Prakaraṇa 41 · SK 1974–2050
तद्धिताधिकारे प्रागिवीयप्रकरणम्
taddhitādhikāre prāgivīyaprakaraṇam · 77 sūtras · Sanskrit source — translation forthcoming
SK 1974 · A 5.3.27V
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ १९७४ ॥
dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣvastātiḥ
Siddhānta-kaumudī
सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥
Bālamanoramā
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः - अथ प्रागिवीयप्रकरणमारभ्यते — दिक्छब्देभ्यः । सप्तम्याद्यन्तेभ्य इति । सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दग्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः । तकारान्तः प्रत्ययः ।सङ्ख्याया विधार्थे धे॑ति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जनमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासङ्ख्यं, व्याख्यानात् ।
SK 1975 · A 5.3.39V
पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ १९७५ ॥
pūrvādharāvarāṇāmasi puradhavaścaiṣām
Siddhānta-kaumudī
एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥
Bālamanoramā
पूर्वाधरावराणामसि पुरधवश्चैषाम् - पूर्वाधरावराणम् ।असी॑ति लुप्तप्रथमाकम् । पुर अध्, अव्-एषां द्वन्द्वात्प्रथमाबहुवचनम् । अस्तात्यर्थे इति । दिग्देशकालवृत्तिभ्य इत्यर्थः ।
SK 1976 · A 5.3.40V
अस्ताति च ॥ १९७६ ॥
astāti ca
Siddhānta-kaumudī
अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥
Bālamanoramā
अस्ताति च - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति 'पुरधव' इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः 'पुर्' आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः 'पुर्' आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः 'अध्' आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः 'अव्' आदेशे रूपम् ।
SK 1977 · A 5.3.41V
विभाषावरस्य ॥ १९७७ ॥
vibhāṣāvarasya
Siddhānta-kaumudī
अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च SK 1976 इति ज्ञापकादसिरस्तातिं न बाधते ॥
Bālamanoramā
विभाषाऽवरस्य - विभाषाऽवरस्य ।अस्ताति चे॑ति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह — अवरस्येति । एवमिति । पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा — पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह — अस्ताति चेतीत्यादि ।
SK 1978 · A 5.3.28V
दक्षिणोत्तराभ्यामतसुच् ॥ १९७८ ॥
dakṣiṇottarābhyāmatasuc
Siddhānta-kaumudī
अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥
Bālamanoramā
दक्षिणोत्तराभ्यामतसुच् - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव 'दक्षिणतः' इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् 'पुरत' इति प्रामादिकमेवेति बहवः ।
SK 1979 · A 5.3.29V
विभाषा परावराभ्याम् ॥ १९७९ ॥
vibhāṣā parāvarābhyām
Siddhānta-kaumudī
परतः । अवरतः । परस्तात् । अवरस्तात् ॥
Bālamanoramā
विभाषा परावराभ्याम् - विभाषा ।अतसु॑जिति शेषः । पक्षे अस्तातिः ।
SK 1980 · A 5.3.30V
अञ्चेर्लुक् ॥ १९८० ॥
añcerluk
Siddhānta-kaumudī
अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि SK 1408 ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥
Tattvabodhinī
alignment inferredNSP p. 320–321—प्राच्यां प्राच्या इति । प्राच्यां दिशि इसलि प्राच्या इति । प्राच्या दिशः आगतः प्रागागत इत्यादि योज्यम् ॥—पञ्चस्यन्तं विनेति । नेह उत्तरादागतः । अधरादागतः ॥—उत्तरेणेत्यादि । वसति रमणीयं वा ॥—पक्षे यथास्वमिति । दक्षिणतः । उत्तरतः । अधः । अधस्तात् । उत्तरात् । अधरात् । दक्षिणात्
Bālamanoramā
अञ्चेर्लुक् - अञ्चेर्लुक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक् ।
Footnotes (NSP 1915 ed.)
NSP p. 321 दक्षिणादाच्—चकार आजाहीत्येव विशेषणार्थः । तेन वाक्यसरणयोरङ्दिदाकारस्य व्यावृत्तिरिति भाष्यम् ।
SK 1981 · A 5.3.31V
उपर्युपरिष्टात् ॥ १९८१ ॥
uparyupariṣṭāt
Siddhānta-kaumudī
अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥
Bālamanoramā
उपर्युपरिष्टात् - उपर्युपरिष्टात् ।उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे॑ति भाष्यम् । तदाह — अस्तातेर्विषये इत्यादिना । वसति, आगतो, रमणीयं वेति — विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम् । पश्चात् ।अपरस्य पश्चभावः, आतिश्च प्रत्ययः॑ इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः ।
SK 1982 · A 5.3.32V
पश्चात् ॥ १९८२ ॥
paścāt
Siddhānta-kaumudī
अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥
SK 1983 · A 5.3.34V
उत्तराधरदक्षिणादातिः ॥ १९८३ ॥
uttarādharadakṣiṇādātiḥ
Siddhānta-kaumudī
उत्तरात् । अधरात् । दक्षिणात् ॥
Bālamanoramā
उत्तराधरदक्षिणादातिः - उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः ।
SK 1984 · A 5.3.35V
एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ १९८४ ॥
enabanyatarasyāmadūre'pañcamyāḥ
Siddhānta-kaumudī
उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥
Bālamanoramā
एनबन्यतरस्यामदूरेऽपञ्चम्याः - एनबन्यतरस्याम् ।अपञ्चम्या इति प्रागसे॑रिति भाष्यम् । सूत्रक्रमेपूर्वाधरे॑त्यसिं वक्ष्यति ततः प्रागित्यर्थः । उत्तरादिभ्य इति । उत्तराधरदक्षिणादित्यनुवर्तत इति भावः । 'अदूरे' इत्येतद्व्याचष्टे — अवध्यवधिमतोः सामीप्ये इति । पञ्चमीं विनेति । पञ्चम्यन्तान्न भवतीत्यर्थः । यथास्वमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम्, व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन ग्राममित्यादि न भवतीत्याहुः ।
SK 1985 · A 5.3.36V
दक्षिणादाच् ॥ १९८५ ॥
dakṣiṇādāc
Siddhānta-kaumudī
अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥
Bālamanoramā
दक्षिणादाच् - तद्युक्तात् । संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः । कर्मैव कार्मणमिति ।अ॑न्निति प्रकृतिभावान्न टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते । तदाह — वाचिकं श्रुत्वेति ।
SK 1986 · A 5.3.37V
आहि च दूरे ॥ १९८६ ॥
āhi ca dūre
Siddhānta-kaumudī
दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥
Bālamanoramā
आहि च दूरे - आहि च दूरे ।दक्षिणाशब्दा॑दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः ।
SK 1987 · A 5.3.38V
उत्तराच्च ॥ १९८७ ॥
uttarācca
Bālamanoramā
उत्तराच्च - उत्तराच्च ।आच् आहि चे॑ति शेषः । अतसुचा आतिना च चत्वारि रूपाणि ।
SK 1988 · A 5.3.42V
संख्याया विधार्थे धा ॥ १९८८ ॥
saṃkhyāyā vidhārthe dhā
Siddhānta-kaumudī
क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥
Tattvabodhinī
NSP p. 321—संख्याया विधार्थं धा । विधाशब्दस्यार्थो विधार्थः ॥ यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्यते । तेन एका गोविधेत्यादौ न भवति ॥ इह हि ‘विधायाम्’ इति वक्तव्ये अर्थग्रहणस्य प्रयोजनं विधाशब्दो यत्रार्थे प्रसिद्धस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्यते अभिधानस्वभावात्तदाह—क्रियाप्रकारे वर्तमानादिति । कथं तर्हि ‘नवधा द्रव्यं, बहुधा गुणः’ इत्यादि ॥ अत्रापि ह्यश्रुता क्रिया प्रतीयते, ‘उपदिश्यते इति वा, भवति इति वा’ इति हरदत्तः
Bālamanoramā
संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थः प्रकारो विधार्थः ।विधा विधौ प्रकारो विधार्थः ।विधा विधौ प्रकारे चे॑त्यमरः । सामान्यस्य भेदको विशेषः-प्रकारः । सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते । तदाह — क्रियाप्रकारेति । चतुर्धापञ्चधेति ।गच्छती॑त्यादि क्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः ।नवधा द्रव्य॑मित्यादावपिभवती॑त्यादि क्रियापदमध्याहार्यम् ।
SK 1989 · A 5.3.43V
अधिकरणविचाले च ॥ १९८९ ॥
adhikaraṇavicāle ca
Siddhānta-kaumudī
द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥
Tattvabodhinī
NSP p. 321—अधिकरणविचाले च । अधिकरणं द्रव्यं विचलनं विचालोऽन्यथाकरणम् । णिजन्तादेरच् तच्चेह संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे—द्रव्यस्येत्यादिना । संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम् । तत्राये उदाहरणम्—एकं राशिं पञ्चधेति । पञ्च राशीम् कुर्वित्यर्थः ॥ द्वितीये तु अनेकं एकधा कुर्वित्युदाहर्तव्यम् । इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः
Bālamanoramā
अधिकरणविचाले च - अधिकरणविचाले च । अधिकरणं — द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम् । तदाह — द्रव्यस्येति । सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च । आद्ये उदाहरति — एकं राशिंपञ्चधा कुर्विति । द्वितीये तु 'अनेकमेकधा कुर्वि' त्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः ।
SK 1990 · A 5.3.44V
एकाद्धो ध्यमुञन्यतरस्याम् ॥ १९९० ॥
ekāddho dhyamuñanyatarasyām
Tattvabodhinī
NSP p. 321—एकाद्धो—। शब्दप्रधानलात्सर्वनामकार्याभावः । इह प्रकरणादेव सिद्धे पुनर्धात्रहणं विधार्थे विहितस्यापि यथा स्यात् । ‘अनन्तरस्य— इति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जर्योः स्पष्टम् ॥ एतेन ध्यमुञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता ॥—एकध्यमिति । विधार्थे ऐकध्यं भुङ्क्ते । अधिकरणविचाले तु ऐकध्यं राशिं कुर्वित्यादि ज्ञेयम् । एवमत्रेऽपि द्वैधमित्यादौ योज्यम्
Bālamanoramā
एकाद्धो ध्यमुञन्यारयाम् - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य 'ध' इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः ।
SK 1991 · A 5.3.45V
द्वित्र्योश्च धमुञ् ॥ १९९१ ॥
dvitryośca dhamuñ
Siddhānta-kaumudī
आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ।
vārttikaधमुञन्तात्स्वार्थे डदर्शनम्
(वार्तिकम्) ॥ पथि द्वैधानि तृणानि ॥
Bālamanoramā
द्वित्र्योश्च धमुञ् - द्वित्र्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । 'ध' इतिअन्यतरस्या॑मिति चानुवर्तते । तदाह — आभ्यामिति ।परस्ये॑ति शेषः । धमुञन्तादिति । वार्तिकमिदम् । दृशिग्रहणात्क्वचिदेवायम् । पति द्वैधानीति ।तृणानी॑ति शेषः ।द्वैध॑मित्यस्माड्डप्रत्यये टिलोपे रूपम् । नचतसिलादयः प्राक् पाशपः॑ इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्,द्वैधानी॑ति भाष्यप्रयोगाच्च ।
