PREMABASESiddhānta-kaumudī
Prakaraṇa 38 · SK 1802–1845

तद्धिताधिकारे पाञ्चमिकप्रकरणम्

taddhitādhikāre pāñcamikaprakaraṇam · 44 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 1802 · A 5.2.1V
धान्यानां भवने क्षेत्रे खञ् ॥ १८०२ ॥
dhānyānāṃ bhavane kṣetre khañ
Siddhānta-kaumudī
भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
Bālamanoramā
धान्यानां भवने क्षेत्रे खञ् - अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ठन्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह — भवन्त्यस्मिन्निति । भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् ।केदारः क्षेत्र॑मित्यमरः । क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम् । भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् ।
SK 1803 · A 5.2.2V
व्रीहिशाल्योर्ढक् ॥ १८०३ ॥
vrīhiśālyorḍhak
Siddhānta-kaumudī
व्रैहेयम् । शालेयम् ॥
Tattvabodhinī
NSP p. 303
—ब्रीहिशाल्योः—। अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादिपूर्ववत्
Bālamanoramā
व्रीहिशाल्योर्ढक् - व्रीहिशाल्योर्ढक् । व्रीहिशब्दाच्छालिशब्दाच्च षष्ठन्ताद्भवने क्षेत्रे ।ञर्थे ढगित्यर्थः । खञोऽपवादः ।
SK 1804 · A 5.2.3V
यवयवकषष्टिकाद्यत् ॥ १८०४ ॥
yavayavakaṣaṣṭikādyat
Siddhānta-kaumudī
यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥
Tattvabodhinī
NSP p. 303
—यवयवक—। अत्र प्रत्ययार्थसामर्थ्याल्लभ्या षष्ठी समर्थविभक्तिः
Bālamanoramā
यवयवकषष्टिकादत् - यवयवक । यव, यवक, षष्टिक-एभ्यः षष्ठन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः । खञोऽपवादः ।धान्याना॑मित्यनुवृत्तेरिहापि षष्ठएव समर्थविभक्तिः ।
SK 1805 · A 5.2.4V
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः ॥ १८०५ ॥
vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ
Siddhānta-kaumudī
यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥
Tattvabodhinī
NSP p. 303
—विभाषा—। खञि नित्ये प्राप्ते वचनम् ॥—औमीनं भाङ्गीनमिति । नन्नमाभङ्गयोर्धान्यलाभावात्कथमिह खञ् । ‘त्रीहयश्च मे यवाश्च मे’ इति चमकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभङ्गौ पठितौ इति चेत् । मैवम् । ‘शणसप्तदशानि धान्यानि’ इति स्मरणात् । तत्र चोमाभङ्गयोरपि पाठाद्धान्यलमस्तीति भाष्यादौ स्थितलात् । न च चमकानुवाके धान्यपरिगणनेनार्थः, तत्राधान्यानामप्याश्मादीनां पाठात् । धान्यानामपि केषांचित् कोद्रवादीनामपाठात् । तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यलमस्तीति ज्ञेयम्
Bālamanoramā
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः - विभाषा तिस ।तिल, माष, उमा, भङ्ग, अणु-एभ्यो धान्यविसेषवाचिभ्यः षष्ठन्तेभ्यो यद्वा स्यादित्यर्थः ।उमाभङ्गौ धान्यविशेषौ॑ इति भाष्यम् ।उमा स्यादतसी क्षुमा॑ इत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'ओर्गुणः'वान्तो यी॑त्यवादेशः ।
SK 1806 · A 5.2.5V
सर्वचर्मणः कृतः खखञौ ॥ १८०६ ॥
sarvacarmaṇaḥ kṛtaḥ khakhañau
Siddhānta-kaumudī
असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥
Tattvabodhinī
NSP p. 303
—सर्वचर्मणः—। ‘खश्च’ इत्येव तु नोक्तम् । यतोऽप्यनुकर्षः संभाव्येतेति ॥ अत्र तृतीया समर्थविभक्तिः । कृत इति प्रत्ययार्थे चर्मणः करणलस्योचितलात् ॥—सर्वश्चर्मणेति । सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः
Bālamanoramā
सर्वचर्मणः कृतः खखञौ - सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह — असामर्थ्येऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः । सर्वचर्मीण इति । 'नस्तद्धिते' इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात् ।
SK 1807 · A 5.2.6V
यथामुखसंमुखस्य दर्शनः खः ॥ १८०७ ॥
yathāmukhasaṃmukhasya darśanaḥ khaḥ
Siddhānta-kaumudī
मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥
Tattvabodhinī
NSP p. 303
—यथामुख—। दृश्यतेऽस्मिन् दर्शनः । अधिकरणे ल्युट् । ‘असादृश्ये’ इति प्रतिपेधात्सादृश्ये यथाशब्दस्य कथं समासस्तत्राह—निपातनादिति । एतच्च वृत्तिग्रन्थमनुमृत्योक्तम् । भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द आश्रितः । तथा च मायामृगं प्रकम्योक्तम्—‘यथामुखीनः सीतायाः पुञ्जे बहु लोभयन्’ इति ॥—यथामुखं दर्शन इति । अव्ययीभावस्यापि यथामुखशब्दस्योन्मत्तगङ्गादिवत्सत्त्ववचनलात्कर्मशक्तियोगे सति कृचोगलक्षणा षष्ठी । तस्याः ‘नाव्ययीभावात्—’ इत्यमादेशः ॥—सर्वस्य मुखस्येति । ‘संमुखस्य’ इति नोक्तम् । प्रत्ययसंनियोगेनैव समशब्दस्यान्त्यलोपनिपातनात् । संशब्दस्तु समशब्दार्थे न दृश्यते ‘संमुखो भव’ इत्यत्र ‘अभिमुखः’ इत्यर्थप्रतीतेः । तत्र च खप्रत्ययस्याजनिष्यमाणलात् ॥ कथं तर्हि—‘संयुगे संमुखीनं तमुद्गदं प्रसहेत कः’ इति भट्टिः । अभिमुखावस्थानात्सामर्थ्याद्भविष्यतीति हरदत्तः
Bālamanoramā
यथामुखसंमुखस्य दर्शनः खः - यथामुख । यथामुख, समुखं-आभ्यां षष्ठन्ताभ्यां दर्शन इत्यर्थे खःस्यादित्यर्थः । दृश्यतेऽस्मिन्निति दर्शनः= आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः , 'यथाऽसादृश्ये' इति सादृश्ये तन्निषेधादित्यत आह — निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सर्वपर्ययस्येत्याह — समं सर्वं मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः ।
SK 1808 · A 5.2.7V
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ १८०८ ॥
tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti
Siddhānta-kaumudī
सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥
Tattvabodhinī
NSP p. 303–304
—तत्सर्वादेः—। तदिति द्वितीया समर्थविभक्तिः व्याप्नोतीति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । तत्र केवलानां पथ्यादीनां सर्वादिलासंभवात्प्रातिपदिकैरपि तैस्तदन्तविधिः । तदाह—पथ्याद्यन्तादिति । पथ्यक्रमं पत्रपात्रान्तात्प्रातिपदिकादित्यर्थः ॥—सर्वपथीन इति । ‘पूर्वकालैक—’ इति समासः । ‘क्रुक्पूः—’ इति समासान्तः । तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्ययः ॥—अनुपदसर्वान्नायानयम्—। इत्यत्र निपातनात्तिङन्तेन सह द्वन्द्वः ॥ द्वितीयान्तेभ्योऽनुपदादिभ्यो यथासंख्यं वद्धादिष्वर्थेषु खः स्यात् ॥—अनुरायाम इत्यादि । ‘यस्य चायामः’ इति ‘यथार्थेऽव्ययम्’ इति वा अव्ययीभाव इत्यर्थः ॥—सर्वान्नीन इति । प्रकारकात्स्न्यं सर्वशब्दः । यान्यन्नानि लभ्यन्ते उष्णानि शीतलानि सरसानि नीरसानि वा सर्वाणि भक्षयतीत्यर्थः ॥ ‘अयः प्रदक्षिणगमनम् । अनयः प्रसव्यगमनम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमायानयः’ इति काशिका ॥—तन्नेय इति । नयतेर्द्विकर्मकलादप्रधाने कर्मणि द्वितीया ॥—आयानयीनः शार इति । ‘फलकशिरसि स्थित इत्यर्थः’ इति काशिका ॥—अवरस्येति । आदेरिति शेषः ॥ उत्वे कृते ‘आहुणः’ । केचित्तु ओत्वं परशब्दस्य निपात्यते तस्मात्परस्यात् ‘एङः पदान्तात्’ इति पूर्वरूपादेश इति पक्षान्तरमाहुः
Bālamanoramā
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति - तत्सर्वादेः । पथिन्, अङ्ग, कर्मन्, पत्र, पात्र-एषां समाहारद्वन्दावात्पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधस्तु न, केवलानामेषां सर्वादित्वस्याऽसंभवात् ।त॑दिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः प्रातिपदिकेभ्यो द्वितायान्तेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह — सर्वादेरित्यादिना । सर्वपथानिति ।ऋक्पू॑रिति समासान्ताः । आप्रपदम् ।आप्रपद॑मित्यव्ययीभावाद्द्वितीयान्तात्प्राप्नोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति ।पादाग्रं प्रपद॑मित्यमरः ।
Footnotes (NSP 1915 ed.)
