta-kaumudī
चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥
Bālamanoramā
श्लौ - शेषं पूरयति — धातोद्र्वे स्त इति ।एकाचो द्वे॑इत्यतोलिटि धातो॑इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्य आह — जुहोतीति । यणिति । उवङपवाद इत्यर्थः ।
SK 2316 · A 7.4.93सन्वदतिदेशः
सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ २३१६ ॥
sanvallaghuni caṅpare'naglope
Siddhānta-kaumudī
चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥
Tattvabodhinī
NSP p. 375—सन्वल्लघुनि—। चङ्पर इत्येतावतैव णिरिति न लभ्यते । श्रिद्धसुवामपि चङ्परत्वादत आह—अङ्गसंज्ञानिमित्तमिति ॥—अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः ॥—अङ्गस्येति नावर्तत इति । अस्मिन्नु व्याख्याने चङ्परे इत्येतावतैव णिरिति लभ्यते, श्रिद्धसुषु परेषु अङ्गत्वासंभवादतो व्याचष्टे—चङ्परे णौ यदङ्गमिति । चङ्परे इत्यस्यैव व्याख्यानं णाविति ज्ञेयम् । अनग्लोपे किम् । अचकथत्
SK 2317 · A 7.4.79V
सन्यतः ॥ २३१७ ॥
sanyataḥ
Siddhānta-kaumudī
अभ्यासस्यात इकारः स्यात्सनि ॥
Tattvabodhinī
NSP p. 375–376—सन्यतः ॥ ‘अत्र लोपोऽभ्यासस्य’ इत्यतोऽभ्यासस्येति ‘भृञामित्’ इत्यत इद्धरणं चानुवर्तते तदाह—अभ्यासस्येत्यादि । तपरकरणं किम् । पापच्यतेः सन् । पापचिषते । न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तपरकरणाभावेऽपि नोक्तातिप्रसङ्गः अभ्यासस्येह यङ्गमित्तत्वादिति वाच्यम् । तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तेः । न हि कार्यं निमित्तत्वेनाश्रीयते । यद्याश्रीयेत तर्हि ‘द्विर्वचनेऽचि’ इति निषेधेन रिस्शब्दस्य द्वित्वाप्रवृत्तावरिरिषतीत्यादि न सिध्येत् । नन्वेवं पिपक्षतीत्यादावव्याप्तिः । अभ्यासस्य सन्परत्वा- भावात् । न च ‘येन नाव्यवधान’ न्यायेन सन्प्रवृत्त्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यम् । प्रतीषिषतीत्यादा-वभ्यासस्याव्यवहितसन्परल्वसंभवादुक्तन्यायस्याप्रवृत्तिरिति चेत् । अत्राहुः । सना धातुमाक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानान्नोक्तदोषः । न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मान-मिति वाच्यम् । तपरकरणस्यैव तत्र मानलात् । किं च अकारग्रहणमपि तत्र मानम् । अन्यथा सन इत्येव ब्रूयात् । तावताप्यधीषिषति प्रतीषिषतीत्यादिवित्त्वप्रवृत्तिसिद्धेरिति
Bālamanoramā
सन्यतः - सन्यतः ।सनि-अत इति च्छेदः । 'अत्र लोप' इत्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामि॑दित्यस्मादिदिति । तदाह — अभ्यासस्येति । कि कम त इति स्थितम् ।
SK 2318 · A 7.4.94V
दीर्घो लघोः ॥ २३१८ ॥
dīrgho laghoḥ
Siddhānta-kaumudī
लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे ।
vārttikaकमेश्च्लेश्चङ्वक्तव्यः
(वार्तिकम्) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥ अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥{$ {!444 अण!} {!445 रण!} {!446 वण!} {!447 भण!} {!448 मण!} {!449 कण!} {!450 क्वण!} {!451 व्रण!} {!452 भ्रण!} {!453 ध्वण!} शब्दार्थाः$} । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति ।{$ {!454 ओणृ!} अपनयने$} । ओणति । ओणांचकार ।{$ {!455 शोणृ!} वर्णगत्योः$} । शोणति । शुशोण ।{$ {!456 श्रोणृ!} संघाते$} । श्रोणति ।{$ {!457 श्लोणृ!} च$} । शोणादयस्त्रयोऽमी तालव्योष्मादयः ।{$ {!458 पैणृ!} गतिप्रेरणश्लेषणेषु $}। प्रैणृ इति क्वचित्पठ्यते । पिपैण ।{$ {!459 ध्रण!} शब्दे $}। उपदेशे नान्तोऽयम् । रषाभ्याम् - SK 235 इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ ।{$ {!460 कनी!} दीप्तिकान्तिगतिषु चकान$} ।{$ {!461 ष्टन!} {!462 वन!} शब्दे$} । स्तनति । वनति ।{$ {!463 वन!} {!464 षण!} संभक्तौ$} । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥
Tattvabodhinī
NSP p. 376–377—दीर्घो लघोः ॥—लघोरभ्यासस्येति । ननु अज्झल्समुदायस्याभ्यासस्य लघुसंज्ञा दुर्लभा ‘हस्यं लघु’ इति सूत्रितत्वात् । नैष दोषः । इमे हि न समानाधिकरणे षष्ठ्यौ किं तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घं इत्यर्थः । ‘लघुनि चङ्परेऽनग्लोपे’ इति सर्वमिहानुवर्तते । तच्च प्राग्वदेव द्वेधा व्याख्येयम् । तदाह—सन्वद्भावविषय इति । हलादेरिति प्राचोक्तमिहोपेक्षितं निष्प्रमाणत्वात् । न हि मुनित्रयोक्तिं विना हलादेरिति व्याख्यातुमुचितम् । न चैवमौन्दिदत् आट्टिदित्यादौ दीर्घः स्यादिति शङ्क्यम् । अङ्गलघोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राप्राप्तेः । चङ्परं हि यदङ्गम् उन्द इति न तदीयोऽभ्यासो न वा चङ्परणिच्परं यल्लघु तत्परः । एतेन आट्टिदित्यादिभाष्योदाहरणमेव ‘हलादेः’ इति व्याख्याने प्रमाणमिति केषांचिदुत्प्रेक्षापि प्रत्युक्ता । दीर्घाप्राप्त्यैवोदाहरणसौष्ठवस्योक्तत्वात् । लघोः किम् । क्षणु हिंसायाम् । अचिक्षणवत् । शास्त्रे अस्मिन् ‘कार्यकालं संज्ञापरिभाषम्’ ‘यथोद्देशं संज्ञापरिभाषम्’ इति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत् । तथा च ‘पूर्वोऽभ्यासः’ इत्यस्य ‘सन्वल्लघुनि’—इत्यादिना सह पक्षद्वयेऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः । तत्रेदानीं कार्यकालपक्षपाति माधवमतं तावद्भ्याचष्टे—संज्ञाया इत्यादिना श्लोकद्वयेन ॥—अङ्गं यत्रेति । अयं भावः । ‘सन्वल्लघुनि’—‘दीर्घो लघोः’ इति सूत्रद्वये अङ्गस्येत्यनुवर्तते अभ्यासस्येति च । तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम् । द्वे इत्यत्र च उच्चारणे इति विशेष्यसमर्पकमध्याहियते, तच्च कृदन्तं, तद्योगादङ्गस्येति कर्मणि षष्ठी । तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावौ स्त इति । अचीकरत् । अपीपचत् । युक्तं चैतत् । अङ्गस्येति षष्ठ्या कारकविभक्तित्वसंभवे तदुपेक्ष्य शेषषष्ठीत्वकल्पनाया अन्याप्यत्वात् ॥—नाङ्गं द्विरुच्यते इति । एवं च अचचकासत् । आर्तथपत् । और्णुनवत् इत्येव भवतीति भावः ॥—अवयवः कश्चिदिति । हलादेः प्रथमावयवो द्विरुच्यते अजादेस्तु द्वितीयावयव इत्यर्थः । अङ्गं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम् । किंच अस्मिन्पक्षे एकाच इत्यङ्गस्य विशेषणं शब्दतोऽपि सुलभम् ‘एकाचो द्वे’—इत्यधिकारादित्याशयेनाह—तस्मादेकाक्ष्वेति । स्यादेतत् । उक्तरीत्या हस्वहलादिःशेषचुलादीन्यपि अनेकाक्षु न स्युः । न चेष्टापत्तिः । दिव्रासति । दिदरिव्रासति । जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात् तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इति चेत्, तर्हि इहापि स एवोचितः । अर्थाधिकारपक्षस्यैवाभ्याहितत्वात्, वृत्त्यादिषु स्वीकृतत्वाच्चेत्यभिप्रेत्याह—वस्तुत इति ॥—ऊर्णौ दीर्घं इति । स्यादित्यपक्षेऽप्यते । और्णुनवत् । इह सन्वद्भावस्तु नोपयुज्यते, णौ कृतस्यादेशस्य स्थानिवद्भावेन निपेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाभावादिति भावः ॥—अर्थापयताविति । अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च च्छेक्षङि दीर्घस्य ‘सन्वत्’—इतीत्यस्य च प्रवृत्तौ आर्तिथदित्येव भवतीति भावः । अर्थं उपयाञ्चायामित्यस्य तु चङ्परे णौ आर्तथतेति भवति न तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादौ स्फुटीभविष्यति ॥—उभयमिति । दीर्घः सन्वच्चेत्येतद्वयमित्यर्थः ॥—न स्यात् स्याच्च व्यवस्थयेति । चङ्परे णौ यल्लघ्विति व्याख्याने न स्यात् । चङ्परे णौ यदङ्गमिति व्याख्याने तु स्यात् । एवं च अचचकासत् । अचीचकासदिति व्याख्यामेदेन रूपद्वयमित्यर्थः । ननु यथा चङ्परे णौ यल्लघ्विति व्याख्याने ‘येन नाव्यवधान’ न्यायेन अपीपचदित्यादावेवोभयं भवति न त्वनेकव्यवाये अचचकासदित्यादौ, तथा न्यायसाम्येन लघुनि योऽभ्यास इत्यत्राप्येकेनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत् । अत्राहुः । ‘अत्स्पृष्टुत्वर’—इतीत्यापवादेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्यस्य ज्ञापितत्वान्नोक्तदोषः । अत एव ‘दीर्घो लघोः’ इति सूत्रे लघोरिति सार्थकम् । माधवोऽपि जागृधातावित्थमेवाह । एवं च वदन् यथोद्देशपक्षमेवाशिश्रयत् । तथाच ऊर्णुधातौ यत्तेनोक्तमौर्णुनवदित्यत्र ‘दीर्घो लघोः’ इत्यभ्यासस्य दीर्घो न भवति चङ्परे णौ यदङ्गं तस्य योऽभ्यास इति सूत्रार्थात् । अत्र त्वज्ञावयवाभ्यासो न त्वङ्गस्येत्यादि तत्र तस्याप्याग्रहो नास्तीति गम्प्रते । अत एव चकास्तावचीचकासदित्युदाजहार । तथा च मतमेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति । कातच्चपरिशिष्टे त्वित्वदीर्घयोः अजीजागरदित्युदाहृतं, तन्मतद्वयेऽप्यसंभवादुपेक्ष्यम् । व्यवस्थामेव विवृणोति—णेरिति । सन्निहितमिति हेतुगर्भविशेषणं, लघुनीत्येतत् णेर्विशेष्यं भवति सन्निहितत्वादित्यर्थः ॥—अङ्गमेवेति । अस्य चङ्परे इत्यत्र आदेशरूपचङ्गं आकाङ्क्षाभावेऽपि णाविति प्रत्ययांशे उत्थिताकाङ्क्षत्वादिति हेतुः साष्ट एवेति भावः ॥—कैयटेनैवेति । तथा च एकं हरदत्तमतम्, अपरं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्ष्या इति भावः । चङ्पर इत्यावर्त्य अग्लोपविशेषणतथापि योजितं तस्य फलमाह—णेरिति । श्रिष्ठुषु परतोऽग्लोपित्वासंभवादिहापि चङ्पर इत्येतावतैव णाविति लभ्यत इति बोध्यम् ॥—अगितामपीति । पचिकमिशकिप्रभृतीनामित्यर्थः । नहीत्संज्ञकानां लोपो णिचं प्रतीक्षत इति भावः ॥—नोपदेशफलमिति । अनुस्वार इत्यर्थः ।—दंभ्रन्तीति । ‘नुगतोऽनुनासिकान्तस्य’ इत्यभ्यासस्य नुक् ॥—गत्यादिध्विति । गतिशब्दसंभक्तिष्वित्यर्थः । मीमृ । ऋदित्फलं तु ‘नाग्लोपि’—इति निषेधः । अमिमीमत् ॥—ष्टिबुक्लमु—। ष्टीवति । क्लाम्यति ॥—आङि चम इति । ‘ष्टिबुक्लमु आचमाम्’ इति वृत्तिकारोक्त-पाठोऽयुक्त इति भावः ॥—जिमिं केचिदिति । तथाच जेमनमिति भोजने प्रयुज्यते
Bālamanoramā
दीर्घो लघोः - दीर्घोः लघो ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः ।सन्वल्लघुनि चङ्परे॑ इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते । तच्च प्रग्वदेवद्वेधा व्याख्येयम् । तथा च फलितमाह — सन्वद्भावविषय इति । 'सन्यत' इत्यत्र तपरत्वं स्पष्टार्थमिति 'दीर्घोऽकित' इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम तेत्यत्र अभ्यासेकारस्य दीर्घेऽभ्यासचुत्वेऽडागमे परिनिष्ठितं रूपमाह — अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति ।आयादय आर्धधातुके वे॑ति णिङो वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषैकवचने न भवति, तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवत्र्य चङ्परे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाऽभावात्सन्यत इत्यभ्यासाऽसकारस्य इत्त्वं च न भवतीत्यर्थः ।दीर्घो लघो॑रिति दीर्घविधौ सन्वत्त्वं न निमित्तं, किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः । अतो दीर्घसन्वद्भावाविति पृथगुक्तिः । अत पञ्चभिः श्लोकै#ः सन्वद्भावसूत्रं,दीर्घो लघो॑रिति सूत्रं च विशदयति — संज्ञाया इत्यादिना । अस्मिन् शास्त्रेकार्यकालं संज्ञापरिभाष॑मित्येकः पक्षः ।कार्यकाल॑मित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः ।यथोद्देशं संज्ञापरिभाष॑मिति पक्षान्तरम् । उद्देशाः — संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्तं समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषायां तदर्तस्यैवोपस्थितिर्न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः ।सन्वल्लघुनी॑ति सूत्रे,दीर्घो लघो॑रिति सूत्रे च अङ्गस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्षे 'पूर्वोऽभ्यास' इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी,कारकषष्ठआ बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्ररकृतिरूपं, न तु तदेकदेशः । ततश्च कृत्स्नमङ्ग#ं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैवदीर्घो लघो॑रिति दीर्घः,सन्वल्लघुनी॑ति सन्वद्भावश्च भवति । एवं च अङगस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचोऽङ्गैकदेशस्य द्विरुक्तेरिति माधवोमन्यत इति प्रथमश्लोकस्यार्थः ।नानेकाक्ष्वि॑त्युक्तं विशदयति — — चकास्तीति श्लोकेन ।चकासृ दीप्तौ॑ । अर्थमाचष्टे इत्यर्थे णिचिअर्थवेदयो॑रिति प्रकृतेरापुगागमे अर्थापिधातुः ।ऊर्णुञ् आच्छादने॑ ।एते त्रयोऽनेकाच्का धातवः । आदिना 'जागृ निद्राक्षये' इत्यादिसंग्रहः । एभ्यो ण्नय्तेभ्यश्चङि अङ्गं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते, तस्मादनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्क्यणिपरकलघोर्गकाराकारस्य 'जा' इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्व॑मिति समाहितं भाष्ये । तदेतदनेकाच्काङ्गेषु सन्वत्त्वस्याऽप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तभावादेव तत्र सन्वत्त्वस्याऽप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालम्ब्य#आह — वस्तुत इति ।अङ्गस्ये॑त्यवयवषष्टी । अङ्गावयवस्याभ्याससस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चङि 'नु' इत्येकदेशस्य द्वित्वेऽपि 'और्णूनुव' दित्यत्रदीर्घो लघो॑रित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वं तु प्रयोजनाऽभावादुपेक्षितम्, अभ्यासे अकाराऽभावेन 'सन्यत' इत्यस्याऽसंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिथातोश्चङि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपिअर्तीथप॑दित्यत्र सन्वद्भावात् 'सन्यत' इत्यभ्यासस्य इत्त्वम्, अभ्यासदीर्घश्चेति द्वयं भवतीति जानीम इति तृतीयश्लोकार्थः । 'अङ्गस्यावयव' इति पक्षेऽपि चकास्तौ विशेषमाह - चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था — वस्तुस्थितिः । व्यवस्थया । पक्षद्वयेनेति यावत् । 'चङ्परे' इत्यनेन अन्यपदार्थतया लब्धस्य णवित्यस्य संनिहितं लघुनीत्येतद्विशेष्यम् । तथा च 'चङ्परे णौ यल्लघु' इति प्रतमव्याख्यानं फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथा चचङ्परे णौ यदङ्ग॑मिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया = पक्षद्वयेन सन्वत्त्वं दीर्घश्चेत्युभयमिदं चकासृधातौ ण्यन्ते णिलोपे द्वित्वे अचचकासदित्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्रचङ्परे णौ यल्लघ्वि॑ति व्याख्यानेसति नैव उभयं स्यात्, चङ्परस्य णेः कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधनानन्यायात्सोढव्यमेव ।चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्त्वादिति बोध्यम् । ननु चङ्परे णौ यल्लध्विति, चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह — व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ।आदर्तव्यते॑ति शेषः । ननु णौ इत्यवृत्तिमभ्युपगमस्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह — णेरग्लोपेऽपीति । अगितामिति । 'कमुकान्ता' वित्यादिनामपीत्यर्थः । सिद्धय इति । दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गताः । क्रम्यन्ता इति । 'क्रमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः । 'अनुनासिकान्ता' इति शेषः । अण रणेति । ऋदित्त्वंनाग्लोपी॑ति निषेधार्थम् । ध्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह — रषाभ्यामिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह — णोपदेशेति । नकारस्थानिकणोपदेशस्य 'नश्चे' त्यनुस्वारात्मककं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति । ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्ये॑ त्यब्यासस्य नुकि उत्तरखण्डे णकारएव श्रूयेतेति परसवर्णे तस्याऽसिद्धत्वाण्णत्वाऽभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरित भावः ।कन दीप्ती॑त्यारभ्य अम गत्यादिष्वित्यतः प्राक्तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नष्टकारः । तदाह -स्तनतीति । वन षणेति । द्वितीयः षोपदेशः । ननु 'ष्टन वन शब्दे' इति वनेः पठितस्य पुनः व्यर्थ इत्यत आह — अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्रष्टन वन शब्दे संभक्तौ चे॑त्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । 'ष्टन शब्दे' इत्युक्त्वावन संभक्तौ चे॑ति पाठे तु गौरवमिति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 377 १ क्रामत्विति—उत्क्रामेत्यत्र हेर्छुकि दीर्घो भवत्येव । ‘क्रम’ इति सूत्रेऽनुवृत्तस्याङ्गस्य परस्मैपदपरशित्रिरूपितस्यैव ग्रहणात् । हेर्छु-क्यपि तन्निरूपिताङ्गस्य कार्याभावेन नछुमतेत्यस्याप्रवृत्तेः । २ ततः परेपामिति—यद्यपीटः पीध्वमवयवत्वात्तस्य ततः परत्वं दुरु-पपादं, तथापि श्रुतिकृतानन्तर्यमात्रेण शाखस्य प्रवृत्तिः सामर्थ्याद्दोध्या ।
SK 2319 · A 6.4.43V
ये विभाषा ॥ २३१९ ॥
ye vibhāṣā
Siddhānta-kaumudī
जनसनखनामात्वं वा स्याद्यादौ क्ङिति । सायात् । सन्यात् ।{$ {!465 अम!} गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः$} । अमति । आम ।{$ {!466 द्रम!} {!467 हम्म!} {!468 मीमृ!} गतौ$} । द्रमति । दद्राम । ह्म्यन्त -SK 2288 इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च ।{$ {!469 चमु!} {!470 छमु!} {!471 जमु!} {!472 झमु!} अदने$} ॥
Bālamanoramā
ये विभाषा - आशीर्लिङि विशेषमाह — ये विभाषा ।जनसनखनां सञ्झलो॑रित्यतो जनसनखनाभित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्ङितीति । 'ये' इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविदिः ।विड्वनोरनुनासिकस्या॑दित्यत आदित्यनुवर्तते । तदाह — जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म । आद्योऽदुपधः । न वृद्धिरिति ।अद्रमी॑दित्यत्र हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायां ,ह्म्यन्ते॑त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्यअभ्यासे चर्चे॑त्यनेन जः । मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयं शब्दे चेति । मीमृधातुरित्यर्थः ।
SK 2320 · A 7.3.75V
ष्ठिवुक्लमुचमां शिति ॥ २३२० ॥
ṣṭhivuklamucamāṃ śiti
Siddhānta-kaumudī
एषामचो दीर्घः स्याच्छिति ।
vārttikaआङि चम इति वक्तव्यम्
(वार्तिकम्) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति ।{$ {!473 क्रमु!} पादविक्षेपे$} ॥
Bālamanoramā
ष्ठिवुक्लम्याचमां शिति - ष्ठिवुक्लम्वाच ।शमामष्टानां दीर्घः श्यनी॑त्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् । तदाह — — एषामचो दीर्घ इति । ष्टिवु क्लमु आचम् एषां द्वन्द्वः । आचमित्यनेन आङपूर्वकस्य चमेग्र्रहणम् । अचमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । क्रमु पादेति । उदित्त्वमुदितो वेति विकल्पार्थम् ।
SK 2321 · A 3.1.70V
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ॥ २३२१ ॥
vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ
Siddhānta-kaumudī
एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥
Tattvabodhinī
NSP p. 377—वा भ्राश—। उभयत्रवि-भाषेयम् । अनवस्थानार्थो भ्रमिः । क्लमित्रसी च दिवादी, तेभ्यो नित्यं प्राप्ते इतरेषामप्राप्ते चारम्भात् । भ्राश् भ्लाश् दीप्तौ । फणादावेतौ । भ्रमु चलने भ्वादिः, ज्वलादिः, फणादिरपि मनोरमायां पठ्यते तद्रभसादिति नव्याः । भ्रमु अनवस्थाने । दिवादिः, पुषादिः, शमादिः तत्र भ्वादेः भ्रम्यति भ्रमति । शमादेस्तु इयनि दीर्घे भ्राम्यतीति त्रैरूप्यम् । क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुट छेदने, लष कान्तौ
Bālamanoramā
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः - वा भ्राश । 'दिवादिब्यः श्य' नित्यतः श्यन्निति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह -एभ्यः श्यन्वेत्यादि ।
SK 2322 · A 7.3.76V
क्रमः परस्मैपदेषु ॥ २३२२ ॥
kramaḥ parasmaipadeṣu
Siddhānta-kaumudī
क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥
Tattvabodhinī
NSP p. 377–378—क्रमः—॥ ‘ष्टिबुक्लमुचमाम्’—इत्यतोऽनुवर्तनादाह—परस्मैपदे शितीति । परस्मैपदे किम् । उपक्रमते । पराक्रमते ॥—स्नुक्रमोः—॥—अनात्मनेपदनिमित्तं इति । आत्मने-पदनिमित्ताभावे इत्यर्थः । अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम्, अनात्मनेपदनिमित्तयोरित्यर्थं इत्याहुः । उभयो-रपि भावकर्मकर्मव्यतिहारास्तङो निमित्तम्, क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम् । स्नुक्रमोरुदात्तत्वादिटि सिद्धे नियमार्थोऽ-यमित्याह—अत्रैवेडिति । अनात्मनेपदेति किम् । उपक्रोध्यते जलेन । उपक्रंस्यते । आक्रंस्यते । निमित्त इति किम् । स्नौतीति स्रविता, न इवाचरति स्रवित्रीयते । इह क्यङ् आत्मनेपदनिमित्तं न तु स्नौतिरित्याहुः ॥—लुङ्लिटां धस्येति । लिटि । लिलिहिड्डे । लिलिहिध्वे ॥—अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः । क्रूयी शब्दे उन्दे च । उन्दः क्लेदनम्
Bālamanoramā
क्रमः परस्मैपदेषु - क्रमः । दीर्घः स्यादिति ।शमामष्टाना॑मित्यतस्तदनुवृत्तेरिति भावः । शितीति ।ष्ठिवुक्लम्वाचमा॑मित्यतस्तदनुवृत्तेरिति भावः । क्रामत्विति । मध्यमपुरुषैकवचने क्रमेत्यत्र तुक्रमः परस्मैपदेष्वि॑ति दीर्घो भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वान्नलुममेति निषेधः शङ्क्यः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तेः । शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यं, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम् ।
Footnotes (NSP 1915 ed.)
NSP p. 378 १ पुनःप्रसङ्गेति—परे तु लिटीति विपयसप्तम्या आश्रयणं कुर्वन्ति । २ ल्रान्तस्येति—आगन्तुकेनाकारेण निर्देशः । कचिन्नाध्ये ल्रन्तस्येति पाठः ।
SK 2323 · A 7.2.36V
स्नुक्रमोरनात्मनेपदनिमित्ते ॥ २३२३ ॥
snukramoranātmanepadanimitte
Siddhānta-kaumudī
अत्रैवेट् । अक्रमीत् ।अथ रेवत्यन्ता अनुदात्तेतः ॥{$ {!474 अय!} {!475 वय!} {!476 पय!} {!477 मय!} {!478 चय!} {!479 तय!} {!480 णय!} गतौ$} । अयते ॥
Bālamanoramā
स्नुक्रमोरनात्मनेपदनिमित्ते - स्नुक्रमोः । पञ्चम्यर्थे षष्ठी । आत्मनेपदनिमित्तस्याऽभावः — अनात्मनेपदनिमित्तम् । अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह — अत्रैवेडिति । एवं च भावकर्मलकारेषु इण्न भवति । उपस्नोष्यते जलेन । बावलकारोऽयम् । उपक्रस्यते । कर्मणि लुट् । स्यः ।प्रस्नुत॑मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्,आर्धधातुकस्येड्वलादे॑रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् ।स्नुक्रमोरनात्मनेपदे॑ इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात् । आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गातः । रेवत्यन्ता इति ।रेवृ प्लवगता॑वित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः ।
SK 2324 · A 3.1.37V
दयायासश्च ॥ २३२४ ॥
dayāyāsaśca
Siddhānta-kaumudī
दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥
Bālamanoramā
दयायासश्च - दायायासश्च । दय अय आस् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुर्तते । तदाह — एभ्य आम् स्याल्लिटीति ।
SK 2325 · A 8.3.79V
विभाषेटः ॥ २३२५ ॥
vibhāṣeṭaḥ
Siddhānta-kaumudī
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥
Bālamanoramā
विभाषेटः - विभाषेटः ।इणः षीध्वंलुङ्लिटा धः॑ इत्यनुवर्तते ।अपदान्तस्ये॑त्यतो मूर्धन्य इति च । तदाह — इणः परो य इडित्यादि । इणन्तादङ्गादित्यर्थः । अयिषीढ्वमिति । लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटिधि चे॑ति सलोपः । ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः । अङ्गादिति । निवृत्तमिति केचित् ।
SK 2326 · A 8.2.19V
उपसर्गस्यायतौ ॥ २३२६ ॥
upasargasyāyatau
Siddhānta-kaumudī
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथमुदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ।{$ {!481 दय!} दानगतिरक्षणहिंसादानेषु$} । आदानं ग्रहणम् । दयांचक्रे ।{$ {!482 रय!} गतौ $}।{$ {!483 ऊयी!} तन्तुसन्ताने$} । ऊयांचक्रे ।{$ {!484 पूयी!} विशरणे दुर्गन्धे च$} । पूयते । पुपूये ।{$ {!485 क्नूयी!} शब्दे उन्दे च$} । चुक्नूये ।{$ {!486 क्ष्मायी!} विधूनने$} । चक्ष्माये ।{$ {!487 स्फायी!} {!488 ओप्यायी!} वृद्धौ$} । स्फायते । पस्फाये । प्यायते ॥
Bālamanoramā
उपसर्गस्यायतौ - उपसर्गस्याऽयतौ । अयताविति श्तिपा निर्देशः । 'कृपो रो ल' इत्यतो रो ल इत्यनुवर्तते । तदाह — अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । प्लायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह -निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह — निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः । तर्हि 'प्रत्यय' इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह - प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरतच्प्रत्यये 'प्रत्यय' इति रूपम् । अयतिपरत्वाऽभावान्न लत्वमित्यर्थः । अयधातुमादय 'प्लत्यय' इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।इधातो॑रिति शेषः । तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ।चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति । तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति 'ववये' इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह — प्रणयत इति ।उपसर्गादसमासेऽपी॑ति णत्वमिति भावः । दयांचक्र इति ।दयायासश्चे॑त्याम् । ऊयांचक्र इति । इजादित्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओप्यायीति । ओदित्त्वम्ओदितश्चे॑ति निष्ठानत्वार्थम् । ईदित्त्वं तुश्वीदितो निष्ठाया॑मितीण्निषेधार्थम् ।
SK 2327 · A 6.1.29V
लिड्यङोश्च ॥ २३२७ ॥
liḍyaṅośca
Siddhānta-kaumudī
लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः -SK 272 इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥
Tattvabodhinī
NSP p. 378—लिङ्यङोश्च ॥ यङि पेपीयते
Bālamanoramā
लिड्यङोश्च - लिङ्यङोश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी ।प्यायपी॑ति सूत्रमनुवर्तते । तदाह — लिटि यङि चेति । ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वेएरनेकाच॑इति यणि 'पिप्ये' इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति,विप्रतिषेधे यद्वाधितं तद्बाधितमेवे॑ति न्यायादित आह — पुनः प्रसङ्गेति ।पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः ।
SK 2328 · A 3.1.61V
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥ २३२८ ॥
dīpajanabudhapūritāyipyāyibhyo'nyatarasyām
Siddhānta-kaumudī
एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥
Tattvabodhinī
NSP p. 378—दीपजन—॥ दीपी दीतौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने । एते दिवादयः
Bālamanoramā
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् - दीपजन ।च्लेः सि॑जित्यत च्लेरिति, 'चिण् ते पदः' इत्यस्माच्चिण् ते इति चानुवर्तते । तदाह — एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः ।
SK 2329 · A 6.4.104V
चिणो लुक् ॥ २३२९ ॥
ciṇo luk
Siddhānta-kaumudī
चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - SK 2275 इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥
Tattvabodhinī
NSP p. 378—चिणो लुक् ॥—परस्य लुक् स्यादिति । तशब्दस्येति कैश्चित्पत्र्यते तदार्थि-कार्थकथनम् । तशब्दे परतः चिणि विहिते चिणः परस्य जायमानो लुक् ‘प्रत्ययस्य लुक्शुलुपः’ इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् ॥—अयमिति । षेष्ट् धातुः ॥—भाष्यविरुद्धमिति । यदि सोपदेशः स्यात्तदा स्त्यायतिरिवायमपि षोपदे-शलक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः ॥—प्लवगताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि-मनोरमायां दूषितम् । प्लवेति धात्वन्तरत्वे ‘विभाषा ङि रुक्मोः’ इत्यत्र प्लवः पक्षे धन्विधानं व्यर्थं स्यात् । प्लवेत्येतस्माद् घनि आप्लवशब्दस्य सिद्धत्वात् । तथा ‘स्रवतिशृणोति—’ इति सूत्रेण प्लवतेरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात् तद्धि-पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोः ‘सन्यतः’ इत्यनेन सिद्धमिति किं तदुपादानेनेति ॥—मम-व्येति । ‘यस्य हलः’ इति लोपस्तु न भवति, यस्येति संधातप्रहणमिति सिद्धान्तितत्त्वात् । वर्णप्रहणे त्वर्थवद्ग्रहणपरिभाषाया-अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि, मव्यिता । आशिषि, मव्यात् । ‘हलो मयाम्—’ इति धातुय-कारस्य वा लोपः । सूक्ष्यं ईक्ष्यं । णलि । सुपूक्ष्यं । ईक्ष्याचकार । ईर्ष्याचकर । एभ्यः किपि ‘लोपो व्योः—’ ‘स्कोः’ इति कलोपे जश्लचत्वेयोः सूर्द् ईर्द् । संयोगान्तलोपस्त्विह न भवति ‘रात्सस्य’ इति नियमात्सूक्ष्यं आदर इति वक्ष्यते तस्यापि सूर्द् इत्येव रूपम् । हय गतौ । जहाय । हय्यात् ॥—शिथिलीकरणमिति । सोममभिषुणोतीत्यादौ दर्शनात् ॥—सुराया इति । तत्प्रकरणे ‘संधानं स्यादभिषवः’ इत्यमरोक्तेः
Bālamanoramā
चिणो लुक् - चिणो लुक् । 'चिण' इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । 'अव रक्षणे' इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।
SK 2330 · A 7.2.2V
अतो ल्रान्तस्य ॥ २३३० ॥
ato lrāntasya
Siddhānta-kaumudī
ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि SK 2268 इति निषेधस्याअतो हलादेः - SK 2284 इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि ।{$ {!516 ञिफला!} विशरणे$} । तॄफल - SK 2301 इत्येत्वम् । फेलतुः । फेलुः । अफालीत् ।{$ {!517 मील!} {!518 श्मील!} {!519 स्मील!} {!520 क्ष्मील!} निमेषणे$} । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः ।{$ {!521 पील!} प्रतिष्टम्भे $}। प्रतिष्टम्भो रोधनम् ।{$ {!522 णील!} वर्णे$} ।{$ {!523 शील!} समाधौ$} । शीलति ।{$ {!524 कील!} बन्धने {!525 कूल!} आवरणे $}।{$ {!526 शूल!} रुजायां संघोषे च$} ।{$ {!527 तूल!} निष्कर्षे$} । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल ।{$ {!528 पूल!} संघाते$} ।{$ {!529 मूल!} प्रतिष्ठायाम्$} ।{$ {!530 फल!} निष्पत्तौ $}। फेलतुः । फेलुः ।{$ {!531 चुल्ल!} भावकरणे$} । भावकरणमभिप्रायाविष्कारः ।{$ {!532 फुल्ल!} विकसने$} ।{$ {!533 चिल्ल!} शैथिल्ये भावकरणे च$} ।{$ {!534 तिल!} गतौ$} । तेलति । तिल्ल इत्येके । तिल्लति ।{$ {!535 वेलृ!} {!536 चेलृ!} {!537 केलृ!} {!538 खेलृ!} {!539 क्ष्वेलृ!} {!540 वेल्ल!} चलने $}। पञ्च ऋदितः । षष्ठो लोपधः ।{$ {!541 पेलृ!} {!542 फेलृ!} {!543 शेलृ!} गतौ$} । षेलृ इत्येके ।{$ {!544 स्खल!} संचलने$} । चस्काल । अस्खालीत् ।{$ {!545 खल!} संचये$} ।{$ {!546 गल!} अदने$} । गलति । अगालीत् ।{$ {!547 षल!} गतौ$} । सलति ।{$ {!548 दल!} विशरणे$} ।{$ {!549 श्वल!} {!550 श्वल्ल!} आशुगमने$} । शश्वाल । अश्वालीत् । अश्वल्लीत् ।{$ {!551 खोलृ!} {!552 खोर्ऋ!} गतिप्रतिघाते$} । खोलति । खोरति ।{$ {!553 धोर्ऋ!} गतिचातुर्ये$} । धोरति ।{$ {!554 त्सर!} छद्मगतौ$} । तत्सार । अत्सारीत् ।{$ {!555 क्मर!} हूर्च्छने$} । चक्मार ।{$ {!556 अभ्र!} {!557 वभ्र!} {!558 मभ्र!} {!559 चर!} गत्यर्थाः$} । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः ।{$ {!560 ष्ठिवु!} निरसने $}। ष्ठिवुक्लमु - SK 2320इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च SK 354 इति दीर्घः । ष्ठीव्यात् ।{$ {!561 जि!} जये$} । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥
Tattvabodhinī
NSP p. 378–379—अतो ल्रान्तस्य । यशवयववचनेनान्तशब्देन बहु-व्रीहिरङ्गं चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तप्रहणमनर्थकम् । अश्वल्लीदित्यत्रातिव्याप्तिश्च समीपवाचिना-अन्तःशब्देन पष्ठीसमासपक्षे रपिरणिशल्लप्रभृतिष्वतिव्याप्तिः, अङ्गस्यातः लोः समीपत्वात् । लं च तदन्तश्चेति समीपवा-चिनान्तःशब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह—लुप्तपष्ठीकमिति । अन्तःशब्दः समीपवाचीलाभिप्रेत्याह—अतः समीपाविति ॥—अतो वृद्धिः स्यादिति । इह अत इत्यस्य तन्त्रावृत्त्यादिकं स्वीकर्तव्यम् । अन्यथा प्रयोजनाभावादिकपरिभाषानुपस्थानेऽप्यलोन्त्यपरिभाषयान्त्यस्य स्यादिति भावः । यद्यपि ‘अतो लूय’ इत्युक्तेऽपि लान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थं स्वीकृते ‘येन नाव्यवधान’ न्यायेनेष्टं सिध्यति तथाप्यङ्गस्य सिचि परे अतो वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाश्वल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तग्रहणं कृतमिति । तदनुरोधेनान्तशब्दस्य समीपवाचित्वमत इत्यस्य चानुवृत्तिः स्वीकृतेति बोध्यम् । अतः समीपाविति किम् । अस्त्रोरीत् । अमीलीत् । लान्तस्याङ्गस्य किम् । श्वल्ल आशु गमने । अश्वल्लीत् । अत्र अकारसमीपो यो लकारः स नाङ्गस्यान्तः, यस्त्वङ्गस्यान्तः स तु नाकारस्य समीपः । ननु लूयस्य लुप्तपृष्ठीकलाभ्युपगमेऽप्यन्तशब्दस्यावयववाचित्वं स्वीकृत्य अङ्गस्यान्तं यत् लूं तस्यातः तत्समीपस्यातो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिर्नापेक्षितेति चेत् । अत्राहुः । ‘हलन्त्यम्’ इति सूत्रे मनोरमायां ‘सामीप्यं षष्ठ्यर्थः’ इति पक्षस्य निराकरणात्तदनुरोधेनात्रात इत्यस्यावृत्तिराश्रितेति । अत्र केचित् । ‘अतो लान्तस्य’ इत्यत्र लूति लुप्तसप्तमीकम् । अथवा ‘अतो, लान्त’ इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा च ‘अङ्गस्यान्तं यद् लूं तस्मिन्परेऽव्यवहितस्यातो वृद्धिरिति व्याख्यानसंभवान्न तन्त्रावृत्त्याद्याश्रयणक्लेशः । न चाङ्गस्य विशेष्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेन ‘पदाङ्गाधिकारे तस्य च तदन्तस्य च’ इति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम् । ‘अल्लोपोऽनः’ इति सूत्रेऽङ्गावयवोऽसर्वनामस्थानेत्येवं भाष्यकारादिभिर्विशेषणतया व्याख्यानात्कचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिरित्याहुः ॥—नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेन नेटीत्यस्यापवादो न तु विकल्पस्यापि तथापि वाध्यसामान्यचिन्तायां स्वविषये प्राप्तं सर्वं वाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः ॥—मील संकोचे इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल ल्लेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । धोक्तुं । धोरितकमश्वानां गतिविशेषः । निष्ठान्तात्संज्ञायां कन् ॥ त्सर । छद्मना कपटेन गतिः छद्मगतिः । कमर हूर्छने । हूर्छनं कौटिल्यम् । प्रियु निरसने । अस्य त्युटि ष्ठेवनम् । ‘ष्ठीवनाऽप्तकशक्तमूत्ररेतांसप्सु न निक्षिपेत्’ इत्यत्र पृषोदरादित्वात्पक्षे दीर्घ ईकार इत्याहुः
Bālamanoramā
अतो ल्रान्तस्य - अतो ल्रान्तस्य ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवृत्तम् । अङ्गस्येत्यधिकृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धेऽन्तग्रहणं व्यर्थम् । तत्राह - ल्रेति लुप्तषष्ठीकमिति । ल्र अन्तस्य इति छेदः । ल् च रश्चेति समाहारद्वन्द्वात्षष्ठएकवचनं लुप्तम् । ल्रस्यान्तस्येति सामानाधिकरण्येनान्वयः । 'अत' इति व्यधिकरणषष्ठन्तम् — अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो ल्रस्येति लभ्यते । ल्रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः । ततश्च अत्समीपवर्तिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । 'अत' इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति तदाह — अतः समीपावित्यादिना । अतः समीप इति किम् । अखोरीत् । अमीलीत् । ल्रान्तस्येति किम् । मा भवनातीति । अतो वृद्धिरुत्युक्ता अतः समीपावित्यनुक्तौ तु अवभ्रीत् अआल्लीदित्यत्रातिपव्याप्तिः । अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः । न चात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः, आलीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यं, सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणेऽतिव्याप्तवारणार्थत्वात् । ञि फलेति । विशरणं — शिथिलीभावः । 'आदिर्ञिटुडवःर' इति ञिरित् । 'ञीतः क्तः' इति प्रयोजनम् ।आदितश्चे॑ति तीण्निषेधार्थमादित्त्वम् । लिण्निमित्तादेशादित्वादप्राप्ते आह -तृफलेति । मील श्मीलेति । निमेषणं — नेत्रसंकोचः । संकोचेति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्ताविति । ञि फलेति पूर्वं पठितम् । अनुबन्धभेदात्पुनः पाठः । खोलृ खोरृ इति । द्वितीयो रेफान्त ऋदित् । इत आरभ्यष्ठिवेः प्राग्रेफान्ताः । धोरृगतिचातुर्य इति । अआगतिविशेष इत्यर्थः । रेपान्तोऽयम्, ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः । क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः, उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग्वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह -ष्विनुक्लम्वितीति । ल्युटि तु शित्परकत्वाऽभावाद्धीर्घऽभावे लघूपधगुणः । 'ष्ठीवन' मिति तु पृषोदरादित्वात्समाधेयम् । अस्येति । ष्ठिनुधातोर्द्वितीयो वर्णस्थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयं, केवलदन्त्यथकारपरकसादित्वात् । षोपदेशत्वेऽपि न सत्वम्, 'सुब्धातुष्ठिवु' ति निषेधात् । लिटि तु 'शर्पूर्वाः खयःर' इति षकारवकारयोर्निवृत्त्या ष्टुत्वनिवृत्तौ रूपमाह — तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सँल्लिटोर्जेः ।अभ्यासाच्चे॑ति सूत्रादभ्यासादित्यनुवर्तते ।चजोः कुघिण्यतो॑रित्यस्मात्कु इति च ।संल्लिटो॑रिति निमित्तसप्तमी अभ्यासे अन्वेति । तदाह - संल्लिण्निमित्तो योऽभ्यास इत्यादि ।सनि लिटि च अभ्यासात् परस्य कुत्व॑मिति व्याख्याने तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात् । अतःसंल्लिण्निमित्तो योऽभ्यास॑ इति व्याख्येयमिति माधवः । जिगायेति । णलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद्गुणाऽभावः । लिटि 'एकाच' इति इण्निषेधं बाधित्वा क्रादिनियमादिटि प्राप्ते,थलिअचस्तास्व॑दिति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः । तदाह — जिगयिथ जिगेथेति । जिग्यथुः । जिग्य ।णलुत्तमो वे॑ति मत्वा आह — जिगाय जिगयेति । क्रादिनियमादिटं मत्वा आह — जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु ।अजयत् । आशीर्लिङिअकृत्सार्वधातुकयो॑रिति दीर्घ मत्वा आह — जीयादिति । अजैषीदिति ।सिचि वृद्धि॑रिति वृद्धिरिति भावः । अजेष्यते । षर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम् । तदाह — इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादमिति भाव- । पिवि मिवीत्यादय इदितः ।
SK 2331 · A 7.3.57V
सन्लिटोर्जेः ॥ २३३१ ॥
sanliṭorjeḥ
Siddhānta-kaumudī
जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् ।{$ {!562 जीव!} प्राणधारणे $}। जिजीव ।{$ {!563 पीव!} {!564 मीव!} {!565 तीव!} {!566 णीव!} स्थौल्ये$} । पिपीव । मिमीव । तितीव । निनीव ।{$ {!567 क्षिवु!} {!568 क्षेवु!} निरसने {!569 उर्वी!} {!570 तुर्वी!} {!571 थुर्वी!} {!572 दुर्वी!} {!573 धुर्वी!} हिंसार्थाः$} । ऊर्वांचकार । उपधायां च SK 2265 इति दीर्घः । तुतूर्व ।{$ {!574 गुर्वी!} उद्यमने$} । गूर्वति । जुगूर्व ।{$ {!575 मुर्वी!} बन्धने$} ।{$ {!576 पुर्व!} {!577 पर्व!} {!578 मर्व!} पूरणे$} ।{$ {!579 चर्व!} अदने$} ।{$ {!580 भर्व!} हिंसायाम्$} ।{$ {!581 कर्व!} {!582 खर्व!} {!583 गर्व!} दर्पे$} ।{$ {!584 अर्व!} {!585 शर्व!} {!586 षर्व!} हिंसायाम्$} । आनर्व । शर्वति । सर्वति ।{$ {!587 इवि!} व्याप्तौ$} । इन्वति । इन्वांचकार ।{$ {!588 पिवि!} {!589 मिवि!} {!590 णिवि!} सेचने$} । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व ।{$ {!591 हिवि!} {!592 दिवि!}$} ।{$ {!593 धिवि!} {!594 जिवि!} प्राणनार्थाः$} । हिन्वति । दिन्वति ॥
Tattvabodhinī
NSP p. 379–380—सन्लिटोर्जेः ॥—सन्लिण्निमित्त इति । यदि तु सनि लिटि च परे योऽभ्यास इति प्राची व्याख्यानमाद्रियेत तदा ‘येन नाव्यवधान’ न्यायेन प्रकृतिव्यवधानं सोढव्यमेव परं तु यङ्छुगन्तात्सनि जेजयिपतीत्यत्र कृत्वं स्यात्, न च तन्माधवप्रन्थसंमतमिति भावः
SK 2332 · A 3.1.80V
धिन्विकृण्व्योर च ॥ २३३२ ॥
dhinvikṛṇvyora ca
Siddhānta-kaumudī
अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः SK 2308 । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥
Tattvabodhinī
NSP p. 380—धिन्विकृण्व्योर च । ‘अलोऽन्त्यस्य’ इति वकारस्याकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । वोपदेवेन लनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः ॥—अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति तथाप्यार्धधातुकोपदेशे तदस्त्येव । ‘धिन्विकृण्व्योर च’ इति श्रुतलात् अकारादेशे कृते चानुकृष्टस्य पश्चाज्जायमानलादिति भावः
Bālamanoramā
धिन्विकृण्व्योर च - धिन्विकृण्व्योः । 'अ' इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः । 'तनादिकृञ्भ्यः उः' इत्यत उरिति चकारादनुकृष्यते ।कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति च । तदाह — अनयोरित्यादिना । वकारस्याऽकारः । दिन् अ उ तीति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आर्धधातुकोपदेशेकाले 'धिन' इत्यस्याऽदन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह — तस्येति । वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः । तथा च धिनु तीति स्थिते आह — उप्रत्ययस्येति । धिनुत इति । धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः । तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व् इत्यस्माज्झिः । झोऽन्तः । उप्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत् वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं 'भोभगो' इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि ।
SK 2333 · A 6.4.107V
लोपश्चास्यान्यतरस्यां म्वोः ॥ २३३३ ॥
lopaścāsyānyatarasyāṃ mvoḥ
Siddhānta-kaumudī
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥
Tattvabodhinī
NSP p. 380—लोपश्चा—॥—यः प्रत्ययोकार इति । असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम् । अक्षुण्वः अक्षुण्म इत्यादावनिष्टाभावेऽपि अश्रुवहे इत्यादावतिप्रसङ्गात् । एवम् ‘उतश्च—’ इति सूत्रेऽपि अक्षुण्हीत्यत्र दोषाभावेऽपि अश्रुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं न कृतमित्याहुः । अश्रुहीति परस्मैपदं यद्यपि लोके दुर्लभं तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं वोध्यम् । आमुहीति पाठस्तूचितः ॥—कृवि ।—अयमिति । कृणोतीत्यादिरित्यर्थः । स्वादौ हि कृवीत्ययं धातुर्न पश्यते, किं तु कृञ् हिंसायामिति । तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः । अद्य रक्षणे । एकोनविंशतिरर्थाः । कान्तिः शोभा । दीप्तिस्तेज इत्याहुः । तृप्तिरिच्छानाशः । स्वाम्यर्थः स्वामित्वम् । हिंसा हननम् । आदानं ग्रहणम् । न चात्र दानमेवार्थोऽस्त्विति वाच्यम् । ‘भागे वृद्धौ ग्रहे वधे’ इत्येवमर्थानां विशिष्य वोपदेवेन गणितत्वात् । भिक्षु । याज्ञालाभालाभाल्लयोऽर्थाः । स्वामी तु क्लेश अव्यक्तायां वाचि चेति पठित्वा इमावपि भिक्षुधातोरर्थाविति मन्यते । क्लिश उपतापे इति दिवादौ । क्लिश्च विवाधने इति क्र्यादौ । दीक्षु । पश्चार्थाः । ईष गति । ‘गुरोश्च हलः’ इत्यप्रत्यये टाप् । ईषा । मनस ईषा मनीषा । शकन्ध्वादिः । मनीषामभिनिविष्टं मनीषितम् । ‘प्रातिपदिकाद्धालये वहुलमिष्ठवच्च’ इति णिचि तदन्तात् क्तः । ईष उञ्छे इति तु परस्मैपदिषु । हस्वादयल्लयः । ईष गतौ दिवादिः । ईष इच्छायां तुदादिः । ईष आभीक्ष्ये क्र्यादिः
Bālamanoramā
लोपश्चास्यान्यतरस्यां म्वोः - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । 'प्रत्यय — उकार' इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु ।
SK 2334 · A 6.4.106V
उतश्च प्रत्ययादसंयोगपूर्वात् ॥ २३३४ ॥
utaśca pratyayādasaṃyogapūrvāt
Siddhānta-kaumudī
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि ।{$ {!595 रिवि!} {!596 रवि!} {!597 धवि!} गत्यर्थाः$} । रिण्वति । रण्वति । धन्वति ।{$ {!598 कृवि!} हिंसाकरणयोश्च $}। चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयं स्वादौ च ।{$ {!599 मव!} बन्धने$} । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् ।{$ {!600 अव!} रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु$} । अवति । आव । मा भवानवीत् ।{$ {!601 धावु!} गतिशुद्ध्योः$} । स्वरितेत् । धावति । धावते । दधाव । दधावे ॥ अथोष्मान्ता आत्मनेपदिनः ।{$ {!602 धुक्ष!} {!603 धिक्ष!} संदीपनक्लेशनजीवनेषु $}। धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे ।{$ {!604 वृक्ष!} वरणे$} । वृक्षते ववृक्षे ।{$ {!605 शिक्ष!} विद्योपादाने$} । शिक्षते ।{$ {!606 भिक्ष!} भिक्षायामलाभे लाभे च$} । भिक्षते ।{$ {!607 क्लेश!} अव्यक्तायां वाचि$} । बाधन इति दुर्गः । क्लेशते चिक्लेशे ।{$ {!608 दक्ष!} वृद्धौ शीघ्रार्थे च$} । दक्षते । ददक्षे ।{$ {!609 दीक्ष!} मौण्ड्येज्योपनयननियमव्रतादेशेषु $}। दीक्षते । दिदीक्षे ।{$ {!610 ईक्ष!} दर्शने$} । ईक्षांचक्रे ।{$ {!611 ईष!} गतिहिंसादर्शनेषु$} । ईषांचक्रे ।{$ {!612 भाष!} व्यक्तायां वाचि$} । भाषते ।{$ {!613 वर्ष!} स्नेहने$} । दन्त्योष्ठ्यादिः । ववर्षे ।{$ {!614 गेषृ!} अन्विच्छायाम्$} । ग्लेषृ इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे ।{$ {!615 पेषृ!} प्रयत्ने पेषते$} ।{$ {!616 जेषृ!} {!617 णेषृ!} {!618 एषृ!} {!619 प्रेषृ!} गतौ$} । जेषते । नेषते । एषांचक्रे । पिप्रेषे ।{$ {!620 रेषृ!} {!621 हेषृ!} {!622 ह्रेषृ!} अव्यक्ते शब्दे$} । आद्यो वृकशब्दे । ततो द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते ।{$ {!623 कासृ!} शब्दकुत्सायाम्$} । कासांचक्रे ।{$ {!624 भासृ!} दीप्तौ$} । बभासे ।{$ {!625 णासृ!} {!626 रासृ!} शब्दे$} । नासते । प्रणासते ।{$ {!627 णस!} कौटिल्ये$} । नसते ।{$ {!628 भ्यस!} भये$} । भ्यसते । बभ्यसे ।{$ {!629 आङः!} शसि इच्छायाम्$} । आशंसते । आशशंसे ।{$ {!630 ग्रसु!} {!631 ग्लसु!} अदने$} । जग्रसे । जग्लसे ।{$ {!632 ईह!} चेष्टायाम्$} । ईहांचक्रे ।{$ {!633 वहि!} {!634 महि!} वृद्धौ$} । बंहते । बबंहे । मंहते ।{$ {!635 अहि!} गतौ$} । अंहते । आनंहे ।{$ {!636 गर्ह!} {!637 गल्ह!} कुत्सायाम्$} । जगर्हे । जगल्हे ।{$ {!638 बर्ह!} {!639 बल्ह!} प्राधान्ये$} । ओष्ठ्यादी ।{$ {!640 वर्ह!} {!641 वल्ह!} परिभाषणहिंसाच्छादनेषु$} । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः ।{$ {!642 प्लिह!} गतौ$} । पिप्लिहे ।{$ {!643 वेहृ!} {!644 जेहृ!} {!645 बाहृ!} प्रयत्ने$} । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे ।{$ {!646 द्राहृ!} निद्राक्षये$} । निक्षेपे इत्येके ।{$ {!647 काशृ!} दीप्तौ$} । चकाशे ।{$ {!648 ऊह!} वितर्के$} । ऊहांचक्रे ।{$ {!649 गाहू!} विलोडने$} । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥
Tattvabodhinī
alignment inferredNSP p. 380–381—कासांचक्रे इति । ‘कास्प्रत्ययात्—’ इत्याम् । भासृ दीप्तौ । अस्य ऋदित्वं भ्राजतेरिव तङ्मात्रफलकम् । ‘भ्राजभास—’ इत्यादिनोपधाहस्वस्य विकल्पितत्वात् । णस कौटिल्ये । लिण्निमित्तादेशादित्वाभावादेत्वम् । नेसे । आङः शस्ति । शंसु सुताविति तु परस्मैपदिषु वक्ष्यते । ग्रस्तु ग्लस्तु । 'उदितो वा' इति क्त्वायां वेद् । प्रसिला । प्रस्त्वा । 'यस्य विभाषा' इति नेद् । प्रस्तः । वेह जेह वाह ॥—आद्य इति । वेहतेरति प्रत्यये वेहतशब्दो निपातितः । 'पोटायुवति—' इति सूत्रे इति भावः । वेहद्वर्भोपधातिनी ॥—अन्त्य इति । वाहुशब्दस्य भुजपर्यायस्य 'शुब्धस्वान्तध्वान्त—' इति निपातितस्य वाढशब्दस्य च निर्विवादलादिति भावः ॥—दन्त्योष्ठ्यादी इति । उभावपीलनुषज्यते । अनुदात्तेत्त्वकृतमात्मनेपदमनित्यम् । तेन 'ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः' इति सिद्धम् । न चात्रार्थासंगतिः । धातूनामनेकार्थलात्प्रस्रवणार्थकत्वे वाधकाभावादित्याहुः । ऊह । कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इति । अत्राहुः । अनुदात्तेत्त्वलक्षणस्य तङोऽनित्यलान्न दोष इति । गाहू । ऊदित्त्वादिङ्मा । इडभावे ढलम् । 'एकाचः—' इति भष्मावः । 'पढोः कः सि' इति कः । कात्परस्य षलम् । जघाक्षे । 'विभाषेटः' इति वा मूर्धन्यः । जगाहिङ्मे । जगाहिध्वे । इडभावे तु भष्मावः
Bālamanoramā
उतश्च प्रत्ययादसंयोगपूर्वात् - उतश्च ।हेर्लुक्स्यादिति ।चिणो लु॑गित्यतो॒ऽतो हे॑तित्यतश्च तदनुवृत्तेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेर्निभावमाडुत्तमस्येत्याडागमं च बाधित्वा परत्वादुकारस्यलोपश्चास्यान्यतस्या॑मिति लोपमाशङ्क्याह — नित्यत्वादित्यादि । निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोरुकारलोपस्याऽप्रसक्तौ आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुणेऽवादेशे च धिनवानीति रूपमिति भावः । अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति । धिविव्दरूपाणीति भावः । अयं स्वादौ चेति । कृविरित्यर्थः । अव रक्षणेति । स्वाम्यर्थः- ऐआर्यम् । मा भवानवीदिति ।नेटी॑ति न वृद्धिः । मव्यादयोऽवत्यन्ताः पर्समैपदिनो गताः । धावु गतीति । उदिदयम् । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदम्, अन्यथा परस्मैपदमित भावः । अथोष्मान्ता इति । तत्र 'धुक्षे' त्यारभ्य कासृधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्षमौण्डएति । णेषृधातुर्णोपदेशः । कासृधातुमारभ्य ईहधातोः सकारान्ताः । कासांचक्र इति । कास्प्रत्ययादित्याम् । णासृधातुर्णसधातुश्च णोपदेशः । आङ शसीति । आङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काशृधातुवर्जं घुषि कान्तीत्यतः प्राक् — हकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहहधातुरदुपधः । ऊह वितर्के इति । युक्त्या अर्थनिर्णयो वितर्कः ।अनुक्तमप्यूहति पण्डितो जनः॑ इत्यत्र तु अनुदात्तेत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाह्धातुरूदित्त्वाद्वेट् । तदाह — जगाहिषे जघाक्षे इति । इडभावे जगाह् से इति स्थितेहो ढः॑, 'एकाच' इति भष्भावेन गस्य घः,षढो॑रिति ढस्य कः, सस्य षः । जगाहिढ्वे जगाहिध्वे इति । इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः । इडभावे त्वाह — जघाढ्व इति । जगाह्ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भष् घकारः । पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढलोपसूत्रं त्विहैव पठितुं युक्तम् । गाहितेति । इट्पक्षे रूपम् ।
SK 2335 · A 8.3.13V
ढो ढे लोपः ॥ २३३५ ॥
ḍho ḍhe lopaḥ
Siddhānta-kaumudī
ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि ।{$ {!650 गृहू!} गर्हणे$} । गर्हते । जगृहे ।
vārttikaऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन
(वार्तिकम्) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥
Tattvabodhinī
NSP p. 381—ढो ढे लोपः । जघाङ्मे । ढे किम् । ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढम्रहणे 'प्लुना प्लुः' इत्यस्य आश्रयात् सिद्धत्वं भवतीति सिद्धमिष्टमित्याहुः ॥—अगाढेति । 'झलो झलि' इति सलोपः । ढलधलप्लुढलोपाः । सिन्धो लोपात्पूर्वं भष्मावस्तु न । असिद्धलात् भष्मावस्तु सिज्लोपानन्तरमपि न भवति सकारपरलाभावात् ॥ न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सिच्परलाद्भष्मावो दुर्वार इति शङ्काम् । वर्णाश्रये प्रत्ययलक्षणाभावात् । अन्यथा गवे हितं गोहितमित्यत्रावादेशः स्यादिति दिक् ॥—जगृहे इति । किलात्परलात् 'पुगन्त—' इति गुणे प्राप्ते 'ऋदुपधेभ्यः' इति वार्तिकात्कित्त्वे गुणाभावः
Bālamanoramā
ढो ढे लोपः - इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ् — ढा इति स्थिते — इडभावे तु गाह् ता इति स्थिते ढो ढे । 'ढः' इति षष्ठन्तम् । तदाह — ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे 'गाढा' इति रूपम् । ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात् । घाक्ष्यते इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः । इडभावे त्वाह — अगाढेति । अगाह् स् त इति स्थिते सिच इडभावेझलो झली॑ति लोपः । ढत्वधत्वष्टुत्वढलोपः । सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतयाझलो झली॑ति सलोपस्य पूर्वं प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः । अधाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढा इति । थास् सिच् । इडभावे सलोपः । ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः । अघाक्षीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव- । अघाक्ष्वहि । अघाक्ष्महि । अगाहिष्यत अघाक्ष्यत । गृहूधातुरूदित् ऋदुपधः । गर्हते इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृहे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः ,ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने॑ति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्पं मत्वा आह — जगृहिषे जघृक्षे इति । अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह — जघृढ्वे इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गर्ढेति । इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः । घक्ष्र्यते इति । गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम् । अगर्हिष्टेति । सिच इटि गुणे रपरत्वे षत्वे रूपम् ।
SK 2336 · A 3.1.45V
शल इगुपधादनिटः क्सः ॥ २३३६ ॥
śala igupadhādaniṭaḥ ksaḥ
Siddhānta-kaumudī
इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥
Tattvabodhinī
NSP p. 381—शल इगुपधा—। शल इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् । अतिप्त । इगिति किम् । अगाढ । अनिटः किम् । औहिष्ट
Bālamanoramā
शल इगुपधादनिटः क्सः - शल इगुपधा । शलन्त इति । 'धातोरेकाचः' इत्यतोऽनुवृत्तधातुविशे,णत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः । क्सादेशोऽदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वादृकारस्य न गुणः । हस्य ढः, भष्भावः, ढस्य कः, षत्वमिति भावः ।
SK 2337 · A 7.3.72V
क्सस्याचि ॥ २३३७ ॥
ksasyāci
Siddhānta-kaumudī
अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-SK 42 । अघृक्षाताम् । अघृक्षन्त ।{$ {!651 ग्लह!} च$} । ग्लहते ।{$ {!652 घुषि!} कान्तिकरणे $}। घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः ।{$ {!653 घुषिर्!} अविशब्दने$} । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् ।{$ {!654 अक्षू!} व्याप्तौ$} ॥
Tattvabodhinī
NSP p. 381–382—क्सस्याचि ॥—अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः । तङीति तु केषांचित्प्रक्षेपस्तस्य काशिकादावनुक्तलादित्याहुः । अन्ये तु 'लुग्वा दुह—' इत्यत्र आत्मनेपद इत्यपकर्षणात्तङीति लभ्यते । तेन 'दृशेः क्सः' इति वार्तिकोक्तक्सप्रत्ययस्य लोपो न भवति सदृक्षा अन्यादृक्षा इत्यत्रेत्याहुः । घुषि कान्तिकरणे । लुङि । अधुषिष्ट अधुषिष्टात्तम् । अधुषधपाठे तु अधुषधपाठे तु अधुषीत् । अधुषीत् ॥—अतुक्षीदिति । 'नेदि' इति । दृढि- निषेधः । इडमावे तु अताक्षीत् ॥—प्रणिक्षतीति । ‘उपसर्गादसमासेऽपि’ इति नित्यं णत्वम् । ‘वा निसनिक्षनिन्दाम्’ इति तु कृद्विषयम् । ‘ण्वुल्तृचौ’ । प्रणिक्षकः । प्रनिक्षकः । प्रणिक्षिता । प्रनिक्षिता ॥—अवज्ञेत्यादि । सूर्क्षणमादरस्ततोऽन्यदसूर्क्षणमित्यमरप्रन्थार्थः । यदि तु सूर्क्षणमनादर इत्युच्येत तर्हि असूर्क्षणमवज्ञापर्यायो न स्यादिति भावः । काक्षि । काक्षा इच्छा । द्राक्षि भ्राक्षि ध्वाक्षि । घोरवासितं घोरशब्दः । वास्तु शब्दे ॥—ध्वाक्षतीति । ध्वाक्षः काकः । द्राक्षि । धातोः ‘गुरोश्च हलः’ इति अप्रत्यये द्राक्षा । यवादिगणे निपातनान्नलोपः । द्राक्षामान् । इह मतोर्वत्रं तु न भवति, अयवादिभ्य इत्युक्तेः । तूष तुष्टौ । दिवादौ तु हस्तोपधः । भूष स्तेये । संज्ञायां कुनि मूषकः । क्यादौ तु हस्तोपधोऽयम् । भूष अलंकारे । अयं चुरादावपि । ईष उञ्छे । ‘गुरोश्च हलः’ इत्यप्रत्यये ईषा लाङ्गलदण्डः । कप खप । शिषेत्ययमप्यनिट्को न तु रौधादिक एव । संकोचे मानाभावादित्यभिप्रेत्योदाहरति—शेष्टा । अशिक्षदित्यादि ।
Bālamanoramā
क्सस्याचि - अघृक्ष — आतामिति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । 'घोर्लोपो लेटि वे' त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये 'तादृक्षा' इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् 'आतो ङितः' इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । 'ऊष्मान्ता' इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः ।
Footnotes (NSP 1915 ed.)
NSP p. 382 १ तादेरिति—अत्र आर्धधातुकशब्दस्यानुवृत्तस्य सप्तन्यन्तत्वाभावेऽपि प्रकारान्तरेण तदादिविधिर्वाध्यः । तथाहि पूर्वसूत्रादलादेरिलनुवत्यं विशेषणीभूतवत्पदार्थस्य तकारो विशेषणं, तेन तकाररूपवलादेरिति वाच्योऽर्थं इति । पूर्वं ‘सेऽसिचि—’ दलादावपि वोध्यम् ।
SK 2338 · A 3.1.75V
अक्षोऽन्यतरस्याम् ॥ २३३८ ॥
akṣo'nyatarasyām
Siddhānta-kaumudī
अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः - SK 380 इति कलोपः । षढोः कः सि SK 295 । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्ष्णोत् । आक्ष्णुवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि SK 2268 । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः ।{$ {!655 तक्षू!} {!656 त्वक्षू!} तनुकरणे$} ॥
Bālamanoramā
अक्षोऽन्यतरस्याम् - अक्षोऽन्यतरस्याम् । 'अक्ष' इति पञ्चमी ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,॒कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके ये॑गित्यतः सार्वधातुक इति चानुवर्तते । तदाह — अक्षो वेति । श्नुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् । तत्फलं तुस्वादिभ्यः श्नु॑रित्यत्र वक्ष्यते । अक्ष्णोतीति । तिपि श्नुः । तस्य तिपः पित्त्वेन ङित्त्वाऽभावात्सार्वधातुके॑ति गुणः । णत्वम् । अक्ष्णुत इति । तसोऽपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुवन्तीति । ङित्त्वाद्गुणाऽभावे उवङ् । अक्ष्णोषि अक्ष्णुथ । अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । अक्षतीति । शप्पक्षे रूपम् । आनक्षेति । णलि द्विहल्त्वान्नुट् । आनक्षतुः आनक्षुः । ऊदित्त्वादिट्पक्षे आह — आनक्षिथेति । इडभावे आह — आनष्ठेति । आनक्ष् थ इति स्थितेस्को॑रिति कलोपः । थस्य ष्टुत्वेन ठः । अष्टेति । लुटि तासि इडभावपक्षेस्को॑रिति कलोपे तकारस्य ष्टुत्वेन टः । अक्ष् स्य तीति स्थिते प्रक्रियां दर्शयति — स्कोरिति कलोपः, षढोः कः सीति । कात्परत्वात् सस्य षत्वं च । अक्ष्णोत्विति । अक्ष्णोतु अक्ष्णुतात्-अक्ष्णुताम् । अक्ष्णुवन्तु । अक्ष्णुहीति । संयोगपूर्वत्वादुतश्चेति हेर्लुक् न । हेरपित्त्वेन ङित्त्वात् श्नोर्न गुणः । अक्ष्णुतात् अक्ष्णुतमक्ष्णुत । अक्ष्णवानीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेधः । गुणेऽवादेशः । आक्ष्णुवन् । आक्ष्णोः आक्ष्णुतमाक्ष्णुत । आक्ष्णवमिति । मिपोऽम् । श्नोर्गुणः । अवादेशः । आक्ष्णुव आक्ष्णुम । अक्ष्णुयादिति । विधिलिङि यासुटो ङित्त्वात् श्नोर्न गुणः । अक्ष्णुयुरिति । 'लिङः सलोपः' इति सलोपेउस्यपदान्ता॑दिति पररूपमिति भावः । अक्ष्णुयाः अक्ष्णुयातमक्ष्णुयात । अक्ष्णुयामक्ष्णुयाव अक्ष्णुयाम । शप्पक्षे अक्षेदित्यादि । अक्ष्यादिति । आशीर्लिङ आर्धधातुकत्वान्न श्नुः, नापि शप् । लुङि सिचि विशेषमाह — ऊदित्त्वाद्वेडिति । तत्र इट्पक्षे आह — नेटीति । हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तरिति शङ्क्यं, रञ्जेरराङ्क्षीदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः । मा भवानक्षीदिति । आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्यां च रूपे भेदाऽभावात्मा भवा॑नित्युपात्तम् । अक्षिष्टाम् । अक्षिषुरिति । अत्रापि 'मा' इति संबध्यते । इडभावे त्विति । लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाऽप्रसक्त्या हलन्तलक्षणवृद्धौस्को॑रिति कलोपेषढो॑रिति कत्वे षत्वमिति भावः । अत्रनेटी॑ति निषेधाऽभावेन हलन्तलक्षणवृद्धिर्निर्बाधेति स्पष्टयितुमेव 'मा भवान्' इत्यत्राप्युपात्तमिति बोध्यम् । आष्टामिति । अक्ष् स् ताम् इति स्थिते हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपेस्को॑रिति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति । अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौस्को॑रिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः । आक्षीः आष्टमाष्ट । आक्षमाक्ष्व आक्ष्म । आक्षिष्यत् — आक्ष्यत्, आक्ष्यतामाक्ष्यन् । आक्ष्यः आक्ष्यतमाक्ष्यत । आक्ष्यमाक्ष्याव आक्ष्याम । तक्षू त्वक्षू इति । स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम् ।
SK 2339 · A 3.1.76V
तनूकरणे तक्षः ॥ २३३९ ॥
tanūkaraṇe takṣaḥ
Siddhānta-kaumudī
श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः ।{$ {!657 उक्ष!} सेचने$} । उक्षांचकार ।{$ {!658 रक्ष!} पालने$} ।{$ {!659 णिक्ष!} चुम्बने$} । प्रणिक्षति ।{$ {!660 तृक्ष!} {!661 ष्ट्रक्ष!} {!662 णक्ष!} गतौ$} । तृक्षति । स्तृक्षति । नक्षति ।{$ {!663 वक्ष!} रोषे$} । संघात इत्येके ।{$ {!664 मृक्ष!} संघाते $}। म्रक्ष इत्येके ।{$ {!665 तक्ष!} त्वचने$} । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके ।{$ {!666 सूर्क्ष!} आदरे$} । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः ।{$ {!667 काक्षि!} {!668 वाक्षि!} {!669 माक्षि!} काङ्क्षायाम्$} ।{$ {!670 द्राक्षि!} {!671 ध्राक्षि!} {!672 ध्वाक्षि!} घोरवासिते च$} ।{$ {!673 चूष!} पाने$} । चुचूष ।{$ {!674 तूष!} तुष्टौ$} ।{$ {!675 पूष!} वृद्धौ$} ।{$ {!676 मूष!} स्तेये$} ।{$ {!677 लूष!} {!678 रूष!} भूषायाम्$} ।{$ {!679 शूष!} प्रसवे$} । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥{$ {!680 यूष!} हिंसायाम्$} ।{$ {!681 जूष!} च$} ।{$ {!682 भूष!} अलंकारे$} । भूषति ।{$ {!683 ऊष!} रुजायाम्$} । ऊषांचकार ।{$ {!684 ईष!} उञ्छे$} ।{$ {!685 कष!} {!686 खष!} {!687 शिष!} {!688 जष!} {!689 झष!} {!690 शष!} {!691 वष!} {!692 मष!} {!693 रुष!} {!694 रिष!} हिंसार्थाः$} । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥
Bālamanoramā
तनूकरणे तक्षः - तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे — श्नुः स्याद्वा शब्विषये इति ।स्वादिभ्यः श्नु॑रित्यतः श्नुरिति,कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति चानुवर्तते । तनूकरणेऽर्थे विद्यमानात्तक्षधातोः श्नुः स्यात्कत्र्रर्थे सार्वधातुके इति फलितम् । नच तक्षूधातोस्तनूकरणार्थकत्वाऽव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्तमिति वाच्यम्, अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तक्ष्णोतीत्यादि । अक्षूवद्रूपाणि । लुङि सिचि इट्पक्षेनेटी॑ति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपमक्षवत् । एवं त्वक्षूधातुरपि । णिक्षधातुर्णोपदेशः । प्रक्षिणतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । त्रण ष्ट्रक्ष गताविति । त्रयोऽप्यकारमध्याः । द्वितीयः षोपदेशः । तदाह — रुआक्षतीति । षस्य सत्वे ष्टुत्वनिवृत्तिरिति भावः । णक्षदातुर्णोपदेशः । सिचिनेटी॑ति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति । वक्ष रोष इति । दन्त्योष्ठआदिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं — संवरणमिति । सूक्र्षदातू रेफमध्यः । अपपाठत्वे हेतुमाह — अवज्ञेति । सूक्र्षधातोरनादरार्थकत्वे असूक्र्षणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काङ्क्षायामपि । घोरवाशितं — क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः । ईष उञ्छ इति । ईदुपधः । कषेत्यारभ्य दश धातवः । तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिट्कः । क्रादिनियमात्थलि वसि मसि च नित्यमिट् अजन्ताकारवत्त्वाऽभावेन थलि वेट्कत्वाऽभावात् । शिशेषिथ । शिशिषिव शिशिषिम । अशिक्षदिति । 'शल इगुपधा' दिति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः । ववषतुरिति ।न शसददे॑ति निषेधादेत्तवाभ्यासलोपौ न । रुषधातुः सेट्कः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोषिव रुरुषिम ।
SK 2340 · A 7.2.48V
तीषसहलुभरुषरिषः ॥ २३४० ॥
tīṣasahalubharuṣariṣaḥ
Siddhānta-kaumudī
इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ।{$ {!695 भष!} भर्त्सने$} । इक्ष भर्त्सनं श्वरवः । भषति । बभाष ।{$ {!696 उष!} दाहे $}। ओषति ॥
Tattvabodhinī
NSP p. 382—तीषसह—। इष इच्छायाम् । षह मर्षणे । लुभ गार्ध्ये । रुप रिष हिंसायाम् । एषिता । एष्टा । सहिता । सोढा । लोभिता । लोब्धा ॥—उवोषेति । ‘पुगन्त—’ इति गुणः ‘अभ्यासस्यासवर्णे’ इत्युवद् । घृष्णु संघर्षे । ल्युटि घर्षणम् । वस्त्र अदने ॥—अयमिति । यथयं सार्वत्रिकः स्यात्तदा लिब्यपि प्रयुज्येत, ततश्च ‘लिब्यन्यतरस्याम्’ इति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः
Bālamanoramā
तीषसहलुभरुषरिषः - सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् । तदाह -इच्छत्यादेरिति । इच्छतीति इषेः श्तिपा निर्देशः । इषधातुर्विवक्षितः । 'इषु इच्छायां' तुदादिः शविकरणः । 'इष गतौ' दिवादिः श्यन्विकरणः । 'इष आभीक्ष्ण्ये' क्र्यादिः श्नाविकरणः । तत्रइषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः॑ इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता रोष्टेति । इडभावे ष्टत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह — रेषिता रेष्टेति । उष दाह इति । सेट्कोऽयम् । उखधातुवत् रूपाणि ।
SK 2341 · A 3.1.38V
उषविदजागृभ्योऽन्यतरस्याम् ॥ २३४१ ॥
uṣavidajāgṛbhyo'nyatarasyām
Siddhānta-kaumudī
एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ।{$ {!697 जिषु!} {!698 विषु!} {!699 मिषु!} सेचने $}। जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ।{$ {!700 पुष!} पुष्टौ$} । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् ।{$ {!701 श्रिषु!} {!702 श्लिषु!} {!703 प्रुषु!} {!704 प्लुषु!} दाहे$} । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष ।{$ {!705 पृषु!} {!706 वृषु!} {!707 मृषु!} सेचने$} । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ।{$ {!708 घृषु!} संघर्षे$} ।{$ {!709 हृषु!} अलीके$} ।{$ {!710 तुस!} {!711 ह्रस!} {!712 ह्लस!} {!713 रस!} शब्दे$} । तुतोस । जह्नास । जह्लास । ररास ।{$ {!714 लस!} श्लेषणक्रीडनयोः $}।{$ {!715 घसॢ!} अदने$} । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् SK 2424 इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥
Tattvabodhinī
alignment inferredNSP p. 382—अत्रैव पाठ इति । भ्वादौ परस्मैपदे पाठ इत्यर्थः ॥—कमरचीति । ‘स्रधस्यदः कमरच्’ इति सूत्रे
Bālamanoramā
उषविदजागृभ्योऽन्यतरस्याम् - उषविद । 'कास्प्रत्यया' दित्यत आम् लिटीत्यनुवर्तते । तदाह — एभ्यो लिटीति । आमभावपक्षे आह - उवोषेति । 'अभ्यासस्याऽसवर्णे' इति उवङादेशः । जिषु विषु मिषु सेचन इति । द्वितीयो दन्त्योष्ठआदिः । थलि वसि मसि च विशेषमाह — क्रादिनियमादिडिति । विवेषिथेति । अजन्ताकारवत्त्वाऽभावेन भारद्वाजनियमाऽप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति । तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ।षढो॑रिति षस्य कः, सस्य षः । अविक्षदिति ।शल इगुपधा॑दिति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः । पुषधातु सेडिति मत्वाह — पोषितेति । अपोषीदिति ।नेटी॑ति वृद्धिनिषेधः । नन्विट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह -अनिट्केष्विति । अत इति । सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अङ्कुतो नेत्यत आह — अङ्विधाविति । एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति । पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति । 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः । द्वयोग्र्रहणमिति । भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति । 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य ह्मषुपर्यन्ता ऋदुपधाः । अलीकं — मिथ्याभवनं, मिथ्योक्तिर्वा । तुस ह्यसेत्यारभ्य णश गतावित्यतः प्राक् सकारान्ताः । घस्लृ धातुरनिट्कः । अयमिति । घस्लृधातुः, सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह — लिटीति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत ततश्च 'अद भक्षणे' इति धातोर्लिटन्यतरस्यामिति घस्लृभावविधिव्र्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह — ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । ततर् तावल्लिङ्गं दर्शयति — अत्रैवेति । भ्वादिगणे अत्रैव क्रमे अस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । न च धातुसंज्ञार्थः पाठ इति शङ्क्यं, द्युत दीप्तावित्यतः प्राक् । [॒अनुदात्तेत इत्यतोग्रे॑[ पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयथ्र्यादिति भावः । लृदित्करणमङीति ।प्रयोगे लिङ्ग॑मिति शेषः । अनिट्कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति — क्मरचीति । 'सृघस्यदः क्मरः' जित्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षममिदम् । लिटि अस्य प्रयोगाऽभावाल्लुटदाहरति — घस्तेति ।
SK 2342 · A 7.4.49V
सः स्यार्द्धधातुके ॥ २३४२ ॥
saḥ syārddhadhātuke
Siddhānta-kaumudī
सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥
Tattvabodhinī
NSP p. 382–383—सः स्यार्ध—। सः सीति च्छेदः । सादौ किम् । घस्मरः । आर्धधातुके इति किम् । वस्ते ॥—आशिषीति । आशीर्लिङीत्यर्थः । एतच्च कर्तरि प्रयोगमभिप्रेत्योक्तम् । कर्मणि तु यविषये प्रयोगो नेति वोध्यम्
Bālamanoramā
सः स्यार्द्धधातुके - सः सि । 'सः' इति छेदः । 'स' इति षष्ठन्तम् । सीति सप्तम्यन्तमार्धधातुकविशेषणं । तदादिविधिः । 'अच उपसर्गात्तः' इत्यतस्त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह — सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 383 ↑ इति स्वर्णयो वित्ति गम्य मात्रा चाह अबास्य योरेनः लिमित्तम्बे प्रवास्य मुद्रह्या दृष्टोत्कीयिपवीत्यादौ संप्रसारणाभावः ॥
SK 2343 · A 3.1.55V
पुषादिद्युताद्यॢदितः परस्मैपदेषु ॥ २३४३ ॥
puṣādidyutādyḷditaḥ parasmaipadeṣu
Siddhānta-kaumudī
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् ।{$ {!716 जर्ज!} {!717 चर्च!} {!718 झर्झ!} परिभाषणहिंसातर्जनेषु$} ।{$ {!719 पिसृ!} {!720 पेसृ!} गतौ$} । पिपिसतुः । पपेसतुः ।{$ {!721 हसे!} हसने$} । एदित्त्वान्न वृद्धिः । अहसीत् ।{$ {!722 णिश!} समाधौ$} । तालव्योष्मान्तः । प्रणेशति ।{$ {!723 मिश!} {!724 मश!} शब्दे रोषकृते च $}। तालव्योष्मान्तौ ।{$ {!725 शव!} गतौ$} । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् ।{$ {!726 शश!} प्लुतगतौ$} । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ ।{$ {!727 शसु!} हिंसायाम्$} । दन्त्योष्मान्तः । न शसदद - SK 2263 इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ ।{$ {!728 शंसु!} स्तुतौ$} । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् ।{$ {!729 चह!} परिकल्कने$} । कल्कनं शाठ्यम् । अचहीत् ।{$ {!730 मह!} पूजायाम्$} । अमहीत् ।{$ {!731 रह!} त्यागे$} ।{$ {!732 रहि!} गतौ$} । रंहति । रंह्यात् ।{$ {!733 दृह!} {!734 दृहि!} {!735 बृह!} {!736 बृहि!} वृद्धौ$} । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् ।{$ {!737 तुहिर्!} {!738 दुहिर्!} {!739 उहिर्!} अर्दने$} । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् ।{$ {!740 अर्ह!} पूजायाम्$} । आनर्ह ॥ अथ कृपूपर्यान्ता अनुदात्तेतः ॥{$ {!741 द्युत!} दीप्तौ$} । द्योतते ॥
Tattvabodhinī
NSP p. 383—पुषादिद्युता—। पुष धातुभ्वादौ दिवादौ क्यादौ चुरादौ च पठ्यते । यदि तु पुष पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्येत तदा द्युतादिग्रहणमनर्थकं भवेत् । पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि काद्यन्तर्गणः । तत्र हि पुषधातोरमे मुष स्तेये, खच भूतप्रादुर्भावे, हेठ च, ग्रह उपादाने, इति चलार एव पठ्यन्ते । यदि तु त एव जिघृक्षिताः स्युस्तार्हि लाघवाङ्गदित एव कियेरन् । प्रहेः स्वरितेत्त्वेऽपि लकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात् । नापि चुरादिः । णिचा व्यवधानेन ततोऽनन्तरस्य च्छेरसंभवात् । अतः परिशेषात् दिवादय एव गृह्यन्त इत्याह—इयन्विकरणपुषादेरिति । केचित्तु दिवाद्यन्तर्गत एव पुषादिगृह्यते व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्विकल्प इति पक्षे चौरादिकपुषादेरपि परः चिलः संभवतीति तेषामाशयः । ‘नन्दिग्रहिपचादिभ्यः’ इतिवत् ‘पुषद्युताद्यल्लदितः’ इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च ल्लदित एव कृतो न कृता इति चेत् । अत्राहुः । निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लकारपाठे विपरीतगौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु ल्लदित्करणेऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम् । आदितामीदितामूदितां चैतेषु सत्त्वात् लकारेण तत्तत्कार्याणामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति । जर्ज चर्च झर्झ । एषां परिभाषणादिभिः सह यथासंख्यं नास्ति व्याख्यानादित्याहुः । परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो न लिहोष्मान्तेषु । णिशा समाधौ । समाधिरन्तःकरणनिरोधः ॥—प्रणेशतीति । ‘उपसर्गादसमासेऽपि’ इति णलम् ॥—रोषकृते चेति । चकारात्समाधौ । शशा मुतगतौ । ‘न शसदद’ इति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे—शेशतुरिति । प्राचा तु शशतुरित्युक्तं तदयुक्तमिति भावः ॥—अचंहीदिति । ‘इयन्त’ इति न वृद्धिः । रह त्यागे । अयं कथादावपि । ‘इपमिच्च’ इति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः ॥—नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् ॥—मा भवानुहदिति । ‘न माङ्योगे’ इत्याडभावः । ‘इरितो वा’ इत्यड्वा ॥ अथ द्युतादिः ॥ द्युत दीतौ
Bālamanoramā
पुषादिद्युताद्यॢदितः परस्मैपदेषु - लुङि च्लेः सिचि प्राप्ते — पुषादि ।च्लेः सि॑जित्यतः च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । तत्र ह 'मुष स्तेये'खच भूतप्रादुर्भावे॑ 'हेठ च ' 'ग्रह उपादाने' इति चत्वार एव पठन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात् । अतः परिशेषाद्दिवाय एव गृह्यन्ते । तदाह — श्यन्विकरमेति । जर्ज चर्च झर्झेति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति ।ह्म्यन्तेत्यनेने॑ति शेषः । णिश समाधाविति । णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह — प्रणेशतीति ।शसु हिंसाया॑मित्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः । कृतानुस्वारस्य निर्देशः । 'चह परिकल्पने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति । न#आऽयमिदित् । रहि गताविति । अयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अवृहत् । अवर्हीदिति । इरित्त्वादङ्विकल्प इति भावः । उवोहेति । उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे 'अभ्यासस्यासवर्णे' इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । औहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि 'अस्तिसिचः' इति तकारस्य ईटिइट ईटी॑ति सिचो लोपेआडजादीना॑मिति आटि वृद्धिः । माङ्योगे तु मा भवानुहीत् । आनर्हेति । 'अत आदेः' इति दीर्घे नुट् । कृपूपर्यन्ता इति ।द्युते॑त्यारभ्य कृपूपर्यन्ता इत्यर्थः ।
SK 2344 · A 7.4.67V
द्युतिस्वाप्योः सम्प्रसारणम् ॥ २३४४ ॥
dyutisvāpyoḥ samprasāraṇam
Siddhānta-kaumudī
अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥
Tattvabodhinī
alignment inferredNSP p. 383—द्युतिस्वाय्योः—। स्वापीति णिजन्तस्य ग्रहणम् ॥—दिद्युते इति । संप्रसारणे कृते ‘संप्रसारणाच्च’ इति पूर्वरूपम् । स्वापेरुदाहरणं तु मुष्वापयिषति । इह स्वापेर्णिजन्तस्याभ्यासनिमित्तप्रत्ययेनानन्तर्ये सति संप्रसारणमिष्यते । तेनेह न स्वापेर्ण्युल् स्वापकः, तमिच्छति स्वापकीयति, ततः सन् सिखापकीयिषति
Bālamanoramā
द्युतिस्वाप्योः सम्प्रसारणम् - द्युतिस्वाप्योः । अभ्यासस्येति ।अत्र लोपोऽभ्यासस्ये॑त्यतस्तदनुवृत्तेरिति भावः । दिद्युते इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेनद्युतिस्वाप्यो॑रिति संप्रासरणे,संप्रसारणाच्चे॑ति उकारस्य पूर्वरूपे रूपम् ।
SK 2345 · A 1.3.91V
द्युद्भ्यो लुङि ॥ २३४५ ॥
dyudbhyo luṅi
Siddhānta-kaumudī
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ।{$ {!742 श्विता!} वर्णे$} । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ।{$ {!743 ञिमिदा!} स्नेहने$} । मेदते ॥
Tattvabodhinī
NSP p. 383—द्युत्स्यो लुङि । बहुवचननिर्देशात् शौण्डैरित्यत्रेव तदादिग्रहणम् । तदाह—द्युतादिभ्य इति । द्युतादयो घट चेष्टायामित्यवधिकाः । ‘डः सि’ इत्यत्रेव लुङीति सप्तम्याः षष्ठ्यर्थतेत्यभिप्रेत्याह—लुङः परस्मैपदमिति । जिमिदा ।
Bālamanoramā
द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् 'ञीतः क्तः' इत्येतदर्थः ।
SK 2346 · A 7.3.82V
