Prakaraṇa 16 · SK 532–646
कारकप्रकरणम्
kārakaprakaraṇam · 115 sūtras
SK 532 · A 2.3.46V
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ५३२ ॥
prātipadikārthaliṅgaparimāṇavacanamātre prathamā
prātipadikārthaliṅgaparimāṇavacanamātre prathamā — The first (prathamā) case-affix occurs when nothing more than (mātra) the bare stem-meaning (prātipadikārtha), gender (liṅga), measure (parimāṇa), or number (vacana) is to be conveyed.
Rule. The first case-ending is added when nothing more than the bare stem-meaning (prātipadikārtha), or nothing more than gender (liṅga), or nothing more than measure (parimāṇa), or nothing more than number (vacana) is to be conveyed. The word mātra "nothing more than" goes with each of the four separately. The stem-meaning is what presents itself as soon as the stem is uttered.
Example.
kṛṣṇa → only the stem-meaning "Kṛṣṇa" is to be conveyed → first case → kṛṣṇaḥ.
Likewise śrīḥ, jñānam, and the indeclinables uccaiḥ "high, aloud" and nīcaiḥ "low", which have no gender at all.
taṭa "bank" → this stem has no fixed gender; the only extra thing conveyed is the gender → first case → taṭaḥ / taṭī / taṭam.
droṇo vrīhiḥ "rice by the droṇa-measure" → the word droṇa conveys only a measure that delimits the rice → first case.
ekaḥ "one", dvau "two", bahavaḥ "many" → only number is conveyed → first case.
Applies when / blocked by. Words of fixed gender (kṛṣṇaḥ masculine, śrīḥ feminine, jñānam neuter) and genderless words illustrate "nothing more than the stem-meaning"; a word of unfixed gender such as taṭa illustrates "nothing more than gender". Vacana here means number (saṅkhyā). It is named separately because in ekaḥ, dvau, bahavaḥ the number is already conveyed by the word itself, so without this mention no case-ending would arise at all.
Watch out. The first case is not "the case of the subject". It is the case a word takes when no role of its own is left unexpressed. In hariḥ sevyate "Hari is served" (SK 537), hari is the object (karman); but that role is already expressed by the verb-ending, so hari takes the first case: nothing beyond its stem-meaning is left to convey.
Siddhānta-kaumudī
नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥
The prātipadikārtha (stem-meaning) is that which has fixed presentation
(niyatopasthitika) [upon utterance of the stem]. The word mātra (nothing but,
only) construes with each [of the four members] individually (pratyekam). The
prathamā occurs: when there is nothing but the prātipadikārtha; when there is a
preponderance of nothing but gender (liṅgamātrādhikya); when there is nothing but
measure (parimāṇamātra); and when there is nothing but number (saṅkhyāmātra).
Examples of "nothing but the prātipadikārtha": uccaiḥ ("high/aloud"); nīcaiḥ
("low"); kṛṣṇaḥ; śrīḥ; jñānam. Words that are genderless (aliṅga, e.g. the
indeclinables uccaiḥ, nīcaiḥ) and words of fixed gender (niyataliṅga, e.g.
kṛṣṇaḥ masc., śrīḥ fem., jñānam neut.) are the illustration of "nothing but the
prātipadikārtha." But words of non-fixed gender (aniyataliṅga) illustrate
"preponderance of nothing but gender (liṅgamātrādhikya)": taṭaḥ (masc.) — taṭī
(fem.) — taṭam (neut.).
For "nothing but measure": droṇo vrīhiḥ ("rice [measured] by a droṇa"), meaning
"rice delimited (paricchinna) by the measure that has the form of a droṇa." When
the measure is the affix-meaning (pratyayārtha), the base-meaning (prakṛtyartha)
is a qualifier through the relation of non-difference (abheda-saṃsarga); whereas
the affix-meaning is a qualifier of vrīhi through the relation of
delimited-and-delimiter (paricchedya-paricchedaka-bhāva) — such is the
distinction (viveka).
"vacana" [in the sūtra] means number (saṅkhyā): ekaḥ ("one"); dvau ("two");
bahavaḥ ("many"). Here, since the [numerical] sense is already conveyed [by the
words eka etc.], the case-affix would otherwise not be obtained; [hence] "vacana"
[is mentioned, to enjoin the prathamā].
Tattvabodhinī
alignment inferredNSP p. 140–142—मात्रशब्दस्येति । तस्य चात्रावधारणमर्थः । ‘मात्रं कात्स्न्येऽवधारणे’ इत्यमरः ॥ प्रातिप-दिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रमित्येवकारेणास्वपदविग्रहः । समासस्तु मयूरव्यंसका-दिलाद्वोध्यः ॥—प्रत्येकमिति । द्वन्द्वान्ते श्रूयमाणत्वादिति भावः ॥ ननु वीरः पुरुष इत्यादावभेदसंसर्गस्याधिकस्य भाना- त्प्रथमा न स्यात् । न च ‘पूर्वापर’- इत्यादिना वीरशब्दस्य समासविधानं प्रथमोत्पत्तौ लिङ्गमिति वाच्यम् । द्वितीयायन्ता- नामपि वीरं पुरुषमानयेत्यादौ तद्विधानस्य चरितार्थलादिति चेन्न । संसर्गस्य वाक्यार्थत्वेन बहिरङ्गलात् प्रथमप्रवृत्तसं- स्कारवाधानुपपत्तेः पदसंस्कारपक्षस्यैवेहाभ्युपगमात् ॥ मात्रपदेन धर्माद्याधिक्ये प्रथमा न भवेत्तथापि लिङ्गपरिमाणग्रह- णालिङ्गाधिक्ये परिमाणाधिक्ये च भवेदेवेत्याह—लिङ्गमात्राधिक्ये इति । यद्यपि लिङ्गमात्रे परिमाणमात्र इत्येवाक्ष- रार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसंभवादिति तदाधिक्य इत्युक्तम् ॥—उच्चैरिति । पदलादिह रुलविसर्गौ भवतः । किं च अस्य प्रथमान्तलाद् ग्राम उच्चैस्तवस्वं, ग्राम उच्चैस्ते स्वमिति ‘सपूर्वायाः’- इति सूत्रेण तेमयादेशयोर्विकल्पसि- द्विरपि फलम् ॥—कृष्ण इति । यद्यपि नीलद्रव्येऽयमनियतलिङ्गः, तथापि वासुदेवे भगवति नियतपुंलिङ्ग इति भावः ॥—ज्ञानमिति । भावे ल्युट् ॥—तटः तटी तटमिति । द्विकपक्षे नियतलिङ्गं न प्रकृत्यर्थः, त्रिकपक्षे तु यद्यपि प्रकृत्यर्थः, तथापि तत्तलिङ्गस्य पाक्षिकोपस्थितिकलात्र प्रातिपदिकार्थेत्यनेन गतार्थता ॥—द्रोण इति । न चेह प्रातिपदिकार्थमात्र इत्येव प्रथमास्त्विति वाच्यम् । तथा सति परिच्छेदपरिच्छेदकभावस्य संसर्गविधया भानायोगात् । नामार्थयोरभेदसंसर्गस्य व्युत्प- न्नलात् ॥—ब्रीहिरिति । जातावेकवचनम् । व्यक्तिविवक्षायां तु द्रोणो ब्रीहय इति भवत्येव ॥—अभेदेनेति । न च प्रकृतिप्रत्ययार्थयोरभेदान्वयो दुर्लभः, पचति पाचकः औपगव इत्यादौ सर्वत्र भेदान्वयस्यैव दृष्टलादिति वाच्यम् । देवता- र्थकतद्धितादावभेदान्वयस्य दृष्टलात् । ऐन्द्रं हविरित्यत्र हि इन्द्रदेवताकं हविरिति बोधः सर्वैरेवाभ्युपगम्यत इति नास्ति शङ्कावसर इति भावः ॥—वचनं संख्येति । वाच्यवाचकयोरभेदाध्यवसायेन तथैव पूर्वाचार्याणां व्यवहारादिति भावः ॥—अप्राप्तौ वचनमिति । सूत्रे वचनग्रहणमित्यर्थः । वस्तुतस्तु सूत्रे मात्रग्रहणं व्यर्थम् । विशेषविहितैः ‘कर्मणि द्वितीया’- इत्यादिभिर्वाधितत्वेन कर्मादौ प्रथमाया अप्रवृत्तेः । ‘कर्मणि द्वितीया’ इत्यादिषु कर्मणि द्वितीयैव, कर्तृकरणयोस्तृतीयैव, नान्या विभक्तिरित्येवमर्थनियमाभ्युपगमात् । न च ‘कर्मण्येव द्वितीयां, कर्तृकरणयोरेव तृतीया, नान्यत्र’ इति प्रत्ययनिय- मपक्षे प्रथमाया अपि कर्मादौ प्रवृत्तिसंभवान्मात्रग्रहणमावश्यकमेवेति वाच्यम् । प्रत्ययनियमपक्षे हि प्रातिपदिकार्थं एव प्रथमा नान्यत्रेत्यर्थपर्यवसानात्कर्मादौ प्रथमाया अप्रवृत्तेः वचनग्रहणमपि व्यर्थम् । ‘न केवला प्रकृतिः प्रयोक्तव्या’ इति निषेधादेव प्रथमोत्पत्तिसिद्धेः । न चैवं ‘द्विशब्दाद्विशब्दाच्चैकवचनम्, एकशब्दाद्विवचनम्’ इत्येवमव्यवस्था स्यादिति वाच्यम् । अनन्वितार्थकविभक्तिप्रयोगापेक्षया अनुवादकविभक्तिप्रयोगस्य न्याय्यलात् ॥ गौर्वाहीक इतिवत् द्रोणशब्दस्य तत्परिमिते उपचारात् द्रोणो ब्रीहिरित्यपि सिद्धमिति मनोरमायां परिमाणग्रहणमपि प्रत्याख्यातम् ॥ नन्वस्मिन् पक्षे द्रोण- परिच्छिन्नाभिन्नो ब्रीहिरित्यभेदान्वयः । नामार्थयोरभेदान्वयात् । ‘परिमाणं प्रत्ययार्थः’ इति पक्षे तु द्रोणरूपं यत् परिमाणं तत्परिच्छिन्नो ब्रीहिरिति प्रत्ययार्थनामार्थयोरभेदान्वयस्तथा च फलभेदे कथं प्रत्याख्यानमिति चेत् । अत्राहुः—शाब्दवो- धप्रयुक्तं वैलक्षण्यमिहानादृत्य परिमाणग्रहणं प्रत्याख्यातम् । अत एव औपगवादौ ‘तस्येदम्’ इत्यनेनैवाणप्रत्ययसिद्धेः ‘तस्यापत्यम्’ इति सूत्रं किमर्थमित्याक्षेपः, मत्वर्थयेनिनैव सिद्धेः ‘परिवृतो रथः’ इत्यधिकारे ‘पाण्डुकम्बलादिनिः’ इतीनि- प्रत्ययविधानं किमर्थमित्याक्षेपश्च वक्ष्यमाणः संगच्छते । यदि तु सर्वत्रैव शाब्दवोधप्रयुक्तं वैलक्षण्यं स्वीक्रियते तर्हि ‘बाध- नार्थं कृतं भवेत्’ इति समाधानस्याणो बाधनार्थमितिप्रत्ययविधानमिति समाधानस्य च वैयर्थ्यापत्तेरिति ॥ ननु क्वचित् पञ्चकं प्रातिपदिकार्थः, क्वचित् त्रिकं, क्वचिद्विकं प्रातिपदिकार्थं इत्यादि व्यवहियते । त एते पक्षाः केषामभिमताः । कथं वामीषामुपपत्तिरिति चेत् ॥ अत्र व्याचख्युः । स्वार्थद्रव्यलिङ्गसंख्याकारकात्मकः पञ्चकं प्रातिपदिकार्थः, दधि मध्वित्यादौ विनापि विभक्तिं प्रातिपदिकादेव तावतामर्थानां प्रतीतेः । वृक्षौ वृक्षाः वृक्षं वृक्षेणेत्यादौ यद्यपि विभक्त्यन्वयेऽपि प्रती- यन्ते न इयता प्रकृत्यर्थलहानिर्योतकत्वेनैवोपयोगादिति भाष्यकारो मन्यते । आदितश्चतुष्कमिति कैयटः । ‘तत्रोपपदं सप्तमीस्थम्’ इत्यत्र चतुष्कपक्षे पञ्चकपक्षे वा प्रातिपदिकार्थं इत्यभिधानात् । आदितश्चिकमिति वृत्तिकारः । अन्वयव्यतिरे- काभ्यां संख्याकारकादेर्विभक्त्यर्थलनिश्चयात् । यद्यपि दधि मधु इत्यादौ विनापि विभक्तिं संख्या कारकं च प्रतीयते नेयता वृक्षौ वृक्षा इत्यादावपि विभक्त्यर्थत्वं हीयते । न हि गर्गा इत्यादौ विनापि यथा अपत्यं गम्यत इति तदपि प्रकृत्यर्थः । न चाविभरित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयत इति भेत्तेत्यादावपि कर्ता प्रकृत्यर्थं एवेति युज्यते वक्तुम् । अतस्त्रिकमेव प्रातिपदिकार्थः, संख्याकर्मादयस्तु विभक्त्यर्था इति ॥ लिङ्गं टावादिवाच्यमिति पक्षे आदितो द्विकमेवेत्यन्ये । तत्र स्वार्थो विशेषणम् । द्रव्यं विशेष्यम् । लिङ्गं स्त्रीत्वादि । संख्या एकत्वादिः । कारकं कर्मादि
Bālamanoramā
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा - तदेवंङ्याप्प्रातिपदिका॑दित्यधिकृत्य विहिताः स्वादिप्रत्ययाः सप्रपञ्चं निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थां दर्शयितुमुपक्रमते-प्रातिपदिकार्थ । ननुप्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः॑,प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं चेति त्रिकं प्रातिपदिकार्थः॑, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं संख्या चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिर्लिङ्गं सङ्ख्या कारकं चेति पञ्चकं प्रातिपदिकार्थः॑ इत्येते पक्षासरूपाणामेकशेष एकविभक्तौ॑स्त्रिया॑मित्यादिसूत्रेषु भाष्ये स्थिता मञ्जूषायां प्रपञ्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात्पृथग्ग्रहणं व्यर्थमित्यत आह — नियतेति । नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन्प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः । एवंच तटः तटी तटमित्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात्प्रातिपदिकार्थशब्देनाऽग्रहणात्पृथग्लिङ्गग्रहणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवान्वयभ्रमं वारयति — मात्रशब्दस्येति । प्रातिपदिकार्थश्च लिङ्गं च परिमाणं च वचनं चेति द्वन्द्वः । प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्र॑मित्यस्वपदविग्रहः । मात्रशब्दोऽवधारणे ।मात्रं कार्त्स्न्येऽवधारणे॑ इत्यमरः ।मयूरब्यंसकादयश्चेति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात्प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने, च प्रत्येकमन्यवय इत्यर्थः । वचनं सङ्ख्येति वक्ष्यति । ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे सङ्ख्यामात्रे च प्रथमेत्यनुपपन्नं, लिङ्गादीनां केवलानां प्रातिपदिकार्थं विना क्वाप्यनुपस्थितेरित्याशङ्क्य-॒अत एव बाधकाल्लिङ्गमात्रेऽधिके इति विवक्षित॑मित्यभिप्रेत्य व्याचष्टे — लिङ्गमात्राद्याधिक्ये इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदिकार्थमात्र #इत्यस्योदाहरति — उच्चैरित्यादि । नन्वव्ययेषुसामान्ये नपुंसक॑मिति नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च भानात्कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह — अलिङ्गा इत्यादि । 'अव्ययादाप्सुपः' इति सूत्रेआब्ग्रहणं व्यर्थमलिङ्गत्वा॑दिति भाष्योक्तरीत्याऽव्यये कस्यापि लिङ्गस्यानुपस्थ#इतिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्वस्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति तेषां नियतलिङ्गत्वात् अतस्तेषु लिङ्गनामपि प्रातिपदिकार्थान्तर्भावात्तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि 'कृष्णः पटः' 'कृष्णा पटी'कृष्णं वस्त्र॑मित्यादौ कृष्णशब्दस्त्रिलिङ्गः, तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नच प्रातिपदिक्तोक्तार्थे किं प्रथमयेति वाच्यम्, एकत्वादिसंख्याबोधार्थत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः 'अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । नचाऽव्ययात्प्रथमोत्पत्तेः फलाऽभावः 'अव्ययादाप्सुप' इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यं, पदत्वार्थं सुबुत्पत्तेरावश्यकत्वात् । तेन उच्चैरित्यादौ रुत्वविसर्गौउच्चैस्ते सम्यगुच्चारण॑मित्यादौ तेमयादिसिद्धिश्च भवति । अनियतेति । अनियतलिङ्गास्तु तटादिशब्दा लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थनन्तर्भावादित्यर्थः । तटः तटी तटमिति । 'तटं त्रिषु' इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो व्रीहिरिति । द्रोणः परिमाणविशेषः ।जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिरुआओ राजसर्षप उच्यते । गौरस्तु ते त्रयः, षट् ते यवो, मध्यस्तु ते त्रयः । कृष्णलः, पञ्च ते माषः, ते सुवर्णस्तु षोडश । बलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलद्वयं तु प्रसृतं, द्विगुणं कुडबं मतम् । चतुर्भिः कुडवैः प्रस्थः, प्रस्थाश्चत्वार आढकः । आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते । कुम्भो द्रोणद्वयं शूर्पः, खारी द्रोणास्तु षोडश । ॑ #इति स्मरणात् ।ब्राईहिरिति । जातावेकवचनंजात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् इति वचनात् । व्रीहिराशिरिति यावत् । नह्रेकस्या व्रीहिव्यक्तेद्र्रोणपरिमाणं संभवति । ननु द्रोणाख्यापरिमाणविशेषस्य व्रीहिव्यक्तेश्च कथमभेदान्वयः, धर्मधर्मिणोर्भेदादित्यत आह — द्रोणरूपमिति । तथाचाऽभेदान्वयवस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः ।ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियतपुंलिङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तुअस्त्रियामाढकद्रोणौ॑ इति द्विलिह्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धं । तत्क परिमाणग्रहणेनेति चेत्तत्राह — प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेणपरिमाणविशेषवाचिद्रोणशब्दात्स्वार्थे प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थंमात्रे इत्यनेन गतार्थता स्यात् । किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात्परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्भकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मकाऽभेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत्सामान्यपरिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरिति बोधः स्यात् । परिमाणसामान्यं न प्रतीयते । तदर्थमिह परिमाणग्रहणमित्यर्थः ।वचनं सङ्ख्येति । पूर्वाचार्यैस्तथा संज्ञाकरणादिति भावः । तथाच सङ्ख्यमात्रे प्रथमेति लभ्यते । नच लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये इतिवत्सह्ख्यामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यं, केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेकत्वद्वित्वबहुत्वानां केवलानां नियतोपस्थितिसत्त्वेन सङ्ख्यामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणांशे एको द्वौ बहव इत्युदाहृतम् ।ननु एको द्वौ बहव इत्यत्र एकत्वद्वित्वबहुत्वानां नियमनोपस्थित्या 'प्रातिपदिकार्थे ' इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — इहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन प्रथमाविभक्तेरप्राप्तौ तदर्थं वचनग्रहणमित्यर्थः । तथाच विभक्तिरिहानुवादिका शब्दसाधुत्वार्थं प्रयोज्या,न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः॑ इत्यनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्तं भाष्ये — ॒उक्तेष्वप्येकत्वादिषु प्रथमा॑ इति । मात्रग्रहणात्कारकाद्याधिक्ये प्रथमा न भवति । अत्रअर्थे प्रथमे॑त्येव सूत्रयितुमुचितमिति प्रौढमनोरमादौ प्रपञ्चितम् ।
prātipadikārthaliṅgaparimāṇavacanamātre prathamā — Thus (tad evam), the
sup-affixes enjoined under the adhikāra "ṅyāpprātipadikāt" (A 4.1.1) have now
been examined in full detail. Now, to display the arrangement of the specific
meanings (arthaviśeṣa-vyavasthā) of the seven vibhaktis from prathamā to
saptamī, he begins with "prātipadika[artha]."
Objection: [What is the prātipadikārtha?] On one view it is a dyad (dvika):
"the ground of application (pravṛttinimitta) and the individual (vyakti)"; on
another a triad (trika): "pravṛttinimitta, vyakti, and gender (liṅga)"; on
another a tetrad (catuṣka): adding number (saṅkhyā); on another a pentad
(pañcaka): adding the kāraka. These positions are laid down in the Bhāṣya on the
sūtras "sarūpāṇām ekaśeṣa ekavibhaktau" (A 1.2.64), "striyām," and the like, and
are elaborated in the Mañjūṣā. Now, on the triad-and-higher views, since gender
too is a prātipadikārtha, its separate mention [in the sūtra] would be
purposeless; anticipating this, [Bhaṭṭoji] says "niyata…" [i.e. his gloss
niyatopasthitikaḥ]. The analysis is: "that which has fixed presentation (niyatā
upasthitir yasya)" — meaning: that sense whose presentation regularly occurs when
a given stem is uttered is the meaning of that stem. And thus, in words of
non-fixed gender like taṭaḥ / taṭī / taṭam, since no gender is regularly present,
[gender] is not captured by the word "prātipadikārtha"; hence the separate
mention of "liṅga" is necessary — this is the point.
He wards off the mistaken notion that the word mātra construes only with the word
vacana, by [saying] "mātraśabdasya…." "prātipadikārtha and liṅga and parimāṇa and
vacana" is a dvandva; and "precisely prātipadikārtha, liṅga, parimāṇa, and vacana"
= prātipadikārthaliṅgaparimāṇavacanamātra — an analysis using words not present in
the compound (asvapada-vigraha). The word mātra is in the sense of restriction
(avadhāraṇa): "mātra [means] entirety (kārtsnya) [and] restriction," says the
Amara[kośa]. It is an obligatory compound (nitya-samāsa) by "mayūravyaṃsakādayaś
ca" (A 2.1.72). Since the word mātra is heard at the end of the dvandva, it
construes individually with prātipadikārtha, liṅga, parimāṇa, and vacana — this
is the meaning. That "vacana means saṅkhyā" he will state below.
Objection: "The prathamā when there is nothing but prātipadikārtha, nothing but
gender, nothing but measure, nothing but number" is untenable, since bare gender
and the rest, apart from the prātipadikārtha, are never present anywhere.
Anticipating this — [with the sense] "precisely because of the blocker (bādhaka),
what is intended is 'when nothing but gender is in excess (liṅgamātre 'dhike)'" —
he explains, [saying] "liṅgamātrādyādhikye": meaning, when there is excess of
nothing but gender, and excess of nothing but measure. [The prathamā is a general
rule that the specific case-rules would block whenever a kāraka etc. is present;
hence it applies only where nothing beyond gender / measure / number stands in
excess of the stem-meaning.]
He illustrates "nothing but the prātipadikārtha" with "uccaiḥ" etc. Objection: By
"avyayeṣu sāmānye napuṃsakam" [the neuter for the general sense in indeclinables],
and since masculinity is apprehended in the word kṛṣṇa, femininity in the word
śrī, and neuterness in the word jñāna, how are these examples of the [bare]
prātipadikārtha? Anticipating this he says "aliṅgāḥ" etc. By the manner stated in
the Bhāṣya on the sūtra "avyayād āp supaḥ" (A 2.4.82) — "the mention of āp there is
purposeless because [indeclinables] are genderless (aliṅgatva)" — no gender is
present in an indeclinable; hence an indeclinable is an example of "nothing but the
prātipadikārtha." In the word kṛṣṇa masculinity, in śrī femininity, and in jñāna
neuterness are regularly apprehended, because they are of fixed gender; hence in
them, gender too being included within the prātipadikārtha, their being examples of
"nothing but the prātipadikārtha" is unobstructed — this is the point. Although in
"kṛṣṇaḥ paṭaḥ," "kṛṣṇā paṭī," "kṛṣṇaṃ vastram" and the like the word kṛṣṇa is of
three genders, nevertheless here the word kṛṣṇa referring to the Lord (bhagavat)
alone is intended [and is thus of fixed masculine gender] — this is the point.
Nor should it be said, "when the meaning is [already] expressed by the stem, what
use is the prathamā?" — because [the prathamā] serves to convey number such as
singularity (ekatva). Nor should it be said, "the arising of the prathamā from an
indeclinable is fruitless, since the luk-elision [of the sup] by 'avyayād āp supaḥ'
inevitably applies" — because the arising of the sup is necessary for the sake of
pada-hood (padatva). Thereby, in "uccaiḥ" etc. the ru- and visarga-substitutions
take place, and in "uccaiste samyaguccāraṇam" and the like the [resultant sandhi]
forms are established.
"aniyata…" — words of non-fixed gender, like taṭa, are the illustration of
"preponderance of nothing but gender," since there, gender being of non-fixed
presentation, it is not included within the prātipadikārtha. "taṭaḥ taṭī taṭam" —
"taṭa in [all] three [genders]," says the Amara[kośa]. "parimāṇamātre" — meaning:
the example will be stated. "droṇo vrīhiḥ" — a droṇa is a specific measure. As is
remembered in the smṛti: "that [minute mote] resting in a sunbeam through a
lattice is called a trasareṇu; eight of those [make] a likṣā; three of those are
called a rājasarṣapa; three of those a gaura[sarṣapa]; six of those a yava; three
of those a madhya, [then] a kṛṣṇala; five of those a māṣa; sixteen of those a
suvarṇa; four — or, it is also declared, five — suvarṇas [make] a bala; two palas
[make] a prasṛta; twice that is held to be a kuḍava; by four kuḍavas [is made] a
prastha; four prasthas an āḍhaka; by four such āḍhakas [what] is called a droṇa;
two droṇas [make] a kumbha, [i.e.] a śūrpa; sixteen droṇas a khārī."
"vrīhiḥ" [singular] — the singular is used in the generic sense (jāti), by the
statement "jātyākhyāyām ekasmin bahuvacanam anyatarasyām" (A 1.2.58) [optionally
plural for a generic in the singular]. It amounts to "a heap of rice
(vrīhirāśi)"; for the measure of a droṇa is not possible for a single rice-grain
(vrīhi-vyakti). Objection: How can there be construal by non-difference
(abhedānvaya) between the specific measure called droṇa and the rice-substance,
since property and property-bearer (dharma-dharmin) are distinct? Anticipating
this he says "droṇarūpam." And so, precisely because construal by non-difference
is blocked, the droṇa-measure and the rice-substance are admitted to construe
through the delimiter-relation (paricchedaka-bhāva); hence the stated fault does
not arise.
Objection: If the word droṇa, denoting a specific measure, is of fixed masculine
gender, then [the prathamā] is established simply by "nothing but the
prātipadikārtha"; but if, by "astriyām āḍhakadroṇau" [āḍhaka and droṇa are
non-feminine, hence of two genders], it has two genders, then it is established
simply by "preponderance of nothing but gender." So what is the use of mentioning
"parimāṇa"? To this he says "pratyayārthe parimāṇe." For it is not that the
prathamā is desired, in its own meaning (svārtha), from the word droṇa denoting
the specific measure under the form of droṇa-hood — such that it would already be
covered by "nothing but the prātipadikārtha." Rather, the prathamā is enjoined
from the word droṇa — which denotes the measure under the form of droṇa-hood —
when the droṇa-measure is intended under the general form of measure-hood
(parimāṇatva-sāmānya-rūpa). And so, within the affix-meaning, which is
measure-in-general, the base-meaning (prakṛtyartha) — the specific measure denoted
by the word droṇa — construes through a non-difference relation that is of the
nature of general-and-particular (sāmānya-viśeṣātmaka-abheda-saṃsarga); whereas
the affix-meaning, being of the nature of measure-in-general, construes with vrīhi
through the delimited-delimiter relation. And thus the cognition results: "rice
delimited by the general measure that consists in the specific measure called
droṇa." Otherwise [without construing measure-in-general] the cognition would be:
"rice delimited by the specific measure called droṇa" — [and then]
measure-in-general would not be cognized. For that [purpose] "parimāṇa" is
mentioned here.
"vacana means saṅkhyā" — because the ancient teachers (pūrvācārya) so framed the
technical term. And thus one obtains "the prathamā when there is nothing but
number." Objection: Why is it not explained as "excess of nothing but number
(saṅkhyāmātrādhikya)," like "excess of nothing but gender" and "excess of nothing
but measure"? — Because, while bare gender and bare measure are never present
anywhere [and so require the "excess" reading], in the words eka, dvi, bahu bare
singularity, duality, and plurality are of fixed presentation, so it is proper to
explain it precisely as "nothing but number." For this very reason, on the portion
mentioning "vacana," the Bhāṣya gives as examples "ekaḥ, dvau, bahavaḥ."
Objection: In "ekaḥ, dvau, bahavaḥ," since singularity etc. are of fixed
presentation, [the prathamā] is established simply by "prātipadikārthe," so
mentioning "vacana" is purposeless. Anticipating this he says "iha." Since
singularity etc. are already expressed by the bases (eka, dvi, bahu) themselves,
the prathamā would not be obtained, by the maxim "uktārthānām aprayogaḥ" (what is
already expressed is not [again] employed); to secure it, "vacana" is mentioned.
And so the case-affix here is to be employed as a mere restatement (anuvādikā),
for the sake of the correctness of the word (śabda-sādhutva), by the maxim
established in the Bhāṣya on the "anabhihite" sūtra (A 2.3.1): "neither a bare base
is to be used, nor [a bare] affix." With just this intent it is said in the
Bhāṣya: "the prathamā [applies] even when singularity etc. are [already]
expressed." By the mention of "mātra," when there is excess of a kāraka and the
like, the prathamā does not occur. It would have been proper to compose the sūtra
simply as "arthe prathamā" — this is elaborated in the Prauḍhamanoramā and
elsewhere.
Footnotes (NSP 1915 ed.)
NSP p. 141 १ परिमाण इति—परिमाणशब्देन च संख्याकालातिरिक्तं परिच्छेदकमात्रं गृह्यते, व्याख्यानात् । तेन पलं दृतमित्यादावपि प्रथमेति केचिदाहुः । एतत्सूत्रव्याख्यानं तु विस्तरशो बृहच्छेखरतोऽवगन्तव्यम् । २ परिच्छेदपरिच्छेदकमावेनेति—नचैवं द्रोणो व्रीढिमानयेत्यस्य साधुतापत्तिरिति वाच्यम्, प्रातिपदिकार्थादिसाहचर्येण नास्त्रोः संबन्धे समानविभक्तिकनामान्तरार्थान्वय एव परिमाणे प्रथमायाः साधुत्वबोधनात् ।
NSP p. 142 १ संबोधने चेति—संबोधनं चाभिमुखीकृत्य अज्ञातार्थविषयकज्ञानानुकूलव्यापारानुकूलो व्यापारः, संबोध्यत्वं च तल्लापारजन्य-ज्ञानानुकूलव्यापाराश्रयत्वम् । २ तमप्य्रहणं किमिति—अवयवद्वारा समुदायस्य प्रश्नः, कर्तुरुद्देश्यं कर्मेत्येवास्तु इति भावः ।
translator notes
- textual The smṛti verse on measures is somewhat corrupt in the source: the step "madhyas tu te trayaḥ kṛṣṇalaḥ" is compressed, and "bala"/"pala" fluctuate (four/five suvarṇas → a bala, then two palas → a prasṛta). The measure-chain trasareṇu → likṣā → sarṣapa → yava → kṛṣṇala → māṣa → suvarṇa → … → kuḍava → prastha → āḍhaka → droṇa → kumbha/khārī is rendered as transmitted, without emendation; its internal arithmetic is not load-bearing for the grammatical point (that droṇa is a parimāṇa).