NSP p. 304 १ पथ्याद्यन्तादिति—पत्रपात्रमिति पञ्चस्यर्थे प्रथमेति भावः । २ खप्रत्ययानुत्पत्ताविति—पदद्वयेऽपीति शेषः । सृष्टे उभयत्रापि तथोच्चारणात् । विकल्पस्तु वाचनिक एव ।
SK 1809 · A 5.2.8V
आप्रपदं प्राप्नोति ॥ १८०९ ॥
āprapadaṃ prāpnoti
Siddhānta-kaumudī
पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥
Bālamanoramā
आप्रपदं प्राप्नोति - आप्रपदमिति ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीबावः । अनुपद । अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया । बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आद्ये 'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः ।
SK 1810 · A 5.2.9V
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ॥ १८१० ॥
anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu
Siddhānta-kaumudī
अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥
Bālamanoramā
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु - अनुपदं बद्धेति । क्रियाविशेषणत्वाद्द्वितीया । अनुपदीना उपानदिति । पदसम्बन्धिदैर्ध्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । यानय इति द्यूते शाराणां प्रदक्षिणपरिवर्तनम् — अयः, प्रसव्यपरिवर्तनम्-अनयः । अयसहितः अनयः-अयानयः । प्रदक्षिणप्रसव्यगामिना यस्मिन्युग्यमादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् ।समहायस्य शारस्य परैर्नाक्रम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते । इति द्यूतशास्त्रामर्यादा । विस्तरस्तु कैयटमनोरमादावनुसन्धेयः । तं नेय इति । तं=स्थानविशेषमयानयाख्यं, प्रापणीय इत्यर्थः । णीञ्द्विकर्मकः ।प्रधाने कर्मणि यत्, अप्रधाने द्वितीया॑ इति भावकर्मलकारप्रक्रियायां वक्ष्यते ।
SK 1811 · A 5.2.10V
परोवरपरम्परपुत्रपौत्रमनुभवति ॥ १८११ ॥
parovaraparamparaputrapautramanubhavati
Siddhānta-kaumudī
परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥
Bālamanoramā
परोवरपरम्परपुत्रपौत्रमनुभवति - परोवर । परोवर, परम्पर, पुत्रपौत्र-एभ्यो द्वितीयान्तेभ्योऽनुभवतीत्यर्थे खः स्यादित्यर्थः । परोवरीण इति । परे च अवरे च परावरे ताननुभवतीत्यर्थः । अवरस्योत्त्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्त्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्त्वं न भवति । प्रकृतेरिति । परपरतरशब्दाद्द्वन्द्वात्खे सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः । नन्वेवं सतिकल्याणपरम्परे॑त्यादौ कथं परम्पराशब्दः , परम्परभावस्य खप्रत्ययसन्नियोगशिष्टत्वादित्यत आह — परम्पराशब्दस्त्विति । तस्मादेवेति ।परम्परे॑त्यव्युत्न्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दाद्भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दान्मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्त्वस्य खप्रत्ययसन्नियोगाशिष्टत्वादिति भावः । उत्त्वं दुरुपपादमेवेत्याह — असाधुरेवेति । नन्वत्र परोवरेति निर्देशात् — खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह — खप्रत्ययसन्नियोगेनैवेति । अत एव भाष्येपरांश्चावरंश्चानुभवती॑त्येव विग्रहो दर्शित इति भावः ।
SK 1812 · A 5.2.11V
अवारपारात्यन्तानुकामं गामी ॥ १८१२ ॥
avārapārātyantānukāmaṃ gāmī
Siddhānta-kaumudī
अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
Tattvabodhinī
NSP p. 304
—अवारपार—॥—गामीति । ‘गमेरिनिः, आङि णिच्च’ इति बहुलवचनात्केवलादपि णिनिः । ‘भविष्यति गम्यादयः’ इति भविष्यत्कालता ॥ न्यासकारस्तु ‘आवश्यके णिनिः सोऽपि भविष्यत्येव’ इत्याह ॥—अवारपारमिति । ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ इति षष्ठीप्रतिषेधः ॥ केचित्तु ‘गत्यर्थकर्मणि—’ इति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवति ‘प्रामं गन्ता’ इतिवदिति व्याचर्च्युः । तदसत् । ‘अकेनोः—’ इति प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात् ॥—अवारीण इत्यादि । ‘विगृहीताद्विपरीतादपीष्यते’ इति भावः ॥—अत्यन्तमिति । क्रियाविशेषणम् ॥—अनुकाममिति । काम इच्छा तस्य सदृशमनुकामम् । कामानुरूपमित्यर्थः । ‘अव्ययं विभक्ति—’ इति यथार्थेऽव्ययीभावः
Bālamanoramā
अवारपारात्यन्तानुकामं गामी - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।
SK 1813 · A 5.2.12V
समांसमां विजायते ॥ १८१३ ॥
samāṃsamāṃ vijāyate
Siddhānta-kaumudī
यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ।
vārttika
खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः
(वार्तिकम्) ॥ समांसमां विजायते । समायां समायां वा ॥
Tattvabodhinī
alignment inferredNSP p. 304
—समांसमाम् ॥—यलोप इति । ‘समायाम्’ इत्यत्र यकारलोप इत्यर्थः ॥—पूर्वपदे निपात्यत इति । अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग् भवति ‘सुपो धातुप्रातिपदिकयोः’ इति तथा पूर्वपदेऽपि स्यादिति भावः ॥—समांसमीनेति । वीप्सायां द्विर्वचनम् । सुवन्तसमुदायः प्रकृतिः ॥ विजायत इत्येतद्व्याचष्टे—प्रसूयत इति । विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः । गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावात् ‘अत्यन्तसंयोगे च’ इति द्वितीया न भवतीत्याशयेनाह—समायामित्यादि ॥— खप्रत्ययानुत्पत्ताविति । पदद्वयेऽपीति शेषः ॥ वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपत्र इति भावः
Bālamanoramā
समांसमां विजायते - समां समाम् । विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते=गर्भं विमुञ्चतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति । किंतु सप्तम्येव । तत्र सप्तम्यन्तस्य समाया॑मित्यस्यनित्यवीप्सयो॑रिति द्विर्वचने समायां — समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते — समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद्विजायत इत्यर्थः । खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात्खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात्तदवयवयोः सप्तम्योर्लुकि 'समासमीन' इति स्यात्, इष्यते तुसमांसमीने॑ति । तदा — यलोप इति । पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः अवशिष्यस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः । भाष्ये तुयलोपनिपातनादवशिष्टविभक्त्यंशस्य न लु॑गित्युक्तम् । ननु समां समामिति निर्देशादुत्तरपदेऽपि यकारलोपः, अवशिष्टविभक्त्यंशस्य अलुक्च स्यादित्यत आह — पूर्वपदे इति ।पूर्वपदस्य यलोपवचन॑मिति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति ।पदतद्वयेऽपी॑ति शेषः । इह विभाषया कदाचित्खप्रत्ययाऽभावे सतिसमायां समायं विजायते॑ इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदसायां वाचनिक इति बोध्यम् । एतत्सर्वं भाष्ये स्पष्टम् ।