मिदेर्गुणः ॥ २३४६ ॥
miderguṇaḥ
Siddhānta-kaumudī
मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ।{$ {!744 ञिष्विदा!} स्नेहनमोचनयोः$} । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ।{$ {!745 रुच!} दीप्तावभिप्रीतौ च$} । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट ।{$ {!746 घुट!} परिवर्तने$} । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ।{$ {!747 रुट!} {!748 लुट!} {!749 लुठ!} प्रतिघाते अरुटत्$} । अरोटिष्ट ।{$ {!750 शुभ!} दीप्तौ$} ।{$ {!751 क्षुभ!} संचलने$} ।{$ {!752 णभ!} {!753 तुभ!} हिंसायाम्$} । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च ।{$ {!754 स्रंसु!} {!755 ध्वंसु!} {!756 भ्रंसु!} अवस्रंसने$} । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ ।{$ {!757 स्रम्भु!} विश्वासे$} । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ।{$ {!758 वृतु!} वर्तने$} । वर्तते ॥
Tattvabodhinī
NSP p. 383–384—मिदेर्गुणः । ‘ष्टिवुक्तमुचमाम्’ इत्यतः शितीत्यनुवर्तते तत्र शश्वासौ इचेति कर्मधारयात्सप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेन ‘यस्मिन्विधिः’ इति तदा- दिविधिः प्रवर्तते । तदाह—इत्संज्ञकशकारादाविति ॥—आदिशित्वाभावादिति । मेघति । मेघत इत्यादौ ‘दिवादिभ्य’ इति श्यन् । आदिशित्वात् गुणो भवत्येव ॥—मिमिदे इति । शितीति बहुव्रीहौ लिह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिवादयोऽपि स्युरिति भावः । अष्टिवदा । अनिद्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेद् । स्वेदिता स्वेदिष्यते ॥—अष्टिवदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति वोध्यम् ॥—हरये इति । ‘रुच्यर्थानाम्—इति संप्रदानसंज्ञायां चतुर्थी । घुट्ट । परिवर्तनमितस्ततो अमणम् ॥—जुघुटे इति । ‘असंयोगात्—इति कित्वात् गुणाभावः । शुभ । संचलनं प्रकृतिविपर्यासो मन्थनं च । क्षोभते । शुभ्यतीति दिवादौ । शुभ्रातीति क्र्यादौ ॥—नास्रसदिति । नासंसदित्यपपाठ एव । न चेदं लडो रूपं, तत्र परस्मैपदासंभवादिति भावः
Bālamanoramā
मिदेर्गुणः - ॒मिमिदे॑ इत्यत्र लिटःअसंयोगा॑दिति कित्त्वेऽपि गुणं शङ्कितुमाह — मिदेर्गुणः ।मिदे॑रित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते,ष्ठिवुक्लमुचमां शिति॑ इत्यतः शितीत्यनुवर्तते । श् चासाविच्चेति कर्मधारयः । तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते । तदाह — मिदेरित्यादिना । दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह — एश आदिशित्त्वाभावादिति । ञिष्विदेति । षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति । अभिप्रीतिः- प्रीतिविषयीभवनम् । दीप्तौ उदाहरत — रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति — हरये रोचते भक्तिरिति । भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः ।रुच्यर्थाना॑मिति संप्रदानत्वाच्चतुर्थी । क्षुभ संचलने इति । क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुर्णोपदेश नभते । आद्योऽभावे चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति — नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह — मा भूवन्नन्यके सर्वे इति ।नभन्ता॑मित्यस्य विवरणं — भा भूवन्निति । न भवन्तीत्यर्थः ।समे॑इत्यस्य विवरणं — सर्वे इति । निरुक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । रुआंसु ध्वंसु भ्रंसु इति । त्रयो नोपधा इति भावः । नारुआसदिति । 'नारुआंस' दित्यपपाठः । नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात् । रुआम्भुदातुरकारमध्यः । वृतु वर्तने इति । उदित् ऋदुपधः सेट्कः । वर्तते इति । शपि गुणे रपरत्वम् । ववृते इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि — वर्तिता ।
SK 2347 · A 1.3.92V
वृद्भ्यः स्यसनोः ॥ २३४७ ॥
vṛdbhyaḥ syasanoḥ
Siddhānta-kaumudī
वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥
Tattvabodhinī
alignment inferredNSP p. 384—वृद्ध्यः—। वृतादयः पश्च
Bālamanoramā
वृद्भ्यः स्यसनोः - वृद्भ्यः । बहुवचनाद्वृतादिभ्य इति गम्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च । तदाह — वृतादिभ्य इति ।
SK 2348 · A 7.2.59V
न वृद्भ्यश्चतुर्भ्यः ॥ २३४८ ॥
na vṛdbhyaścaturbhyaḥ
Siddhānta-kaumudī
एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत ।{$ {!759 वृधु!} वृद्धौ$} ।{$ {!760 शृधु!} शब्दकुत्सायाम्$} । इमौ वृतिवत् ।{$ {!761 स्यन्दू!} प्रस्रवणे$} । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः SK 2347 इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः SK 2348 इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-SK 2347 इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥
Tattvabodhinī
alignment inferredNSP p. 384—न वृद्ध्यः—। गणकार्यलादुभयोर्यद्दृष्ट्यप्रवृत्तिः । वर्वर्तिष्यति । वर्वर्तिषति । चतुर्ग्रहणफलं तु मूले एव स्फुटीभविष्यति । ‘सेऽसिचि—’ इति सूत्रात्से इत्यनुवर्तते तदाह—सकारादेरिति ॥—इण् न स्यादिति । स्यन्देरुदित्वाद्विकल्पे प्राप्ते इतरेपां नित्यमिदि प्राप्ते निषेधोऽयम् ॥—तङ्कानयोरिति । जिगमिषिता । जिगमिषितारौ इत्यादौ तृचि परतः सन इङागमसिद्धये ‘गमेरिद् परस्मैपदेषु’ इत्यत्र परस्मैपदग्रहणं तङ्कानयोरभावं लक्ष्यतीत्यभ्युपगम्यते । तच्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् । तेन परस्मैपदाभावेऽपि तृचि विवृत्सितारावित्यत्र ‘अतो हेः’ इति हेर्लुकित्वं विवृत्से इत्यत्र च सन इण्निषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोर्वृतादीनामात्मनेपदेन समानपदस्येच्चनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्धिषते इत्यादाविद् भवति । विवृत्सितेवाचरति विवृत्सित्रीयते इत्यत्र लात्मनेपदोत्पत्तेः पूर्वं तत्समानपदस्थलाभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तद्विकृतेऽपि न निवर्तते चतुर्ग्रहणसामर्थ्यादिति । अत्र व्याचस्युः । पश्चभ्य इति वक्तुमुचितम् । एवं च तासि चेत्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः, तङ्कानयोः सत्त्वादिति ॥—अस्यन्तेति । अत्र ‘अनिदिताम्—’ इति नलोपो न भवति । सिज्लोपस्यासिद्धत्वेनानुपधालात्
Bālamanoramā
न वृद्भ्यश्चतुर्भ्यः - न वृद्भ्यः । सेऽसिचीति सूत्रात्से इति, आर्धधातुकस्येडिति चानुवर्तते । एभ्यः सकारादेरिति । तङानयोरभावे इति ।गमेरि॑डित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेनजिगमिषिते॑त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति । वत्स्र्यतीति । लृटि स्यः ।वृद्भ्यः स्यसनो॑रिति परस्मैपदविकल्पः । 'न वृद्भ्यः' इति इण्निषेधः । गुणः । रपरत्वम् । परस्मैपदाऽभावे त्वाह — वर्तिष्यते इति । 'तङानयोरभावे' इत्युक्तेः 'न वृद्भ्यः' ति इण्निषेधो न । अवर्तिष्टेति । परस्मैपदस्याङश्चाऽभावे रूपम् । अवत्स्र्यदिति । लृङि स्यः ।वृद्भ्यः स्यसनो॑इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'द्युद्भ्यो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ् । लृट्लृङो 'वृद्भ्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भ्यः' इति इण्निषेधश्च । तदाह — इमौ वृतुदिति । वत्स्र्यति — वर्धिष्यते । अवृधत् — अवर्धिष्ट । अवत्स्र्यत् — अवर्धिष्यत । शत्स्र्यति — शर्धिष्यते । अशृधत् — अशर्धिष्ट । अशत्स्र्यत्-अशर्धिष्यत । स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः । सस्यन्दिषे सस्य्नत्से इति । इडभावे दस्य चर्त्वेन तः । सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति । इडभावे धकारात् प्राग् दकारः । खर्परकत्वाऽभावान्न चर्त्वम् । स्यान्दितास्यन्तेति । इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सतिवृद्भ्यः स्यसनो॑रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वान वृद्भ्यश्चतुभ्र्यः॑ इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति । तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति — वृदभ्य इति ।वृद्भ्यः स्यसनो॑रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भ्य' इति निषेध इत्यन्वयः । कुत इत्यत आह — चतुग्र्रहमसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतुन वृद्भ्यश्चतुभ्र्यः॑ इति निषेधस्तर्हि 'चतुभ्र्यः' इति व्यर्थं स्यात् । न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, 'तासि च कॢपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः । भाष्ये तुनिषेधाश्च बलीयांसः॑ इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम् । तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह — स्यन्दिष्यते स्यन्त्स्यते इति । इडभावे दस्य चर्त्वम् । आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह — स्यान्दिषीष्ट स्यन्त्सीष्टेति । 'न वृद्भ्यः' इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह — द्युद्भ्यो लुङीत्यादिना । अङिति । 'द्युतादिलक्षणे' इति शेषः । नलोप इति ।अनिदितामित्यनेने॑ति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह — अस्यन्दिष्ट अस्यन्त्तेति । तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते 'झलो झली' ति सलोपे दस्य चर्त्वम् । न चाऽपित्त्वेन ङित्त्वात्अनिदिता॑मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः । अस्यन्त्सातामस्यन्त्सतेति । अस्यन्त्थाः, अस्यन्त्साथाम् । अस्यन्द्ध्वम् । अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि । अस्यन्त्स्यत् — अस्यन्त्स्यत -अस्यन्दिष्यत ।
SK 2349 · A 8.3.72V
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ २३४९ ॥
anuviparyabhinibhyaḥ syandateraprāṇiṣu
Siddhānta-kaumudī
एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् ।{$ {!762 कृपू!} सामर्थ्ये$} ॥
Tattvabodhinī
NSP p. 384—अनुविपर्यभिनिभ्यः—॥—एभ्य इति । पश्चभ्य इत्यर्थः ॥—षत्वं भवत्येवेति । प्राण्यप्राणिकर्तृकस्याप्यप्राणिकर्तृकलानपायादिति भावः । असमर्थसमासवाक्यमेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह—प्राणिषु नेत्युक्ताविति । कृपू सामर्थ्यं । भाष्यकृतां व्याख्यामाह—कृप उ इति । ‘कृपो रो लः’ इति अर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति—कृपेर्ऋकारस्येत्यादिना । वर्णकदेशस्य वर्णग्रहणेन ग्रहणादाह—रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिस्तदाहं स्वीकर्तव्यात् तथा अस्य चतुर्दि च कृपः इत्यादिसात्रनिर्देशोऽयुपपद्यत इति भावः
Bālamanoramā
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु - अनुविपर्यभिनि । एभ्य इति । अनु वि परि अभि नि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहेः साडः सः ' इत्यतः स इति षष्ठन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारादिति भावः । ननुमत्स्योदके अनुष्यन्देते॑ इत्यत्र कतं षत्वं, प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह — अप्राणिष्विति पर्युदासादिति ।प्राणिकर्तृकस्य ने॑ति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वाऽनपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्ये इति । सामर्थ्यं — कार्यक्षमीभवनम् । ऊदित्त्वाद्वेट्कोऽयम् । ऋदुपधः ।
SK 2350 · A 8.2.18V
कृपो रो लः ॥ २३५० ॥
kṛpo ro laḥ
Siddhānta-kaumudī
कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकॢपे । चकॢपिषे । चकॢप्से इत्यादि स्यन्दिवत् ॥
Bālamanoramā
कृपो रो लः - तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते — कृपो रो लः । 'कृप' इति लुप्तविभक्तिकम् । षष्ठएकवचने उदिति ऋकरास्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । 'र' इति षष्ठन्तम् । कृपोर् रः इति स्थितेरो री॑ति रेफलोपे 'कृपो रः' इति भवति । 'ल' इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह - कृप उः [रः ल] इति च्छेद इति । एतच्च ऋऌक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह — लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः । कृप्धातोरिति लभ्यते । तच्चावर्तते इति । कृप रः लः इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते — 'कृप रः लः' इत्येकं वाक्यम् । तदाह — कृपो यो रेफस्तस्य लः स्यादिति । तथा च 'कल्पते' इति भवति । 'कृप उः रः लः' इति द्वितीयं वाक्यम् । तत्र कृपेत्वयवषष्ठन्तमुरित्यत्रान्वेति । उरित्यवयवषष्ठन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे ऌकारांशे लाक्षणिकः । तदाह — कृपेरृकारस्यावयव इत्याद#इना । एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति 'चकॢपे' इति रूपम् । 'कृपः रः लः' इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु 'चकॢपे' इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह — कल्पते चकॢपे इति । ऊदित्त्वादिड्विकल्पं मत्वा आह — चकॢपिषे चकॢप्से इति । स्यन्दिवदिति । चकॢपाथे चकॢपिध्वे — चक्लृब्ध्वे । चकॢपे चकॢपिवहे, चकॢपिमहे- चकॢप्महे ।
SK 2351 · A 1.3.93V
लुटि च कॢपः ॥ २३५१ ॥
luṭi ca kḷpaḥ
Siddhānta-kaumudī
लुटि स्यसनोश्च कॢपेः परस्मैपदं वा स्यात् ॥
Bālamanoramā
लुटि च कॢपः - लुटि च कॢपः । चकारात्वृद्भ्यः सस्यनो॑रित्यतः स्यसनोरित्यनुकृष्यते,शेषात्कर्तरी॑त्यतः परस्मैपदमिति, 'वा क्यषः' इत्यतो वेति च । तदाह — लुटि स्यसनोरित्यादिना ।
SK 2352 · A 7.2.60V
तासि च कॢपः ॥ २३५२ ॥
tāsi ca kḷpaḥ
Siddhānta-kaumudī
कॢपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । कॢप्सीष्ट । अकॢपत् । अकल्पिष्ट । अकॢप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च ।{$ {!763 घट!} चेष्टायाम्$} । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-SK 2568 इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् SK 2762 इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः ।{$ {!764 व्यथ!} भयसंचलनयोः$} । व्यथते ॥
Tattvabodhinī
NSP p. 384–385— तासि च कृपः । चकारात्साद्यार्थधातुकं गृह्यते ॥—कृपसीष्टेति । ‘लिङ्सिचावात्मनेपदेषु’ इणि कित्वान्न गुणः ॥—वृद्धिति । वृतु वर्तने इत्यस्मात्क्रिप् । विलरा संभ्रम इत्यस्यानन्तरं ‘घटादयः पितः’ इत्युक्त्वात्वरत्यन्तास्त्रयोदशैव पितो न तु फणान्ताः सर्वेऽपीति सिद्धम्, तथापि स्पष्टप्रतिपत्त्यर्थमाह—पितश्चेति । प्रयोजनं तु ‘विद्धिदादिभ्यः—इत्यङ्कि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । घट चेष्टायाम् । ये धातवोऽन्यत्राधीतास्तेषामिह पाठोऽर्थनियमार्थः । ये लिहैव पत्र्यन्ते तेषामुपसर्गादिनार्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं तदेतत् ध्वनयनुदाहरति—विघटयतीति
Bālamanoramā
तासि च कॢपः - तासि च । चकारात्सकाराद्याद्र्धदातुकं गृह्रते ।सेऽसिचि कृत॑इत्यतः 'से' इति,आर्धधातुकस्ये॑त्यत आर्धधातुकस्येडिति चानुवर्तते ।न वृद्भ्यश्चतुर्थ इत्यतो नेति च,गमेरि॑डित्यतः परस्मैपदमिति च । तदाह — कॢपेः परस्येत्यादिना.कल्प्तासीति । 'लुटि च कॢप' इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधे गुण रपरत्वे लत्वे रूपम् । परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह — कल्पितासे कल्प्तासे इति । लृटि तु 'लुटि च कॢपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधं मत्वा आह — कल्प्स्यतीति । परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह — कल्पिष्यते कल्प्स्यत इति । कल्पताम् । अकल्प । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिषीष्टेति, कॢप्सीष्टेति च । इडभावेलिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अकॢपदिति ।द्युद्भ्यो लुङी॑ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह — अकल्पिष्टेति, अकॢप्तेति च । अकल्प्स्यदिति । लृङि स्ये 'लुटि च कॢप' इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢप' इति इण्निषेध इति भावः । परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिष्यत अकल्प्स्यतेति । वृदिति । वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप् । तदाह — वृत्त इति । 'गत्यर्थाकर्मके' ति कर्तरि क्तः । वृत्तशब्दस्य विवरणं - सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । 'ञि त्वरा संभ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति । षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा ।ञि त्वरा संभ्रमे इत्युक्त्वाघटादयः षितः॑इति वक्ष्यमाणत्वादिति भावः । षित्फलं तु त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ ह्रस्वः॑ इति णौ ह्रस्वः, 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते ।धातुपाठे अर्थनिर्देश उपलक्षण॑मित्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव । तदाह — घटयति विघटयतीति । संश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति । चिण्युदाहरणम् । घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् ।नित्यवीप्सयो॑रिति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा 'उद्घाटनं' 'प्रविघाटियते' त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति — कथं तर्हीति । शृण्विति ।समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे 'उद्घटनं'प्रविघाटयिते॑ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः । अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट सङ्घाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवं चविघटयती॑त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति -नचेति । तस्यैव — चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह — नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति पञ्चधातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र 'चह परिकल्कने' इत्यस्य स्थानेचपे॑ति केचित्पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते ।अहेता॑विति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते । हेतुशब्देनहेतुमति चे॑ति सूत्रविहितो णिज्लभ्यते । तद्भिन्नो णिच् स्वार्थिकोऽहेतुः । तदाह - अहेतौ स्वर्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् घट चेष्टाया॑मिति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणेघट चेष्टाया॑मित्यपूर्वोऽयं धातुः । तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेतिविघटयती॑त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः ।
SK 2353 · A 7.4.68V
व्यथो लिटि ॥ २३५३ ॥
vyatho liṭi
Siddhānta-kaumudī
व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः । थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे ।{$ {!765 प्रथ!} प्रख्याने$} । पप्रथे ।{$ {!766 प्रस!} विस्तारे$} । पप्रसे ।{$ {!767 म्रद!} मर्दने$} ।{$ {!768 स्खद!} स्खदने$} । स्खदनं विद्रावणम् ।{$ {!769 क्षजि!} गतिदानयोः$} । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोः SK 2762 इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् ।{$ {!770 दक्ष!} गतिहिंसनयोः$} । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः ।{$ {!771 क्रप!} कृपायां गतौ$} ।{$ {!772 कदि!} {!773 क्रदि!} {!774 क्लदि!} वैक्लव्ये$} । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः । कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ आत्मनेपदार्थश्च ।{$ {!775 ञित्वरा!} संभ्रमे$} । (गणसूत्रम् -) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते ॥ अथ फणन्ताः परस्मैपदिनः ।{$ {!776 ज्वर!} रोगे$} । ज्वरति । जज्वार ।{$ {!777 गड!} सेचने$} । गडति । जगाड ।{$ {!778 हेड!} वेष्टने$} । हेडृ अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति ।{$ {!779 वट!} {!780 भट!} परिभाषणे$} । वट वेष्टने भट भृताविति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः ।{$ {!781 णट!} नृत्तौ$} । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव ।{$ {!782 ष्टक!} प्रतीघाते$} । स्तकति ।{$ {!783 चक!} तृप्तौ$} । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् ।{$ {!784 कखे!} हसने$} । एदित्त्वान्न वृद्धिः । अकखीत् ।{$ {!785 रगे!} शङ्कायाम्$} ।{$ {!786 लगे!} सङ्गे$} ।{$ {!787 ह्रगे!} {!788 ह्लगे!} {!789 षगे!} {!790 ष्टगे!} संवरणे$} ।{$ {!791 कगे!} नोच्यते$} । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये ।{$ {!792 अक!} {!793 अग!} कुटिलायां गतौ$} ।{$ {!794 कण!} {!795 रण!} गतौ$} । चकाण । रराण ।{$ {!796 चण!} {!797 शण!} {!798 श्रण!} दाने च$} । शण गतावित्यन्ये ।{$ {!799 श्रथ!} {!800 श्लथ!} {!801 क्रथ!} {!802 क्लथ!} हिंसार्थाः$} । जासिनिप्रहण - SK 617 इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः - SK 2762 इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् । क्राथंक्राथम् ।{$ {!803 वन!} हिंसायाम् $}। वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते ।{$ {!804 ज्वल!} दीप्तौ$} । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति ।{$ {!805 ह्वल!} {!806 ह्मल!} चलने$} । प्रह्वलयति । प्रह्मलयति ।{$ {!807 स्मृ!} आध्याने$} । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् ।{$ {!808 दॄ!} भये$} । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर - SK 2566 इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः ।{$ {!809 नॄ!} नये$} । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति ।{$ {!810 श्रा!} पाके$} । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । [(परिभाषा - ) लुग्विकरणयोरलुग्विकरणस्य] । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्] इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥{$ {!811 ज्ञा!} मारणतोषणनिशामनेषु$} । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः ।{$ {!812 चलिः!} कम्पने$} । चल कम्पने इत ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः ।{$ {!813 छदिर्!} ऊर्जने$} । छद अपवारण इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः ।{$ {!814 लडिः!} जिह्वोन्मथने$} । लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् ।{$ {!815 मदी!} हर्षग्लेपनयोः $}। ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयीत्यर्थः ।{$ {!816 ध्वन!} शब्दे$} । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति ।{$ {!817 स्वन!} अवतेसने$} । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । (गणसूत्रम् -) घटादयो मितः । मित्संज्ञा इत्यर्थः । (गणसूत्रम् -) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च । मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति । (गणसूत्रम् -) ज्वलह्वलह्मलनमामनुपसर्गाद्वा । एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति । उन्नामयतीति । घञन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः SK 2568 इति सूत्रे वा चित्तविरागे SK 2605 इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम्, धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (गणसूत्रम् -) ग्लास्नावनुवमां च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । (गणसूत्रम् -) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते । आमयति । चामयति ।{$ {!818 शमो!} दर्शने (गणसूत्रम् -) $}। शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् ।{$ {!819 यमो!} ऽपरिवेषणे (गणसूत्रम् -) $}। यच्छतिर्तभोजनातोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ बोध्यम् । (गणसूत्रम् -){$ {!820 स्खदिरवपरिभ्यां!} च $}। मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् ।{$ {!821 फण!} गतौ$} । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न पठितः । फणादिकार्यानुरोधात् ॥
Tattvabodhinī
NSP p. 385–389—व्यथो लिटि ॥—हलादिःशेषापवाद इति । हलादिःशेषप्रक्रमणादिति भावः । एवं च ‘उत्सर्गसदेशाश्चापवादः’ इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटाद्युक्त्या ‘न संप्रसारणे’ इति निषेधोऽत्र नापेक्षितः । केचित्तु हलादिःशेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमिति अपवादत्वं न संभवतीति मला ‘संप्रसारणं तदाश्रयं च कार्यं वलवदि’ति वचनाद्धलादिःशेषं वाधिला परस्य संप्रसारणे पूर्वस्य निषेधः । ‘संप्रसारणं तदाश्रयं च कार्यं’ इति वचनाभावे तु ‘व्यथो लिटि’ इति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन ‘इग्यणः—’ इति संज्ञाविशेषद्वयाश्रयत्वेन च वह्नेपेक्षस्य वहिरङ्गत्वात्संप्रसारणं वाधिला हलादिःशेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः ॥—यस्येति । संप्रसारणस्याभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु यकारनिवृत्तेरिति भावः । लिटीति किम् । विव्यथिषते । इह ‘सन्यतः’ इति इत्यम् । वाव्यथ्यते । वाव्यथीति । क्रप कृपायां गतौ । चकाराभावेऽपीहार्थद्वयमित्येव वोध्यमित्याहुः । कदि कदि । कन्दयति । अकन्दि अकान्दि । कन्दंकन्दम् । कान्दंकान्दम् । जित्वरा । जादिलमिह व्यर्थम् । हस्तोच्चारणेनाप्यात्मनेपदसिद्धेः । न च निष्ठायाम् ‘आदितश्च’ इतीद्प्रतिषेधार्थमिति शङ्क्यम् । ‘रुज्यमलर—’ इति निष्ठायामिटो विकल्पितलात् । तूर्णः । लरितः । ज्वर रोगे । णौ । ज्वरयति । अज्वरि । अज्वारि । ज्वरंज्वरम् । ज्वारंज्वारम् । गड सेचने । णौ । गडयति । अगडि । अगाडि । गडंगडम् । गाडंगाडम् । एवमन्यत्राप्यूह्यम् । हेड वेष्टने ॥—उत्सृष्टानुबन्ध इति । तेन वेष्टने ‘नाग्लोपि-’ इति निषेधशङ्कैव नास्तीति भावः ॥—णोपदेश एवेति । प्रणटति प्रणटयति । नाटीत्यस्य तु प्रनाटयति ॥—वृद्धिर्निपात्यत इति । तेन ‘मितां हस्वः’ इति न प्रवर्तत इति भावः ॥—निपातनात्परत्वादिति । निपातनविपयीभूतमितां हस्व इत्यस्मात्परत्वात् ‘मितां हस्वः’ इत्येतदेव निपातनेन वाध्यते न तु ततः परं ‘चिण्णमुलोः-’ इत्येतदित्यर्थः । वन च । संभक्तौ पठितस्य हिंसायां मित्त्वार्थोऽनुवादः । वनति । णौ । वनयति । अवनि । अवानि । वनवनम् । वानंवानम् ॥—तानादिकस्येति । वनु याचन इत्यस्येत्यर्थः ॥—सामर्थ्यादिति । अनुवादे तु तत्र कृते- नोदित्त्वेन क्लायामिङ्गिकल्पस्य निष्ठायामिट्प्रतिषेधस्य च सिद्धेः पुनरुदित्करणं व्यर्थं स्यादिति भावः ॥—वनतीत्यादीति । णौ । वनयति । तानादिकस्य तु वनुते । वानयति ॥—मित्त्वविकल्प इति । ‘ग्लास्रावनुवमां च’ इति गण-सूत्रेण ॥—णप्रत्ययार्थमिति । ‘ज्वलितिकसन्तेभ्यो णः’ इति ज्वलादिभ्यो णप्रत्ययार्थम् । दृ भये- धातोरनेकार्थलाग्न-यार्थकलम् । दृणाति । दरयति ॥—तन्नेतीति । माधवस्यायमाशयः । सूत्रे दीर्घान्त एव पाठः सर्वसंमतः । घटादावपि दीर्घान्त एव सर्वः पञ्चते । यद्ययं हस्वान्तो भवेत्तर्हि ‘श्रुद्धां हस्वो वा’ इति हस्वविकल्पविधायके सूत्रे दृग्ग्रहणमनर्थकं स्यात् । धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धेः । न च विदारणे रूपद्वयलाभार्थं दृग्ग्रहणमावश्यकमिति वाच्यम् । धातूनामनेकार्थलात्समीहितसिद्धेरिति । नृ नये । दृणाति । नरयति । अनरि । अनारि । नरंनरम् । नारंनारम् । श्रै इति । अयं हि वक्ष्यमाणो भौवादिकः ॥—लुग्विकरणेति । अत्र व्याचक्षते ‘स्वरतिसूति-’ इति सूत्रे सूङ् इति पठितेनापि द्वयोर्ग्रहणे सिद्धे सूतिसूत्रयोः पृथग्प्रहणं व्यर्थं सदिमां परिभाषां ज्ञापयति । नन्वलुग्विकरणं वलीय इति वैपरीत्यं किं न स्यादिति शङ्काम् । इष्टानुरोधात् । सूङ् इति पठिते स्वरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान्न तूभयोरित्यपि न शङ्काम् । साहचर्यस्यानित्यलात् । तस्मात्पृथग्प्रहणं व्यर्थं सज्ज्ञापकमेवेति । लक्षणप्रतिपदोक्तपरिभाषा तु न्यायसिद्धा, लाक्षणिकं हि विलम्बितोपस्थितिकम्, प्रतिपदोक्तं तु शीघ्रोपस्थितिकमिति ॥—परिभाषाभ्यामिति । यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाप्रवृत्तावपीष्टं सिद्ध्यति तथाप्यविशेषादुभयोः प्रवृत्तिरप्यत्र युक्तेवेति भावः ॥—मारणतोषण—निशामनमित्यस्य शम आलोचन इत्यस्मान्निष्पन्नलादाह—चाक्षुषं ज्ञानमिति ॥—एष्वर्थेष्विति । पशुं संज्ञपयति । मारयती- लयः । विष्णुं विज्ञपयति । संतोषयतीलयः । संज्ञपयति रूपम् । माधवमते दर्शयतीलयः । मतान्तरे तु वोषयतीलयः । प्रज्ञपयति शरम् । तीक्ष्णीकरोतीलयः । स्यादेतत् । निशामनं ज्ञापनमात्रमिति वदतां मते ‘लाघड्लस्था’ इति सूत्रे ज्ञीप्समानो वोषयितुमभिप्रेत इति वृत्तिग्रन्थः संगच्छतां नाम । माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह—ज्ञप मिच्चेति ॥—ज्ञापनमिति । एवं च वृत्तिग्रन्थो माधवमतेऽपि संगच्छत इति भावः ॥—मारणादिकं चेति । एतच्च मतान्तराभिप्रायेणोक्तम् । चुरादिषु तु ज्ञपमिच्च । अयं ज्ञाने ज्ञापने च वर्तत इति वक्ष्यमाणत्वात् ॥—कथमिति । ज्ञाधातोर्ज्ञपधातोश्च णौ मित्त्वात् हस्वेन भवितव्यमिति भावः ॥—मित्त्वाभावादिति । एवं च वोधने ज्ञाधातोः ज्ञापयति ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते वोध्यम् । छदिरूर्जने । ऊर्ज वलप्राणनयोः । अत्र छदिर्मित् । चुरावन्तर्गणो यौजादिकः स्वार्थे ॥—णिजभाव इति । ‘आधृषाद्वा’ इति वैकल्पिकत्वादिति भावः ॥—लडयति जिह्वामिति । जिह्वा ज्ञापयतीलयः ॥—जिह्वयेति । जिह्वया पदार्थान्तरं ज्ञापयतीलयः । जिह्वाव्यापारे उदाहरणमाह—लडयति शत्रुमिति । शत्रुमुद्दिश्य गालनादि करोतीलयः ॥—लडयति दधीति । उन्मधाति । विलोडयतीलयः । केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मधने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति ॥—लाडयति पुत्रमिति । शर्करादिदानेनानुकूलयतीलयः ॥—ध्वनिरणी उदाहृताविति । ध्वनिरव्यवधानेनोदाहृतः, रणिस्तु कण रण गतावित्यत्रेत्यर्थः । स्वन अवतंसने । अवतंसनं भूषणम् ॥—स्वनयतीति । भूषयतीलयः । अस्वनीत् । अस्वानीत् । अस्वनि । अस्वानि । स्वनंस्वनम् । स्वानंस्वानम् ॥—घटादयो मितः मित्संज्ञा इत्यर्थ इति । अन्ये तु मकारानुवन्धा इति व्याचक्षते । घट चेष्टायामिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा मकारानुवन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः ॥—जनी-जृष् । जनी प्रादुर्भावे । जृष् वयोहानौ । क्रष्ट हरणदीप्स्योः । त्रयोऽपि दिवादयः । रज्ज रागे । दैवादिको भौवादिकश्च । अमन्ताः क्रमिगमीत्यादयः । जनयति । जरयति । क्रसयति । रजयति मृगान् । रजयति पक्षिणः । क्रमयति । गमयति । रमयति ॥—ज्वलहल ॥—एषां मित्वमिति । मित इत्यनुवृत्तस्येह भावप्रधानता । अनुपसर्गादिति तु षष्ठ्यर्थेयं पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः । ‘नमोनुपसर्गाद्वा’ इति पाठान्तरं, तत्र न कश्चित्क्लेशः ॥—प्राप्तविभाषेति । ज्वल दीप्तौ । हल हाल चलने इति त्रयाणां पूर्वपठितत्वान्नमेस्त्वमन्तत्वादिति भावः ॥—कथं संक्रामयतीति । क्रमेः ‘नोदातोपदेशस्य’ इति वृद्धिप्रतिषेधात् घञि क्रम इत्येवं भवति न तु क्राम इति पूर्वोक्तसमाधानस्यात्रासंभवात्पृथक् प्रश्नः ॥ व्यवस्थितविभाषेत्यादि । कचित् णौ मितां हस्रो न प्रवर्तत इति भावः ॥—वृत्तिकृदिति । केचित्तु घनन्तात्कमशब्दात्प्रज्ञायणि क्रामशब्दं स्वीकृत्य तस्मात् ‘तत्करोति’ इति णौ संक्रामयतीति समादधत इति भावः ॥—इतरयोः प्राप्ते इति । वनेः पूर्वं पाठाद्वमेरमन्तलाचेति भावः । ग्लापयति ग्लपयति । स्नापयति स्नपयति । वानयति । वनयति । वामयति । व्रमयति ॥—शाम्यतिवदिति । यथा शाम्यतिनिशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि श्रवणे भविष्यतीत्यर्थः ॥—यमोऽपरिवेषणे ॥—यच्छतिरिति । यम उपरमे इत्यर्थं धातुभोजनातोऽन्यत्र । भोजनाशब्दो ‘न्यासश्रन्थो युच्’ इति यजन्तो ज्ञेयः । परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽन्यस्मिन्नर्थे मिन्निषेधः ॥—नियमयन्निति । नियमवच्छब्दाणिचि विन्मतोर्लुकि शतरि शप्प्रत्यये गुणे च ज्ञेयम् ॥—व्यत्यासः फलित इति । स्वामिमते लपरिवेषणे आयमयति । परिवेषणे तु यमयति ब्राह्मणान् । अवादिपूर्वस्य स्वदेरवस्वदयति । परिस्वदयति । प्रपूर्वस्य तु प्रस्वादयतीत्येवं व्यत्यासो ज्ञेयः ॥—उपेक्ष्यमिति । ‘न पादम्याङ्’ इति सूत्रे आयामयत इत्युदाहृत्य वृत्तावुक्तं यमोऽपरिवेषण इत्यनेन मित्त्वं प्रतिषिध्यत इति न्यासेऽपि तत्र ‘न कम्यमि’ इत्यतो नेत्यनुवर्तत इत्युक्तम् । एवं हि निषेधानन्तरं पाठ उपपद्यते । अन्यथा ‘न कमि’ इत्यतः प्रागेव त्रिसूत्रीं पठेदिति भावः । फण गतौ । फणति । लुङि । अफाणीत् । अफाणीत् । णौ तु ‘चिण्णमुलोः’ इति वा दीर्घः । अफाणि । अफाणि । फणंफणम् । फाणंफाणम् ॥—असंभवादिति । मित्त्वप्राप्तिं विना निषेधासंभवादिह नेत्येतन्न संबध्यते किंतु मित्संज्ञैव । तदेतदाह—फणयतीति ॥—सामर्थ्यादिति । फणादिषु पाठसामर्थ्यादित्यर्थः ।—तत्र हीति । पलविधौ हीत्यर्थः । तथा च विभ्राट् विभ्राङ्म्याम् । पूर्वं पठितस्य तु विभ्राक् विभ्राण्भ्यामित्यादि सिद्ध्यतीति भावः ॥—अस्यमीदिति । मान्तलान्न वृद्धिः ॥ ॥ अथ ज्वलादिः ॥—अज्वालीदिति । ‘अतो ल्रान्तस्य’ इति वृद्धिः ॥—वैकृच्य इति । वैकृच्यं भयादिजनितोद्विमता ॥—तद्व्यापार इति । वन्धुतानुकूलो व्यापारः
Bālamanoramā