- translator "striyām," cited alongside "sarūpāṇām ekaśeṣa ekavibhaktau" (A 1.2.64) as a locus of the prātipadikārtha discussion in the Bhāṣya, is left unnumbered: secure identification of the intended sūtra is not certain here.
SK 533 · A 2.3.47V
सम्बोधने च ॥ ५३३ ॥
sambodhane ca
sambodhane ca — 2.3.47 — And [the first case-ending, prathamā, occurs] in [the sense of] address (sambodhana) as well.
Rule. The first case-ending is also added in address (sambodhana), when someone is called.
Example.
rāma → used to call Rāma → first case → he rāma "O Rāma!".
With this the first case is finished.
Siddhānta-kaumudī
इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥
Here [in the sense of address as well] the prathamā (first case-ending)
occurs. he rāma ("O Rāma!"). — Thus [ends the treatment of] the prathamā.
Tattvabodhinī
NSP p. 142—संबोधने च । मात्रप्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थं एव प्रथमेति नियमाद्वा संबोधनाधिक्येऽप्राप्तावस्थारम्भः । इह संबोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रियां प्रति विशेषणम् । तथा च ‘ब्रजानि देवदत्त’ इत्यादौ ‘एकतिङ्वाक्यम्’ इति वाक्यत्वे सिद्धे ‘आमन्त्रितस्य च’ इति निधातो भवति । क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्ध्येत् । ‘समानवाक्ये निधातयुष्मदसदादेशावक्तव्याः’ इति वार्तिकात् । तथा चोक्तम्—‘संबोधनपदं यच्च तत् क्रियायां विशेषणम् । ब्रजानि देवदत्तेति निधातोऽत्र तथा सति’ इति । एवं च राम मां पाहीति वाक्यस्य रामसंवन्धिसंबोधनविषयो मत्कर्मकं रक्षणमर्थः । ब्रजानि देवदत्तेत्यत्रतु देवदत्तसंवन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः ॥ इति प्रथमा
Bālamanoramā
सम्बोधने च - संबोधने च । इहेति । संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः । संबोधमभिमुखीकृत्य ज्ञापनम् । हे रामेति ।मां पाही॑ति शेषः । इह रामं प्रति मद्रक्षणं ज्ञाप्यम् । नचहे राजन्सार्वभौमो भव॑ इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात् । श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा । ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः । [इति प्रथमा] ।
sambodhane ca — sambodhane ca. "iha" ("here"): the meaning is that even
when address (sambodhana) is understood as an additional sense (adhika), the
prathamā occurs. Sambodhana is making [someone] face toward [one] and
informing (jñāpana). "he rāma" — "mā pāhi" ("protect me") is to be supplied;
here, toward Rāma, "my protection" is what is to be conveyed.
Objection: In "he rājan sārvabhaumo bhava" ("O king, become an emperor"),
then, the prathamā in the sense of address should occur from the word
sārvabhauma too. Response: This should not be said, because address
(sambodhana) is only complete/correct informing (samyag-bodhana) — by the
force of the upasarga "sam." Only when the listener (śrotṛ) has been made
known [identified], being specifically distinguished by [some attribute] such
as kingship, can some matter be conveyed to him, and not otherwise. And
therefore it is obtained that this vocative case-ending (sambodhana-vibhakti)
has as its scope only what is being referred to as already known (anuvādya),
not what is being predicated as new (vidheya). And so, since the predicated
"emperorhood," being at present not established (asiddha), lacks the character
of an anuvādya, the address case-ending does not come from the word
sārvabhauma. The detailed [discussion] is in the Mañjūṣā.
[Thus the prathamā.]
SK 534 · A 1.4.23कारकसंज्ञा
कारके ॥ ५३४ ॥
kārake
kārake — 'In [the domain of] a kāraka.' This is an adhikāra (governing heading): the word kārake is carried forward into the following rules, within whose scope the kāraka-designations (kartṛ, karman, karaṇa, sampradāna, apādāna, adhikaraṇa) are then taught.
Rule. "Within a kāraka." This is an adhikāra, a heading. The word kārake is read into every rule that follows it here, so each name given below (karman, kartṛ, karaṇa, sampradāna, apādāna, adhikaraṇa) is given to a kāraka — a participant in the action. The rule forms nothing on its own.
Example.
kārake → carried into SK 535 → "the kāraka most desired by the agent is karman" → and so on through SK 632.
Siddhānta-kaumudī
इत्यधिकृत्य ॥
Having taken [the word kārake] as a governing heading (adhikāra) [the
kāraka-designation rules that follow proceed within its scope].
SK 535 · A 1.4.49कारकसंज्ञा
कर्तुरीप्सिततमं कर्म ॥ ५३५ ॥
karturīpsitatamaṃ karma
karturīpsitatamaṃ karma — 1.4.49. That kāraka which is most desired to be reached (īpsitatama) by the agent (kartṛ) [through the action] receives the designation karma (object).
Rule. The kāraka that the agent (kartṛ) most desires to reach through the action is named karman, object. The word īpsitatama means "most desired to be reached".
Example.
hari + bhaj "worship Hari" → Hari is what the worshipper most wants to reach → hari is named karman → (by SK 537) second case → hariṃ bhajati.
Applies when / blocked by. Why "of the agent"? In māṣeṣv aśvaṃ badhnāti "he ties the horse among the beans", the beans are what the horse wants, not what the agent wants; so māṣa is not karman and stands in the locative. Why the superlative -tama? In payasā odanaṃ bhuṅkte "he eats rice with milk", the rice is what he most wants; the milk only accompanies it and is not karman. The word karma is restated in this rule, although it is already carried forward, so that the word "locus" (ādhāra) from the preceding rules is not read in; otherwise the rule would reach only a locus, as in gehaṃ praviśati "he enters the house".
Siddhānta-kaumudī
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥
The kāraka most desired to be reached (āptum iṣṭatama) by the agent (kartṛ)
through the action (kriyā) receives the designation karma. Why "of the agent
(kartuḥ)"? [Consider] māṣeṣv aśvaṃ badhnāti — "he ties the horse among
the beans." The beans (māṣāḥ) are desired by the karma [i.e., the horse, the
object of the tying], not by the agent. Why the mention of "tama" [the
superlative in īpsita-tama]? [Consider] payasā odanaṃ bhuṅkte — "he eats
the rice with milk." Since "karma" is [already] carried forward by anuvṛtti,
the [renewed] mention of "karma" [in this sūtra] is for the purpose of
excluding [the anuvṛtti of] locus-support (ādhāra); otherwise it would apply
precisely in [a case like] gehaṃ praviśati — "he enters the house."
Tattvabodhinī
NSP p. 142—कर्तुरीप्सिततमं कर्म । कर्तुरिति ‘कृत्य च वर्तमाने’ इति कर्तरि षष्ठी । आप्नोतेः सन् द्वित्वम् ‘आप्इष्यृधामीत्’ ‘अत्र लोपोऽभ्यासस्य’ इत्यभ्यासलोपः ‘मतिवु- द्विपूजार्थैभ्यश्च इति वर्तमाने क्तः । मतिरिहेच्छा, न तु दुःखिः पुनर्वुद्धिग्रहणात् । ततः ‘अतिशायने तमविष्ट्वौ’ इत्यतिशये तमप् । एवं च कर्त्रामुमिष्यमाणतमं कर्मैत्यर्थः ॥ कर्ता च धातूपात्तव्यापाराश्रयः । स च केनामुमिच्छतीति करणाकाङ्क्षायां विशेषणीभूतेन व्यापारेणेत्यर्थाल्लभ्यते, तदाह—क्रिययेति । क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम् तेन कटं कृतवान् करिष्यतीत्यादि सिद्धम् ॥—कारकमिति । एतच्च ‘कारके’ इत्यधिकाराल्लभ्यते । तत्र हि व्यत्ययेन प्रथमार्थे सप्तमी । प्रतिसूत्रं वाक्यं भित्त्वा कारकसंज्ञाऽनेन विधीयते । तद्यथा अपाये ध्रुवं कारकसंज्ञं स्यात् । ततोऽपादानम् । उक्तं कारकमपादानं स्यात् । पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसंज्ञाभिः सह समावेशसिद्धिः । तेन स्तम्बेरम इत्यत्राधिकरणलात्सप्तमी । कारकलाद् ‘गतिकारकोपपदात् कृत्’ इति कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । अन्यथा ‘तत्पुरुषे तुल्यार्थ—’ इत्यादिना पूर्वपदप्रकृतिस्वरः स्यात् । नचात्रोपपदस्वरेणान्यथासिद्धिः शङ्क्या । ‘स्तम्बकर्णयोः’ इति निर्देशात् प्रातिपदिकस्योपपदत्वेऽपि सप्तम्यन्तस्यातथालात् । यद्यपीह थाथादिस्वरेणैवान्तोदात्तत्वं सिध्यति, तथाप्यप्रत्ययसाहचर्येण एरच एव तत्रोपादानान्नास्ति थाथादिस्वरेण तत्सिद्धिरित्याहुः ॥ अन्वर्था चेयं संज्ञा करोतीति कारकमिति । तेन ब्राह्मणस्य पुत्रं ‘पन्थानं’ पृच्छतीत्यत्र क्रियानन्वयिनो न भवति । ब्राह्मणो ह्यत्र पुत्रविशेषणं न तु क्रियान्वयीति ॥—पयसेति । भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वेऽपि ओदन एवात्र ईप्सिततमः, पयस्तु संस्कारकलात्करणम् । न ह्यसौ केवलपयसः पानेन संतुष्यति किं तु तत्संस्कृतेनौदनेन । यदा तु पय एव ईप्सिततममस्य भवति, तदा कर्मत्वं भवत्येव पयः पिवतीति ॥—कर्मैत्यनुवृत्ताविति । ‘अधिशीङ्ख्यासां कर्म’ इति सूत्रात्
Bālamanoramā
कर्तुरीप्सिततमं कर्म - कारके इत्यधिकृत्येति । 'संज्ञा वक्ष्यन्ते' इति शेषः ।क्रियाजनकं कारकं, करोति क्रियां निर्वर्तयती॑ति भाष्ये व्युत्पत्तिदर्शनात् ।ब्राआहृणस्य पुत्रं पश्यती॑त्यत्र ब्राआहृणस्याऽन्यथासिद्धत्वान्न कारकत्वम् । कर्तुरीप्सित । 'कारके' इत्यनुवृत्तं प्रथमया विपरिणम्यते । आप्तुमिष्यमाणम्-ईप्सितम् ।आप्लृ व्याप्तौ॑, अस्मात्सन्नन्ता॒न्मतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तः । मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अतिशयेनेप्सितमीप्सिततमम् । धातूपात्तव्याव्यापाराश्रयः कर्ता । केनाऽऽप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थाल्लभ्यते । तत्फलितमाह — कर्तुः क्रिययेत्यादिना । क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम् । तेन कटं करोति कृतवान् इत्यादौ नाव्याप्तिः । आप्तिः=संबन्धः । एवं च कत्र्रा स्वनिष्ठव्यापारप्योज्यफलेन संबन्द्धुमिष्यमाणमित्यर्थः । यतातण्डुलान्पचती॑त्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारोऽधिश्रयणोदकासेचनैधोऽपकर्षणप्रज्वलनादिरूप इति 'कारके' इत्यादिसूत्रभाष्ये स्पष्टम् । अत एवफलव्यापारयोर्धातु॑रिति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्य विक्लित्तिरूपफलाश्रयत्वात्तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम् । नच व्यापारलाभाय तदिति वाच्यं, केना प्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति — कर्त्तुः किमिति । माषेष्वआं वध्नातीति । माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यर्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थं कर्तृग्रहणमिति भावः । कर्तृ ग्रहणे कृते तुनोक्तदोष इत्याह — कर्मण #इति । बन्धनकर्मीभूतस्याआस्यैवात्र माषा ईप्सिता नतु बन्धनकर्तुः, अआरक्षणस्यैव तदपेक्षि तत्वादित्यर्थः । तमब्ग्रहणं किमिति । तमबन्धमीप्सिततममित्येतत्किमर्थं कर्तृरिद्देश्यं कर्मे॑त्येवास्त्विति प्रश्नः । पयसा ओदनं भुङ्क्ते इति । पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तुरोदन एव पयसा मिश्र उद्देश्यो, नतु केवलं पयो, नापि केवल ओदनः, नह्रसौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन । तथापि यदा भुक्तवानेन पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रमसाधनतया गुमत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन । अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि । तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । नच तमब्ग्रहणं किमर्थम्,कर्तुरीप्सितं कर्म॑ इत्येबास्त्विति वाच्यम्,अग्नेर्माणवकं वारयती॑त्यत्र मामवकस्यवारणार्थानामीप्सितः॑ इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति । प्रचीनैस्तु कैश्चित्, — ॒तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते॑ इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननुअधिशीङ्स्थासां कर्मे॑त्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह — कर्मग्रहणमाधारेति । अधिशीङित्यत्र हि आधार इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः । ननुहरिं भजती॑त्यादावसंभवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह — अन्यथेत्यादि । हरिं भजतीत्यादौ न स्यादित्येवकारार्थः ।
karturīpsitatamaṃ karma — "Having taken up 'kāraka' as a governing head
(adhikāra)…": "the designations (saṃjñā) will be stated" is to be supplied.
A kāraka is that which produces the action (kriyā-janaka), since the Bhāṣya
shows the derivation "karoti kriyāṃ nirvartayati" ("it does, it accomplishes
the action"). In brāhmaṇasya putraṃ paśyati ("he sees the brāhmaṇa's
son"), the brāhmaṇa [in the genitive] is not a kāraka, because it is
otherwise-established (anyathāsiddha) [its relation being carried by the
genitive with "son"].
kartur īpsita. "kāraka," carried forward by anuvṛtti, is transformed into
the nominative. īpsita = "that which is desired to be reached (āptum
iṣyamāṇa)." [From] √āp (āplṛ) "to pervade, reach (vyāpti)," from this
[root] with the desiderative affix san, the kta affix [is added] in the
present sense by "matibuddhipūjārthebhyaś ca" [A 3.2.188] ("kta occurs in the
present sense after roots meaning to think, to know, to honour"). Here "mati"
means "desire (icchā)," since "buddhi" is mentioned separately [in that
rule]. The genitive [in "kartuḥ"], denoting the agent, is by "ktasya ca
vartamāne" [A 2.3.67]. That which is desired in the highest degree
(atiśayena īpsita) is īpsitatama.
The agent (kartṛ) is the locus of the activity (vyāpāra) denoted by the root
(dhātu-upātta-vyāpāra-āśraya). To the expectancy "by what is it to be reached
(kena āptum)?", the answer "by the activity that qualifies the agent" is
obtained by sense (arthāt). He states the upshot of this with "kartuḥ
kriyayā…" etc. But the present-time reference conveyed by the kta affix is
not intended [in the definition]; hence there is no under-application
(avyāpti) in kaṭaṃ karoti / kṛtavān ("he makes / has made a mat")
and the like. āpti = "connection (saṃbandha)." And so the meaning is: "that
which the agent desires to connect with the result (phala) brought about by
the activity residing in himself (sva-niṣṭha-vyāpāra-prayojya-phala)." For
example, in taṇḍulān pacati ("he cooks the grains of rice"), the meaning
of √pac is the activity conducive to softening (viklitti-anukūla-vyāpāra).
viklitti is the softness-and-clarity (mṛdu-viśadatva) consisting in the
loosening of the constituent parts brought about by steaming with hot water;
the activity conducive to it — in the form of setting [the pot] on [the
fire], pouring in water, drawing near the fuel, kindling, and so on
(adhiśrayaṇa, udaka-āsecana, edho-'pakarṣaṇa, prajvalana, etc.) — is made
clear in the Bhāṣya on the sūtra "kārake" etc. For this very reason the
established doctrine (siddhānta) is "a root denotes both result and activity
(phala-vyāpārayor dhātuḥ)." And so the meaning is: "he softens the grains of
rice by the activity of setting-on-the-fire, etc." The object-status
(karmatva) of the grains of rice [obtains] because they are the locus of the
result in the form of softening (viklitti), which is brought about by the
agent's activity of setting-on-the-fire, etc.
Objection: the mention of "kartṛ" [in the sūtra] is purposeless. Nor can one
say it is [needed] for obtaining the activity (vyāpāra), because to the
expectancy "by what is it to be reached?" that [activity] is obtained from
the governing head "kāraka" (kāraka-adhikāra) itself. Thus he asks, "Why 'of
the agent'?" māṣeṣv aśvaṃ badhnāti — the meaning is: he ties [the horse]
elsewhere in order to turn it away from eating [the beans], out of fear of
stomach-ache, the horse being inclined to set about eating the beans. Here
the mention of "kartṛ" serves to exclude the object-status (karmatva) of the
beans. Once "kartṛ" is mentioned, the stated fault does not arise, [and so]
he says "karmaṇaḥ…": here the beans are desired by the horse itself — which
is the object of the tying (bandhana-karmī-bhūta) — not by the agent of the
tying, since it is the preservation of the horse alone that requires them.
"Why the mention of tamap [the superlative]?" The question is: to what
purpose "īpsitatama"? Let it just be kartur īpsitaṃ karma ("the object is
what the agent desires"). payasā odanaṃ bhuṅkte — the meaning is "mixed
with milk." Although here what the eater aims at is the rice mixed with milk
— not milk alone, nor rice alone, for he is satisfied neither by drinking
milk alone nor by rice alone — nevertheless, when, having eaten, he sets
about eating rice again out of a desire to get [more] milk, then this becomes
the counter-example. There, although milk alone is what is aimed at with
respect to the act of eating (bhuji-kriyā), still, with respect to the rice
which is the object of the eating, [the milk] as a mixed [ingredient] is
aimed at not qua instrument (asādhanatayā) but only qua qualifier (guṇa) —
not qua something to be eaten (bhojyatva). Hence there, because the milk is
aimed at qua qualifier and the rice qua that which is to be flavoured by it
(tat-saṃskārya), it is the rice alone that is most-desired (īpsitatama), not
the milk as well. Even for [the milk], the rice alone is most-desired [as
the end]; this [designation] has no application to qualifiers (guṇa) — this
is the purport.
Nor should one say: "to what purpose the mention of tamap? Let it be just
kartur īpsitaṃ karma." For, as established in the Bhāṣya on the present
sūtra, [the tamap] serves to exclude apādāna-status in agner māṇavakaṃ
vārayati ("he keeps the boy away from the fire"): there, by "vāraṇārthānām
īpsitaḥ" [A 1.4.27] ("with roots meaning 'to ward off,' the desired thing
[becomes apādāna]"), the boy (māṇavaka), being [merely] desired (īpsita) and
not most-desired (īpsitatama), [would be apādāna]. This will become clear on
the occasion of explaining the sūtra "vāraṇārthānām…" [A 1.4.27]. Some
earlier [scholars], however, explained the passage "Why tamap? — payasā
odanaṃ bhuṅkte" as concerned solely with the purpose of the mention of tamap.
They are to be disregarded, being contrary to the Bhāṣya.
Objection: since "karma" is carried forward by anuvṛtti from
"adhiśīṅsthāsāṃ karma" [A 1.4.46], the mention of "karma" here is purposeless.
To this he says "the mention of karma is for [excluding] ādhāra…": for in
"adhiśīṅ…" [A 1.4.46] the word "ādhāra" (locus-support) is carried forward
[from the preceding rule]. The mention of "karma" [here] is so that its
anuvṛtti should not carry over here too — this is the meaning. Objection: in
hariṃ bhajati ("he worships Hari") and the like, that anuvṛtti [of
ādhāra] will not arise anyway, from sheer impossibility. To this he says
"otherwise…" etc. The force of the "eva" [in the Kaumudī's "atraiva"] is: "it
would not apply in 'hariṃ bhajati' and the like [but would wrongly apply in
'gehaṃ praviśati']."
translator notes
- textual The digital source is OCR-corrupt in several places, read as follows: for the question "tamab-grahaṇaṃ kim," the source's "kartur-uddeśyaṃ karma" is read as "kartur īpsitaṃ karma," matching the fuller restatement later in the block ("kartur īpsitaṃ karma ity evāstv iti"). "dhātūpātta-vyāvyāpāra-" is read "dhātūpātta-vyāpāra-"; "māṣeṣv-aśvaṃ" appears as "māṣeṣv-āṃ"; "aśva-rakṣaṇasya" appears corrupted; scattered daṇḍa/anusvāra noise (e.g. "bahddhum," "eवāstv") is normalized. The evident readings are followed without silent emendation of substance.
- translator In "miśram asādhanatayā guṇatvenaiva … na tu bhojyatvena" the phrase "asādhanatayā" is taken as "not qua instrument," coordinated with "guṇatvena" ("qua qualifier"): the milk enters not as the means/instrument of eating but as a subordinate qualifier of the rice, which is the real īpsitatama. The alternative parse (miśram sādhanatayā, "as a means") is possible but conflicts with the ensuing contrast between guṇa (milk) and saṃskārya (rice).
SK 536 · A 2.3.1अनभिहिताधिकारः
अनभिहिते ॥ ५३६ ॥
anabhihite
anabhihite — 2.3.1. When [the kāraka is] not [already] expressed [by some other affix]. [An adhikāra heading governing the case-affixes.]
Rule. "When not already expressed." This is an adhikāra over the case rules. A case-ending is added for a kāraka only when that kāraka is not already expressed (abhihita) by something else. The rule forms nothing on its own.
Example.
anabhihite → carried into SK 537 → "the second case for the object, when the object is not already expressed".
Siddhānta-kaumudī
इत्यधिकृत्य ॥
Having taken up [anabhihite] as a governing heading (adhikāra)…
Tattvabodhinī
NSP p. 142–143—अनभिहित इति । नतु बहुपटुरित्यादौ बहुच्रस्त्रयेनोक्तार्थलात् कल्पवादयो यथा न प्रवर्तन्ते तथा क्रियते कट इत्यादावपि तिङ्गदिभिरुक्तार्थलाद्वितीया न भविष्यति । किं च कटं करोतीत्यादौ सावकाशा द्वितीया कृतः कट इत्यादौ निरवकाशया प्रथमया वाधिष्यते । न च वृक्षः इक्ष इत्यादौ प्रथमाया अवकाशः । तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अथोच्यते । नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियाया अनावश्यकलात् । प्रथमाया अस्त्येवावकाश इति, तर्हि उभयोः सावकाशत्वे परलात् प्रथमैव स्यात् । तथा चानभिहिताधिकारो वृथैवेति चेत् । अत्राहुः—‘संख्या विभक्त्यर्थः’ इति पक्षे सूत्रारम्भ आवश्यकः । तथाहि सूत्रारम्भे ‘कर्मणि द्वितीया’ इत्यस्यानभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यर्थः । सूत्रानारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति हि वाक्यार्थः । तथा च सति कृतः कट इत्यादौ केन कर्ममात्रोक्तावपि तदेकलस्यानुक्तया अम् दुर्वारः स्यात् । न च परलात् प्रथमैव स्यादिति वाच्यम् । कर्तव्यः कट इत्यादौ ततोऽपि परत्वेन कृष्णगलक्षणषष्ठीप्रसङ्गात् । ‘कारकं विभक्त्यर्थः’ इति पक्षे तु कारकस्य क्तप्रत्ययादिनैवोक्त- लात् प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकलादिबोधनसंभवाच्चामादिविभक्तेरप्रवृत्तौ ‘अनभिहिते’ इति सूत्रं प्रत्याख्यात-माकरे इति । कारकं प्रातिपदिकार्थं इति पक्षे तु ‘अनभिहिते’ इत्यस्य ‘अद्योत्ये’ इत्यर्थः । तथा च क्तप्रत्ययादिभिरद्योत्ये कर्मणि द्वितीयेत्यादिवाक्यार्थः । तत्राप्येकेन द्योतिते द्योतकान्तरं न प्रवर्तत इत्यन्युपगमे लनभिहिताऽधिकारो नातीवोप-युज्यत इति दिक् ॥—हरिं भजतीति । भजनक्रियया हरौ प्रीतेरुपादात्प्रीतिविशिष्टतया क्रियाव्याप्यत्वेन हरिः कर्म तद्विशिष्टं भजनं वाक्यार्थः । हरिनिष्ठप्रीत्यनुकूल एकदेवदत्तादिनिष्ठो वर्तमानो व्यापार इति निष्कृष्टोऽर्थः । हरिः सेव्यत इत्यत्राप्येवमेव । ‘क्रियाप्रधानमाख्यातम्’ इति सिद्धान्तात् । धातूपस्थिता क्रिया तिङ्यं प्रति विशेष्या न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः । अत एव पाचको ब्रजतीतिवत्पचति ब्रजतीति नैकं वाक्यम् । पाककर्तृकर्तृकं गमनं हि पाचको ब्रजतीत्यस्यार्थः । एककर्तृका पचिक्रिया, एककर्तृका गमिक्रियेति पचतिब्रजत्योः पृथगेवार्थः । एवं च प्रधमान्तविशेष्यको बोध इति नैयायिकोद्धोषो भाष्याद्यनुसारिभिर्नादर्तव्यः । तन्मते हि पाककर्ता ब्रजनानुकूलकृतिमानिति पाचको ब्रजतीत्यस्यार्थः । पचतिब्रजत्योस्तु पाकानुकूला कृतिर्ब्रजत्यर्थः । एवंरूपेण वाक्यार्थपर्यवसानात्, तस्य च भाष्यादिग्रन्थावरो-धात् ॥ किं च हरिं भजति देवदत्तः, हरिः सेव्यते देवदत्तेनेत्यत्र चैकरूप एव शाब्दबोध इत्युक्तम् । नैयायिकानां मते तु भिद्यत एव ‘हरिनिष्ठप्रीत्यनुकूलकृत्याश्रयो देवदत्तः’, ‘देवदत्तनिष्ठकृतिजन्यप्रीत्याश्रयो हरि’रित्युभयत्र भेदेन वाक्यार्थपर्यव-सानात् । तस्मात् प्रधमान्तविशेष्यकबोधो भाष्याद्यनुसारिभिर्नादर्तव्य एव । यास्कोऽप्याह—‘भावप्रधानमाख्यातं सत्त्व-प्रधानानि नामानि’ इति ॥ पश्य मृगो धावतीत्यादौ तु मृगकर्तृकं गमनं दृशिक्रियायां कर्म, प्रधानं तु दृशिक्रियैव । उक्तं च ‘सुवन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्’ इति । न च लौकिकप्रयोगेषु तिङन्तस्य तिङन्तविशेषणत्वं दुर्लभमिति मन्तव्यम् । ‘पुरीमवस्कन्द लुनीहि नन्दनम्’ इति माधश्लोकस्य पुर्यवस्कन्दन-नन्दनलवनादिरूपा अखास्थ्यक्रियेत्यर्थं इति ‘समुच्चयेऽन्यतरस्याम्’ इति सूत्रे मूले स्फुटीभविष्यमाणत्वात् । एवं च पचति-भवतीत्यस्य पचिक्रिया भवतीत्यर्थो भाष्यमते बोध्य इति दिक् ॥—अभिहिते त्विति । नन्वेवं ‘पक्वमोदनं भुङ्क्ते’ इत्यत्रापि द्वितीया न स्यादिति चेत् । मैवम् । इहहि पचिभुजिनिरूपिते द्वे कर्मलशक्ती, तत्र प्रधानीभूतभुजिक्रियानिरू-पितामनभिहितां शक्तिमादाय द्वितीयोत्पत्तेः । अत एव आसने आस्त इत्यत्र सप्तमी संगच्छते । त्युटाऽधिकरणस्योक्त-त्वेऽपि तिङन्तोपस्थाप्यक्रियानिरूपिताधिकरणत्वस्यानुकूलात् ॥—शत्य इति । ‘शताच्च ठन्यतावशते’ इति यत्
Bālamanoramā
अनभिहिते - अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः ।
anabhihite — "anabhihite." As to "having taken up [this] as an adhikāra"
— the meaning is that the second case and the rest (dvitīyādi) will be stated
[under this heading, i.e. only when the kāraka is not already expressed by
another affix].
Footnotes (NSP 1915 ed.)
NSP p. 143 १ अभिहिते त्विति—उक्तार्थानामप्रयोग इति न्यायेन द्वितीयाया अप्राप्तेरिति भावः । द्विर्भद्धमिति न्यायस्तु नेहाश्रीयत इति भावः । २ इत्यर्थं इति—वस्तुतस्तु अत्र तुमुनः साधुत्वायेष्यत इत्यध्याहार्यम् । अन्यथा क्रियार्थोपपदाभावानुमुन्दुलंभः, शकादि-योगाभावाच्च । विषवृक्षोऽपि संवर्ध्य छेत्तुमिष्यते इति यत् तदसांप्रतमित्यर्थः । इत्यादि सर्वं बृहच्छेखरतोऽवगन्तव्यं विस्तरभयान्नेह लिख्यते । ३ तथायुक्तमिति—तथायुक्तत्वं च समभिव्याहतधात्वर्थप्रधानव्यापारप्रयोज्यफलाश्रयत्वम् ।
SK 537 · A 2.3.2V
कर्मणि द्वितीया ॥ ५३७ ॥
karmaṇi dvitīyā
karmaṇi dvitīyā — 2.3.2 — In [the sense of] the object (karman), the second case-ending (dvitīyā) occurs [when the karman is not already expressed — 'anabhihite' 2.3.1 carried forward].
Rule. The second case-ending (dvitīyā) is added to express the object when the object is not already expressed.
Example.
hari (karman, SK 535) + bhajati → the verb-ending of bhajati expresses the agent, not the object → the object is unexpressed → second case → hariṃ bhajati "he worships Hari".
Applies when / blocked by. When the object is already expressed, the first case stands by SK 532, since only the stem-meaning is left. The object is usually expressed by one of four things. A verb-ending (tiṅ): hariḥ sevyate "Hari is served". A kṛt: lakṣmyā sevitaḥ "served by Lakṣmī". A taddhita: śatena krītaḥ śatyaḥ "bought for a hundred". A compound: prāptānandaḥ "one who has attained joy". Occasionally a particle (nipāta) expresses it, as in asāmpratam "not fitting" in the line viṣavṛkṣo 'pi saṃvardhya svayaṃ chettum asāmpratam "even a poison-tree, once one has reared it oneself, it is not fitting to cut down". Scholars discuss whether the heading anabhihite is strictly needed.