SK 1992 · A 5.3.46V
एधाच्च ॥ १९९२ ॥
edhācca
Tattvabodhinī
NSP p. 321—एधाच्च । द्वित्र्योः संवन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासंख्यनिरासार्थः
Bālamanoramā
एधाच्च - एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः ।पञ्चम्यास्तसि॑लित्यारभ्यएधाच्चे॑त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् ।
SK 1993 · A 5.3.47V
याप्ये पाशप् ॥ १९९३ ॥
yāpye pāśap
Siddhānta-kaumudī
कुत्सितो भिषक् भिषक्पाशः ॥
Tattvabodhinī
NSP p. 321—याप्ये पाशप् । ‘कुत्सिते’ इत्यत्रैव नायं विहितः । तिङन्तादपि प्रसङ्गात्
Bālamanoramā
याप्ये पाशप् - याप्ये पाशप् । याप्यः=कुत्सितः ।निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः॑ इत्यमरः । कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः । प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम् ।
SK 1994 · A 5.3.48V
पूरणाद्भागे तीयादन् ॥ १९९४ ॥
pūraṇādbhāge tīyādan
Siddhānta-kaumudī
द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ।
vārttikaतीयादीकक् स्वार्थे वाच्यः
(वार्तिकम्) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ।
(वार्तिकम्) ॥ द्वितीया । तृतीया । विद्येत्येव ॥
Tattvabodhinī
NSP p. 321—पूरणाद्भागे—। पूरणार्थलात्तीयप्रत्ययः पूरणशब्देनोक्तः । पूरणग्रहणं चोत्तरार्थम् । न ह्यपूरणस्तीयप्रत्ययो भवति । मुखतीयः पार्श्वतीय इत्यत्र त्वनर्थकलान्नातिप्रसङ्गः ॥ भाग इति पुंस्त्वं विवक्षितम् । तेन समानेऽप्यर्थे विभक्तौ विवक्षितायां चतुर्थी पञ्चमीत्येव भवति । ‘प्रागेकादशभ्यः—’ इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत
Bālamanoramā
पूरणाद्भागे तीयादन् - पूरणाद्भागे । पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः । अन्विधेः प्रयोजनमाह — स्वरे विशेष इति ।ञ्नित्यादिर्नित्य॑मिति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदंदृष्टं सामे॑ति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः ।
SK 1995 · A 5.3.49V
प्रागेकादशभ्योऽच्छन्दसि ॥ १९९५ ॥
prāgekādaśabhyo'cchandasi
Siddhānta-kaumudī
पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥
Bālamanoramā
प्रागेकादशभ्योऽच्छन्दसि - प्रागेकदशभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्ताद्भागेऽनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति — चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किकिमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् ।
SK 1996 · A 5.3.50V
षष्ठाष्टमाभ्यां ञ च ॥ १९९६ ॥
ṣaṣṭhāṣṭamābhyāṃ ña ca
Siddhānta-kaumudī
चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥
Bālamanoramā
षष्ठाष्टमाभ्यां ञ च - षष्ठाष्टमाभ्यां ञ च । 'पूर्वसूत्रविषये' इति शेषः ।ञे॑ति लुप्तप्रथमाकम् । ञे आदिवृद्दिः । चादनिति । इह न यथासह्ख्यं, व्याख्यानात् ।
SK 1997 · A 5.3.51V
मानपश्वङ्गयोः कन्लुकौ च ॥ १९९७ ॥
mānapaśvaṅgayoḥ kanlukau ca
Siddhānta-kaumudī
षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥
Bālamanoramā
मानपश्वङ्गयोः कन्लुकौ च - मानपआङ्गयोः ञस्य अनो वेति । अष्टकशब्दात्पूर्वसूत्रविहितस्य ञप्रत्ययस्य अन्प्रत्ययस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । ञप्रत्ययः, अन्प्रत्ययश्चेत्यर्थः । ननुसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव ञाऽनोरभावे । सति पआङ्गे अष्टमो भाव इत्यस्य सिद्धेरिह लुग्विधानं व्यर्थमित्याशङ्क्याह — महाविभाषयेति । पूर्वत्रेति ।षष्ठाऽष्टमाभ्यां ञ चे॑ति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां ञाऽनोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः ।
SK 1998 · A 5.3.52V
एकादाकिनिच्चासहाये ॥ १९९८ ॥
ekādākiniccāsahāye
Siddhānta-kaumudī
चात्कन्लुकौ । एकः । एकाकी । एककः ॥
Tattvabodhinī
NSP p. 321–322—एकादाकिनिच्च—। असहायवाचिन एकशब्दादाकिनिच् स्यात् ॥—कन्लुकाचिति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् ॥ असहायग्रहणं संख्याशब्दनिरासार्थम् । अन्यथा प्रसिद्धात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे वहुत्वे च न स्यादेकाकिनौ एकाकिन इति । न हि द्वयोर्वहुषु वा एकलसंख्यास्ति । असहायत्वं तु परस्परातिरिक्तसहायाभावेन द्वयोर्वहूनामपि भवति । इह ‘अकिनिच्’ एवायं वक्तव्यः, सवर्णदीर्घेण सिद्धमिष्टम् । ‘यस्येति च’ इति लोपश्चाकारोच्चारण-सामर्थ्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम्
Bālamanoramā
एकादाकिनिच्चासहाये - एकादाकिनिच्चा । असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 322 १ उच्चैस्तमस्तरुरिति—उच्चैःशब्दोऽत्रोच्चत्वगुणवत्परः । द्रव्यस्य स्वतःप्रकर्पाभावेऽपि द्रव्यनिष्ठगुणादिप्रकर्पं एव द्रव्यप्रकर्षं इति बोध्यम् । २ द्विवचनेति—नतरामित्यादौ प्रतियोग्यसमानाधिकरणत्वरूपात्यन्तिकत्वे भावगते प्रकर्पे तरप् । प्रवृत्तिनिमित्तगते प्रकर्पे तरवादिरिति तु प्रकृत्यर्थप्रकर्पासंभवविषयम् । एवं द्योत्यार्थप्रकर्पेऽपि द्योतकात्तरप् । यथा, नितरां गच्छतीत्यादौ ।
SK 1999 · A 5.3.53V
भूतपूर्वे चरट् ॥ १९९९ ॥
bhūtapūrve caraṭ
Siddhānta-kaumudī
आढ्यो भूतपूर्वः । आढ्यचरः ॥
Tattvabodhinī
NSP p. 322—भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् ॥ ‘गोष्ठात् खन्’ इत्यत्रैव नोक्तम् । विशेषविहितेन खन्ना चरटो वाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभवति । यद्यपि दूरस्थस्यापि वाधो न्याय्य एव तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्वाधो नेति भावः
Bālamanoramā
भूतपूर्वे चरट् - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः ।
SK 2000 · A 5.3.54V
षष्ठ्या रूप्य च ॥ २००० ॥
ṣaṣṭhyā rūpya ca
Siddhānta-kaumudī
षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥
Tattvabodhinī
NSP p. 322—षष्ठ्या रूप्य च । भूतपूर्व इत्यनुवर्तते । तच्च यद्यपि पूर्वत्र ज्याप्प्रातिपदिकस्य विशेषणं, तथापीह न तथा, षष्ठ्यन्तार्थस्य विशेषणत्वात्, तदाक्षिप्तस्य संवन्धिनो गवादेः प्रधानत्वात्, प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्ययस्य न्याय्यत्वात्तदेतदाह—भूतपूर्वेऽर्थे रूप्यः स्यादिति
Bālamanoramā
षष्ठ्या रूप्य च - षष्ठआ रूप्य च ।रूप्ये॑ति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठन्ताद्भूतपूर्वेऽर्थे इति । भूतपूर्वेऽर्थे विद्यमानात्षष्ठन्तादित्यन्वयः । भूतपूर्वे इत्यनुवृत्तं हि श्रुतत्वात्षष्ठआ विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः । कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसंबन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु' इति पुंवत्त्वमाशङ्क्यतसिलादयः प्राक्पाशपः॑ इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह — तसिलादिइआत्यादि । शुभ्राया भूतपूर्व इति ।गौ॑रिति शेषः । शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः ।
SK 2001 · A 5.3.55V
अतिशायने तमबिष्ठनौ ॥ २००१ ॥
atiśāyane tamabiṣṭhanau
Siddhānta-kaumudī
अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥
Tattvabodhinī
NSP p. 322—अतिशायने—। अतिपूर्वाच्छेतेर्ल्युट् । अतिशयनमेवातिशायनम् । अस्मादेव निपातनादीर्घः । न तु सौत्रः । तेन लोकेऽपि दीर्घः साधुः । अवाधकान्यपि निपातनानि भवन्ति । तेन ह्रस्वोऽपि साधुः । यद्यपि केवलः शेतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे । प्रकर्षश्चात्र नाधिक्यं, किं लभिभवः । ‘पूर्वान्महाभागतयातिशेषे’ इति प्रयोगदर्शनात् ॥ न चैवं ‘प्रकर्षे तमविष्टनौ’ इत्येव कुतो न सूत्रितमिति शङ्क्यम् । अतिशायनमिति निपातनार्थमेव तथोक्तलात् ॥ अतिशयो न प्रत्ययार्थः । तथा हि सति लघोरतिशायनं लघुतममिति स्यात् । प्रत्ययार्थस्य प्राधान्यात् । नापि प्रकृत्यर्थः । तथा हि सति प्रकर्षातिशयातिशयनादिभ्य एव स्यात्, न लाढ्यादिभ्यः किं तु प्रकृत्यर्थविशेषणम् । प्रत्ययस्तु द्योतकस्तदेतदाह—अतिशयविशिष्टेत्यादि ॥—अयमेषामिति । द्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते तदा तरवीयसुनावपवादौ वक्ष्येते । तथा च परिशेषाद्वन्द्वनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः ॥—आढ्यतम इति । सुवन्तात्तमप् । ‘सुपो धातु—’ इति लुक् । यद्यपि ‘ज्याप्प्रातिपदिकात्’ इत्येवानुवर्तते । तथापि सुवन्तपरतयैव व्याख्येयम् । अन्यथा हि पूर्वाहेतरां पूर्वाहेतमामित्यादौ ‘घकालतनेषु कालनाम्नः’ इति सप्तम्या अलुग्विधानं कथमुपपद्यताम्
Bālamanoramā
अतिशायने तमबिष्ठनौ - अतिशायने । अतिपूर्वकः शीङ्धातुरुपसर्गवसादुत्कर्षे वर्तते । उत्कर्षश्चाधिक्यफलको न्यक्कारः, नत्वाधिक्यमात्रं, तथा सति अकर्मकत्वापातात् । न चेष्टापत्तिः, तथा सतिशुक्लमतिशेते कृष्णतरः॑ इत्यादिभाष्यविरोधात् । अतिशयिता=अतिशायनः बाहुलकः कर्तरि ल्यु॑डिति भाष्यम् । अत एव निपानाद्दीर्घः । 'अतिशायने' इति प्रकृत्यर्थविशेषणम् । अतिशयितरि विद्यमानात्प्रातिपदिकात्स्वार्थे तमप् इष्टन् च स्यादित्यर्थः । फलितमाह — अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दाच्छुक्लादिगतमतिशयनमिति बोधः स्यान्नत्वतिशयितशुक्ल इति । तता च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् ।अतिशायने वर्तमाना॑दित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यान्नतु पट्वादिभ्यः । अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः । अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधि इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढ इति । द्रव्यस्य जातेर्वा त्वतः प्रकर्षयोगो नास्ति, अन्यथा 'घटतम' इत्याद्यापत्तेः । किंतु गुणद्वारैव द्रव्य.जात्योः प्रकर्षयोगः । तथा च 'आढतम' इत्यत्र उत्कर्षविशिष्ट आढ्यः प्रकृत्यर्थः तमप्तु तद्द्योतकः । तमपि सति 'सुपो दाथु' इति सुपो लुक्, 'घकालतनेषु' इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति ।श्रेष्ठतमाय कर्मणे॑ इति नुछान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति । लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौटे॑रिति टिलोपः ।