व्यथो लिटि - व्यथधातुर्द्वितीयान्तः । व्यथो लिटि । 'अत्र लोपःर' इत्यतोऽभ्यासस्येति,द्युतिस्वाप्यो॑रत्यतः संप्रसारणमिति चानुवर्तते । तदाह — व्यथोऽभ्यासस्येत्यादिना । हलादिशेषापवाद इति । व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः । तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न संप्रसारणं,न संप्रसारणे संप्रसारण॑मिति निषेधात् । ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह — थस्येति । यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तेस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाऽभावादिति भावः । मृद मर्दने इति । ऋदुपधोऽयम् । मर्दते । ममृदे । क्षिजधातुरिदित् । क्षञ्जते । चक्षञ्जे । नु घटादिगणेऽस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याऽप्रसक्त्या 'मितां ह्रस्वः' इत्यस्याऽप्रवृत्तावपि विशेषाऽभावादनुपधात्वेन 'मितां ह्रस्व' इत्यस्य प्रसक्त्यभावाच्च । अत एव अक्षञ्जि क्षञ्जं क्षञ्जिमित्यत्रापिचिण्णमुलो॑रिति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह — मित्त्वसामर्थ्यादिति । दक्ष गतीति । ननुदक्ष वृद्धौ शीघ्रार्थे चे॑त्यनुदात्तेत्सु पाठादेव सिद्धे किमर्थमिह पाठः , अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह — वृद्धिशैघ्र्ययोरिति । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोर्दीर्घविकल्पः । अदक्षिः अदाक्षि । दक्षंदक्षम्, दाक्षंदाक्षम् । क्रप कृपायां गताविति । अदुपधोऽयम् । कृपायां गतौ चेत्यर्थः । कदि क्रदि क्लदि इति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति — कदिक्रदिक्लदिनामित्यादिना । ञित्वरेति । ञिरित् । 'ञीतः क्तः' इति क्तः प्रयोजन् । आदित्त्वं तुआदितश्चे॑ति निष्ठायामिण्निषेधार्थम् । वस्तुतस्तु आदित्त्वं व्यर्थं, ह्रस्वेऽप्यात्नेपदसिद्धेःरुष्यमत्वरसङ्घषास्वना॑मिति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति । 'त्वरत्यन्ता' इति शेषः । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राग्घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति । 'फण गता' वित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोगे इति । णौ ज्वरयति । चिणि तु अज्वरि — अज्वारि । णमुलि तु — ज्वरंज्वरं ज्वारंज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टन इति । डकारादकार उच्चारणार्थः । ततश्चनाग्लोपिशास्वृदिता॑मिति निषेधो न भवति । स एवेति । हेडृधातुरेव ऋकारानुबन्धमुत्सृज्य वेष्टनरूपेऽर्थविशेषे मित्त्वार्थमनूद्यते इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । नन्वात्मनेपदिन एवाऽत्रानुवादे परस्मैपदं न स्यादित्यत आह -परस्मैपदिभ्य इति । यदि त्वात्नेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठएतेति भावः । हेडतीति । वेष्टते इत्यर्थः । हिडयतीति । वेष्टयतीत्यर्थः ।हेतुमती॑ति णिचि 'मितां ह्रस्वः' इति ह्रस्व इति भावः । अडिहि अहीडीति ।चिण्णमुलो॑रिति दीर्घविकल्पः । हेडयतीति । वेष्टनरूपाऽर्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नाऽपूर्वो धातुरित्याह — वट वेष्टने इत्यादि । अनुवाद इति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । 'णट नृत्तौ' इत्यस्य पौनरुत्तयमाक्षिपति — इत्थमेवेति ।टवर्गान्तेष्विटति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यते इति परिहारस्याऽसंभवात्पौनरुक्त्यमेवेति भावः । परिहर्तुमुपक्षिपति — तत्रायं विवेक इति । तत्र = तयोर्धात्वोः, अयं = वक्ष्यमाणः, विवेकः = अर्थभेदः, प्रत्येतव्य इत्यर्थः । पूर्वं पठतस्येति । टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति । यस्य कर्तृषु नटव्यवहारस्तन्नाटं पूर्वं पठितस्यनटधातोरर्थ इत्यर्थः । किं तन्नाटमित्यत्राह — वाक्यर्थेति । घटादौ त्विति । यस्य कर्तृषु नर्तकव्यपदेशस्तन्नृत्यं, नृत्तं च घटादौ पठितस्य नटेरर्थः इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह — पदार्थेति । एवंच टवर्गान्तेषु पठितस्य घटादगतस्य चाऽर्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते । धात्वन्तरत्वे तु भित्त्वतदभावयोर्विकल्पः स्यादिति भावः । अथ नटधातोरस्य णोपदेशपर्युदासभ्रमं वारयति — णोपदेशेति ।अनर्द्नाटी॑त्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्पन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुः षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति । 'धात्वादे' रिति षस्य सत्वे ष्टुत्वनिवृत्तिः । चक तृप्तौ । तृप्तीति ।चक तृप्तौ प्रतीघाते चे॑त्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्राऽनुवाद इत्यर्थः । एवं च धात्वन्तरत्वाऽभावान्न मित्त्वततदभावविकल्पः । ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह — आत्नेपदिष्विति । षगे ष्टगे इति । षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यत इति । ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थस्तर्हि कथमयं धातुरित्यत आह — क्रियासामान्यार्थवाचित्वादिति । धातुपाठपठितस्य क्रियाविशेषार्थकत्वाऽभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः । अनेकेति ।कलिः कामधेनु॑रिति न्यायेन कलधातुवदपरमितार्थकत्वमिति भावः । श्रथ क्नथ क्रथ क्लथ इति । चत्वारोऽपि द्वितीयान्ताः । आद्यतृतीयौ रेफमध्यौ । द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः । आद्यस्तु शकारादिः । इतरे ककारादयः । ननु क्रथधातोर्घटादित्वेन मित्त्वाण्णौ उपधावृद्धिसंपन्नस्य अकारस्य 'मितां ह्रस्व' ति ह्रस्वत्वे क्रथयतीति स्यान्नतु क्राथयतीति । तत्राह — जासिनीति ।जासिनिप्रहणनाटकाथपिषां हिंसाया॑मिति षष्ठीविधौ णौ मित्वेऽपि क्राथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेवं सति घटादौ क्रथधातोः पाठो व्यर्थ इत्यत आह — मित्त्वं त्विति । चिण्णमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः । ननु तत्रापि क्राथेति निपातनाद्वृद्धिरित्यत आह — निपातनात्परत्वादिति ।क्राथे॑ति निपातनापेक्षयाचिण्णमुलो॑रित्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्वः' इत्यपि परन्तथापि पुरस्तादपवादन्यायेन क्राथेतिवृद्धिनिपातनं 'मितां ह्रस्वः' इत्यस्यैवाऽव्यवहितस्य बाधकं, नतुचिण्णमुलो॑रित्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम् । अक्रथि — अक्राथीति । क्रथेण्र्यन्ताच्चिणि दीर्घविकल्पः । क्रथंक्रथं क्राथंक्राथमिति । णमुलि दीर्गविकल्पः । वन चेति । चकारो हिंसानुकर्षकः । तदाह -हिंसायामितीति । वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः । वनति । णौ तु — वनयति । णमुलि तु वनंवनं वानंवानम् । वनु च नोच्यते इति । 'कगे नोच्यते' इति वद्व्याख्येयम् । नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽनुवादात्क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम्, उप्रत्ययश्च स्यादित्यत आह — अपूर्व एवायमिति । उदित्करणेति । यदि तानादिकस्यैव अत्रानुवादः स्यात्तर्हि तनादिगणे 'वनु' ति कृतेन उदित्करणेनैवउदितो वे॑त्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः । तथाचवनती॑ति परस्मैपदं, शब्विकरणं चेत्याह — तेन क्रियासामान्ये वनतीत्यादीति । आदिना वनतः वन्नतीत्यादिसङ्ग्रहः । प्रवनयतीति । घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ध्रस्वः । वक्ष्यत इति ।ग्लास्नावनुवमां चे॑त्यनेने॑ति शेषः । तानादिकात्तु वनु याचने इत्यस्माण्णिचि उपधादीर्घेवानयती॑त्येव भवति । ज्वल दीप्तौ । मप्रत्ययार्थमिति ।ज्वलितिकसन्तेभ्यो णः॑ इति णप्रत्ययार्थं ज्वलादिगणे पठिष्यमाणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वं प्रयोजनमाह — प्रज्वलयतीति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम् । स्मृ आध्याने । चिन्तायामिति ।स्मृ चिन्ताया॑मिति पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवाद इत्यर्थः । चिन्ताया आद्यानमन्यदिति दर्शयितुमाह — आध्यानमुत्कण्ठेति । दृ भये इति । अस्य दृणातीति रूपं,न तु शप् । तदाह — मित्वार्थोऽनुवाद इति ।भयेऽर्थे मित्त्वार्थ॑मिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वाद्भये वृत्तिः । तथाच ऋयादित्वात् श्नविकरण एवायमिति भावः । मित्त्वप्रयोजनं दर्शयति — दरयतीति । भीषयतीत्यर्थः । दारयतीति । भेदयतीत्यर्थः । धात्वन्तरमेवेति । नतु क्रयादेरनुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वाच्छबेवेत्याह — दरतीत्यादीति । सूत्रे चेति ।अत्स्मृद्दृत्वरप्रथम्दस्तृस्पशा॑मित अत्वविधावित्यर्थः । ह्रस्वं पठन्तीति । तन्मते क्र्यादेरनुवादप्रसिक्तिरेव नास्तीति भावः । तन्नेतीति । यदि ह्रयं घटादौ ह्रस्वान्तः, क्र्यादौ तु दीर्घान्तो भवेत्तर्हिशृदृप्रां ह्रस्वो वे॑त्यत्र दृग्रहणमनर्थकं स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धेरिति भावः । नृ नये इति । नयः — नयनम् । क्र्यादिष्विति । 'नृ नये' इत्येव क्र्यादिषु पठते । तत्रार्थनिर्देशो न विवक्षितः । क्र्यादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथा च श्नविकरण एवायम् । नृणातेर्धातत्वन्तरत्वाऽभावान्न मित्त्वतदभावौ । अपि तु नित्यमेव मित्त्वम् । श्रा पाके इति । नन्वत्र भ्वादौ पठमानाच्छ्रायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रान्तेरन्य एव यदि कश्चन स्वतन्त्रो धातुर्घटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन 'श्रा पाके' इत्यनेन पौनरुक्त्यमित्यत आह — श्रै इतीति । अग्रे भ्वादिगणे 'श्रै पाके' इति पठिष्यते, तस्य कृतात्वस्यानुकरणमित्यन्वयः । तथाच तस्यैव श्रैधातोरनेकार्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानिवादाच्छपि श्रायतीत्यादि रूपम् । एतच्च 'शृतं पाके' इति सूत्रे भाष्येकैयटयोः स्थितम् । एवं चसति संभवेऽन्यत्र पठितनामिह मित्त्वार्थोऽनुवाद॑ इति सिद्धान्तादग्रे भ्वादौ 'श्रै पाके' इत्यस्य पौनरक्त्यं न शङ्क्यम् । नन्वेवं सति 'श्रै पाके' इत्येवात्र कुतो न पठितमित्यत आह — श्रा इत्यादादकस्य चेति । ननु लाक्षणिकत्वात् ' श्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह — लुग्विकरणेत्यादि, परिभाषाब्यामित्यन्तम् । परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः ।स्वरतिसूयती॑ति सूत्रे 'सू' इति पठितेऽपि द्वयोग्र्रहणे सिद्धे सूतिसूयत्योः पृथग्ग्रहणंलुग्विकरणे॑ति परिभाषां ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धेत्युक्तमेव । श्रपयतीति । श्रैधातोर्णिचि 'आदेच उपदेशे' इत्यात्वेअर्तिह्यी॑ति पुकिमितां ह्रस्वः॑ । श्राधातोस्तु स्वत एवाऽऽदन्तत्वाण्णिचि पुकि ह्रस्वः । पाकादन्यत्रेति । अर्थनिर्देशस्योपलक्षणत्वादिति भावः । मारणति । मारणे तोषणे निशामने च ज्ञाधातुर्वर्तत इत्यर्थः । अक्षतस्य मारमे संपूर्वकस्यैव ज्ञाधातोः प्रयोगः । चाक्षुषज्ञानमिति । निपूर्वकाच्छम आलोचने इत्यस्माच्चौरादिकण्यन्ताल्ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति । उपसर्गवशादिह ज्ञापने वृत्तिः, चाक्षुषत्वं च ज्ञानस्य यन विवक्षतमिति भावः । निशानेष्विति ।मराणतोषणनिशामनेषु ज्ञे॑ति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपिज्ञाजनोर्जे॑ति जादेशे जाति जात इत्यादि स्यादित्यत आह — एष्वेवेति । 'ज्ञा अवबोधने' इति श्नविकरणस्यैव मारणादिष्वर्थेषु णौ मित्त्वार्थमिहानुवादात् श्नविकरण एवायमिति भावः । जानातेर्मित्त्वफलं तु णौ ह्रस्वः — पशुं संज्ञपयति॑ । अक्षतं मारयतीत्यर्थः ।हरिं ज्ञपयति॑ । संतोषयीत्यर्थः ।रूपं ज्ञपयति॑ । माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः ।शरं ज्ञपयति॑ । तीक्ष्णीकरोतीत्यर्थः । ननु माधवमते बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह -ज्ञप मिच्चेति चुरादाविति । एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वः सङ्गच्छते इति भावः । शृण्विति ।उत्तर॑मिति शेषः । मित्त्वाऽभावादिति ।ह्रस्वो ने॑ति शेषः ।विज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च अचाक्षुषमेवाऽऽत्मज्ञानं विवक्षितमिति भावः । ननुज्ञापनमात्रे मित्त्व॑मिति मतेविज्ञापने॑त्यत्रतज्ज्ञापयती॑त्यत्र च मित्त्वं दुर्वारमित्यत आह -ज्ञापनमात्रे इति । चौरादिकस्येति ।विज्ञापनेति ज्ञापयतीति च रूप॑मिति शेषः । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः । ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह — धातूनामिति । न कापीति ।विज्ञापने॑त्यत्र,ज्ञापयती॑त्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीक्ष्णीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवं च माधवमते बोधने ज्ञाधातोज्र्ञापयतीत्युपधादीर्घः । ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति । इका निर्देशोऽयम् । चलधातुः कम्पने मिदित्यर्थः । ज्वलादिरिति । तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः । शीलं चालयीति । अत्र कम्पनार्थकत्वाऽभावान्न मित्त्वमिति भावः । तदाह — अन्यथा करोतीत्यर्थ इति । धातूनामनेकर्थत्वादिति भावः । छदिरूर्जने इति । इका निर्देशोऽयम् । छदधातुरूर्चजने मिदित्यर्थः । ऊर्जनं — बलवत्करणं, प्राणनं वा,ऊर्ज बलप्राणनयो॑रित्युक्तेः । अन्यत्र पठितस्यात्रार्थविशेषे णौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयं चुराद्यन्तर्गणे युजादौ पठितः । तस्याऽत्रानुवादो व्यर्थः,नान्ये मितोऽहेता॑वित ज्ञापादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह — छद अपवारणे इति । चुराद्यन्तर्गणयुजादिपठितस्य 'आ धृषाद्धे' ति स्वार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । [हेतुमण्णिचीतियावत्] । स्वार्थिकणिचि सत्येव 'नान्ये मित' इति निषेधप्रवृत्तिरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिरित्यत आह — अनेकार्थत्वादिति । नु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत आह — छदयतीति । अत्र हेतुमण्णिचि ह्रस्वः । 'नान्ये मित' इति निषेधस्तु हेतुमण्णिचि नेति भावः । अन्यत्रेति । ऊर्जनादन्यत्र अपवारणे इत्यर्थ- । स्वार्थे णिचि त्विति । 'नान्ये मितः' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति । इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति । 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवं च धातुभेदाऽभावात्सर्वथैव मित्त्वकार्यं भवति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति जिह्वामिति । रसनां रसान् ज्ञापयतीत्यर्थः ।गतिबुद्धी॑ति द्विकर्मकोऽयम् । लडयति जिह्वयेति । देवदत्तो रसान् जानाति, तज्जिह्वया ज्ञापयतीत्यर्थः । तद्व्यापार इति । शब्दप्रयोगादिजह्वाव्यापार इत्यर्थः । समाहारेति । जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति — लडयति शत्रुमिति । 'गेहेशूर' इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः ।उन्मथनं लोडन॑मित्यभिप्रेत्योदाहरति — लडयति दधीति । विलोडयतीत्यर्थः । अन्यत्रेति । जिह्वोन्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति । क्रीरडयतीत्यर्थः । ग्लेपनं दैन्यमिति । दीनीभवनमित्यर्थः । ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह — दैवादिकस्येति । तथा च श्यन्विकरण एवाऽयमिति भावः । ध्वन शब्दे इति । पूर्वमनुनासिकान्तेषुअण रणे॑त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः, अयं तु दन्त्यान्त इति भेदः । भावीति । ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति । शब्दायमानां करोतीत्यर्थः । अन्यत्रेति अस्पष्टोच्चारणात्मके शब्दने इत्यर्थः । अत्रेति ।घटादा॑वित्यर्थः । तत्रेति । दलिवल्यादिष्वित्यर्थः । उदाहृताविति ।घटादा॑विति शेषः । तत्र ध्वनिरनुपदमेवोदाह#ऋतः ।रणिस्तुकण रण गता॑वित्यत्रेति बोध्यम् । भोजमते प्रागनयोःपाठो नेति न पौनरुक्त्यम् । गता इति । भ्वादौ पठिता इत्यर्थः ।इह मित्त्वार्थमनूद्यन्ते॑ इति शेषः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णौ ह्रस्वेक्षपयती॑ति वक्ष्यति । अस्त्वेवम्, तथापि 'क्षै क्षये' इति भ्वादौ पठिष्यमाणस्य णौ आत्वे पुकि क्षापयतीत्यपि स्यात्, क्षैधातोः क्षपीत्यनुवादाऽसंभवात् । तत्राह - क्षै इत्यादि । णौ आत्वे पुकि मित्त्वाद्ध्रस्वे सति क्षपीति क्षै इत्यस्यानुवादसंभव इति भावः । स्वन अवतंसने इति । अवतंसनम् -अलङ्कृतिः । पठिष्यमाणस्येति । घटादिगणादूध्र्वं 'स्वन शब्दे' इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोषऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । घटादयो मित इति । गणसूत्रम् । ननु घटादिषु मकारानुबन्दाऽदर्शनात्कथं मितस्ते स्युरित्यत आह — मित्संज्ञका इति । मित्कार्यभाज इत्यर्थः । जनीजृषिति । गणसूत्रम् । जनी जृष् क्नसु रञ्ज् एषां द्वन्द्वात्प्रथमाबहुवचनम् । अमन्ते येषां ते अमन्ताः — क्रिमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीर्यतेरिति । 'जृष् वयौहानौ' इति श्यन्विकरणस्येत्यर्थः । जृणातेस्त्वति । 'जृ वयोहानौ' इति श्नविकरणस्य षित्त्वाऽभावेनात्र ग्रहणाऽभावान्न मित्त्वमिति भावः । उदाहरन्ति । तन्मते जृणातेरप मित्त्वमिति भावः । ज्वलह्वलेत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति । ज्वहह्वलहृलां घटादित्वान्नमेर्मान्तत्वाच्च मित्त्वस्य प्राप्तेरिति भावः । उपसृष्टे त्विति । सोपसर्गे त्वित्यर्थः । कथं तर्हीति । रानुपसर्गादिति विशेषणे सति ज्वलेर्नमेश्च णौ मित्त्वविकल्पाऽभावाज्जनीजृषिति मित्त्वाद्ध्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते — घञन्तादिति । तत्करोतीति णावित्यनन्तरंसमाधेय॑मिति शेषः । प्रज्वलनं प्रज्वालः । उन्नमनमुन्नामः । भावे घञ् । उपधावृद्धिः । प्रज्वालं करोतीति, उन्नामं करोतीति चार्थे 'तत्करोति तदाचष्टे' इति णिचिणाविष्ठव॑दितीष्ठवत्त्वाट्टिलोपे सति तस्य स्थानिवत्त्वान्मित्त्वप्रयुक्तह्रस्वाऽभावे प्रज्वालि उन्नामीत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूपं इति भावः । ननु संपूर्वात्क्रमेर्णौ संक्रामयतीति रूपमिष्यते, तत्र अमन्तत्वेन मित्त्वाद्ध्रस्वप्रसङ्गः । नच क्रमणं क्राम इति घञन्तात्ततत्करोतीति णावुक्तरीत्या ह्रस्वाऽभाव इति कृत्वा समाधानं संभवति, क्रमेर्घञि हिनोदात्तोपदेशस्ये॑ति वृद्धिप्रतिषेधे सति 'क्रम' इत्येव भवति, नतु 'क्राम' इति कृत्वा उक्तसमाधानाऽसंभवादित्यप्रेत्याक्षिपति - कथमिति । समाधत्ते — मितामिति । 'मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्त्य मित्त्वाऽभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद्ध्रस्वो दुर्वार इत्यत आह — व्यवस्थितेति । तथा चात्र ह्रस्वाऽभाव एवाश्रीयत इति भावः । वृत्तिकृदिति । भाष्ये तु नैतत् दृश्यते इति भावः । एतेनेति । व्यवस्थितविभाषाश्रयणेनेत्यर्थः ।ग्लास्नावनुवमां चे॑ त्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति, मित इति, वेति चानुवर्तते । फलितमाह — अनुपसर्गादिति । आद्ययोरिति । ग्ला स्ना इत्यनयोरघटादित्वादप्राप्ते मित्त्वे, इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः । तत्र वनेः 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् ।न कम्यमिचमा॑मिति 'शमो दर्शने' इति च गणसूत्रम् । दर्शनं — चाक्षुषज्ञानम् । 'शम उपशमे' इति दैवादिकः श्यन्विकरणः एवात्र गृह्रते नतु 'शम आलोचने' इति चौरादिकः, 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधात् । तद#आह — शाम्यतिरिति । निशामयति रूपमिति । पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थत्वाद्दर्शने वृत्तिः । अन्यत्रेति । दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वेत्यर्थः । शमेण्र्यन्तात् क्त्वो ल्यपि कृतेल्यपि लघुपूर्वा॑दिति णेरयादेशः । कथमिति । तर्हि — तर्हि — दर्शनार्थकस्यैव शमेर्मित्त्वनिषेधे सति, 'शृणु' इत्यर्थे मित्त्वाद्ध्रस्वप्रसङ्गन्निशामयेति कथमित्याक्षेपः । समाधत्ते - चौरादिकस्येति ।निशामयेति रूप॑मिति शेषः ।नान्ये मितोऽहेता॑विति तस्य मित्त्वनिषेधान्न ह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात्कथं श्रवणे वृत्तिरित्यत आह — धातूनामिति । साम्यतिवदिति । श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शन वृत्तिस्तद्वदित्यर्थः । 'यमऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनाऽपूपादिभोज्यद्रव्याणां स्थापवनं परिवेषणम् । तदाह — भोजनातोऽन्यत्रेति । भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । आयामयतीति । अत्राऽपरिवेषणे वृत्तेर्न मित्त्वमिति भावः । तदाह — द्राघयतीति । दीर्घीकरोतीत्यर्थः । व्यापारयतीति । प्रवर्तयतीत्यर्थः । यमयति ब्राआहृणानिति । परिवेषमार्थकत्वान्मत्त्वमिति भावः । तदाह — भोजयतीति । भुञ्जते ब्राआह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः । ननुपर्यवसितं नियमय॑न्नित्यत्र अपरिवेषणार्थकतया मित्त्वाऽभावात्कथं ह्रस्व इत्यत आह — पर्यवसितमित्यादि । नियमनं नियमः ।यमः समुपनिविषुचे॑ति भावेऽप्प्रत्ययः । तस्मान्मतुप् । नियमवच्छब्दात्तकरोतीति णिचिवन्मतोर्लु॑गिति मतुपो लुकि ण्यन्ताल्लटश्शतरिगुणाऽयमादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याऽप्राप्त्याअचो ञ्णिती॑ति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकादर्शाअद्यजन्तान्नियमशब्दात्तत्करोती॑ति णिचि इष्ठवत्त्वाट्टिलोपे तस्य स्थानिवत्त्वादुपधावृद्ध्यभावेनियमय॑न्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । स्खदिरवपरिभ्यां चेत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । अव परि-आभ्यां परः स्खदधातुर्मिन्नेत्यर्थः । स्खद स्खदने इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्खादयतीति । अषोपदेशत्वेन आदेशसकारत्रापि मित्त्वाऽभावान्न ह्रस्वः । स्वामी त्विति । 'न कम्मिचमा' मित्यत्र श्रुतो नञ् 'शमो दर्शने' 'यमोऽपरिवेषणे'स्खदिरवपरिभ्यां चे॑ति त्रिषु सूत्रेषु नानुवर्तते । शमः — अदर्सने इति च्छेदः । शमधातुर्दर्शने मित्स्यादित्यर्थः । अमन्तत्वादेव सिद्ध#ए नियमार्थमिदम् ।अदर्शन एव शमधातुर्मित्स्यान्नतु दर्शने॑ इति स्वाभिमतम् । इदं च पर्यवसानगत्या पूर्वमतान्नाऽतिरिच्यते । यमस्त्विति । यमदातोस्तु अपरिवेषण एव मित्त्वमाहेत्यर्थः । अमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्भिन्न तु परिवेषण इति फलति । एवं च द्राघयति व्यापारयति वेत्यर्थे मित्तवाद्ध्रस्वेआयमयती॑त्येव रूपम् । परिवेषणे तु मित्त्वाऽभावाद्ध्रस्वाऽभावेयामयति ब्राआहृणा॑निति भवतीति पूर्वमताद्विपरीतं फलति । एवं चपर्यवसितं नियमय॑न्नित्यत्र यमेरपरवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्बाधः । तदाह — तन्मते इति । स्खदेर्घटादित्वादेव मित्त्वसिद्धेःस्खदिरवपरिभ्यां चे॑ति सूत्रमपि नियमार्थम् ।सोपसर्गस्य चेत्स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरा॑दिति । एवं च प्रस्खादयतीत्यत्र मित्त्वाऽभावान्न ह्रस्वः । अवस्खदयति परिस्खदयतीत्यत्र तु मित्त्वाद्ध्रस्व इति फलति । तदाह — उपसृष्टस्येति । सोपसर्गस्येत्यर्थः । पूर्वमते तु अवपरिभ्यां परस्य मित्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्खदयतीत्यत्र तु अवपरिपूर्वकत्वाऽभावेन मित्त्वनिषेधाऽभावाद्ध्रस्व इति विपरीतम् । तस्मादिति ।यमोऽपरिवेषणे॑,स्खदिरवपरिभ्यां चे॑ति सूत्रद्वये उक्तरीत्या मित्त्वनियमविध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति ।न पादम्या॑ङिति सूत्रव्याख्यावसरेयमोऽपरिवेषणे इति मित्त्वं प्रतिषिध्यत॑ इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केच्चित्तु स्वामिमते 'पर्यवसितं नियमय' न्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति । ननु घटादित्वेऽपि नायं मित्, इतः प्राक् 'स्वन अवतंसने' इत्युत्तरमेव 'घटादयो मित' इत्युक्तेः । अतः कथमत्र निषेधः । तत्राह — नेति निवृत्तमिति । प्राप्त विना मित्त्वस्य निषेधाऽसंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तते इत्यर्थः । ननु फम गतावित्यत्र मिन्नेति यदि नानुवर्तते । 'घ्वसोः' इत्यत एदिति, 'गमहने' त्यतः कितीति,वा जृभ्रमुत्रसा॑मित्यतो वेति च । तदाह — एषामिति । फणादीनामित्यर्थः । फणामिति बहुवचनात्तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तते इत्यस्य प्रयोजनमाह — फणयतीति । वृदिति — कर्तरि क्विबन्तम् । वृतुधातुरिह समाप्त्यर्थकः । तदाह — घटादिः समाप्त इति । फणेः प्रागेवेति । एवं सति फणेरघटादित्वान्न मित्त्वमित#इ भावः । तदाह — तन्मते फणयतीत्येवेति । इति घटादयः । राजृ दीप्ताविति । इत आरभ्य षण्णामेत्त्वाऽभ्यासलोपौ फणादित्वात्पक्षे भवतः । तदाह — रेजतुरित्यादि । ननुफमां च सप्ताना॑मित्यत्र अत इत्यनुवृत्तेः कथमिह एत्त्वाभ्यासलोपावित्यत आह — अत इत्यनुवृत्तावपिति । अत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्याद्राजृधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । 'अत' इति राजादिधातौ न संबध्यते, असंभवादिति यावत् । टु भ्राजृ इत्यादि । टुरित् 'ट्वितोऽथुच्' इत्येतदर्थः । अनुदात्तेत इति । 'एते त्रय' इति शेषः । ननु पूर्वं चवर्गान्तेष्वनुदात्तेत्सु भ्राजतेः पठात्पुनरपि तस्येह पाठः किमर्थ इत्यत आह — भ्राजतेरिति । तर्हिएजृ भ्रेजृ भ्राजृ दीप्तौ॑ इति भ्राजेः पूर्वं पाठो व्यर्थ इत्यत आह — पूर्वं पाठस्त्विति । षत्वाऽभावार्थ इति । 'व्रश्चभ्रस्जे' ति षत्वविधौ भ्राजेग्र्रहणाऽभावार्थ इत्यर्थः । ननु पूर्वं पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत आह — तत्र हीति । षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयोः पाक्षिकत्वादाह — भ्रेजे बभ्राजे इति । द्वावपीमाविति । द्वितीयतृतीयावित्यर्थः । ननु 'विष्वणती' इत्यत्र कथं षत्वं केवलदन्त्याऽजन्तसादित्वाऽभावेनाऽषोपदेशतया आदेशसकारत्वाऽभावात् । अवष्वणतीत्यत्र इण्कवर्गाभ्यां परत्वाऽभावान्न षत्वस्य प्रसक्तिः ।सात्पदाद्यो॑रिति निषेधाच्चेत्यत आह — वेश्च स्वन इतीति । तत्र चकारेणअवाच्चे॑त्यपि लभ्यत इति भावः । फणादयो गता इति ।ध्वनतेः प्रा॑गिति शेषः । ततश्च ध्वनेर्न फणादिकार्यमिति भावः । तदाह — दध्वनतुरिति । षम ष्टमेति । षोपदेशौ ।तस्तामेति । सत्वे सति ष्टुत्वनिवृत्तिरिति भावः । तैक्ष्ण्यमिति । तीक्ष्णीभवनमित्यर्थः । टल ट्वल । वैक्लव्यं — भयादिजनितो व्यग्रीभावः । णल । णोपदेशोऽयम् । गन्धः - गन्धक्रिया । तद्व्यापार इति बन्धुतानुकूलो विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुङि लृदित्त्वाच्च्लेरङि कृते अपत् अ त् इति स्थिते — पतः पुम् । शेषपूरणेन सूत्रं व्याचष्टे — अङि परे इति ।ऋदृशोऽङी॑इत्यतस्तदनुवृत्तेरिति भावः । पतेः पुम् स्यादङि परे इति फलितम् । पुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । तदाह — अपप्तदिति । क्वथे । जलक्षीरघृतादीनां पादमुदित् । तेनउदितो वे॑ति क्त्वायामिड्विकल्पो न । 'गृ निगरणे' इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्ल्युटि 'ऋत इद्धातोः' इति इत्त्वं बाधित्वा परत्वात् 'सार्वधातुके' इति गुणे सति 'उद्गरण' इत्येव निर्देशो युज्यत इत्यत आह — इहैवेति । 'उद्गिरणे' इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलने इति । वक्रमार्गसंचारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् ।उदितो वे॑ति क्त्वायामिड्विकल्पार्थमुदित्त्वम् ।
Footnotes (NSP 1915 ed.)
NSP p. 389 १ तन्नाप्यादावित्ति—वैगुरित्यादिप्रयोगा असाधव प्रवृत्ति भावः ।
SK 2354 · A 6.4.125V
फणां च सप्तानाम् ॥ २३५४ ॥
phaṇāṃ ca saptānām
Siddhānta-kaumudī
एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव ।{$ {!822 राजृ!} दीप्तौ$} । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ।{$ {!823 टुभ्राजृ!} {!824 टुभ्राशृ!} {!825 टुभ्लाशृ!} दीप्तौ$} । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश -SK 2321 इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ।{$ {!826 स्यमु!} {!827 स्वन!} {!828 ध्वन!} शब्दे$} । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः - SK 2274 इति षत्वम् । फणादयो गताः । दध्वनतुः ।{$ {!829 षम!} {!830 ष्टम!} अवैकल्ये$} । ससाम । तस्ताम ।{$ {!831 ज्वल!} दीप्तौ$} । अतो ल्रान्तस्य SK 2330 अज्वालीत् ।{$ {!832 चल!} कम्पने$} ।{$ {!833 जल!} घातने$} । घातनं तैक्ष्ण्यम् ।{$ {!834 टल!} {!835 ट्वल!} वैक्लव्ये$} ।{$ {!836 ष्ठल!} स्थाने$} ।{$ {!837 हल!} विलेखने$} ।{$ {!838 णल!} गन्धे$} । बन्धन इत्येके ।{$ {!839 पल!} गतौ$} । पलति ।{$ {!840 बल!} प्राणने धान्यवारोधने च$} । बलति । बेलतुः । बेलुः ।{$ {!841 पुल!} महत्त्वे$} । पोलति ।{$ {!842 कुल!} संस्त्याने बन्धुषु च $}। संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ।{$ {!843 शल!} {!844 हुल!} {!845 पत्लृ!} गतौ$} । शशाल । जुहोल । पपात । पेततुः । पतिता ॥
SK 2355 · A 7.4.19V
पतः पुम् ॥ २३५५ ॥
pataḥ pum
Siddhānta-kaumudī
अङि परे । अपप्तत् ।नेर्गद - SK 2285 इति णत्वम् । प्रण्यपप्तत् ।{$ {!846 क्वथे!} निष्पाके$} । क्वथिति । चक्वाथ । अक्वथीत् ।{$ {!847 पथे!} गतौ$} । अपथीत् ।{$ {!848 मथे!} विलोडने$} । मेथतुः । अमथीत् ।{$ {!849 टुवम!} उद्गिरणे$} । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ।{$ {!850 भ्रमु!} चलने$} । वा भ्राश - SK 2321 इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥
Tattvabodhinī
NSP p. 389—पतः पुम् ॥ मित्त्वादन्त्यादचः परः ॥—अकथीदिति । एदिलान्न वृद्धिः । एवम् अपर्थात् । अमथीदित्यत्रापि । दुःखम् । केचिदमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति तत्तु वामनेन विरुध्यते । तेन हि ‘आदितश्च’ इति चकारस्यानुक्तसमुच्चयार्थलमाश्रित्य वान्त इत्यत्र इडभावः साधितः । उदित्वे तु ‘यस्य विभाषा’ इत्यनेनैव वान्त इति सिद्धेस्तदसंगतं स्यात् । एवं च क्लाप्रत्यये वमित्वेत्येव साधु ॥—निपातनादिति । अन्यथा गुणे सति उद्गरण इति स्यात् । यद्यपि अर्थनिर्देश आधुनिकस्तथापि पृषोदरादित्वमित्यत्रैव तात्पर्यं बोध्यम् ॥—इत्याद्यप्युदाहृतमिति । ‘वेमुश्च केचिद्वधिरम्’ इत्यादिप्रयोगानुरोधेन तथोदाहृतमित्याहुः । ननु वादित्वेन निषेधादेत्याभ्यासलोपौ कथमिह स्यातामिति चेत् । अत्राहुः । ‘न शसददवादिगुणानाम्’ इति सूत्रितेऽपि वेत्यकारान्तसंघातग्रहणेनेष्टसिद्धेरादिग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । एकान्ता अनुवन्धा इति च स्वीक्रियते । तथा च नायं वादिः किं तु द्वादिरिति । अन्ये तु वमेरादौ ‘लोपो व्योः—’ इति लोपेन यकारः प्रश्लिष्यते । ततश्चोपदेशे वादित्वाभावान्निषेधो नेत्याहुः । भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थो न तु चलनमात्रं तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः । ‘शुक्तिं पश्यन् रजतमिति भ्रमति’ इति प्रयोगात् । ‘उदितो वा’ इति क्लायां वेट् । भ्रमित्वा । भ्रान्त्वा । ‘यस्य विभाषा’ इति निष्ठायां नेट् । भ्रान्तः । नन्वस्य ज्वलादिगणे पाठः किमर्थः । न चात्र णप्रत्ययार्थमेव पाठ इति वाच्यम् । पचादेराकृतिगणलादच्छ्रत्यये- नापि अम इति रूपसिद्धेः ‘नोदात्तोपदेशस्य’ इति वृद्धिनिषेधात् णप्रत्यये अच्छ्रत्यये च रूपस्य तुल्यत्वादिति चेत् । अत्राहुः । यदि पचादित्वादच्छ्रत्ययः स्यात्तर्हि अभ्रम इत्यत्र ‘अच्छ्रकावश्चाच्छ्री’ इति नवः परमन्तोदात्तं स्यात् णप्रत्यये लिह ‘तत्पुरुषे तुल्यार्थं’ इत्याद्युदात्तमेव भवतीति
SK 2356 · A 6.4.124V
वा जॄभ्रमुत्रसाम् ॥ २३५६ ॥
vā jṝbhramutrasām
Siddhānta-kaumudī
एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् ।{$ {!851 क्षर!} संचलने$} । अक्षारीत् ॥ अथ द्वावनुदात्तेतौ ।{$ {!852 षह!} मर्षणे$} । परिनिविभ्यः - SK 2275 इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह - SK 2340 इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥
Tattvabodhinī
NSP p. 389—या जृभ्रमुत्रसाम् ॥ अप्राप्तविभाषेयम् ॥—अभ्रमीदिति । मान्तत्वान्न वृद्धिः ॥—अक्षारीदिति । हलन्तलक्षणाया वृद्धेः ‘नेटि’ इति निषेधेपि ‘अतो लान्तस्य’ इति वृद्धिः । षह् । अपराधे सत्यपि कोपानाविष्करणं मर्षणम्
Bālamanoramā
वा जॄभ्रमुत्रसाम् - वा जृभ्रसु । 'अत एकहल्मध्ये' इत्यतो लिटीति,थलि च सेटी॑ति चानुवर्तते । 'ध्वसोरेद्धौ' इत्यत एदिति,गमहने॑त्यतः कितीति च । तदाह — एषामिति । अभ्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । अक्षारीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम् । इडभावे इति । सह् — ता इति स्थिते 'हो ढः' इति ढत्वं,झषस्तथो॑रिति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । 'ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । स ढा इति स्थितम् ।
SK 2357 · A 6.3.112V
सहिवहोरोदवर्णस्य ॥ २३५७ ॥
sahivahorodavarṇasya
Siddhānta-kaumudī
अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥
Tattvabodhinī
NSP p. 389—सहिवहो—। इह रेफलोपस्यासंभवात् ‘बलोपे पूर्वस्य’ इत्यतो बलोप एवानुवर्तते तदाह—बलोप इति । बलोपे किम् । सहते । वहते
Bālamanoramā
सहिवहोरोदवर्णस्य - सहिवहोः । ढलोपे इति । 'ढ्रलोप' इत्यतस्तदनुवृत्तेरिति भावः । 'रलोप' इति तु नानुवर्तते, असंभवात् । तथा चसकारादकारस्य ओत्वे सोढेति रूपम् ।परिसोढे॑त्यत्र 'परिनिविभ्य' इति षत्वे प्राप्ते —
SK 2358 · A 8.3.115V
सोढः ॥ २३५८ ॥
soḍhaḥ
Siddhānta-kaumudī
सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥
Tattvabodhinī
NSP p. 389—सोढः ॥—षत्वं नेति । ‘न रपर’ इति सूत्रान्नेत्यनुवर्तते इति भावः
Bālamanoramā
सोढः - सेधतेः । न षत्वमिति ।न रपरे॑त्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसेधतीति । गच्छतीत्यर्थः । इहउपसर्गात्सुनोती॑ति षत्वं न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह -शास्त्रं शासनमिति । माङ्गल्यं तु — शुभकर्म । षिध गत्यामितिवदस्यापि रूपाणि ।
SK 2359 · A 8.3.71V
सिवादीनां वाऽड्व्यवायेऽपि ॥ २३५९ ॥
sivādīnāṃ vā'ḍvyavāye'pi
Siddhānta-kaumudī
परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत ।{$ {!853 रमु!} क्रीडायाम्$} । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः ।{$ {!854 षद्लृ!} विशसणगत्यवसादनेषु$} ॥
Tattvabodhinī
NSP p. 389–390—सिवादीनां—। सिवुसहस्रदुःखस्रः सिवादयः । पर्यर्षीव्यत् । पर्यर्सीव्यत् । पर्यर्ष्करोत् । पर्यर्स्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्ट्यजत् । व्यस्तजत् । रमु क्रीडायाम् । अमुमुदितं मत्वा रन्त्वा रमित्वेति केचिदुदाजहस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रन्त्वेत्येव साधु ॥—रेमिषे इति । क्रादिनियमादिट् । पचाद्यचि टाप् । रमा । घञि तु रामः । अमन्तत्वेन मित्त्वात् णौ हस्तः । रमयति । षट्टु । विशरणमवयवानां विश्लेषः । अवसादनं नाशः ॥—पाम्राध्मा—। पा पाने । पा रक्षणे इति तु न गृह्यते । लुग्विकरणत्वात् । द्रष्ट्रीति केपांचित्पाठस्तत्र ‘सृजिदृशोः’ इत्यम् । अतीत्यादौ ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाभाव इति बोध्यम् । दृश्यतीति पाठस्तु निर्दुष्ट एव ॥—पादीनामिति । एकादशानामेषां यथासंख्यमेकादश पिबाद्यादेशाः स्युरित्यर्थः । ‘ष्टिवुक्रमुचमाम्’ इत्यतः शितीत्यनुवर्तते स च कर्मधारय इत्यभिप्रेत्याह—इत्संज्ञकशकारादाविति । शकारादाविति किम् । पपे । जग्रे । दध्मे । शितीति वहुत्रीहिरित्यभ्युपगमे त्विह पिवादादेशाः स्युरेव ॥—सेदिथेति । ‘उपदेशेऽत्वतः’ इति क्रादिनियमप्राप्तस्येदो निषेधेऽपि भारद्वाजनियमादिद्
Bālamanoramā
सिवादीनां वाऽड्व्यवायेऽपि - सिवादीनां । 'परिनिविभ्य' इति सूत्रादुत्तरमिदं सूत्रम् । तदाह — परिनिविभ्यः परेषामिति ।सिवुसहसुट्स्तुस्वञ्जा॑मिति शेषः । रमु इति । नाऽयमुदिदिति माधवः । केचित्तु उदितं मत्वाउदितो वे॑ति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि क्रादिनियमादिट् । तदाह — रेमिषे इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः । षद्लृधातुः षोपदेशोऽनिट्कश्च ।
SK 2360 · A 7.3.78V
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ॥ २३६० ॥
pāghrādhmāsthāmnādāṇdṛśyarttisarttiśadasadāṃ pibajighradhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ
Siddhānta-kaumudī
पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः SK 2271 । निषीदति । न्यषीदत् ॥
Bālamanoramā
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः - लटि शपि सद् अ तीति स्थिते -पाघ्राध्मा । पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद् सद् एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद एषां द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः ।ष्ठिवुक्लमु॑इत्यतः शितीत्यनुवर्तते । श् चासौ इच्चेति कर्मधारयः ।अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । तदाह — इत्संज्ञकेति । ससादेरिति । इत्संज्ञकशकारादिप्रत्ययाऽभावान्न सीदादेशः । श् इत् यस्य स शित् । शितीति बहुव्रीह्राश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे 'पपे' इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे 'थलि च सेटी' त्येत्त्वाभ्यासलोपौ । तदाह — सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति ।प्राक्सितादड्व्यवायेऽपि॑ति षत्वम् ।
SK 2361 · A 8.3.118V
सदेः परस्य लिटि ॥ २३६१ ॥
sadeḥ parasya liṭi
Siddhānta-kaumudī
सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ।{$ {!855 शद्लृ!} शातने$} । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥
Tattvabodhinī
NSP p. 390–391—सदैः परस्य—। सदैरिति षष्ठी । फलितमाह—अभ्यासात्परस्येति । ‘स्थादिष्वभ्यासेन च—’ इति प्राप्तिः । लिटीति किम् । निषिप्तिसति । सदिसङ्योरिति वृत्त्यादिरूढोऽपि पाठ इहोपेक्षितः भाष्याननुगुणत्वात् ॥ —निषसादेति । ‘सदिरप्रतेः’ इत्यत्राप्रतेरिति पर्युदासात्प्रतिससादेत्यत्राभ्यासस्यापि षत्वं नेति बोध्यम् । शत्रु । विशीणंतायामिति वक्तव्ये शातने इत्युक्तिरसंगतेत्याशङ्क्य कथंचित्समाधत्ते—शातनं त्विति । शदेरेव हि णिचि ‘शदेरगतौ—’ इति तत्त्वे ल्युटि च शातनमिति रूपम् । तथा चास्यैव धातोरिदं रूपं प्रसिद्धं चेत्यभिप्रेत्य तन्निर्देशः कृतः । यथा गम्ल गतौ । हुपचप् पाके इत्यादाविति भावः ॥ कुच संपर्चनादौ । कुच शब्दे तारे इति चवर्गीयान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्यप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः । अनेनैव प्रन्येन पाणिनिनापि कचित्कचिदर्थनिर्देशः कृत इत्यनुमीयते । अन्यथाऽत्रत्यप्रन्थस्वारस्यभङ्गापत्तेरित्याहुः ॥—बोधितेति । बुध्यतेरेवानिट्कारिकासु पठितत्वादयं सेडिति भावः ॥—अकासीदिति । हलन्तलक्षणाया वृद्धेः ‘नेटि’ इति निषेधेऽपि ‘अतो हलादेः—’ इति वैकल्पिकी वृद्धिः ।—वृदिति । अत्र नव्याः । ‘ज्वलितिकसन्तेभ्यः—’ इति निर्देशाद्वत्करणमिहानार्षमित्यनुमीयते । अन्यथा ‘ज्वलादिभ्यो णः’ इत्येव सूत्रयेदित्याहुः । अञ्च गतौ । ‘अनिदिताम्—’ इति नलोपः । अच्यात् । अचीत्येकीयमते तु इदित्त्वादध्यात् । मेधृ संगमे च । चात्पूर्वोक्तेऽर्थे । ‘प्रजायै गृहमेधिनाम्’ इत्यत्र गृहैर्दारैर्मेधन्ते सङ्गच्छन्ते इति विग्रहः । ‘सुप्यजातौ—’ इति णिनिः । शृधु मृधु ॥—क्लेदनमिति । आद्रीभाव इत्यर्थः । उदित्त्वात् क्लायां वेट् । शर्धित्वा । शृङ्गा । उत्तुन्दिर् । तुन्दित्वा । तुन्त्वा । निष्ठायां तुन्नः । निशामनं चाश्चर्यं ज्ञानम् । वेणु । गत्यादयः पञ्चार्थाः । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः ॥—नान्तोऽपीति । ‘उत माता महिपमन्ववेनत्’ इत्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायाम् । खातः ॥—गमहन—। ‘अचि श्रुधातुभ्रुवाम्—’ इत्यतोऽचीत्यनुवर्तते । ‘ऊदुपधाया गोहः’ इत्यत उपधाग्रहणं च तदाह—एषामुपधाया इत्यादि । जग्मतुः । जग्मुः । जग्रतुः । जग्रुः । जज्ञे । जज्ञाते । जक्षतुः । जश्चुः । अनङीति किम् । अगमत् ॥ —चीवृ । चीवरं वल्लं ‘चीवरपीवृनमीन्त्राः’ इत्युप्तविष्णुकनिपातितेऽयम् सिद्ध्य तत्त्वानन्तरी कुम्भात् । वित्तीया तु नित्यमात्मनेपदी गत इति मनोरमा । न कुत्रापि गत इति चिन्त्यैव सा ॥—अव्ययीदिति । यान्तत्वान्न वृद्धिः । स्पश बाधनसर्श- नयोः ‘णिधि—’ इति च्छेक्षङि । अपसशत् । ‘अत्स्मृद्दृत्तरप्रथ—’ इत्यादिना अभ्यासस्यात्वं सन्वदित्वापवादः । पसशा । यङन्तादचि ‘यङोऽचि ऋ’ इति लुक् ‘अजायतः—’ इति टाप् । ‘दीर्घोऽकितः’ इत्यभ्यासस्य दीर्घस्तु न भवति संज्ञापूर्वकविधेरनित्यलादित्याहुः । ‘जपजभदहदशभजपशां च’ इत्यत्र पसेति सौत्रो धातुः ॥—पसतीत्यादि । यङ्लुकोस्तु ‘जपजभ—’ इत्यनेनैवाभ्यासस्य नुक् । यङि पंपस्यते । लुकि पंपसीति । पंपस् इति कण्ड्वादिः । पंपस्यति
Bālamanoramā
सदिष्वञ्जोः परस्य लिटि - स्तन्भुसिवु ।उपसर्गनिमित्तस्य प्रतिषेध॑ इति वार्तिकम् । न रपरसृपी॑त्यतो नेत्यनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते । 'मूर्धन्य' इत्यधिकृतम् । तदाह — उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः ।षिवु ततन्तुसन्ताने॑ 'षह मर्षणे' पर्यसीषिवत् न्यसीषहदिति ।परिनिविभ्यः सेवे॑त्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिट्त आशिशदिति । आट् इ अ त्, आश् इ अ त् इति स्थितेणौ चङी॑त्युपधाह्रस्वात्प्रागन्तरङ्गत्वा॒चङी॑ति द्वित्वमाशङ्क्याह — बहिरङ्गोऽपीति । उपधाह्रस्वश्चङ्परण्यपेक्षत्वाद्बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथाऽपि द्वित्वात्प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह — ओणेरिति । 'ओणृ अपनयने' इति धातोः ऋदित्करणम् औणिणदित्यत्र नोग्लोपी॑ति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वाद्द्वित्वं स्यात्तदा ओण् इ अ त् इत्यत्रअजादेर्द्वितीयस्ये॑ति णीत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चङ्परे णौ उपधात्वाऽभावादेव ह्रस्वस्याऽप्रसक्तत्वादृदित्करणं व्यर्थं स्यात् ।द्वित्वात्प्रागेव उपधाह्रस्व॑इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतोबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवे॑ति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशदिति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह — मा भवानिदिधदिति । एध् इ अ त् इति स्थिते पूर्वं द्वित्वप्रवृत्तौधी॑त्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात्, द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थितेधी॑त्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिध्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् 'एत्येधत्यूठ्सु' इति वृद्धिः स्यादित्यत आह — एजादावेधताविति ।अवर्णादेजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अ त् इति स्थितेदी॑त्यस्य द्वित्वमिति भावः । आड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्याऽसिद्धत्वेन दकारात्परस्यडि॑इत्यस्य द्वित्वमिति भावः । आर्चिददिति । अर्च् इ अ त् इति स्थिते रेफात् परस्यची॑त्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति । ननु चङिब्जी॑त्यस्य द्वित्वे हलादिशेष#ए औबिब्जदिति रूपं स्यात् । औब्जिजदित्येव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रुयते इत्यत आह — भुजन्युब्जाविति । ननु द्वित्वात्प्रागन्तरङ्गत्वाद्दकारस्य बकारादेशे सति 'न न्द्रा' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह — स चेति । ननु 'द्रु गतौ' द्रावयति, चङिद्रु॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोरुपधाह्रस्वेरुआवतिशृणोती॑त्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । 'न न्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह — अजादेरित्येवेति । 'न न्द्राः' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । 'आदिभूतादचः' इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । प्रकृते आदिभूतादचः परत्वाऽभावान्न दकारद्वित्वनिषेध इत्यर्थः ।अदिद्रप॑दिति पाठे द्राधातोर्णिचि पुकिद्रापी॑त्यस्माद्रूपम् । ननुलावस्थायाम॑डिति पक्षे अचः परत्वमस्त्येवेति चेन्न, 'न न्द्राः' इत्यत्रलिटि धातो॑रित्तो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदरा द्विर्नेति व्याख्यानादित्याहुः ।
Footnotes (NSP 1915 ed.)