Siddhānta-kaumudī
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥
When the object (karman) is not [already] expressed (anukta), the dvitīyā
occurs. hariṃ bhajati ("he worships Hari"). But when the object is [already]
expressed (abhihita), then, by "prātipadikārthamātre …" [prathamā, 2.3.46],
the prathamā alone [occurs] for the mere prātipadika-meaning. And the
expressing [of the karman] is generally (prāyeṇa) by the finite verb (tiṅ), a
kṛt-suffix, a taddhita-suffix, or a compound (samāsa):
tiṅ — hariḥ sevyate ("Hari is served");
kṛt — lakṣmyā sevitaḥ ("[Hari,] served by Lakṣmī");
taddhita — śatena krītaḥ śatyaḥ ("bought for a hundred = śatya");
samāsa — prāptaḥ ānando yaṃ sa prāptānandaḥ ("he by whom joy has been
attained = prāptānanda").
Occasionally the expressing is by a particle (nipāta), as in: "viṣavṛkṣo 'pi
saṃvardhya svayaṃ chettum asāmpratam" ("even a poison-tree, having reared it
oneself, [it is] improper to cut down"). For the sense of "sāmpratam" here is
"yujyate" ("it is fitting") [so that asāmpratam = "not fitting"].
Tattvabodhinī
alignment inferredNSP p. 143—प्राप्तानन्द इति । इह ‘गत्यर्थाकर्मक-’ इति कर्तरि क्तः । आनन्दकर्तृकप्राप्तिकर्मीभूत इत्यर्थः ॥ यदुक्तं प्रायेणेति तस्य फलमाह—कचिन्निपातेनेति ॥—विषवृक्ष इति । संवर्ध्येत्यत्र छेत्तुमित्यत्र चार्थाद्विषवृक्षमिति गम्यत इति ध्येयम् ॥—युज्यत इत्यर्थ इति । एतेन निपातानां द्योतकत्वमेवेति नियमो नास्तीति ध्वनितम्
Bālamanoramā
कर्मणि द्वितीया - कर्मणि द्वितीया । 'अनभिहिते' इत्यनुवृत्तं व्याचष्टे — अनुक्ते इति । हरिं भजतीति । तुष्टनुकूलपरिचरणात्मकव्यापारो भजेरर्थः । पूजादिव्यापारेण हरि #ं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्ठतुष्टनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः ।बावप्रधानमाख्यात॑मिति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्ठतुष्टनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसंमतो नादर्तव्य इति मञ्जूषादौ प्रपञ्चितम् । अबिहिते त्विति । 'हरिः सेवय्ते' इत्यादा॑विति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराऽभावात्अबिहिते प्रथमे॑ति वार्तिकाच्चाति भावः । अत्र भाष्येकटं करोति भीष्ममुदारं दर्शनीयं शोभन॑मित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्यतिङ्कृत्तद्धितसमासैरबिधान॑मिति परिगणितम् । तत्रप्रायेणे॑त्यध्याह्मत्याह — अभिधानं चेति ।समासै॑रित्यनन्तरंविवक्षित॑मिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रधर्शनाय । हरिः सेव्यत इति ।लः कर्मणी॑ति कर्मणि॑ लकारः । 'भावकर्मणोः' इत्यात्मनेपदम् । तिङन्तेनाऽभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्मलकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिवदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति ।हरि॑रिति शेषः । भूते कर्मणि क्तः , कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टआश्रयो हरिरिति बोधः । सत्त्वप्रधानानि नामानीति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यक बोधस्यैव सर्वसंमतत्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । शत्य #इति । पटादिरिति शेषः । 'शताच्च ठन्यतावशते' इति यत्प्रत्ययस्तद्धितः । अत्र कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्द इति । देवदत्तादिरिति शेषः ।गत्यर्थाकर्मके॑त्यादिना प्राप्तेति कर्तरि क्तः । अन्यपदार्थस्य कर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूत इति बोधः ।प्रायेणे॑त्यस्य फलं दर्शयति-क्वचिदिति ।विषवृक्षो ।पी॑तिअसाम्प्रत॑मित्यत्रान्वेति ।संबध्र्ये॑त्यत्रछेत्तु॑मित्यत्र चान्वये द्वितीयापत्तेः । तत्रत्वर्थाद्विषवृक्षमिति गम्यते । न सांप्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थ इति । युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् ।युक्ते द्वे साम्प्रतं स्थाने॑ इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तुछेत्तु॑मिति तुमुन्नत्र दुर्लभः ।कृष्णं द्रष्टुं याती॑त्यत्रेव क्रियार्थक्रियोपपदत्वाऽभावेनतुमुन्ण्बुलौ क्रियायां क्रियार्थाया॑मित्यस्याऽप्रवृत्तेः ।शकधृषे॑त्यादिनापि तुमुन्न, शकादियोगाऽभावात् । किंतु 'इच्छार्थेषु' इत्यनुवृत्तौसमानकर्तृकेषुतुमुन्, इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथाइच्छति भोक्तु॑मित्यादि । एवंच तुमुनः साधुत्वाय इष्यत इत्यध्याहार्यम् । विषवृक्षोऽपि संबध्र्य छेत्तुमिष्यत इति यत्तदसांप्रतम्ायुक्तमित्यर्थः । एवं चात्रापि तिङाभिहितत्वादेव द्वितीयानिवारणात्तिङ्कृद्धितसमासैरभिधानमिति परिगणनवार्तिकेप्रायेणे॑त्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्त इत्यत्र तु पचिभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम् । ननु यथाबहुपटु॑रित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात्कल्पबादयो न भवन्ति तथा 'क्रियते कट' इत्यादावपि तिङादिभिरुक्तत्वाद्द्वितीयादयो न भविष्यन्ति,उक्तार्थानामप्रयोगः॑ इति न्यायात् । किंचकटं करोती॑त्यादौ सावकाशा द्वितीया 'कृतः कटः' इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात् । नच वृक्षः प्लक्ष इत्यादिः प्रथमाया अवकाश इति वाच्यं, तत्र गम्यमस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात् । अस्तु वा तत्र प्रथमाया अवकाशः, तथाप्युभयोः सावकाशत्वे परत्वात्प्रथमैव स्यात् । एवं चानभिहीताधिकारो व्यर्थ इति चेत्, मैवम्-॒कर्मणि द्विताये॑त्यादीनांद्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मित्यनयोश्चएकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्रअनभिहिते॑इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात् ।अनभिहिते॑इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत् । तथा सति 'कृतः कट' इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात् । न च प्रथमाया निरवकाशत्वं शङ्क्यं, नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः सावकाशत्वात् । नापि तत्र परत्वात्प्रथमैव भविष्यतीति वाच्यं, 'कर्तव्यः कटः' इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवं च संख्या विभक्त्यर्थ॑ इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः 'अनभिहिते' इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः ।
karmaṇi dvitīyā — karmaṇi dvitīyā. He explains the anuvṛtti of
"anabhihite" (carried forward from 2.3.1) by "anukte" ("when not expressed").
"hariṃ bhajati" — the meaning of the root bhaj is an activity (vyāpāra)
consisting in service (paricaraṇā) conducive to [another's] satisfaction
(tuṣṭi); i.e., "he satisfies Hari by an activity such as worship." Because
Hari is the locus of the result — the satisfaction (tuṣṭi) produced by the
worship-activity resident in the agent — Hari is the karman. The cognition is:
a present activity, resident in the one agent Devadatta, conducive to
satisfaction resident in Hari. Because of Yāska the Nirukta-author's dictum
"bhāva-pradhānam ākhyātam" — whose sense is that a tiṅ-ending [word] has the
action (kriyā) as principal — the cognition qualified by a nominative-ending
substantive (prathamānta-viśeṣya), namely "Devadatta is the locus of the
satisfaction-conducive activity residing in Hari," which is accepted by the
logicians (tārkika), is not to be adopted [by grammarians]. This is elaborated
in the Mañjūṣā and elsewhere.
"abhihite tu" ("but when expressed") — "in [cases] such as 'hariḥ sevyate'" is
to be supplied. "prathamā eva" ("the prathamā alone") — the idea is that there
is no adhikāra of "anabhihita" in the injunction of that [prathamā, 2.3.46],
and [also] because of the vārttika "abhihite prathamā" ("in [the sense]
already expressed, the prathamā"). Here in the Bhāṣya, with respect to "kaṭaṃ
karoti bhīṣmam udāraṃ darśanīyaṃ śobhanam" ("he makes a mat — dreadful, noble,
fair, beautiful"), having raised the doubt that "since the object is expressed
by the dvitīyā produced after the word kaṭa, the dvitīyā would not obtain for
bhīṣma and the rest," it was enumerated [in the vārttika] that "expressing is
[only] by tiṅ, kṛt, taddhita, and samāsa" [not by a case-ending itself].
There, having supplied "prāyeṇa" ("generally"), he says "abhidhānaṃ ca" ("and
the expressing"); after "samāsaiḥ" ("by compounds"), "vivakṣitam" ("is
intended") is to be supplied.
"tiṅ" — this mention without a case-ending (avibhaktika-nirdeśa) is for
displaying the expressing-by-tiṅ. "hariḥ sevyate" — the L-affix (lakāra) is in
the sense of karman by "laḥ karmaṇi ca bhāve ca" [3.4.69]; ātmanepada by
"bhāva-karmaṇoḥ" [1.3.13]. The idea: since Hari, the object, is expressed by
the tiṅ-ending [word], no dvitīyā [occurs]. The sentence-meaning is
[equivalent to] "hariṃ bhajati." It is the grammarians' convention
(vaiyākaraṇa-samaya) that the sentence-cognition is of one and the same form
(ekarūpa) whether the lakāra is [in the sense of] agent (kartṛ) or object
(karman).
"kṛt" — like "tiṅ," this too is a case-endingless mention, to indicate the
[following] example of it. "lakṣmyā sevitaḥ" — "hariḥ" is to be supplied. The
kta is in the past-object sense (bhūte karmaṇi); the agent is in the tṛtīyā.
The cognition: Hari is the locus of the satisfaction produced by the service
resident in Lakṣmī. And in accordance with Yāska's dictum "sattva-pradhānāni
nāmāni" ("nouns have the substance as principal"), since it is universally
accepted that in prātipadikas the cognition is one qualified by a
nominative-ending substantive — here, because the object Hari, [as] "sevita,"
is expressed by the kṛt, no dvitīyā.
"taddhita" — this too is a case-endingless mention, to indicate its example.
"śatyaḥ" — "paṭa" (cloth) etc. is to be supplied. By "śatāc ca ṭhan-yatāv
aśate" [5.1.21] the yat-suffix is the taddhita. Here, because the object is
expressed by the taddhita, no dvitīyā.
"samāsa" — this too is a case-endingless mention, to indicate its example.
"prāptānandaḥ" — "Devadatta" etc. is to be supplied. By "gatyarthākarmaka…"
[3.4.72] "prāpta" is a kta in the agent sense. Since the object — [being] the
external referent (anyapadārtha) [of the bahuvrīhi] — is expressed by the
bahuvrīhi compound, no dvitīyā. The cognition: [Devadatta] is the one made the
object of the attaining whose agent is joy (ānanda).
He shows the point (phala) of "prāyeṇa" by "kvacit" ("occasionally"):
"viṣavṛkṣo 'pi" construes with "asāmpratam," for, were it to construe with
"saṃvardhya" or with "chettum," the dvitīyā (viṣavṛkṣam) would result. There,
by [contextual] sense "viṣavṛkṣam" [as accusative object of chettum] is
understood. With the analysis "na sāmpratam" it is a nañ-tatpuruṣa. "yujyate
ity arthaḥ" — from yuji (to join/fit) the lakāra is in the karman sense;
"aucityā na yujyate" ("it is not endowed with propriety") is the [purport].
Amara: "yukta and sāmpratam are two [words] in the sense 'fit/proper.'" Here,
because the object "tree" (vṛkṣa) is expressed by the particle (nipāta), no
dvitīyā.
In fact, the tumun in "chettum" is hard to obtain here. Because — unlike in
"kṛṣṇaṃ draṣṭuṃ yāti" ("he goes to see Kṛṣṇa") — there is no accompanying
(upapada) action that is for the sake of [another] action (kriyārtha-kriyā),
"tumun-ṇvulau kriyāyāṃ kriyārthāyām" [3.3.10] does not apply; nor is the tumun
by "śaka-dhṛṣa…" [3.4.65], there being no connection with śak etc. Rather,
with the anuvṛtti of "icchārtheṣu," the tumun is by "samāna-kartṛkeṣu tumun"
[3.3.158], since that [tumun] applies even when the accompanying word does not
denote purpose-of-action, as in "icchati bhoktum" ("he wishes to eat") etc.
And so, to justify (sādhutva) the tumun, "iṣyate" ("is desired") must be
supplied: the sense is "that a poison-tree too, once reared, one should wish
to cut down (chettum iṣyate) — that is asāmpratam, improper." And so, since
even here the dvitīyā is precluded by the very fact of being expressed by the
tiṅ [iṣyate], the supplying of "prāyeṇa" in the enumerative vārttika
"expressing is by tiṅ, kṛt, taddhita, and samāsa" is futile — thus it stands
in the Śabdenduśekhara.
But in "pakvam odanaṃ bhuṅkte" ("he eats the cooked rice"), there are two
object-hood potencies (karmatva-śakti), determined by the actions "cook"
(paci) and "eat" (bhuji). There, although the object-hood potency determined
by the subordinate "cook" is expressed by the kta [in pakva], the dvitīyā is
unobstructed by taking the unexpressed object-hood potency determined by the
principal action "eat" [odanam]. This is clear in the Bhāṣya.
Objection: Just as in "bahupaṭu" etc., because [the sense] is expressed by the
taddhita bahuc-suffix, [affixes] such as kalpaP do not occur, so too in
"kriyate kaṭaḥ" etc., because [the karman] is expressed by the tiṅ etc., the
dvitīyā etc. will not occur — by the maxim "there is no [further] employment of
what is already expressed (uktārthānām aprayogaḥ)." Moreover, the dvitīyā,
which has scope in "kaṭaṃ karoti" etc., simply does not occur in "kṛtaḥ
kaṭaḥ" etc., being blocked by the prathamā, which has no [other] scope. Nor
should it be said that "vṛkṣaḥ plakṣaḥ" etc. is the scope of the prathamā,
because there, with respect to the understood verb "asti," the tṛtīyā would
result [for the word] as agent. Or let there be scope for the prathamā there;
even so, when both have scope, by posteriority (paratva) the prathamā alone
would occur — and thus the "anabhihita" adhikāra is purposeless.
Response: Not so. Because "karmaṇi dvitīyā" etc. form a single syntactic unit
(eka-vākyatā) with "dvyekayor dvivacanaikavacane" [1.4.22] and "bahuṣu
bahuvacanam" [1.4.21], it is obtained that: for whatever singularity, duality,
or plurality there is in the karman, there [occur respectively] the singular,
dual, and plural [endings]. There, if "anabhihite" is instituted, the meaning
would be "for whatever singularity there is in an unexpressed karman, there the
dvitīyā"; but in the absence of "anabhihite," it would culminate merely in
"for whatever singularity there is in the karman, the singular of the
dvitīyā." That being so, in "kṛtaḥ kaṭaḥ" etc., even though the mere karman is
expressed by the kta, since its singularity is not expressed, the dvitīyā
singular would be unavoidable. Nor should the scopelessness of the prathamā be
suspected, because in "nīlam idaṃ na tu raktam" ("this is blue, not red"), which
aims at excluding another qualifier, the "asti" verb being unnecessary, the
prathamā there has scope. Nor should it be said that there the prathamā alone
will occur by posteriority, because in "kartavyaḥ kaṭaḥ" etc., [something]
being posterior even to that, the genitive (ṣaṣṭhī) characterized by
construction-with-a-kṛt (kṛd-yoga) would result. And so, if it is adopted that
"number is the meaning of the case-ending (saṅkhyā vibhaktyartha)," then, since
the kāraka is expressed by the kta-suffix etc., there is no occasion for the
dvitīyā and the other case-endings; and the cognition of the number — oneness
etc. — is possible by the prathamā alone, which applies to the mere
prātipadika-meaning. Therefore "anabhihite" should not be instituted [as a
separate adhikāra] — this is clear in the Bhāṣya, Kaiyaṭa, [Śabda]kaustubha,
and others. The very extensive [discussion] is to be pursued in the Mañjūṣā.
translator notes
- translator The closing argument records the Bhāṣya/Kaiyaṭa/Kaustubha position that the "anabhihite" adhikāra is dispensable — a dissent from the working assumption that the dvitīyā etc. require it; it is preserved as reported (not harmonized), since Bhaṭṭoji himself frames the rule with "anukte."
SK 538 · A 1.4.50कारकसंज्ञा
तथायुक्तं चानीप्सितम् ॥ ५३८ ॥
tathāyuktaṃ cānīpsitam
tathāyuktaṃ cānīpsitam — 1.4.50. And that which, though not desired (anīpsita), is connected with the action in the same way [as the īpsitatama, the most-desired], likewise receives the karman (object) designation.
Rule. A kāraka that is connected with the action in the same way as the most-desired thing, but is itself not desired (anīpsita), is also named karman.
Example.
grāmaṃ gacchan tṛṇaṃ spṛśati "going to the village, he touches grass" → the grass is not wanted, but it is reached by the action just as a desired thing would be → tṛṇa is karman → second case → tṛṇam.
odanaṃ bhuñjāno viṣaṃ bhuṅkte "eating rice, he eats poison" → the poison is unwanted → still karman → viṣam.
Siddhānta-kaumudī
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥
A kāraka that is connected with the action just as the most-desired (īpsitatama) is — even though it is itself not desired (anīpsita) — receives the karman designation. [Examples:] grāmaṃ gacchan tṛṇaṃ spṛśati — "while going to the village, he touches grass" (the grass, tṛṇam, is undesired yet is karman). odanaṃ bhuñjāno viṣaṃ bhuṅkte — "while eating rice, he eats poison" (the poison, viṣam, though undesired, is karman).
Tattvabodhinī
NSP p. 143–144—तथायुक्तम्— तथेत्युक्ते कथं युक्तमिति जिज्ञासायामाह—ईप्सिततमवदिति । सूत्रे चशब्दोऽपिशब्दार्थे वर्तत इति ध्वनयत्राह—अनीप्सित-मपीति । ईप्सितादन्यदनीप्सितमिति पर्युदासोऽयं, तेन यदुपेक्ष्यं, यच्च द्वेष्यं तद् द्वयमपीह गृह्यत इत्याशयेनाद्यमुदाहरति—प्रामं गच्छन् तृणं स्पृशतीति । यथा स्पृश्यमानस्य प्रामादेरीप्सितस्य क्रियायोगस्तज्जन्यसंयोगादिफलाधारत्वात् । तथैवानीप्सितस्य तृणादेरपीति भावः ॥ इहहि प्रामं गच्छतस्तृणस्पर्शनं नान्तरीयकं, तृणस्यानीप्सितत्वात् । यदा तु तृणमपीप्सिततमं भवति तदा पूर्वेणैव सिद्धम् । उपेक्ष्यत्वं च नोपेक्षाबुद्धिविषयः, नदी कूलं कषतीत्यचेतने तदसंभवात् । किं तु यत्रेप्साद्वेषयोरभावस्तदुपेक्ष्यमिति विवक्षितम् ॥—विषमिति । अत्र विषं हेयमप्योदनवद्भुजिना संवन्धात्कर्म । ननु य एव पुरुषो व्याध्यादिना पीज्यमानो मरणमेव श्रेयो मन्यते तस्य विषमपीप्सितमेव ॥ योऽपि आन्त्या भुङ्क्ते तस्यापि गुडादिवद्भुज्या व्यवसीयमानं विषमीप्सितमेव । कथमन्यथा प्रवर्तेत । तस्मादिदमुदाहरणमयुक्तमेवेति चेत् । अत्राहुः । यदा कश्चिन्मरणकातरोऽपि वैरिणा निगृह्यमानो विषं भुङ्क्ते तदेदमुदाहरणमिति । अनीप्सितग्रहणं स्पष्टप्रतिपत्त्यर्थं ‘तथा युक्तम्—’ इत्यस्यारम्भादेवेष्टसिद्धेः ॥ स्यादेतत् । ‘धातूपस्थाप्यफलाश्रयः कर्म’ इत्येवास्तु किमनेन ‘कर्तुरीप्सिततमम्—’ इत्यादिसूत्रद्वयकथनेनेति चेत् । अत्राहुः । अमेर्माणवकं वारयतीत्यत्र ‘वारणार्थानामीप्सितः’ इति सूत्रेण माणवकस्या- पादानत्वं प्राप्तं तद्वाधनाय ‘कर्तुरीप्सिततमम्’ इति वक्तव्यमेव । एवं च द्वेष्योदासीनयोः संग्रहार्थं ‘तथायुक्तम्’ इत्यपि आवश्यकमेवेति
Bālamanoramā
तथायुक्तं चानिप्सीतम् - क्रीतात्करणपूर्वात् । प्रातिपदिकादित्यनुवृत्तमत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्त विधिः । तदाह — क्रीतान्तादित्यादिना । करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यं, तेन करणादेरिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति । ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुल॑मिति समासात्मकं प्रातिपदिकमादन्तमेव, न त्वदन्तमिति कथमत्र ङीषिति चेत्, सत्यम् — समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्त्र भिस् क्रीत इति स्थितेगतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः॑ इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । धनक्रीतेत्यत्रापि ङीष् स्यादित्यत आह-क्वचिन्नेति ।कर्तृकरणे कृता बहुल॑मिति बहुलग्रहणेनगतिकारकोपपदाना॑मित्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः । तत्र च सुपः प्रागेवान्तरङ्गत्वाट्टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रातीशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च 'अत' सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाऽभावान्न ङीषित्यर्थः । एवं च 'अत' इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्चउपपदमतिङि॑त्यत्र कैयटे स्पष्टम् । करणपूर्वार्त किम् । सुकीता नचैवमपि वस्त्रेण क्रीतेति वाक्यान्ङीष्प्रसङ्गः, क्रीतेति प्रातिपदिकस्य करणपूर्वात्वात्, अदन्तत्वाच्चेति वाच्यं, करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणं, नतु क्रीतशब्दस्य । करणं पूर्वं यस्मिन्निति बहुव्रीहिः । करणशब्दात्मकपूर्वायवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः । एतदर्थमेव पूर्वग्रहणम् । अन्यथाक्रीतात्करणा॑दित्येवावक्ष्यदित्यलम् ।
tathāyuktaṃ cānīpsitam —
[Textual note: the Bālamanoramā prose transmitted under this block does not comment on the present sūtra tathāyuktaṃ cānīpsitam; it is the Bālamanoramā on krītāt karaṇapūrvāt (the strī-pratyaya rule prescribing ṅīṣ), evidently misattached in the digital source. The translation follows the transmitted text as it stands.]
krītāt karaṇapūrvāt. "prātipadikāt" is carried forward by anuvṛtti; it is qualified both by the "ataḥ" carried forward and by this "krītāt," and the rule is one concerning what ends in [krīta] (tadanta-vidhi). This he states with "from [a word] ending in krīta," and so on. The analysis is: "that whose first member (ādi) is the instrumental (karaṇa)." The word "prātipadika" is the qualificand; hence the masculine gender in "of what has an instrumental as its first member (karaṇādeḥ)" is justified.
On vastrakrītī — Objection: in the analysis "vastreṇa krītā" ("bought with a garment"), with the feminine (ṭāp-ending) word, the compound-form prātipadika produced by "kartṛkaraṇe kṛtā bahulam" ends in -ā, not in -a; so how can ṅīṣ apply here? Response: True [in appearance]; but the base (prakṛti) of a compound is the non-ordinary analysis-sentence (alaukika-vigraha-vākya). When "vastra bhis krīta" stands, by the paribhāṣā "gati-kāraka-upapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ" ("the compounding of gati, kāraka, and upapada with kṛt-forms is to be understood prior to the derivation of the sup endings"), the compounding with the word "krīta" takes place even before the sup is introduced; and, the sup being elided by "supo dhātu-prātipadikayoḥ," the prātipadika "vastrakrīta" indisputably ends in -a — that is the idea. This is clear in the Bhāṣya on the sūtra "puṃyogād ākhyāyām."
[Objection:] ṅīṣ would then apply in "dhanakrīta" as well. In response he says "not in some cases (kvacin na)": by the word "bahulam" in "kartṛkaraṇe kṛtā bahulam," it is understood that the paribhāṣā "gati-kāraka-upapadānām..." does not operate in some cases; hence here the compound is formed with a sup-ending word. And there, since ṭāp, being antaraṅga, applies even before the sup, once ṭāp has applied and then the sup is added, in the compound formed with the sup-ending word whose base ends in ṭāp, the sup being elided, the word "dhanakrītā" does not end in -a; hence no ṅīṣ — that is the meaning. And thus it turns out to be the very purpose of the anuvṛtti of "ataḥ." This is clear in Kaiyaṭa on "upapadam atiṅ."
Why "karaṇapūrvāt"? [To exclude cases like] "sukrītā." Nor, even so, is there any contingency of ṅīṣ from the sentence "vastreṇa krītā" on the ground that the prātipadika "krīta" is preceded by an instrumental and ends in -a; for "karaṇapūrvāt" is a qualifier of the prātipadika ending in krīta, not of the word "krīta" [by itself]. It is a bahuvrīhi, "that in which an instrumental is the prior member (karaṇaṃ pūrvaṃ yasmin)." The meaning is: "from a compound-prātipadika ending in krīta whose prior member (pūrvāvayava) consists of an instrumental word." It is precisely for this that "pūrva" is mentioned; otherwise he would simply have said "krītāt karaṇāt." Enough of this.
Footnotes (NSP 1915 ed.)
NSP p. 144 कर्मयुगिति—कर्मनिष्ठथात्वर्थस्य निमित्तमित्यर्थः । २ विनयं याचते द्दति—अत्र याचेः स्वीकारानुकूलव्यापारानुकूलव्यापारोऽर्थः । स्वीकारश्चेदमवदयं करिष्यामि इति शब्दप्रयोगजनको ज्ञानविशेषः ।
translator notes
- textual The digital source attaches to this unit a Bālamanoramā passage that comments not on tathāyuktaṃ cānīpsitam but on krītāt karaṇapūrvāt (a strī-pratyaya rule): it discusses vastrakrītī / dhanakrītā and the application of ṅīṣ. Preserved and translated as transmitted (§1); the passage appears misplaced by the source segmentation. The source also carries a near-verbatim dittography of the dhanakrītā sentence ('evaṃ ca ataḥ supi ṭābanta...'), collapsed here to the single coherent reading.
SK 539 · A 1.4.51कारकसंज्ञा
अकथितं च ॥ ५३९ ॥
akathitaṃ ca
akathitaṃ ca — And a kāraka that is unstated (akathita) — i.e. not intended to be expressed by the more specific relations apādāna and the rest — is termed karman.
Rule. A kāraka that is akathita, "not stated" — that is, not meant to be expressed by one of the more specific names, apādāna and the rest — is also named karman. This is the rule of the double accusative.
Example.
gāṃ dogdhi payaḥ "he milks milk from the cow" → the milk is the object; the cow could have been called the point of departure, but is not meant that way → the cow is karman too → both in the second case.
baliṃ yācate vasudhām "he begs the earth from Bali" → balim and vasudhām.
māṇavakaṃ panthānaṃ pṛcchati "he asks the boy the way" → māṇavakam and panthānam.
Applies when / blocked by. A memorial verse fixes the roots: for duh (milk), yāc (beg), pac (cook), daṇḍ (fine), rudh (confine), pracch (ask), ci (gather), brū (tell), śās (instruct), ji (win), math (churn), muṣ (steal), and for nī (lead), hṛ (carry), kṛṣ (drag), vah (convey), the kāraka construed beside the main object is the unstated karman. Bhaṭṭoji's other examples: avinītaṃ vinayaṃ yācate, taṇḍulān odanaṃ pacati, gargān śataṃ daṇḍayati, vrajam avaruṇaddhi gām, vṛkṣam avacinoti phalāni, māṇavakaṃ dharmaṃ brūte / śāsti, śataṃ jayati devadattam, sudhāṃ kṣīranidhiṃ mathnāti, devadattaṃ śataṃ muṣṇāti, grāmam ajāṃ nayati / harati / karṣati / vahati. The name depends on meaning, not on the root's form, so synonyms count: baliṃ bhikṣate vasudhām, māṇavakaṃ dharmaṃ bhāṣate / abhidhatte / vakti. Why "kāraka"? In māṇavakasya pitaraṃ panthānaṃ pṛcchati "he asks the boy's father the way", māṇavakasya is a mere relation, not a participant, and stays genitive.
A vārttika adds: with an intransitive (akarmaka) root, a word for place, time, state or road is also karman: kurūn svapiti "he sleeps through the Kuru country", māsam āste "he sits for a month", godoham āste "he sits for the length of a milking", krośam āste "he sits across a krośa".
Siddhānta-kaumudī
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥
A kāraka not intended to be expressed by the particular [relations] apādāna and the rest is termed karman.
[Memorial verse:] Of duh (milk), yāc (beg), pac (cook), daṇḍ (fine), rudhi (confine), pracchi (ask), ci (gather), brū (tell), śās (instruct), ji (win), math (churn), muṣ (steal), the unstated (akathita) [kāraka] is joined to the karman-designation; likewise of nī (lead), hṛ (carry off), kṛṣ (drag), vah (convey).
That is: of the twelve beginning with duh, and the four beginning with nī, whichever [kāraka] is construed [as a further object] along with the [primary] object — that alone, being unstated [by another relation], is [the secondary] karman; this enumeration (parigaṇana) is to be observed. [Examples, each with a double accusative:] gāṃ dogdhi payaḥ ('he milks milk from the cow'); baliṃ yācate vasudhām ('he begs the earth from Bali'); avinītaṃ vinayaṃ yācate ('he begs discipline from the undisciplined one'); taṇḍulān odanaṃ pacati ('he cooks gruel from the rice-grains'); gargān śataṃ daṇḍayati ('he fines the Gargas a hundred'); vrajam avaruṇaddhi gām ('he confines the cow to the pen'); māṇavakaṃ panthānaṃ pṛcchati ('he asks the boy the way'); vṛkṣam avacinoti phalāni ('he gathers fruits from the tree'); māṇavakaṃ dharmaṃ brūte or śāsti ('he tells, or instructs, the boy [in] dharma'); śataṃ jayati devadattam ('he wins a hundred from Devadatta'); sudhāṃ kṣīranidhiṃ mathnāti ('he churns nectar from the ocean of milk'); devadattaṃ śataṃ muṣṇāti ('he steals a hundred from Devadatta'); grāmam ajāṃ nayati / harati / karṣati / vahati vā ('he leads / carries / drags / conveys the goat to the village'). This designation is grounded in meaning (artha-nibandhana) [not in the specific verbal roots]: baliṃ bhikṣate vasudhām ('he begs the earth from Bali' — with bhikṣ, a synonym of yāc); māṇavakaṃ dharmaṃ bhāṣate / abhidhatte / vakti, and so on [with synonyms of brū]. Why 'kāraka' [in the rule]? [Because in] māṇavakasya pitaraṃ panthānaṃ pṛcchati ('he asks the boy's father the way'), 'māṇavakasya' is a genitive (a residual relation, not a kāraka) and so is not karman.
vārttikaअकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्
(vārttika) It should be stated that, in construction with intransitive (akarmaka) roots, [the words denoting] place (deśa), time (kāla), state/action (bhāva), the path to be traversed (gantavya), and the road/distance (adhvan) receive the karman-designation.