SK 2002 · A 5.3.56V
तिङश्च ॥ २००२ ॥
tiṅaśca
Siddhānta-kaumudī
तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥
Tattvabodhinī
NSP p. 322—तिङ्कश्च । अस्मादिष्टम् भवति, ‘अजादी गुणवचनादेव’ इति नियमादित्याशयेनाह—तमप्रस्यादिति
Bālamanoramā
तिङश्च - ह्रस्वे । ह्रस्वत्वविशिष्ठे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः । अल्पत्वं — महत्त्वप्रतिद्वन्द्वि, ह्रस्वत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः ।
SK 2003 · A 1.1.22घसंज्ञा
तरप्तमपौ घः ॥ २००३ ॥
taraptamapau ghaḥ
Tattvabodhinī
NSP p. 322—तरसमपौ घः । अस्मिन्नेवातिशायनिकप्रकरणे ‘तादौ घः’ ‘पितौ घः’ इति वा वक्तव्ये प्रकरणान्तरे गुरुसूत्रकरणमत्स्वार्थिकमपि तरपं ज्ञापयति । तेन ‘अल्पाच्तरम्’, ‘लोपश्च वलवत्तरः’ इत्यादि सिद्धम् । अल्पाजेव हाल्पाच्तरम् न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथा ‘शिवकेशवौ’ इत्यादिसिद्धावपि ‘शङ्खदुन्दुभिवीणाः’ इत्यादि न सिध्येदित्याहुः
Bālamanoramā
तरप्तमपौ घः - तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, 'पितौ घः' तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरं' 'लोपस्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'आमु' इति छेदः । उकार उच्चारणार्थः । किम्, एते, तिङ्, अव्यय — एषां चतुर्णां द्वन्द्वः ।किमेत्तिङव्ययप्रकृतिको घः॑ इति मध्यमपदलोपी समासः । फलितमाह — किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने । एषामतिशयेनाढ इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात् । जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । प्राह्णे तमामिति । प्राह्ण=पूर्वाह्णः ।प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य॑मित्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैवप्रशंसायां रूप॑विति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ।आशंसती॑त्यध्याहार्यम् । अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः ।किंतमा॑मित्यादौयस्येति चे॑ति लोपं परत्वाद्बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन्निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् ।
SK 2004 · A 5.4.11V
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ॥ २००४ ॥
kimettiṅavyayaghādāmvadravyaprakarṣe
Siddhānta-kaumudī
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
Tattvabodhinī
NSP p. 322—किमेत्—। आमोरुकारो यदि त्यज्येत, तर्हि पचतितरामित्यादौ ‘हस्वनद्यापः—’ इति नुटि पचतितराणामिति स्यात् । ‘यत्येति’ लोपस्य परेण नुटा वाधात् । सिद्धान्ते तु ‘निरनुवन्धग्रहणे न सानुवन्धकस्य’ इति परिभाषया नुड्विधौ नास्य ग्रहणम्
Bālamanoramā
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे - द्वित्रिभ्यां ।षे॑ति लुप्तप्रथमाकं पदम् । द्विमूद्र्ध इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । 'नस्तद्धिते' इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतुरिति । नक्षत्रे विद्यमानो यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरब्वक्तव्य इत्यर्थः । नेता-नायकः । मृगो नेतेति । मृगः=मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि बोध्यम् । मृगनेत्रा इति । मृगनेतृशब्दादप्, ञकारस्य यण्, रेफः, टाप् । पुष्यनेत्रा इति । पुष्टो नेता यासामिति विग्रहः ।
SK 2005 · A 5.3.57V
द्विवचनविभज्योपपदे तरबीयसुनौ ॥ २००५ ॥
dvivacanavibhajyopapade tarabīyasunau
Siddhānta-kaumudī
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥
Tattvabodhinī
NSP p. 322–323—द्विवचनविभज्योपपदे—। द्वयोरर्थयोर्वचनं द्विवचनम् । करणे ल्युट् । कर्मणि षष्ठ्या समासः । येन पदेन द्वावर्थानुच्येते तद्विवचनम् । विभक्तव्यं विभज्यम् । ‘ऋहलोः—’ इति प्यति प्राप्ते तदपवादो यत् निपात्यते । प्यति तु ‘चजोः’ इति कुत्वेन विभाज्यमिति स्यात् । विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोक्तिश्चिन्त्या । प्यन्तात् ‘अचो यत्’ इति विभाज्यमिति रूपसिद्धेः । न चात्रार्थभेदः शङ्क्यः ‘निद्वत्तप्रेषणात् धातोः प्राकृतेऽर्थं णिच्’ इति ‘णेरणौ’ इति सूत्रे व्युत्पादनादिति दिक् ॥ द्विवचनं च विभज्यं चेति द्वन्द्वः ॥ तस्य उपपदेन कर्मधारयः । तथा च द्वार्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः । द्विवचनान्ते उपपदे इति व्याख्यायां तु दन्तोष्ठस्य दन्ताः स्निग्धतरा इत्यादि न सिध्यति । न च द्वयोर्वचनं द्विवचनमिति पक्षेऽपि नेदं सिद्ध्यति समाहारस्यैकलात् । गुणभूतवर्तिपदार्थाश्रयणे तु द्वात्रिंशदन्ताः द्वावोष्ठाविति तेषां बहुलात्पुतरां न सिद्ध्येदिति चेत् । अत्राहुः । वृत्तावभेदैकलसंख्यामुपाददति वर्तिपदानि । ततश्च भेदस्य परित्यागादभेदैकलं संख्यायाश्चोपादानादन्तोष्ठलक्षणार्थद्वयं दन्तोष्ठशब्देनोच्यत इति नास्ति ‘द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे’ इति पक्षे दोष इति ॥ विस्तरस्त्वाकरमन्येभ्योऽवगन्तव्यः । अन्वर्थं चोपपदम् उपोच्चारितं पदमिति, न तु कृत्रिमम् । तद्धितविधौ तस्यासंभवात् । तच्च विग्रहवाक्य एव प्रयुज्यते । वृत्तौ तु गतार्थलात्रावश्यकम् ॥ एवं स्थिते उपपदग्रहणं स्पष्टार्थम् ॥ इह द्वे उपपदे द्वे च सुवन्ततिङन्तरूपे प्रकृती द्वौ च प्रत्ययौ तथापि यथासंख्यं नेष्यते ॥ द्विवचनोपपदमुदाहरति—अनयोरिति ॥—लघीयानिति । ‘टेः’ इति लोपः । उगित्त्वानुम् । ‘सान्तमहतः’—इति दीर्घः । हल्ङ्यादिसंयोगान्तलोपौ ॥ विभज्योपपदमुदाहरति—प्राच्येभ्य इति । ‘पञ्चमी विभक्ते’ इति पञ्चमी ॥ कथं तर्हि ‘पटुङ्गवान् पटुरासीत्, ऐषमस्तु पटुतरः’ इति । अत्राहुः । एकस्यापि धर्मिणस्तत्कालस्थलादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षस्तदाश्रयश्चेह तरप्प्रत्यय इति ॥ व्यपदिशन्ति च—‘अन्य एवासि संवृत्तः’, ‘कञ्चित्स एवासि धनंजयस्त्वम्’ इति
Bālamanoramā
द्विवचनविभज्योपपदे तरबीयसुनौ - द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्व्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्रते, व्याख्यानात् विभक्तव्यं — विभज्यम् ।ऋहलो॑रिति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः । द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः । द्व्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम् । प्रातिपदिकादिति, तिङ इति चानुवर्तते । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते । फलितमाह — द्वयोरेकस्येत्यादिना । द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः, विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुबन्ततिङन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासङ्ख्यम्, व्याख्यानात्, अथ द्विवचनोपपदे उदाहरति — अयमनयोरिति । अत्र उपोच्चारितं पदमुपपदम्, नतु कृत्रमं, तद्धितविधौ तदसंभवात्, धात्वधिकार एव तत्प्रवृत्तेरुक्तत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नवस्यकम् । लघीयानिति । ईयसुनि नकार इत्, उकार उच्चारणार्थः, उगित्त्वान्नुम्,सान्ते॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ ।अथ विभज्योपपदे उदाहरति — उदीच्याः प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तुदन्ताः स्निग्धतराः॑ इति न सिध्येत् ।बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमः, अयं मे कनीया॑निति आद्यन्तवत्सूत्रस्थबाष्यप्रयोगात्,नैर्देशिकानां वार्ततरका॑ इति 'तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः ।
SK 2006 · A 5.3.58V
अजादी गुणवचनादेव ॥ २००६ ॥
ajādī guṇavacanādeva
Siddhānta-kaumudī
इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥
Tattvabodhinī
NSP p. 323—अजादी गुणवचनादेव । इष्टतोऽवधारणार्थं एवकारः । तेन प्रत्ययनियमोऽयम् । एवकाराभावे तु गुणवचनादजादिप्रत्ययावेवेति प्रकृतिनियमोऽपि संभाव्येत । तथा च पटुतरः, पटुतम इत्यादि न सिद्ध्येत्
Bālamanoramā
अजादी गुणवचनादेव - अजादी । तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह — इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः ।गुणवचनादजादी एवे॑ति विपरीतनियमव्यावृत्त्यर्थ एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् ।
SK 2007 · A 5.3.59V
तुश्छन्दसि ॥ २००७ ॥
tuśchandasi
Siddhānta-kaumudī
तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥
Tattvabodhinī
NSP p. 323—तुद्धन्दसि । पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयम्, नलपूर्वो विधिः तेन उपाधिसंकरो न
Bālamanoramā
तुश्छन्दसि - तुश्छन्दसि । 'तृ' इत्यस्यतु॑रिति पञ्चम्येकवचनम् । 'तृ' इत्यनेन तृन्तृचोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह — तृन्तृजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात्प्राप्त्यर्थमारम्भः । एवंच पूर्वेण नियमेव व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् ।
SK 2008 · A 6.4.154V
तुरिष्ठेमेयस्सु ॥ २००८ ॥
turiṣṭhemeyassu
Siddhānta-kaumudī
तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥
Tattvabodhinī
NSP p. 323—तुरिष्ठे—। ‘टेः’ इत्यनेनान्त्यलोपे सिद्धेऽभ्यारम्भसामर्थ्यात्सर्वस्य तृशब्दस्य लोपस्तदाह—करिष्ठ इति ॥—दोहीयसीति । इयमनयोरतिशयेन दोग्ध्री ‘भस्याढे तद्धिते सिद्धश्च प्रत्ययविधौ’ इति वचनात् तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताभावाद् घलजश्ल-योरपि निवृत्तिः ॥ अलौकिकविग्रहवाक्ये प्रागेव तयोरप्रवृत्तिः ‘अकृतव्यूह’—परिभाषयेति तु तत्त्वम् ॥ गुणस्तु प्रवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणप्रौव्यात् छान्दसमपि ‘तुः’—इति सूत्रम्, इति ‘तुरिष्ठेभेयःसु’ इति च ‘णाविष्ठवत्’ इत्यतिदेशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणलादिहोपन्यस्तम्
SK 2009 · A 5.3.60V
प्रशस्यस्य श्रः ॥ २००९ ॥
praśasyasya śraḥ
Siddhānta-kaumudī
अस्य श्रादेशः स्यादजाद्योः ॥
Tattvabodhinī
NSP p. 323—प्रशस्यस्य श्रः । ‘अजादी’ इत्यनुवृत्तं सम्भ्या विपरिणम्यत इत्याह—अजाद्योरिति । अजाद्योः किम् । प्रशस्यतरः । प्रशस्यतमः ॥—श्रेष्ठ इति । प्रकृतिभावादिह ‘टेः’ इति लोपो ‘यस्येति’ लोपश्च न भवति ॥—ज्यादात्—। ज्यादुत्तरस्य इयमुन आकारादेशः स्यात्
Bālamanoramā
प्रशस्यस्य श्रः - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — ।