SK 1814 · A 5.2.13V
अद्यश्वीनाऽवष्टब्धे ॥ १८१४ ॥
adyaśvīnā'vaṣṭabdhe
Siddhānta-kaumudī
अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥
Tattvabodhinī
NSP p. 304–305
— अद्यश्वीना—। अविभक्तिको निर्देशो न तु स्त्रीलिङ्गनिर्देशोऽयम् । अद्यश्वीनो गोसमूहः । अद्यश्वीनं गोमण्डलमित्यादावपीष्टलात् ॥—अद्य श्वो वेति । निपातनाद् वार्थे समासोऽयमिति भावः ॥ ‘अवाच्चालम्बना—’ इति सूत्रेण आविर्द्ध्ये स्तम्भेः षलविधानादवष्टव्यशब्द आसन्नपरः ॥ ‘विजायते’ इति हि वर्तते । स च गर्भविमोचनार्थकस्तदाह—आसन्नप्रसवेत्यर्थ इति ॥—कर्मकर इति । यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः ॥—गोः प्रत्यर्पणप- यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भावः
Bālamanoramā
अद्यश्वीनाऽवष्टब्धे - अद्यआईनाऽवष्टब्धे ।अद्यआईने॑त्यविभक्तको निर्देशः । अवष्टब्धम्ासन्नम् ।अवाच्चालम्बनाविदूर्ययो॑रित्याविदूर्ये स्तन्भेः षत्वविधानात् । अद्य आओ वा विजायत इत्यर्थे अद्य आसिति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यआईना वडवेति । अद्य वा आओ वेति वार्थे निपानात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यआईनेति टाबन्तनिर्देशे तु अद्यआईनो गोसमूहः, अद्यआईनां गोमण्डलमिति न स्यात् ।
Footnotes (NSP 1915 ed.)
NSP p. 305 १ गोष्ठादिति—अत्र केचित् ‘यद्यपि ‘भूतपूर्वे चरद्’ ‘पष्ठया रूप्य च’ इत्यत्रैव पठित्वा, ‘गोष्ठात्खन्’ इत्येव सूत्रयितुं युक्तम् तथापि तयोरन्यत्र पाठसामर्थ्येन विशेषविहितेनापि खन्ना चरटो बाधो न भवति’ इत्याहुः।
SK 1815 · A 5.2.14V
आगवीनः ॥ १८१५ ॥
āgavīnaḥ
Siddhānta-kaumudī
आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥
Tattvabodhinī
alignment inferredNSP p. 305
—आगवीन इति । ‘आज्ञार्यादाभिविध्योः’ इत्यव्ययीभावे ‘गोस्त्रियोः—’ इति ह्रस्वे कृते खप्रत्ययः । ‘ओर्गुणः’
Bālamanoramā
आगवीनः - आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स — कर्मकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति । तदाह — गोः प्रत्यर्पणेति । आगवीन इति । 'गो' शब्दो गोप्रत्यर्पणे लाक्षणिकः ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीभावेगोस्त्रियो॑रिति ह्रस्वत्वे, आगुशब्दात्खे 'ओर्गुणः' इति भावः ।
SK 1816 · A 5.2.15V
अनुग्वलंगामी ॥ १८१६ ॥
anugvalaṃgāmī
Siddhānta-kaumudī
अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥
Tattvabodhinī
NSP p. 305
—अनुग्वलं—। ख इत्यनुवर्तते । अनुगुणव्दात् ‘अलंगामी’ इत्यस्मिन्नर्थे खः स्यात् ॥—गोः पश्चादिति । पश्चादर्थेऽव्ययीभावः ॥—पर्याप्तमिति । क्रियाविशेषणम् । अत्र हरदत्तः । अनुग्वित्यस्य क्रियाविशेषणत्वाद् द्वितीयान्तादिह प्रत्ययः । न चालंगामीत्यस्य ‘सुप्यजातौ—’ इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्ठी स्यादिति वाच्यम् । क्रियाविशेषणात्तदाप्रवृत्तेः शोभनं पाचक इत्यादौ तथादर्शनादित्याह ॥ अत्र केचित्—धातूपात्तव्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम् । ततश्च तण्डुलानां पाचक इत्यत्र मुख्ये कर्मणि कृद्योगलक्षणा षष्ठी भवति । मृदुपाचकः शोभनं पाचक इत्यत्र तु सा न भवति । फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्यौपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशय इत्याहुः ॥ अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणात् द्वितीयाया अप्यप्रवृत्तिः स्यात् । तस्मात्, ‘तदर्हम्’ इति निर्देशादनित्या कृद्योगपृष्ठीति क्रियाविशेषणात्सा न स्वीक्रियत इति हरदत्ताशयः कथंचिद्वर्णनीय इत्याहुः ॥ वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्विवादम् । पश्चादिति चास्तात्यर्थे निपातितम् । तच्च यद्यपि विभक्तित्रयसाधारणम् । तथापीह योग्यतावलत्सप्तम्यर्थवृत्तिः । अतस्तस्य कर्मत्वायोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम्, कृद्योगलक्षण- पृष्ठीशङ्काप्यत एव नेति बोध्यम्
Bālamanoramā
अनुग्वलंगामी - अनुग्वलंगामी । 'अनुगु' इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्मादलङ्गामीत्यर्थे खः स्यादित्यर्थः । अत्र 'अनुगु' इत्यस्य क्रियाविशेषणत्वाद्द्वितीयैव समर्थविभक्तिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये ।अलङ्गामी॑त्यत्र अलंशब्दस्य विवरणं — पर्याप्तमिति । क्रियाविशेषणम् ।
SK 1817 · A 5.2.16V
अध्वनो यत्खौ ॥ १८१७ ॥
adhvano yatkhau
Siddhānta-kaumudī
अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः SK 1154 । आत्माध्वानौ खे SK 1671 इति सूत्राभ्यां प्रकृतिभावः ॥
Bālamanoramā
अध्वनो यत्खौ - अद्वनो यत्खौ । अध्वन्शब्दादलिङ्गमीत्यर्थे यत्खौ स्त इत्यर्थः । अध्वानमलंगच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः ।
SK 1818 · A 5.2.17V
अभ्यमित्राच्छ च ॥ १८१८ ॥
abhyamitrāccha ca
Siddhānta-kaumudī
चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥
Tattvabodhinī
NSP p. 305
—अभ्यमित्रात्—। अभ्यमित्रशब्दो ‘लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः । क्रियाविशेषणलाद्वितीया समर्थविभक्तिः
Bālamanoramā
अभ्यमित्राच्छ च - अब्यमित्राच्छ च । अमित्रः=शत्रुः । तमभिमुखो भूत्वेत्यर्थेलक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।
SK 1819 · A 5.2.18V
गोष्ठात् खञ् भूतपूर्वे ॥ १८१९ ॥
goṣṭhāt khañ bhūtapūrve
Siddhānta-kaumudī
गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥
Tattvabodhinī
NSP p. 305
—गोष्ठात्खञ् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः । ‘घन्यें कविधानम्’ इत्यधिकरणे कः । ‘अम्बाम्बगोभूमि’—इति षलम्, पूर्वं भूतो भूतपूर्वः ‘सुप्सुपा’ इति समासः
Bālamanoramā
गोष्ठात् खञ् भूतपूर्वे - गोष्ठात्खञ् । बूतपूर्व इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः ।
SK 1820 · A 5.2.19V
अश्वस्यैकाहगमः ॥ १८२० ॥
aśvasyaikāhagamaḥ
Siddhānta-kaumudī
एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥
Tattvabodhinī
NSP p. 305
—अश्वस्य—। कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः ॥—एकाहगम इति । ‘कर्तृकरणे कृता’ इति समासः ॥ नन्विह ‘प्रहृद्वृहनिश्चिगमश्च’ इत्यपं वाधित्वा ‘परिमाणाख्यायां सर्वेभ्यः’ इति घन् प्राप्नोति, अस्ति चात्र परिमाणाख्या ‘एकाहेन गम्यत’ इति परिच्छेदावनमात्’ अत्राहुः । अस्मादेव निपातनादव् द्रष्टव्य इति