NSP p. 391 १ गुणहेताविति—एतेन जुगृहतुरित्यादि सिद्धम् । २ हस्वादङ्गादिति—यद्यपि ‘हस्वात्सिचः’ इत्येव सिद्धम् । अलविधा-मित्यादावपि न दोषः । आगमे कृते तत्सहितस्यैव प्रत्ययत्ववत्सिच्चत्वम् इति स्वावयवत्वेन पौर्वापर्याभावात्, तथापि पदलाघवाभावादिवर्गवोक्तम् ।
SK 2362 · A 1.3.60V
शदेः शितः ॥ २३६२ ॥
śadeḥ śitaḥ
Siddhānta-kaumudī
शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् ।{$ {!856 क्रुश!} आह्वाने रोदने च$} । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् ।{$ {!857 कुच!} संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु$} । कोचति । चुकोच ।{$ {!858 बुध!} अवगमने$} । बोधति । बोधिता । बोधिष्यति ।{$ {!859 रुह!} बीजजन्मनि प्रादुर्भावे च$} । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ।{$ {!860 कस!} गतौ$} । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥ अथ गूहत्यन्ताः स्वरितेतः ।{$ {!861 हिक्क!} अव्यक्ते शब्दे$} । हिक्कति । हिक्कते ।{$ {!862 अञ्चु!} गतौ याचने च$} । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे ।{$ {!863 टुयाचृ!} याचनायाम्$} । याचति । याचते ।{$ {!864 रेटृ!} परिभाषणे$} । रेटति । रेटते ।{$ {!865 चते!} {!866 चदे!} याचने$} । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् ।{$ {!867 प्रोथृ!} पर्याप्तौ $}। पुप्रोथ । पुप्रोथे ।{$ {!868 मिदृ!} {!869 मेदृ!} मेधाहिंसनयोः $}। मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः ।{$ {!870 मेधृ!} सङ्गमे च$} । मेधति । मिमेध ।{$ {!871 णिदृ!} {!872 णेदृ!} कुत्सासन्निकर्षयोः$} । निनेद । निनिदतुः । निनिद । निनेदे ।{$ {!873 शृधु!} {!874 मृधु!} उन्दने$} । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ।{$ {!875 बुधिर्!} बोधने$} । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-SK 2328 इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् ।{$ {!876 उबुन्दिर्!} निशामने$} । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ।{$ {!877 वेणृ!} गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु$} । वेणति । वेणते । नान्तोप्ययम् ।{$ {!878 खनु!} अवदारणे$} । खनति । खनते ॥
Bālamanoramā
शदेः शितः - शदेः शितः । 'अनुदात्तङित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः ।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात् । तदाह — शिद्भाविन इति । शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः । शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । 'शिद्विषया' दित्युक्तेर्लिटि नात्मनेपदम् ।इत्संज्ञकशकारादा॑वित्युक्तेर्न॑ शीयादेशः । विशीर्यतीत्यर्थः । तदाह — शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद्वेट् । तदाह — शेदिथ शशत्थेति च । इट्पक्षे 'थलि च सेटी' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव शेदिम । क्रादिनियमादिट् । अशददिति । लृदित्त्वादङिति भावः । क्रुशधातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । चुक्रुशिव चुक्रुशिम । क्रोष्टेति । व्रश्चादिना शस्य षः ।षढो॑रिति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच । 'कुच शब्दे' इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध इति । सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात् । तदाह — बोधिनेति । अबोधीत् । रुहधातुरनिट्कः । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । रोढेति । लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लृटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः । कित्त्वान्न गुणः । वृदिति । 'ज्वलितिकसन्तेभ्यः' इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति । 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् । 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्,इदितो नु॑मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः । पूर्वोत्तरेति । जन- पूरि- साहचर्येणेत्यर्थः । उ बुन्दिरित । आद्य उकार इत् — 'उदितो वे' ति क्त्वायामिड्विकल्पार्थः । अबुददिति । इरित्त्वादङि 'अनिदिता' नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृ गतीति । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । खनुदातुरुदित् — क्त्वायामिड्विकल्पः ।
SK 2363 · A 6.4.98V
गमहनजनखनघसां लोपः क्ङित्यनङि ॥ २३६३ ॥
gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi
Siddhānta-kaumudī
एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । ये विभाषा - SK 2319 । खायात् । खन्यात् ।{$ {!879 चीवृ!} आदानसंवरणयोः$} । चिचीव । चिचीवे ।{$ {!880 चायृ!} पूजानिशामनयोः$} ।{$ {!881 व्यय!} गतौ$} । अव्ययीत् ।{$ {!882 दाशृ!} दाने$} । ददाश । ददाशे ।{$ {!883 भेषृ!} भये$} । गतावित्येके । भेषति । भेषते ।{$ {!884 भ्रेषृ!} {!885 भ्लेषृ!} गतौ$} ।{$ {!886 अस!} गतिदीप्त्यादानेषु$} । असति । असते । आस । आसे । अयं षान्तोऽपि ।{$ {!887 स्पश!} बाधनस्पर्शनयोः$} । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते ।{$ {!888 लष!} कान्तौ$} । वा भ्राश -SK 2321 इति श्यन्वा । लष्यति । लषति । लेषे ।{$ {!889 चष!} भक्षणे$} ।{$ {!890 छष!} हिंसायाम्$} । चच्छषतुः । चच्छषे ।{$ {!891 झष!} आदानसंवरणयोः$} ।{$ {!892 भ्रक्ष!} {!893 भ्लक्ष!} अदने$} । भक्ष इति मैत्रेयः ।{$ {!894 दासृ!} दाने $}।{$ {!895 माहृ!} माने$} ।{$ {!896 गुहू!} संवरणे$} ॥
Bālamanoramā
गमहनजनखनघसां लोपः क्ङित्यनङि - गमहन । उपधाया इति । 'ऊदुपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अजादाविति ।अचि श्नुधात्वि॑त्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ त भावः । क्ङितीत्युक्तेश्चखानेत्यत्र नोपधालोपः । अनङीति किम् । अगमत् । चख्ने चख्नाते इत्यादि । व्यय । अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति ।ह्म्यन्ते॑ति न वृद्धिः । चष भक्षण इति । चचाष चेषतुः । छष हिंसायामिति । वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो न । तदाह — चच्छषतुरिति । गुहू । उदुपधोऽयम् । ऊदित् ।
SK 2364 · A 6.4.89V
ऊदुपधाया गोहः ॥ २३६४ ॥
ūdupadhāyā gohaḥ
Siddhānta-kaumudī
गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
Tattvabodhinī
NSP p. 391—ऊटुपधायाः—॥—गुणहेताविति । एतच्च गोह इति विकृतनिर्देशाल्लभ्यम् ‘अचि श्रुधातु—’ इत्यतोऽनुवृत्तेनाचीत्यनेनाक्षाक्षिप्तप्रत्ययो विशेष्यते । विशेषणेन तदादिविधिस्तदाह—अजादाविति ॥—दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । अदुग्ध । अधुक्षत । अदिग्ध । अधिक्षत । अलीढ । अलिक्षतेत्यादि
Bālamanoramā
ऊदुपधाया गोहः - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टामगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षतामघुक्षन्नित्यादि ।
SK 2365 · A 7.3.73V
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ॥ २३६५ ॥
lugvā duhadihalihaguhāmātmanepade dantye
Siddhānta-kaumudī
एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि SK 2337 इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः ।{$ {!897 श्रिञ्!} सेवायाम्$} । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-SK 2312 इतिचङ् । अशिश्रियत् ।{$ {!898 भृञ्!} भरणे$} । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥
Bālamanoramā
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये - लुङस्तङि विशेषमाह — लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तङीत्यर्थः । प्रत्ययाऽदर्शनत्वात्सर्वादेशोऽयं लुक् । अगूढेति । अगुह् त इति स्थिते प्रक्रियां दर्शयति — ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुक्षतेति । क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुक्षातामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाऽभावादूत्त्वाऽभावेढत्वभष्भावकत्वषत्वेषु कृतेषुक्सस्याची॑त्यन्तलोपे अतः परत्वाभावादातो ङित इति न भवतीति भावः । अघुक्षन्तेति । झस्य अजादित्वाऽभावात्तस्मिन्परे क्सस्य अन्त्यलोपाऽभावादतः परत्वाऽभावादात्मनेपदेष्वत इत्यदादेशो न भवति । कृते तु झोऽन्तादेशे क्सस्याऽन्तलोप इति भावः । अघुक्षथाः काघुक्षाथामघुक्षध्वम् । अघुक्षि । इति रूपाणि सिद्धवत्कृत्याह — अगुह्वहीति । दन्त्यादिप्रत्ययपरत्वत्क्सस्य लुङि अजादिप्रत्ययाऽभावादूत्त्वाऽभावे रूपम् । अघुक्षावहीति । क्स्लुगभावे ढत्वभष्भावकत्वषत्वानि, अतो दीर्घश्च । अघुक्षामहीति.दन्त्यादिप्रत्ययपरत्वाऽभावान्न क्सलुक् । इतिगूहत्यन्ताः स्वरितेतः । उभयपदिन इति । ञित्त्वादिति भावः । श्रिञ्धातुः सेट् । शिश्रियतुरिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय — शिश्रय, शिश्रियिव शिश्रियिम । शिश्रिये शिश्रियाते शिश्रियिरे । शिश्रयिषे शिश्रयाथे शिश्रियिढ्वे — शिश्रियिध्वे । शिश्रियेशिश्रियिवहे शिश्रयिमहे । श्रयितेति । श्रयिष्यति श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् अश्रयत । श्रयेत् । श्रीयात् । श्रयिषीष्ट । लुङि विशेषमाह — णिश्रीति । अशश्रियदिति ।चङी॑ति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत । भृञ् धातुरनिट् । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान्न गुणः । यण् । बभ्रुः । थलादौ 'एकाचः' इति नेट्, कृसृभृवृस्तुद्रुरुआउश्रुषु लिटपि तन्निषेधस्य प्रवृत्तेः । थलिअचस्तास्व॑दिति निषेधाच्च, ऋदन्तेषु भारद्वाजमतेऽपि थलि निषेधाच्च । तदाह — बभर्थेति । बभ्रथुः बभ्र । बभार-बभर । इति सिद्धवत्कृत्याह — बभृवेति । बभृम । बभ्रे बभ्राते बभ्रिरे । इति सिद्धवत्कृत्याह — बभृषे इति । बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे ।
SK 2366 · A 7.2.70V
ऋद्धनोः स्ये ॥ २३६६ ॥
ṛddhanoḥ sye
Siddhānta-kaumudī
ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥
Bālamanoramā
ऋद्धनोः स्ये - लृटि स्ये इण्निषेधे प्राप्ते — ऋद्धनोः । ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी ।स्ये॑षष्ठर्थे सप्तमी ।आर्धधातुस्ये॑डित्यत इडित्यनुवर्तते । तदाह — ऋत इत्यादिना । 'एकाच' इतीणनिषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत् अभरत । भरेत् भरेत ।
SK 2367 · A 7.4.28V
रिङ् शयग्लिङ्क्षु ॥ २३६७ ॥
riṅ śayagliṅkṣu
Siddhānta-kaumudī
शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥
Tattvabodhinī
NSP p. 391—रिङ् शयगिलङ्श्रु । ‘अयङ् यि किति’ इत्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणं शेऽसंभवात् । यकि तु वैयर्थ्यात् । तथा ‘अकृत्सार्वधातुकयोः—’ इत्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह—यादावित्यादि । शे । म्रियते ॥ ‘तुदादिभ्य’ इति शः । यकि । क्रियते । म्रियते
Bālamanoramā
रिङ् शयग्लिङ्क्षु - आशीर्लिङि परस्मैपदे भृ यादिति स्थिते — रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् ।अयङ्यि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं । तदाह — शे यकीत्यादिना । ऋत इति । 'रीङृत' इत्यतस्तदनुवृत्तेरिति भावः । अङ्गस्येधिकृतम् । 'ऋत' इति तद्विशेषणं । तदन्तविधिः । ऋदन्तस्याऽङ्गस्येति लभ्यते । आदेशे ङकार इत् । ङित्त्वादन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङिअकृत्सार्वधातुकयो॑रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति । कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, 'रीङृत' इत्येव सिद्धेः । अतो रिङि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तमित्यादि सुगमम् ।
SK 2368 · A 1.2.12कित्त्वातिदेशः
उश्च ॥ २३६८ ॥
uśca
Siddhānta-kaumudī
ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥
Tattvabodhinī
NSP p. 391—उश्च । ‘इको झल्’ इत्यतो झल्प्रहणं ‘लिङ्सिचौ—’ इति पूर्वसूत्रं चानुवर्तते तदाह—ऋवर्णादित्यादि ॥ —अभार्षीदिति । ‘सिचि वृद्धिः—’ इति वृद्धिः
Bālamanoramā
उश्च - आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते — उश्च ।लिङ्गिचावात्मनेपदेषु॑ इति सूत्रमनुवर्तते ।इको झ॑लित्यतो झलिति च । तदाह — ऋवर्णादिति । भृषीष्टेति । कित्त्वान्न गुणः । अभार्षीदिति । परस्मैपदे सिचि वृद्धौ रपरत्वम् ।
SK 2369 · A 8.2.27V
ह्रस्वादङ्गात् ॥ २३६९ ॥
hrasvādaṅgāt
Siddhānta-kaumudī
सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ।{$ {!899 हृञ्!} हरणे$} । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति ।{$ {!900 धृञ्!} धारणे$} । धरति । अधार्षीत् । अधृत ।{$ {!901 णीञ्!} प्रापणे$} । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः परस्मैपदिनः ॥{$ {!902 धेट्!} पाने$} । धयति ॥
Tattvabodhinī
NSP p. 391—ह्रस्वादङ्गात् । ह्रस्वात् किम् । अच्योष्ट । अग्नोष्ट । अङ्गप्रहणादिह ‘रात्सस्य’ इत्यतः सस्येत्यनुवृत्तावपि प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न । अस्तं द्विष्टमाम् । केचित्त्विहाङ्गप्रहणाभावे अपाचिष्टाम् अलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुस्तदपरे न क्षमन्ते । संनिपातपरिभाषयापि परिहारसंभवादिति । झलीति किम् । अभृषाताम् । अभृषत । हृञ् हरणे । चत्वार इहार्थाः । भारं हरति । प्रापयतीत्यर्थः । अंशं हरति । स्वीकरोतीत्यर्थः । स्वर्णं हरति । चोरयति । पापं हरति नाशयति । धृञ् । दधार । दध्रतुः । दधर्थ । दध्रे । दध्राते । धर्ता । ध्रियात् । णीञ् ॥—निनयिथेति । भारद्वाजनियमादिच्छिकल्पः
Bālamanoramā
ह्रस्वादङ्गात् - तङि तु अभृ स् त इति स्थिते -ह्रस्वादङ्गात् । ह्रस्वान्तादित्यर्थः । सिचेति भाष्यम् ।झलो झली॑त्यतो झलीति, 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते — इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — सिचो लोपः स्याज्झलीति । ह्रस्वात्किम् । अच्योष्ट । अङ्गात्किम् । अलाविष्टाम् । सिचः किम् । द्विष्टराम् । द्विष्टमाम् । सुजन्तात्तरप्ततमौ । अभृतेति ।उश्चे॑ति सिचः कित्त्वान्न गुणः ।झली॑त्युक्तेरभृषातामभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाज्झस्य अदादेशः । अभृथाः अभृषाथामभृढ्वम् । अभृषि अभृष्वहि अभृष्महि । ह्मधातुरनिट् । हरणं चतुर्विधमित्याह — प्रापणमित्यादि । तद्यथा — भारं हरति । प्रापयतीत्यर्थः । अशं हरति । स्वीकरोतीत्यर्थः । परत्वं हरति । चोरयतीत्यर्थः । पापं हरति हरते वा । नाशयतीत्यर्थः । जहार जह्यतुः जह्युः । 'एकाचः' इतीण्निषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्तेअचस्तास्व॑दिति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण्निषेध एव । तदाह — जहर्थेति । जह्यथुः जह्य । जहार — जहर । इति सिद्धवत्कृत्याह -जह्यिवेति । क्रादिनियमादिट् । जह्यिम । जह्यिषे । क्रादिनियमादिट् । जह्याथे जह्यिढ्वे — जह्यिध्वे । जह्य#ए जह्यिवहे जह्यिमहे । लुडादिषु भृञ इव रूपाणि । धृञ्धातुरनिट् । ह्मञ इव रूपाणि । णीञ्धातुरनिट् । णोपदेशः । नयति नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'अचस्तास्व' दितीण्निषेधस्य भारद्वाजनियमादिड्विकल्प इत्यभिप्रेत्याह — निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे — निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति नेष्यते । नयतु नयताम् । अनयत् अनयत । नयेत् नयेत । नीयात् नेषीष्ट । अनैषीत् अनेष्ट । अनेष्यत् अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति ।जि ज्र अभिभवे इत्येत्पर्यन्ता॑ इति शेषः । धेट् पाने इति ।स्तनन्धयी॑त्यादौ ङीबर्थं टित्त्वम्, अवयवे टित्त्वस्यव्यर्थतया समुदायार्थत्वादिति हरदत्तः ।
SK 2370 · A 6.1.45V
आदेच उपदेशेऽशिति ॥ २३७० ॥
ādeca upadeśe'śiti
Siddhānta-kaumudī
उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥
Tattvabodhinī
NSP p. 391–392— आदेच उपदेशेऽशिति । ‘लिटि धातोः—’ इत्यतो धातोरित्यनुवृत्तमेवा विशेष्यते । तदाह—एजन्तस्य धातोरिति । उपदेशे किम् । चेता स्तोता । ननु लाक्षणिकत्वादेवात्र न भविष्यतीति चेत् । अत्राहुः । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशप्रहणम् । तेन ‘क्रीङ्जीनां णौ’ इति कृतात्वे क्रापयतीत्यादौ पुक् सिध्यतीति मनोरमाकृत् । धातोः किम् । गोभ्याम् । नौभ्याम् । अस्ति ह्यत्रापि गमेर्डोः ‘ग्लानुदिभ्यां डौः’ इत्युपदेशे एच् । अशितीति प्रसज्यप्रतिषेध इत्याह—न तु शितीति । पर्युदासे तु जग्ले मम्ले इत्यादौ ‘द्विर्वचनेऽचि’ इति निषेधादात्वं न स्यादभ्यासे इकारश्च श्रूयेत । किं च सुग्ल इत्यत्र ‘आतश्चोपसर्गे’ इति कः । सुग्लेत्यत्र ‘आतश्चोपसर्गे’ इति वियामङ् । सुग्लान इत्यत्र ‘आतो युच्’ इति युच् न स्यात् । प्रत्ययनिमित्तं ह्यालमादन्ताच्च प्रत्यय इत्यन्योन्याश्रयात् । प्रसज्यप्रतिषेधे तु न कोऽपि दोषः । ‘ह्यावामश्च’ इति सूत्रेण कवाधनार्थं पुनरण्विधानं च प्रतिषेधपक्षे ज्ञापकम् । तदाहुः । अनैमित्तिकमात्वं शिति तु प्रतिषेध इति । नन्वेवमपि एशः शित्वाज्जग्ले मम्ले इत्यादि न सिध्यतीति चेत् । अत्राहुः । यदि तु शितीति बहुब्रीहिः स्यात्तदात्र स्यादेव दोषः । किं तु कर्मधारयोऽयम् । तथा चाशितीत्यत्रेत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थः । धातुग्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणाद्विषयसप्तम्यां तु इत्संज्ञकशकारादिभिन्नप्रत्ययविषये आलमित्यर्थात्पर्युदासेऽपि न क्षतिरिति
Bālamanoramā
आदेच उपदेशेऽशिति - आदेच । एजन्तस्य धातोरिति ।लिटि धातो॑रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः । न तु शितीति । श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च'न व्यो लिटी॑त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या 'प्रत्यये' इति विशेष्यलाभः ।अशिती॑ति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततश्च 'सुग्ल' इत्यत्र ग्लैघाटोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् ।शिति ने॑ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः ।शिती॑ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटिभावकर्मणो॑रिति तङि एशि आत्त्वे आतो लोपे 'जग्ले' इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवं च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन 'सुग्ल' इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । दातोः किम् । गोभ्याम् ।गमेर्डो॑रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, 'उदीचां माङः' इति निर्देशेननानुबन्धकृतमनेजन्तत्व॑मिति ज्ञापनादित्यास्तां तावत् ।
SK 2371 · A 7.1.34V
आत औ णलः ॥ २३७१ ॥
āta au ṇalaḥ
Siddhānta-kaumudī
आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥
Tattvabodhinī
NSP p. 392—आत औ णलः । इह अङ्गस्येत्यनुवर्तते धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः
Bālamanoramā
आत औ णलः - तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते — आत औ । 'औ' इति लुप्तप्रथमाकम् । अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते । 'आत' इति तद्विशेषणम् । तदन्तविधिः । तदाह — आदन्ताद्धातोरिति । णल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च णल औत्वे वृद्धौ रूपमाह — दधाविति ।
SK 2372 · A 6.4.64V
आतो लोप इटि च ॥ २३७२ ॥
āto lopa iṭi ca
Siddhānta-kaumudī
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि SK 2243 इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥
Tattvabodhinī
NSP p. 392—आतो लोप इटि च । आर्धधातुक इत्यनुवर्तते ‘दीडो युडचि क्विति’ इत्यतोऽचि क्वितीति च, तदेतत्फलितमाह—अजाद्योरार्धधातुकयोरिति । अजाद्योः किम् । ग्लायते । यक् । जाग्लायते । यङ् । दासीय । डुदायो लिङ्गुत्तमैकवचनमिद् । आर्धधातुकयोः किम् । यान्ति । वान्ति । व्यतिरै । रा दाने । कर्मव्यतिहारे धातोर्लङ्कुतमैकवचनमिद् ॥—दधिथेति । एवं च अजाद्यार्धधातुकस्य कित्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादिरूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्यते व्याख्यानात्तदाऽचि क्वितीत्येतदार्धधातुकस्यैव विशेषणं न तभयोः
Bālamanoramā
आतो लोप इटि च - दधा — अतुसिति स्थिते — आतो लोपः । 'आर्धधातुके' इत्यधिकृतम् ।दीङो यु॑डित्यतोऽचि क्ङितीति चानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह — अजाद्योरिति । इट आर्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम् । क्ङितीति च इटो न विशेषणम्, इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि — ग्लायते । आर्धधातुकयोः किम् । यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः । सति तस्मिन् औत्वं न स्यात् । ननु धा — अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति — द्वित्वादित्यादिना । धेट्धातुरनिट् । भारद्वाजनियमात्थलि वेडित्याह — दधिथ दधाथेति । इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह — दधिवेति । वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । एवं दधिमेत्यपि ज्ञेयम् । धातेति । लुटि आत्त्वे तासादीति भावः । धास्यति । धयतु । अधयत् । धयेत् ।
SK 2373 · A 1.1.20घुसंज्ञा
दाधा घ्वदाप् ॥ २३७३ ॥
dādhā ghvadāp
Siddhānta-kaumudī
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥
Tattvabodhinī
NSP p. 392—दाधा घ्वदाप् । इह दारूपाश्चत्वारः । डुदाय दाने । दाण् दाने । दो अवखण्डने । देङ् रक्षणे । धारूपौ तु द्वौ । डुधाय धारणपोषणयोः । धेट् पाने । अनुवन्धानामनेकान्तत्वात् ‘आदेच उपदेशे’ इत्यात्वे दोदेङ्धेटामनुकरणे दाधारूपलमस्ति । एवं च दाश्च दाश्च दाः । धाश्च धाश्च धौ । दाश्च धौ च दाधाः इति विग्रहः ॥—दाप्दैपौ विनेति । दाप् लवने । दैप् शोधने एतद्भिन्ना इत्यर्थः । दैपः पित्त्वमिह प्रतिषेधार्थं न त्वनुदात्तार्थम् । ‘अनुदात्तौ सुपितौ’ इति प्रत्ययस्यैव पितोऽनुदात्तत्वात् । न च दैपो लाक्षणिकलान्नास्य प्रतिषेध इति शङ्काम् । पित्करणस्यानर्थक्यप्रसङ्गात् । इदमेव दैपः पित्त्वं ‘गामादाग्रहणेष्वविशेषः’ इति परिभाषाया ज्ञापकमित्याहुः । अदाविति किम् । दातं वर्हिः । लनमित्यर्थः । इह ‘दो दद्धोः’ इति दद्धावो न । अवदातं मुखम् । शुद्धमित्यर्थः । इह तु ‘अच उपसर्गात्’ इति तादेशो न
Bālamanoramā
दाधा घ्वदाप् - आशीर्लिङि घुसंज्ञाकार्यं वक्ष्यन्घुसंज्ञां दर्शयति — दाधाघ्वदाप् ।दे॑त्यनेन स्वाभाविकाऽऽकारान्तयोः 'डु दाञ् दाने' 'दाण् दाने' इत्यनयोः, कृतात्वयोः 'दो अवखण्डने' 'देङ् रक्षणे' इत्यनयोर्लाक्षणिकयोश्च, 'धे' त्यनेन स्वाभाविकाकारान्तस्यडु धाञ् धारणपोषणयो॑रित्यस्य, लाक्षणिकस्य 'धेट् पाने' इत्यस्य च ग्रहणम् ।गामादाग्रहणेष्वविशेषः॑ इति परिभाषाबलात्तत्र दाग्रहणेन धारूपस्यापि ग्रहणाच्च । अत एवदो दद्धो॑रित्त्र धेण्निवृत्त्यर्थं दाग्रहणमर्थवत्, दधातेर्हिभावविधानादेव निवृत्तिसिद्धेः । तदाह — दारूपा धारूपाश्चेति ।
SK 2374 · A 6.4.67V
एर्लिङि ॥ २३७४ ॥
erliṅi
Siddhānta-kaumudī
घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥
Tattvabodhinī
alignment inferredNSP p. 392—पलिङि ॥—मास्थादीनामिति । मास्थागापाजहातिसामित्यर्थः । मा माने । गामादाग्रहणेष्वविशेषेऽपि माङ्मेडौ नेह गृह्यते लिङि कित्वासंभवात् । ष्टा गतिनिवृत्तौ । गै शब्दे । गाङ् गतौ इति तु न गृह्यते लिङि कित्वासंभवादेव । पा पाने । ओहाक् त्यागे । षोऽन्तकर्मणि देयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसेयात् । आर्धधातुके किम् । मायात् । मायाताम् । मायुः । कितीति किम् । दासीष्ट । इह ‘दीडो युडचि’ इत्यतः क्वितीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता
Bālamanoramā
एर्लिङि - एर्लिङि ।ए॑रिति प्रथमान्तम् ।आर्धधातुके॑इत्यधिकृतम् ।घुमास्थागापाजहातिसा॑मित्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवचनम् । तदाह — घुसंज्ञानां मास्थादीनामिति । किति लिङिति ।दीङो यु॑डित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभावात् ।
SK 2375 · A 3.1.49V
विभाषा धेट्श्व्योः ॥ २३७५ ॥
vibhāṣā dheṭśvyoḥ
Siddhānta-kaumudī
आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि SK 2315 इति द्वित्वम् । अदधत् । अदधताम् ॥
Tattvabodhinī
NSP p. 392—विभाषा धेट्— ‘चिल लुङि’ इत्यनुवर्तते ‘णिश्रि’ इत्यस्मात्कर्तरीति च तदाह—च्लेश्चङ् वेत्यादि ॥—अदध-दिति । चङि आतोलोपः । श्वयतेरुदाहरणमशिश्रियत् ॥—विभाषा घ्रा— इह ‘ण्यक्षत्रियार्ष’ इत्यतो लुगनुवर्तते ‘गातिस्था’ इत्यतः सिचः परस्मैपदेष्विति च तदाह—सिचो लुग्वेत्यादि—॥—अधुरिति । ‘आतः’ इति ज्ञेयम् । परस्मैपदे किम् । व्यत्यघ्रास्त
Bālamanoramā
विभाषा धेट्श्व्योः - लुङि च्लेः सिचि प्राप्ते — विभाषा धेट् ।च्लि लुङी॑त्यनुवर्तते ।णिश्रिद्रुरुआउभ्यःरर॑ इत्यतः कर्तरि चङिति च । तदाह — आभ्यामिति । धेट् इआ आभ्यामित्यर्थः । अदधदिति । चङि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधन् । अदधः अदधतमदधत । अदधमदधाव अदधाम ।
SK 2376 · A 2.4.78V
विभाषा घ्राधेट्शाच्छासः ॥ २३७६ ॥
vibhāṣā ghrādheṭśācchāsaḥ
Siddhānta-kaumudī
एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥
Bālamanoramā
विभाषा घ्राधेट्शाच्छासः - चङभावपक्षे विशेषमाह — विभाषा घ्रा ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते,गातिस्थे॑त्यतः सिचः परस्मैपदेष्विति, तदाह — एभ्य इति । 'घ्रा गन्धोपादाने' 'धेट् पाने' 'शो तनूकरणे' 'छो छेदने'षो अन्तकर्मणि — एषां समाहारद्वन्द्वत्पञ्चम्येकवचनम् । शोप्रभृतीनां कृतात्त्वानां निर्देशः । धेटःगातिस्थाघुपे॑ति नित्यं प्राप्ते, अन्येषामप्राप्ते वचनम् । अधुरिति ।उस्यपदान्ता॑दिति पररूपम् । अधाः अधातमधात । अधामधाव अधाम ।
SK 2377 · A 7.2.73V
यमरमनमातां सक् च ॥ २३७७ ॥
yamaramanamātāṃ sak ca
Siddhānta-kaumudī
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः ।{$ {!903 ग्लै!} {!904 म्लै!} हर्षक्षये$} । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥
Tattvabodhinī
NSP p. 392–393—यमरमनमातां— इह ‘आर्धधातुकस्येच्छलादेः’ इतीडनुवर्तते । ‘अज्ञेः सिचि’ इत्यतः सिज्प्रहणं, ‘सुसुधूयभ्यः’ इत्यतः परस्मैपदमहणं न तदाह—व्यभ्यः । सिचा इडिस्थादि अयसीत् । अयं सिध्यतीति । अयं सिध्यतीति । अनसीत् । अनसिध्यतीति । परस्मैपदेषु किम् । उदायंस्त भारम् । अरंस्त । अरंसा- ताम्
Bālamanoramā
यमरमनमातां सक् च - सिचो लुगभावपक्षे आह — यमरम । यम, रम, नम, आत्-एषां द्वन्द्वात्षष्ठीबहुवचनम् ।आ॑दित्यनेन आदन्तं गृह्रते । तदाह — एषां सगिति । सकि ककार इत् । अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेणइडत्त्यर्ती॑त्यत इडिति, 'स्तुसुधूञ्भ्यः' इत्यतः परस्मैपदेष्विति चानुकृष्यते ।अञ्जेः सिची॑त्यतः सिचीति च ।तच्च षष्ठ्या विपरिणम्यते । तदाह — सिच इट् चेति । अधासीदिति । धातोः सगागमः । सिच इट्, ईट् । 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति । अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः ।सस्य षत्वे तकारस्य ष्टुत्वेन टः । आथासिषुरिति । अधासीः अधासिष्टमधासिष्ट । अधासिषमधासिष्व अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोर्विधिव्र्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थमातः सगिड्विधानम् । यमादीनं तु अयंसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च ।तदेतत्तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ग्लै म्लै । धातुक्षय इति । बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति । शपि आयादेशः । शिद्विषयत्वादात्त्वं न । जग्लाविति । णलि आत्त्वे 'आत णौ णल' इति औभावे वृद्धिरिति बावः । अतुसादौ द्वित्वे कृते आतो लोपः । जग्लतुः जग्लुः । भारद्वाजनियमात्थलि वेडित्याह — जग्लिथ जग्लाथेति । इट्पक्षे आल्लोपः । जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ।
SK 2378 · A 6.4.68V
वाऽन्यस्य संयोगादेः ॥ २३७८ ॥
vā'nyasya saṃyogādeḥ
Siddhānta-kaumudī
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति ।{$ {!905 द्यै!} न्यक्करणे$} । न्यक्करणं तिरस्कारः ।{$ {!906 द्रै!} स्वप्ने$} ।{$ {!907 ध्रै!} तृप्तौ$} ।{$ {!908 ध्यै!} चिन्तायाम्$} ।{$ {!909 रै!} शब्दे$} ।{$ {!910 स्त्यै!} {!911 ष्ट्यै!} शब्दसंघातयोः$} । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् ।{$ {!912 खै!} खदने$} ।{$ {!913 क्षै!} {!914 जै!} {!915 षै!} क्षये$} । क्षायति । जजौ । ससौ । साता । घुमास्था SK 2462 इत्यत्र विभाषा घ्राधेट् - SK 2376 इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् ।{$ {!916 कै!} {!917 गै!} शब्दे$} । गैयात् । अगासीत् ।{$ {!918 शै!} {!919 श्रै!} पाके$} ।{$ {!920 पै!} {!921 ओवै!} शोषणे$} । पायात् । अपासीत् । घुमास्था - SK 2462 इतीत्वं तदपवाद एर्लिङि SK 2374 इत्येत्वं गातिस्था SK 2223 इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् ।{$ {!922 ष्टै!} वेष्टने$} । स्तायति ।{$ {!923 ष्णै!} वेष्टने$} । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति ।{$ {!924 दैप्!} शोधने$} । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ।{$ {!925 पा!} पाने$} । पाघ्राध्मा - SK 2360 इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् ।{$ {!926 घ्रा!} गन्धोपादाने$} । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रासीत् । अघ्रात् ।{$ {!927 ध्मा!} शब्दाग्निसंयोगयोः$} । धमति ।{$ {!928 ष्ठा!} गतिनिवृत्तौ$} । तिष्ठति । स्थादिष्वभ्यासेन - SK 2277 इति षत्वम् । अधितष्ठौ । उपसर्गात् - SK 2270 इति षत्वम् । अधिष्ठाता । स्थेयात् ।{$ {!929 म्ना!} अभ्यासे$} । मनति ।{$ {!930 दाण्!} दाने$} । प्रणियच्छति । देयात् । अदात् ।{$ {!931 ह्वृ!} कौटिल्ये$} । ह्वरति ॥
Tattvabodhinī
NSP p. 393—वान्यस्य—। अन्यस्य किम् । स्थेयात् । द्यै न्यकरणे । द्यायति । दद्यौ । अद्यासीत् ॥—शुभास्थेत्यत्रेति । व्याख्यानात्तन्त्रान्तरे जहातिस्यतीनामिति इयना निर्देशाच्चेति भावः ॥—विभाषा घ्रेति । इयन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः । एवं शाच्छासेति युग्विधावपि स्यतेरेव ग्रहणमिति बोध्यम् । तेनास्य धातोः ‘अर्तिही—’ इति पुगेव । सापयति । पै ओवै । पायति । द्यायति । शुष्यतीत्यर्थः । ‘ओदितश्च’ इति निष्ठानलम् । वानम् । ‘शुष्के वानमुभे त्रिषु’ इत्यमरः ॥—अदन्तत्वादिति । केचित्तु अङ्गवृत्तपरिभाषयापि गुणाभावं समर्थयन्ति । घ्रा गन्धोपादाने । गन्धोपादानं गन्धग्रहणम् । नन्वेवं कर्मणो धात्वर्थेनोपसंग्रहादकर्मकत्वेन ‘जिघ्रति कुषुमम्’ इत्यादिप्रयोगो न सिद्धोदिति चेत् । अत्राहुः । यद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसंग्रहस्तस्यैव धातोरकर्मकत्वं नान्यस्य । भवति हि जीवति तृत्यतीत्यादेरकर्मकलम् । तदर्थोपसंग्रहीतकर्मणः कर्तृनिष्ठत्वात् । घ्राधातोः कर्मणस्तथात्वात्राकर्मकतेति । ध्मा शब्दाभिसंयोगयोः । शब्दशब्देन तदनुकूलो वायुरिह गृह्यते । तेन शङ्खं धमतीतिवत् मृदङ्गं धमतीति प्रयोगो नेत्याहुः । अभिसंयोगे सुवर्णं धमति । अग्निना संयुनक्तीत्यर्थः ॥—स्थेयादिति । ‘एलिङि’ इति नित्यमेत्यम् । लुङि । अस्थात् । स्ना अभ्यासे । मनति । विद्यामभ्यस्यतीत्यर्थः । मन्नौ । अन्नासीत् ॥—अदादिति । ‘गातिस्था—’ इति सिचो लुक्
Bālamanoramā
वाऽन्यस्य संयोगादेः - आशीर्लिङि आत्त्वे कृते ग्ला-यात्-इति स्थिते — वाऽन्यस्य । आर्धधातुक इत्यधिकृतम् ।एर्लिङी॑त्यनुवर्तते ।ए॑रिति प्रथमान्तम् ।आतो लोप इटि चे॑त्यत 'आत' इत्यनुवर्तते । कस्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिसां हली॑ति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते । तदाह — घुमास्थादेरित्यादिना । कतीति ।दीङो युडचि क्ङिती॑त्यतस्तदनुवृत्तेरिति भावः । ङितीति तु नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभवात् । अग्लासीदिति ।यमरमे॑त्यादन्तत्वात्सगिटौ । अग्लासिष्टामग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति । ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करणे ।यकारमध्योऽयम् । इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनां त्वसंयोगादीनामाशीर्लिङिवाऽन्यस्य संयोगादे॑रित्येत्त्वं न भवति, [तेन] रायादित्यादि रूपमिति विशेषः । स्त्यै ष्टऐ इति । षोपदेशेषु स्त्यादातोः पर्युदासाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः । सत्वे कृते इति ।धात्वादे॑रिति षस्य सकारे सति निमित्ताऽपायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्टआसतीति । ष्टऐधातोः कृतसत्वात्सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि सपिसन्यङो॑रिति द्वित्वे 'शर्पूर्वाः खयः' इति सकारयकारनिवृत्तौ 'तास्त्यासति' इति स्थिते अभ्यासह्रस्वे 'सन्यतः' इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वेतिष्टआसती॑ति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाऽभावात्षत्वं न स्यादिति भावः । अतिष्टपदिति । ष्टऐधातोः कृतसत्वाण्णौ आत्त्वे॒अतिह्यी॑ ति पुकि स्त्यापि इति ण्यन्ताल्लुङि अडागमे तिपि 'इतश्च' इति इकारलोपेणिश्रिद्रुरुआउभ्यः॑ इति च्लेश्चङिणेरनिटी॑ति णिलोपे 'णौ चङ्युपधायाः' इति ह्रस्वे 'चङि' इति स्त्यबित्यस्य द्वित्वेशपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे, इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे, तस्य ष्टुत्वे अतिष्ठपदितिरूपम् । स्वाभाविकसकारत्वेत्वादेशसकारत्वाऽभावात्षत्वं न स्यादिति भावः । जजौ ससाविति । जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननुएर्लिङी॑त्यत्रघुमास्थागापाजहातिसा॑मित्यनुवृत्त्या सैधातोराशीर्लिङिसाया॑दित्यत्र एत्त्वं स्यत् । तथा लुङि सगिटोः — असासात् असासिष्टामित्येव इष्यते । तत्रविभाषा घ्राधेट्शाच्छासः॑ इति स#इचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह — घुमास्थेत्यत्रेत्यादि । स्यतेरिति । 'षो अन्तकर्मणि' इति श्यन्विकरणस्येत्यर्थः । अत्र व्याख्यानमेव शरणम् ।विभाषा घ्राधेडि॑त्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । पै ओ वै । पायति । वायति ।ओदितश्चे॑ति निष्ठानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्रघुमास्थागापाजहातिसां हली॑ति ईत्त्वं स्यात् । तथा आशीर्लिङि पायादित्यत्रएर्लिङी॑त्येत्वं स्यात्, तत्रापिघुमास्थागापाजहातिसा॑मित्यनुवृत्तेः, तथा लुङिअपासी॑दित्यत्रगातिस्थे॑ति सिचो लुकियमरमे॑ति इटोऽभावात्तत्संनियोगशिष्टः सगपि न स्यादित्यत आह — — घुमास्थेतीत्त्वमित्यादिना । पारूपस्येति । उदाहृतसूत्रत्रये लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्र्रहणं, नतु पैधातोः कृतात्वस्येति भावः । एवं च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम् । लुङि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम् । ष्ट इति । षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्तायतीति । ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्नायतीति । दैप् । अघुत्वादिति । घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः । पा पाने । पिबादेश इति । 'शिद्विषय' इति शेषः । तस्येति । पिबादेशस्य अदन्तत्वान्न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ पपतुः पपुः । भारद्वाजनियमात्थलि वेट् — पपिथ-पपाथ पपथुः पप । पपौ पपिव पपिम । क्रादिनियमादिट् । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । आशीर्लिङि 'एर्लिङ' इत्येत्त्वमभिप्रेत्याह — पेयादिति ।गातिस्थे॑ति सिचो लुगित्यभिप्रेत्याह — आपादिति । अपातामपुः । अपाः अपातमपात । अपामपाव अपाम । अपास्यत् । घ्रा ।पाघ्राध्मे॑ति शिद्विषये जिघ्रादेशः । तदाह — जिघ्रतीति । अनिडयम् । जघ्रौ जघ्रतुः जघ्रुः । भारद्वाजनियमात्थलि वेट् — जघ्रिथ जघ्राथ जघ्रथुः जघ्र । जघ्रौ जघ्रिव जघ्रिम । क्रादिनियमादिट् । घ्राता घ्रास्यति । जिघ्रतु । अजिघ्रत् । जिघ्रेत् । आशीर्लङिवाऽन्यस्य संयोगादे॑ रित्येत्त्वविकल्पं मत्वा आह - घ्रायात् घ्रेयादिति ।विभाषा घ्राधे॑डिति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ । तदाह — अघ्रात् अघ्रासीदिति । ध्माधातुरनिट् ।पाघ्राध्मे॑ति शिद्विषये धमादेशः । तदाह — धमतीति । दध्मौ दध्मतुः दध्मुः । दध्मिथ — दध्माथ, दध्मथुः दध्म । दध्मौ दध्मिव दध्मिम । ध्माता.ध्मास्यति । धमतु । अधमत् । धमेत् । ध्मायात् — ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्ठाधातुः षोपदेशः कृतष्टुत्वनिर्देशः । शिद्विषयेपाग्रे॑ति तिष्ठादेशः । तदाह — तिष्ठतीति । तस्थौ । अधितष्ठावित्यत्र इण्कवर्गाभ्यां परत्वाऽभावेऽपि षत्वमाह — स्थादिष्विति । तस्थतुः तस्थुः । तस्थिथ — तस्थाथ, तस्थथुः तस्थ । तस्थौ तस्थिव तस्थिम । स्थाता । अधिष्ठातेत्यत्रसात्पदाद्यो॑रिति षत्वनिषेधमाशङ्क्याह — उपसर्गादिति षत्वमिति । स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । आशीर्लिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाऽभावादेत्त्वविकल्पो न, किंतुएर्लिङी॑ति नित्यमेव एत्त्वम् । तदाह — स्थेयादिति ।गातिस्थे॑ति सिचो लुक् । अस्थात् । अस्थास्यत् । म्ना इति । अयमप्यनिट् ।पाध्रे॑ति शिद्विषये मनादेशः । तदाह — मनतीति । मम्नौ मम्नतुः मम्नुः । मम्निथ — मम्नाथ मम्नथुः मम्न.मम्नौ मम्निव मम्निम । म्नाता । म्नास्यति । मनतु । अमनत् । मनेत् । म्नायात् — म्नेयात् । अम्नासीत् । अम्नास्यत् । दाण् दाने । अयमप्यनिट् । 'पाघ्रे' ति शिद्विषयेय यच्छादेशः । प्रणियच्छतीति ।नेर्गदे॑ति णत्वम् । ददौ ददतुः ददुः । ददिथ-ददाथ ददथुः दद । ददौ ददिव ददिम । दाता । दास्यति । यच्छतु । अयच्छत् । यच्छेत् । आशीर्लिङिएर्लिङी॑त्येत्त्वं मत्वा आह — देयादिति ।गातिस्थे॑ति सिचो लुकं मत्वा आह — अदादिति । ह्व्ट कौटिल्ये । अयमप्यनिट् । ह्वरतीति । शपि गुणे रपरत्वम् ।