(वार्तिकम्) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥
(vārttika, continued — illustrations) kurūn svapiti ('he sleeps [throughout] the Kuru country' — place); māsam āste ('he sits for a month' — time); godoham āste ('he sits for [the duration of] a cow-milking' — state/action); krośam āste ('he sits [across the distance of] a krośa' — road/distance).
Tattvabodhinī
NSP p. 144–145—अकथितं च । केनाकथितमित्याकाङ्क्षायामाह—अपादानादिविशेषैरिति । अपादानं संप्रदानमधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः ॥—अविवक्षितमिति । अपादानादिविशेषविवक्षायां तु गोदीभिधपयः । वलेयांचते वसुधाम् । व्रजेऽवरुणद्वि गाम् । इत्येवं पञ्चम्यादय एव भवन्तीति भावः । एतेन पाणिना कांस्यपात्र्यां दोग्धीत्यत्र करणाधिकरणयोरतिप्रसङ्गः । तयोस्तु दण्डेन करोति, कटे तिष्ठतीत्यादिरवकाशो दुहादिपरिगणनादित्याक्षेपो निरस्तः । करणाधिकरणसंज्ञयोरिह विवक्षितत्वात् । यदि तु सूत्रेऽकथितशब्दोऽप्रधानपर्यायो न लनुक्तपर्याय इत्यभ्युपगम्येत, तदा स्यादेवायमाक्षेपो न लन्यथा ॥—कारकमिति । ततश्च ब्राह्मणस्य पुत्रं पृच्छतीत्यत्र नातिप्रसङ्गः ॥ दुह्याजिति । ‘दण्ड दण्डनिपातने’ चुरादिः । इह तु दण्डिर्ग्रहणार्थो न तु निग्रहार्थः । प्रच्छीत्यागन्तुकेनेकारेण निर्देशो न त्विका ‘ग्रहिज्या’ इति संप्रसारणप्रसङ्गात् ॥—कर्मयुगिति । कर्मणा युज्यते कर्मयुक् । ‘सत्सूद्रिष’ इत्यादिना क्विप् ॥—कर्मणा यद्युज्यत इति । मुख्यकर्मणा सह क्रियया संवध्यमानं कारकमेवापादानादिविशेषैरकथितं सत् कर्मसंज्ञकं भवतीत्यर्थः । एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम् ॥ अन्ये लाहुः । कर्मयुगित्यत्र कर्मशब्देन क्रियोच्यत इति । तेन क्रियान्वयीत्यर्थः ॥—परिगणनमिति । तेन नटस्य शृणोति गाथामित्यादौ नातिप्रसङ्ग इति भावः । इह हि गाथाकर्मकं नटसंवन्धि श्रवणं वाक्यार्थः । तेन क्रियान्वयित्वान्नटस्य कारकत्वमस्त्येव ॥—गां दोग्धीति । पयःकर्मकं गोसंवन्धि दोहनमर्थः । पयोऽत्र मुख्यं कर्म कर्तुरीप्सिततमत्वात् । गौस्तु पयसो निमित्ततामात्रेणोपात्ता न तु वस्तुसताप्यवधिभावेनेत्यपादानसंज्ञाया अप्रवृत्तेरनेन कर्मसंज्ञिका भवति । तदुक्तं हरदत्तेन ‘यद्यपि गोरवधिभावो विद्यते तथाप्यविवक्षिते तस्मिन्निमित्तमात्रविवक्षायामुदाहरणोपपत्तिरिति । एतेनावधित्वविवक्षायां गोरिति पञ्चम्येवेति स्पष्टम् । यदा तु गोरित्येतत्पयसा संवध्यते तदा गोशब्दात्पष्ट्येव भवतीत्यपि वोध्यम् ॥ यत्तु प्राचा ‘दुह्याच्यर्थरुधिप्रच्छिचिन्नूशासुजिकर्मयुक् । नीहकृष्मन्थवहदण्ड्प्रहमुष्पचिकर्मभाक्’ इति पठितं तत्र ग्रहेः पाठोऽप्रामाणिकः । इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं तथापि संदर्भाशुद्धिः । तथा हि दुह्यादीन्यादींश्च द्वैराश्येन पठित्वा भावकर्मप्रक्रियाशेषे ‘लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युगौणे वा’ इत्याशङ्कायां स्वयमेव पठितं ‘न्यादयो ण्यन्तनिष्कर्मगत्यर्थो मुख्यकर्मणि । प्रत्ययं यान्ति दुह्यादिगौणेऽन्ये तु यथारुचि’ इति । एवं च दण्डिमन्थिभ्यामपि मुख्ये स्यात् । न चेष्टापत्तिः । गर्गाः शतं दण्ड्यन्तामिति भाष्यविरोधात् । शतं ह्यत्र प्रधानं न तु गर्गाः, ‘अर्थिनश्च राजानो हिरण्येन भवन्ति’ इति वाक्यशेषात् दण्डिरत्र ग्रहणार्थः न तु निग्रहार्थ इत्युक्तम् । अतएवात्र समुदाये वाक्यपरिसमाप्तिः, गुणानुरोधेन प्रधानावृत्तेरसंभवात् । तथा मन्थेरपि प्रधाने स्यादिष्यते तु गौणे । तथा च भारविः ‘येनापविद्धसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे’ इति । अत्रामृतं मुख्यमुद्देश्यत्वात्, अम्बुनिधिस्तु गौणः ॥—बलिं याचत इति । अत्र प्रार्थनार्थस्य याचेर्वसुधा मुख्यं कर्म, तेन युक्तो बलिर्वस्तुतोऽवधिरपि तदविवक्षायामनेन कर्म भवति ॥—अविनीतमिति । अनुनयार्थस्य याचेरविनीतो मुख्यं कर्म, अविनीतं विनयायानुनयतीत्यर्थः । विनयस्य तादर्थ्याविवक्षायाम् ‘अकथितं च’ इति कर्मसंज्ञा ॥—तण्डुलानिति । निर्वर्तनार्थस्य पचेरोदनो मुख्यं कर्म, ओदनं निर्वर्तयतीत्यर्थः । तण्डुलास्तु करणत्वाविवक्षायामकथितं कर्म ॥ अन्ये लाहुः—‘ह्यर्थः पचिः’ इति भाष्यपर्यालोचनया तण्डुलानोदनं पचतीत्यस्य तण्डुलान्विकेदयन्नोदनं निर्वर्तयतीत्यर्थः । दुह्यादिषु पचेः परिगणनमप्रामाणिकं भाष्यकैयटयोरनुक्तत्वादिति ॥—गर्गानिति । ग्रहणार्थस्य दण्डेः शतं मुख्यं कर्म, गर्गास्त्वपादानत्वाविवक्षायामकथितं कर्म ॥—व्रजमिति । अत्र गौर्मुख्यं कर्म व्रजं त्वधिकरणत्वाविवक्षायाम् ‘अकथितं च’ इति कर्म भवति ॥ एवमग्रेऽप्यूह्यम् ॥—अर्थनिवन्धनेति । न तु स्वरूपाश्रया । ‘अहमपीदमचोद्यं चोद्ये’ इति ‘तद्राज’सूत्रभाष्ये पृच्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनादिति भावः । अत एव ‘स्थाणुं रणे स्मेरमुखो जगाद मारीन्मुच्चैर्वचनं महार्थम्’ इति भटिः प्रायुङ्क्तम् । एवं च नाथत्यादयो वहवो द्विकर्मका ज्ञेयाः ॥ स्यादेतत् । यद्यर्थनिवन्धनेयं संज्ञा तर्हि नीवह्योरन्यतरो न पठनीयः, उभयोरप्येकार्थत्वादिति चेत्सत्यम् । भारं वहति भारं नयतीत्यत्र यदि विलक्षणोऽर्थोऽ सुभूयते तदा द्वयमपि पठनीयमेव, यदि तु नानुभूयते तर्ह्यन्यतरो न पठनीयः, उभयथापि लक्ष्यस्य निर्वाधलात् ॥ अत्र वदन्ति ‘जप्राह द्युतरं शक्रम्’ इत्युदाहरणमप्ययुक्तमिति मनोरमोक्तं चिन्त्यमेव । संज्ञाया अर्थनिवन्धनलाङ्ग्छेर्प्रहणार्थलाचेति ॥—वलि भिक्षत इति । ‘भिक्ष भिक्षायामलाभे लाभे च’ भिक्षते याचत इत्यर्थः ॥—देश इति । कुरुपञ्चालादिरेवेह गृह्यते । तेन ‘अधिशीङ्ख्यासां कर्म’ इत्यस्य न वैयर्थ्यम्, अधिपूर्वाणामेषामाधारः कर्मेति नियमार्थलाभ्युपगमेऽपि वैकुण्ठे वर्तते इत्यादिष्वतिप्रसङ्गः स्यादेवेत्याशयेन तथैवोदाहरति—कुरुनिति ॥—गोदोहमिति । न चेह काललात्सिद्धिः, लोके कालत्वेन प्रसिद्धस्य मासादेरेव कालशब्देन ग्रहणात् । तेन घटमास्ते इत्यादि न भवति, जन्यमात्रं कालोपाधिरिति घटादेरपि काललात् ॥ यत्तु प्राचा ‘अकर्मकधातुभिर्योगे देशकालाध्वभावेभ्यो द्वितीया’ इति केचिदित्युक्ला नदीमास्त इत्युदाहतम् । तदसंगतम् । प्रामसमूहः कुर्वादिरेव देशो गृह्यते, न तु प्रदेशमात्रम्, तेन प्रामं स्वपितीति न भवतीत्याकरात् । अध्वेति च न्यूनम्, अध्वानं स्वपितीत्यस्यापि प्रसङ्गात् । अत एव आकरेऽध्वा गन्तव्यत्वेन विशेषितः । गन्तव्यत्वेन प्रसिद्धोऽनियतपरिमाणः कोशादिरिति च व्याख्यातम् । द्वितीयेत्यप्यसङ्गतम्, कर्मसंज्ञाया अविहितलात्कर्मणि लादयो न स्युरित्यास्यते मास इत्यादिप्रयोगाभावप्रसङ्गात् ॥ केचिदित्युक्तिस्तन्मतदौर्वल्यसूचनायेति कथंचिद्व्याख्याय पूर्वोक्तदोषपरिहारेऽपि नदीमास्त इत्युदाहरणस्यासांगत्यदोषस्तदवस्थ एवेति ध्येयम् ॥—गतिवुद्धि—। प्रत्यवसानं भक्षणम्
Footnotes (NSP 1915 ed.)
NSP p. 145 १ कर्मसंज्ञक इति—अतएवास्यते मास इति कर्मणि लादयोऽपि, अकर्मकपदे निषेध्यसमर्पककर्मपदेन कालादिरूपकर्मणाम-ग्रहणेनाकर्मत्वाभावेऽपि लादय इति बोध्यम् । २ गमयतीति—यज्ञदत्तनिष्ठगमनानुकूलदेवदत्तनिष्ठव्यापारानुकूलो विष्णुमित्रनिष्ठो व्यापार इति बोधः ।
SK 540 · A 1.4.52कारकसंज्ञा
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ ५४० ॥
gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā sa ṇau
gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau — Of [verbs] meaning motion (gati), cognition (buddhi), and ingesting (pratyavasāna = eating), of [verbs] whose object is speech (śabdakarman), and of intransitive (akarmaka) [verbs], the one who is the agent (kartṛ) when the ṇic is absent (aṇi) becomes the object (karman) when the ṇic is present (ṇau) [i.e. in the causative].
Rule. Ṇi is the causative affix ("make someone do"). With a verb of motion (gati), of cognition (buddhi), of eating (pratyavasāna), with a verb whose object is speech (śabdakarman), or with an intransitive verb (akarmaka): the one who is the agent when ṇi is absent (aṇi) is named karman when ṇi is present (ṇau). In plain words, the person made to go, know, eat, recite or stay becomes the object of the causative.
Example.
śatru + causative of gam "go" → the enemies would be the agents of the plain "go" → in the causative they are karman → second case → śatrūn agamayat svargam "he made the enemies go to heaven" (motion).
Bhaṭṭoji's verse continues: vedārthaṃ svān avedayat "he made his own people know the Veda's meaning" (cognition); āśayac cāmṛtaṃ devān "he made the gods eat the nectar" (eating); vedam adhyāpayad vidhim "he made Brahmā recite the Veda" (speech-object); āsayat salile pṛthvīm "he made the earth rest on the water" (intransitive).
Applies when / blocked by. Why only these verbs? In pācayaty odanaṃ devadattena "he has Devadatta cook rice", pac is not in the list, so Devadatta stays in the instrumental. Why "when ṇi is absent"? In gamayati devadatto yajñadattam "Devadatta makes Yajñadatta go", Devadatta is already the agent of a causative; if a third person then employs him, gamayati devadattena yajñadattaṃ viṣṇumitraḥ, Devadatta stays instrumental, since he was never the agent of the plain verb.
Several vārttikas trim the list. Not for nī and vah: nāyayati / vāhayati bhāraṃ bhṛtyena "he has the load carried by the servant" (instrumental); but vah with a driver as agent is not excluded: vāhayati rathaṃ vāhān sūtaḥ "the charioteer makes the horses draw the chariot" (accusative). Not for ad and khād: ādayati / khādayati annaṃ baṭunā "he has the food eaten by the boy". Not for bhakṣ unless harm is meant: bhakṣayaty annaṃ baṭunā; but bhakṣayati balīvardān sasyam "he feeds the crop to the oxen", where the crop is destroyed, keeps the accusative. Added: jalp and the like, jalpayati / bhāṣayati dharmaṃ putraṃ devadattaḥ "Devadatta makes his son talk about dharma". Added: dṛś, darśayati hariṃ bhaktān "he makes the devotees see Hari"; this addition shows that only verbs of cognition in general are meant by buddhi, so smārayati / ghrāpayati devadattena "he makes Devadatta remember / smell" keeps the instrumental. Not for the denominative śabdāyate: śabdāyayati devadattena.
Watch out. "Intransitive" here means a verb for which no object distinct in place or time is possible, not a verb whose object merely goes unmentioned. So māsam āsayati devadattam "he makes Devadatta stay a month" has Devadatta as karman; but devadattena pācayati "he has cooking done by Devadatta" does not, since pac has an object even when none is said.
Siddhānta-kaumudī
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।
Of [verbs] having the meanings motion etc. (gati etc.), of those whose object is
speech (śabdakarman), and of intransitive (akarmaka) [verbs], the one who is the
agent (kartṛ) when the ṇic is absent (aṇau) becomes the object (karman) when the
ṇic is present (ṇau).
Verse illustration: "śatrūn agamayat svargaṃ vedārthaṃ svān avedayat / āśayac
cāmṛtaṃ devān vedam adhyāpayad vidhim // āsayat salile pṛthvīṃ yaḥ sa me
śrīharir gatiḥ //" — "He who made the enemies (śatrūn) go to heaven (svargam)
[gati]; who made his own [people] (svān) know the meaning of the Veda (vedārtham)
[buddhi]; who made the gods (devān) consume the nectar (amṛtam) [pratyavasāna];
who made Vidhi (Brahmā, vidhim) recite the Veda (vedam) [śabdakarman]; who made
the earth (pṛthvīm) rest upon the water (salile) [akarmaka] — that Śrī Hari is
my refuge (gatiḥ)." [In each, the underlying agent of the plain verb becomes the
object (accusative) of the causative.]
Why "gati etc." [the restriction to these verb-classes]? pācayaty odanaṃ
devadattena — "he causes Devadatta to cook rice (odanam)": [here √pac is not in
the listed classes, so the caused-agent Devadatta does not become karman but
stays instrumental]. Why "when the ṇic is absent (aṇi)"? gamayati devadatto
yajñadattam ("Devadatta makes Yajñadatta go"); [then] another employs him:
gamayati devadattena yajñadattaṃ viṣṇumitraḥ ("Viṣṇumitra makes Yajñadatta go by
means of Devadatta") — [here Devadatta is an agent in a form that already
contains ṇic, not in the plain non-ṇic verb, so he does not become karman but
stays instrumental].
vārttikaनीवह्योर्न
(vārttika) nī-vahyor na — "Not for √nī and √vah": [the caused-agent's
karman-designation taught in the head-rule does not apply when √nī or √vah is the
ṇic-final root.]
(वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥
(vārttika illustration) nāyayati vāhayati vā bhāraṃ bhṛtyena — "he causes the
load (bhāram) to be carried by the servant (bhṛtyena)"; [the caused-agent, being
the agent of √nī/√vah, remains in the instrumental rather than becoming the
accusative object].
vārttikaनियन्तृकर्तृकस्य वहेरनिषेधः
(vārttika) niyantṛkartṛkasya vaher aniṣedhaḥ — "For √vah whose agent is a driver
(niyantṛ), there is no prohibition" [i.e. the karman-designation of the
caused-agent does apply].
(वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः ।
(vārttika illustration) vāhayati rathaṃ vāhān sūtaḥ — "the charioteer (sūtaḥ)
makes the draught-animals (vāhān, accusative = karman) draw the chariot (ratham)";
[here, √vah having a driver as agent, the caused-agent does become karman].
vārttikaआदिखाद्योर्न
(vārttika) ad-khādyor na — "Not for √ad (to eat) and √khād (to eat)."
(वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥
(vārttika illustration) ādayati khādayati vā annaṃ baṭunā — "he causes the food
(annam) to be eaten by the boy (baṭunā, instrumental)"; [the caused-agent remains
instrumental, since √ad and √khād are exempted].
vārttikaभक्षेरहिंसार्थस्य न
(vārttika) bhakṣer ahiṃsārthasya na — "Not for √bhakṣ when it does not mean
harming (a-hiṃsā-artha)."
(वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥
(vārttika illustration) bhakṣayaty annaṃ baṭunā — "he causes the food to be
eaten by the boy (baṭunā, instrumental)." Why "a-hiṃsā-artha" (not meaning harm)?
bhakṣayati balīvardān sasyam — "he feeds the corn (sasyam) to the oxen (balīvardān,
accusative = karman)"; [here the eating destroys living grain, so it does mean
harm, and the caused-agent does become karman].
vārttikaजल्पतिप्रभृतीनामुपसङ्ख्यानम्
(vārttika) jalpatiprabhṛtīnām upasaṅkhyānam — "An additional statement
(upasaṅkhyāna) is required for jalpati (chatters) and the rest."
(वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।
(vārttika illustration) jalpayati bhāṣayati vā dharmaṃ putraṃ devadattaḥ —
"Devadatta causes his son (putram, accusative = karman) to talk / speak about
dharma (dharmam)."
vārttikaदृशेश्च
(vārttika) dṛśeś ca — "And for √dṛś (to see)."
(वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥
(vārttika illustration) darśayati hariṃ bhaktān — "he causes the devotees
(bhaktān, accusative = karman) to see Hari." By this [inclusion of √dṛś] it is
indicated (jñāpita) that in the [head-]sūtra only [verbs] denoting
cognition-in-general (jñāna-sāmānya) are included, not those denoting a
particular [kind of] cognition (tad-viśeṣa). Hence not for smarati (remembers),
jighrati (smells), and the like: smārayati ghrāpayati vā devadattena — "he causes
[something] to be remembered / smelled by Devadatta (instrumental)" [where the
caused-agent stays instrumental].
vārttikaशब्दायतेर्न
(vārttika) śabdāyater na — "Not for śabdāyate (the denominative 'to make a
sound')."
(वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥
(vārttika illustration) śabdāyayati devadattena — "he causes Devadatta
(instrumental) to make a sound." [The karman-designation] would [otherwise] apply
because [śabdāyate] is intransitive (akarmaka), its object being subsumed in the
meaning of the root (dhātv-artha-saṅgṛhīta-karman). Those [verbs] for which an
object distinct in respect of place, time, etc. (deśa-kāla-ādi-bhinna) is not
possible are here [reckoned] intransitive (akarmaka) — but not those whose object
is merely left unexpressed (a-vivakṣita-karman). Hence in "māsam āsayati
devadattam" ("he makes Devadatta stay a month") and the like, the
karman-designation does indeed apply [to Devadatta]; but not in "devadattena
pācayati" ("he has [rice] cooked by Devadatta") and the like [where √pac is truly
transitive, its object merely unexpressed].
Tattvabodhinī
alignment inferredNSP p. 145–147—शब्दकर्मणामिति । शब्दः कर्म कारकं येषां तेषामित्यर्थः । कर्मशब्दोऽत्र कारकपरः न तु ‘कर्तरि कर्मव्यतिहारे’ इत्यत्रैव क्रियापरः, कृत्रिमे कार्यसंप्रत्ययात् कर्मग्रहणसामर्थ्याच्च । अन्यथा हि ‘गतिबुद्धिप्रत्यवसानशब्दार्थाकर्मकाणाम्’ इत्येव व्रूयात् ॥—अणौ यः कर्तेति । अनुत्पन्ने णिचि शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्त-धातुवाच्यां क्रियां प्रति कर्मसंज्ञः स्यादित्यर्थः ॥ नियमार्थमेतत्सूत्रमिति प्राच्चः । णिजर्थेनाप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव कर्तुरिति । तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये कर्तरि प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनावस्थानात्तृतीया सिध्यति । उक्तं च—‘गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः । नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते’ इति कर्तुः स्वधर्मेण तृतीययेत्यर्थः ॥ ननु णिजर्थं प्रति कर्मत्वं वाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परलादेव सिद्धम् । अन्तरङ्गलाच्च स्वकारकविशिष्टा हि क्रिया णिजर्थेन संबध्यते, हेतुमति णिज्विधानात् । कर्तृप्रयोजकस्य हेतुत्वात् । अत एव उपजीव्यापि कर्तृसंज्ञा । एवं च—‘परलादन्तरङ्गलादुपजीव्यतयापि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता’ । यद्यपि विधिपक्षेऽपि लक्ष्यं निर्वाधमेव । तथापि नियमसूत्रमिदमिति प्राचां ग्रन्थो विरुध्यत इति चेत् । अत्राहुः । णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्रधानानुरोधिन्याः कर्मसंज्ञायाः प्रावल्याद्विप्रतिषेध एव नास्तीति परलात्कर्तृत्वसिद्धिरित्येतन्न संगच्छते । अन्तरङ्गत्वोपजीव्यत्वे अपि प्रधानं प्रति न प्रावल्यं प्रयोजयतः, ततश्च नियमार्थत्वोक्तिः प्राचां निर्वाधैवेति ॥ गत्यादिण्यन्तान् क्रमेणोदाहरति—शत्रूनिति । शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति । गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन् । स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिमें गतिरिति वाक्यार्थः । एवमग्रेऽप्यूह्यम् ।—वेदार्थमिति । स्वे स्वकीया वेदार्थमविदुस्तान् श्रीहरिवेदार्थमवेदयत् । तथा देवा अमृतम् आश्वन् तानाशयत् । विधिः वेदमध्येत तं ब्रह्माणं वेदमध्यापयद् अपाठयत् । सलिले पृथ्वी आस्त तां यो हरिरासयत् स्थापयति स्म स हरिमें गतिरित्यन्वयः ॥ ननु शत्रूणामनेन कर्मत्वे कृते कर्मण ईप्सिततमः स्वर्गो, न तु कर्तुरिति कर्तुरीप्सिततमत्वाभावात् स्वर्गस्य कर्मत्वं न स्यात् ॥ अत्र केचित् ‘गतिबुद्धि-’ इति कर्मत्वस्य बहिरङ्गत्वेन ततः पूर्वमेव धात्वर्थव्यापारप्रयुक्तं कर्मत्वं स्वर्गस्य निर्वाधमित्यदोष इति ॥ अन्ये तु ‘कर्तुरीप्सिततम्-’ इत्यत्र कर्तृग्रहणं स्वतन्त्रस्योपलक्षणम् । स्वातन्त्र्यं च धातूपात्तव्यापाराश्रयत्वमेव । तच्च प्रयोजकसंनिधानेऽपि प्रयोज्यस्यास्त्येवेति न काप्यनुपपत्तिः । न च स्वतन्त्रे संकेतितस्य कर्तृपदस्य तत्रैव लक्षणा न संगच्छते, एकस्यैकस्मिन्नेवार्थे शक्तिलक्षणोभयाभ्युपगमस्य शास्त्रकारासंमतत्वादिति वाच्यम् । संज्ञान्तराजुपहितस्वतन्त्रे संकेतितस्य संज्ञान्तरोपहिताजुपहितसाधारणे स्वतन्त्रे लक्षणाभ्युपगमे बाधकाभावात् । अत एव जिधातोर्जये शक्तिः । प्रकृष्टजये लक्षणा । ‘शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा’ इति । तेन प्रजयतीत्यत्र प्रशब्दो द्योतकः प्रकृष्टजयस्तु जिधातोरेवार्थं इति नैयायिकोक्तिः संगच्छते । नापि कर्तृपदस्य स्वतन्त्रलक्षणायां प्रमाणाभावः शङ्क्यः । ‘प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम्’ इत्युक्त्वा ‘ण्यन्ते कर्तुंश्च कर्मणः’ इति वदतो भाष्यकारस्यैव प्रमाणत्वात् न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येन ‘ण्यन्ते कर्तुः’ इति वचनं सावकाशं स्यादित्याहुः ॥—नीवह्योरिति । यद्यप्यनयोः प्रापणमर्थो न गतिः, तथापि गतिरपि विशेषणीभूय प्रापणमध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः ॥—नियन्त्रिति । नियन्ता पशुप्रेरकः न तु सारधिरेवेति । तेन वाहयति वलीवर्दान् यवानिति सिध्यति । अस्मादेव भाष्योदाहरणात् ‘रूढिर्योगमपहरति’ इति न्यायोऽत्र न स्वीक्रियते ॥—अनिषेध इति । प्रयोज्यः कर्मेति वक्तव्यमिति फलितोऽर्थः । यैस्तु प्रापणं गतिशब्देन गृह्यते यैर्वा न गृह्यते उभयेषामपीदं वचनमावश्यकम् । नीवह्योर्नेति वचनं तु यैः प्रापणं गतिशब्देन न गृह्यते तेषामनावश्यक- मिति बोध्यम् ॥—सूत इति । ‘नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः’ इत्यमरः । प्रत्यवसानार्थलात्कर्मत्वे प्राप्ते निषेधमाह—आदिखाद्योरिति । ‘अद भक्षणे’ ‘खाद्द भक्षणे’ । प्राचा तु आदीति पठ्यते तत्तु ण्यन्तानुकरणमिति बोध्यम् ॥—आदयतीति । इह ‘निगरणचलनार्थेभ्यश्च’ इति परस्मैपदनियमो न प्रवर्तते, ‘अत्तेः प्रतिषेधः’ इति तस्य निषिद्धलात् । तेनाकर्त्रभिप्राये क्रियाफले ‘शेषात्कर्तरि—’ इति परस्मैपदम्, कर्त्रभिप्राये तु ‘णिचश्च’ इत्यात्मनेपदं भवत्येवेति बोध्यम् ॥—भक्षेरिति । ननु ‘गतिबुद्धि—’ इति सूत्रेणाणौ कर्तुर्णौ कर्मत्वं विधीयते न तु णौ कर्तुरिति प्राप्ते रेवाभावान्निषेधोऽयं व्यर्थ इति चेत् । अत्राहुः । हेतुमण्णिजन्ते विधिरिति । निषेधोऽप्यणावित्ययं संनिधानाद्धेतुमण्णिज्विषय एव, तेन चुरादिणिजन्तेऽपि भक्षयतौ प्राप्तिसत्त्वात्तन्निषेध उपसंख्यात इति ॥—भक्षयतीति । बलीवर्दाः सत्यं भक्षयन्ति । तान् भक्षयतीत्यर्थः । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा ज्ञेया, तस्यामवस्थायां तेषां चेतनत्वात् ॥—जल्पतिप्रभृतीनामिति । ‘जप जल्प व्यक्तायां वाचि’ । पुत्रो धर्मं जल्पति तं देवदत्तो जल्पयतीत्यण्यन्तावस्थायां पुत्रः कर्ता । ण्यन्तावस्थायां कर्म अभवत् । तथा पुत्रो धर्मं भाषते तं भाषयति देवदत्तः । न च जल्पतिभाषत्योः शब्द- क्रियत्वेन ‘गतिवृद्धि-’ इति सूत्रेणैव सिद्धे उपसंख्यानमिदं व्यर्थमिति भ्रमितव्यम् । शब्दकर्मणामित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा ‘वेदमध्यापयद्विधिम्’ इत्यादेरसिद्धिप्रसङ्गात् । एवं पुत्रो यत् किञ्चिद्विलपति तं विलापयतीत्याद्यप्यूह्यम् ॥—स्मारयतीति । आध्यानार्थकस्यैव स्मरतेः ‘घटादयो मितः’ इति मित्त्वं, न चिन्तार्थकस्येति भावः ॥—देवदत्तेनेति । स्मारयत्येनं वनगुल्म इत्यत्र तु ‘णेरणौ-’ इति सूत्रे भाष्ये प्रयोगादेव कर्मत्वं बोध्यम् ॥—शब्दाययतीति । शब्दं करोतीत्यर्थे ‘शब्दवैर-’ इत्यादिना क्यङ् । ततो हेतुमणिच् ॥—धात्वर्थसंगृहीतेति । एतेनं शब्दाययति सैनिकै रिपूनिति कर्म प्रयुज्जानाः परास्ताः ॥—न त्वविवक्षितकर्माणोऽपीति । यथा ‘लः कर्मणि च-’ इति सूत्रेऽविवक्षितकर्माणोऽप्यकर्मका इति गृह्यन्ते तथैवेहापि यदि गृह्येरन् तदा ओदनादिकर्मणोऽविवक्षायां पाचयति देवदत्तमिति स्यात्, न तु देवदत्तेन पाचयतीति । एवं ‘गत्यर्थाकर्मक-’ इति सूत्रेऽप्यविवक्षितकर्माणोऽकर्मका इति न गृह्यन्ते । दत्तवान् पक्ववान् इत्यर्थे दत्तः पक्व इत्यापत्तेः ॥ यत्तु प्राचा ‘अयकन्दशब्दायह्वेनां न’ इत्युक्तम् । तदयुक्तम् । अयतेनिषेधस्य निर्मूलत्वेन अणौ कर्तुणौ कर्मत्वस्य तत्रेष्टत्वात् । कन्दह्वेनोस्तु शब्दक्रियत्वेऽपि शब्दः कर्म कारकं नेति प्राप्तेरेवाभावाच्चेति स्थितं मनोरमायाम् ॥ यदपि ‘श्रुग्रहदृशाम्’ इति कर्मत्वमुक्तं, तत्र दृशिग्रहणं प्रामाणिकमेव । शृणोतेस्तु शब्दकर्मकत्वात्सिद्धम् । प्राहेर्द्विकर्मकत्वं यद्यपि ‘अजिग्रहत्तं जनको धञुस्तत्’ इति भट्टिप्रयोगस्य, ‘अयाचितारं न हि देवदेवमद्रिः सुतां प्राहयितुं शशाक’ इति कालिदासप्रयोगस्य चानुगुणम् । तथापि वहूनामसंमतमेव । अत एव ‘तं धनुरञ्जिप्रहद्वेषितवान् सुतां प्राहयितुमुद्वाह्यत्वेन बोधयितुम्’ इत्येवमुक्तप्रयोगं समर्थयांचकिरे । न च बुद्ध्यर्थत्वं विनापि यथाश्रुतार्थे एव प्राहे- द्विकर्मकत्वमस्त्विति वाच्यम् । तथा हि सति ‘जायाप्रतिप्राहितगन्धमाल्याम्’ इत्यत्र क्तप्रत्ययेनाभिधानं प्रयोज्यकर्माभूत- धेनोः स्यात्, न तु गन्धमाल्यकर्मणः, ‘ण्यन्ते कर्तुश्च कर्मणः’ इत्युक्तेः । जायाप्रेरिता हि धेनुर्गन्धमाल्ये प्रतिगृह्णातीति भव- त्येव धेनुः प्रयोज्यकर्म । ततश्च जायया गन्धमाल्ये प्रतिप्राहितामिति स्यात् । क्तप्रत्ययानभिहितत्वेन गन्धमाल्यकर्मणि द्वितीयायाः प्रवृत्तेः ॥ सिद्धान्ते तु जायया प्रतिप्राहिते गन्धमाल्ये ययेति विग्रहः । द्विकर्मकत्वाभावेन गन्धमाल्यस्यैव क्तप्रत्ययेनाभिहितत्वात् । ययेति तृतीया तु णिजर्थं प्रति जायायाः कर्तृत्वेऽपि णिच्प्रकृत्यर्थं प्रतिग्रहं धेनोः कर्तृत्वादुपपद्यते । एवं चेह जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत् प्रतिग्रहणं तत्कर्त्रीमिति वृत्त्यर्थः । यद्यपि धेनुकर्तृकं जायानिष्ठप्रेर- णविषयीभूतं यत्प्रतिग्रहणं तत्कर्मीभूते गन्धमाल्ये इति विग्रहार्थः, तथाप्यन्यपदार्थान्तर्भावेणैव विशेषणविशेष्यभाववैपरी- त्येन एकार्थीभावः कल्प्यत इति नास्त्यत्रानुपपत्तिरिति दिक्
Bālamanoramā
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ - गतिबुद्धि । गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं-भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः । अविद्यमान कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता-अणिकर्ता । यच्छब्दोऽध्याहार्यः । तदाह — हत्याद्यर्थानामित्यादिना । णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः । क्रमेणोदाहरति — शत्रूनिति ।शत्रूनगमयत् स्वर्ग॑मिति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः । प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव । सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वंकर्तुरीप्सिततम॑मित्येव सिद्धम् । अतो नियमार्थमिदं सूत्रेणिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे॑ति । तेन 'पाचयति देवदत्तेन' इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव । तदेतत्हेतुमिति चे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा — ॒गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।॑ इति स्वधर्मेणेति । तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्नेऽप्यूह्रम् । वेदार्थं स्वानवेदयदिति । बुद्ध्यर्थधातोर#उदाहरणम् । स्वशब्द आत्मीयपरः । स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्कर्त्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मण उदाहरणमेतत् । विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम् । यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।नीवह्र्रोनेति । 'णीञ् प्रापणे,' 'वह प्रापणे' इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु॒र्गतिबुद्धी॑त्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति । भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या । यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः । नियन्तृकर्तृकस्येति । एवंच तत्र प्रयोज्यकर्तुरुक्तस्यनीवह्रोर्ने॑ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । बाहाः=अआआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः ।वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः॑ इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः ।अदिखाद्योर्नेति । अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आद्यति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोजकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । ननुगतिबुद्धी॑ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात्गतिबुद्धी॑ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्नं बटुनेति । चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवंच भक्षयत्यन्नं बटुः । खादतीत्यर्थः । तं प्रेरयतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दानिति । क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः ।जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति ।धर्म मिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एवशब्दकर्माकर्मकाणा॑मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तुके पुनर्जल्पतिप्रभृतयः । जल्पति विलपति आभाषते॑ इत्येवोक्तम् । परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये ।दृरोश्चेति । 'दृशिर्प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति ।गतिबुद्धी॑ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनांविद ज्ञाने, ज्ञा अवबोधने॑ इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत्दृरोश्चे॑त्यनेन विज्ञायते । अन्यथादृरोश्चे॑त्यस्य वैयथ्र्यप्रसङ्गात् । तेनेति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः ।शब्दायतेर्नेति । शब्दं करोतीत्यर्थेशब्दवैरे॑त्यादिना क्यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशोऽयम् । शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः,धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि॑ति 'सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं चशब्दाययति सैनिकै रिपून् इति कर्म प्रयुञ्ज्ञानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्,अकर्मकधातुभिर्येगे॑इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात् । किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह — येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् ।
gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau —
"gati and buddhi and pratyavasāna — those": a dvandva. pratyavasāna = eating
(bhakṣaṇa). The analysis [of gatibuddhipratyavasānārtha]: "those of which gati,
buddhi, and pratyavasāna are the meaning (artha)" [a bahuvrīhi]. "those of which
speech (śabda) is the object (karman)" are śabdakarman — of those; a bahuvrīhi.