Bālamanoramā
अश्वस्यैकाहगमः - अआस्यैकाहगमः । अआशब्दात्षष्ठन्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः ।एकाहगम॑शब्दं व्युत्पादयति — एकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरविति भावः ।कर्तृकरणे कृते॑ति समासः । अआस्येति कर्तरि षष्ठी । आआओनोऽध्वेति । अओन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः ।
SK 1821 · A 5.2.20V
शालीनकौपीने अधृष्टाकार्ययोः ॥ १८२१ ॥
śālīnakaupīne adhṛṣṭākāryayoḥ
Siddhānta-kaumudī
शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥
Tattvabodhinī
NSP p. 305
—शालीनकौपीने । इमौ खप्रत्ययान्तत्वेन निपात्येते । रूढिशब्दावेतौ कथंचिद्धृत्पाद्याविति नात्रावयवार्थेऽभिनिवेशः कार्यः ॥—शालाप्रवेशमिति । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः ॥—कूपपतनमिति । यदकार्यं तत्प्रच्छादनीयलात्कूपावतरणमर्हतीत्यर्थः ॥—तदाच्छादनमिति । वासःखण्ड इत्यर्थः ॥ अन्ये लाहुः अकार्यशब्देभ्यः करोति स क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेन अद्रष्टव्यलात्पुरुषलिङ्गं कौपीनम् । अस्पृश्यलात्तदाच्छादनमिति
Bālamanoramā
शालीनकौपीने अधृष्टाकार्ययोः - शालीन ।शालप्रवेशमर्हत्यधृष्ट॑ इति,कूपावतरणमर्हत्यकार्य॑मिति चाऽर्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् ।प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनरौपीनशब्दौ निपात्येते॑ इति भाष्यम् । अधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्यं पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसंबन्धात्तदाच्छादनवस्त्रखण्डै कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः ।
SK 1822 · A 5.2.21V
व्रातेन जीवति ॥ १८२२ ॥
vrātena jīvati
Siddhānta-kaumudī
व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥
Tattvabodhinī
alignment inferredNSP p. 305
—शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि त्रातशब्दो लोके संघातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थं इहोचित इति भावः
Bālamanoramā
व्रातेन जीवति - व्रातेन जीवति । व्रातशब्दात्तृतीयान्ताज्जीवतीत्यर्थे खञ्स्यादित्यर्थः । नानाजातीयानामलब्धजीवनद्रव्याणां भरवहनादिकष्टकर्मजीविनां सङ्घो — ब्राआतः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातमिति भाष्यम् । तादृशसङ्घावाचिनो व्रातशब्दात्तस्येद॑मित्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाह — शरीरायासेनेति ।
SK 1823 · A 5.2.22V
साप्तपदीनं सख्यम् ॥ १८२३ ॥
sāptapadīnaṃ sakhyam
Siddhānta-kaumudī
सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥
Tattvabodhinī
NSP p. 305
—साप्तपदीनम्—। योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति—सप्तभिः पदैरिति । पदमिह संभाषणं पादविक्षेपो वा । तद्धितार्थं द्विगुः । अवाप्यत इत्यर्थं खन्
Bālamanoramā
साप्तपदीनं सख्यम् - साप्तपदीनम् । सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः ।
SK 1824 · A 5.2.23V
हैयंगवीनं संज्ञायाम् ॥ १८२४ ॥
haiyaṃgavīnaṃ saṃjñāyām
Siddhānta-kaumudī
ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥
Tattvabodhinī
alignment inferredNSP p. 305
—हैयंगवीनम्—॥—ह्योगोदोहस्येति । गोदोहो गोदोहः षष्ठीसमासः । तेन सह ह्यसशब्दस्य ‘सुप्सुपा’ इति समासः । ततो विकारे अनुदात्तलक्षणस्यानोऽपवादः खन् । अत्र ह्यःशब्देन कालप्रत्यासत्तिर्विवक्षिता ॥—नवनीतमिति । यद्यपि वृत्तौ वृत्तमित्युक्तं तथैव चामरेणापि—‘तत्तु हैयंगवीनं यत् ह्योगोदोहोद्भवं वृत्तम्’ इत्युक्तम् । तथापि वृत्तशब्देन नवनीतमेव विवक्षितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम्
Bālamanoramā
हैयंगवीनं संज्ञायाम् - हैयङ्गवीनम् । ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे । तत्रोत्पन्नो गोदोहः=गोपयः-ह्रोगोदोहः । तस्मात्षष्ठन्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौहैयङ्गवीन॑मिति भवतिसंज्ञायामिति भाष्यम् । तदाह — ह्रोगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तुहैयङ्गवीनं घृत॑मिति दृश्यते ।तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत॑मित्यमरः ।
SK 1825 · A 5.2.24V
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥ १८२५ ॥
tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau
Siddhānta-kaumudī
पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥
Tattvabodhinī
NSP p. 305–306
—तस्य पाक—। पाकः परिणामः । मूलमुपक्रमः । ‘तस्येदम्’ इत्यणादिषु प्राप्तेष्वयमारम्भः । जाहचो जकारस्य प्रयोजनाभावान्नेत्वम् । पीलु कर्कन्धु शमी करीर कुवल वदर अश्वत्थ खदिर पील्वादिः ॥ कर्णं अक्षि नख मुख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ कर्णादिः ॥—मूलप्रहणमात्रमिति । एकादेशे खरितलप्रतिज्ञानादिति भावः
Bālamanoramā
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ - तस्य पाफमूले । 'पाकमूले' इति समाहारद्वन्द्वात्सप्तमी । पाकः=परिणामः । षष्ठन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात्ककारस्य नेत्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाऽभावान्नेत्संज्ञा ।
SK 1826 · A 5.2.25V
पक्षात्तिः ॥ १८२६ ॥
pakṣāttiḥ
Siddhānta-kaumudī
मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥
Tattvabodhinī
alignment inferredNSP p. 306
—पक्षतिरिति । प्रतिपत् पक्षिणां पक्षमूलं च ॥—तेन वित्तः—। वित्तः प्रतीतः । ‘वित्तो भोगप्रत्यययोः’ इति निपातनात् ‘रदाभ्यां निष्ठातो नः’ इति नत्वं न
Bālamanoramā
पक्षात्तिः - पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठन्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः ।
SK 1827 · A 5.2.26V
तेन वित्तश्चुञ्चुप्चणपौ ॥ १८२७ ॥
tena vittaścuñcupcaṇapau
Siddhānta-kaumudī
यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥
Tattvabodhinī
alignment inferredNSP p. 306