SK 2379 · A 7.4.10V
ऋतश्च संयोगादेर्गुणः ॥ २३७९ ॥
ṛtaśca saṃyogāderguṇaḥ
Siddhānta-kaumudī
ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये SK 2366 ह्वरिष्यति ॥
Tattvabodhinī
NSP p. 393—ऋतश्च—। संयोगादेः किम् । चक्रतुः । चक्रुः । तपरकरणं स्पष्टार्थम् । स्तृष्ट् इत्यादेलिटि तस्तरतुरित्यादौ ‘ऋच्छत्युताम्’ इति गुणस्य जायमानत्वात् । चकारो मन्दप्रयोजनः । ‘दयतेलिगिलिटि’ इत्यतोऽनुवर्तनादाह—गुणः स्याल्लिटीति । अवृद्धिनिमित्ते लिटीति प्राचो व्याख्यानं तु नादर्तव्यम् । न च स्वविषये वृद्धिर्वाधिकेति फलितार्थकथनपरतया तदुक्तिः संगच्छत इति वाच्यम् । परत्वेन गुणस्यैव न्याय्यत्वादिति भावः
Bālamanoramā
ऋतश्च संयोगादेर्गुणः - ऋतश्च । लिटीति ।दयतेर्दिगि लिटी॑त्यतस्तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्धे किमर्थमिदमित्यत आह — किदर्थमपीदमिति । अतुसादिकिदर्थं णलाद्यकिदर्थं चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाण्णलिअचो ञ्णिती॑ति वृद्धिप्रसङ्गात्कथं णल्ययं गुण इत्यत आह — परत्वाण्णल्यपि भवतीति ।अचो ञ्णिती॑ति वृद्ध्यपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हिजह्वारे॑ति कथमित्यत आह — उपधावृद्धिरिति ।अत उपधाया इत्यनेने॑ति शेषः । जह्वर्थेति । क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति,ऋतो भारद्वाजस्ये॑ति च निषेधादत भावः । जह्वरथुः जह्वर । जह्वार-जह्वर जह्वरिम । क्रादिनियमादिट् । ह्वरतु । अह्वरत् । ह्वरेत् ।
SK 2380 · A 7.4.29V
गुणोऽर्तिसंयोगाद्योः ॥ २३८० ॥
guṇo'rtisaṃyogādyoḥ
Siddhānta-kaumudī
अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् ।{$ {!932 स्वृ!} शब्दौपतापयोः$} । स्वरतिसूति - SK 2279 इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥
Tattvabodhinī
NSP p. 393–394—गुणोर्ति—। अतीति भ्वादित्वाद्योर्ग्रहणम् । लुका निर्देशस्तु सौत्रः । ऋग्रहणे कर्तव्ये दितपा निर्देशो यङ्लुङ्गिवृत्त्यर्थः । ‘रीङ् ऋतः’ इत्यस्मादत इति वर्तते, तच्च संयोगादित्वेन विशेष्यते । तदाह—संयोगादेरिति । अर्तिसंयोगाद्यो रइत्यकारे विधेये गुणग्रहणं चिन्त्यप्रयोजनम् । ‘अयङ् यि क्षिति’ इति सूत्रात् यीत्यनुवर्तते । तच्च लिङो विशेषणम् । ‘रिङ् शयग्लिङ्घु’ इति सूत्राद्यग्रहणस्य लिङ्ग्रहणस्य चानुवर्तनादित्यभिप्रेत्याह—यकि यादाविति । आर्धधातुके इत्येतत् ‘अकृत्सार्वधातुकयोः—’ इत्यनुवृत्तिपर्यालोचनया फलितार्थकथनमिति ज्ञेयम् । संयोगादिरिति किम् । क्रियात् । यादीति किम् । संस्कृषीष्ट । आर्धधातुके किम् । इयूयात् । स्वृ । उपतापो रोगः ॥ श्युकः किति । ‘एकाच उपदेशे’ इत्यतः एकाच इत्यनुवर्तते तच्च उको विशेषणमित्याह—एकाच उगन्तादिति । श्रितः श्रितवान् । श्रित्वा । भूतः । भूत्वा । भूतिः । इत्युदाहरणम् । भूष्णुः । ‘ग्लाजिस्थश्च—इति ग्रहः । स च गिद्धवति न कित् । स्थाकुरित्यत्र ‘धुमास्था—इतीत्यप्रसङ्गात् । एकाच इति किम् । जागरितः । जागरित-वान् । कर्णोतेषु नुवद्भावे कर्णनुः । कर्णनवान् इति सिध्यति । उगन्तात्किम् । शयितः । शयितवान् ॥—पुरस्ता-दित्यादि । ‘आर्धधातुकस्येच्छुलादेः’ इत्यादिविधिकाण्डात्प्रागेव ‘नेच्छुशि कृति’ इत्यादिप्रतिषेधकाण्डारम्भसामर्थ्यादि-लक्ष्यः
Bālamanoramā
गुणोऽर्तिसंयोगाद्योः - आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते — गुणोऽर्ति । भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । 'रीङृतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणं, तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । संयोगाद्योरित्यपि तद्विशेषणम् ।अकृत्सार्वधातुकयो॑रित्यतोऽसार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । 'रिङ् शयग्लिङ्क्षु' इत्यतो यकि लिङीति च लभ्यते ।अयडि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः । तदाह — अर्तेरित्यादिना । तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह — ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः । रपरत्वं । षत्वम् । अह्वरिष्यत् । स्वृ इति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दित,ऋतो भारद्वाजस्ये॑ति च नित्यनिषेधे प्राप्ते आह — स्वरतिसूतीति वेडिति । सस्वरिथ सस्वर्थेति । सस्वरथुः सस्वर । सस्वार-सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादनियमान्नित्यमिडित्यन्वयः ।
SK 2381 · A 7.2.11V
श्र्युकः किति ॥ २३८१ ॥
śryukaḥ kiti
Siddhānta-kaumudī
श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम । परत्वात् ऋद्धनो - SK 2366 इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् । अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् ।{$ {!933 स्मृ!} चिन्तायाम्$} ।{$ {!934 ह्वृ!} संवरणे$} ।{$ {!935 सृ!} गतौ$} । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्नियात् । असार्षीत् । असार्ष्टाम् ॥
Tattvabodhinī
alignment inferredNSP p. 394—निषेधे प्राप्ते इति । स्रृतः । सूतः । धूत इत्यादौ यथेति भावः । सृ गतौ । सरति । सरिष्यति
Bālamanoramā
श्र्युकः किति - अत्र इण्निषेधं शङ्कितुमाह — श्र्युकः क्किति । श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी । उक् प्रत्याहारः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतमुका विशेष्यते । तदन्तविधिः ।एकाच उपदेशे॑इत्यत इत्यनुवृत्तमिगन्तेऽन्वेति ।नेड्वशि कृती॑त्यतो नेडिति । क्कितीति सप्तमी षष्ठर्थे । गच् कच् क्कौ, तौ इतौ यस्येति विग्रहः । गकारस्य चर्त्वेन निर्देशः । तदाह — श्रिञ एकाच इत्यादिना । गकारप्रश्लेषः किम् । भूष्णुः ।ग्लाजिस्थश्चग्स्नु॑रिति चकाराद्भूधातोर्ग्स्नुः । तस्य गित्त्वादिण्न । कित्त्वे तु स्थास्नुरित्यत्रघुमास्थे॑ति ईत् स्यात् । इण्न स्यादित्यनन्तरम् — अनेन निषेधे प्राप्ते इत्यन्वयः । नन्वियं शङ्का न युज्यते,श्रयुकः क्किती॑ति निषेधं बाधित्वा परत्वात्स्वरतिसूती॑ति विकल्पस्य प्राप्तेरित्यत आह — परमपीत्यादि, सामर्थ्यादित्यन्तम् । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्ते इत्यन्वयः ।आर्धधातुकस्ये॑डित्यादिविधिकाण्डात्प्रागेवनेड्वशि कृती॑त्यादि प्रतिषेधकाण्डारम्भसामर्थ्याद॒त्स्वरती॑ति विकल्पोऽप्यनेन बाध्यते इत्यर्थः । परमपीत्यादिः, प्राप्ते इत्यन्तः शङ्काग्रन्थः । परिहरति — क्रादिनियमान्नित्यमिडिति । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि — स्वरिता स्वर्ता । लृटि स्येस्वरती॑तिविकल्पं निरस्यति — परत्वादिति । स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति । आशीर्लिङिगुणोऽर्तिसंयोगाद्यो॑रिति गुणः । अस्वारीदिति ।स्वरती॑तीट्पक्षे वृद्धिरिति भावः । अस्वार्षीदिति । इडभावेसिचि वृद्धि॑रिति वृद्धिरिति भावः । स्मृचिन्तायामिति । अयमप्यनिट् । स्मरति । लिटिऋतश्चे॑ति कित्यपि गुणः । णलि तु गुणे उपधावृद्धिः । सस्मार सस्मरतुः सस्मरुः । ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इटस्थलि नित्यनिषेधः । सस्मर्थ सस्मरथुः सस्मर । सस्मार — सस्मर सस्मरिव सस्मरिम । स्मर्ता । लृटि स्येऋद्धनो॑रितीट् — स्मरिष्यति । स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङगुणोऽर्ती॑ति गुणः — स्मर्यात् । लुङि सिचि वृद्धौ रपरत्वम् — अस्मार्षीत् । अस्मरष्यत् । द्वृ संवरणे इति.अयमपि स्मृधातुवत् । [अस्यैव द्वारमित्यादि] । सृ गताविति । ऋदन्तोऽयमनिट् । सरति । लिटि संयोगादित्वाऽभावादृतश्चेति गुणो न । ससार सरुआतुः । क्रादत्वान्नेडिति । सृधातोः क्राद#इस्थत्वादिति भावः । ससर्थेति । क्रादित्वात्थल्यपि नित्यं निषेध इति भावः । सरुआथुः सरुआ ।ससार ससार ससृव ससृम । इत्यपि ज्ञेयम् । सर्ता । लृटिऋद्धनो॑रितीट् — सरिष्यति । सरतु । असरत् । सरेत् । आशीर्लिङि संयोगादित्वाऽभावात्गुणोऽर्ती॑ति न गुणः । किंतु 'रिङ् शयग्लिङ्क्षु' इति रिङित्याह — रिङिति । रिउआयादिति । रीङि प्रकृतेरिङ्विधिसामर्थ्यान्न दीर्घ इति भावः । असार्षीदिति । सिचि वृद्धौ रपरत्वम् ।
SK 2382 · A 3.1.56V
सर्त्तिशास्त्यर्तिभ्यश्च ॥ २३८२ ॥
sarttiśāstyartibhyaśca
Siddhānta-kaumudī
एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेवगृह्यते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु पाघ्राध्मा - SK 2360 इति धौरादेशः । धावति ।{$ {!936 ऋ!} गतिप्रापणयोः$} । ऋच्छति ॥
Tattvabodhinī
NSP p. 394—सर्तिशास्त्यर्ति—परस्मैपदेष्विति न संवध्यते । पुषादियोगादस्य पृथक्करणात् । आङः शासु । इच्छायामित्य-स्थात्र न प्रहणं किं तु सर्त्यर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेरेवेत्याहुः । असरत् । अशिषत् । आरत् ॥—प्राग्व-दिति । किदर्थमारब्धोऽपि गुणः परलाण्णत्यपि भवति । रपरत्वम् । तत उपधावृद्धिरित्यर्थः ॥—नित्यमिट् स्या-दिति । ‘विभाषा सृजिदृशोः’ इत्यतो विभाषा नानुवर्तत इति भावः । ध्वृ । हुर्छनं कौटिल्यम् । सृ गतौ । यद्यपि सामान्येन गतिरुक्ता तथापि द्रवद्रव्यस्यैव गतिरिह हेया । स्रवति घृतम्
Bālamanoramā
सर्त्तिशास्त्यर्तिभ्यश्च - अत्र च्लेरङमाशङ्कितुमाह — सर्ति । च्लि लुङीत्यनुवर्तते ।णिश्रिद्रुरुआउब्यः॑ इत्यतः कर्तरि चङिति । तदाह — एभ्य इति । ततश्च प्रकृते असार्षीदित्यत्र अङ् स्यादिति शङ्का सूचिता । तां परिहरति — इह लुप्तेत्यादिना । इह अङ्विधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्रते इति निर्विवादं, तस्य विकरणान्तराऽभावात् । एवं च तत्साहचर्यात्सृधातुरृधातुश्च जौहोत्यादिकौ श्लुविकरणावेव नेत्यर्थः । तदेवं सृदातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातुस्तदा तस्य विशेषमाह — शीघ्रगतौ त्विति । धौरादेश इति । धौशब्दस्यधौ॑रिति प्रथमान्तम् ।धौ॑इत्यौकारान्त आदेश इत्यर्थः ।पाघ्रे॑ति सूत्रे सर्तीति श्तिपा निर्देशः । लुप्तविकरणनिर्देशस्तु अविवक्षित इति भावः । सर्तेर्वेगितायां गतौ धावादेशः॑ इति वार्तिकमभिप्रेत्येदम् । धावतीति । शपि सृधातोर्धौभावे आवादेशः । धावतु । अधावत् । धावेत् । ऋ गतिप्रापणयोः । अनिट् ।पाघ्राध्मे॑ति शिद्विषये ऋच्छादेशः । तदाह — ऋच्छतीति ।
SK 2383 · A 7.4.11V
ऋच्छत्यॄताम् ॥ २३८३ ॥
ṛcchatyṝtām
Siddhānta-kaumudī
तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ॥
Bālamanoramā
ऋच्छत्यॄताम् - ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषेअत आदे॑रिति दीर्घे आ ऋ अतुस् इति स्थितेअसंयोगा॑दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह — ऋच्छत्यृताम् ।दयतेर्दिगि लिटी॑त्यतो लिटीति,॒ ऋतश्च संयोगादेर्गुण॑ इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणेऋतश्च संयोगादेर्गुणः॑ इत्यस्य वैयथ्र्यात् ।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॑ इति तौदादिकस्यऋच्छती॑त श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः । तदाह — तौदादिकस्येत्यादिना । किदर्थमपीदं सूत्रं परतवादकित्यपि भवति । णलि प्राग्वदिति । 'ह्व कौटिल्ये' इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणःअचो ञ्णिती॑ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति । ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति । पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्तेऋच्छत्यृता॑मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् ।
SK 2384 · A 7.2.66V
इडत्त्यर्तिव्ययतीनाम् ॥ २३८४ ॥
iḍattyartivyayatīnām
Siddhānta-kaumudī
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् ।{$ {!937 गृ!} {!938 घृ!} सेचने$} । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् ।{$ {!939 ध्वृ!} हूर्छने {!940 स्रु!} गतौ$} । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि - SK 2312 इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् ।{$ {!941 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥
Tattvabodhinī
alignment inferredNSP p. 394—प्रसवोऽभ्यनुज्ञानमिति । ‘देवस्य त्वा सवितुः प्रसवे’ इत्यादावभ्यनुज्ञानार्थदर्शनात्
Bālamanoramā
इडत्त्यर्तिव्ययतीनाम् - थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति ऋदन्तत्वाद्भारद्वाजमतेऽपि निषेधे प्राप्ते — इडत्त्यर्ति । पञ्चम्यर्थे षष्ठी ।अचस्तास्व॑दित्यत स्थलीत्यनुवर्तते ।विभाषा सृजिदृशो॑रिति पूर्वसूत्रद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह — अद् ऋ इत्यादिना ।आर्धधातुकस्ये॑डित्यनुवृत्तौ पुनरिड्ग्रहणं तुन वृद्ब्यश्चतुभ्र्यः॑ इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति । आरथुः । आरः । आर आरिव आरिम । क्रादिनियमादिट् । अरिष्यतीति ।ऋद्धनो॑रिति इट् । ऋच्छतु । आच्र्छत् । अर्यादिति ।गुणोऽर्ती॑ति गुणे रपरत्वमिति भावः । आर्षीदिति । सिचि वृद्धिः ।सर्तिशास्त्यर्तिभ्यश्चे॑ति अङ् तु न, ततर्भौवादिकस्य ऋधातोर्न ग्रहममित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । 'ऋद्धनोः स्ये' इति इट् । गृ घृ । अनिटौ । गरतीति । जगार । असंयोगादित्वात्ऋतश्चे॑ति गुणो न । जग्रतुः जग्रुः । क्रादिनियमेन इटि प्राप्तेअचस्तास्व॑दिति नेट् । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह — जगर्थेति । जग्रथुः जग्र । जगार — जगर.जग्रिवेति । क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति ।ऋद्धनो॑रितीट् । गरतु । अगरत् । गरेत् । रिङिति । आशीर्लिङि असंयोगादित्वात्गुण#ओऽर्ती॑ति गुणाऽभावे 'रिङ् शयग्लिङ्क्षु' इति रिङित्यर्थः । ग्रियादिति । रीङि प्रकृते रिङ्विधेर्न दीर्घः । अगार्षीदिति । सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् ।ऋद्धनोः॑इति इट् । घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगो नान्यत्रेतितृज्वत्क्रोष्टु॑रिति सूत्रे भाष्ये स्पष्टम् । ध्वृ इति । हूच्र्छनं कुटिलीभवनम् । ध्वरति । दध्वार ।ऋतश्चे॑ति गुणः । दध्वरतुः दध्वरुः । थलिअचस्तास्व॑दिति क्रादिनियमप्राप्त इण्न । ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ दध्वरथुः दध्वर । दध्वार-दध्वर दध्वरिव दध्वरिम । क्रादिनियमादिट् । ध्वर्ता ।ऋद्धनो॑रिति इट् — ध्वरिष्यति । ध्वरतु ।अध्वरत् । ध्वरेत् । आशीर्लिङिगुणोऽर्ती॑ति गुणः । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । रुआउ गतौ । अनिट् । रुआवति । सुरुआआव-सुरुआव । सुरुआउवेति । क्रादित्वान्नेट् । सुरुआउमेत्यपि ज्ञेयम् । रुआओता । रुआओष्यति । रुआवतु अरुआवत । रुआवेत् । रुआऊयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — णिश्रीति चङिति ।चङी॑ति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुरुआ अ त् इति स्थिते रेफादुत्तरस्य उकारस्यसार्वधातुकार्धधातुकयो॑रिति गुणस्य चङ्निमित्तस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात्तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति । बहिर्भूततिबपेक्षत्वनाल्लघूपधगुणो बहिरङ्गः । अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः । अतौवङेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुरुआउवदिति । अरुआओष्यत् । षु प्रसवेति । अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति — प्रसवोऽभ्यनुज्ञानमिति ।ॐ प्रणयेति ब्राहृआ प्रसौती॑त्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवङं बाधित्वा परत्वात्सार्वधातुकयोरिति गुणः । सवति । सुषाव । अतुसादौ कित्त्वाद्गुणाऽभावे उवङ् । सुषुवतुः सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — सुषविथ सुषोथेति । अकित्त्वाद्गुण इति भावः । सुषुवथुः सुषुव । सुषाव-सुषव.वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह — सुषुविवेति । कित्त्वाद्गुणाऽभावे उवङ् । सोतेति । सोष्यति । सवतु । असवत् । सवेत् । सूयात् ।
SK 2385 · A 7.2.72V
स्तुसुधूञ्भ्यः परस्मैपदेषु ॥ २३८५ ॥
stusudhūñbhyaḥ parasmaipadeṣu
Siddhānta-kaumudī
एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥
Tattvabodhinī
NSP p. 394—स्तुसुधूञ्भ्यः—परस्मैपदेषु किम् । अस्तोष्ट । अधोष्ट
Bālamanoramā
स्तुसुधूञ्भ्यः परस्मैपदेषु - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । 'षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् ।
SK 2386 · A 3.1.74V
श्रुवः शृ च ॥ २३८६ ॥
śruvaḥ śṛ ca
Siddhānta-kaumudī
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥
Tattvabodhinī
NSP p. 394—श्रुवः शू च । यद्ययं श्रुधातुः स्वादौ पठ्येत तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः
Bālamanoramā
श्रुवः शृ च - श्रुवः शृ च । 'शृ' इति लुप्तप्रथमाकम् । चकारेणस्वादिभ्यः श्नु॑रिति सूत्रस्थः श्नुः समुच्चीयते । तदाह — श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनेन शब्विषये कत्र्रर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोर्हित्त्वादिति ।सार्वधातुकमपि॑दित्यनेनेति भावः । शृणोतीति । तिपमाश्रित्य श्नोर्गुणः । तसादीनं ङित्त्वात् श्नोर्न गुणः । तदाह — शृणुत इति ।
SK 2387 · A 6.4.87V
हुश्नुवोः सार्वधातुके ॥ २३८७ ॥
huśnuvoḥ sārvadhātuke
Siddhānta-kaumudī
जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् ।{$ {!943 ध्रु!} स्थैर्ये$} । ध्रवति । अयं कुटादौ गत्यर्थोऽपि ।{$ {!944 दु!} {!945 द्रु!} गतौ$} । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव । णिश्रि - SK 2312 इति चङ् । अदुद्रुवत् ।{$ {!946 जि!} {!947 ज्रि!} अभिभवे$} । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जे-SK 2685 इति तङ् । पराजेरसोढः SK 589 इत्यपादानत्वम् ॥ अथ डीङन्ता ङितः ॥{$ {!948 ष्मिङ्!} ईषद्धसने$} । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे ।{$ {!949 गुङ्!} अव्यक्ते शब्दे$} । गवते । जुगुवे ।{$ {!950 गाङ्!} गतौ$} । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः - SK 2461 इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वात् घुमास्था - SK 2462 इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदाः ।{$ {!951 कुङ्!} {!952 घुङ्!} {!953 उङ्!} {!954 ङुङ्!} शब्दे$} । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । उवे । [(परिभाषा - ) वार्णादाङ्गं बलीयम्] इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता ।{$ {!955 च्युङ्!} {!956 ज्युङ्!} {!957 प्रुङ्!} {!958 प्लुङ्!} गतौ $} । क्लुङ् इत्येके ।{$ {!959 रुङ्!} गतिरेषणयोः $}। रेषणं हिंसा । रुरुवे । रवितासे ।{$ {!960 धृङ्!} अवबन्धने$} । धरते । दध्रे ।{$ {!961 मेङ्!} प्रणिदाने$} । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गद - SK 2285 इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्कृतैरपि ग्रहणस्येष्टत्वात् ।{$ {!962 देङ्!} रक्षणे$} । दयते ॥
Tattvabodhinī
NSP p. 394–395—हुश्रुवोः—जुहति । सुन्वन्ति । हुश्रुवोः किम् । योयुवति । नोनुवति । सार्वधातुके किम् । जुहुवतुः । जुहुवुः । असंयोगपूर्वेति किम् । अक्षुण्-वन्ति । असंयोगपूर्वप्रहणमोर्विशेषणं न तु श्रुप्रत्ययस्य । तेन आमुवन्ति इत्यत्रापि यण्निषेधः सिध्यति । प्रत्ययविशेष-णत्वे तु अक्षुण्वन्तीत्यत्रैव निषेधः स्यादिति भावः । स्यादेतत् । यङ्लुकश्लान्दसलाद्योयुवतीत्यादौ प्रत्ययस्य ‘छन्दस्युभ-यथा’ इत्यनेनार्धधातुकलाश्रयणे यणादेशो न भवेदिति किमनेन हुश्रुप्रहणेन । न च युवन्ति नुवन्ति इत्यत्रातिप्रसङ्गवा-रणार्थं तद्बहणमिति वाच्यम् । अनेकाच इत्यस्यानुवर्तनेनोक्तदोषाभावादिति चेत् । अत्राहुः । ‘दाधर्तिदर्धर्तिदर्धर्षिवो-भूतु—इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि वोभवीतीत्यादौ ‘भूसुवोः—’ इति गुणनिषेधो न प्रवर्तते । अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात् । योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्रुप्रहणं कर्तव्यमेवेति । हुश्रुप्रहणा-ज्ञापकात् भाषायामपि कचिद्यङ्लुभवतीति भाष्यकाराः । एवं च सार्वधातुकपरयोर्हुश्रुवोरनेकाच्छ्वात्मिचारादनेकाच इत्यस्यानुवृत्तिरिह किमुप्रत्ययाकाव्या मिरकनीश एव । तदनुवृत्त्यभावे हुश्रुप्रहणस्य ज्ञापकलासंभवादिति दिक् ॥—दुद- विथेति । भारद्वाजनियमादिद् ॥—दुद्रोथ । दुद्रुवेति । कादिलाल्लिटि नेट् । गाङ् गतौ ॥—गाते गाते गात इति । पूर्वं शपा सह सवर्णदीर्घे कृते ‘आतो इतिः’ इति न प्रवर्तते ‘आत्मनेपदेष्वनतः’ इति तु प्रवर्तते इति तातांशेषु तुल्यं रूपमित्याहुः । गै । गावहे । गामहे । जगे । जगाते । गाताम् । गाताम् । गाताम् । गाख । उत्तमे तु । गै । गावहै । गामहै । अगात । अगाताम् ॥—न त्वस्येति । गाते इत्यादौ तदं प्रवर्त्य दृकारस्य चरितार्थलात् । आदेशदृकारस्तु न चरितार्थः । स्थानिवद्भावेन इत्त्वादेव तदः सिद्धलादिति भावः ॥—आदादिकोऽयमिति । एवं च गाते गाथे इत्यादावातामाथामाः परतः ‘आतो इतिः’ इत्यस्य प्रवृत्तिशङ्कैव नास्तीति भावः ॥—फले तु न मेद इति । न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घे कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन इति माकारस्य इयं स्यादिति शङ्क्यम् । पञ्चमीसमासपक्षस्यानित्यलाभ्युपगमादिति भावः ॥—चुङ्कुवे इति । ‘कुहोश्चुः’ इति दृश्य अः ॥—च्युङ्कु इति । अस्मात् पचाद्यचि विच्यवः ववयोरमेदाद्विच्यव इत्यन्ये । मेङ् ॥—प्रणिमयत इति । ननु ‘नेर्गद-’ इति कथमिह णत्वं स्यात् । शिद्विपये आलाभावेन मारूपाभावादशिद्विपये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव प्रतिपदोक्तस्यैव माथातोर्प्रहणौचित्यान्न लस्य लाक्षणिकस्य । ‘गामादाग्रहणेष्वविशेषः’ इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत आह—तत्रेति ॥—इष्टत्वादिति । अयं भावः । घुसंज्ञासूत्रे प्रर्णिदयते प्रणिधयतीत्यादौ णलसिद्धये भाष्यकारैरित्यं सिद्धान्तितम् । ‘नेर्गदनद-’ इति णलविधौ ‘घुमा-’ इत्यस्य स्थाने ‘घुप्रकृतिमाङ्’ इति पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः । प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोत्तरयोरेव । तेन न काप्यव्याप्तिः । नापि मा माने इत्यत्र मीनातिमिनोत्योर्थातिव्याप्तिः । माङ् इति दृकारानुबन्धकस्यैव पठितलादिति
Bālamanoramā
हुश्नुवोः सार्वधातुके - शृणु-अन्तीति स्थिते अन्तेर्ङित्त्वात् श्नोर्गुणनिषेधे सति उवङि प्राप्ते — हुश्नुवोः । श्नोः प्रत्ययत्वात्तदन्तग्रहणम् ।इणो यणि॑त्यतो यणित्यनुवर्तते, 'अचि श्नु' इत्यतोऽचीति । तस्य सार्वधातुकविशेषणत्वात्तदादिविधिः । 'एरनेकाचः' इतिसूत्रमेरितिवर्जमनुवर्तते ।ओः सुपी॑त्यत ओरिति च षष्ठन्तम् । तदाह — जुहोतेरित्यादिना । असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम्, तेन आप्नुवन्तीत्यत्र यण् न । हुश्नुश्वोः किम् । योयुवति । अत्र युधातोर्यङ्लुकि 'अदभ्यस्ता' दिति झेरदादेशे योयु-अतीति स्थिते अनेकाजङ्गावयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुलं छन्दसी' इत्यनुवृत्तौ यङोऽचि चे॑ति विहितस्य यङ्लुकश्छान्दसत्वात्छन्दस्युभयथे॑त्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेर्हुश्नुग्रहणं भाषायमपि क्वचिद्यङ्लुकं ज्ञापयतीत्युक्तम् । तथा च भाषायामपि अनेकाचोऽसंयोगपूर्वकोकारान्ताद्योयुवतीत्यादौ यङ्लुक्सिद्धेस्तत्र यङाभाअवार्थं हुश्नुग्रहणमिति फलति । ज्ञापकस्य सामान्यपेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि यङ्लुक् सिध्यति । एतदेवाभिप्रेत्य भाष्ये — हुशनुग्रहणं ज्ञापयति — ॒भाषायामपि यङ्लुक् भवती॑ ,किमेतस्य ज्ञापने प्रयोजनं, बेभिदीति चेच्छिदीतीत्येतत्सिद्धं भवती॑त्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुक् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः । भिदिच्छिद्योग्र्रहणं प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति । शृणुथः । शृणुतेत्यपि ज्ञेयम् ।लोपश्चाऽस्यान्यतरस्यां म्वो॑रित्यभिप्रेत्याह — शृण्व इत्यादि.शुश्राव शुश्रुवतुः शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिण्निषेधः । तदाह — शुश्रोथ । शुश्रुवेति । शुश्रुवेति । शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति । शृणोतु — शृणुतात् शृणुताम् । शृण्वन्तु ।उतश्च प्रत्ययादसंयोगपूर्वा॑दिति हेर्लुकं मत्वा आह — शृण्विति । शृणुतात् शृणुतम् शृणुत । शृणवानीति । आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः । ध्रु स्थैर्ये इति । अनिट् । ध्रवति । दुध्राव दुध्रुवतुः दुध्रुवुः । भारद्वाजनियमात्थल वेट् । दुध्रविथ — दुध्रोथ दुध्रुवथुः धुध्रुव । दुध्राव-दुध्रव दुध्रुविव दुध्रुविम । क्रादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । ध्रूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति । अनिटौ । दवति । द्रवति । दुदाव दुदुवतुः दुदुवुः । द#उद्राव दुद्रुवतुः दुद्रुवुः । अस्य भारद्वाजनियमात्थलि वेडित्याह — दुदोध दुदविथेति । दुदुवथुः दुदुव । दुदाव — दुदव । वमयोः क्रादिनियमादिडित्याह — दुदुविवेति । द्वितीयस्य क्रादित्वात्थलि नित्यं नेट् । तदाह — दुद्रोथेति । दुद्रुवथुः दुद्रुव । दुद्राव- दुद्रव । वमयोः क्रादित्वानेट् । तदाह — दुद्रुवेति । दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । अद्रवत् । दवेत् । द्रवेत् । दूयात् । द्रूयात् । अदौषीत् । चङिति । द्रुधातोरिति भावः । न्यूनीकरणमिति । नीचीकरणमित्यर्थः । न्यूनीभवनमिति । क्षीणबलीभवनमित्यर्थः । शत्रूञ्जयतीति । नीचीकरोतीत्यर्थः । ननु जिधातोः परस्मैपदित्वात्पराजयत इतिकथमात्मनेपदमित्यत आह — विपराभ्यामिति । ननु पराजयस्य अध्ययनेन संश्लेषविश्लेषयोरभावात्कथं पराजयं प्रत्ध्ययनस्याऽपादानत्वमित्यत आह — पराजेरिति । जयति । लिटिसँल्लिटोर्जे॑रिति कुत्वम् । जिगाय जिग्यतुः । जिग्युः । भारद्वाजनियमात्थलि वेट् । जिगयिथ-जिगेथ जिग्यथुः । जिग्य । जिगाय-जिगय । वमयोः क्रादिनियमादिट् । जिग्यिव जिग्यिम । जेता । जेष्यति । जयतु । अजयत् । जयेत् । जीयात् । अजैषीत् । अजैष्टामजैषुः । अजैषीः अजैष्टमजैष्ट । अजैषमजैष्व अजैष्म । अजेष्यत् । इति धेडादयोऽजन्ताः परस्मैपदिनः । अथ डीङन्ता ङित इति । 'डीङ् विहायसा गतौ' इत्येतत्पर्यन्ता ङित्त्वादात्मनेपदिन इत्यर्थः ।ष्मिङ् ईषद्धसने॑ । षोपदेशोऽयम् । स्मयते इति ।धात्वादे॑रिति षश्य सः । सिष्मिये इति । कित्त्वाद्गुणाऽभावे इयङ् । आदेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियातेसिष्मियिरे । क्रादिनियमादिट् । सिष्मियिषे । सिष्मियाथे । 'विभाषेटः' इति मत्वा आह — सिष्मियिढ्वे सिष्मियिध्वे इति । स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट । अस्मेष्ट । अस्मेष्यत । गुङ्धातुरनिट् । गुण ओकारः, अवादेश इति विशेषः । गाङ्धातुरनिट् । गाते इति । लटस्तादेशे शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह — गाते इति । गा-अ-आतामिति स्थिते परत्वात्सवर्णदीर्घे अतः परस्य दीर्घाऽकारस्याऽभावात् 'आतो ङितः' इति इय् न भवति । झावपि तथैव रूपमाह — गाते इति । शपा सह आकारस्य सवर्णदीर्घे 'आत्मनेपदेष्वनतः' इतिझेरदादेशे टेरेत्वमिति भावः । गासे गाथे गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह — इट इति । गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृतेवृद्धिरेची॑ति वृद्धौ 'गै' इति रूपमित्यर्थः । गावहे गामहे । लिटि अजादौ आल्लोपः । जगे जगाते जगिरे । क्रादिनियमादिट् । जगिषे जगाथे जगिध्वे । जगे जगिवहे जगिमहे । गाता । गास्यते । गाताम् गाताम् । गाताम् । गास्व गाथाम् गाध्वम् । गै गावहै गामहै । अगात अगातामगात । अगाथाः आगाथामगाध्वम् । लङ इटीति । अ गा अ इ इति स्थिते टिदादेशत्वाऽभावादेत्त्वाऽभावे सवर्णदीर्घे आद्गुणे 'अगे' इति रूपमित्यर्थः । अगावहि अगामहि । गेतेति । लिङस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे आद्गुण इति भावः । गेयातामिति । गा अ आतामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेरन्निति । झस्य रन्भावे गा अ रन्निति स्थिते सवर्णदीर्घे सीयुटि सलोपे आद्गुण इतिभावः । गेथाः गेयाथाम् गेध्वम्, गेय गेवहि गेमहि । आशीर्लिङि आह — गासिष्टेति । गासीयास्तात् गासीरन् । गासीष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवहि गासीमहि । ननु गासीष्टेत्यादौगाङ्कुटादिभ्योऽञ्णिन्ङिदि॑ति ञ्णिद्भिन्नप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्टप्रत्ययस्य ङित्त्वात्घुमास्थागापाजहातिसां हली॑ति हलादौ क्ङिति विहितमीत्त्वं स्यादित्यत आह — गाङ्कुटादिभ्य इति सूत्रे इति । 'इङ' इत्यनुवृत्तौगाङ्लिटी॑ति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे ग्रहणं, न तवस्य गाधातोरित्यर्थः । एतच्च अगासातामगासत् । अगास्थाः अगासाथामगाध्वम् । अगासि अगास्वहि । अगास्महि । अगास्यत । आदादिकोऽयमिति । ततश्चअदिप्रभृतिभ्यः शपः॑ इति शपो लुगिति भावः । फले तु न भेद इति । शपो लुकि सति गाते इत्याद्येव रूपम्, तस्मिन्नसत्यपि गा अते इत्यादौ सवर्णदीर्घे सति तदेव रूपमिति न रूपभेद इत्यर्थः । कुङ् घुङ् उङ् ङुङ् शब्दे इति । चत्वारोऽपि ङितः । आद्यद्वितीचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवल उवर्णः । अन्ये त्विति । आद्यः केवलोवर्णो ङित् । इतरे तु पञ्च क्रमेण कवर्गाद्याः । तत्र कुङ्धातोरुदाहरति — कवते इति । लिटि अजादौ कित्त्वाद्गुणाऽभावे उवङ् । तदाह — चुकुवे इति । चुकुवाते चुकुविरे क्रादिनियमादिट् । चुकुविषे चुकुवाथे चुकुविध्वे । चुकुवे चुकुविवहे चुकुविमहे । कोता । कोष्यते । कवताम् । अकवत । कवेत । कोषीष्ट । अकोष्ट । अकोष्यत । एवं खवते इत्यादि । उङ्धातोराह — अवते इति । ऊवे इति । उ उ ए इति स्थिते द्वितीयस्य उवर्णसुवङि कृते सवर्णदीर्घे इति भावः । ननु उवङो बहिर्भूतप्रत्ययाऽपेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घे कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह — वार्णादिति । ऊबाते ऊविरे ।क्रादनियमादिट्- ऊविषे ऊवाथे ऊविध्वे । ऊवे ऊविवहे ऊविमहे । रूपमुक्तम् । संप्रति लिटि रूपमाह — ञुङुवे इति ।कुहोश्चु॑रिति ङकारस्य स्थानिनश्चर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यान्तरप्रत्यत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणामनुनासिक्यसाम्याञ्ञकारः । प्रथमतृतीयौ तु न भवतः, आनुनासिक्याऽभावात् । च्युङादयोऽप्युवर्णान्ता अनिटः कुङ्धातुवज्ज्ञेयाः । रुङ् गतीति । सेट्कोऽयम् ।ऊद्द्टदन्तैर्यौतिरुक्ष्णु॑ इत्यनिट्सु पर्युदासात् । तदाह — रवितासे इति । धृङ्धातुरनिट् । दध्रे इति । कित्त्वाद्गुणनिषेधे ऋकारस्य यण् । दध्राते दध्रिरे । क्रादिनियमादिट् । दध्रिषे दध्राथे दध्रिध्वे । दध्रे दध्रिवहे दध्रिमहे । धर्ता । लृटि स्येऋदनो॑रिति इटि — धरिष्यते । धरताम् ।अधरत । धरेत । आशीर्लिङि सीयुटिउश्चे॑ति कित्त्वान्न गुणः । धृषीष्ट ।ह्रस्वादङ्गा॑दिति सिचो लुक् । अधृत अधृषातामधृषत । अधरिष्यत । मेङ् प्रणिदाने णत्वमिति । प्रणिदानशब्दे, 'प्रणिमयते' इत्यत्र चनेर्गदे॑ति णत्वमित्यर्थः । ननु 'प्रणिमयते' इत्यत्र णत्वमिदं न संभवति, शिद्विषये आत्वाऽभावेन मारूपाऽभावात् । तथा प्रणिमानशब्देऽपि णत्वं न संभवति, ततर्मेङः कृतात्वस्य लाक्षणिकमारूपत्वात् ।गामादाग्रहणेष्वविशेषः॑ इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमनोत्योरात्त्वे प्रनिमाता प्रनिमास्ति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह — तत्रेति । तत्र =नेर्गदे॑ति णत्वविधौ ।घुमे॑त्यस्य स्थानेघुप्रकृतिमा॑ङिति पठित्वा तत्र प्रकृतशब्दस्य घुमाङप्रकृतिपरत्वमाश्रित्य घौ, माङ्धातौ, घुमाप्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्ङितो मेङ्धातोः कृतात्वस्यापि ग्रहणस्य भाष्यकृताऽभ्युपगतत्वादित्यर्थः । एवं च 'प्रणिमयते' इत्यत्र नाऽव्याप्तिः, मेङः कृतात्वमाप्रकृतित्वे सति ङित्त्वात् । नापि मीनातमिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य ङित्त्वाऽभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे ममाते ममिरे । क्रादिनियमादिट् । ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मयताम् । अमयत । मयेत । मासीष्ट । अमास्त । अमास्यत । देङ्धातुमेङ्वत् ।
Footnotes (NSP 1915 ed.)