"those for which no object exists" are akarmaka (intransitive). In both places
the word "karman" refers to the object-kāraka [not to a grammatical
object-word]. "those meaning gati-buddhi-pratyavasāna, and those with śabda as
object, and the intransitive ones — of those": a dvandva. "aṇau kartā" [the agent
when the ṇic is absent] means the aṇi-kartṛ; the relative pronoun "yat" (which) is
to be supplied. He states this with "gatyādyarthānām" etc. The meaning: when the
ṇic is not [yet] produced, the one who is the agent (kartṛ) with respect to the
action expressed by the bare root (śuddha-dhātu) becomes karman-designated with
respect to the action — consisting of the causer's activity (prayojaka-vyāpāra) —
expressed by the ṇic-final root (ṇy-anta-dhātu).
He illustrates in order, with "śatrūn" etc. "śatrūn agamayat svargam" is the
example of a verb meaning motion (gati-artha). The construction: "the enemies
(śatravaḥ), slain in battle, went to heaven (svargam agacchan); He who by a hail
of weapons (śastra-vāta) made them go (agamayat) to heaven — that Śrī Hari is my
refuge (gatiḥ)." Here, in the non-ṇic state (aṇyanta-avasthā) of √gam, the
enemies are the agents (kartṛ) with respect to the action of going, while heaven
(svarga) is the object (karman). But in the ṇic-final state, with respect to the
action of weapon-striking — consisting of the causer's activity, expressed by the
ṇic — Hari, the one who causes the striking (ghātayitṛ), is the agent, while the
enemies are the object (karman); for [the enemies] are the locus (āśraya) of the
action of attaining heaven, which is produced by the weapon-striking. And so Hari
is the causer-agent (prayojaka-kartṛ), while the enemies are the caused-agents
(prayojya-kartṛ).
For the causer-agent Hari there is both verbal primacy (śābda-prādhānya) and
semantic primacy (artha-prādhānya) characterized by independence from another
(anya-anadhīnatva). But for the enemies, [their] agency in attaining heaven —
dependent on another (anya-adhīna), subordinate to the causer (prayoktṛ-adhīna) —
is merely subordinate (guṇa-bhūta). The semantic primacy characterized by being
the thing aimed at (seṣitva) belongs, however, precisely to the agency residing
in the caused enemies, since the causer's activity has as its purpose the caused
[enemies'] attainment of heaven — such is the settled position. There, since the
semantic primacy characterized by independence-from-another and the verbal
primacy both reside in the causer's activity, the karman-designation residing in
the enemies, conforming to that [primacy], is established simply by "kartur
īpsitatamam" [A 1.4.49 — that which the agent most desires to reach is karman].
Therefore this [present] sūtra is for the purpose of restriction (niyama): "if the
caused-agent (prayojya-kartṛ), reached (āpyamāna) by the meaning of the ṇic, is
to become karman, then [it does so] only for [verbs] meaning motion etc.
(gatyartha etc.)." Hence in "pācayati devadattena" etc., the caused-agent has no
karman-designation, but only agency (kartṛtva) [and stays instrumental]. All this
is clear in the Bhāṣya and Kaiyaṭa on the sūtra "hetumati ca" [A 3.1.26]. And it
is stated by Hari (Bhartṛhari): "Because of [its] independence in the subordinate
action, [the caused-agent], having attained object-hood (karmatā) in the
causation (preṣaṇa), is — by the restriction of the karman-designation — denoted
by its own property (sva-dharma)." "By its own property" means: by the
instrumental (tṛtīyā). And so the sentence-meaning is: "the going, residing in the
enemies and having heaven as its object; He in whom resides the activity conducive
to that — that Śrī Hari is my refuge." The same is to be inferred (ūhya) in the
following [examples] too.
"vedārthaṃ svān avedayat" is the example of a root meaning cognition
(buddhy-artha). The word "sva" refers to one's own [people]: His own [people],
headed by Vidhi (Brahmā), knew (aviduḥ) the meaning of the Veda [in the plain
verb]; Hari made them know (avedayat) the meaning of the Veda — this is the
meaning. Here the karman-designation [applies] to His own [people], the
caused-agents. "āśayac cāmṛtaṃ devān" is the example of [a root] meaning eating
(pratyavasāna-artha): the gods ate (āśnan) the nectar; Hari made them eat
(āśayat) [it]. "vedam adhyāpayad vidhim" — this is the example of [a root] whose
object is speech (śabdakarman): Vidhi, [that is,] Brahmā, studied (adhītavān) the
Veda; Hari caused him to study (adhyāpayat) [it]. Here the karman-designation
[applies] to the caused-agent Vidhi. "āsayat salile pṛthvīm" is the example of an
intransitive (akarmaka) [root]: the earth rested (āsta) on the water; Hari made
it rest (āsayat). Here the karman-designation [applies] to the earth, the
caused-agent. "yaḥ sa me śrīharir gatiḥ" (He who [did this], that Śrī Hari is my
refuge) construes with each sentence (prativākyam).
"nī-vahyor na" — for these two, "ṇīñ prāpaṇe" (√nī, to convey) and "vaha prāpaṇe"
(√vah, to convey), when ṇic-final, it should be stated that what was taught in
"gatibuddhi[...]" [the caused-agent's karman-designation] does NOT [apply].
"nāyayati vāhayati vā" — the meaning is: "the servant carries (nayati / vahati)
the load; [he] impels him (taṃ prerayati)." Here, for the caused-agent the
servant — who is the agent with respect to the meaning of the ṇic's base
(ṇic-prakṛty-artha), namely carrying (naya/vahana) — since the karman-designation
with respect to the causer's activity (prayojaka-vyāpāra) is withdrawn (nivṛtta),
and since only his agency with respect to the ṇic-base's meaning remains, now
without exception (nirapavāda), the instrumental (tṛtīyā) is to be understood
[bhṛtyena]. Although the meaning of √nī and √vah is "conveying" (prāpaṇa), still,
since in "conveying" — [understood] as an activity conducive to motion — motion
(gati) enters as a qualifier, [these roots] have the sense of motion (gaty-artha);
hence [the karman-designation] would [otherwise] apply [and the prohibition is
needed] — such is the idea.
"niyantṛkartṛkasya" — and so, when for the caused-agent stated there [√vah whose
agent is a driver, niyantṛ] the prohibition "nī-vahyor na" does not apply, the
karman-designation of the caused [-agent] must be stated — this is the upshot.
"vāhayati" — the meaning is: "the vāhas — [that is] the horses (aśvāḥ) — draw
(vahanti); the charioteer (sūtaḥ) impels them." As Amara: "niyantṛ, prājitṛ,
yantṛ, sūta, kṣattṛ, and sārathi [are terms for the driver]." From the Bhāṣya
example "vahanti balīvardā yavān; vāhayati balīvardān devadattaḥ" ("the oxen carry
the barley; Devadatta makes the oxen carry [it]"), the "niyantṛ" intended is
specifically one who impels animals (paśu-preraka).
"ad-khādyor na" — √ad (to eat) and √khād (to eat): for these two it should be
stated that there is no karman-designation of the caused-agent; [otherwise it]
would apply because they mean eating (pratyavasāna-artha). "ādayati khādayati vā"
— the meaning is: "the boy (baṭuḥ) eats (atti / khādati) the food; [he] impels
him." "bhakṣeḥ" — it should be stated that for √bhakṣ not meaning harm
(a-hiṃsā-artha), there is no karman-designation of the caused-agent
(prayojya-kartṛ). Objection (nanu): In the sūtra "gatibuddhi[...]" the
karman-designation in the ṇic (ṇau) was taught for the agent in the non-ṇic
(aṇau). But √bhakṣ, being of the cur-ādi class, is always ṇic-final in its own
sense (nitya-svārthika-ṇy-anta); it has no non-ṇic agent (aṇi-kartā) at all.
Hence a prohibition of the karman-designation for it is unfounded, since [the
designation] does not even arise (aprasakta). — Response: No. For, precisely from
the indication (liṅga) [given by] this very prohibition, in the sūtra
"gatibuddhi[...]" the mention of ṇic (ṇi-grahaṇa) is understood to intend
specifically the causative-ṇic (hetumat), [not the svārthika ṇic]. And so the
sense settles as: when the causative-ṇic (hetumat-ṇic) is not [yet] produced, the
agent with respect to the action expressed by the [svārthika-]ṇic-final √bhakṣ,
[treated as] non-[hetumat-]ṇic (aṇyanta), becomes karman with respect to the
action expressed by the hetumat-ṇic-final [root] — hence there is no fault (na
doṣaḥ). "bhakṣayaty annaṃ baṭunā" — from √bhakṣ, [already] ṇic-final as a cur-ādi
root, when the causative-ṇic (hetumat-ṇic) [is added], and when the prior ṇi is
elided (pūrva-ṇer lopa), and when tiP etc. [are added] after the hetumat-ṇic-final
[stem], the form is "bhakṣayati." And so "bhakṣayaty annaṃ baṭuḥ" [in the aṇyanta
sense] means "the boy eats (khādati) the food"; "he impels him" is the meaning of
the ṇic-final [form]. "bhakṣayati balīvardān" — what is intended here [by sasya]
is corn with roots firmly grown (prarūḍha-mūla) in the field; since at that time
it has living sentience within (antaḥ-prāṇa-jīvatva), eating it is indeed harm
(hiṃsā) — this is the idea. [So the a-hiṃsā exemption fails, and the oxen become
karman.]
"jalpatiprabhṛtīnām" — it should be stated that for these [jalpati etc.], the one
who is the agent in the non-ṇic becomes karman in the ṇic. "jalpayati bhāṣayati
vā" — "dharmam" is to be supplied: "the son talks / speaks (jalpati / bhāṣate)
about dharma; Devadatta impels him." The statement [is needed] because [these
verbs] are not included among gaty-artha etc. Nor should it be said that this
statement is purposeless because [the result] is already established by [these
verbs'] meaning the action of sounding (śabdana-kriyā); for precisely this reason,
"śabdakarma-akarmakāṇām" means "those of which sound (śabda) is the object-kāraka
(karman kārakam)." Otherwise "vedam adhyāpayad vidhim" would not be established.
In the vārttika, by "ādi" (etc.), vyāharati, vadati, and the like are included.
But in the Bhāṣya it is stated thus: "What, then, are the jalpati-prabhṛti
[verbs]? — jalpati, vilapati, ābhāṣate." Some [say] this is an exhaustive
enumeration (parigaṇana); others [say] it is merely a display of examples
(udāharaṇa-mātra).
"dṛśeś ca" — for this also, "dṛśir prekṣaṇe" (√dṛś, to see), it should be stated
that the agent in the non-ṇic becomes karman in the ṇic. "darśayati" — the
meaning is: "the devotees see (paśyanti) Hari; the teacher (guru) impels them."
Objection: since √dṛś is itself a particular kind of cognition
(buddhi-viśeṣa-ātmaka), [the result] is already established; what purpose does
this statement serve? In answer he says "sūtre" etc.: in the sūtra
"gatibuddhi[...]," by the mention of buddhi only those [verbs] denoting
cognition-in-general (jñāna-sāmānya) — "vida jñāne" (√vid, to know), "jñā
avabodhane" (√jñā, to understand), and the like — are included, not those
denoting a particular cognition; this is understood (vijñāyate) from "dṛśeś ca."
Otherwise "dṛśeś ca" would be purposeless. "tena" (thereby) means "by [this]
indication (jñāpana)." "smarati jighrati" etc.: by "ādi," prekṣate and the like
are included. "smārayati" — the meaning is: "Devadatta remembers (smarati) his
beloved; Devadatta smells (jighrati) sandal; Yajñadatta impels him" [and
Devadatta stays instrumental, not karman].
"śabdāyater na" — in the sense "makes a sound" (śabdaṃ karoti), by
"śabda-vaira[-kalaha...]" the affix kyaṄ [is added]; the long vowel by
"akṛtsārvadhātukayoḥ [dīrghaḥ]" [A 7.4.25]; root-hood by "sanādyantā[ḥ dhātavaḥ]"
[A 3.1.32]; this citation [as śabdāyati] is made with śtip. "śabdāya" — for the
kyaṄ-final root [śabdāya-] it should be stated that the agent in the non-ṇic is
NOT karman in the ṇic. "śabdāyayati devadattena" — the meaning is: "Devadatta
makes a sound (śabdāyate); Yajñadatta impels him." Because Devadatta lacks the
karman-designation, taking [his] caused-agent status (prayojya-kartṛtva), the
instrumental (tṛtīyā) alone [is used: devadattena]. He dispels the misconception
that here [the karman-designation] would apply because [śabdāyate] has sound as
its object (śabda-karmaka), with "dhātv-artha[...]": the meaning of the kyaṄ-final
root śabdāya is "producing (utpādana) with sound as object." And so the object
consisting of sound is subsumed within the meaning of the root; hence, [with
respect] to "sound," the kyaṄ-final root is intransitive (akarmaka) — because
"[a verb's] having an object that lies outside the root-meaning
(dhātv-artha-bahir-bhūta) alone is transitivity (sakarmakatva)," as elaborated in
the Bhāṣya on the sūtra "supa ātmanaḥ [kyac]" [A 3.1.8]. Therefore [the
karman-designation] would apply here precisely because [śabdāya] is intransitive —
this is the meaning [and so the prohibition is needed]. And thus those who
construe an object (as in "śabdāyayati sainikai ripūn," "he makes the enemies cry
out by the soldiers") are refuted (parāstāḥ).
Objection: In "Devadatta stays a month (māsam āste); [another] impels him —
Yajñadatta makes Devadatta stay a month (māsam āsayati devadattaṃ yajñadattaḥ),"
the karman-designation of the caused-agent Devadatta should not obtain, because
√ās is not included among gaty-ādi. Nor should it be said that it is included [in
the sūtra] through [√ās's] intransitivity (akarmakatva); for by
"akarmakadhātubhir yoge" the [word] "māsa" is [itself] an object (karman), so √ās
cannot be intransitive [here]. Moreover, when the object such as rice (odana) is
not intended to be expressed (a-vivakṣā) — "Devadatta cooks (pacati); Yajñadatta
makes [him] cook: pācayati devadattena yajñadattaḥ" — the karman-designation of
the caused-agent Devadatta would obtain, since then √pac, being [treated as]
intransitive, would fall among gaty-ādi. In answer to this he says "yeṣām" etc.
[the k15 definition: those for which an object distinct in place/time is
impossible are the akarmaka intended — not those whose object is merely
unexpressed]. And this is clear in the Bhāṣya and Kaiyaṭa on the present sūtra.
Footnotes (NSP 1915 ed.)
NSP p. 146 १ भक्षयति बलीवर्द्धनिति—हिंसाफलके भक्षणे भक्षेर्वृत्तिः । परकीयसस्यभक्षणे परो हिंसितो भवति इति तत्त्वाभिनाऽभ्य हिंसा द्रष्टव्या । २ शब्दायतेर्नेति—अयं निषेधो व्यर्थः, शब्दायतेः शब्दरूपकर्मणो धात्वर्थसंगृहीतत्वेऽपि ह्ययतेरिव बहिर्भूतपुत्रा-दिकर्मणोऽभावे मानाभावेन अकर्मत्वाभावात् इति परे । ३ नत्वविवक्षितेति—तदविवक्षा च द्विधा, तदन्वययोग्यधात्वर्थत्यागा-देका, सत्त्वे च तस्मिन्नर्थे तत्र संबन्धित्वेनान्वयविवक्षा परा ।
NSP p. 147 ↑ अभिनिविशते इति—अभिनिवेश आग्रहः । सन्मार्गविषयकाग्रहवानित्यर्थः । २ उपर्यादिष्विति—उपर्यादीनां समीपोध्वं-देशादिवृत्तित्वमर्थः ।
translator notes
- textual The digital source carries OCR corruptions in the Devanāgarī, read here to the evidently intended forms: हत्याद्यर्थानाम् → gatyādyarthānām, बाहाः=अआआ → vāhāḥ = aśvāḥ, दृरोश्च → dṛśeś ca, भा दी#उतौ → bhā dīptau, वैयथ्र्य → vaiyarthya, धात्वर्थबहुर्भूत → dhātv-artha-bahir-bhūta, अन्तःप्रज्ञजीव → antaḥ-prāṇa-jīva (living sentience within). The Sanskrit examples and paradigm forms themselves are preserved as transmitted.
- translator 'seṣitva' (the semantic primacy of the caused-agent) is rendered 'being the thing aimed at' — the point being that the causer's activity is directed toward (has as its purpose, artha) the caused-agent's attainment of the goal, so the īpsitatama-karman designation of A 1.4.49 attaches to the caused-agent; the present rule is then a niyama restricting that outcome to the gaty-ādi classes.
SK 541 · A 1.4.53कारकसंज्ञा
हृक्रोरन्यतरस्याम् ॥ ५४१ ॥
hṛkroranyatarasyām
In [the causative of] hṛ and kṛ, [the prayojya-kartā] optionally [becomes karman]. — 1.4.53
Rule. With the causative of hṛ (carry) and kṛ (make), the agent of the plain verb is named karman only optionally (anyatarasyām).
Example.
bhṛtya + causative of hṛ → the servant would be the agent of the plain "carry" → optionally karman → hārayati bhṛtyaṃ kaṭam "he has the servant carry the mat" (servant as karman, accusative) or hārayati bhṛtyena kaṭam (servant left as agent, instrumental).
Likewise kārayati bhṛtyaṃ / bhṛtyena kaṭam "he has the servant make the mat".
Applies when / blocked by. A vārttika extends the option to abhivad (salute) and dṛś when the verb takes the middle endings (ātmanepada): abhivādayate / darśayate devaṃ bhaktaṃ bhaktena vā "he makes the devotee salute / see the Lord".
Siddhānta-kaumudī
हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥
The one who is the agent (kartā) of hṛ and kṛ in their non-causative (aṇau) [state] — he optionally becomes karman-designated when the causative ṇi [is added]. Example: hārayati kārayati vā bhṛtyaṃ bhṛtyena vā kaṭam — "he makes the servant carry / makes the mat carried by the servant; he makes the servant make / makes the mat made by the servant" [the causee taken either as accusative karman or as instrumental agent].
vārttikaअभिवादिदृशोरात्मनेपदे वेति वाच्यम्
(vārttika) It should be stated: in the case of abhivādi (the causative of abhi + vad) and dṛś, when the ātmanepada [is used], there is likewise an option.
(वार्तिकम्) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥
(vārttika) abhivādayate darśayate devaṃ bhaktaṃ bhaktena vā — "he causes the devotee to salute / to see the Lord" [the devotee-causee either accusative or instrumental].
Tattvabodhinī
NSP p. 147—हृक्रो—। हा च का च हृकरौ तयोरिति विग्रहः, हुश्च कुश्च हृक्रोरिति वा । प्रथमान्तेन परिनिष्ठितविभक्त्या वा विग्रह इति सिद्धान्तात् । ‘गतिबुद्धि—’ इत्यादीह नानुवर्तते । तेन उभयत्रविभाषेयम् । अभ्यवपूर्वस्य हरतेर्भक्षणार्थकलात् विकारार्थस्य करोतेश्वाकर्मकत्वात् ‘गतिबुद्धि—’ इत्यादिना अणौ कर्तुः णौ कर्मत्वे प्राप्ते, अर्थान्तरे चानयोः सकर्मकत्वादप्राप्ते, अस्यारम्भात् ॥ अप्राप्तावुदाहरणमाह—हारयतीति । हरति करोति वा कटं भृत्य इत्यण्यन्तावस्थायां भृत्यः कर्ता, स एव ण्यन्तावस्थायां कर्माभूत् । प्राप्ते तदाहरणम्—तृणमभ्यवहारयति सैन्धवान् तृणमभ्यवहारयति सैन्धवैः, विकारयति सैन्धवान् विकारयति सैन्धवैरिति बोध्यम् ॥ ननु यदि ‘गति-बुद्धि-’ इत्यादिरिह नानुवर्तेत तदैतदेवं स्यात् । तत्रैव मानं न पश्याम इति चेन्मैवम् । ‘न वेति विभाषा’ इति सूत्रे उभयत्रविभाषासु भाष्यकृताऽस्यापि सूत्रस्य गणितत्वेनोक्तशङ्काया अनवतारात् ॥—अभिवादीति । ‘वद संदेशवचने’ चुरादिराष्ट्रीयः । अभिपूर्वकत्वान्नमस्कारार्थता । अभिवादयतेरप्राप्तौ दृशेस्तु प्राप्तावयं विकल्पः । अभिवदति देवं भक्तस्तं प्रेरयत्यन्यः । अभिवादयते । ‘णिचश्च’ इत्यात्मनेपदम् । परस्मैपदे तु अभिवादयति देवं भक्तेनेत्येव । तथा पश्यति देवो भक्तं दर्शयते देवं भक्त इत्यादि
Bālamanoramā
हृक्रोरन्यतरस्याम् - ह्मक्रो । हा च का च ह्मकरौ, तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः । ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा ।अब्यवहारयति सैन्धवान्सैन्धवैर्वा,॑विकारयति सैन्धवान्सैन्धवैर्वा॑ । अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः ।अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः । अभिवादयते इति । अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिति फलेणिचश्चे॑त्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा ।गतिबुद्धी॑त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापिदृशेश्चे॑ति नित्यं प्राप्ते विकल्पः ।
hṛkroranyatarasyām — hṛkroḥ. hṛ and kṛ [together are] hṛ-kṛ; the analysis is "of those two (hṛkroḥ)." hārayati kārayati veti — the meaning is: the servant carries or makes the mat; [the causer] impels him. Here the karman-hood of the prayojya-kartā (the instigated agent), the servant, is optional. Since hṛ and kṛ are not included among the [roots of] motion etc. [covered by gatibuddhipratyavasānārtha... A 1.4.52], this option (vibhāṣā) is one where [karman] was not otherwise obtained (aprāpta-vibhāṣā). But in another sense of hṛ and kṛ it is an option where [karman] would otherwise obtain (prāpta-vibhāṣā): vyavaharayati saindhavān saindhavair vā, vikārayati saindhavān saindhavair vā. Here, because vyavaharati has the sense of eating (bhakṣaṇa) [under A 1.4.52's pratyavasāna] and vikarati is intransitive (akarmaka), [the karman designation] would otherwise obtain.
abhivādīti — the meaning is: for the causative (hetumat-ṇyanta) of the root vad preceded by abhi, and for the ṇyanta of the root dṛś, when they are ātmanepadin, the agent in the aṇi [state] optionally becomes karman in the ṇi. abhivādayate iti — the devotee salutes (abhivadati = pays homage to) the Lord; the teacher impels him. This is the meaning. The ātmanepada is by "ṇicaśca" (A 1.3.74), the fruit accruing to the agent. Here the karman-hood of the prayojya-kartā, the devotee, is optional; this is an option where [karman] was not otherwise obtained (aprāpta-vibhāṣā). In the parasmaipada, however, it is only "abhivādayati devaṃ bhaktena" [the causee staying instrumental]. The devotee sees the Lord; the teacher impels him → darśayate devaṃ bhaktaṃ bhaktena vā. As for "gatibuddhi..." (A 1.4.52): it was stated there that, by the mention of "buddhi," only [roots] denoting cognition in general (jñānasāmānya-vācin) are taken; nevertheless, by "dṛśeśca" [the vārttika], the option applies [to dṛś] where [karman] would otherwise be obligatory (nitya).
translator notes
- textual The digital source corrupts several forms, translated per the evident readings but not emended: hṛ is written hma throughout (hmakroḥ, hmakarau for hṛkroḥ, hṛkarau); vyavaharati appears as abyavaharati / abyabaharateḥ.
SK 542 · A 1.4.46कारकसंज्ञा
अधिशीङ्स्थाऽऽसां कर्म ॥ ५४२ ॥
adhiśīṅsthā''sāṃ karma
adhiśīṅsthā''sāṃ karma — 1.4.46. The locus (ādhāra) of adhi + śīṅ, sthā, and ās becomes karma (the object).
Rule. The locus (ādhāra) of the roots śīṅ (lie), sthā (stand) and ās (sit) when preceded by adhi is named karman, not locus.
Example.
hariḥ vaikuṇṭha- adhi-śete "Hari lies upon Vaikuṇṭha" → Vaikuṇṭha is the place lain on → by this rule it is karman → second case → adhiśete vaikuṇṭhaṃ hariḥ.
Likewise adhitiṣṭhati vaikuṇṭhaṃ hariḥ, adhyāste vaikuṇṭhaṃ hariḥ.
Siddhānta-kaumudī
अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥
The locus (ādhāra) of these [roots] preceded by adhi becomes karma (the object).
Example: adhiśete / adhitiṣṭhati / adhyāste vā vaikuṇṭhaṃ hariḥ — "Hari lies upon
/ stands upon / sits upon Vaikuṇṭha" (Vaikuṇṭha in the accusative, as karma).
Bālamanoramā
अधिशीङ्स्थाऽसां कर्म - अधिशीङ् । शीङ्, स्था, आस् एषां द्वन्द्वः । अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः । तदाह — अधिपूर्वाणामिति । अधिकरणसंज्ञापवादोऽयम् । अधिशेतीति । अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः ।
adhiśīṅsthā''sāṃ karma — adhiśīṅ. There is a dvandva compound of śīṅ, sthā,
and ās. When analysed as "adhi-pūrvā śīṅ-sthā-āsaḥ" (śīṅ, sthā, ās preceded by
adhi), there is elision of the latter member (uttarapada-lopa) of the śāka-pārthiva
type (a madhyamapada-lopa compound). He states this by "adhipūrvāṇām" (of those
preceded by adhi). This is an exception to the adhikaraṇa (locus) designation.