—लुप्तनिर्दिष्ट इति । ‘बुद्ध्याः प्रत्ययस्य’ इति वक्तव्ये पृथग्योगकरणात् ‘बुद्ध्’ इत्येतदनित्यमिति समाधानान्तरमप्याहुः ॥—नानाजाविति । नानो जकारो वृद्ध्यर्थः खरार्थश्च । ‘न सह’ इति प्रकृतिविशेषणं, न प्रत्ययार्थं इत्याशयेनाह —असहार्थं इत्यादि । यदि प्रत्ययार्थः स्यात्ततो ‘द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः’ इति सहार्थो गम्येत ‘न न सह’ अपि तु सहैवेति । तस्मात्प्रकृतिविशेषणम् । एतच्च व्याख्यानाल्लभ्यते ॥ यद्येवं सहेत्येव प्रत्ययोस्तु, विनन्नोः प्रतिषेधार्थत्वादिष्टसिद्धेः ‘विगर्दभरथकः’ इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिर्दृष्टैवेति । सत्यम् । क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत । विगतेन सह विकृतेन सहेति । तस्माद्यथोक्तमेव न्याय्यम् । एतच्च हरदत्तग्रन्थे स्पष्टम् ॥—स्वार्थं इति । अनिर्दिष्टार्थत्वादिति भावः
Bālamanoramā
तेन वित्तश्चुञ्चुप्चणपौ - तेन वित्तः । तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः=प्रसिद्धः । चस्य नेत्संज्ञेति । उपदेशे आदित्वाऽभावादिति भावः ।
SK 1828 · A 5.2.27V
विनञ्भ्यां नानाञौ नसह ॥ १८२८ ॥
vinañbhyāṃ nānāñau nasaha
Siddhānta-kaumudī
असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥
Bālamanoramā
विनञ्भ्यां नानाञौ नसह - वैः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत् । इदं च भाष्ये स्पष्यटम् ।
SK 1829 · A 5.2.28V
वेः शालच्छङ्कटचौ ॥ १८२९ ॥
veḥ śālacchaṅkaṭacau
Siddhānta-kaumudī
कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥
SK 1830 · A 5.2.29V
सम्प्रोदश्च कटच् ॥ १८३० ॥
samprodaśca kaṭac
Siddhānta-kaumudī
सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ।
vārttika
अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्
(वार्तिकम्) ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् ।
vārttika
गोष्ठजादयः स्थानादिषु पशुनामभ्यः
(वार्तिकम्) ॥ गवां गोगोष्ठम् ।
vārttika
संघाते कटच्
(वार्तिकम्) ॥ अवीनां सङ्घातोऽविकटः ।
vārttika
विस्तारे पटच्
(वार्तिकम्) ॥ अविपटः ।
vārttika
द्वित्वे गोयुगच्
(वार्तिकम्) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ।
vārttika
षट्त्वे षङ्गवच्
(वार्तिकम्) ॥ अश्वषङ्गवम् ।
vārttika
स्नेहे तैलच्
(वार्तिकम्) ॥ तिलतैलम् । सर्षपतैलम् ।
vārttika
भवने क्षेत्रे शाकटाशाकिनौ
(वार्तिकम्) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥
Tattvabodhinī
NSP p. 306–307
—संप्रोदश्च—। क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः । संकटं संहतम्, संवाध इत्यर्थः । प्रकटं प्रज्ञातम्, प्रकाशत इत्यर्थः । उत्कटं उद्भूतं, विकटं विकृतं, रूढशब्दाश्चैते कथंचिद्ध्युत्पाद्यन्ते ॥—अलावूतिलेत्यादि । एभ्यः पञ्चभ्यो रजस्यभिधेये कटच् प्रत्ययो भवति । रजसो विकारलाद्विकारे प्रत्ययानामपवादोऽयम् ॥—अलावूकटमिति । ‘ओरञ्’ ‘मयङ्कैतयोः’ इति मयङ्केह प्राप्तः ॥—तिलकटमिति । ‘असंज्ञायां तिलयवाभ्यां’ इति मयद्प्राप्तः ॥ उमाशब्दाद् घृतादिलादन्तोदात्तात् ‘अनुदात्तादेश्व-’ इत्यञ्, ‘उमोर्णयोर्वा’ इति वुश्च प्राप्तः ॥ भङ्गाशब्दात् ‘तृणधान्यानां च ध्रवाम्’ इत्याद्युदात्तलादण्मयङ्का प्राप्त इत्येवं यथासंभवं प्रत्ययप्राप्तिरूह्या ॥ हरदत्तस्तु तिलशब्दस्य घृतादिलादन्तोदात्तलमङ्गीकृत्य ततः ‘अनुदात्तादेश्व’ इत्यञ्, ‘असंज्ञायां तिलयवाभ्याम्’ इति मयङ्का प्राप्त इत्याह, तत्र तिलशब्दस्य घृतादिलकल्पने वीजं चिन्त्यम् । ‘तृणधान्यानां च ध्रवाम्’ इति फिट्सूत्रेणाद्युदात्तस्यैव न्याय्यत्वात् । ‘तिलाश्व मे’ इत्यत्र तथैव वेदे पाठाच्च ॥—गोष्ठजादय इति । ‘संघाते कटच्’ इत्यादीन्यस्यैव प्रपञ्चः । इहोभयत्रादिशब्दः प्रकारे ॥ —पशुनामभ्य इति । ‘पशुनामादिभ्यः’ इति भाष्ये प्रचुरः पाठः ॥—गवां स्थानमिति । ‘तस्येदम्’ इत्यत्रार्थे ‘सर्वत्र गोरजादिप्रसङ्गे’ इति यति प्राप्ते गोष्ठच् ॥—संघात इति । अप्रसृतावयवः समूहः संघातः । प्रसृतावयवस्तु विस्तारः । कटच्पटचौ द्वावपि सामूहिकानामपवादौ ॥—द्वित्वे इति । प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः ॥—उष्ट्रगोयुगमिति । द्वयं युगमित्यादिवद् ध्रवयवसंघातप्राधान्यादेकवचनम् । एवमप्रेऽपि ॥—नतमिति । नपुंसके भावे क्तः ॥—नमनमिति । नीचैस्त्वमित्यर्थः ॥—अवटीटमिति । नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः ॥ कथं तर्हि नासिकायां पुरुषे चावटीटशब्दस्य प्रयोग इत्यत आह—तद्योगादिति ॥—नेर्विडच्—। ‘नते नासिकायाः संज्ञायाम्’ इति वर्तते निशब्दानासिकाया नतेऽभिधेये विडज्विरीसचौ स्तः ॥—निविडमिति । तद्योगान्निविडा नासिका निविरीसा ॥ कथं तर्हि ‘निविडाः केशाः, निविडं वल्लम्’ इति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्रयोगानुरो- धेनेह सूत्रे ‘नते नासिकायाः—’ इति नानुवर्तत इति व्याचक्षते ॥—प्रकृतेरिति । निशब्दस्येत्यर्थः ॥—आदेशौ चेति । प्रत्ययौ तत्संनियोगेन यथासंख्यमिमावादेशौ च स्त इत्यर्थः ॥—चिकिनमिति । इनच्प्रत्ययसंनियोगेन चिकादेशः ॥—चिपिटमिति । पिटच्प्रत्ययसंनियोगेन चि इत्यादेशः ॥—क्लिन्नस्येति । चिल् पिल् इत्येतावादेशौ भवतो लक्ष्य प्रत्ययः ‘अस्य चक्षुषी’ इत्येतस्मिन्नर्थे ॥ चुल् चेति । चाल्लप्रत्ययः ॥—चुल्ल इति । क्लिन्ने अस्य चक्षुषी इति पूर्वोक्त एव विग्रहः ॥ कथं तर्हि ‘स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी’ इत्यमर इति चेत् । अत्राहुः । पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्या ॥ अन्ये लाहुः—अस्य चक्षुषी इत्यत्र ‘अस्य’ इति न वक्तव्यम् । क्लिन्ने चक्षुषी चिल्ले पिल्ले पुरुषे तु मत्वर्थेच् । अर्शादिषु ‘स्वाङ्गादीनात्’ इति सूत्रितलादिति ॥—उपाधिभ्याम्—। संज्ञाधिकारादिह नियतविषयमासनारूढं गृह्यत इत्याशयेनाह—पर्वतस्येति । आसन्नं समीपम् । आरूढमुच्चस्थानम् ॥—उपत्यकेति । ‘प्रत्ययस्थात्—’ इतीत्वं तु न भवति, ‘त्यक्तनक्ष निषेधः’ इत्युक्तलात्
Bālamanoramā
सम्प्रोदश्च कटच् - संप्रोदश्च कटच् । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि । संकटं । संहतमित्यर्थः । निबिडीकृतमिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः । अलाबूतिलेति । अलाबू, तिल, उमा, भङ्गा-इत्येभ्यः षष्ठन्तेभ्योरजसिपशिनामभ्यः स्थानादिष्वर्थेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां प्रपञ्चनपराणिसङ्घाते कटजि॑त्यादीनिशाकटशाकिना॑वित्यन्तानि षड्वार्तिकानि । तेषु चतुर्षु 'पशुनामब्य' इत्यनुवर्तते । अप्रसृतावयवः समूहः-सङ्घातः ।प्रसृतावयवस्स्तु विस्तारः । द्वित्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः । वृषगोयुगमिति । द्व्यवयवकसङ्घामिताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थेवृषगोयुग॑मिति स्वभावादेकवचनं विंशतिरित्यादिवदित्याहुः । एवमुष्ट्रगोयुगम् । अआषङ्गवम् ।
Footnotes (NSP 1915 ed.)