NSP p. 395 १ फले तु न भेद इति—गा अ आते इत्यत्र वार्णपरिभाषया सवर्णदीर्घं बाधित्वा ‘आतो ङितः’ इतीयादेशः स्यादिति भेदस्तु न शङ्क्यः । तस्याः स्यान्येकत्वे एव प्रवृत्तेः ।
SK 2388 · A 7.4.9V
दयतेर्दिगि लिटि ॥ २३८८ ॥
dayaterdigi liṭi
Siddhānta-kaumudī
दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥
Tattvabodhinī
alignment inferredNSP p. 395—दिग्यादेशेनेति । दयतेलिटि परे द्वित्वं प्राप्तं दिग्यादेशश्च तत्र विशेषविहितेन दिग्यादेशेन द्विलशास्त्रस्य वाधः । न चैवं ‘प्यायः पी’ ‘चक्षिडः ख्याव्’ इति पीख्यात्रोरपि विशेषविहितलाभ्यां द्विलवाधः स्यादिति वाच्यम् । विषयसप्तमीमाश्रित्य लिङ्गत्पत्तेः प्रागेव तयोः प्रवृत्तलात् । दिग्यादेशविधौ तु लिटीति परसप्तम्येव न तु विषयसप्तमी । लक्ष्यानुरोधात् । तदेतत्सूचयति—इष्यत इति । दयतेलिटि द्वित्वे प्राप्ते तद्वाधित्वा परलादिग्यादेश इति तु नोक्तम् । परस्परलव्यावकाशयोरेव परस्य वलीयस्त्वात् । दिग्यादेशं विना द्विलस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक्
Bālamanoramā
दयतेर्दिगि लिटि - दयतेर्दिगि ।दिगी॑ति लुप्तप्रथमाकम् ।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह — दिग्यादेशेनेति । एतच्च स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट ।
SK 2389 · A 1.2.17कित्त्वातिदेशः
स्था घ्वोरिच्च ॥ २३८९ ॥
sthā ghvoricca
Siddhānta-kaumudī
अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि ।{$ {!963 श्यैङ्!} गतौ$} । श्यायते । शश्ये ।{$ {!964 प्यैङ्!} वृद्धौ$} । प्यायते । पप्ये । प्याता ।{$ {!965 त्रैङ्!} पालने$} । त्रायते । तत्रे ।{$ {!966 पूङ्!} पवने$} । पवते । पुपुवे । पविता ।{$ {!967 मूङ्!} बन्धने$} । मवते ।{$ {!968 डीङ्!} विहायसा गतौ $}। डयते । डयिता ।{$ {!969 तॄ!} प्लवनतरणयोः$} ॥
Tattvabodhinī
NSP p. 395—स्थाध्वोरिच्च । इह ‘लिङ्सिचौ’ इति सूत्रादात्मनेपदेष्विति नानुवर्तितम् । परस्मैपदेषु ‘गातिस्था-’ इति लुकः प्रवृत्तेर्व्यावत्यालाभात् । अस्थित । अस्थिषाताम् । भाव्यमानोऽण् कचित्सवर्णान् गृह्णातीत्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः । अत्र वदन्ति । विधीयमानस्य सवर्णप्राहकत्वेऽपि तपरकरणमिह व्यर्थम् । न चात्र दीर्घः स्यादिति वाच्यम् । ‘घुमास्था-’ इत्यनेनैव तत्सिद्धौ विधिवैयर्थ्यापत्तेः । न चैवमपि मुतः स्यादिति वाच्यम् । ‘मुताऽमुतप्रसङ्गे मुतश्च विषये स्पृतः’ इति सिद्धान्तादिति । डीङ् । विहायसा आकाशेन । विहायसामिति पाठस्त्वनाकर इत्याहुः
Bālamanoramā
स्थाघ्वोरिच्च - लुङि सिचि अदास् त इति स्थिते — स्थाध्वोरिच्च । 'असंयोगाल्लिट्' इत्यतः किदिति,हनस्सि॑जित्यतः सिजिति चानुवर्तते । तदाह - अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र 'गातिस्थे' ति सिचो लुका लुप्तत्वात् । अत एव 'लिङ्सिचौ' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यवर्त्त्याऽभावात् । अदितेति । इत्त्वेकृतेह्रस्वादङ्गा॑दिति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक्, झलिपरतएव लुग्विधेः । सिचः कित्त्वादिकारस्य न गुणः । अदिषातामदिषत । अदिथाः अदिषाथाम् । अदिढ्वम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यदित्यपि ज्ञेयम् । श्यैङ् गतौ । श्यायते इति । शपि आयादेशः । शिद्विषत्वादात्वं नेति भावः । शश्ये इति । एशि आत्वे आतो लोपः । शश्याते शश्यिरे । क्रादिनियमादिट् । शश्यिषे शश्याथे शश्यिध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैङ्धातुरपि श्यैङ्वत् । त्रैङप्येवम् । पूङ् पवने इति । पवते इति । सेट्, ऊदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः । अवादेशः । पुपुवे इति । कित्त्वाद्गुणाऽभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवहे पुपुविमहे । पविता । पविष्यते । पवताम् । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणेऽयादेश इति भावः । डिडए डिडिवहे डिडिमहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् । डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्-डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । अडयिष्ट ।अडयिष्यत । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेट् परस्मैपदी । अनिट्सु ॠदन्तपर्युदासात्सेट् ।
SK 2390 · A 7.1.100V
ॠत इद्धातोः ॥ २३९० ॥
ṝta iddhātoḥ
Siddhānta-kaumudī
ॠदन्तस्य धातोरङ्गस्य इत्स्यात् ॥
vārttikaइत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन
(वार्तिकम्) ॥ तरति । ऋच्छत्यॄताम् SK 2383इतिगुणः । तॄफल - SK 2301इत्येत्वम् । तेरतुः । तेरुः ॥
Tattvabodhinī
NSP p. 395–396—ग्रहत इद्धातोः । किरति । गिरति । कीर्णः । गीर्णः । स्त्रीर्णः । धातोः किम् । मातृणाम् ॥—इत्योत्वा- भ्यामिति । ‘परलाद् गुणवृद्धी भवत्’ इति वक्तव्ये किमिदं वार्तिकमिति चेत् । अत्राहुः । परादप्यन्तरङ्गं प्रवलमितीत्वे प्राप्ते वार्तिकमिदमारब्धमिति
Bālamanoramā
ॠत इद्धातोः - ऋत इद्धातोः । 'ॠत' इतिधातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम् । तदाह — ॠदन्तस्येति । धातोः किम् । मातृणाम् । तथा च तरति, पिपर्ति, ततार पपारेत्यादौ ॠकारस्य शपि तिपि णलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वादित्त्वमुत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह - इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् ।ॠत इद्धातो॑रिति इत्त्वम्, 'उदोष्ठपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात्स्यातामिति भावः । तरतीति । णलि ततार । अतुसादौ ददवादिगुणाना॑मिति निषेधमाशङ्क्याह — तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार — ततर तेरिव तेरिम ।
Footnotes (NSP 1915 ed.)
NSP p. 396 गुपेर्निन्दायामिति—गोपनाथर्थकानां निन्दादौ वृत्तिस्तु धातूनामनेकार्थत्वाद्वोध्या । २ किद्भिन्ना इति—य एवं विद्वान् चिकित्सवीत्यादिप्रयोगात्स परस्मैपदीति सावः ।
SK 2391 · A 7.2.38V
वॄतो वा ॥ २३९१ ॥
vṝto vā
Siddhānta-kaumudī
वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च SK 354 इति दीर्घः । तीर्यात् ॥
Tattvabodhinī
NSP p. 396—वृतो वा । इह ‘आर्धधातुकस्येङ्’ इत्यत इडित्यनुवर्तते ‘ग्रहो लिटि’ इत्यतो लिटि दीर्घं इति च तदाह—इटो दीर्घो वेत्यादि
Bālamanoramā
वॄतो वा - वृतो वा । वृ ॠत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृ इति वृङ्वृञोग्र्रहणम् ।आर्धधातुकस्ये॑डित्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते ।ग्रहोऽलिटि दीर्घ इत्यनुवर्तते । तदाह — वृङ्वृञ्भ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः ।गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे 'हलि चे' ति दीर्घे, तीर्यादिति रूपमित्यर्थः । अतारीत् अतारिष्टामित्यादौ 'वृतो वा' इति दीर्घे प्राप्ते — सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्वृञ्भ्यामृद्नताच्च परस्य इटो दीर्घो नेत्यर्थः ।न लिङी॑त्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषमतारिष्व अतारिष्म.अतरिष्यत् । गुप गोपने इति । गोपनं — रक्षणम् । तिज निशाने इति । निशानं — तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धने इति । एते चत्वारोऽनुदात्तेत इति स्थितिः ।
SK 2392 · A 7.2.40V
सिचि च परस्मैपदेषु ॥ २३९२ ॥
sici ca parasmaipadeṣu
Siddhānta-kaumudī
अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः ॥{$ {!970 गुप!} गोपने$} ।{$ {!971 तिज!} निशाने$} ।{$ {!972 मान!} पूजायाम्$} ।{$ {!973 बध!} बन्धने$} ॥
Tattvabodhinī
NSP p. 396—सिचि च । ‘न लिङि’ इत्यतो नेत्यनुवर्तनादाह—इटो दीर्घो नेति ॥—मान्वध—। आभ्यासस्येति च्छेदः । अभ्यासस्य विकार आभ्यासः । स चात्र ‘सन्यतः’ इतीत्यमेव । यदि तु हस्व इत्येव गृह्येत तर्हि तद्धितनिर्देशो व्यर्थः स्यात्तदेतदाह—अभ्यासेकारस्येति । वृत्तिकाराद्युपनिवद्धार्थान्दर्शयति—गुपेर्निन्दायामित्यादिना
SK 2393 · A 3.1.5V
गुप्तिज्किद्भ्यः सन् ॥ २३९३ ॥
guptijkidbhyaḥ san
Bālamanoramā
गुप्तिज्किद्भ्यः सन् - गुप्तिज्किद्भ्यः ।
SK 2394 · A 3.1.6V
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ २३९४ ॥
mānbadhadānśānbhyo dīrghaścābhyāsasya
Siddhānta-kaumudī
सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ।
vārttikaकितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च
vārttikaमानेर्जिज्ञासायाम्
(वार्तिकम्) ॥ सनाद्यन्ता - SK 2304 इति धातुत्वम् ॥
Bālamanoramā
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य - मान्बध । गुप्तिजी इह पठितौ । 'कित निवासे' इत्यनुपदमेव परसमैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्च इह पठितौ । दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः ।आभ्यासस्ये॑ति च्छेदः । अभ्यासस्य विकारः आभ्यासः । स च 'सन्यतः' इति इत्त्वमेव,न तु ह्रस्व इतिगुणो यङ्लुको॑रिति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन् — संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः । इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह — सत्रद्वयेति । अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह — गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन । अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । 'मानेर्विचारे' इत्येव वृत्तिकृत् । सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह — सनाद्यन्ता इति ।
SK 2395 · A 6.1.9V
सन्यङोः ॥ २३९५ ॥
sanyaṅoḥ
Siddhānta-kaumudī
सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते ।{$ {!974 रभ!} राभस्ये$} । आरभते । आरेभे । रब्धा । रप्स्यते ।{$ {!975 डुलभष्!} प्राप्तौ$} । लभते ।{$ {!976 स्वञ्ज!} परिष्वङ्गे$} ॥
Tattvabodhinī
NSP p. 396–397—सन्यङोः—। सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां प्रतीषिषति अटाव्यते इत्यादि न सिद्ध्येत् । सन्यङोः प्रकृतिभागस्यैव द्वित्वप्रसक्तेरत आह—सन्नन्तस्येति । ननु सप्तमीपक्षेऽपि सन्यङोरेव द्वित्वं स्यात्र तु प्रकृतिभागस्य । शपोऽकारेणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्य ‘अजादेर्द्वितीयस्य’ इति द्वित्वार्थलात् । यद्यपि निमित्तस्य कार्यित्वस्त्रीकारे आट आटतुरित्यादौ लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामर्थ्यात् सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेत् । मैवम् । अकारफलानां वहूनां सत्त्वात् । तथाहि दित्स्यं धित्स्यमित्यत्राचो यति कृते ‘यतो नावः’ इत्याद्युदात्तः सिध्यति । अकाराभावे तु ‘ऋहलोः’ इति प्यतीष्टस्वरो न सिध्येत् । किंच पिपठिपि ब्राह्मणकुलानीत्यत्राल्लोपस्य स्थानिवत्त्वात् झलन्तलक्षणो नुम् न भवति, अकाराभावे तु स्यादेव नुम् । अपि च पापाचक इत्यादावल्लोपस्य स्थानिवत्त्वात् ‘अत उपधायाः’ इति वृद्धिर्न प्रवर्तते । अपि च ‘यस्य हलः’ इत्यत्र यस्येति संघातप्रहणमहर्यादित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम् । तथा च अपापचिष्टेत्यादौ यलोपोऽप्यकारफलमिति ‘सन्यङोः’ इति षष्ठ्येव युक्ता । एवं हि यङ्छुकि प्रत्ययलक्षणेन यङन्तत्वाद्वित्वं सिध्यति । परसप्तम्यां तु द्वित्वस्याङ्गकार्यलात् ‘न लुमता’ इति निषेधः प्रवर्ततेति दिक् ॥—दानशानौ चेति । आर्जवनिशानार्थाविति भावः ॥—अर्थान्तरे त्विति । धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः ॥—अननुवन्धका इति । सानुवन्धकत्वे तु केवले चरितार्थलात् अनुवन्धस्य सन्नन्तादिवाकर्तृगफलात् प्यन्तादपि तङ् स्यादिति भावः । एवं चानुपूर्वामात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम् ॥—इङ्गुणौ नेति । यद्यपि ‘हलन्ताच्च’ इति सनः कित्वेनापि गुणाभावः सुसाधस्तथापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः । केचित्तु अर्थवद्वहणपरिभाषया इच्छासन एव ‘हलन्ताच्च’ इति सूत्रे प्रहणमिति नास्य स्वार्थसनः कित्वमित्याहुः ॥ रभ राभस्ये । राभस्यमुपक्रमः । लिटि । रेभे । रेभाते । लुङि । अरब्ध । अरप्साताम् । डुलभष् । ‘ड्वितः क्रिः’ लप्तिमम् । ‘पिद्भिदादिभ्यः’— इत्यङ् । लभा । लिटि । लेभे । लुङि । अलब्ध
Bālamanoramā
सन्यङोः - सन्यङोः । अवयवषष्ठएषा । प्रत्ययत्वात्तदन्तग्रहणम् ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतं । तदाह — सन्नन्तस्येत्यादिना । 'सनि यङि च परे' इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाटते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः । अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारोगुपेनिन्दाया॑मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । 'दान खण्डने' 'शान तेजने' इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति । एते गुप्तिजादयः सप्त धातवोगुपेर्निन्दाया॑मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु तविति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह — अनुबन्धकस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये — गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपद॑मिति । अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः । धातोरितीति । 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नार्धधातुकत्वमित्यर्थः । तेनेति । सन आर्धधातुकत्वाऽभावेनेत्यर्थः । जुगुप्सते इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणेयोरभावेसन्यङो॑रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः । जुगुप्सांचक्रे इति ।कास्प्रत्यया॑दित्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति । तिक्ष्णीकरोतीत्यर्थः । मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्रस्वे 'सन्यतः' इति इत्त्वे 'मान्बधे' त्यभ्यासदीर्घे,नश्चे॑त्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह — भष्भाव इति । बकारस्य भकार इत्यर्थः । चर्त्वमिति । धस्य तकार इत्यर्थः । तथा चभत्से॑ति सन्नन्तं संपन्नम् । बीभत्सते इति । भष्ट्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वेमान्बधे॑ति दीर्घे बीभत्सधातोर्लडादिति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते । रभ राभस्ये इति । अनिडयम् । राभस्यं — शीघ्रीभावः । आङ्पूर्वकस्तु प्रारम्भर्थकः । तदाह — आरभते इति । रब्धेति ।झषस्तथो॑रिति धत्वं, भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति । डुरित् षकारश्च । 'ड्वितः क्रिः'षिद्भिदादिभ्यो॑ऽङिति प्रयोजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट् ।
Footnotes (NSP 1915 ed.)
NSP p. 397 १ कृत्येवेदमिति—परे तु अत्र भाष्याननुग्रहः । अत एव ‘अनुविपरिभ्य—’ इत्यत्रेव भगवतात्र सूत्रे पर्युदासप्रसज्यप्रतिषेधयोः फलभेदविचारो न कृतः । तस्माद्विपूर्वस्यास्य तिङ्यप्रयोगो वा सपत्वप्रयोग इत्याहुः । २ अनुनासिकलोप इति—सच दंष्ट्राभ्या-पारे एव । ‘तनुत्रं वर्मं दंशनम्’ इत्यमरस्वरसात् ।
SK 2396 · A 6.4.25V
दंशसञ्जस्वञ्जां शपि ॥ २३९६ ॥
daṃśasañjasvañjāṃ śapi
Bālamanoramā
दन्शसञ्जस्वञ्जां शपि - दंशसञ्ज । रञ्जेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, 'श्नान्नलोपः' इत्यतस्तदनुवृत्तेरिति । परिष्वजते इति । 'परिनिविभ्यः' इति षत्वमिति भावः । संयोगात्परत्वाल्लिटः कित्त्वेऽप्राप्ते आह — श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्रमित्याह — दभतुरिति । 'अत एकहल्मध्ये' इति सूत्रभाष्येदेभतु॑रित्युदाहृतम् ।सदेः परस्य लिटी॑ति सूत्रभाष्येसस्वजे॑इत्युदाहृतम् । ततश्च एकदेशानुमत्याश्रन्थिग्रन्थी॑त्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति ।सदेः परस्य लिटी॑ति षत्वनिषेधसूत्रे स्वञ्जेरपि ग्रहणमित्यर्थः । ततश्च स्वदिस्वञ्ज्योरुत्तरखण्डस्य सस्य षत्वं न स्यादिति लब्धम् । तदाह — अतोऽभ्यासात्परस्येति । परिषस्वजे परिषस्वञ्जे इति ।परस्ये॑त्युक्तेरुत्तरखण्डस्यैव षत्वनिषेधो न त्वभ्यासस्य । कित्त्वपक्षे नलोपः । सस्वञ्जाते । सस्वजाते । सस्वजिरे । क्रादिनियमादिडित्याह — सस्वजिषे सस्वञ्जिषे इति । सस्वञ्जाथे — सस्वजाथे । सस्वञ्जिध्वे — सस्वजिध्वे । सस्वञ्जे — सस्वजे ।सस्वञ्जिवहे — सस्वजिवहे । सस्वञ्जिमहे — सस्वजिमहे । स्वङ्क्तेति । स्वञ्ज् — ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नञकारस्य निवृत्तौ नकारस्याऽनुस्वारे तस्य परसवर्णेन ङकारे गकारस्य चर्त्वे रूपम् । एवमग्रेऽपि । स्वजेतेति ।दंशसञ्जे॑ति शपि नलोप इति भावः । ननुप्रत्यष्वह्क्ते॑त्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाऽभावात् कथम्उपसर्गात्सुनोती॑ति षत्वमित्यत आह — प्राक् सितादिति.परिनिविभ्यस्त्विति ।परस्य स्वञ्जे॑रिति शेषः । ननु परिनिविभ्यः परस्यापि स्वञ्जेःपरिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जा॑मिति नित्यमेव षत्वमुचितं,प्राक्सिता॑दिति सूत्रविषयत्वादित्यत आह — तदर्थमेवेत्यादि । परिनिवीति । नित्यषत्वविधौ स्वञ्जिरप्युपात्तः । ततःउपसर्गात्सुनोती॑त्येव तस्य षत्वे सिद्धे पुनरुपादानंसिवादीनां वाऽड्व्यवायेऽपी॑त्युत्तरसूत्रे षत्वविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वञ्जेःसिवादीनां वे॑ति षत्वविकल्पार्थं पूर्वसूत्रेपरिनिविभ्यः सेवे॑त्यत्र स्वञ्जिग्रहणमिति पर्यवस्यतीत्यर्थः । हद । अनिडयम् । क्रादिनियमादिट् — जहदिषे । जहदिध्वे । जहदिवहे जहदिमहे । हत्तेति । लुटि तासि दस्य चर्त्वम् । अहत्तेति ।झलो झली॑ति सिज्लोपः । गुपादयोऽष्टानुदात्तेतो गताः । अथ परस्मैपदिन इति । 'कित निवासे' इत्यन्ता॑ इति शेषः । ञि ष्विदेति । ञिराकारश्च इत् । सेट् ।स्वेदति । सिष्वेद स्विष्विदतुः । स्वेदेत् । स्विद्यात् । अस्वेदीत् । अस्वेदिष्यत् । स्कन्दिरिरित् । अनिट् । भारद्वाजनियमात्थलि वेडित्याह — चस्कन्दिथ चस्कन्त्थेति । अनिट्पक्षे चस्कन्द् थ इति स्थितेखरि चे॑ति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्त्तेति । लुटि तासि चर्त्वेन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चर्त्वम् । स्कदन्तु । अस्कन्दत् । स्कन्देत् । आशीर्लिङि विशेषमाह — नलोप इति । इरः समुदायस्य इत्त्वेन धातोरनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि अङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह — अस्कान्त्सीदिति । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षूधातौ । अतोऽत्र वृद्धौ दस्य चर्त्वेन त । अस्कान्त्तामिति । हलन्तलक्षणवृद्धौझलो झली॑ति सिज्लोपे दस्य चर्त्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः अस्कान्त्तमस्कान्त्त । अस्कान्त्समस्कान्त्स्व । अस्कान्त्स्म ।
SK 2397 · A 6.4.26V
रञ्जेश्च ॥ २३९७ ॥
rañjeśca
Siddhānta-kaumudī
एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि SK 2361 इति सूत्रे ।
vārttikaस्वञ्जेरुपसंख्यानम्
(वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात् - SK 2276 इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा SK 2359 इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति -SK 2270 इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त ।{$ {!977 हद!} पुरीषोत्सर्गे$} । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥{$ {!978 ञिष्विदा!} अव्यक्तेशब्दे$} ।{$ {!979 स्कन्दिर्!} गतिशोषणयोः$} । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥
SK 2398 · A 8.3.73V
वेः स्कन्देरनिष्ठायाम् ॥ २३९८ ॥
veḥ skanderaniṣṭhāyām
Siddhānta-kaumudī
षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥
Tattvabodhinī
NSP p. 397—वेः स्कन्देरनिष्ठायाम् । ‘सिवादीनाम्—’ इत्यतो वेत्यनुवर्तते । अषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिग्रन्थानुरोधेनाह—कृत्येवेदमिति । प्राचा तु विस्कन्दतीत्युदाहृतं तत्र मूलं मृग्यमिति भावः ॥—न संवध्यत इति । अत एव तिङन्तेऽपि षत्वमुदाहरन्ति—परिष्कन्दतीति ॥—जग्म-तुरिति । ‘गमहन—’ इत्युपधालोपः ॥—णम प्रहृत्वे । केचिदमुमुदितं पठन्ति तत्प्रामादिकमित्याहुः
Bālamanoramā
वेः स्कन्देरनिष्ठायाम् - वेः स्कन्दे । शेषपूरणेन सूत्रं व्याचष्टे — षत्वं वा स्यादिति ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात्सिवादीनां वे॑त्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह — कृत्येवेदमिति । पर्युदासस्यअब्राहृणमानये॑त्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्त्ता विस्कन्त्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् ।
SK 2399 · A 8.3.74V
परेश्च ॥ २३९९ ॥
pareśca
Siddhānta-kaumudī
अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् ।{$ {!980 यभ!} मैथुने$} । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ।{$ {!981 णम!} प्रह्वत्वे शब्दे च$} । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ।{$ {!982 गम्लृ!} {!983 सृप्लृ!} गतौ$} ॥
Bālamanoramā
परेश्च - परेश्च । ननुविपरिभ्यां स्कन्देरनिष्ठाया॑मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह — योगेति । षत्वपक्षे इति । परिष्कन्द् त इति स्थितेअनिदिता॑मितिरदाभ्या॑मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे 'परिष्कण्ण' इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तुपरी॑त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति — न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः । कुत इत्यत आह — धातूपसर्गयोरिति पूर्वं धातुरिति । [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते । पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं चसंप्रसारमाच्चे॑त्यादसूत्रभाष्ये स्पष्टम् । तदाह — भाष्यमिति । मतान्तरे त्विति ।पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे॑ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह — येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थितेझषस्तथो॑रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ — ययभ । क्रादनियमादिट् । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्यझषस्तथो॑रिति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चर्त्वेन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणावृद्धिरिति भावः । अयप्स्यत् । णम् प्रह्त्रत्वे इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सतिउदितो वे॑ति क्त्वायामिड्विकल्पस्य 'यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य चाऽऽपत्तेः । नमति । ननाम नेमतुः नेमुः । थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलोपं मत्वा आह — नेमिथ ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम् । नेमथुः नेम । ननाम — ननम, नेमिव नेनिम । क्रादिनियमादिट् । नन्त#एति । मस्यानुस्वारपरसवर्णौ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति ।यमरमे॑ति सगिति भावः । अनंस्यत् । गम्लृ सृप्लृ गताविति । अनिटौ । सृपिरषोपदेशः ।
SK 2400 · A 7.3.77V
इषुगमियमां छः ॥ २४०० ॥
iṣugamiyamāṃ chaḥ
Siddhānta-kaumudī
एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥
Bālamanoramā
इषुगमियमां छः - इषुगमि । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । उदिन्निर्देशात्तौदादिकस्य इषेग्र्रहणम् । अत्राऽचीत्यनिवर्त्त्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे, तुदादौ च उदित्पाठोऽनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः । जग्मतुरिति ।गमहने॑त्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट् । तदाह — जगमिथ जगन्थेति । जग्मथुः जग्म । जगाम — जगम जग्मिव जग्मिम । क्रादिनियमादिट् ।
SK 2401 · A 7.2.58V
गमेरिट् परस्मैपदेषु ॥ २४०१ ॥
gameriṭ parasmaipadeṣu
Siddhānta-kaumudī
गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥
Bālamanoramā
गमेरिट् परस्मैपदेषु - गमेरिट् ।गमे॑रिति पञ्चमी ।सेऽसिची॑त्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः । तदाह — गमेः परस्येत्यादिना ।परस्मैपदेष्वि॑त्यस्य आत्मनेपदाऽभावे इत्यर्थः । एवं चसंजिगमिषिते॑ति तृचि इट् सिध्यति । गमिष्यतीति । गच्छतु अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह — लृदित्त्वादङिति ।गमहने॑ति उपधालोपो नेत्याह — अनङीति पर्युदासादिति । अगमदिति । लृङि — अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः । रपरत्वम् । ससर्पेति । ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः । ससर्पिथ ससृपथुः । ससृप.ससर्प ससृपिव ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते — अनुदात्तस्य च ।सृजिदृशो॑रित्यतो झल्यमकितीति, 'आदेच' इत्यत उपदेशे इति चानुवर्तते । तदाह — उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः । उपदेशे किम् । क्तप्रत्यये — सृप्तः । रुआप्तेति । सृप्धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः । सर्प्तेति । अमभावेलघूपधगुणे रपरत्वमिति भावः । एवं रुआप्स्यति सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति । लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः । अरुआप्स्यत् । असर्प्स्यत् । यम उपरमे इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति ।इषुगमियमा॑मिति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । तदाह- येमिथ । ययन्थेति । इडभावे रूपम् । येमथुः येम । ययाम । ययम । येमिव । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति ।यमरमे॑ति इट्सकौ ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संतापे इति । अनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ ततप्थ तेपथुः तेप । तताप ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे — षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात्तपधातौ परत इति यावत् । 'अनासेवने' इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे - पौनः पुन्यमिति ।आसेवन॑शब्देन सह नञ्समास इत्यभिप्रेत्याह — ततोऽन्यस्मिन्विषये इति । आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकास्य ष्टुत्वेन टः । आसेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह — तत्यजिथ तत्यक्थेति । इडभावेचोः कु॑रिति भावः । त्युक्तेति । त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति । षोपदेशोऽयमनिट्, नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परेअनिदिता॑मिति नलोपाऽप्रवृत्तेरराह — दंशसञ्जेति नलोप इति । अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । अतुसादौ तु अकित्त्वान्न नलोपः । ससञ्जतुः ससञ्जुः । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ — ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज । ससञ्जिव ससञ्जिम.क्रादिनियमादिट् । सङ्क्तेति । तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः । सङक्ष्यति । सजत् । असजत् । सजेत् । सज्यात् । असाङक्षीत् । हलन्तत्वाद्वृद्धिः । असङ्क्ष्यत् । दृशिर्प्रेक्षणे इति । इरित् । अनिट् च । पश्यतीति । शितिप्राघ्राध्मे॑ति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः । अजन्ताऽकारवत्त्वाऽभावात्अचस्तास्वदिति, 'उपदेशेऽत्त्वतः' इति निषेधस्य चाऽप्राप्तेः । ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः ।
SK 2402 · A 6.1.59V
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ २४०२ ॥
anudāttasya cardupadhasyānyatarasyām
Siddhānta-kaumudī
उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ॥
Tattvabodhinī
NSP p. 397—अनुदा-त्तस्य—। ‘आदेच उपदेशेऽशिति’ इत्यत उपदेशे इत्यनुवर्तते । उपदेशे किम् । सप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् । कर्ता । झलिति किम् । ससर्प । अकितीति किम् । सप्तः ॥—अस्तृपदिति । ल्लदित्त्वादङ् । ‘स्पृशमृश—’ इति खिज्विकल्पवार्तिके सृपं प्रक्षिप्य अस्त्राप्सीदिति केचिदुदाहरन्ति तत्प्रामादिकमित्याहुः ॥—अयंसीदिति । ‘यमरम—’ इतीदसकौ
SK 2403 · A 8.3.102V
निसस्तपतावनासेवने ॥ २४०३ ॥
nisastapatāvanāsevane
Siddhānta-kaumudī
षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति ।{$ {!986 त्यज!} हानौ$} । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् ।{$ {!987 षञ्ज!} सङ्गे$} । दंशसञ्जस्वञ्जां शपि SK 2396 इति नलोपः । सजति । सङ्क्ता ।{$ {!988 दृशिर्!} प्रेक्षणे$} । पश्यति ॥
Tattvabodhinī
NSP p. 397—निसस्तपता—। मूर्धन्य इत्यनुवर्तमाने फलितमाह—षः स्यादिति । आसेवने तु निस्तपति । पुनः पुनस्तपतीत्यर्थः
Bālamanoramā
निसस्तपतावनासेवने - नक्षत्राद्वा । स्पष्टम् ।
SK 2404 · A 7.2.65V
विभाषा सृजिदृशोः ॥ २४०४ ॥
vibhāṣā sṛjidṛśoḥ
Tattvabodhinī
NSP p. 397—विभाषा सृजिदृशोः । क्रादिनियमान्नित्ये प्राप्ते विभाषेयम्
Bālamanoramā
विभाषा सृजिदृशोः - तत्राह — विभाषा सृजि । पञ्चम्यर्थे षष्ठी ।गमेरिडित्यतत इडिति,चस्तास्व दित्यतस्थलीति चानुवर्तते । तदाह — आभ्यामिति ।
SK 2405 · A 6.1.58V
सृजिदृशोर्झल्यमकिति ॥ २४०५ ॥
sṛjidṛśorjhalyamakiti
Siddhānta-kaumudī
अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥
Tattvabodhinī
alignment inferredNSP p. 397–398—सृजिदृशोः—। झलि किम् । ससर्ज । ददर्श । अकितीति किम् । सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् ॥—अदाङ्क्षीदिति । ‘वदव्रज—’ इति वृद्धिः । अदाङ्गम् । अदाङ्कुः । कथा कर्षति । ‘अनुदात्तस्य च’ इत्यम् वा ॥—धक्ष्यतीति । घलषलभष्मावाः ॥—अधाक्षीदिति । ‘अस्तिसिचः’ इतीद् । वृद्धिः । घलादि प्राग्वत् । मिह सेचने । सेचनमिह मिश्रीकरणकं विवक्षितं न तु सेचनमात्रम् । ‘मेढं मेहनसेफसी’ इत्यमरः । कित निवासे । कितेर्व्याधिप्रतीकारादावेव सन्नित्युक्तं तदुदाहरति—चिकित्सतीति । रोगमपनयतीत्यर्थः । शत्रुं चिकित्सति । निगृह्णातीत्यर्थः । क्षेत्रे तृणं चिकित्सति । अपनयति नाशयति वेत्यर्थः । अर्थान्तरे चुरादिरित्युक्तं तदुदाहरति—केतयतीति । षच्च समवाये । समवायः संवन्धः ॥—मेजतुरिति । ‘तृफलमज’ इत्येत्यम् ॥—भक्ष्यतीति । कुलषत्वे । त्विष दीप्तौ ॥—अत्विक्षादिति । ‘शलङ्गुपधात्’ इति क्सः । कलषत्वे ॥—अत्विक्षातामिति । ‘क्सस्याचि’ इति लोपः । यज देव० । देवपूजा लिह देवोद्देशेन विधिवोधितो द्रव्यत्यागः
Bālamanoramā
सृजिदृशोर्झल्यमकिति - इडभावपक्षे 'अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकितीति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते —
Footnotes (NSP 1915 ed.)