SK 2010 · A 6.4.163V
प्रकृत्यैकाच् ॥ २०१० ॥
prakṛtyaikāc
Siddhānta-kaumudī
इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥
Bālamanoramā
प्रकृत्यैकाच् - प्रकृत्यैकाच् । एकोऽच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । 'तुरि,ठेमेयःसु' इत्यत तदनुवृत्तेरिति भावः । 'अल्लोपोऽनः,'नस्तद्धिते॒॑यस्येति च,॑टे॑रित्यादेरेतत्प्रकरणस्थलसोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः । श्रेयानिति । अयमनयोरतिशयेन प्रशस्त इत्यर्थः ।
SK 2011 · A 5.3.61V
ज्य च ॥ २०११ ॥
jya ca
Siddhānta-kaumudī
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥
Bālamanoramā
ज्य च - ज्य च ।ज्ये॑ति लुप्तप्रथमाकम् । प्रशस्यस्येति, अजादी इति चानुवर्तते । तदाह — प्रशस्यस्येति । ज्येष्ठ इति ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । #ईयसु निज्यादेशेज्येया॑निति प्राप्ते — ।
SK 2012 · A 6.4.160V
ज्यादादीयसः ॥ २०१२ ॥
jyādādīyasaḥ
Siddhānta-kaumudī
आदेः परस्य SK 44 । ज्यायान् ॥
Bālamanoramā
ज्यादादीयसः - ज्यादादीयसः । ज्यात् — आदितिच्छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह — आदेः परस्येति ।
SK 2013 · A 5.3.62V
वृद्धस्य च ॥ २०१३ ॥
vṛddhasya ca
Siddhānta-kaumudī
ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
Tattvabodhinī
NSP p. 323—वृद्धस्य च । स्वरूपस्येह ग्रहणं, न तु ‘वृद्धिर्यस्याचामादिः’ इति पारिभाषिकस्य, व्याख्यानात् । अस्य ‘प्रियस्थिर’—इत्यादिना वर्षादेशोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्खा । वृद्धशब्दादिमनिचोऽभावात् । यदि तु ‘वृद्धस्य वर्षिश्च’ इति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः
Bālamanoramā
वृद्धस्य च - वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे — ज्यादेशः स्यादजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरति शयेन वृद्ध इत्यर्थः ।
SK 2014 · A 5.3.63V
अन्तिकबाढयोर्नेदसाधौ ॥ २०१४ ॥
antikabāḍhayornedasādhau
Siddhānta-kaumudī
अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥
Bālamanoramā
अन्तिकबाढयोर्नेदसाधौ - अन्तिकबाढयोः अजाद्योरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोरिष्ठेयसुनोः परतः 'नेद' 'साध' एतावादेशौ स्त इत्यर्थः । नेदिष्ठः नेदीयानिति । अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः साधीयनिति । अयमनयोरतिशयेन बाढ इत्यर्थः । बाढो — भृशः ।भृशप्रतिज्ञयोर्बाढ॑मित्यमरः ।अतिवेलभृशाऽत्यर्थातिमात्रोद्गाढनिर्भर॑मिति च ।
SK 2015 · A 6.4.156V
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ २०१५ ॥
sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ
Siddhānta-kaumudī
एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥
Tattvabodhinī
NSP p. 323–324—स्थूलदूर—। परग्रहणं यविष्ठो हसिष्ठ इत्यत्र पूर्वयणादेर्लोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामर्थ्यात्पूर्वस्यैव गुणलाभात् ॥—स्थविष्ठ इति । न चात्र ‘ओर्गुण’ इत्येव सिद्धे गुणग्रहणं व्यर्थमिति वाच्यम् । परयणादिलोपस्याभीयत्वेनासिद्धलात् क्षिप्रक्षुद्रयोर्गुणस्य प्राप्त्यभावात् । क्षेपिष्ठः क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च ॥—एवमिति । प्रेयान् । स्थेयान् । स्केयान् । वरीयानिलादि ॥—इमेयसोलोप इति । स च ‘आदेः परस्य’ इत्यादेरेव भवति
Bālamanoramā
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः - स्थूलदूर । एषामिति । स्थूल, दूर, युवन् ह्रस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः । यणादीति । यण् — आदिर्यस्येति विग्रहः ।पर॑मितियणादी॑त्यस्य विशेषणम् । परभूतंयणादीत्यर्थः । लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः । भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्ठादिष्विति । 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृत्तेरिति । भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः । अवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽऽभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनिव॑न्नित्यस्य लोपे गुणे अवादेशः ।पर॑मित्यनुक्तौ 'यु' इत्यस्यापि यणादेर्लोपः स्यात् । ह्यसिष्ठ इति । ह्रस्वशब्दादिष्ठनि 'व' इत्यस्य लोपः ।पर॑मित्यनुक्तावत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयसिति । स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजनमाह — ह्रस्वक्षिप्रेति ।
Footnotes (NSP 1915 ed.)
NSP p. 324 ईपदसमाप्ताविति—स्वार्थकानां प्रकृतितो लिङ्गवचनाङ्गीकाराद्वर्हुगुडो द्राक्षा, वृषभकल्प इयं गौरित्यादि सिद्धम् । वहुगुडा द्राक्षा इति तु कचिःप्रकृतितो लिङ्गवचनातिक्रमास्तिद्धम् । तत्र च ‘णचः स्त्रियाम्—’ इत्यत्र स्त्रीयदृणं लिङ्गम् ।
SK 2016 · A 6.4.157V
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ॥ २०१६ ॥
priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ
Siddhānta-kaumudī
प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥
Bālamanoramā
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घ- वृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः - प्रियस्थिर । प्रियादीनामिचि । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ,बृन्दारक एषां दशानामित्यर्थः । प्रादय इति । प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, बृन्द एते दशेत्यर्थः । इष्ठादिष्विति । इष्ठेमेयस्स्वित्यर्थः । 'तुरिष्ठेमेयः सु' इत्यतस्तदनुवृत्तेरिति भवः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । आभीयत्वेनाऽसिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । स्थेष्ठ इति । स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति । उरुशब्दादिष्ठनि 'वर्' आदेशः । बंहिष्ठ इति । बहुलशब्दस्य 'बहिं' इत्यादेशः । इकार उच्चारणार्थः । अन्यथा आभीयत्वेनाऽसिद्धत्वादुच्चारणसामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि 'गर्' आदेशः । वर्षिष्ठ इति । वृद्धशब्दस्य इष्ठनि वर्षिरादेशः । बंहिवदिकार उच्चारणार्थः । त्रपिष्ठ इति । तृप्रशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि 'त्रप्' आदेशोऽदुपधः । तृपधातोस्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः । द्राधिष्ठ इति । दीर्घशब्दस्य इष्ठनि द्राधिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि बृन्द आदेशः । अकार उच्चारणार्थः । एवमीयसुन्निति ।प्रेयान्, स्थेयान्, स्फेयान्, वरीयान्, बंहीयान्, गरीयान्, वर्षीयान्, त्रपीयान्, द्राधीयान्, वृन्दीयान् । अत्र इमनिजनुवृत्तेः प्रयोजनमाह — प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राघिमा ।
SK 2017 · A 6.4.158V
बहोर्लोपो भू च बहोः ॥ २०१७ ॥
bahorlopo bhū ca bahoḥ
Siddhānta-kaumudī
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
Bālamanoramā
बहोर्लोपो भू च बहोः - बहोर्लोपः । 'भू' इति लुप्तप्रथमाकम् । इष्ठेयमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह — बहोः परयोरिति ।आदेः परस्ये॑ति प्रत्ययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेना.ञसिद्धत्वादोर्गुणो न भवति ।
SK 2018 · A 6.4.159V
इष्ठस्य यिट् च ॥ २०१८ ॥
iṣṭhasya yiṭ ca
Siddhānta-kaumudī
बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥
Tattvabodhinī
NSP p. 324—इष्टस्य यिद्ध च । पूर्वसूत्रं संपूर्णमनुवर्तते तदाह—वहोरित्यादि । भूरादेशश्चेत्यपि ज्ञातव्यम् ॥—भूयिष्ट इति । अत्र इष्टस्यादिलोपे कृते यिशब्द आगमः ॥ यद्वा लोपापवादो यकार आगमः, इकारस्तूत्रारणार्थः । पक्षद्वयमपीदं भाष्यारूढम्
Bālamanoramā
इष्ठस्य यिट् च - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् ।
SK 2019 · A 5.3.64V
युवाल्पयोः कनन्यतरस्याम् ॥ २०१९ ॥
yuvālpayoḥ kananyatarasyām
Siddhānta-kaumudī
एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥
Tattvabodhinī
alignment inferredNSP p. 324—युवालपयोः—। युवेति स्वरूपग्रहणम्, न तु युवापत्यस्य, अल्पसाहचर्याद्व्याख्यानाच्च । ‘अजादी’ इत्यनुवर्तनादजाद्योरेव परयोर्न तु तरम-मपोरित्याशयेन व्याचष्टे—इष्टेयसोरिति
Bālamanoramā
युवाल्पयोः कनन्यतरस्याम् - युवाल्पयोः । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनिस्थूलदूरे॑ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम् । अल्पिष्ठ इति । अल्पशब्दादिष्ठनि टिलोपः । इत्यादीति । यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम् ।
SK 2020 · A 5.3.65V
विन्मतोर्लुक् ॥ २०२० ॥
vinmatorluk
Siddhānta-kaumudī
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
Tattvabodhinī
NSP p. 324—विन्मतोर्लुक् ॥—स्रजिष्ट इति । विनो लुकि कृते भलात्पदकार्या-भावः । अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतोरजादी भवतः
Bālamanoramā
विन्मतोर्लुक् - विन्मतोर्लुक् । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । रुआजिष्ठ इति । रुआग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात्रकुत्वनिवृत्तिरिति भावः । एवं रुआजीयानिति । त्वचिष्ठ इति । त्वग्वच्छब्दादिष्ठिनि मतुपो लुकि तन्निमित्तपदत्वभङ्घात्कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ ।
SK 2021 · A 5.3.66V
प्रशंसायां रूपप् ॥ २०२१ ॥
praśaṃsāyāṃ rūpap
Siddhānta-kaumudī
सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥
Tattvabodhinī