NSP p. 307 १ पर्वतस्येति—‘समुद्रोपलका हैमी पर्वताधित्यका पुरी’ इत्यादौ तु लाक्षणिकः प्रयोगो बोध्यः । २ प्रमाणे द्वयसजिति—प्रमाणशब्देनायामपरिच्छेदकस्यैव ग्रहणमिति मते तु प्रस्थमात्रमित्याद्यसाध्वेवेति बोध्यम् ।
SK 1831 · A 5.2.30V
अवात् कुटारच्च ॥ १८३१ ॥
avāt kuṭāracca
Siddhānta-kaumudī
चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥
Bālamanoramā
अवात् कुटारच्च - अवात्कुटारच्च । क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः ।
SK 1832 · A 5.2.31V
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ॥ १८३२ ॥
nate nāsikāyāḥ saṃjñāyāṃ ṭīṭañnāṭajbhraṭacaḥ
Siddhānta-kaumudī
अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥
Bālamanoramā
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रह्वत्वे' इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः ।
SK 1833 · A 5.2.32V
नेर्बिडज्बिरीसचौ ॥ १८३३ ॥
nerbiḍajbirīsacau
Siddhānta-kaumudī
निबिडम् । निबिरीसम् ॥
Bālamanoramā
नेर्बिडज्बिरीसचौ - नेर्बिडज्विरीसचौ ।नते नासिकायाः संज्ञाया॑मित्यनुवर्तते । नेः-नासिकाया नतेऽर्थे बिडच्, विरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । 'निबिडा वृक्षा' इति तु उपमानादित्याहुः ।
SK 1834 · A 5.2.33V
इनच्पिटच्चिकचि च ॥ १८३४ ॥
inacpiṭaccikaci ca
Siddhānta-kaumudī
नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च ।
vārttika
कप्रत्ययचिकादेशौ च वक्तव्यौ
(वार्तिकम्) ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् ।
vārttika
क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी
(वार्तिकम्) ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ।
vārttika
चुल् च
(वार्तिकम्) ॥ चुल्लः ॥
Bālamanoramā
इनच्पिटच्चिकचि च - इनच्पिटच् । इनच् पिटजिति समामहाद्वन्द्वात्प्रथमैकवचनम् । 'चिकचि' इत्यपि चिक-चि-इत्यनयोः समाहाद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः । तत्र इनचि परे चिक इत्यादेशः । तत्र अकार उच्चारणार्थः । पिटचि तु परे चीत्यादेशः । कप्रत्ययेति । उक्तनेः कप्रत्ययः, प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्तः एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेश्चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेश्चीत्यादेशे रूपम् । चिक्कमिति । कप्रत्यये नेश्चिकादेशे रूपम् । क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल् पिलिति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दादस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेश्चिल् पिल् एतावादेशौ स्त इत्यर्थः । क्लिन्ने इति । नेत्राऽ.ञमयप्रयुक्तजलनिष्यन्दवतीइत्यर्थः । चिल्ल पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल्चेति । उक्तविषये क्लिन्नस्य चुल् आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् । उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं=समीपम् । आरूढम्ुच्चम् । अनुवर्तत इति । 'नते नासिकायाः' इत्यस्मादिति भावः । कस्य समीपं, कस्योच्चमित्याकाङ्क्षायां संज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह — पर्वतस्येति । उपत्यका, अधित्यकेति । स्त्रीत्वं लोकात् । अत्रप्रत्ययस्था॑दिति इत्त्वं तु न,त्यकनश्चे॑त्युक्तेः ।
SK 1835 · A 5.2.34V
उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ १८३५ ॥
upādhibhyāṃ tyakannāsannārūḍhayoḥ
Siddhānta-kaumudī
संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥
SK 1836 · A 5.2.35V
कर्मणि घटोऽठच् ॥ १८३६ ॥
karmaṇi ghaṭo'ṭhac
Siddhānta-kaumudī
घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥
Tattvabodhinī
NSP p. 307
—कर्मणि घटो—। सप्तम्यन्तात्कर्मनशब्दाद् ‘घटते’ इत्यर्थेऽठच् स्यात् ॥—कर्मठ इति । ‘ठस्येक’ इतीह न भवति । अठचि ठस्याप्रत्ययत्वेनाङ्गसंज्ञानिमित्तलाभावात् ॥—तारकितमिति । एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्याद्युदाहार्यम्
Bālamanoramā
कर्मणि घटोऽठच् - कर्मणि घटोऽठच् । सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति — कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः ।
SK 1837 · A 5.2.36V
तदस्य संजातं तारकादिभ्य इतच् ॥ १८३७ ॥
tadasya saṃjātaṃ tārakādibhya itac
Siddhānta-kaumudī
तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥
Bālamanoramā
तदस्य संजातं तारकाऽऽदिभ्य इतच् - तदस्य । प्रथमान्तेभ्यस्तारकादिभ्योऽस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । संजातनक्षत्रमित्यर्थः । आकृतिगणोऽयमिति । तेनपुष्पितो वृक्षः॒॑फलित॑ इत्यादिसंग्रहः ।
SK 1838 · A 5.2.37V
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ १८३८ ॥
pramāṇe dvayasajdaghnañmātracaḥ
Siddhānta-kaumudī
तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः ।
vārttika
द्विगोर्नित्यम्
(वार्तिकम्) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ।
vārttika
प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः
(वार्तिकम्) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ।
vārttika
वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम्
(वार्तिकम्) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥
Tattvabodhinī
NSP p. 307
—प्रमाणे द्वयसज्—। प्रमाणे विद्यमानात्प्रथमान्तात् ‘अस्य’ इति निर्दिष्टे प्रमेयेऽर्थे त्रयः प्रत्ययाः स्युः । प्रमाणमिह परिच्छेदकमात्रम् । तत्र मात्रच् । द्वयसच्द्वयचौ तूर्ध्वमान एव भवतः । ‘प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम’ इति भाष्यात् । ऊर्ध्वावस्थितेन येन मीयते तदूर्ध्वमानम् ऊर्वादि । तेन तिर्यज्जानादौ ‘दण्डद्वयसं क्षेत्रम्’ इत्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात् ॥ अत एव ‘द्विकाण्डा क्षेत्रभक्तिः’ इत्यत्र ‘द्वयसचो लुक्’ इति प्राचोक्तं नादर्तव्यमित्यवोचाम् ॥—प्रमाणे ल इति । लुक् एषा पूर्वाचार्यसंज्ञा । प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति—शमः । दिष्टिः । वितस्तिरिति । शमः प्रमाणमस्येत्यादिविग्रहः । एषु मात्रचो लुक्, इतरयोरसंभवात् । शमादीनामनूर्ध्वमानलात् ॥—द्विगोर्नित्यमिति । द्विगोरप्रमाणलात्तदन्तविध्यभावाच्च पूर्वेणाप्राप्तो लुग्विधीयते ॥ ननु विकल्पस्याप्रकृतलान्नित्यप्रहणमिह निरर्थकमिति चेत् । अत्राहुः । अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यते, ‘प्रमाणे लः’ इत्यस्य ‘प्रमाणे द्वयसच्’ इति यः पूर्वविधिस्तद्विषयलात्, एवं द्विगोरपि न लुप्येत । इष्यते च लुक् । द्वौ शमौ स्यातां न वा द्विशम इति । तथा चाधिकसंग्रहार्थं नित्यप्रहणमिति ॥ अत्र केचिद् ‘द्विगोर्लः’ इत्युक्तेऽपि पुनर्लग्नहणं नित्यार्थमधिकसंग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थं नित्यप्रहणमित्याहुः ॥—शममात्रमित्यादि । शमः स्यान्न वेत्यादिविग्रहः