NSP p. 398 अवात्तामिति—सिज्लेपस्यासिद्धत्वेन सःसीति तत्त्वं सिञ्लेपः । २ उच्चारणार्थं इति—परे तु वयिरित्यादौ स्यानिवज्ज्ञावेन भाव्यातिदेशिकं धातुत्वमादाय धातुनिर्देशेऽत्र इक् इति वदन्ति ।
SK 2406 · A 7.4.16V
ऋदृशोऽङि गुणः ॥ २४०६ ॥
ṛdṛśo'ṅi guṇaḥ
Siddhānta-kaumudī
ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥
Bālamanoramā
ऋदृशोऽङि गुणः - ऋदृशोऽङि । 'ऋ' इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे 'शल इगुपधा' दिति क्सादेशे प्राप्ते सतीत्यर्थः ।
SK 2407 · A 3.1.47V
न दृशः ॥ २४०७ ॥
na dṛśaḥ
Siddhānta-kaumudī
दृशश्च्लेः क्सो न । अद्राक्षीत् ।{$ {!989 दंश!} दशने$} । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज - SK 2396 इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् ।{$ {!990 कृष!} विलेखने$} । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा । क्रक्ष्यति । कर्क्ष्यति ।
vārttikaस्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः
(वार्तिकम्) ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् ।{$ {!991 दह!} भस्मीकरणे$} । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः ।{$ {!992 मिह!} सेचने$} । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् ।{$ {!993 कित!} निवासेरोगापनयने च$} । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।{$ {!994 दान!} खण्डने$} ।{$ {!995 शान!} तेजने$} । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति ।{$ {!996 डुपचष्!} पाके$} । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट ।{$ {!997 षच!} समवाये$} । सचिति । सचते ।{$ {!998 भज!} सेवायाम्$} । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त ।{$ {!999 रञ्ज!} रागे$} । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः ।{$ {!1000 शप!} आक्रोशे$} । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त ।{$ {!1001 त्विष!} दीप्तौ$} । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् ।{$ {!1002 यज!} देवपूजासङ्गतिकरणदानेषु$} । यजति । यजते ॥
Bālamanoramā
न दृशः - न दृशः ।च्लेः सि॑चित्यत श्च्लेरिति, 'शल इगुपधा' दित्यतः क्स इति चानुवर्तते । तदाह — दृशश्च्लेः क्सो नेति । क्सादेशे तु 'अदृश' दिति स्यादिति भावः । अद्राक्षीदिति । सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्दौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अद्रक्ष्यत् । दंश दशने इति । अयमनिट्, नोपधश्च । कृतानुस्वारनिर्देशः । दंष्ट्राव्यापार इति । हनुमूलगताः स्थूलदन्ता दंष्ट्राः, तद्व्यापारः = क्षतक्रियादिरूप इत्यर्थः । ननु दंशधातोर्ल्युटि दशनशब्दः । तत्रअनिदिता॑मिति नकारस्य लोपो न संभवति, ल्युटः क्ङित्त्वाऽभावात् ।दंशसञ्जे॑त्यपि नस्य लोपो न संभवति, तस्य शप्येव प्रवृत्तेः । तथा च दशन इत्यर्थनिर्देशः कथमित्यत आह -पृषोदरादित्वादिति । अत एवेति । दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति । 'निपातनान्नकारलोप' इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्यं, न तु धातुपाठे 'दंशदशने' इत्यर्थनिर्देशे इति भावः । विनिगमनाविरहमाशङ्क्याह — अर्थनिर्देशस्याधुनिकत्वादिति । सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुष्वर्थनिर्देशः पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात्अनिदिता॑मिति शपीत्युक्तेरार्धधातुके नलोपो न । संयोगात्परत्वेन लिटः कित्त्वाऽभावादनिदितामित्यपि न । ददंश ददंशतुः ददंशुः । भारद्वाजनियमात्थलि वेट् । तदाह — ददंशिथ ददंष्ठेति । अनिट्पक्षे व्रश्चादिना शस्य षः । थस्य ष्टुत्वेन ठ इति भावः । दंष्टेति । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दङ्क्ष्यतीति । व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे ङकारे सस्य षत्वमिति भावः । दशतु । अदशत् । दशेत् । दश्यादिति । आशीर्लिङिअनिदिता॑मिति नलोप इति भावः । अदाङ्क्षीदिति । सिचि हलन्तलक्षणा वृद्धिः, शस्य षः, तस्य कः अनुस्वारस्य परसवर्णेन ङः, सस्य षत्वमिति भावः । अदङ्क्ष्यत् । कृष विलेखने इति । अनिडयम् । कर्षति । चकर्ष चकृषतुः चकृषुः । थलि अजन्ताऽकारवत्त्वाऽभावात् क्रादिनियमान्नित्यमिट् — चकर्षिथ कृषथुः चकृष । चकर्ष चकृषिव चकृषिम । इति सिद्धवत्कृत्याह — क्रष्टा कर्ष्टेति ।अनुदात्तस्ये चे॑ति अम्विकल्पः । तकारस्य ष्टुत्वम् । क्रक्ष्यति कक्ष्र्यतीति । षस्य कत्वे सस्य षः । कर्षतु । अकर्षत् । कर्षेत् । कृष्यात् ।शल इगुपधा॑दिति च्लेः क्सादेशे प्राप्ते आह — स्पृशमृशेति । अक्राक्षीदिति । च्लेः क्सादेशाऽभावे सिचिअनुदात्तस्य चर्दुपधस्ये॑ त्यमि ऋकारस्य यणि हलनतलक्षणवृद्धौषढोः कः सी॑त्यनेन षस्य कतवे ससय् षत्वमिति भावः । अकार्क्षीदिति । अमभावे सिचि वृद्धौ रूपम् । पक्षे क्स इति । च्लेः सिजभावपक्षेशल इगुपधा॑दिति क्स इत्यर्थः । अकृक्षदिति । क्से सति, कित्त्वाद्गुणाऽभावे षस्य कः, ससय् ष इति भावः । अक्रक्ष्यत् — अकक्ष्र्यत् । दह भस्मीकरणे इति । अनिट् । दहति । ददाह देहतुः देहुः । थलि तु भारद्वाजनियमाद्वेडित्याह — देहिथ ददग्धेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षेतुदादे॑रिति हस्य घः,झषस्तथो॑रिति थस्य धः, घस्य जश्त्वेन ग इति भावः । धक्ष्यतीति । हस्य घः, दस्य भष्, घस्य गः, तस्य चर्त्वेन कः, सस्य ष इति भावः । दहतु । अदहत् । दहेत् । दह्रात् । अधाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । हस्य घः, दस्य भष्, घस्य ग-, तस्य कः, सस्य ष इति भावः । अदाग्धामिति । सिचि वृद्धिः, हस्य घः,झलो झली॑ति सलोपः,झषस्तथो॑रिति तकारस्य धः, घस्य ग इति भावः । अधाक्षुरिति । सिचि वृद्धिः, हस्य घः, दस्य भष्, घस्य गः, तस्य कः, सस्य ष इति भावः । अधाक्षीःअदाग्धमदाग्ध । अधाक्षमधाक्ष्व अधाक्ष्म । अधक्ष्यत् । मिह सेचने इति । अनिट् । मेहति । मिमेह मिमिहतुः मिमिहुः । अजन्ताऽकारवत्त्वाऽबावाक्रादिनियमान्नित्यमिट् । तदाह — मिमेहिथेति । मिमिहथुः मिमिह । मिमेह मिमिहिव मिमिहिम । मेढेति । तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति । हस्य ढः, तस्य कः, सस्य षः । तदाह-अमिक्षदिति । अमेक्ष्यत् । कित निवासे रोगापनयने चेति । परस्मैपदषु पाठादयं परस्मैपदी । अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वादर्थान्तरेषु वृत्तिः । तत्रकितेव्र्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये चे॑ति निबद्धेष्वर्थेषुगुप्तज्किद्भ्यः स॑न्निति सन्विहितः । तदाह — चिकित्सतीति ।सन्यतः इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्तं, तस्माल्लिटि शपिचिकित्सती॑ति रूपम् । अस्य सनःधातो॑रिति विहितत्वाऽभावादनार्धधातुकत्वान्न लघूपधगुणो, नापि इडागम इति प्रागुक्तम् । चिकित्सांचकारेत्यादि सुगमं जुगुप्सतिवत् । संशये इत्यादि । व्यक्तम् । निवासे त्विति । व्याधिप्रतीकाराद्यर्थपञ्चकादर्थपञ्चकादर्थान्तरे चुरादित्वस्योक्तत्वादिति भावः । दान खण्डने । शान तेजने इति । तेजनं — तीक्ष्णीकरणम् । इत इति । 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत इत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे, शानधातुस्तु निशाने वर्तते तदामान्बधदान्शा॑निति सनि,सन्यङो॑रिति द्वित्वे, अभ्यासह्रस्वे, तस्य 'सन्यतः' इति इत्त्वे, तस्यमान्बधे॑ति दीर्घे सति, नकारस्याऽनुस्वारे, दीदांस शीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात्, कर्तृगे फले तङि शपि दीदांसते शीशांसते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति शीशांसतीति रूपम् । तदाह — दीदांसते इत्यादि । शीशांसतीति । तीक्ष्णीकरोतीत्यर्थः । अर्थविशेषे इति । आर्जवे निशाने चार्थे सनित्यर्थः । अन्यत्रेति । आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्र्थः ।अर्थान्तरे अननुबन्धकाश्चुरादय॑ इत्युक्तेरिति भावः । डु पचष् पाके इति । डुः, षकारश्चकारादकारश्च इत् । स्वरितेत्त्वादुभयपदी । तदाह — पचति पचते इति । पपाच पेचतुः पेचुः । भारद्वाजनियमात्थलि वेट् ।तदाह — पेचिथ पपक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षे तुचोः कु॑रिति भावः । पेचे पेचिवहे पेचिमहे । क्रादिनियमादिट् । फक्तेति । तासिचोः कुः॑ । पक्ष्यति पक्ष्यते । पचतु पचताम् । अपचत् अपचत । पचेत् । पक्षीष्टेति । आशीर्लिङि तङि सीयुटिचोः कुः॑ । षत्वम् । अपाक्षीत् । अपक्त । अपक्षाताम् । अपक्ष्यत् अपक्ष्यत । षचधातुः षोपदेशः । तदाह — सचति सचते इति । सेडयम् । ससाच सेचतुः सेचुः । सेचिथ सेचथुः सेच । ससाच-ससच, सेचिव सेचिम । सेचे । सेचिषे सेचिवहे सेचिमहे । सच्यात् सचिषीष्ट । असाचीत् — असचीत् । असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वात्अत एकहल्मध्ये॑इत्यप्राप्तौतृफले॑त्येत्त्वाभ्यासलोपौ । तदाह — भेजतुरिति । भारद्वाजनियमात्थलि वेट् । तदाह — भेजिथ बभक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । भेजिव भेजिम । क्रादिनियमादिट् । भेजे । भेजिषे । भेजिवहे । भक्तेत्यादि । सुगमम् । रञ्ज रागे इति । नोपधोऽयम् । कृतानुस्वारपसवर्णनिर्देशः । अनिडयम् । शपः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यप्राप्तावपिरञ्जेश्चे॑ति शपि नलोपः । तदाह — रजति रजते इति । संयोगात्परत्वाल्लिटो न कित्त्वम् । ररञ्ज ररञ्जतुः । भारद्वाजनियमात्थलि वेट् । ररञ्जिथ — ररङ्क्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णञकारनिवृत्तौ गस्य चर्त्वेन कः । नस्यानुस्वारे तस्य परसवर्णो ङकार इति भावः । ररञ्जिव ररञ्जिम । क्रादिनियमादिट् । रङक्ता । रङ्क्ष्यति । रङ्क्ष्यते ।रजतु रजताम् । अरजत् अरजत । रजेत् रजेत । आशीर्लिङ यासुटः कित्त्वात्अनिदिता॑मिति नलोपः ।तदाह — रज्यादिति । रङ्क्षीष्टेति । आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः, ततः परसवर्णसंपननञकारनिवृत्तिः, गस्य कः, नस्य परसवर्णेन ङः, षत्वमिति भावः । अराङ्क्षीदिति । सिचि हलतन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् । अराङ्क्तामिति ।झलो झली॑ति सलोपः । कुत्वादि पूर्ववत् । अरङ्क्तेति । लुङस्तङि प्रथमपुरुषैकवचनेझलो झलीति सलोपे कुत्वादि । शप आक्रोशे इति । अनिडयम् । भारद्वाजनियमात्थलि वेट् । वमादौ तु क्रादिनियमादिट् । अशाप्सीदिति । हलन्तलक्षणा वृद्धिः । अशप्तेति ।झलो झली॑ति सलोपः । अशप्साताम् । त्विषधातुरनिट् । शपि लघूपधगुणः । तदाह — त्वेषति त्वेषते इति । तित्वेष तत्विषतुः तित्विषुः । तित्वेषिथ तित्विषथुः तित्विष । तित्वेष तित्विषिव तित्विषिम । क्रादिनियमादिट् । तित्विषे इति । तित्विषाते तत्विषिरे । तित्विषिषे तित्विषाथे तित्विषिध्वे । तित्विषे तित्विषिवहे तित्विषिमहे । त्वेष्टेति । तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति त्वेक्ष्यते इति । स्ये कत्वषत्वे । त्वेषतु त्वेषताम् । अत्वेषत् अत्वेषत । त्वेषेत् त्वेषेत । त्विष्यादिति । यासुट आशीर्लिङि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । लुङि परस्मैपदे 'शल इगुपधा' दिति च्लेः क्सः । कित्त्वान्न गुणः । तदाह — अत्विक्षदित्यादि । लुङि आत्मनेपदे च्लेः क्सादेशं मत्वा 'आत्मनेपदष्वनतः' इत्यदादेशाऽसंभवादन्तादेशे क्सस्याऽन्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति । अनिडयम् । यजति यजते इति । देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः ।
SK 2408 · A 6.1.17V
लिट्यभ्यासस्योभयेषाम् ॥ २४०८ ॥
liṭyabhyāsasyobhayeṣām
Siddhānta-kaumudī
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥
Tattvabodhinī
NSP p. 398—लिट्यभ्यासस्येति । वच्यादयो वचिस्वपियजादयः । प्रह्यादयस्तु ‘प्रहिज्यावयि’ इत्यादयः । यद्यपि प्रहिपृच्छति भजतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते । जप्राह । पप्रच्छ । वप्रज्ज । वृक्षतेस्तु विशेषः । संप्रसारणस्याकरणे वन्नक्षेत्रत्र वकारस्य संप्रसारणं स्यात् । कृते तु संप्रसारणे ‘न संप्रसारणे’ इति निषेधप्रवृत्तिरिति । लिटीति किम् । विवक्षति । यियक्षति
Bālamanoramā
लिट्यभ्यासस्योभयेषाम् - णलि द्वित्वादौ तु ययाज् अ इति स्थिते — लिटभ्यासस्योभयेषाम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।वचिस्वपियजादीना॑मिति सूत्रोपात्ताः,ग्रहिज्यावयी॑ति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्ते । तदाह — वच्यादीनां ग्रह्रादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः ।यज देवपूजेत्यारभ्यटु ओ इआ गतिवृद्ध्यो॑रित्येतत्पर्यन्ता यजादयः । तदुक्तम् — ॒यजिवपिर्वहिश्चैव वसिर्वेञ्व्येञ इत्यपि । ह्वेञ् वदिः आयतिश्चैव यजाद्याः स्युरिमे नव॑ । इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथग्ग्रहणम् । ग्रह्रादीनामित्यनेन तु ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारेसंप्रसारणाच्चे॑ति पूर्वरूपमिति भावः ।
SK 2409 · A 6.1.15V
वचिस्वपियजादीनां किति ॥ २४०९ ॥
vacisvapiyajādīnāṃ kiti
Siddhānta-kaumudī
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ।{$ {!1003 डुवप्!} बीजसन्ताने$} । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ।{$ {!1004 वह!} प्राणणे$} । उवाह उवहिथ । सहिवहोरोदवर्णस्य SK 2357 उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् ।{$ {!1005 वस!} निवासे$} । परस्मैपदी । वसति । उवास ॥
Tattvabodhinī
NSP p. 398—वचिस्वपि—। आगणान्ता इयष्ट । डुवप् । ‘ड्वितः कित्रः’ उप्त्रिमम्
Bālamanoramā
वचिस्वपियजादिनां किति - यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राप्ते — वचिस्वपि ।वचिस्वपी॑ति ति इका निर्देशः । सौत्रः संप्रसारणाऽभावः । आदिशब्दो यजिनैव संबध्यते, न तु वचिस्वपिब्याम्, तथा सति हि वच्यादेःस्वप्यादेर्यजादेश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहणं व्यर्थं स्यात्, अदादिगणे लुग्विकरणे 'वच परिभाषणे' इत्यारभ्य षष्ठस्य 'ञि ष्वप् शये' इत्यस्य वच्यादिग्रहणेनैव सिद्धेः । तदाह — वचिस्वप्योर्यजादीनां चेति । ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृतेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्क्याह — पुनः प्रसङ्गेति । ईजतुरिति । यज् अतुस् इति स्थिते संप्रसारणे पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवं चाऽत्र किति लिटिवचिस्वपी॑ति सूत्रम्, अकिति लिटि तुलिटभ्यासस्ये॑ति सूत्रमिति स्थितिः । भारद्वाजनियमात्थलि वेट् । कृते द्वित्वेऽकित्त्वाद्वचिस्वपीत्यप्रवृत्तौलिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । तदाह — इयजिथ इयष्ठेति । अनिट्पक्षे व्रश्चादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथुः ईज । इयाज — इयज, ईजिव ईजिम । ईजे इति ।असंयोगा॑दिति कित्त्वात्वचिस्वपी॑ति संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते ईजिरे क्रादिनियमादिट् । ईजिषे ईजाथे ईजिध्वे । ईजे ईजिवहे ईजिमहे । यष्टेति । तासि व्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति यक्ष्यते इति । व्रश्चादिना जस्य षत्वेषढो॑रिति षस्य कत्वे सस्य षत्वमिति भावः । अयाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । जस्य षः, तस्य कः, सस्य ष इति भावः । अयष्टेति । अयज् स् त इति स्थितेझलो झलीति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः । अयक्षातामयक्षत । अयक्ष्यत्, अयक्ष्यत । डु वप् बीजसंताने इति । प्ररोहार्थं बीजानां क्षेत्रेषु प्रक्षेपणे इत्यर्थः । तदाह — क्षेत्रे विकिरणमिति । 'वपिः प्रकिरणार्थ' इतिसन्यङो॑रित्यत्र भाष्यम् । गर्भाधानं चेति ।अप्रमत्तारक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सु॑रित्यादौ तथा दर्शनादिति भावः । अयं छेदनेऽपीति । 'वर्तते' इति शेषः । केशान्वपतीति । छिनत्तीत्यर्थः । अनिडयम् । उवापेति ।लिटभ्यासस्ये॑त्यकित्यभ्यासस्य संप्रसारणमिति भावः । किति तुवचिस्वपी॑ति द्वित्वात्प्राक्संप्रसारणे कृते द्वित्वम् । ऊपतुः ऊपुः । उवपिथ — उवप्थ, ऊपथुः ऊप । उवाप — उवप ऊपिव ऊपिम । ऊपे इति । ऊपाते ऊपिरे । ऊपिषे ऊपाथे ऊपिध्वे । ऊपे ऊपिवहे ऊपिमहे । वप्तेति । वप्स्यति । वप्स्यते । वपतु वपताम् । अवपत् अवपत । वपेत् वपेत । उप्यादिति । आशिषि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणम् । वप्सीष्टेति । सीयुटि रूपम् । प्रण्यवाप्सीदिति । लुङि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः ।नेर्गदे॑ति णत्वम् । अवाप्तामवाप्सुः । अवप्तेति । आत्मनेपदे लुङिझलो झली॑ति सलोपः । अवप्साताम् । वह प्रापणे इति । अयमनिट् । वहति वहते । उवाहेति ।लिटभ्यासस्ये॑ति अकिति अभ्यासस्य संप्रसारणमिति भावः । कितिवचिस्वपी॑ति संप्रसारणे कृते द्वित्वम् । ऊहतुः ऊहुः । भारद्वाजनियमात्थलि वेट् । तदाह — उवहिथेति ।न शसददेति निषेधात्थलि च सेटी॑ति न भवति । अथ थलि अनिट्पक्षे आह — सहिवहोरोदवर्णस्येति । सहिवहोरवर्णस्य ओत्स्याड्ढ्रलोपे परत इत्यर्थः । 'ढ्रलोप' इति दीर्घं बाधित्वा ओत्त्वमिति भावः । उवोढेति । तासि ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । लृटि स्ये, हस्य ढः, तस्य कः,षत्वम् । तदाह — वक्ष्यति वक्ष्यते इति । वहतु वहताम् । अवहत् अवहत । वहेत् । वहेत । उह्रात् । अवाक्षीदिति । हलन्तलक्षणवृद्दौ ढकषाः प्राग्वत् । अवोढामिति ।झलो झली॑ति सलोपे ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं चेति भावः । अवाक्षुरिति । उसि सिचि वृद्धौ ढकषाः । अवाक्षीः अवोढमवोढ । अवाक्षमवाक्ष्व अवाक्ष्म । अवोढेति । लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह् स् त इति स्थिते सलोपः, ढत्वधत्वष्टुत्वढलोपाः, ओत्त्वं च । अवक्षातामिति । आतामि सिचि ढकषा इति भावः । अवक्षतेति । 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवोढ्वमिति । अवक्षि अवक्ष्वहि अवक्ष्महि । अवक्ष्यत् अवक्ष्यत । इति वहत्यन्ताः स्वरितेतो गताः । वसधातुरनिट् । अकिति लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य संप्रसारणम् । तदाह — उवासेति । किति तुवचिस्वपी॑ति संप्रासरणे कृते द्वित्वादौ लिटि परेलिटभ्यासस्ये॑त्यभ्यासस्य #आदेशप्रत्ययावयवत्वाऽभावादप्राप्ते षत्वे-
SK 2410 · A 8.3.60V
शासिवसिघसीनां च ॥ २४१० ॥
śāsivasighasīnāṃ ca
Siddhānta-kaumudī
इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके SK 2342 सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ।{$ {!1006 वेञ्!} तन्तुसन्ताने$} । वयति । वयते ॥
Tattvabodhinī
NSP p. 398—शासिवसिघसीनां च । धातुसकारस्याप्राप्ते विधिरयम् । ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणाय धातोः सकारस्य चेदेषामेवेति नियमार्थतां स्वीकृत्य ‘आदेशप्रत्यययोः’ इति सूत्रं त्यज्यचेद्भवति आदेशरूपस्यैवेति नियमप्रसङ्गवारणाय प्रत्ययप्रहणमपि कर्तव्यमेवेति ॥—अवात्सीदिति । ‘वदव्रज’ इति वृद्धिः । ‘सः सि’ इति तः । ‘अस्तिसिचः’ इतीद्
Bālamanoramā
शासिवसिघसीनां च - - शासिवसि । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।इण्को॑रिति,अपदान्तस्य मूर्धन्यः॑ इति चाधिकृतम् । तदाह — इण्कवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेडिति मत्वा आह — उवसिथ उवस्थेति । 'न शसददे' ति निषेधात्थलि च सेटी॑ति न भवति । ऊषथुः ऊष, उवास — उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य तीति स्थिते आह — सः स्यार्धधातुके इति । अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणेसासिवसी॑ति षत्वमिति भावः । अवात्सीदिति । सिचि हलन्तलक्षणवृद्दौ सस्य तकारः । अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ 'झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य 'सः सि' इति तकारः । वस्तुतस्तु अवात्स्व अवास्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः — पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः । वयति वयते इति । शपि अयादेशः । वेञो वयिः । शेषपूरणेन सूत्रं व्याचष्टे — वा स्याल्लिटीति ।लिच्यन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः । उवायेति । णल#इ वयादेशे यजादित्वादकिति लिटि परेलिटभ्यासस्ये॑ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणं,लिटि वयो यः॑इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः । यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमेअचो ञ्णिती॑ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे — अतुस् इति स्थिते वयादेशे कृते —
SK 2411 · A 2.4.41V
वेञो वयिः ॥ २४११ ॥
veño vayiḥ
Siddhānta-kaumudī
वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥
Tattvabodhinī
alignment inferredNSP p. 398—उच्चारणार्थ इति । इत्संज्ञायां तु ‘इदितः’ इति नुम् स्यादिति भावः ॥—उवायेति । ‘प्रहिज्या’ इत्यत्र वयिप्रहणाद्वेय इति निषेधोऽत्र न प्रवर्तत इत्याहुः
SK 2412 · A 6.1.16V
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ २४१२ ॥
grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnāṃ ṅiti ca
Siddhānta-kaumudī
एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥
Tattvabodhinī
NSP p. 398–399—प्रहिज्यावयि—गृह्णाति । गृहीतः । जिनाति । जिनीतः । जीनः । डिति वयेरुदाहरणं नास्ति । किति तु ‘वचिस्वपियजादीनाम्’ इति सिद्धम् । यजादिषु वेवः पाठात् । अत एवाभ्याससंप्रसारणमपि सिद्धम् ॥—वेञ इति । संप्रसारणनिषेधस्तु ‘लिटि वयो यः’ इति निषेधारम्भान्न प्रवर्तते । तस्मात् प्रहिज्यादिषु वयिग्रहणं स्पष्टार्थमेवेति वोध्यम्
Bālamanoramā
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छति- भृज्जतीनां ङिति च - ग्रहिज्या । चकारेणवचिसवपियजादीना॑मित्यतः कितीति समुच्चीयते ।ष्यङः संप्रसारण॑मित्यनुवर्तते ।तदाह — एषामित्यादि । अत्र परस्मैपदिग्रह्रादिसाहचर्यात् 'अय वय पय [गतौ]' इति पठितस्यात्मनेपदिनो वयेर्न ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्धे अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् [इति] यकारस्य प्राप्ते इति ।न संप्रसारणे संप्रसारण॑मिति लिङ्गादन्त्यस्य यणः पूर्वं संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः ।
SK 2413 · A 6.1.38V
लिटि वयो यः ॥ २४१३ ॥
liṭi vayo yaḥ
Siddhānta-kaumudī
वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥
Bālamanoramā
लिटि वयो यः - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।
SK 2414 · A 6.1.39V
वश्चास्यान्यतरस्याम् किति ॥ २४१४ ॥
vaścāsyānyatarasyām kiti
Siddhānta-kaumudī
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
Tattvabodhinī
NSP p. 399—वश्चास्य—। अस्येल्यनेन ‘वयो यः’ इति परामृश्यते । तदाह—वयो यस्येति । ‘वो वा किति’ इत्येव सुवचम् । ‘लिटि वयो यः’ इति प्रकृतत्वात् । ‘उपदेशेऽत्वतः’ इति निषेधमाशङ्क्याह—वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः । शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके । अचस्तास्वदिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते । अच इत्युक्तेरल्विधित्वादिति
Bālamanoramā
वश्चास्यान्यतरस्याम् किति - वश्चास्या । 'लिटि वयो यः' इत्यनुवर्तते । तदाह — वयोयस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह — वयेस्तासावभावात्थलि नित्यमिडिति । वयेर्लिटएव विहितत्वेन तासावभवात्अचस्तास्व॑दिति 'उपदेशेऽत्वतः' इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः ।यस्तासावस्ति नित्याऽनिट् चे॑ति भाष्यम् । ऊयथुः- ऊवथुः ऊय-ऊव । उवाय, उवय, ऊयिव-ऊविव, ऊयिम — ऊविम । ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह — स्थानिवद्भावेनेति । ऊये ऊवे इति ।वश्चास्यान्यतरस्या॑मिति वत्वविकल्पः । वत्वाऽभावे 'लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः । वकारस्यग्रहिज्ये॑ति,वचिस्वपी॑ति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे । ऊये उयिवहे ऊयिमहे । क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाऽभावे इति । यजादित्वात्लिटभ्यासस्ये॑तिवचिस्वपी॑ति च संप्रसारणे प्राप्ते सती॑ति शेषः ।
SK 2415 · A 6.1.40V
वेञः ॥ २४१५ ॥
veñaḥ
Siddhānta-kaumudī
वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ।{$ {!1007 व्येञ्!} संवरणे$} । व्ययति ॥
Tattvabodhinī
NSP p. 399—वेञः । लिटि किम् । उत्तम् । उत्तवान्
Bālamanoramā
वेञः - वेञः । 'लिटि वयो यः' इत्यतो लिटीति,न संप्रसारणे संप्रसारण॑मित्यतो न संप्रसारणमिति चानुवर्तते ।तदाह — वेञो नेति । अत्र कितीति नानुवर्तते । तदाह — ववाविति । णलि संप्रसारणनिषेधे 'आदेच उपदेशे' इत्त्यात्वे 'आत औ णलः' इत्यौभावेवृद्धिरेची॑ति वृद्धौ रूपम् । ववतुरिति । 'आदेचः' इत्यात्त्वेआतो लोपः॑ । एवं ववुः । भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात् । तदाह — वविथ ववाथेति । इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः । ववथुः वव । ववौ वविव वविम । क्रादिनियमादिट् । ववे इति । ववाते वविरे । वविषे ववाथे [वविढ्वे] । वविध्वे । ववे वविवहे वविमहे । वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते । वयतु वयताम् । अवयत् अवयत । वयेत् वयेत । ऊयादिति । आशीर्लिङि यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्ग इति भावः । वासीष्टेति । आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति । आत्त्वे कृते इट्पकौ । अवास् इ स् ईदिति स्थितेइट ईटी॑ति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे — अवास्त अवासातामित्यादि । अवास्यत् अवास्यत । व्येञ् संवरणे इति । ञित्त्वादुभयपदी । अनिट् । व्ययति व्ययते इति । शपि अयादेशः । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् ।
SK 2416 · A 6.1.46V
न व्यो लिटि ॥ २४१६ ॥
na vyo liṭi
Siddhānta-kaumudī
व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति -SK 2384 इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ।{$ {!1008 ह्वेञ्!} स्पर्धायां शब्दे च$} ॥
Tattvabodhinī
NSP p. 399—न व्यो लिटि । लिटि किम् । व्याता व्यास्यति ॥—हलादिःशेषं वाधित्वेति । हलादिःशेषे तु वस्य संप्रसारणं स्यादिति भावः ॥ अजन्तोकारवान्वा यस्तास्यनिट् थलि वेद् भवतीत्याशङ्क्यामाह—नित्यमिडिति ।—वीयादिति । संप्रसारणे ‘अकृत्सार्व—’ इति दीर्घः । ह्वेञ् । शब्द इति सामान्योक्तावपि आकारणरूपशब्द एवात्र गृह्यत इत्याहुः । तथा च माघे ‘यान्तोऽन्यतः भुतकृतस्वरमाशु दूरादुद्धाहुना जुहुविरे मुहुरात्मवर्ग्याः’ इति कर्मणि प्रयोगः ॥ ‘ह्वः संप्रसारणमभ्यस्तस्य च’ इति सूत्रं योगविभागेन व्याचष्टे—अभ्यस्तस्य चेति । पूर्वयोगस्तु णौ च संश्वडोर्विषये प्रवर्तते । जुहावयिषति । अजूहवत्
Bālamanoramā
न व्यो लिटि - तत्राह — न व्यो लिटि । 'व्ये' इत्यस्य कृतात्त्वस्य षष्ठन्तस्य 'व्य' इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे' इत्यत आदित्यनुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थितेअचो ञ्णिती॑ति वृद्धिरित्यर्थः । तथा च व्यै-अ इति स्थितम् । ननु तत्र द्वित्वेलिटभ्यासस्ये॑त्यभ्यासे यकारस्य संप्रसारमे पूर्वरूपे उत्तरखण्डस्य आयादेशेविव्याये॑ति रूपं वक्ष्यति, तदयुक्तं, संप्रसारणात्प्राक् परत्वाद्धलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह — परमपीति । उभयेषामिति ।लिटभ्यासस्ये॑ति सूत्रेउभयेषा॑मिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति — अन्यथेति ।वचिस्वपियजादीना॑मित्यस्य,ग्रहिज्यावयिव्यधिविष्टिविचतिवृश्चतिपृच्छतिभृज्जतीना॑मित्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुन॒र्लिटभ्यासस्ये॑त्यत्रउभयेषां॑ग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां ग्रह्रादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम् — ॒उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतर॑दिति । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृतेऽभ्यासयकारस्य संप्रासरणे सिद्धं रूपमाह — विव्यतुः विव्युरिति ।वचिस्वपी॑ति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह — इडत्त्यर्तीति । विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः । विव्यथुः विव्य । विव्याय विव्ययेति । अकित्त्वादभ्यासस्य संप्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेवी॑त्यस्य द्वित्वे यणिति भावः । विव्याते विव्यिरे । विव्यिषे विव्याथे [विव्यिढ्वे] विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति व्यास्यते । व्ययतु व्ययताम् । अव्ययत् अव्ययत । व्ययेत् व्ययेत । वीयादिति । आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । स्यत । ह्वेञ्धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति । आकारणार्थःआगच्छे॑त्यादशब्दोऽत्र विवक्षितः । ह्वयति ह्वयते इति । शपि अयादेशः । णलादौ अकितिलिटभ्यासस्ये॑ति अभ्यासस्यैव संप्रसारणे प्राप्ते —
SK 2417 · A 6.1.33V
अभ्यस्तस्य च ॥ २४१७ ॥
abhyastasya ca
Siddhānta-kaumudī
अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥
Tattvabodhinī
alignment inferredNSP p. 399—अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागवे ह्वेञः संप्रसारणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः सनादिस्तस्य यो ह्वेञ् तत्प्रकृतिभूतस्त- स्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकीयिषतीत्यत्र ह्वेनः संप्रसारणं न भवति ण्वुलो द्विलनिमित्तलाभावात् । अत एव णिचो द्विलनिमित्तत्वं नेति ह्वः संप्रसारणमिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम्
SK 2418 · A 3.1.53V
लिपिसिचिह्वश्च ॥ २४१८ ॥
lipisicihvaśca
Tattvabodhinī
NSP p. 399—लिपिसिचि—लिप उपदेहे । षिच क्षरणे । अलिपत् । असिचत् ॥—अच्छ वदतीति । अच्छेत्यस्य वदयोगे गतिलाद्धातोः प्राक् प्रयोगः
Bālamanoramā
लिपिसिचिह्वश्च - लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् ।च्लेः सि॑जित्यतश्च्लेरिति,अस्यतवक्तिख्यातिभ्यः॑ इत्यतोऽङिति चानुवर्तते । तदाह — एभ्य इति । इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात् । तदाह —
SK 2419 · A 3.1.54V
आत्मनेपदेष्वन्यतरस्याम् ॥ २४१९ ॥
ātmanepadeṣvanyatarasyām
Siddhānta-kaumudī
अतो लोपः SK 2372 । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥ अथ द्वौ परस्मैपदिनौ ॥{$ {!1009 वद!} व्यक्तायां वाचि $}। अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज - SK 2267 इति वृद्धिः । अवादीत् ।{$ {!1010 टुओश्वि!} गतिवृद्ध्योः$} । श्वयति ॥
Bālamanoramā
आत्मनेपदेष्वन्यतरस्याम् - आत्मनेपदेषु । आतो लोप इति अह्वा अ त् इति स्थितेआतो लोप इटि चे॑त्यालोप इत्यर्थः । अह्वदिति । अह्वताम् । अहवन्नित्यादि । अह्वतेति । लुङि आत्मनपदे अङि रूपम् । अह्वेतामह्वन्तेत्यादि । अङभावपक्षे त्वाह — अह्वास्तेति । अह्वासातामह्वासत । इत्यादि । अह्वास्यत् अह्वास्यत । वद व्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदतीति । 'अच्छे' त्यव्ययमाभिमुख्ये । अभिमुखं वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणमिति मत्वा आह — उवादेतिकिति लिटि तुवचिस्वपियजादीना॑मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह — ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद — उवद ऊदिव ऊदिम । वदितेति । तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीर्लिङि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणमिति भावः ।अवादी॑दित्यत्र हलन्तलक्षमवृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह — वदव्रजेति वृद्धिरिति । एतदर्थमेववदव्रजहलन्तस्ये॑त्यत्र वदधातोः पृथग्ग्रहणमिति भावः । टु ओ आईति । टुरोकारश्चेत् । आयतीति । शपि गुणाऽयादेशौ । लिटि तु अकिति णलादौलिटभ्यासस्ये॑त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक्वचिस्वपी॑ति नित्यं संप्रसारणे प्राप्ते आह —
SK 2420 · A 6.1.30V
विभाषा श्वेः ॥ २४२० ॥
vibhāṣā śveḥ
Siddhānta-kaumudī
श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ।
vārttikaश्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः
(वार्तिकम्) ॥ तेन लिट्याभ्यासस्य - SK 2408 इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु - SK 2291 इत्यङ् वा ॥
Tattvabodhinī
NSP p. 399—विभाषा श्वेः ।—लिटि यङि चेति । ‘लिञ्चडोश्व’ इति पूर्वसूत्रमिहानुवर्तत इति भावः । उभयत्रविभाषेयं । लिङंशे अनुसादौ नित्यं प्राप्ते णलादावप्राप्ते । यङंशे लप्राप्तविभाषा । शोश्चयते । शेश्वीयते ॥—संप्रसारणं नेति । अन्यथा शुद्धवायेत्यादि स्यादिति भावः
Bālamanoramā
विभाषा श्वेः - संप्रसारणमिति ।ष्यङ संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ।लिङ्यङो॑रित्यनुवृत्तेरिति भावः । शुशावेति । णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः । तथा च लिटकित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः ।शुशुवतु॑रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः । तथा च उभयत्र विभाषेयम् । यङंशे त्वप्राप्तविभाषैवेयम् — शोशूयते । शेआईयते । तत्र णलि एतत्संप्रसारणाऽभावपक्षेआईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुआआय इति प्राप्ते आह — आयतेर्लिटभ्यासलक्षणप्रतिषेध इति । लिटभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा चइआ॑इत्यभ्यासस्य संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — जृस्तन्भ्विति । तथा च अइआ अ त् इति स्थिते इयङि प्राप्ते —
SK 2421 · A 7.4.18V
श्वयतेरः ॥ २४२१ ॥
śvayateraḥ
Siddhānta-kaumudī
श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः SK 2375 इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त - SK 2299 इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥
Tattvabodhinī
NSP p. 399–400—श्वयतेरः । अलोऽन्त्यपरिभाषालभ्यमाह—इकारस्येति ॥—पररूपमिति । अतो लोपस्तु न भवति आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यातलात् ॥—इयङिति । लघूपधगुणापेक्षयान्तरङ्गलादिति भावः ॥—अश्वयीदिति । नन्विहान्तरङ्गलाद्धुणायादेशयोः कृतयोर्यान्तलादेव वृद्धिनिषेधो भवेदिति किमनेन णिश्विग्रहणेनेति चेत् । अत्राहः । न सिच्यन्तरङ्गमस्तीति ज्ञापनार्थं णिश्विग्रहणम् । तेन चिरिणोति- जिरिणोत्योर्यङ्लगन्तानां चिनिप्रभृतीनां च सिचि वहिरङ्गा वृद्धिरेव भवति । अचिरायीत् । अजिरायीत् । अचेचायीत् । अनेनायीत् इति ॥—तेनेति । उक्तं च वार्तिककृता—‘कास्यनेकाज्प्रहणं चुलुम्पाद्यर्थम्’ इति ॥—चुलुम्पतीति । लुम्पतीत्यर्थः । चुलुम्प लोप इति कविकल्पद्रुमे उक्तत्वात् ॥ इति भ्वादयः ॥ ऋतेरीयङ् । तान्तोऽयं धातुरिकानिर्दिष्टो न त्विकारान्तः ‘वश्चिलुङ्गयुतश्च’ इति निर्देशात् । केचित्तु इयङ् इति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङ्मेव कुर्यादित्याहुस्तच्चिन्त्यम् । इदन्तत्वे तु ‘एरनेकाच—’ इति यणा सवर्णदीर्घस्य वाधात् । न च ऋतेर्यङ्विधावकृत्सावेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वे लिङ्गं भवत्येवेति वाच्यम् । यङ्विधौ ‘सन्यङोः’ इति द्वित्वापत्तेः
Bālamanoramā
श्वयतेरः - आयतेरः । आयतेः — अ इति च्छेदः । आयतेरिति श्तिपा निर्देशः । इआधातोरित्यर्थः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारस्येति लभ्यते । 'ऋदृशोऽङो' इत्यतोऽङीत्यनुवर्तते । तदाह — आयतेरिकारस्येति । अआ अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह — पररूपमिति । आर्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः । अआन्निति । अआः अआतमआत । अआमआआव अआआम । अङभावपक्षे त्वाह — विभाषेति । इयङिति ।चङी॑ति द्वित्वमित्यपि ज्ञेयम् । तदाह — अशिइआयदिति । अङश्चङश्चाऽभावे तु अइआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अआआयीदित प्राप्ते आह — ह्म्यन्तेति न वृद्धिरिति । इआग्रहणादिति भावः । न चनेटी॑त्येव सिचि अइआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेःह्म्यन्ते॑त्यत्र इआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् — यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह — भ्वादिस्त्वाकृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः । इति भ्वादय इति । नचैवं सति 'अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । इति बालमनोरमायां भ्वादयः ।अथ चातुरर्थिक प्रकरणम् । — — — — — — — — -
SK 2422 · A 3.1.29V
ऋतेरीयङ् ॥ २४२२ ॥
ṛterīyaṅ
Siddhānta-kaumudī
ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता - SK 2304 इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा SK 2305 इतीयङभावे शेषात्कर्तरि - SK 2259 इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ इति तिङन्तभ्वादिप्रकरणम् ॥
Tattvabodhinī
alignment inferredNSP p. 400—कृपायां चेति । ‘अर्तनं च ऋतीया च हिणीया च घृणार्थकाः’ इति ‘जुगुप्सा करुणा घृणा’ इति चामरः
Bālamanoramā
ऋतेरीयङ् - ऋतेरीयङ् । ऋतेर्धातुपाठेऽदर्शनादाह — ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्याऽनिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात् । नच इदन्तत्वे सति 'एरनेकाचः' इति यण् स्यादिति वाच्यम्, एवमपि 'ऋतेर्ङ्यः' इति ङ्यप्रत्यये कृतेअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात् । एके इति । अन्ये इत्यर्थः । ऋतीयते इति । ईयङोऽदन्तत्वाच्छपि पररूपम् । ऋतीयांचक्रे इति ।कास्प्रत्यया॑दित्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । आर्तीयत । ऋतीयेत । ऋतीयिषीष्ट । आर्तीयिष्ट । आर्तीयिष्यत । आनर्तेति । ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषेअत आदे॑रित्यभ्यासस्य दीर्घेतस्माननुड्द्विहलः॑ इति नुट्,नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते॑ इत्युक्तेरिति भावः । आनृततुः आनृतुः । अनिट्सु अस्याऽपाठात् थलि नित्यमिट् । आनर्तिथ आनृतथुः आनृत । आनर्त । आनृतिव आनृतिम । अर्तिता । अर्तिष्यति । ऋत्यात् । आर्तीदिति । 'इट ईटि' इति सिज्लोपः । आडागमः । आर्तिष्यत् । अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते — अद भक्षणे इति । अनिडयम् ।