NSP p. 324—प्रशंसायां रूपप्र । प्रकृत्यर्थस्य परिपूर्णतेह प्र-शंसा, न तु स्तुतिः । तेनेहापि भवति । चौररूपोऽयं यदक्षणोरप्यजनं हरति । गुप्तवस्त्वपहरणेन चौर्यं परिपूर्यते ॥—पचतिरूपमिति । ‘क्रियाप्रधानमाख्यातम्’ क्रियायाश्चासलरूपत्वेऽपि औत्सर्गिकमेकवचनं भवति । तेन पचतोरूपं पच-न्तिरूपमित्यादि । इह प्रथमैव विभक्त्यन्तराणामप्राप्तेरिति वहवः । वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा ॥ क्लीवत्वं लोकात् । एवं पचतिकल्पमित्यादावपि वोध्यम् ॥—विभाषा स्तुपः—। सूत्रे ‘सुपः’ इति षष्ठ्यन्तम् । ‘षष्ठ्यतस-थंप्रत्ययेन’ इत्युक्तेः ॥—सुवन्तादिति । एतच्च पञ्चम्यन्तमुक्तमेव । पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयु-क्तलात् । प्रागित्यपकृष्यत इति तु मनोरमायां स्थितम् । न च सूत्रस्थपुरस्ताच्छब्दसमानार्थकप्राक्शब्दयोगेऽपि ‘षष्ठ्य-तसर्थ’—इति षष्ठी स्यादिति वाच्यम् । ‘अन्यारात्’—इति सूत्रेऽच्चूत्तरपदस्य दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थप्रत्ययेन’ इत्येतद्वा-धनार्थं पृथग्प्रहणमिति सिद्धान्तयित्वा प्राक् प्रत्यग्वा प्रामादित्युदाहृतलात् । काशिकायां तु वृत्तावपि पुरस्ताच्छब्दः प्र-युक्तः सुवन्तादिति च प्रयुक्तं तदसमजसमिति मला हरदत्तेन कथंचित् समर्थितम् । त्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाभित्येत्यर्थं इति ॥—प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तते इति भावः । तेन च वहुजेव विकल्प्यते, न तु पूर्वलम् । तुशब्दाभावे तु प्राक्त्वं विकल्प्येत । तथा च पक्षे वहुच् परः स्यात् ॥ भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम् । तथाहि—‘उदधितोऽन्यतरस्याम्’ इत्यादौ प्रधानलात्प्रत्यय एव विकल्प्यते, न तु परत्वं, प्रत्यय एव हि परल-विशिष्टो विधीयत इति विशेषणस्य गुणलात् । ‘गुणानां च परार्थलात्’ इति न्यायात् । तद्वदिहापि विभाषाग्रहणेन वहु-जेव संभन्त्यते, न पुरस्तादित्येतत् । तुशब्दस्य तु अवधारणार्थस्यान्यदेव प्रयोजनं पुरस्तादेव सर्वं यथा स्यादिति । न लिङ्गसंख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । वहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति ॥ तेन वहुगुडो द्राक्षा ‘लघुवहुतृणं नरः’ इत्यादौ प्रकृतिवलिङ्गमेव भवति, न लभिधेयवलिङ्गम् ॥ ननु ‘स्वार्थिकाः प्रकृतितो लिङ्ग-वचनानि लभन्ते’ इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत् । अत्राहुः । एतदेव ज्ञापयति ‘ईषदसमाप्तौ ये स्वार्थि-कास्तेष्वभिधेयवदेव लिङ्गवचने स्तः’ इति । तेन गुडकल्पा द्राक्षा शर्कराकल्पो गुड इत्यादि सिद्धम्
Bālamanoramā
प्रशंसायां रूपप् - प्रशंसायां रूपप् । सुबन्तात्तिङन्ताच्चेति । शेषपूरणमिदम् ।तिङश्चे॑त्यनुवृत्तम्, प्रातिपदिकादिति च ।धकाले॑त्यादिलिङ्घात्सुबन्तादिति लभ्यत इति भावः । प्रशंसाविसिष्टे स्वार्थे वर्तमानात्तिङन्तात्सुबन्ताच्च रूपविति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः । अत्र भाष्येक्रियाप्रधानमाख्यातं द्रव्यप्रधानं नामे॑ति सिद्धान्तितम् । पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने, तिङैव द्वित्वबहुत्वयोरुक्तत्वात् । एकवचनं तूत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकादित्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्ठेऽर्थे । यशस्कल्पमिति । असंपूर्णं यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्णं यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः । अत्र सर्वत्रस्वार्थिकाः प्रकृतितो लिङ्गवचनान्नयनुवर्तन्ते॑ इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । असंपूर्णा पाकक्रियेत्यर्थः ।पचतिरूप॑मिति वल्लिङ्गवचननिर्वाहः । एवंवृषभकल्प इयं गौ॑रित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् ।क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गावचनान्यतिवर्तन्ते॑ इति वचनाद्गुडकल्पा द्राक्षेत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् ।
SK 2022 · A 5.3.67V
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ २०२२ ॥
īṣadasamāptau kalpabdeśyadeśīyaraḥ
Siddhānta-kaumudī
ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
SK 2023 · A 5.3.68V
विभाषा सुपो बहुच् पुरस्तात्तु ॥ २०२३ ॥
vibhāṣā supo bahuc purastāttu
Siddhānta-kaumudī
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥
Bālamanoramā
विभाषा सुपो बहुच् पुरस्तात्तु - विभाषा । ईषदसमाप्तावित्यनुवर्तते । तदाह — ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारणे इति भावः । बहुपटुरिति । पटुशब्दात्सुबन्तात्प्राग्बहुचि कृते प्रातिपदिकावयवत्वात्सुपो लुकि समुदायात्पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाऽभावात्समासत्वाऽभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाऽभावात्कथमिह लुगिति वाच्यम्,अर्थव॑दित्यनेन तस्य प्रातिपदित्वसत्त्वात् । पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपिबहुपटु॑रिति समुदायस्य प्रत्ययान्तत्वाऽभावात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचैवं सतिकृत्तद्धिते॑त्यत्र समासग्रहणं व्यर्थमिति वाच्यं,पदघटितसङ्घातस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवे॑ति नियमार्थत्वात् । नचैवं सति प्रकृतेबहुपटु॑रिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम्, असमासत्वादिति वाच्यं,यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत्प्रातिपदिकसंज्ञातर्हि समासस्यैवे॑ति नियमशरीराभ्युपगमादिति प्रागुक्तं न विस्मर्तव्यम् । न चसमर्थाना॑मिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यं, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथामहाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति॑रिति सिद्धान्ताद्बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यं, तेषां तिङन्ते सावकाशत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — पटुकल्प इति । ननु लुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति — सुपः किमिति ।तिङ्श्चे॑त्यनुवृत्तिनिवृत्त्यर्थं सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यतीति वाच्यम्,अव्ययसर्वनाम्ना॑मित्याद्युत्तरसूत्रेतिङ्श्चे॑त्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — यजतिकल्पमिति । तुग्रहणं तुस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तते, क्वचिदतिवर्तन्ते॑ इति ज्ञापनार्थमिति भाष्ये प्रपञ्चितम् ।
SK 2024 · A 5.3.69V
प्रकारवचने जातीयर् ॥ २०२४ ॥
prakāravacane jātīyar
Siddhānta-kaumudī
प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥
Bālamanoramā
प्रकारवचने जातीयर् - प्रकारवचने ।प्रकारवचने था॑लित्यतोऽस्य वैलक्षण्यमाह — प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः । थाल्लु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम्, अविशेषात् । अन्यथातथे॑त्यत्र स प्रकारः इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात्तज्जातीय इत्याद्यसिद्धिरिति वाच्यं,जात्यन्ताच्छ बन्धुनी॑ति तज्जात्यादिशब्दाच्छप्रत्ययेनैव तज्जातीयादसिद्धेः । अत एव 'यथाजातीयक' इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु-अत्र प्रकारो भेदःस थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह — वामनस्तु-सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह ।
SK 2025 · A 5.3.70काधिकारः
प्रागिवात्कः ॥ २०२५ ॥
prāgivātkaḥ
Siddhānta-kaumudī
इवे प्रतिकृतौ SK 2051 इत्यतः प्राक् काधिकारः ॥
Tattvabodhinī
NSP p. 324—प्रागिवात्कः । ‘सुपः’ इत्यनुवर्तते तेन तिङन्तात्को न
Bālamanoramā
प्रागिवात्कः - प्रागिवात्कः ।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह — इवे प्रतीति ।
SK 2026 · A 5.3.71V
अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ २०२६ ॥
avyayasarvanāmnāmakac prāk ṭeḥ
Siddhānta-kaumudī
तिङश्च SK 2002 इत्यनुवर्तते ॥
Tattvabodhinī
NSP p. 324–325—अव्ययसर्वनाम्नाम् —॥—अनुवर्तते इति । मण्डूकस्त्येति भावः । ‘द्याप्प्रातिपदिकात्’ ‘सुपः’ इति चानुवर्तत एव
Bālamanoramā
अव्ययसर्वनाम्नामकच् प्राक् टेः - अव्ययसर्वनाम्नाम् । अनुवर्तत इति ।मण्डूकप्लुत्ये॑ति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः । चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः ।
SK 2027 · A 5.3.72V
कस्य च दः ॥ २०२७ ॥
kasya ca daḥ
Siddhānta-kaumudī
कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥
Tattvabodhinī
NSP p. 325—कस्य च दः ॥—कान्ताव्ययस्येति । सर्वनामग्रहणं तिद्ध्यहणं च नेह संबध्यते, तयोः कान्तलासंभवात् । न चाधोक् अधोगित्यादौ संभवोऽस्तीति वाच्यम् । कलस्यासिद्धलात् । यद्यपि शक्तोतेर्यङ्छुकि लङ्कि तिपि ‘अशाशक्’ इति संभवति । तथापि यङ्छुकोऽसार्वत्रिकलाभेदशं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपि ‘सर्वं विधयद्छन्दसि वा विधीयन्ते’ इति दलविधिनं प्रवर्तत इति भावः ॥—ओकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च टेविशेषणे कामचाराद् अव्यवस्थाप्रसङ्गे भाष्यकारवचनाद्यवस्थाश्रीयते । ओकारसकार इत्यादिसंकोचश्च युष्मदसन्मात्रविषयकः । तथैव भाष्ये उदाहृतलात् । अन्येषां लविशेषेण प्रातिपदिकस्यैव टेः प्रागकच् न सुवन्तस्य । तेन सर्वकेण इमकेन भवकन्तमित्यादि सिध्यति
Bālamanoramā
कस्य च दः - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः ।
SK 2028 · A 5.3.73V
अज्ञाते ॥ २०२८ ॥
ajñāte
Siddhānta-kaumudī
कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ।
vārttikaओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्
vārttikaअन्यत्र तु सुबन्तस्य टेः प्रागकच्
(वार्तिकम्) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ।
vārttikaअकच्प्रकरणे तूष्णीमः काम्वक्तव्यः
(वार्तिकम्) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥
(वार्तिकम्) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥
Tattvabodhinī
alignment inferredNSP p. 325—त्वयका मयकेति । नन्वत्र सुपः प्रागकचि कृते प्रत्यये परतस्त्वामादेशयोः सतोरपि ‘योऽचि’ इति यत्वं न स्यात्, विभक्तिपरत्वाभावादिति चेत् । मैवम् । अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याकचः पूर्वमेव यत्वविधानात् । एवं युवकामावकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति वोध्यम् ॥—शीले क इति । शीलं स्वभावो नियमश्च ॥—तूष्णीक इति । ‘केऽणः’ इति हस्तस्तु भाष्यकारप्रयोगात् ‘न कपि’ इत्यत्र ‘न’ इति योगविभागाद्वा न भवतीत्याहुः ॥ अकचो द्वितीय अकार उच्चारणार्थं इति ध्वनयश्चुदाहरति—पञ्चतकीत्यादि
Bālamanoramā