"adhiśete" — the construction is: adhiśete vaikuṇṭhaṃ hariḥ, adhitiṣṭhati
vaikuṇṭhaṃ hariḥ, adhyāste vaikuṇṭhaṃ hariḥ. The adhi, however, [merely] indicates
the locus (ādhāra) which is the sense of the seventh (locative); the meaning is
"he lies / stands / sits in Vaikuṇṭha" (vaikuṇṭhe).
SK 543 · A 1.4.47कारकसंज्ञा
अभिनिविशश्च ॥ ५४३ ॥
abhiniviśaśca
And the locus (ādhāra) of viś preceded by abhi-ni is [designated] karman. — 1.4.47
Rule. And the locus of viś (enter) preceded by the pair abhi-ni is named karman.
Example.
sanmārga + abhiniviśate "he sets his mind on the good path" → the path is the locus of the entering → karman → abhiniviśate sanmārgam.
Applies when / blocked by. The word anyatarasyām "optionally" is carried into this rule from SK 580 by a "frog's leap" (maṇḍūkapluti), that is, skipping over the rules between. The option is a conditioned one (vyavasthita-vibhāṣā): in some expressions it is simply not taken, so pāpe 'bhiniveśaḥ "attachment to sin" keeps the locative.
Siddhānta-kaumudī
अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् SK 580 इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥
The locus (ādhāra) of viś (viśati) preceded by this aggregate "abhini" is karman. Example: abhiniviśate sanmārgam — "he becomes intent upon the good path." From the sūtra "parikrayaṇe saṃpradānam" (SK 580), carrying forward "anyatarasyām" here by a "frog's-leap" (maṇḍūkapluti) and resorting to a conditioned option (vyavasthita-vibhāṣā), in some cases [it does] not [apply]: pāpe'bhiniveśaḥ — "attachment to sin" [locative, not accusative].
Tattvabodhinī
NSP p. 147—अभिनिवि—। नेरल्पाच्चतरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदशसंघातविवक्षार्थमित्याह—संघातपूर्वस्येति । तेनेह न । ‘निविशते यदि शूकशिखापदे’ इति ॥—कचिन्नेति । ‘एष्वर्थेष्वभिनिविष्टानाम्’ इति समर्थसूत्रस्थभाष्यप्रयोगोऽत्र मानमिति भावः
Bālamanoramā
अभिनिविशश्च - अभिनिविशश्च । आधार इति कर्मेति चानुवर्तते । अभिनीति सङ्घातग्रहणम् । तदाह — अभिनीत्येतदिति । अभिनिविशते सन्मार्गमिति । आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति 'पापेऽभिनिवेश' इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह — परिक्रयणे इति । 'परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः । तर्हिअभिनिविशते सन्मार्ग॑मित्यत्रापि विकल्पः स्यादित्यत आह — व्यवस्थितेति ।ननुपरिक्रयणे संप्रदानमन्यतरस्याम्,आधारोऽधिकरणम्,॒अधिशीङ्स्थासां कर्म॑, 'अभिनिविशश्च' इति सूत्रक्रमः । तत्रअभिनिविशश्चे॑त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्'अधिशीङ्स्थासां कर्म॑ इत्यत्र च तदनुवृत्तेरभावादित्यत आह — मण्डूकप्लुत्येति ।तुल्य॑मिति शेषः । मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् ।
abhiniviśaśca — abhiniviśaśca. "ādhāra" and "karman" are carried forward (anuvṛtti). "abhini" — the aggregate (saṅghāta) is taken. This Bhaṭṭoji states by "abhinītyetad...". abhiniviśate sanmārgam iti — meaning: he is firmly resolved (āgrahavān); that is, of unobstructed engagement (apratihata-pravṛtti). Objection: this being so, in "pāpe'bhiniveśaḥ" too the accusative should occur by [the same] karman-hood. To this he says: parikrayaṇe iti — from the sūtra "parikrayaṇe," carrying forward the word "anyatarasyām," by resorting to a conditioned option, in some cases it does not [apply]: such is the construction. [If so,] then in "abhiniviśate sanmārgam" too there would be an option. To this he says: vyavasthiteti — [it is a conditioned option, so no free option arises there].
Objection: the order of the sūtras is "parikrayaṇe saṃpradānam anyatarasyām," "ādhāro'dhikaraṇam," "adhiśīṅsthāsāṃ karma," "abhiniviśaśca." That being so, how is "anyatarasyām" carried forward into "abhiniviśaśca," given the absence of its anuvṛtti in "ādhāro'dhikaraṇam" and "adhiśīṅsthāsāṃ karma"? To this he says: maṇḍūkaplutyeti — "likewise" (tulyam) is to be supplied. Just as frogs, without continuously setting their feet in the intervening [space], leap and go, so [the word] is carried forward by leaping [over the intervening sūtras]. The evidence for this here is the Bhāṣya usage on the samartha-sūtra: "eṣv artheṣv abhiniviṣṭānām" ("of those intent upon these meanings").
SK 544 · A 1.4.48कारकसंज्ञा
उपान्वध्याङ्वसः ॥ ५४४ ॥
upānvadhyāṅvasaḥ
upānvadhyāṅvasaḥ — The locus (ādhāra) of √vas ('to dwell') preceded by upa, anu, adhi, or āṅ receives the designation karman (object).
Rule. The locus of vas (dwell) preceded by upa, anu, adhi or āṅ is named karman.
Example.
hariḥ vaikuṇṭha- upa-vasati "Hari dwells in Vaikuṇṭha" → Vaikuṇṭha is the place dwelt in → karman → upavasati vaikuṇṭhaṃ hariḥ.
Likewise anuvasati, adhivasati, āvasati vaikuṇṭhaṃ hariḥ.
Applies when / blocked by. A vārttika excludes vas in the sense of fasting: vane upavasati "he fasts in the forest" keeps the locative.
Two further vārttikas, placed here by Bhaṭṭoji, give the accusative with certain indeclinables. A verse: the second case is used with ubhayataḥ and sarvataḥ, with dhik, with the three upari, adhi, adhaḥ, and at the end of doubled forms, and is seen elsewhere too: ubhayataḥ kṛṣṇaṃ gopāḥ "the cowherds on both sides of Kṛṣṇa", sarvataḥ kṛṣṇam "all around Kṛṣṇa", dhik kṛṣṇābhaktam "fie on the non-devotee of Kṛṣṇa", upary upari lokaṃ hariḥ "Hari is high above the world", adhy adhi lokam, adho 'dho lokam. And also with abhitaḥ, paritaḥ, samayā, nikaṣā, hā and prati: abhitaḥ kṛṣṇam "on both flanks of Kṛṣṇa", paritaḥ kṛṣṇam "around Kṛṣṇa", grāmaṃ samayā "near the village", nikaṣā laṅkām "near Laṅkā", hā kṛṣṇābhaktam "alas for the non-devotee of Kṛṣṇa", bubhukṣitaṃ na pratibhāti kiñcit "to a hungry man nothing appears".
Siddhānta-kaumudī
उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥
The locus (ādhāra) of √vas ('to dwell') preceded by upa etc. (upa, anu, adhi,
āṅ) receives the designation karman (object). Example: upavasati anuvasati
adhivasati āvasati vā vaikuṇṭhaṃ hariḥ — "Hari dwells in Vaikuṇṭha," with
Vaikuṇṭha (vaikuṇṭham) in the accusative as karman.
vārttikaअभुक्त्यर्थस्य न
(vārttika) abhuktyarthasya na — "Not [karman] when [√vas] has the sense of
abstention from eating (a-bhukti = fasting)." [The Bālamanoramā gives the
vārttika itself as vaser aśyarthasya pratiṣedhaḥ; see b1.]
(वार्तिकम्) ॥ वने उपवसति ॥ ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वार्तिकम्) ॥उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥
(vārttika illustration) vane upavasati — "he fasts in the forest," with vane in
the locative (not the accusative), since the fasting sense blocks the
karman-designation.
(vārttika, metrical) ubhasarvatasoḥ kāryā dhig-upary-ādiṣu triṣu /
dvitīyāmreḍitānteṣu tato 'nyatrāpi dṛśyate — "The accusative (dvitīyā) is to be
used with [the -tasi forms of] ubha and sarva [ubhayataḥ, sarvataḥ], with dhik,
with the three upari etc. (upari, adhi, adhaḥ), and at the end of doubled
(āmreḍita) forms; and it is seen also elsewhere than these."
(vārttika illustrations) ubhayataḥ kṛṣṇaṃ gopāḥ — "the cowherds [are] on both
sides of Kṛṣṇa (kṛṣṇam)." sarvataḥ kṛṣṇam — "on all sides of Kṛṣṇa." dhik
kṛṣṇābhaktam — "fie on the non-devotee of Kṛṣṇa (kṛṣṇābhaktam)." upary upari
lokaṃ hariḥ — "Hari is above and above (upary upari) the world (lokam)." adhy
adhi lokam. adho'dho lokam.
vārttikaअभितःपरितःसमयानिकषाहाप्रतियोगेऽपि
(vārttika) abhitaḥparitaḥsamayānikaṣāhāpratiyoge 'pi — "[The accusative is used]
also in connection with abhitaḥ, paritaḥ, samayā, nikaṣā, hā, and prati."
(वार्तिकम्) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥
(vārttika illustrations) abhitaḥ kṛṣṇam — "[the cowherds] on both flanks of
Kṛṣṇa." paritaḥ kṛṣṇam — "around Kṛṣṇa." grāmaṃ samayā — "near the village
(grāmam)." nikaṣā laṅkām — "near Laṅkā." hā kṛṣṇābhaktam — "alas for the
non-devotee of Kṛṣṇa"; the meaning is "he is to be lamented (tasya śocyate)."
bubhukṣitaṃ na pratibhāti kiñcit — "to a hungry person (bubhukṣitam) nothing at
all becomes manifest (na pratibhāti)." [This last illustrates the connection
with prati.]
Tattvabodhinī
NSP p. 147–148—उपान्व—। लुग्विकरणादलुग्विकरणं बलीय इति ‘वस निवासे’ इति भौवादिक एव गृह्यते न तु ‘वस आच्छादने’ इत्यादादिक इत्यभिप्रेत्य शपा निर्देशमाह—उपादिपूर्वस्य वसतेरिति । ‘वसेरश्यर्थस्य प्रतिपेधः’ इति वार्तिकमर्थतो व्याचष्टे—अभुक्त्यर्थस्य नेति । वार्तिके अर्थशब्दो निवृत्तिवचनः । भोजननिवृत्तिवाचकस्य वसेराधारः कर्म नेत्यर्थः ॥—वने उपवसतीति । कथं तर्हि ‘गत्यर्थाकर्मक-’ इति सूत्रे ‘हरिदिनमुपोषितः’ इत्युदाहरणं संगच्छत इति चेत् । अत्राहुः । वसेरत्र स्थितिरर्थः भोजननिवृत्तिस्त्वार्थिकीति न दोष इति ॥ उपपदविभक्तिमाह—उभसर्वतसोरित्यादिना । उभसर्वयोस्तसौ उभसर्वतसौ तदन्तयोर्योगे द्वितीयेत्यर्थः । प्रकृतिद्वित्वेन तसोरिति द्वित्वनिर्देशः । अत्र उभशब्दादयच् न कृतः, अनुकरणशब्दत्वेनासंख्यावाचित्वात् । तथा चोभशब्देन उभयशब्दो लभ्यते केवलात् परत्र तसिलोऽसंभवादित्येके । वस्तुतस्तु वृत्तिविषये अयच्प्रवृत्तावपि उभशब्दाद्विहितो यस्तस् तदन्तमस्त्येवेति यथाश्रुतं साधु इति तु मनोरमायां स्थितम् ॥—धिगिति । धिक्शब्दयोगेऽपि द्वितीया कार्येत्यर्थः ॥ अत्र प्राच्चः धिगित्यविभक्तिको निर्देशो गवित्ययमाहेतिवत् इत्याहुः । तन्न । तथा सत्यपदान्ततया दृष्टान्ते ‘लोपः शाकल्यस्य’ इत्यस्येव दार्ष्टान्तिके जश्लस्याप्यप्रवृत्तिप्रसङ्गात् । न चायं गकारान्त एवास्त्विति शङ्काम् । ‘कस्य च दः’ इति सूत्रे ‘धकित्’ इत्युदाहरणस्यासंगतिप्रसङ्गात् । ‘कृत्य च दः’ इत्यनेन हि कान्ताव्ययस्याक्चसंनियोगेन वृत्तं विधायते । तस्माद्धिगिति विभक्त्यन्तमेव । परन्तु ‘प्रकृतिवदनुकरणम्’ इत्यतिदेशेनाव्ययलात्मुपो लुक् । यदि तु धिगित्य-विभक्तिको निर्देश इत्येतावानेव प्राचां प्रन्थस्तदा सम्यगेव । अव्ययलात्मुपो लुक्यविभक्तिको निर्देश इति वक्तुं शक्यत्वात् ॥—उभयतःकृष्णमिति । कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । आद्यादिलात्तत्तिः, पश्यथै द्वितीया । एवमुपपदविभक्तौ सर्वत्र बोध्यम् ॥ अत्र व्याचक्षते—उभसर्वतसोरित्यत्र उभसर्वयोर्गणे परस्परसाहचर्यात्तत्तिलेव गृह्यते, न लाद्यादिभ्य इति तत्तिः । तथा त्रोभयत इत्यादौ ‘तस्मैश्च’ इत्यनेन तत्तिलादेशोऽवगन्तव्यस्तेन यत्र संज्ञायां तस्मैस्तत्तिलादेशाभावस्तत्र न द्वितीया किं तु पश्येव इति । तत्तिलभावस्तु ‘तस्मैश्च’ इत्यत्र ‘किंसर्वनामवहुभ्यः’ इत्यनुवर्तनादिति ॥—धिक् कृष्णा-भक्तमिति । तस्य निन्द्यत इत्यर्थः । पश्यथै द्वितीया । स निन्द्य इत्यर्थः । प्रथमार्थे द्वितीयेत्येके । कथं धिङ् मूर्खेति । संबोधनपदस्य क्रियान्वय इति प्रागेवोक्ततया धिक्शब्दयोगाभावाद् द्वितीया न प्रवर्तत इति ‘संबोधने च’ इति प्रथमैव भवतीति । क्रियापदं च क्रचिच्छ्रुतं क्रचिदाक्षिप्तम् । तथा च धिङ् मूर्खे निपिद्धाचरणमिदमित्येतदिह कल्प्यम् । मूर्खसंबोध-क्रनिपिद्धाचरणस्य निन्द्यत इति तु वाक्यार्थः । प्रथमार्थे धिग्योगे द्वितीयेति वादिमते तु मूर्खसंबोध्यकं निपिद्धाचरणं निन्द्य- मिति वाक्यार्थः ॥ यत्तु ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ इति संबोधने प्रथमैव भवति संबोधनपदस्य कर्तृकारकवाचित्वादित्याहुः । तच्चिन्त्यम् । संबोधनस्य कर्तृकारकत्वे उक्तिसंभवाभावात् । न च देव प्रसीदेत्यादौ वस्तुगत्या देव एव कर्तृत्वस्त्येवोक्तिसंभव इति वाच्यम् । वास्तवकर्तृत्वेऽपि कारकविभक्तित्वस्य अलाभात् । किं च । देव त्वां भजे, त्वां भजन्ति भक्ता इत्यादौ संबोध्यस्य देवस्य वास्तवमपि कर्तृत्वं नास्तीति आस्तां तावत् ॥—उपर्युपरीति । कथं तर्हि ‘उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः’ इति । अत्राहुः—उपरिबुद्धीनामुत्तानबुद्धीनामुपरि चरन्तीत्यर्थः । तेनात्रात्रेडितलाभावाव द्वितीया । यद्वा प्रतिपदोक्तस्य ‘उपर्यध्यधसः सामीप्ये’ इति कृतद्वित्यस्य वार्तिके ग्रहणादिह च वीप्साद्विर्वचनलाभाखि द्वितीयाप्रसक्तिरिति ॥—अभितःपरित इति । एतच्च ‘अन्यत्रापि दृश्यते’ इति पूर्वोक्तस्यैव प्रपञ्चभूतमिति व्याचस्युः ॥ —अभितःकृष्णमिति । ‘पर्यभिभ्यां च’ इति तस्मिन् । समयानिकपाशब्दौ ‘सामीप्यवचनावव्ययौ । ‘विलङ्घ्य लङ्कां निकपा हनिष्यति’ इति माघः ॥ हेति खेदे, तदेतदाह—तस्य शोच्यते इति ।—बुभुक्षितमिति । बुभुक्षितत्येत्यर्थः । एष प्रतिशब्दः क्रियाविशेषकलादुपसर्गः न तु कर्मप्रवचनीयः । तेनात्र ‘कर्मप्रवचनीययुक्ते’ इत्यनेन गतार्थता न शङ्क्या
Bālamanoramā
उपान्वध्याङ्वसः - उपान्वध्याङ्वसः । उप अनु अधि अङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वसिति विग्रहे शाकपार्थिवादित्वात्समासः । तदाह — उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गा आधारत्वद्योतकाः । अत्रवसेरश्यर्थस्य प्रतिषेधः॑ इति वार्तिकम् । तत्राऽर्थशब्दो निवृत्तिवचनः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । भोजनस्याऽर्थो निवृत्तियस्मात्प्रतीयते सोऽश्यर्थः । भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् ।तदेतदर्थतः । सङ्गृह्णाति — अभुक्त्यर्थस्य नेति । उभसर्वतसोरिति । वार्तिकम् । उभशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कार्येत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या ।प्रकृतिवदनुकरणमि॑त्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेनउपर्यध्यधसः सामीप्ये॑ इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम् । तदन्तेषु । कृतद्विर्वचनेष्विति यावत् । तथाच कृत्तद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः । उभयतः कृष्णं गोपा इति । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । आद्यादित्वात्तसिः ।उभयोऽन्यत्रे॑त्ययच् । षष्ठर्थे द्वितीया । सर्वतः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः । धिक्कृष्णाभक्तमिति । धिक्-निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थः, प्रथमार्थे द्वितीयेत्याहुः ।धिङ्मूर्खे॑त्यत्र तुनषिद्धाचरण॑मित्यध्याहार्यम् । उपर्युपरीति ।उपर्यध्यधसः सामीप्ये॑ इति द्विर्वचनम् । लोकस्य समीपे उपरि हरिरस्तीत्यर्थः । अध्यधीति । लोकस्य समीपदेसे हरिरस्तीत्यर्थः । अधोऽध इति । लोकस्य समीपे अधो हरिरस्तीत्यर्थः ।अबितः परित इति ।ततोऽन्यत्रापि दृश्यते॑ इत्यस्य प्रपञ्चोऽयम् ।योगेऽपी॑त्यनन्तरंद्वितीये॑ति शेषः । अभितः कृष्णमिति । 'गोपा' इति शेषः । कृष्णस्य पार्ाद्वयेऽपीत्यर्थः । परितः कृष्णमिति । कृष्णस्य सर्वेषु पार्ोषु गोपा इत्यर्थः ।पर्यभिभ्यां चे॑ति तसिल् । ग्रां समया निकषेति । 'समया' 'निकषा' इति च आकारान्ते अव्यये ।ग्राम॑मित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः । 'निकषाऽन्तिके' 'समयाऽन्तिकमध्ययोः' इति चामरः । विलङ्घ्य लङ्कां निकषा हनिष्यती॑ति माघः । हा कृष्णाभक्तमिति । 'हा' इत्याकारान्तमव्ययं खेदे ।हा विषादशुगार्तिषु॑ इत्यमरः । तदाह-तस्य शोच्यतेत्यर्थ इति । कृष्णाभक्तः शोच्य इत्यर्थ इत्यन्ये । प्रतियोगमुदाहरति — बुभुक्षितमिति । क्षुधार्तस्य किंचिदपि न स्फुरतीत्यर्थः ।भा दी#उतौ॑ । इह तु उपसर्दबलात्स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवंचकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यनेन गतार्थत्वं न भवति ।
upānvadhyāṅvasaḥ — upa, anu, adhi, and āṅ: a dvandva of these. In the
analysis "√vas preceded by upa-anu-adhi-āṅ," the compound [combining the dvandva
with vas] is formed by the śākapārthivādi class [a compound with elision of the
middle term, madhyamapadalopa]. He states this with "upādi-pūrvasya" etc.
"upavasati" etc.: the meaning is "he dwells in Vaikuṇṭha (vaikuṇṭhe vasati)."
The preverbs (upasarga) are what indicate (dyotaka) the locus-relation (ādhāra).
Here [applies] the vārttika vaser aśyarthasya pratiṣedhaḥ ("prohibition for √vas
in the sense of √aś [eating]"). Therein the word artha denotes cessation
(nivṛtti). As Amara[koṣa says]: "artha [is used] in the senses of the-signified,
a real thing, wealth, purpose, and cessation." That from which the cessation
(nivṛtti) of eating (bhojana) is understood is aśyartha; that is to say, the
karman-designation is prohibited for the locus (ādhāra) of "aś" [i.e. √vas in
the sense] denoting cessation of eating (fasting). Bhaṭṭoji summarizes just this
in substance (arthataḥ) with "abhuktyarthasya na."
"ubhasarvatasoḥ" — a vārttika. The meaning: when the two forms ending in -tasi
(tasil) that have ubha and sarva as their bases [ubhayataḥ, sarvataḥ] are used,
the accusative (dvitīyā) is to be employed. "dhik" — when the word dhik is used,
the accusative is to be employed. Because [dhik] is indeclinable (avyaya) — by
"an imitation behaves like its original" (prakṛtivad anukaraṇam) — there is luk
(elision) of the sup. By "upary-ādiṣu" the indeclinables taken up in the sūtra
"upary-adhy-adhasaḥ sāmīpye" [upari, adhi, adhaḥ] are meant. "The latter [part]
of a doubled form is āmreḍita" [tasya param āmreḍitam]; "at the end of those"
means "in those that have undergone doubling (dvirvacana)." And so, when the
three upari etc., having undergone doubling, are employed, the accusative [is
used] — this is the meaning. "tataḥ" [= "than those"]: the accusative is seen
also in places other than those mentioned.
"ubhayataḥ kṛṣṇaṃ gopāḥ" — the meaning is "the cowherds are on both flanks
(pārśva-dvaya) of Kṛṣṇa." The affix tasi[l] is by the ādyādi [class]; the form
ubhaya [in ubhayataḥ] is by the affix ayaC ["ubhayo 'nyatra"]; the accusative
[here] is in the sense of the genitive (ṣaṣṭhy-artha). "sarvataḥ kṛṣṇam" — the
meaning is "the cowherds [are] on all sides of Kṛṣṇa." "dhik kṛṣṇābhaktam" — dhik
[is used] in censure (nindā); the meaning is "censure of the non-devotee of
Kṛṣṇa." But some (kecit) say the meaning is "the non-devotee of Kṛṣṇa is to be
censured (nindyaḥ)," [taking] the accusative in the sense of the nominative
(prathamā-artha). In "dhiṅ mūrkham" ("fie on the fool"), however, "doing what is
forbidden (niṣiddhācaraṇam)" is to be supplied. "upary upari" — the doubling is
by "upary-adhy-adhasaḥ sāmīpye"; the meaning is "Hari is above (upari), in the
vicinity of the world." "adhy adhi" — "Hari is in a region near the world."
"adho'dhaḥ" — "Hari is below, near the world."
"abhitaḥ paritaḥ" — this is an elaboration (prapañca) of "it is seen also
elsewhere than those." After "yoge 'pi" [in the vārttika], "dvitīyā" is to be
supplied. "abhitaḥ kṛṣṇam" — "gopāḥ" (cowherds) is to be supplied; the meaning
is "on both flanks of Kṛṣṇa." "paritaḥ kṛṣṇam" — the meaning is "the cowherds on
all sides of Kṛṣṇa." The affix tasil [in abhitaḥ, paritaḥ] is by "pary-abhibhyāṃ
ca." "grāmaṃ samayā nikaṣā" — samayā and nikaṣā are ā-ending indeclinables;
"grāmam" construes with each; the meaning is "in the vicinity of the village."
And as Amara: "nikaṣā [means] near (antike)"; "samayā [means] near and in the
middle (antika-madhyayoḥ)." As Māgha [writes]: "having leapt over, he will
strike near Laṅkā (laṅkāṃ nikaṣā)." "hā kṛṣṇābhaktam" — hā is an ā-ending
indeclinable [used] in grief (kheda). As Amara: "hā [is used] in the senses of
despondency, sorrow, and pain." He states this with "the meaning is: he is to be
lamented (tasya śocyate)." Others [say] the meaning is "the non-devotee of Kṛṣṇa
is to be pitied (śocyaḥ)." He illustrates the connection with prati (pratiyoga)
with "bubhukṣitam": the meaning is "to one afflicted by hunger, nothing at all
becomes manifest (na sphurati)." "bhā" [means] "to shine" (√bhā dīptau); but here,
by the force of the preverb (upasarga), it is used in the sense of becoming
manifest (sphuraṇa). Therefore, since prati [here] falls within [the domain of]
the defining rule [as a genuine preverb], prati is not a karmapravacanīya. And
thus the [accusative here] is not already accounted for (gatārtha) by
"karmapravacanīyayukte dvitīyā" [A 2.3.8]. [Hence the vārttika prescribing the
accusative with prati is not redundant.]
Footnotes (NSP 1915 ed.)
NSP p. 148 १. लक्षणे इति—लक्षणत्वं च शानजनकशानविषयत्वम् ।
translator notes
- textual The digital source carries OCR corruptions in the Devanāgarī that were read to the evidently intended forms: अबितः → abhitaḥ, पार्ा → pārśva, ग्रां → grāmam, भा दी#उतौ → bhā dīptau, समीपदेस → samīpadeśa. The transmitted examples themselves (ubhayataḥ, sarvataḥ, etc.) are preserved as given.
- textual The metrical vārttika (ubhasarvatasoḥ kāryā…) and its examples are transmitted inside block k3 together with the k2 illustration vane upavasati; they are rendered in that order as they stand, not redistributed.
SK 545 · A 2.3.4V
अन्तराऽन्तरेण युक्ते ॥ ५४५ ॥
antarā'ntareṇa yukte
antarā antareṇa yukte — With antarā and antareṇa, when [they are] construed [as bounding a middle] (yukte), the accusative (dvitīyā) is used.
Rule. The second case-ending is added to a word construed with antarā "between" or antareṇa "without".
Example.
antarā + tvam, aham → construed with antarā → second case → antarā tvāṃ māṃ hariḥ "Hari is between you and me".
antareṇa + hari → antareṇa hariṃ na sukham "without Hari there is no happiness".
Siddhānta-kaumudī
आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥
In construction with these two, the accusative. [Examples:] antarā tvāṃ māṃ hariḥ — 'Hari is between you (acc.) and me (acc.).' antareṇa hariṃ na sukham — 'without Hari (acc.) there is no happiness.'
Tattvabodhinī
NSP p. 148—अन्तरान्तरेण—। प्रतिपदोक्तलात्रिपातयोरेव ग्रहणं न तु टावन्ततृतीयान्तयोः । परस्परसाहचर्याच्च । तथा गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्न लाचार्यपरशुरामयोः । तेन किमनयोरन्तरेणागतेनेति सिद्धम् । किमनयोर्विशेषेण हातेनेत्यर्थः ॥—अन्तरा त्वां मामिति । तव मम च मध्ये इत्यर्थः । हरिशब्दात्तु द्वितीया न भवति, अन्तरङ्गतया प्रथमाया एवोत्पत्तेः ॥—अन्तरेण हरिमिति । हरिं विनेत्यर्थः । मध्ये इत्यर्थेऽप्यन्तरेणशब्दो वर्तते ‘मृणालमूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः’ इति । चलच्चामरयोर्द्वयस्य मध्ये इत्यर्थः । युक्तग्रहणानेह—अन्तरा त्वां मां कृष्णस्य मूर्तिः । इह कृष्णान्न द्वितीया अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनानन्वयात्
Bālamanoramā
अन्तराऽन्तरेणयुक्ते - अन्तरान्तरेणयुक्ते । 'अन्तरा' इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तमिति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति । तव च मम च मध्ये हरिरित्यर्थः । 'अन्तरा मध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखं नास्तीत्यर्थः ।पृथिग्विनान्तरेणर्ते हिरुङ्नाना वर्जने इत्यमरः ।किमनयोरन्तरेण गतेने॑त्यत्र तु अन्तरशब्दो विशेषवाची । अनयोर्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाऽभावान्न तद्योगे द्वितीया । नचैवं सतिहलोऽनन्तराः संयोगः॑ इत्यत्र द्वयोश्चैवान्तरा कश्चि॑दिति भाष्यप्रयोगः कथमिति शङ्क्यम्, मध्यत्वनिमित्तमवधित्वं हि ययोर्निर्णीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र संबन्धसामान्ये षष्ठएव भवति युक्तग्रहणादिति कैयटः ।
antarā antareṇa yukte — 'antarā' is an indeclinable (avyaya) ending in -ā, not [a feminine stem] ending in ṭāp. 'antareṇa' too is an indeclinable, not [a word] ending in the instrumental — so it is established in the Bhāṣya. On 'antarā tvāṃ māṃ hariḥ': the meaning is 'Hari is in the middle of you and me'; 'antarā means "in the middle,"' says the Amara[koṣa]. On 'antareṇa harim': the meaning is 'in the absence of Hari there is no happiness'; 'pṛthak, vinā, antareṇa, ṛte, hiruk, nānā [are used] in the sense of exclusion,' says the Amara.
But in 'kim anayor antareṇa gatena' ('what use is there in knowing the difference between these two?'), the word 'antara' denotes distinction (viśeṣa): the meaning is 'by [these two] being distinctly known.' There, because 'antareṇa' [in fact] ends in the instrumental (tṛtīyānta) and is not an indeclinable, the accusative does not arise in construction with it. Nor should one raise the doubt: 'if so, how [is there] the Bhāṣya usage "dvayoś caivāntarā kaścit" ("some [element] indeed between the two") in [the discussion of] "halo 'nantarāḥ saṃyogaḥ"?' For — where the two limits (avadhi), which are the ground of the "being-in-the-middle" (madhyatva), are [definitely] determined, there the accusative applies; but where those [two limits] are not determined, there, in a merely general relation (sambandha-sāmānya), only the genitive occurs — because of the word 'yukte' ('construed') [in the rule] — so says Kaiyaṭa.
SK 546 · A 1.4.83निपातसंज्ञा
कर्मप्रवचनीयाः ॥ ५४६ ॥
karmapravacanīyāḥ
karmapravacanīyāḥ — 1.4.83. [The following particles are termed] karmapravacanīya. [An adhikāra heading.]
Rule. "Karmapravacanīyas." This is an adhikāra: the particles named in the rules that follow are called karmapravacanīya. The rule forms nothing on its own.
Example.
karmapravacanīyāḥ → carried into SK 547 → "anu, when it marks a sign, is a karmapravacanīya" → and so on through SK 557, SK 596–599 and SK 644–646.