Bālamanoramā
प्रमाणे द्वयसज्दघ्नञ्मात्रचः - प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद्द्वयसच्, दघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्रप्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् । प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः ष । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणमिति शब्देन्दुशेखरे विस्तरः । प्रमाणे ल इति । लुको 'ल' इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । रामः प्रमाणमस्येत्यादिविग्रहः । शमादयोऽनूद्र्धमानविशेषाः, तेभ्यो मात्रचो लुक्, इतरयोरसंभवात् । अत्रआयामस्तु प्रमाणं स्यादि॑त्येव गृह्रते । एवंच ऊरुद्वयसमित्यादौ न लुक् । द्विगोर्नित्यमिति । प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः । प्माणान्तस्य द्विगोः प्रमाणाऽवृत्तित्वात्सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाऽभावात् । द्विशममिति । तद्धितार्थे द्विगुः । ततो मात्रचोऽनेन लुक् । विकल्पस्याऽप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच न लुप्येतेति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावाचिनश्य संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्रते,आयामस्तु प्रमाणं स्यादि॑ति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान्न वेत्यादिर्गविग्रहः ।वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।
SK 1839 · A 5.2.38V
पुरुषहस्तिभ्यामण् च ॥ १८३९ ॥
puruṣahastibhyāmaṇ ca
Siddhānta-kaumudī
पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥
Tattvabodhinī
NSP p. 307
—पुरुषहस्तिभ्यामण्च । ‘इनप्यनपत्ये’ इति प्रकृतिभावः । हस्ती प्रमाणमस्य हास्तिनम् ॥ अत्र काशिकायामुक्तं ‘द्विगोर्नित्यं लुक् द्विपुरुषमुदकम्’ इत्यादि ॥ व्याख्यातं च हरदत्तेन—यद्यपि ‘प्रमाणे लो द्विगोर्नित्यम्’ इत्यस्य नायमनुवदः, पुरुषहस्तिनोः शमादिवत्प्रमाणत्वेनाप्रसिद्धलात्, अत एव हि पुरुषद्वयसमित्यादौ ‘प्रमाणे लः’ इति लुक् न भवति । ‘तथाप्यपूर्वोऽत्र लुग्विधीयते’ इति ॥ एतच्चासंगतम् । ‘द्विगोर्नित्यं लुक्’ इत्यपूर्ववचनस्य मुनित्रयानुक्तलात् ॥ वस्तुतस्तु विधीयत इत्यस्यानुमीयत इत्यर्थः । अयं भावः । ‘द्विगोः’ ‘तद्धितलुकि’ इत्यनुवर्तमाने ‘पुरुषात्प्रमाणेऽन्यतरस्याम्’ इति कीचिद् कल्प्यते तदेव लुकमनुमापयतीति
Bālamanoramā
पुरुषहस्तिभ्यामण् च - पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।
SK 1840 · A 5.2.39V
यत्तदेतेभ्यः परिमाणे वतुप् ॥ १८४० ॥
yattadetebhyaḥ parimāṇe vatup
Siddhānta-kaumudī
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
Tattvabodhinī
NSP p. 307–308
—यत्तदेतेभ्यः—॥—यावानित्यादि । ‘आ सर्वनाम्नः’ इत्यात्वे ‘उगिदचाम्—’ इति नुम् ‘अलसन्तस्य च’ इति दीर्घः । हलङ्घादिलोपसंयोगान्तलोपौ । ‘प्रमाणे’ इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्कृतम् । तथा च वार्तिकम्—‘डावतोरर्थवैशेष्यान्निर्देशः पृथगुच्यते । मात्राग्रप्रतिधाताय भावः सिद्धेश्च डावतोः’ इति ॥ अस्यार्थः—इह शास्त्रे वतुपं विधाय तस्मिन् परे आत्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे तद्रीत्या निर्देशोऽयं डावताविति । विशेष्यत इति विशेषस्तस्य भावो वैशेष्यं तस्मात्, अर्थभेदादित्यर्थः । अर्थभेदस्तु ‘परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्’ इति प्रागेवोक्त इति भावः ॥ नन्वनयोरर्थभेदे सति यावानध्वा यावती रज्जुरित्यादि न सिद्ध्येत्, अत्र ह्यायाममात्रं गम्यते । यद्युपमानाद्भविष्यतीति ब्रूषे, तर्हि प्रमाणग्रहणमेवानुवर्त्यताम्, यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु । ये तु परिमाणे प्रयोगाः ‘यावान् धान्यराशिः’ इत्यादयः, त एवोपमानाद्भवन्तु तत्राह—‘मात्रादीति’ । ‘यत्तदेतेभ्यः—’ इति विशेषविहितो हि वतुप् सामान्यविहितान् मात्रजादीन् वाधेत । तेन तन्मात्रमित्यादि न स्यात् । परिमाणग्रहणे सति तु भिन्नोपाधिकलाद्भतुपः प्रमाणे विहितमात्रजादिभिः सह वाध्यवाधकभावो नेति भावः ॥ नन्वेवमपि वाधः स्यादेव । ‘प्रमाणे द्वयसच्’ इत्यत्र प्रस्थमात्रमित्यादिसिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितलानपायात् । तस्मात् ‘यत्तदेतेभ्यो वतुप् च’ इत्येव सूत्र्यताम्, मास्तु परिमाणग्रहणम्, अस्तु च प्रमाणे इत्यर्थाधिकारः, तेन यावती रज्जुर्यावान् धान्यराशिरित्यादिप्रयोगाः सर्वेऽप्युपचारं विनैव निर्वहन्तीत्यपरमनुकूलमत आह—‘भावः सिद्धश्चेति’ ॥—डावतोरिति पञ्चम्यन्तम् । अर्थभेदे सति वलन्तान्मात्रजादीनामुत्पत्तिः सिद्ध्यति । तत्परिमाणमस्य तावद्धान्यं राशीकृतम् । तावत्प्रमाणमस्य कुञ्चादेः, तावन्मात्रम् । यादृग्राशीकृतस्य धान्यादेर्दैर्घ्यं तादृशं कुञ्चादेरपीत्यर्थः । एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तलाद्वतुवन्तान्मात्रजादयो न स्युः । यस्य हि तावत्प्रमाणं तस्य तदपि प्रमाणम् । जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात् । एवं च तावच्छब्द एव प्रयुज्येत, न तु तावन्मात्रमित्यादि । अन्यथा तत्प्रमाणमस्य तन्मात्रम् । तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजादिभ्यः प्रत्ययमालाप्रसङ्गात्
Bālamanoramā
यद्तदेतेभ्यः परिमाणे वतुप् - यत्तदेतेभ्यः । तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दाद्वतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्यात्त्वम्, सुः,उगिदचामि॑ति नुम्,अत्वसन्तस्ये॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् ।
Footnotes (NSP 1915 ed.)