अज्ञाते - अज्ञाते । अज्ञातेऽर्थे विद्यमानात्सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्ना तिङन्तानां च टेः प्रागकच्स्यात् । तत्रापि ककारान्ताव्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽआ इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विआके इति । ननु अव्ययसर्वनाम्नामिति सूत्रे 'सुप' इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकचि युवकयोः, आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिरिति न स्युः । युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिरिति स्युः । यदि तु 'सुप' इत्यननुवर्त्त्य प्रातिपदकादित्येवानुवर्त्त्यं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् तर्हिं त्वयका मयकेति न स्यात् । त्वकया, मकया इति स्यादित्यत आह — ओकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवौदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एवविभक्तौ परतो विहितः किमः क आदेशः साकच्कार्थः, कः कौ के इति भाष्यं सङ्गच्छते । त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः । काम् वक्तव्य इति । 'काम्प्रत्यय' इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्याऽदर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह — मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः ।शीले इति । इदमपि वार्तिकम् ।तूष्णी॑मित्यव्ययात्कप्रत्ययः स्यान्मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं=स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति ।अव्ययसर्वनाम्ना॑मित्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह — पचतकीति ।पचती॑त्यत्र इकारात्प्रागकच् । ककारदकार उच्चारणार्थः । अन्यथा इकारात्प्रागकच्प्रत्यये आद्गुणे 'पचतके' इति स्यादिति भावः । जल्पतकीति ।जल्पती॑त्यस्य टेः प्रागकच् । धकिदिति ।धि॑गित्यव्ययस्य टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् ।तिङश्चे॑त्यप्यनुवर्तते । अआक इति । धावनस्य असम्यक्त्वादआस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि ।याप्येपाश॑विति प्रवृत्तिनिमित्तकुत्सायामेव भवति, इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपीति भाष्ये स्पष्टम् ।
SK 2029 · A 5.3.74V
कुत्सिते ॥ २०२९ ॥
kutsite
SK 2030 · A 5.3.75V
संज्ञायां कन् ॥ २०३० ॥
saṃjñāyāṃ kan
Siddhānta-kaumudī
कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥
Bālamanoramā
संज्ञायां कन् - संज्ञायां कन् । कुत्सिते इत्यनुवर्तते । तदाह — कुत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् ।
SK 2031 · A 5.3.76V
अनुकम्पायाम् ॥ २०३१ ॥
anukampāyām
Siddhānta-kaumudī
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥
Tattvabodhinī
NSP p. 325—अनुकम्पायाम्—‘कृपा दयानुकम्पा स्यात्’ इत्यमरः
Bālamanoramā
अनुकम्पायाम् - अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा=दया ।
SK 2032 · A 5.3.77V
नीतौ च तद्युक्तात् ॥ २०३२ ॥
nītau ca tadyuktāt
Siddhānta-kaumudī
सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥
Tattvabodhinī
NSP p. 325—नीतौ च तद्युक्तात् ॥—अनुकम्पायुक्तादिति । यद्यपि पुत्रादिरेव साक्षादनुकम्पायुक्तो न तु धानादिः, तथापि तद्वारा धानादीनामप्यस्त्यनुकम्पासंवन्ध इति भावः ॥—धानका इति । धानाशब्दः स्त्रीलिङ्गः । ततः कः । ‘केऽणः’ इति हस्तः । कप्रत्ययान्ताद्याप् ॥ अत्र ‘प्रत्ययस्यात्’—इतीत्वेन भाव्यम् । प्रायेण तु धानका इति पठ्यते । तत्र लिङ्गातिवृत्तिर्द्रष्टव्येति हरदत्तः । ‘कर्मव्यतिहारे णच् स्त्रियाम्’ इति सिद्धे ‘णचः स्त्रियामन्’ इति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितं ‘स्वार्थिकाः प्रकृतिलिङ्गं क्वचिदतिवर्तन्ते’ इति । तेन धानका इत्यत्र पुंस्त्वमिति भावः
Bālamanoramā
नीतौ च तद्युक्तात् - नीतौ च तद्युक्तात् । सामदानादीति । आदिना भेददण्डयोग्र्रहणम् । तद्युक्तादित्येतद्व्याचष्टे — अनुकम्पायुक्तादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति । 'दास्यन्ते' इति शेषः ।हन्ते॑त्यव्ययमनुकम्पाद्योतकम् ।हन्त हर्षेऽनुकम्पाया॑मित्यमरः ।हन्ते॑त्यदन्तम् ।हे पुत्रे॑ति शेषः । अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात्कप्रत्यये 'केऽणः' इति ह्रस्वे कान्ताट्ठापिअबाषितपुंस्काच्चे॑ति विकल्पात्पक्षे इत्त्वाऽभावः । एहकीति ।एही॑ति तिङन्तस्य टेः प्रागकच् ।अव्ययसर्वनाम्ना॑मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः । अद्धकीति ।अद्धी॑ति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धे ।ञपीति । पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।
SK 2033 · A 5.3.78V
बह्वचो मनुष्यनाम्नष्ठज्वा ॥ २०३३ ॥
bahvaco manuṣyanāmnaṣṭhajvā
Bālamanoramā
बह्वचो मनुष्यनाम्नष्ठज्वा - बह्वचो मनुष्य ।ठ॑जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम् ।अनुकम्पाया॑मितिनीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः । पक्षे कः ।
SK 2034 · A 5.3.79V
घनिलचौ च ॥ २०३४ ॥
ghanilacau ca
Tattvabodhinī
NSP p. 325—घनिलचौ च । चकाराद्यथाप्राप्तमिति काशिका । इह पूर्वसूत्रेणैव ठन् विहितः । वावचनात्कोऽपि । चकारेण तु कस्याभ्यनुज्ञेति चिन्त्यं, योगविभागे फलमपि चिन्त्यमिति हरदत्तः ॥—ठाजादौ—। समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । आदिग्रहणं चिन्त्यप्रयोजनं, ‘यस्मिन्विधिस्तदादौ’—इत्येव सिद्धमिति हरदत्तः
Bālamanoramā
घनिलचौ च - घनिलचौ च । तत्रैवेति । शेषपूरणमिदम् । 'बह्वच' इति पूर्व सूत्रविषये इत्यर्थः ।अनुकम्पाया॑मिति,नीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः ।
SK 2035 · A 5.3.83V
ठाजादावूर्ध्वं द्वितीयादचः ॥ २०३५ ॥
ṭhājādāvūrdhvaṃ dvitīyādacaḥ
Siddhānta-kaumudī
अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः ।
vārttikaचतुर्थादच उर्ध्वस्य लोपो वाच्यः
(वार्तिकम्) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ।
vārttikaअनजादौ च विभाषा लोपो वक्तव्यः
(वार्तिकम्) ॥ देवदत्तकः । देवकः ।
vārttikaलोपः पूर्वपदस्य च
(वार्तिकम्) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ।
vārttikaविनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः
(वार्तिकम्) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥
vārttikaउवर्णाल्ल इलस्य च
(वार्तिकम्) ॥ सवित्रियः । सवितृलः ।
vārttikaचतुर्थादनजादौ च लोपः पूर्वपदस्य च, अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च
(वार्तिकम्) ॥ 1 ॥ ल इति लोपसंज्ञा प्राचाम् ॥
Tattvabodhinī
alignment inferredNSP p. 325–326—अस्मिन्प्रकरण इति । अनुकम्पायां नीतौ चेत्यर्थद्वयस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः ॥ ऊर्ध्वग्रहणमिह सर्वलोपार्थम् । अन्यथा ‘आदेः परस्य’ इत्यादेरेव स्यादित्यभिप्रेत्याह—द्वितीयादच ऊर्ध्वं सर्वमिति । ‘अजिनान्तस्य’ इत्यतो लोप इत्यनुवर्तनादाह—लुप्यत इति । ननु ठग्रहणं व्यर्थम् । इकादेशे कृते अजादावित्येव सिद्धलादत आह—ठग्रहणमुक्तो द्वितीयत्व इति ॥—घायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव लोपे ‘इसुसुक्तान्तात्’—इति कः । किंच पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुप्रभृतिभ्यष्टच् तदोगन्तलात् कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजादिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्यासंभवादिकादेशे चित्रिक इति रूपं सिध्यतीति वोध्यम् ॥ ‘चतुर्थादनजादौ च’ इति वक्ष्यमाणमेव श्लोकं भङ्क्त्वा व्याचष्टे—चतुर्थादच ऊर्ध्वस्येति ॥—अनजादाविति । हलादावित्यर्थः । ‘अस्मिन् प्रकरणे’ इत्येव ॥—लोपः पूर्वपदस्य चेति । ठाजादावनजादौ चेति वोध्यः ॥ ‘अप्रत्यये तथैवेष्टः’ इत्येतद्व्याचष्टे—विनापि प्रत्ययमिति ॥—ल इलस्य चेति । इलस्य लः लोप इत्यर्थस्तत्र ‘आदेः परस्य’ इति इकारलोपो वोध्यः
Bālamanoramā
ठाजादावूर्ध्वं द्वितीयादचः - ठाजादौ । अस्मिन्प्रकरणे इति । अनुकम्पायां, नीतौ चेत्यस्मिन्प्रकरणे इत्यर्थः । सन्निधानलभ्यमिदम् । सर्वमिति । ऊर्द्ध्वग्रहणादिदं लभ्यते । अन्यथाआदेः परस्ये॑ति परिभाषया द्वितीयाऽचो यः परस्तस्यादेरेव स्यादिति भावः ।अजिनान्तस्योत्तरपदलोपश्चे॑त्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह — लुप्यत इति । देविक इति । देवदत्तशब्दाट्ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति । देवदत्तशब्दाद्धनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायुक इति । वायुदत्तशब्दाद्दत्तशब्दस्य लोपः । उकः परत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः । वायकु इति । वायुदतद्तशब्दाद्दत्तशब्दस्य लोपः । उकःपरत्वाट्ठस्य कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह — ठग्रहणमिति । कृत #एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाल्लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृतेऽजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु — इक इति स्थिते ठस्याऽभावात्कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शह्क्यं, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात्सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दाठ्ठचि दत्तशब्दस्य लोपे उकः परत्वाट्ठस्य कः । अथचतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ।॑ इति वक्ष्यमाणश्लोकवार्तिकं भङ्क्त्वा 'चतुर्थादच' इत्येतद्व्याचष्टे — चतुर्थादचेति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दाट्ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितायादूध्र्वत्वाऽभावादप्राप्ते वचनम् । ॒अनजादौ वे॑ति वार्तिकभागं व्याचष्टे — अनजादौ चेति ।अनजादौ चे॑पाठे विभाषेति भाष्यलब्धम्, तत्र देवत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् ।लोपः पूर्वपदस्य चेति ।विभाषे॑ति शेषः । अनजादाविति तु नात्र सम्बध्यते । तदाह — दत्तिक इत्यादि । ठचि धनि इलचि के च रूपम् ।अप्रत्यये तथैवेष्ट॑ इति वार्तिकभागं व्याचष्टे — विनापि प्रत्ययमिति । दत्तः देव इति । देवदत्तशब्दाट्ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवर्णादिति । 'ल' इति लोपस्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थः ।आदेः परस्ये॑तीकारस्य लोपः । चकारेण ठाजादौ द्वितीयादच ऊध्र्वं लोपः सूत्रसिद्धोऽनुद्यते । ऋवर्णादपीति । ऋवर्णादपि परस्य इलच आदेर्लोपः स्यादित्यर्थः । सवित्रियः सवितृल इति । धनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्याऽदृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति — चतुर्थादित्यादि ।
Footnotes (NSP 1915 ed.)