Siddhānta-kaumudī
इत्यधिकृत्य ॥
Having taken up [the term karmapravacanīyāḥ] as a governing heading (adhikāra)…
Tattvabodhinī
NSP p. 148—कर्मप्रवचनीयाः इत्यधिकत्येति । रीश्वरात्प्रागिति बोध्यम् । गुरुसंज्ञाकरणमन्वर्थत्वाय । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । बाहुलकाङ्क्षते कर्तर्यनीयर् । तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते । तथा च हरिः—‘क्रियाया द्योतको नायं संबन्धस्य न वाचकः’ । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः’ इति । तथाहि । जपमनुप्रावर्षत् इत्यत्र अनुना न क्रियाविशेषो द्योत्यते । अनुभूयते सुखमित्यादौ यथा । नापि पश्चेव संबन्ध उच्यते, द्वितीयैव तस्योक्तत्वात् । नापि प्रादेशं विपरिलिखति विमान परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात् । किं तु जपसंबन्धि वर्षणमिति द्वितीययावगतः संबन्धो लक्ष्यलक्षणभाव एवेति अवगमात् संबन्ध एवानुना विशेषेऽवस्थाप्यते । क्वचित्तु क्रियागतविशेषयोतकेऽपि इयं संज्ञा वचनात् प्रवर्तते । ‘सुः पूजायाम्’ ‘अतिरतिक्रमणे च’ इति यथा ॥—उक्तसंज्ञा इति । कर्मप्रवचनीय इत्यर्थः
Bālamanoramā
कर्मप्रवचनीयाः - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् ।
karmapravacanīyāḥ — "karmapravacanīyāḥ." As to "having taken up [this] as
an adhikāra" — it is to be understood [that this heading extends] as far as
[the sūtra] prāg rīśvarān nipātāḥ (A 1.4.56).
translator notes
- translator The Bālamanoramā marks the scope of the karmapravacanīya adhikāra by the nipāta-domain rule prāg rīśvarān nipātāḥ (A 1.4.56, "before adhirīśvare [1.4.97], [these are] nipātas"), of which the karmapravacanīyas form a subset; the citation is securely identifiable and so numbered.
SK 547 · A 1.4.84निपातसंज्ञा
अनुर्लक्षणे ॥ ५४७ ॥
anurlakṣaṇe
anu, when a characterizing-mark (lakṣaṇa) is to be indicated, takes the aforementioned designation [karmapravacanīya].
Rule. Anu is named karmapravacanīya when it brings out a lakṣaṇa, a sign or mark by which something is known. This name is an apavāda of the names gati and upasarga: a particle so named is not an upasarga.
Example.
japa + anu → the prayer is the sign that marks the rain → anu is karmapravacanīya → (by SK 548) japam anu prāvarṣat.
Siddhānta-kaumudī
लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥
When a characterizing-mark (lakṣaṇa) is to be indicated (dyotya), anu takes the aforementioned designation [karmapravacanīya]. This is an exception (apavāda) to the gati and upasarga designations.
Tattvabodhinī
alignment inferredNSP p. 148–149—गत्युपसर्गसंज्ञापवाद इति । ननु जपमनु प्रावर्षदित्यत्र वृष्टिं प्रत्यनोर्योगाभावेन क्रियायोगाभावादेतयोः संज्ञयोः प्राप्त्यभावात् कथं तदपवादत्वमस्याः संज्ञाया इति चेत् । अत्राहुः—गम्यमाननिशमनक्रियामपेक्ष्य तयोः प्राप्ति- रस्तीति संभावनामात्रेण मूलस्य निर्वाधत्वात् । न चैवं कर्मत्वादेव द्वितीयासिद्धौ किमनया संज्ञयेति वाच्यम् । जपस्य निशमनप्रयुक्तहेतुत्वाख्यसंवन्धविवक्षया कर्मत्वाभावेन तृतीयायां प्राप्तायां तदारम्भात् । न चैवमपि ‘जपमनु निशम्य देवः प्रावर्षत्’ इत्यर्थावगमाल्लयवन्तलोपे पञ्चम्यपवादार्थैवेयं संज्ञास्त्विति वाच्यम् । ल्यवन्तलोपे हि कर्मणि अधिकरणे च पंचमी, जपस्य तु कर्मत्वादिना विवक्षाभावादिति
Bālamanoramā
अनुर्लक्षणे - अनुर्लक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसंबन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञ इति । कर्मप्रवचनीसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्षं प्रति विद्योतते विद्युदितिवच्चिह्नमात्रम्, तथा सतिलक्षणेत्थ॑मित्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञापवाद इति । अनेन क्रियायोगे एव कर्मप्रवचनीयसंज्ञेति सूचितम् । 'कर्मप्रवचनीयाः' इति महासंज्ञाकरणसामर्थ्यादन्वर्थत्वम् । कर्मेति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयप्र्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किंतु क्रियानिरूपितसंबन्धविशेषं द्योतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसंबन्धस्य द्योत्यत्वेन अन्वयात्तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्बोध्या ।
anurlakṣaṇe — "when a characterizing-mark is to be indicated" (lakṣaṇe dyotye): the meaning is, when the relation of the characterized and the characteristic (lakṣya-lakṣaṇa-bhāva) is to be indicated. "Takes the aforementioned designation" (ukta-saṃjña): the meaning is, takes the karmapravacanīya designation.
A lakṣaṇa is "that by which [a thing] is characterized, is made known" (lakṣyate jñāyate anena); and it is intended here as being a cause (hetu-bhūta) — not a mere sign (cihna-mātra), as in vṛkṣaṃ prati vidyotate vidyut ("the lightning flashes toward the tree"). For were it a mere sign, [the designation] would already be secured by lakṣaṇetthaṃbhūta... (A 1.4.90), as will be stated later.
"An exception to the gati and upasarga designations": by this it is indicated that the karmapravacanīya designation [arises] only in conjunction with an action (kriyā-yoga). The term "karmapravacanīya" is etymologically significant (anvartha), from the force of framing it as a long designation (mahā-saṃjñā). Here "karma" means action (kriyā); those which "have declared" (proktavantaḥ) that [action formerly] are karmapravacanīya — the affix anīya being added in the past active-agent sense (bhūte kartari) by the diversity of usage (bāhulaka). And so they do not [now] indicate the action itself, but rather a particular relation defined by the action (kriyā-nirūpita-saṃbandha-viśeṣa). Thus, since in anu, prati, and the rest a relation defined by the action is connected as what is indicated, the gati and upasarga designations would [otherwise] apply there — this should be understood [and it is that application which the present rule sets aside].
Footnotes (NSP 1915 ed.)
NSP p. 149 १ हेतुभूतेति—जपाभिन्नहेतुशानजन्यशानविषयो वर्षगमिति बोधः। २ वृक्षं वृक्षमिति—वृक्षादीनां सेचने कर्मत्वेऽपि तत्त्वेनाविवक्षायां कर्मप्रवचनीययुक्तत्वाद्वितीया । ३ सुसिक्तमिति—सेकगतपूज्यत्वद्योतकः सुः, क्रियापूज्यत्वकृते तत्तत्क्रियाकर्तुः पूज्यत्वे गम्ये एवैषा संश्वा । अत एव सुषिक्तं किं तत्रेत्यत्र न ।
SK 548 · A 2.3.8V
कर्मप्रवचनीययुक्ते द्वितीया ॥ ५४८ ॥
karmapravacanīyayukte dvitīyā
karmapravacanīyayukte dvitīyā — 2.3.8. The accusative (dvitīyā) occurs in construction with a karmapravacanīya.
Rule. The second case-ending is added to a word construed with a karmapravacanīya.
Example.
japa + karmapravacanīya anu (SK 547) → second case → japam anu prāvarṣat "it rained following the prayer", that is, the raining is marked by the prayer that caused it.
Applies when / blocked by. Since the prayer is a cause, the instrumental of cause (hetau, SK 568) would also apply, and being the later rule it would normally win. Here it is blocked. Bhaṭṭoji's reason: anu in the sense of a sign is already made a karmapravacanīya by SK 552; that SK 547 names it again, separately, has a purpose, and that purpose is to make the accusative prevail over the causal instrumental.
Siddhānta-kaumudī
एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत SK 552 इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥
In construction with this — a karmapravacanīya — the accusative occurs. Example:
japam anu prāvarṣat — "it rained following the muttered prayer (japa)," i.e. the
raining is characterized/indicated (upalakṣita) by the japa which is its cause (hetu).
The instrumental by hetau ("the instrumental to denote a cause"), although it is
the later (para) rule — and would therefore normally prevail by vipratiṣedha — is here
blocked by this rule. For, although the karmapravacanīya-hood of anu in the sense of a
mark (lakṣaṇa) is already established (siddha) by lakṣaṇetthaṃbhūta… (SK 552) etc.,
the fresh, separate enjoining of that designation [by anur lakṣaṇe] has independent
force (sāmarthya) — and it is that force which yields the blocking of the causal
instrumental here.
Tattvabodhinī
alignment inferredNSP p. 149—परापि हेताविति तृतीयेत्यादि । अयं भावः । लक्षणे कर्मप्रवचनीयसंज्ञाया अवकाशः, यो न हेतुः वृक्षमनु विद्योतते विद्युदिति, हेतुतृतीयाया अवकाशो धनेन कुलमित्यादि । जपमनुप्रावर्षदित्यत्र तु हेतुभूते लक्षणे परत्वात्तृतीया स्यात्तां वाधित्वा ‘अनुर्लक्षणे’ इति पुनः संज्ञाविधानसामर्थ्याद्वितीयैव भवतीति । न च ‘तृतीयार्थे’ इति सूत्रेणेह गतार्थता शङ्क्या, तस्य पुरस्तादपवादन्यायेन ‘सहयुक्तेऽप्रधाने’ इत्येतावन्मात्रवाधकत्वात् ॥—सामर्थ्यादिति । अत एव हेतुत्वपर्यन्तमपि शाब्दवोधे विषय इति स्त्रीक्रियते इति भावः ॥—नदीमन्विति । द्वितीयायाः संवन्धोऽर्थः षष्ठ्यपवादत्वादेतद्द्वितीयायाः । स चेह संवन्धः साहित्यरूप एवेत्यनुना द्योत्यते
Bālamanoramā
कर्मप्रवचनीययुक्ते द्वितीया - कर्मप्रवचनीय । युक्ते इति भावे क्तः । तदाह — एतेन योगे इति जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्शाखाग्रं प्रति द्विकलश्चन्द्र॑ इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति । हेतुभूतजपो ह्यत्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः । तदुभयमनुना द्योत्यते । लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते । ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह — हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वाऽविवक्षायांवृक्षमनु विद्योतते विद्यु॑दित्यत्रअनुर्लक्षणे॑इत्यत्र तदनुपादानात् । एवंच हेतुत्वाऽविवक्षायांवक्षमनु विद्योतते विद्यु॑दित्यत्र 'अनुर्लक्षणे' इति सावकाशम् । 'हेतौ' इति तृतीया तुधनेन कुल॑मित्यादौ सावकाशा ।पर्जन्यो जपमनु प्रावर्ष॑दित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह — परापीति । 'अनुर्लक्षणे' #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनः संज्ञेति ।वृक्षमनु विद्योतते विद्यु॑ दित्यत्र हि 'अनुर्लक्षणे' इत्यस्य न प्रयोजनम्,लक्षणेत्थ॑मित्येव सिद्धेः । ततश्च 'अनुर्लक्षणे' इत्यारम्भसामर्थ्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।
karmapravacanīyayukte dvitīyā — In "yukte," the -kta suffix is in the sense of the
action (bhāva). Thus he says "in construction with this," giving japam anu. This is
the answer to the question "When did Parjanya (the rain-god) rain?" Here the time of the
rain is what must be indicated, and since that time is hard to know, it must be made
known only by resorting to some mark of recognition (prajñāna) — just as [in] "the moon
is two digits [high] toward the treetop" [its position is fixed by reference to the
treetop]. Here the japa is the mark of recognition, and so it is possible [to say]
"Parjanya rained at the time of the japa." For here the japa which is the cause (hetu)
is the mark (lakṣaṇa); and being a cause involves occurring at a prior time. Thus the
answer amounts to: "Parjanya rained at the time following Varuṇa's japa, which was the
cause of the rain."
There, the two — being a mark (lakṣaṇatva) and being a cause (hetutva) — are the meaning
of the accusative, and both are indicated (dyotyate) by anu. Being a mark is being the
object of the cognition that produces [a further] cognition: by the cognition of the
japa, the rain qualified by the time following it is made known; and so the
understanding (bodha) is that the raining is the object of the cognition produced by the
cognition of the cause consisting of the japa. This he states with "hetubhūta…" (the
japa which is the cause).
By the adhikāra "anabhihite" (2.3.1) there is no instrumental from "parjanya," because
the agent is already expressed (abhihita) by the finite verb ending (tiṅ).
When causation is not intended to be expressed, in vṛkṣam anu vidyotate vidyut ("the
lightning flashes along the tree"), anur lakṣaṇe ("anu is a karmapravacanīya in the
sense of a mark") has its own scope (sāvakāśa); while the instrumental by hetau has
its own scope in examples like dhanena kulam ("a family [distinguished] by wealth").
But in parjanyo japam anu prāvarṣat, both rules are applicable at once. There, since
hetau is the later (para) rule, the causal instrumental alone would apply.
Anticipating this, he says "parāpi…" (the instrumental, though later…): the meaning is
that it is blocked by the injunction of the accusative occasioned by the
karmapravacanīya-hood [conferred] by anur lakṣaṇe.
"punaḥ saṃjñā…" — For in vṛkṣam anu vidyotate vidyut, anur lakṣaṇe would have no
purpose, since [the karmapravacanīya-hood of anu] is already established by
lakṣaṇetthaṃ… (i.e. lakṣaṇetthaṃbhūtākhyāna…, SK 552). And so, from the very
force of undertaking the separate rule anur lakṣaṇe, it is understood that — where
the mark is [itself] a cause (hetu) — the instrumental by hetau is blocked by the
accusative obtained through the karmapravacanīya-hood of anu. It follows that causation
too [not merely mark-hood] is an object in the verbal cognition (śābdabodha).
translator notes
- translator The rules named by pratīka only — anur lakṣaṇe, hetau (the causal instrumental), lakṣaṇetthaṃbhūtākhyāna… (= SK 552), and anabhihite — are given as the commentary gives them, without Aṣṭādhyāyī numbers, since their identification is not marked in the source (§13). One clause of the objection ("nanu hetutvāvivakṣāyāṃ… tadanupādānāt") is left syntactically incomplete in the source and is immediately restated in full in the next sentence; the completed restatement is translated.
SK 549 · A 1.4.85निपातसंज्ञा
तृतीयार्थे ॥ ५४९ ॥
tṛtīyārthe
In the sense conveyed by the third (instrumental) case [the particle anu is a karmapravacanīya].
Rule. Anu is also a karmapravacanīya when it conveys the sense of the third case, that is, accompaniment.
Example.
nadī + anu → "together with the river" → anu is karmapravacanīya → second case → nadīm anvavasitā senā "the army has encamped along the river", meaning "bound up with the river". (Avasitā is the root ṣiñ "bind" with the affix kta.)
Siddhānta-kaumudī
अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥
When this [sense] is to be indicated, anu receives the aforementioned designation (karmapravacanīya). Example: nadīm anvavasitā senā — "the army has encamped along the river." The meaning is: connected together with the river (nadyā saha saṃbaddhā). [The word avasitā:] kta [is added] to ṣiñ (in the sense of binding).
Bālamanoramā
तृतीयाऽर्थे - तृतीयार्थे । अनुरित्यनुवर्तते । 'कर्मप्रवचनीयाः' इत्यधिकृतम् । अस्मिन्द्योत्ये इति । 'सहयुक्तेऽप्रधाने' इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृकरणे न गृह्रेते,रामेण शरेणानुहतो वाली॑त्यत्रउपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः,अनन्तरस्ये॑ति न्यायेनकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यस्य 'सहयुक्तेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह-नद्या सह संबद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः । नन्ववसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति । उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि । यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति । सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति 'अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्ठम् । तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम् ।
tṛtīyā'rthe — tṛtīyārthe. The word anu is carried forward (anuvṛtti). "karmapravacanīyāḥ" is the governing heading (adhikāra). As for asmin dyotye (Bhaṭṭoji's phrase): the meaning is "when the accompaniment (sāhitya) that is the sense of the third case by sahayukte 'pradhāne (A 2.3.19) is to be indicated." Here by "tṛtīyārthe" the agent (kartṛ) and instrument (karaṇa) are not taken; for in rāmeṇa śareṇānuhato vālī ("Vālī, struck by Rāma with an arrow"), by the maxim "a kāraka case-ending is stronger than a case-ending governed by an accompanying word" (upapadavibhakteḥ kārakavibhaktir balīyasī), the third case applies of itself [as karaṇa], so this designation would be without effect. Nor is the third-case sense of "yenāṅgavikāraḥ" (A 2.3.20) intended here; for by the maxim of "what is nearest" (anantarasya), "karmapravacanīyayukte dvitīyā" (A 2.3.8) is blocked precisely by "sahayukte 'pradhāne" itself. Accordingly he says nadyā saha saṃbaddhā — the accompaniment (sāhitya) is the sense of the [accusative] case, and anu is its indicator (dyotaka); this is the point.
Objection: since the word avasita is derived from the root "ṣo antakarmaṇi" preceded by ava, how is the stated sense [of connection] obtained? To this he says: ṣiñ bandhane kta iti — [the word here is derived] with the kta suffix from ṣiñ (in the sense of binding); by force of the upasarga the root functions in the sense of connection (saṃbandha), and kta is added from that. This is the meaning.
On this point [a general principle]: that which necessarily and repeatedly serves as the indicator (jñāpaka) of the thing-to-be-characterized (lakṣya) is not [alone what counts as] the characteristic mark (lakṣaṇa); rather, even a one-time indicator [may serve as lakṣaṇa]. As in: "the one whom you saw with a water-pot, he is the student" (yaṃ kamaṇḍalunā bhavān adrākṣīt, sa chātraḥ) — for the water-pot-in-hand was seen only once, [yet] the water-pot is his characteristic mark. This is clear in the Bhāṣya on "anur lakṣaṇe" (A 1.4.84). Hence one should not be deluded into thinking that only a co-extensive, pervading (vyāpyātmaka) mark is here the lakṣaṇa.
translator notes
- textual The digital source shows evident transcription slips, translated per the expected readings but not emended: the opening pratīka and lemma read tṛtīyā'rthe / tṛtīyārthe (for tṛtīyārthe); na gṛhrete for na gṛhyete; lakṣamam for lakṣaṇam; spaṣṭham for spaṣṭam.
SK 550 · A 1.4.86निपातसंज्ञा
हीने ॥ ५५० ॥
hīne
hīne — 1.4.86. When something inferior (hīna) is to be denoted, [anu is karmapravacanīya] as before.
Rule. Anu is a karmapravacanīya, as before, when something inferior (hīna) is to be conveyed.
Example.
hari + anu → the gods are inferior to Hari → anu hariṃ surāḥ "the gods are below Hari".
Siddhānta-kaumudī
हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥
When something inferior (hīna) is to be denoted, "anu" is as before (prāgvat —
i.e., karmapravacanīya, as in the preceding rule). Example: anu hariṃ surāḥ — "the
gods [are] inferior to Hari" (Hari in the accusative). The meaning is "inferior to
Hari" (hareḥ hīnāḥ).
Tattvabodhinī
NSP p. 149—हीने । उत्कृष्टादेव द्वितीया, न त्वपकृष्टाच्छक्तिस्वभावादित्याशयेनोदाहरति—अनु हरिमिति
Bālamanoramā
हीने - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । 'ओ हाक् त्यागे' इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः ।
hīne — hīne. "hīne dyotye" (when the inferior is to be denoted): the meaning is
"when inferiority (nikarṣa) is to be denoted." "hīna" is [formed] with kta in the
abstract sense (bhāva). Because the root "o hāk tyāge" ("to abandon") is o-marked
(odit), by "oditaś ca" [8.2.45] its niṣṭhā takes na (niṣṭhā-natva — the ta of kta
becoming na). "anuḥ prāgvat": the meaning is "it has the designation
karmapravacanīya." "anu hariṃ surāḥ" — here the state of being inferior
(nikṛṣṭa-bhāva), to be denoted by "anu," is the sense of the second (accusative).
He states this by "hareḥ hīnāḥ" (inferior to Hari). "hareḥ" is a genitive of
counter-correlation (pratiyogitā); the meaning is "possessing an inferiority whose
counter-correlate (pratiyogin) is Hari" (hari-pratiyogika-nikarṣavantaḥ).
translator notes
- textual The source reads 'krama-pravacanīya-saṃjña'; this is a slip for 'karmapravacanīya-saṃjña' (the designation actually assigned to anu), and is rendered so.
SK 551 · A 1.4.87निपातसंज्ञा
उपोऽधिके च ॥ ५५१ ॥
upo'dhike ca
And 'upa' is termed karmapravacanīya when excess (adhika), [or, by the ca, deficiency (hīna),] is to be conveyed.
Rule. The indeclinable upa is a karmapravacanīya when excess (adhika) is conveyed, and, by the word ca, when deficiency is conveyed.
Example.
hari + upa (deficiency) → upa is karmapravacanīya → second case → upa hariṃ surāḥ "the gods are below Hari".
For excess, the locative will be taught instead (SK 645): upa parārdhe harer guṇāḥ.
Siddhānta-kaumudī
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥
When excess (adhika) and deficiency (hīna) are to be conveyed (dyotya), the indeclinable (avyaya) "upa" bears the previously-stated saṃjñā (prāk-saṃjña) [namely karmapravacanīya]. For the sense of excess, the locative (saptamī) will be stated [later]. For the sense of deficiency: upa hariṃ surāḥ — "the gods are inferior to Hari" [hariṃ in the accusative].
Tattvabodhinī
NSP p. 149—उपोऽधिके च—चकारेण हीने इत्यनुकृष्यते तदाह—अधिके हीने चेति । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह—सप्तमी वक्ष्यत इति । ‘यस्मादधिकम्’—इत्यनेनेति भावः । तस्मिन्नपि सूत्रे ‘कर्मप्रवचनीययुक्ते’ इत्यनुवृत्तेरधिके संज्ञाविधानमावश्यकमेवेति ज्ञेयम् ॥—उपहरिमिति । पूर्ववृद्धकृष्टादेव द्वितीया
Bālamanoramā
उपोऽधिके च - उपोऽधिके च । चकारात् 'हीने' इति समुच्चीयते । तदाह-अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः । अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इतियस्मादधिक॑मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः । हीने इति । 'उदाहरणं वक्ष्यते' इति शेषः । उप हरिं सुरा इति । हरेर्हीना इत्यर्थः ।
upo'dhike ca — By the [word] ca, "hīne (in the sense of deficiency)" is conjoined (samuccaya). He states this with "in the sense of excess and deficiency" — meaning "in [the sense of] superiority (ādhikya) and lowness (nikarṣa)." On "the previously-stated saṃjñā (prāk-saṃjña)": meaning bearing the earlier-stated saṃjñā, karmapravacanīya. That the saṃjñā-injunction in the sense of excess is not for the sake of the accusative (dvitīyā), he states with "for excess, the locative will be stated" — that is, by "yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī (A 2.3.9)," the locative, which is the operation (kārya) of the karmapravacanīya-saṃjñā, will be stated. On "in the sense of deficiency": "the example will be stated" is to be supplied. On "upa hariṃ surāḥ": meaning "[the gods are] inferior to Hari (hareḥ hīnāḥ)."
SK 552 · A 1.4.90निपातसंज्ञा
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ ५५२ ॥
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ — 1.4.90. The words prati, pari, and anu receive the [karmapravacanīya] saṃjñā when the senses in play are: lakṣaṇa (a sign/mark by which something is indicated), itthambhūtākhyāna (the announcing of something as having attained a certain condition), bhāga (a share), or vīpsā (pervasion/distributive repetition).
Rule. Prati, pari and anu are karmapravacanīyas in four senses: a sign (lakṣaṇa); declaring someone to be in a certain state or condition (itthambhūtākhyāna); a share (bhāga); and distribution over each item (vīpsā).
Example.
Sign: vṛkṣaṃ prati vidyotate vidyut "the lightning flashes toward the tree" (the tree is the mark by which the flash is placed); also vṛkṣaṃ pari, vṛkṣam anu.
State: bhakto viṣṇuṃ prati "a devotee with respect to Viṣṇu"; also pari, anu.
Share: lakṣmīr hariṃ prati "Lakṣmī is Hari's share"; also pari, anu.
Distribution: vṛkṣaṃ vṛkṣaṃ prati siñcati "he waters tree after tree"; also pari, anu.
Applies when / blocked by. Because prati and the rest are not upasargas here, there is no ṣatva: the s of siñcati stays s. Why "in these senses"? In pariṣiñcati "he sprinkles around", pari is an ordinary upasarga, and ṣatva applies.
Siddhānta-kaumudī
एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥
When these senses are the domain in play, prati and the rest receive the
aforesaid saṃjñā (karmapravacanīya). In lakṣaṇa: vṛkṣaṃ prati — or pary-anu —
vidyotate vidyut ("the lightning flashes with respect to the tree" [the tree being
the mark by which the lightning is discerned]). In itthambhūtākhyāna: bhakto viṣṇuṃ
prati — or pary-anu ("a devotee with respect to Viṣṇu"). In bhāga: lakṣmīr hariṃ
prati — or pary-anu ("Lakṣmī with respect to Hari"), meaning "the share of Hari."
In vīpsā: vṛkṣaṃ vṛkṣaṃ prati — or pary-anu — siñcati ("he waters tree after
tree"). Here, because [prati] is not an upasarga, there is no ṣatva [the s of
siñcati is not retroflexed]. Why "in these [senses]"? [To exclude cases like]
pariṣiñcati ["he sprinkles around," where pari, being an upasarga, does trigger
ṣatva].
Tattvabodhinī
NSP p. 149—लक्षणेत्थम्—॥—वृक्षं प्रतीति । वृक्षसंवन्धिवोतनमर्थः । संवन्धश्च लक्ष्यलक्षणभाव इति प्रत्यादयो द्योतयन्ति ॥—भक्तो विष्णुं प्रतीति । विष्णोर्भक्तेश्च विषयविषयिभावः प्रत्यादिद्योत्यः । भक्तः कंचित् प्रकारं प्राप्त इत्यर्थः ॥—लक्ष्मीर्हरिं प्रतीति । लक्ष्मीरूपस्य भागस्य हरिणा सह स्वस्वामिभावः संवन्धः ॥—वृक्षंवृक्षमिति । इह वीप्सा द्विर्वचनेनैव द्योत्यते । प्रत्यादिशब्दस्तु क्रियया संवध्यते । कर्मण्येव द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया वाधात् षत्वं न, एतदर्थमेव लक्षणादयो विषयतयोपात्ता इति व्याख्यातमाकरे ‘पञ्चम्यपाङ्परिभिः’ इति तु न भवति । वर्जनार्थेनापेत्यनेन साहचर्यात् ॥—परिषिञ्चतीति । सर्वतः सिञ्चतीत्यर्थः । ‘उपसर्गात्सुनोति’—इति षत्वम् ॥—ममाभिष्यादिति । मम भागः स्यादित्यर्थः । प्राञ्चस्तु मामभिष्यादिति प्रत्युदाहरन्ति, तत्र मां प्राप्नुयादित्यर्थः । उपसर्गवशेनास्तेः सकर्मकलान्मामिति द्वितीया । अत्र च मम भाग इत्यर्थतः पर्यवसानात् ‘अभागे’ इति कर्मप्रवचनीयत्वे निषिद्धे ‘उपसर्गप्रादुर्भ्याम्’—इति षत्वम्
Bālamanoramā
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः - लक्षणेत्थंभूत । लक्षणं ज्ञापकम् । अयं प्रकार इत्थं, तं प्राप्त इत्थम्भूतः तस्याख्यानमुपपादकमित्थम्भूताख्यानम् । भागः स्वीकार्योऽशस्तत्स्वामी विवक्षितः । व्याप्तुं कार्त्स्न्येन संबन्द्धुमिच्छा वीप्सा । लक्षणं च इत्थम्भूताख्यानं भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह-एष्विति । एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्द्योत्यार्थत्वाऽभावादिति भावः । लक्षणे इति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं प्रतीति । लक्ष्यलक्षणभावसंबन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युद्विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत्, तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाऽभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेम विद्युज्ज्ञानाद्वृक्षो लक्षणम् । इत्थम्भूताख्यात इति । 'उदाहरणं वक्ष्यते' इति शेषः । भक्तो विष्णुं प्रतीति ।भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्शाअद्यच्, विषयतासंबन्धः प्रत्यादिद्योत्यो द्वितायार्थः , तस्य भक्तावेकदेशेऽन्वयः । विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तो भक्तिरूपं प्रकारविशेषं प्राप्तत्वादित्थम्भूतस्तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासंबन्धस्तदुपपादकः प्रतिद्योत्य इति ज्ञेयम् । भागे इति । 'उदाहरणं वक्ष्यते' इति शेषः । लक्ष्मीर्हरिं प्रतीति । स्वामित्यं द्वितीयार्थः । प्रत्यादिद्योत्यः । तदाह — हरेर्भाग इत्यर्थ इति । हरेः स्वभूतेति यावत् । वीप्सायामिति । 'उदाहरणं वक्ष्यते' इति शेषः । वृक्षं वृक्षं प्रतीति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अत्र सन्वाच्या इच्छा स्वरूपसती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन संबन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या, तथापि प्रतिपर्यनुयोगे तद्द्योत्यत्वमपि । तथाच कृत्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकार्त्स्न्यमिह विवक्षितं नत्ववयवकार्त्स्न्यमितिनित्यवीप्सयो॑रित्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्य कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह — अत्रेति । गत्युपसर्गसंज्ञापवादः कर्मप्रवचनीयसंज्ञेत्युक्तमतोऽत्र प्रतेः क्रमप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात्उपसर्गात्सुनोती॑ति षत्वं न भवति । कर्मप्रवचनीयत्वाऽभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेः सस्य षत्वं स्यादित्यर्थः । भाष्ये तुकिमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्यति,उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाऽभावे तदप्रसक्ते॑रित्याक्षिप्यद्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधान॑मित्यक्तम् । वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वाविधानम् । किं च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रतिद्योत्यसंबन्धेऽन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् ।वृक्षं वृक्षं प्रति पक्षिण आसते॑ इत्यादावकर्मकधातुयोगेऽधिकरणादिसंज्ञानिरसार्थं चेदमिति भाष्याशय इति शब्देन्दुशेखरे मञ्जूषायां च स्पष्टम् । एषु किमिति ।लक्षणेत्थम्भूताख्यानभागवीप्सासु॑ इति किमर्थमित्यर्थः । परिषिञ्चतीति ।अग्नि॑मित्यादि शेषः । अत्र लक्षणाद्यभावात्कर्मप्रवचनीयत्वाऽभावे॒उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ — lakṣaṇa-itthambhūta…
lakṣaṇa means an indicator (jñāpaka). "ittham" = "this manner"; itthambhūta = one
who has attained that [manner]; the ākhyāna (announcing/establishing) of it =
itthambhūtākhyāna. bhāga = a portion to be received (svīkārya aṃśa); here its owner
(tat-svāmī) is what is intended. vīpsā = the desire to pervade, i.e., to connect
[with something] in its entirety (kārtsnya). From the dvandva compound [lakṣaṇa +
itthambhūtākhyāna + bhāga + vīpsā], the locative is a viṣaya-saptamī (a locative of
domain/sphere). This he [Bhaṭṭoji] states with "eṣu" (in these). The phrasing "in
these senses [taken] as things to be denoted (dyotya)" is, however, not adopted —
because the desire-to-pervade [vīpsā] is not something these particles denote
(dyotya); this is the idea [hence the senses are the domain, not what the particles
express].