NSP p. 308 अवयवे इति—अवयवी चात्रानुरूतावयवभेदोऽपि समुदायः, तेन मुनित्रयं, बहुतयं यूथम्, उभये देवमनुष्या इति सिद्धम् ।
SK 1841 · A 5.2.40V
किमिदंभ्यां वो घः ॥ १८४१ ॥
kimidaṃbhyāṃ vo ghaḥ
Siddhānta-kaumudī
आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥
Tattvabodhinī
NSP p. 308
—किमिदंभ्याम्—॥—वतुप्स्यादिति । वकारस्य घविधिसामर्थ्याद्वतुपमनुवर्त्य सोऽप्यत्र विधीयत इति भावः ॥ ‘अङ्गोः परस्य’ इत्येव सिद्धे ‘वः’ इति वचनमादेशप्रतिपत्त्यर्थम् । इतरथा घं प्रत्ययान्तरं विज्ञायेत ॥—कियानिति । ‘इदंकिमोरीश्की’ । ‘यस्येति च’ इति लोपः ॥—इयानिति । ईशादेशस्य ‘यस्य’ इति लोपे प्रत्ययमात्रमवशिष्यते । पठन्ति च—उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते को हृदा पण्डितोऽपि ॥ वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः
Bālamanoramā
किमिदंभ्यां वो घः - किमिदंभ्यां वो घः । तदस्येति, परिमाणे वतुविति चानुवर्तते । तदाह — आभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम्अस्य तत्परिमाण॑मित्यर्थे वतुप्स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दाद्वतुप् । उपावितौ । वकारस्य घकारः । इयादेशः । किम् इयत् इति स्थिते 'इदङ्किमोरीश्की' इति किमः कीभावेयस्येति चे॑ति ईकारलोपे कियच्छब्दात्सौउगिदचा॑मिति नुमि अत्वसन्तस्ये॑ति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद्वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थितेइदङ्किमोरीश्की॑ति शित्त्वादिदम ईकारे सर्वादेशेयस्येति चे॑ति ईकारस्य लोपे इयदिति प्रत्ययमात्रं शिष्यते । ततः सौ नुमादि पूर्ववत् ।
SK 1842 · A 5.2.41V
किमः संख्यापरिमाणे डति च ॥ १८४२ ॥
kimaḥ saṃkhyāparimāṇe ḍati ca
Siddhānta-kaumudī
चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥
Tattvabodhinī
NSP p. 308
—किमः संख्या—। ‘तदस्य—इत्यनुवर्त्तत एव । संख्यायाः परिमाणं परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्त्तमानात्किमः प्रथमासमर्थादस्येति षष्ठ्यर्थं डतिः स्यात् ॥ संख्यापरिमाणे किम् । क्षेपे माभूत् । का संख्येयमेषां दशानाम् । ‘अत्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्वं न विद्यते’ इत्येवं संख्येयद्वारेणात्र संख्यायाः कुत्सा वोध्या
Bālamanoramā
किमः संख्यापरिमाणे डति च - किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं=परिच्छेदः । किंशब्दःप्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सङ्ख्या परिच्छेदविषयकप्रश्ने विद्यमानात्कशब्दात्प्रथमान्तादस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति,अस्ये॑त्यनेन एकत्वस्य, अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नाऽसम्भवात् । का सङ्ख्या एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् । उक्तं च भाष्ये — ॒न द्व्येकयोः प्रश्नोऽस्ती॑ति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दोडति चे॑ति षट्संज्ञकत्वात्षड्भ्यो लु॑गिति जश्शसोर्वुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । 'सङ्ख्यापरिमाणे' इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति ।दशाऽवरा परिष॑दित्यत्र ब्राआहृणब्राउवाणां मेलने इदं वाक्यं प्रवृत्त्म् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्साऽत्र गम्यते,अव्रतानाममत्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्त्वं न विद्यते ।॑ इति स्मरणात् ।
SK 1843 · A 5.2.42V
संख्याया अवयवे तयप् ॥ १८४३ ॥
saṃkhyāyā avayave tayap
Siddhānta-kaumudī
पञ्चावयवा अस्य पञ्चतयं दारु ॥
Tattvabodhinī
NSP p. 308
—संख्याया—। अवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात्षष्ठ्यर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः । ‘अस्य’ इत्यधिकारात् ॥ यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् ॥—त्रयमिति । ननु ‘त्रयोऽवयवाः तन्तवो यस्य त्रयं सूत्रम्’ इति प्रयोगे संभवत्यपि ‘मुनित्रयम्’ इति प्रयोगो न संगच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः । अवयवी त्वत्र समुदाय एव ॥ स चातिरिक्तो वाऽनतिरिक्तो वेति विचारान्तरम् ॥ एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकलमस्त्येवेति
Bālamanoramā
संख्याया अवयवे तयप् - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।
SK 1844 · A 5.2.43V
द्वित्रिभ्यां तयस्यायज्वा ॥ १८४४ ॥
dvitribhyāṃ tayasyāyajvā
Siddhānta-kaumudī
द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
Bālamanoramā
द्वित्रिभ्यां तयस्यायज्वा - द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपोऽयचिःयस्येति चे॑ति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवम् त्रयम् ।
SK 1845 · A 5.2.44V
उभादुदात्तो नित्यम् ॥ १८४५ ॥
ubhādudātto nityam
Siddhānta-kaumudī
उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥
Tattvabodhinī
NSP p. 308
—उभादुदात्तो नित्यम् । इह ‘चितः’ इत्यनेनैवान्तोदात्तत्वं सिद्धम् । सर्वोदात्तत्वं तु ‘अनुदात्तं पदमेकवर्जम्’ इति वचनाद्वाधितम् । न च हे उभयेति संवुच्यन्ते आमन्त्रिताद्युदात्तत्वं वाधितुं वचनमिति शङ्क्यम् । पुरस्तादपवादन्यायेन चित्स्वरस्यैव वाध्यता, न लामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचनसामर्थ्यादादेरेवायम् । प्रयुज्यते च तथा ‘उभयं शृण्वन्न न’ इति । तदेतत्सकलमभिप्रेत्याह—स चेति
Bālamanoramā
उभादुदात्तो नित्यम् - उभादुदात्तो नित्यं । स चोदात्त इति । आद्युदात्त इत्यर्थः । अन्तोदात्तत्वस्य चित्त्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । अत्रअयच्प्रत्यय एव विधीयते, नतु तयप आदेशः॑ इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । 'तयप आदेश' इति मूलं तु वार्तिकानुरोधेन ।**** इति बालमनोरमायाम् पाञ्चमिकाः । ****अथ परस्मैपदप्रक्रिया ।अथ परस्मैपदव्यवस्थां निरूपयितुमुपक्रमते — शेषात्कर्तरीति ।