NSP p. 326 एकाक्षरेति—अच्रसहितं व्यञ्जनमक्षरम् । एकाच्पूर्वपदानामित्यर्थः । द्वितीयादच ऊर्ध्वमित्यनेन द्वितीयाज्विशिष्टस्य लोपाप्राप्तेरिदम् ।
SK 2036 · A 5.3.80V
प्राचामुपादेरडज्वुचौ च ॥ २०३६ ॥
prācāmupāderaḍajvucau ca
Siddhānta-kaumudī
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥
Tattvabodhinī
alignment inferredNSP p. 326—प्राचामुपादेः—। ‘वह्वचो मनुष्य—’ इत्याद्यनुवर्तते ॥—उपेन्द्रदत्त इति । ननु कृतसंधेरुपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात् ‘उपादेः’ इति विधीयमानौ प्रत्ययौ स्तां नाम । लोपस्तु नकारादेरेव स्यात् । ततश्च उपक उपड इति रूपे न स्याताम् । किं तु उपयक उपयड इति रूपे स्याताम् । एवं घनिलच्छच्छ्वपि दोष एव । तस्मादिहैव ‘द्वितीयं संध्यक्षरं चेत्’ इति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः । प्रकारान्तरेण निर्वाहसंभवान्नोक्तम् । तथाहि । आहुणे कृते ‘द्वितीयं संध्यक्षरम्’ इत्यादिना अकारस्यापि लोपप्रसक्त्या गुणात्पूर्वमेवाकृतव्यूहपरिभाषया प्रत्ययः । नच परिनिष्ठितलपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषावाधः शङ्क्यः । ‘प्राग्दिशः—’ इति सूत्रे ‘समर्थग्रहणं निवृत्तम्’ इत्युक्तत्वात् ॥ ‘अकृतसंधेः’ इति प्रागुक्तज्ञापकवलेन समर्थग्रहणप्रत्याख्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति ॥ उपेन्द्रः उपगुरुपकर्तेत्यादिपूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विशेषोऽध्यवसेयः
Bālamanoramā
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न ।
SK 2037 · A 5.3.81V
जातिनाम्नः कन् ॥ २०३७ ॥
jātināmnaḥ kan
Siddhānta-kaumudī
मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ।
vārttikaद्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः
(वार्तिकम्) ॥ अनुकम्पितः कहोडः । कहिकः । ।
vārttikaएकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः
(वार्तिकम्) ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति ।
vārttikaषषष्ठाजादिवचनात्सिद्धम्
Tattvabodhinī
NSP p. 326—जातिनाम्नः—। ये शब्दा जात्यन्तरे प्रसिद्धाः, मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम् ॥—द्वितीयमित्यादि । एचः संध्यक्षरमिति प्राचां संज्ञा ॥—वागाशीरिति । वाचि आशीर्यस्येति विग्रहः ॥—वाचिक इति । यद्यत्र द्वितीयादच ऊर्ध्वस्य लोपः स्यात् तदा वाच् आ इक इति स्थिते ‘यस्येति च’ इत्याकारस्य लोपे तस्य स्थानिवत्त्वादाकारान्तस्य भत्वे अन्तर्वर्तिनीं विभक्तिमाश्रित्य चकारान्तस्य पदत्वेन कुलजश्लयोः सतोर्वागिक इति स्यात् । उत्तरपदलोपे तु अज्झलादे-शत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकतया ‘यचि भम्’ इति भसंज्ञया ‘सुसिङ्न्तम्’ इति पदसंज्ञा एकसंज्ञाधिकारात्परला-द्वाध्यते । ‘स्वादिषु’ इति पदसंज्ञा तु न शङ्कनीयैव ‘यचि भम्’ इति भसंज्ञायास्तदपवादलात् ॥—कथमिति । अत्राप्युत्तरपदलोपे जाते जश्त्वं दुर्लभमिति प्रश्नः ॥—षष् इति । अत्र सौत्र एव लोप इष्यते न लौपसंख्यानिक इत्यर्थः
Bālamanoramā
जातिनाम्नः कन् - जातिनाम्नः कन् । जातिशब्दो य इति । यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः ।अनुकम्पाया॑मिति 'नीतौ' इति च सूत्रद्वयविहितस्याऽपवादः । द्वितीयं सन्ध्यक्षरं चेदिति ।एचः सन्ध्यक्षराणी॑ति प्राचामाचार्याणां प्रवादः । कहोड इति । ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेर्लोपो, नतु तदूध्र्वस्यैव । एकाक्षरेति । व्यञ्जनसहित एकोऽच — एकाक्षरम् । एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो, व्याख्यानात् ।द्वितीयादच ऊध्र्व॑मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागाशीर्दत्त इति । वाचि आशीर्यस्य नतु मनस्येव स वागाशीः । तेन दत्त इति विग्रहः । यद्वा आशासनमाशीः, वाचा आशीः — वागाशीः ।कर्तृकरणे कृते॑ति समासः । तया वागाशिषा दत्त इति विग्रहः । वाक्करणकाशासनेन दत्त इत्यर्थः । वाचिक इति । वागाशीर्दत्तशब्दाट्ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीर्दत्तशब्दयोर्लोपे सति अन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात्प्राक्ठावस्थायामेव उत्तरपदलोपे कर्तव्येऽसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊध्र्वस्य 'शीर्दत्त' शब्दस्य लोपे वागा-इक इति स्थितेयस्येति चे॑त्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोर्निर्वृत्तौ 'वाचिक' इति सिध्यति, तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्याऽव्याघातात्कुत्वजश्त्वयोः 'वागिक' इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकया भसंज्ञयासुप्तिङन्त॑मिति पदसंज्ञा बाध्यतेस, एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति । अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाऽभावाज्जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊध्र्वस्यैव लोपो, न त्वयमुत्तरपदलोप इति वचनात्षडिक इति सिद्धमित्यर्थः । एवंच 'षडङ्गुलिदत्त' इत्यत्र डकाराऽकारादूध्र्वस्य लोपे सति डकाराऽकारस्ययस्येति चे॑ति लोपे सति तस्य स्थानिवत्त्तवेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाऽव्याघाताज्जश्त्वं निर्बाधमिति भावः । स्पष्टं चेदं 'स्वादिषु' इति सूत्रे भाष्ये ।
SK 2038 · A 5.3.84V
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥ २०३८ ॥
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt
Siddhānta-kaumudī
एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥
Tattvabodhinī
NSP p. 326—शेवलसुपरि—॥—शेवलिक इति । ‘वह्वचो मनुष्यनाम्नः’ इति ठच् । घनिलचोस्तु । शेवलियः । शेवलिलः ॥ ‘शेवलादीनां तृतीयाल्लोपो य उच्यते स चाकृतसंधीनां वक्तव्यः’ ॥ सुपर्याशीः ॥ सुपरिकः सुपरियः सुपरिल इति भाष्ये स्थितम्, कैयटेन तु सुपरिक इति प्रतीकमुपादाय संहिताकार्ये तु कृते लोपे सति सुपर्यिक इति स्यादिति व्याख्यातम् ॥ अयं भावः । संहिताकार्ये यणि कृते तृतीयादच ऊर्ध्वं लोपे सति शीर्दत्त इत्यस्यैव लोपः स्यात् । आकारस्य तु ‘यस्येति च’ इत्यनेन स्यात्तथाच स्थानिवद्भावाद्यणो निवृत्तिर्भविष्यतीति
Bālamanoramā
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् - शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन्-एतत्पूर्वपदकानामित्यर्थः । पूर्वस्येति । 'ठाजादौ' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्त शब्दाट्ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दाट्ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दाट्ठचि रूपम् । वरुणिक इति । वरुणदत्तात् — वरुणिकः । अर्यमिक इति । अर्यमदत्तात्-अर्यमिकः ।अकृतसन्धीनामेषा॑मिति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति ।
SK 2039 · A 5.3.82V
अजिनान्तस्योत्तरपदलोपश्च ॥ २०३९ ॥
ajināntasyottarapadalopaśca
Siddhānta-kaumudī
अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥
Bālamanoramā
अजिनान्तस्योत्तरपदलोपश्च - अजिनान्तस्य । व्याघ्रक इति । 'व्याघ्राजिन' इति कस्यचिन्मनुष्यस्य नाम । तस्मात्कनि अजिनकस्य लोपः । सिंहक इति । सिंहाजिनशब्दात्कनि अजिनस्य लोपः ।
SK 2040 · A 5.3.85V
अल्पे ॥ २०४० ॥
alpe
Bālamanoramā
अल्पे - अल्पे । अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः । तैलकमिति । 'सर्वकम्' 'उच्चकैः'पचतकी॑त्याद्यप्युदाहार्यम् ।
SK 2041 · A 5.3.86V
ह्रस्वे ॥ २०४१ ॥
hrasve
Tattvabodhinī
NSP p. 326–327—हृस्वे । तैलादौ हृस्वदीर्घादिव्यवहाराभावात् वृक्षक इत्युदाहृतम् ॥ यद्यपि ‘अल्पे’ इत्यनेनैवेदं रूपं सिध्यति तथापि शाब्दवोधे विशेषोऽस्तीत्याहुः ॥—कुटीर इति । ‘स्वा- र्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते’ इति पुंलिङ्गतात्र संगच्छते ॥—वत्सोक्षाभ्व—। तनुत्वं न्यूनता । सा च प्रवृत्तिनिमित्तस्य प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् । तत्र वत्सः प्रथमवयाः ॥ वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिस्तदाह—द्वितीयमिति । तरुण उक्षा । तारुण्यस्य च तनुत्वं तृतीयवयःप्राप्तिः । अश्वायामश्वादुत्पन्नोऽश्वः, अश्वत्वं च जातिः । तत्सहचरितस्याश्वायामश्वादुत्पन्नलघमस्य न्यूनलमन्यपितृकता । तथा च गर्दभेनाश्वायामुत्पादितोऽश्वतरः ॥ ऋषभो भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः ॥—किंयत्तदोः—॥—कतरो वैष्णव इति । गुणेन निर्धारणमिदम् ॥ क्रियासंज्ञाभ्यां निर्धारणे तु कतरोऽध्यापकः । कतरो देवदत्त इत्यादि ज्ञेयम् ॥ ननु द्वयोरेकस्य निर्धारणे उतरचेत् भवति, तर्हि ‘कयोरन्यतरो देवदत्तः’ ‘ययोरन्यतरः’ ‘तयोरन्यतरः’ इत्यत्रापि प्राप्नोति । अत्राहुः । निर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधानस्वाभाव्यात् । तेनात्र नातिप्रसङ्ग इति ॥ एकस्येति किम् । ‘द्वयोः’ इति कर्मणि षष्ठी माभूत् । तथाहि सति ‘अस्मिन् सर्वकौ देवदत्तयज्ञदत्तौ’ इत्यादावेव स्यात् ॥—वा बहूनाम्—। ‘किंयत्तदः’ इति वर्तते ॥ जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । अत्र जाताविति सर्वेषां विशेषणम् ॥ षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य संवन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विशेषणम् । तच्च क्षेपनिवृत्त्यर्थम् ॥ तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे उतरच इष्टत्वात् । तथा पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि उतरच इष्टत्वात् ॥ तथा च वार्तिकम् । ‘किमादीनां द्विवह्ये प्रत्ययविधानादुपाध्यानर्थक्यम्’ इति ॥ अत्र कैयटः । ‘द्वयोः’ इति, ‘जातिपरिप्रश्ने’ इति च न कर्तव्यमिति भाव’ इति । तदेतदाह—प्रत्याख्यातमाकर इति ॥—कठ इति । कतमो भवतामध्यापकः शूरो देवदत्तो वेत्यप्युदाहर्तव्यम् ॥—यकः सक इति । कक इति तु नोक्तम् । अकच्छतिस्यापि ‘किमः कः’ इत्ययमादेश इति व्याख्यातत्वात् ॥—महाविभाषयेति । ‘प्राग्दिशः’ इति सूत्रे समर्थप्रथमग्रहणयोर्निवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः ॥ ‘किंयत्तदः’ इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह—किमोऽस्मिन्निति
SK 2042 · A 5.3.87V
संज्ञायां कन् ॥ २०४२ ॥
saṃjñāyāṃ kan
Siddhānta-kaumudī
ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥
Bālamanoramā
संज्ञायां कन् - संज्ञायां कन् । वंशक इति । ह्रस्वस्य वेणुजातिविशेषस्य नाम ।
SK 2043 · A 5.3.88V
कुटीशमीशुण्डाभ्यो रः ॥ २०४३ ॥
kuṭīśamīśuṇḍābhyo raḥ
Siddhānta-kaumudī
ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥
Bālamanoramā
कुटीशमीशुण्डाभ्यो रः - कुटीशमी । ह्रस्व इत्येव कुटीर इति ।स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते॑ इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । ह्रस्वा शमी, शुण्डा चेत्यर्थः ।
SK 2044 · A 5.3.89V
कुत्वा डुपच् ॥ २०४४ ॥
kutvā ḍupac
Siddhānta-kaumudī
ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥
Bālamanoramā
कुत्वा डुपच् - कुत्वा डुपच् । कुतुप इति । कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव । तत्राऽमरकोशषमपि प्रमाणयति — कुतूः कृत्तिस्नेहेति ।
SK 2045 · A 5.3.90V
कासूगोणीभ्यां ष्टरच् ॥ २०४५ ॥
kāsūgoṇībhyāṃ ṣṭarac
Siddhānta-kaumudī
आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥
Bālamanoramā
कासूगोणीभ्यां ष्टरच् - कासूगोणीभ्यां ष्टरच् । ह्रस्व इत्येव । कासूतरीति । षित्त्वान्ङीषिति भावः ।कासूर्बुद्धे कुवाच्येऽस्त्रे॑ इति नानार्थरत्नमालायाम् । एवं गोणीतरीति ।
SK 2046 · A 5.3.91V
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ २०४६ ॥
vatsokṣāśvarṣabhebhyaśca tanutve
Siddhānta-kaumudī
वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥
Bālamanoramā
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे - वत्सोक्ष । ह्रस्व इति निवृत्तम् । वत्स, उक्षन्, अआ, ऋषभ — एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः । तनुत्वं — न्यूनत्वम् । वत्सः-प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् — उत्तर वयः प्राप्त्या ज्ञेयम् । तदाह — द्वितीयं वयःप्राप्त इति । उक्षतर इति । उक्षा — तरुणो बलीवर्दः । तारूण्यस्य तनुत्वं तृतीयवयः प्राप्त्या ज्ञेयम् । अआतर इति । गर्दमेन अआआयामुत्पादितः । अआतरः — अआतरत्वं च अआत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो-भारस्य वोढा तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह — प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् ।
SK 2047 · A 5.3.92V
किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ॥ २०४७ ॥
kiṃyattado nirddhāraṇe dvayorekasya ḍatarac
Siddhānta-kaumudī
अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥
Bālamanoramā
किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् - किंयत्तदो निर्धारणे । किम्, यत्, तत् एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन कुंशब्दार्थ इदमर्थाभ्यां निर्धार्यते । अतः किंशब्दाड्डतरचि डित्त्वाट्टिलोपे 'कतर' इति भवति । एवं यच्छशब्दात्, तच्छशब्दाच्च डतरचि टिलोपे यतरः ततर इति भवति । निर्धार्यमाणवाचिभ्य इति किम् । कयोरन्यतरो देवदत्तः, ययोरन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति ।
SK 2048 · A 5.3.93V
वा बहूनां जातिपरिप्रश्ने डतमच् ॥ २०४८ ॥
vā bahūnāṃ jātiparipraśne ḍatamac
Siddhānta-kaumudī
बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ।
vārttikaकिमोऽस्मिन्विषये डतरजपि
Bālamanoramā
वा बहूनां जातिपरिप्रश्ने डतमच् - वा बहूनाम् । किंयत्तद इति, निर्धारणे इति, एकस्येति चानुवर्तते । बहूनामिति निर्धारणे षष्ठी । तदाह — बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । 'मध्ये' इत्यनन्तरम् — एकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्लः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदां सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणं, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानापरिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम् — ॒किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्य॑मिति ।पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भाव॑ इति कैयटः । तदाह — प्रत्याख्यातमाकरे इति । क्षेपार्थस्य त्वनभिदानान्न ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाचकतम एषां पाचकः, शूरो, देवदत्तः, इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमज् भवति ।एषां कतरो देवदत्तः॑ इत्यत्र बहूनाम#एकस्य निर्धारणे डतरच् भवति । अत एव प्रत्ययः॑ इति सूत्रभाष्येबहुष्वासीनेषु कस्छित् कंचित्पृच्छति कतरो देवदत्तः॑ इति प्रयोगः सङ्गच्छते । कतमो भवतां कठ इति ।गोत्रं च चरणैः सहे॑ति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया.ञपवादेन मुक्ते उत्सर्गस्याऽप्रवृत्तेरुक्तत्वादकच् न स्वादिति भावः । नचअव्ययसर्वनाम्ना॑मित्यस्याधिकारत्वात्तदनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमेवेति वाच्यम्, इहैव सूत्रे तदनुवृत्तिर्नतु पूर्वसूत्रे इति ज्ञापनार्थत्वात् । अतो डतरज्विषये नाऽकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्येक एतयोरर्थयोर्विशेषः॑ इति प्रयोगः सङ्गच्छते ।तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः॑ इति तु प्रायिकमिति भावः । किमोऽस्मिन्निति ।वा बहूना॑मिति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः ।
SK 2049 · A 5.3.94V
एकाच्च प्राचाम् ॥ २०४९ ॥
ekācca prācām
Siddhānta-kaumudī
डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥
Tattvabodhinī
NSP p. 327—एकाच्च—। प्राचांग्रहणं पूजार्थम् । विकल्पोऽनुवर्तत एव
Bālamanoramā
एकाच्च प्राचाम् - एकाच्च प्राचाम् । शेषपूरणेन सूत्रं व्याचष्टे — डतरच् — डतमच्च स्यादिति ।पूर्वसूत्रद्वयविषये॑ इति शेषः ।महाविभाषयैव सिद्धे प्राचाङ्ग्रहणं न कर्तव्य॑मिति भाष्यम् । अत एव नाऽकजर्थं तत् ।
SK 2050 · A 5.3.95V
अवक्षेपणे कन् ॥ २०५० ॥
avakṣepaṇe kan
Siddhānta-kaumudī
व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते SK 2029 इत्यस्य ॥
Tattvabodhinī
NSP p. 327–328—अवक्षेपणे कन् । कुत्सिते तु कः । स्वरे विशेषः ॥—येनेतर इति । अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भावः ॥ प्रागिवीयानां पूर्णोऽवधिः ॥ अभ्वक इति ॥ अश्वशब्दोऽश्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नायं स्वार्थिक इत्येके ॥ अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहीक इतिवदश्वशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्यैवौपचारिकत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम्, गौरिव गवयः ॥ तृणचर्मकाष्ठादिनिर्मितं प्रतिमापरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् ॥— समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेदश्वसदृशस्य संज्ञेत्यर्थः ॥—चञ्चा । वर्धिकेति । लुपि युक्तवद्भावात् स्त्रीलिङ्गता ॥—वासुदेवः । शिव इत्यादि । याः प्रतिमाः प्रतिगृह्य गृहाद् गृहं भिक्षमाणा अटन्ति ता एवमुच्यन्ते । देवलका अपि ॥ त एव भिक्षवोऽभिप्रेताः ॥ यास्त्रायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप् । तदुक्तम्—‘अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौलोपः कनो देवपथादिषु’ इति । अर्चासु प्रतिमासु । प्रतिमासु कीदृशीषु । पूजनार्हासु । गृहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते ॥ अर्चासूदाहरणं—शिवः । विष्णुः ॥ चित्रकर्मणि—अर्जुनः । दुर्योधनः ॥ ध्वजेषु—कपिः । गरुडः । सिंहः ॥ सुपर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति ॥—हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति—‘रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्’ इति । अयं भावः । ‘अपण्ये’ इत्युक्त्वात्पण्ये हस्तिकानितिवत् रामकं सीतिकां लक्ष्मणकमिति प्रयोगा एव साधव इति ॥—देवपथ इत्यादि । देवपथ इव प्रतिकृतिः । हंसपथ इव प्रतिकृतिरिति विग्रहः ॥—वस्तिरिति । ‘वस्तिर्नाभेरधो द्वयोः’ इत्यमरः
Bālamanoramā
अवक्षेपणे कन् - अपक्षेपणे कन् । व्याकरणकेन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितं, किं तु अधीतं सदध्येतृकुत्साहेतुभूतं गर्मावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा । तत्कथं व्याकरणमवक्षेपणं स्यात्, 'कुत्सित' इत्यनेन गतार्थं चेदमित्यत आह — येनेतर इति । अवक्षेपणशब्दः करणे ल्युडन्त इति भावः । ***** इति बालमनोरमायाम् प्रागिवीयानां पूर्णोऽवधिः । *****अथ प्राग्दीव्यतीयाः । — — — — — — —
Footnotes (NSP 1915 ed.)
NSP p. 328 १ काकतालीय इति—अत्र पूर्वपदमुपमानकाकागमनपरम्, उत्तरपदं चोक्तपूर्वपदार्थसमानाधिकरणोपमानतालपतनपरम् । समुदायश्चोपमेयदेवदत्तगमनसमानाधिकरणचोरपतनपर इति बोध्यम् ।