"In lakṣaṇa": supply "an example will be stated." "vṛkṣaṃ prati": the relation of
sign and signified (lakṣya-lakṣaṇa-bhāva) is the meaning of the second case
(dvitīyā), and that is denoted by prati and the rest. The meaning is: the lightning,
being marked out (lakṣyamāṇā) by the tree, flashes. The lightning arises and
perishes [in an instant]; the illumination of the tree that it produces likewise
just arises and perishes. And so, after the tree's illumination, since the lightning
no longer exists, there being no direct perception of it, it must be inferred.
Thus, because the lightning is known through the illuminated tree, the tree is the
lakṣaṇa (mark).
"In itthambhūtākhyāna": supply "an example will be stated." "bhakto viṣṇuṃ prati":
[from] the root bhaj "to serve." bhakta = "one who has devotion (bhakti)," with a
matvarthīya suffix, the ac of the arśaādi [gaṇa] (arśaādyac). The relation of
object-hood (viṣayatā) is the dvitīyā-meaning denoted by prati and the rest; it
connects to bhakti, which is a part [of the word bhakta]. The meaning is: one who
possesses devotion directed at Viṣṇu. Here the devotee, having attained a particular
mode in the form of devotion, is itthambhūta; since he is to be accounted for as
having Viṣṇu for object, the relation of object-hood is what accounts for it, and
prati is what denotes it — thus it should be understood.
"In bhāga": supply "an example will be stated." "lakṣmīr hariṃ prati": the ownership
(svāmitva) is the dvitīyā-meaning, denoted by prati and the rest. This he states
with "meaning the share of Hari" — i.e., "being Hari's own."
"In vīpsā": supply "an example will be stated." "vṛkṣaṃ vṛkṣaṃ prati": the doubling
(dvirvacana) is by *nityavīpsayoḥ* (8.1.4). Here the desire that would be
expressible by [the desiderative] san, though present as such, [is not what is
meant]; rather it is pervasion (vyāpti) that is intended, and that consists of
connection in entirety (kārtsnya). And so vyāpti is just the entirety pertaining to
the base-meaning (prakṛti-artha); although that [vyāpti] is denoted by the doubling,
still, in conjunction with prati/pari/anu, it is denoted by them as well. And so the
meaning is: "he waters the whole [set of] trees." That entirety of individuals
(vyakti-kārtsnya) is intended here, not entirety of parts (avayava-kārtsnya) — this
is clear in the Bhāṣya on *nityavīpsayoḥ*.
Objection: Since in the watering the tree is the karman (object), the dvitīyā is
already established by that karman-hood; what use here is the karmapravacanīya-
saṃjñā? To this he says "atra" (here). It was stated [earlier] that the
karmapravacanīya-saṃjñā is an exception (apavāda) to the gati- and upasarga-saṃjñās;
therefore here, because prati's karmapravacanīya-saṃjñā blocks the upasarga-saṃjñā,
the ṣatva by *upasargāt sunoti…* (8.3.65) does not occur. But in the absence of
karmapravacanīya-hood, since prati would be an upasarga, the ṣatva of the s of
siñcati following it would occur — this is the meaning.
In the Bhāṣya, however, having raised the objection — "For what purpose is this
stated? The dvitīyā is established from karman-hood itself; and the cessation of the
upasarga-saṃjñā is not the purpose, since in the absence of association with an
action it [the upasarga-saṃjñā] does not even arise" — it was said: "this injunction
of the karmapravacanīya-saṃjñā is solely for the sake of the dvitīyā meaning." Even
though the tree is the karman in the watering, when that [karman-hood] is not
intended to be expressed, this karmapravacanīya injunction serves to block the
ṣaṣṭhī [that would otherwise arise]. Moreover, even though the tree is the karman in
the watering, since [the tree] connects first with the relation denoted by prati and
is thus antaraṅga, this [injunction] serves to block the ṣaṣṭhī occasioned by that
[relation]. And in cases like "vṛkṣaṃ vṛkṣaṃ prati pakṣiṇa āsate" ("birds perch at
each tree"), where an intransitive (akarmaka) root is involved, this [injunction]
serves to exclude the adhikaraṇa and other saṃjñās — such is the intent of the
Bhāṣya, as is made clear in the Śabdenduśekhara and in the Mañjūṣā.
"eṣu kim": the meaning is, for what purpose is "lakṣaṇetthambhūtākhyānabhāgavīpsāsu"
[stated]? "pariṣiñcati": supply "agnim" etc. ["he sprinkles (water) around the
fire"]. Here, because lakṣaṇa and the rest are absent, in the absence of
karmapravacanīya-hood, the ṣatva applies by *upasargāt sunoti…* — this is the idea.
SK 553 · A 1.4.91निपातसंज्ञा
अभिरभागे ॥ ५५३ ॥
abhirabhāge
abhir abhāge — 1.4.91. In the [carried-forward senses of] mark/goal (lakṣaṇa), describing-as-being-in-a-state (itthambhūtākhyāna), and distributive pervasion (vīpsā) — but not in the sense of 'share/portion' (bhāga) — the particle abhi receives the [aforesaid karmapravacanīya] designation.
Rule. Abhi is a karmapravacanīya in the senses just listed — sign, state, distribution — but not in the sense of a share.
Example.
harim abhi vartate "it turns toward Hari" (sign); bhakto harim abhi "one devoted toward Hari"; devaṃ devam abhi siñcati "he sprinkles god after god" (distribution).
Applies when / blocked by. In the sense of a share abhi stays an upasarga: yad atra mamābhi ṣyāt tad dīyatām "whatever here may be my share, let that be given". Since abhi is an upasarga there, ṣatva applies and syāt becomes ṣyāt.
Siddhānta-kaumudī
भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥
Except in the sense of "share" (bhāga), in [the senses] beginning with lakṣaṇa
(mark/goal), abhi receives the aforementioned designation (ukta-saṃjñā =
karmapravacanīya). harim abhi vartate — "[the victory] is directed toward Hari."
bhakto harim abhi — "[one] devoted toward Hari." devaṃ devam abhi siñcati — "he
sprinkles [water] upon each god." Why "not in the sense of share"? yad atra mamābhi
ṣyāt tad dīyatām — "whatever here may be mine [as my share], let that be given" [here
abhi is in the bhāga sense and is therefore not a karmapravacanīya but an upasarga —
hence the ṣatva in abhi ṣyāt].
Bālamanoramā
अभिरभागे - अभिरभागे । लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति — हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थम्भूताख्याने उदाहरणमिदम् । विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति । कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाऽभावादिपूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वाभिभावः षष्ठर्थः । अभिस्तद्द्योतकः । अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः । स्यादित्यस्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात्उपसर्गप्रादुभ्र्यामस्तिर्यच्परः॑ इति षत्वम् ।
abhir abhāge — "lakṣaṇādau": by "ādi" (and-the-rest) are included
itthambhūtākhyāna and vīpsā [carried forward from the previous rule]. He illustrates
for lakṣaṇa (mark/goal): "harim abhi vartate" — in answer to the question "where is
the victory (jayaḥ kva)?", this is the reply; the state-of-being-a-mark (lakṣya-bhāva)
is what abhi denotes (dyotya), together with the accusative-sense; the meaning is "the
victory has Hari as its mark (hari-lakṣya)." "bhakto harim abhi": this is an
illustration for itthambhūtākhyāna (describing [someone] as being in a certain state);
the relation of being-directed-at (viṣayatā-sambandha) is denoted by abhi, together
with the accusative-sense; the meaning is "one possessing devotion directed toward
Hari (hari-viṣayaka-bhakti)." He illustrates for vīpsā (pervasion): "devaṃ devam abhi
siñcati"; the pervasion (vyāpti) consisting of a relation of entirety (kārtsnya) is
the accusative-sense and is denoted by abhi; the meaning is "he sprinkles upon the
entire [set of] gods (kṛtsnaṃ devam)." The absence of ṣatva and the rest is as before
[in the karmapravacanīya cases].
"yad atra": this sentence [applies] where the property (dravya) of many [people] —
rice-grains (taṇḍula) and the like — is mixed together (saṃsṛṣṭa); the sense of
"being each one's own [share]" (sva-sva-abhi-bhāva) is the genitive-sense
(ṣaṣṭhy-artha), and abhi is its denoter (dyotaka); the meaning is "among the
mixed-together property here, whatever thing may be my own (mama sva-bhūta), let that
be given to me." "syāt" is the form of [the root] as ("to be") in the liṅ (optative).
Here, since it culminates in the sense "my share (mama bhāgaḥ)," and since by "abhāge"
the karmapravacanīya-designation is excluded (paryudāsa) [for abhi], its status as an
upasarga is unobstructed; therefore, by "upasarga-prādur-bhyām astir yaṭ-paraḥ"
(A 8.3.87), there is ṣatva (s → ṣ) [giving mamābhi ṣyāt].
SK 554 · A 1.4.93निपातसंज्ञा
अधिपरी अनर्थकौ ॥ ५५४ ॥
adhiparī anarthakau
adhiparī anarthakau — adhi and pari, when meaningless (an-arthaka, i.e. conveying no separate meaning), receive the aforesaid designation (karmapravacanīya).
Rule. Adhi and pari, when they add no meaning of their own (anarthaka), are karmapravacanīyas.
Example.
kuto 'dhyāgacchati "from where does he come?"; kutaḥ paryāgacchati — adhi and pari mean nothing here.
Applies when / blocked by. The point of the name is accent. Because the name gati is blocked, the loss of accent taught by gatir gatau (SK 3977) does not take place.
Siddhānta-kaumudī
उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ SK 3977 इति निघातो न ॥
The two [adhi and pari, when meaningless] receive the aforesaid designation (i.e. karmapravacanīya). [Examples:] kuto 'dhyāgacchati / kutaḥ paryāgacchati — 'from where does he come?' Because the gati-designation is thereby blocked, there is no accentlessness (nighāta) by 'gatir gatau' (SK 3977).
Tattvabodhinī
alignment inferredNSP p. 149—कुतोऽध्यागच्छतीति । इह प्रजयति, पराभवति, वृक्षं प्रति विद्योतते, इत्यत्र प्रादेर्विशेषद्योतकलवदधिपर्योरिह विशेषद्योतकलाभावादानर्थक्यं धात्वर्थमात्रद्योतकत्वेन लर्थवत्तास्त्येवेति द्योध्यम् । ‘गतिर्गतौ’ इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तये कुत इत्युक्तम्
Bālamanoramā
अधिपरी अनर्थकौ - अधिपरी । उक्तसंज्ञो स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र 'कुत' इत्यपादानपञ्चम्यास्तसिल् । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह — गतिसंज्ञाबाधादिति । अत्र 'गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये 'कुत' इत्युपात्तमिति भावः । अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव । अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः । उक्तं च भाष्ये — ॒अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः॑ इति । एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता ।
adhiparī anarthakau — 'They receive the aforesaid designation' means: they are termed karmapravacanīya. In 'kuto 'dhyāgacchati, kutaḥ paryāgacchati,' the word 'kutaḥ' bears the suffix tasil expressing the ablative of apādāna; the meaning is 'from what place does he come?' Objection: here, since adhi and pari are meaningless, the relation is not something they manifest (dyotya); hence there is no 'being connected with a karmapravacanīya' — which would consist in being the correlate of a manifested relation — and so no accusative (dvitīyā) arises [so what purpose does the karmapravacanīya designation serve?]. To this he says 'gatisaṃjñābādhāt' (because the gati-designation is [thereby] blocked). Here, in 'gatir gatau,' because of the adhikāra 'padāt' ([an operation] on what follows a pada), the word 'kutaḥ' has been included [in the example] in order to secure the condition of following a pada: this is the idea.
Here, as in 'prabhavati, parābhavati, anubhavati' and the like [with pra, parā, anu], although — like pra and the rest [in those forms] — adhi and pari do not manifest any distinct additional meaning (arthāntara), they nevertheless do manifest the meaning of the root itself (dhātvartha). The usage 'meaningless' (anarthaka) is applied because they do not manifest a separate meaning. And it is said in the Bhāṣya: 'The two, expressing no separate meaning, convey precisely the action already stated by the root.' Thus the doubt — that, there being no [independent] action-connection, even gati-hood would not arise — is dispelled [since they do convey the root's own action].
SK 555 · A 1.4.94निपातसंज्ञा
सुः पूजायाम् ॥ ५५५ ॥
suḥ pūjāyām
su is termed karmapravacanīya when the sense is pūjā (honoring, high praise).
Rule. Su is a karmapravacanīya in the sense of praise (pūjā).
Example.
su + siktam "well watered", in praise → su is a karmapravacanīya, not an upasarga → no ṣatva → susiktam. Likewise sustutam "well praised".
Applies when / blocked by. Why "in praise"? In suṣiktaṃ kiṃ tavātra "what is it to you that it is well sprinkled?", the tone is contempt (kṣepa); su remains an upasarga, and ṣatva gives ṣiktam.
Siddhānta-kaumudī
सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥
[Examples:] susiktam ("well watered"); sustutam ("well praised"). Because [su here] is not an upasarga (preverb), there is no ṣatva (retroflexion of s to ṣ) [so we get siktam, not ṣiktam]. Why "in the sense of pūjā"? [Counterexample:] suṣiktaṃ kiṃ tavātra — "what is it to you here that it is well sprinkled?" This is [an utterance of] contempt (kṣepa) [and not pūjā; here su remains an upasarga, so ṣatva applies, giving suṣiktam].
Bālamanoramā
सुः पूजायाम् - सुः पूजायाम् । 'कर्मप्रवचनीय' इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।उपसर्गात्सुनोतीत्यनेने॑ति शेषः । पूजायां किमिति । सुना पूजाया नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं [स्यात्]तवात्रेति । त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दाऽत्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम् । तदभावात्उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
suḥ pūjāyām — "su [is a karmapravacanīya] in the sense of pūjā": the word "karmapravacanīya" is to be supplied (śeṣa) [by anuvṛtti]. On "su siktam, su stutam": he states the purpose (prayojana) of su's being a karmapravacanīya with "because it is not an upasarga, there is no ṣatva" — that is, [the ṣatva] "by upasargāt suno-suvati... (A 8.3.65)" is to be supplied [as what does NOT apply here]. On "why in the sense of pūjā?": the question arises because pūjā is always understood from su [regardless]. On "suṣiktaṃ kiṃ tavātra": [it may be] well sprinkled by you, but here, this good sprinkling once done, what comes to you the sprinkler? — nothing at all; that is the meaning. On "this is contempt (kṣepa)": censure (nindā) is understood here, that is the sense. The karmapravacanīya status [of su] would obtain here only if the agent of the sprinkling-action were understood to be honored (pūjya). Since that [honoring sense] is absent, ṣatva applies by "upasargāt suno-" — this is the intent.
SK 556 · A 1.4.95निपातसंज्ञा
अतिरतिक्रमणे च ॥ ५५६ ॥
atiratikramaṇe ca
atiratikramaṇe ca — 1.4.95. And 'ati', when surpassing (atikramaṇa) [is denoted], receives the karmapravacanīya designation.
Rule. Ati is a karmapravacanīya in the sense of surpassing (atikramaṇa), and, by the word ca, in the sense of praise.
Example.
deva + ati → Kṛṣṇa surpasses the gods → second case → ati devān kṛṣṇaḥ.
Siddhānta-kaumudī
अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥
"ati," in [the sense of] atikramaṇa (surpassing/transgression), and (ca) in [the
sense of] pūjā (honour), receives the designation karmapravacanīya. Example: ati
devān kṛṣṇaḥ — "Kṛṣṇa surpasses the gods" (devān in the accusative).
Tattvabodhinī
NSP p. 149–150—अतिरतिक्रमणे च । चकारेण पूजायामित्यनुकृष्यत इत्याह—पूजायां चेति । अतिक्रमणमु- चितादधिकस्यानुष्ठानम् । अर्थद्वयेऽप्येकमेवोदाहरति—अति देवान् कृष्ण इति । अन्ये तूदाहरन्ति—अतिसिक्तम्, अतिस्तुतमिति बहुतरं समीचीनं वा सिक्तं स्तुतं चेत्यर्थः । बहुतरार्थे अतिक्रमणं, समीचीने पूजेति विवेकः ॥ अपिः पदार्थ—॥—सर्पिषोऽपि स्यादिति । सर्पिर्विन्दुः स्यादित्यर्थः ॥ अपेः कर्मप्रवचनीयत्वे फलमाह—अनुपसर्ग-त्वान्न ष इति । उपसर्गसंज्ञाभावात् ‘उपसर्गप्रादुर्भ्यामस्ति—’ इतीह न प्रवर्तते इति भावः
Bālamanoramā
अतिरतिक्रमणे च - अतिरतिक्रमणे च । चकारात्पूजायामिति समुच्चीयत #इत्याह — पूजायां चेति । अतिक्रमणम्-उचितादाधिक्यम् । अति देवान् कृष्ण इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्यऽर्थे 'कुगतिप्रादयः' इति समासो न,स्वती पूजायामि॑ति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः ।
atiratikramaṇe ca — atiratikramaṇe ca. By the word "ca," "in [the sense of]
pūjā (honour)" is also included (samuccīyate); he states this by "pūjāyāṃ ca."
atikramaṇa means "excess beyond what is fitting" (ucitād ādhikyam). "ati devān
kṛṣṇaḥ" — the meaning is: with respect to the protection of the manifest world,
Kṛṣṇa is superior to the gods; or [alternatively] "worthy of honour among the
gods" (devānāṃ pūjyaḥ). In the first sense, the compound by "kugatiprādayaḥ"
[2.2.18] does not occur, because of the restriction "sv-ati pūjāyām" (that su and
ati [enter this prādi-compound] only in the sense of pūjā). In the second sense
(pūjā), too, [the compound] does not occur, because of non-denotation
(anabhidhāna) — so they say.
Footnotes (NSP 1915 ed.)
NSP p. 150 १ पदार्थेति—पदस्याप्रयुज्यमानस्यार्थः पदार्थः । २ अपिशब्दबलेनेति—तदुक्तं वृत्तिकृता ‘मात्राविन्दुः स्तोकमित्यस्यार्थऽपिवर्तते’ इति । ३ नत्वपिनेति—विन्दुना योगेऽप्यपिथोत्यसंबन्धेनानन्वय इत्यर्थः । कर्मप्रवचनीयथोत्यसंबन्धप्रतियोगित्वमेव तद्युक्तत्वम्, प्रकृते चापिथोत्यसंबन्धस्य विन्दुः प्रतियोगी न सर्पिरिति भावः । ४ कालेति—अत्यन्तसंयोगश्च गुणक्रियाद्रब्ध-वदभावस्यापि । अत एव ‘मासं भोजनाभाव’ इति सिध्यति । ५ क्रियायामिति—एतच्च कारकाधिकारालभ्यते ।
SK 557 · A 1.4.96निपातसंज्ञा
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ॥ ५५७ ॥
apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu
apiḥ padārtha-sambhāvanānvavasarga-garhā-samuccayeṣu — 1.4.96. The particle api [receives the designation karmapravacanīya] in [the senses of] padārtha (the sense of an [unexpressed] word), sambhāvana (supposition), anvavasarga (giving free rein), garhā (reproach), and samuccaya (conjunction).
Rule. Api is a karmapravacanīya in five senses: the sense of an unexpressed word (padārtha); supposition (sambhāvana); giving free rein (anvavasarga); reproach (garhā); and conjunction (samuccaya).
Example.
Unexpressed word: sarpiṣo 'pi syāt "let there be even a drop of ghee" — api stands for the unexpressed "drop"; no ṣatva, since api is not an upasarga.
Supposition: api stuyād viṣṇum "he might even praise Viṣṇu" — an overstatement to show heightened capacity; the optative is due to the supposition.
Free rein: api stuhi "go ahead and praise".
Reproach: dhig devadattam api stuyād vṛṣalam "shame on Devadatta: he would even praise a śūdra".
Conjunction: api siñca api stuhi "both sprinkle and praise".
Applies when / blocked by. In sarpiṣo 'pi syāt the ghee is in the genitive, not the accusative. The genitive expresses the part-whole relation between the ghee and the drop that api lets us understand; the ghee is construed with the drop, not with api, so SK 548 does not reach it. This is exactly what "conveying the sense of an unexpressed word" means.
Siddhānta-kaumudī
एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥
When these [meanings] are to be conveyed (dyotya), api receives the
aforementioned designation [karmapravacanīya]. sarpiṣo 'pi syāt — "let
there be even [a drop] of ghee." No ṣ [retroflexion], because [api here] is
not an upasarga. The optative (liṅ) is by [reason of] supposition
(sambhāvana). The word api, conveying the difficulty (daurlabhya) — induced
by the difficulty of the agent (kartṛ) — in the coming-to-be (bhavana) that
is the very domain of that [supposition], is construed with [the "syāt"] by
this [rule]. But the genitive in "sarpiṣaḥ" is in [expressing] the
part-and-whole relation (avayava-avayavi-bhāva-sambandha) between [the ghee
and] the drop (bindu) that is understood by the force of the word api. This,
indeed, is what is called api's conveying of the sense of an [unexpressed]
word (padārtha-dyotakatā). The accusative (dvitīyā), however, does not
operate here, since it has [already] been stated that the connection of the
ghee is with the drop, not with api. api stuyād viṣṇum — "he might even
praise Viṣṇu." saṃbhāvana is the overstatement (atyukti) made to display a
heightening of capacity (śakty-utkarṣa). api stuhi — "go ahead and
praise." anvavasarga is the granting of permission to act at will
(kāmacāra-anujñā). dhig devadattam api stuyād vṛṣalam — "shame on
Devadatta — he would even praise a śūdra!" [This is] garhā (reproach).
api siñca api stuhi — "both sprinkle and praise." [api] is in [the sense
of] samuccaya (conjunction).
Tattvabodhinī
alignment inferredNSP p. 150—संभावनायामिति । संभाव्यत इति संभावना । ‘ण्यासश्रन्थो युच्’ ॥ भवनक्रियासंभावनायां भवनस्य विषयलादाह—तस्या एवेति । संभावनाया एवेत्यर्थः ॥—कर्तृदौर्लभ्येत्यादि । कर्तृदौर्लभ्याद्भवनक्रियाया दौर्लभ्यं तदौर्लभ्यं द्योतयन्नपिशब्दो भवनक्रियावाचिना स्यादित्यनेन संवध्यत इत्यर्थः ॥—अवयवावयविभावेति । सर्पिरवयवी विन्दुरवयवः ॥—इय-मेवेति । विन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः ॥—द्वितीयेति । ‘कर्मप्रवचनीययुक्ते—’ इत्यनेन विहिता ॥—न त्वपिनेति । न च विन्दुना योगे तद्द्योतकापिशब्देनापि योगो जात एवार्थद्वारा शब्दानां योगस्याभ्युपगमादिति शङ्काम् । अपिशब्दस्य विन्दुद्योतकलाभावात् । कथं तर्हि विन्दुप्रतीतिरिति चेत् । शृणु—अपिना द्योत्यं भवनदौर्लभ्यमेव कर्तृदौर्ल-भ्यमाक्षिपति । कर्ता त्विह विन्दुरेवेति स प्रतीयते । अत एवापिशब्दवलेन गम्यमानस्येत्युक्तं, न त्वपिना गम्यमान-स्येति ॥—उक्तत्वादिति । उक्तप्रायलादित्यर्थः । अपिशब्दः स्यादित्यनेन संवध्यत इत्युक्ते स्यादित्यस्यापिना योगो न तु सर्पिषा इत्यर्थपर्यवसानात् ॥—अपि स्तुयादिति । अवाह्यनसगोचरं विष्णुमपि स्तुयादित्यधिकोक्तिः । एतादृशस्यान्य-दीयस्तवने सामर्थ्यमस्तीत्यत्र किं वक्तव्यमिति भावः । इह संभावनाद्योतकोऽपिशब्दः, पूर्वत्र तु संभावनाविषयदौर्लभ्य-द्योतक इति महान् भेदः । ‘उपसर्गात्सुनोति—’ इत्यादिना पत्वं न भवति । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया वाधात् । एवमुत्तरत्रापि वोध्यम् ॥—अपि सिञ्च, अपि स्तुहीति । सिञ्च स्तुहि चेत्यर्थः
Bālamanoramā
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु - अपिः पदार्थ । पदार्थश्च संभावनञ्च अन्ववसर्गश्च गर्हा च समुच्चयश्चेति द्वन्द्वः । एषु द्योतकतया विद्यमानोऽपिः कर्मप्रवचनीय इत्यर्थः । तदाह — एष्विति । अप्रयुज्यमानस्य पदान्तरस्यार्थः-पदार्थः । तद्द्योतकमपिमुदाहरति — सर्पिषोऽपि स्यादिति । यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जनेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।#उपसर्गाप्रादुभ्र्यामित्यनेने॑ति शेषः । अपिद्योत्यं पदार्थं विशदयितुमाह — संभावनायां लिङिति ।उपसंवादाशङ्कयोश्चे॑ति सूत्रे उपसंवादाशङ्कयोर्लि॑ङिति पठितवचनेने॑ति शेषः । तत्र आशङ्का=उत्कटान्यतरकोटिका शङ्का संभावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अस्धातोश्च भवनमर्थः,अस भुवी॑त्युक्तेः । भवनं च सत्ता,भू सत्ताया॑मित्युक्तेः । ततश्च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयभवनाश्रयः कर्ता अवगतः । सच कर्ता क इत्याकाङ्क्षायां प्रकरणादौचित्यात्सर्पिष इत्यवयवषष्ठीबलाच्च बिन्दुरिति गम्यते, तमेवाऽपिशब्दो द्योतयति । सच विन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे संभावनाविषये भवने स्वस्य विन्दोर्दौर्लभ्यात्तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, संभावनाविषयत्वबोधे दौर्लभ्यस्यापि संभावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो द्योतयति । एवं च बिन्धोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसंबन्धेन च स्यादित्यत्रान्वयः । तदाह — तस्या एवेति । संभावनाया एवेत्यर्थः । कर्तुर्बिन्दोर्दौर्लभ्याद्भवन क्रियायां यद्यौर्लभ्यं तद्द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यत इत्यर्थः । ननु सर्पिरेव कर्तृत्वेनान्वेति इत्यत आह — सर्पिष इति । 'संबन्ध' इत्यनन्तरं 'वर्तते' इति शेषः । एवंच सर्पिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बुन्दु कर्तृका संभावनाविषयीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनाऽपिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह — द्वितीया तु नेति । कुत इत्यत आह — सर्पिष इति । सर्पिषो बिन्दुनैव योगो न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसंदर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीयद्योत्यसंबन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य उक्तसंबन्धस्य विन्दुरेव प्रतियोगी नतु सर्पिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाहृत्य संभावनद्योतकमपिमुदाहरति — अपि स्तुयादिति ।संभावनेऽलमिति चेत् सिद्धाऽप्रयोगे॑ इति लिङ् । संभावनपदं व्याचष्टे — संभावनमित्यादिना । अवाङ्भनसगोचरं विष्णुमपि स्तुयात् । स्तोतु शक्त इत्यर्थः । अत्युक्तिरियम्, अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात्उपसर्गात्सुनोती॑ति षत्वं न । अन्ववसर्गद्योतममपिमुदाहरति — अपिस्तुहीति । स्तुहि वा, न वा, यथेष्टं कुर्वित्यर्थः । अन्ववसर्गपदं व्याचष्टे — कामचारानुज्ञेति ।प्रैषातिसर्गे॑ति लोट् । गर्हाद्योतकमप्युदाहरति — अपि स्तुयाद्वृषलमिति ।गर्हायां लडपिजात्वोः॑ इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च संभावनायां लिङ् । अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति — अपि सिञ्च अपि स्तुहीति । अपिद्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाऽभावः । सिञ्च, स्तुहि चेत्यर्थः ।
apiḥ padārtha-sambhāvanānvavasarga-garhā-samuccayeṣu — apiḥ padārtha.
"padārtha, and sambhāvana, and anvavasarga, and garhā, and samuccaya" — a
dvandva compound. The meaning is: api, present as a conveyer (dyotaka) in
these [senses], is a karmapravacanīya. He states this with "eṣu" ("in
these"). padārtha [means] the sense of another word which is not [overtly]
employed. He illustrates api conveying that with "sarpiṣo 'pi syāt." This
sentence is meant to mock a situation where, out of great scarcity
(ati-daurlabhya), a very little ghee is given to the diners. He states the
purpose of api's being a karmapravacanīya here — "anupasargatvān na ṣaḥ"
("because it is not an upasarga, there is no ṣ"): "by [the ṣatva rule
beginning] upasargāt…" is to be supplied.
To clarify the padārtha conveyed by api, he says "saṃbhāvanāyāṃ liṅ" ("the
liṅ is in [the sense of] supposition"): "by the wording read in the sūtra
'upasaṃvādāśaṅkayoś ca,' namely 'upasaṃvādāśaṅkayoḥ liṅ'" is to be supplied.
There, āśaṅkā = a doubt one alternative of which is predominant
(utkaṭa-anyatara-koṭikā śaṅkā); the purport is that this is precisely
sambhāvana. And that [sambhāvana] pertains to the meaning of the base
(prakṛti-artha), since by [grammatical] derivation the affixes convey their
own sense as connected with the meaning of the base. And the meaning of √as
is "coming-to-be (bhavana)," since it is stated "asa bhuvi" ("√as [means]
'to be'"). And bhavana is existence (sattā), since it is stated "bhū
sattāyām" ("√bhū [means] 'existence'"). And thence, from √as — meaning the
coming-to-be that is the object of the supposition — when the liṅ is [added]
denoting the agent (kartari), then upon the elision of the "a" of śna/as
(śnasor allopaḥ) and the augment yāsuṭ and so on, the form is "syāt." And
thereby the agent (kartṛ) — the locus of the coming-to-be that is the object
of the supposition — is understood. To the expectancy "who is that agent?",
by the appropriateness of context (prakaraṇa) and by the force of the
partitive genitive in "sarpiṣaḥ" (avayava-ṣaṣṭhī), it is understood to be "a
drop (bindu)"; and it is precisely that [drop] which the word api conveys.
And that drop — the agent conveyed by api — is construed, with respect to
the coming-to-be (bhavana) that is the base-meaning and the object of the
supposition, by foregrounding that very difficulty (daurlabhya) arising from
the scarcity of the drop itself; because, when the state of being an object
of supposition is cognized, the difficulty too is established by experience
as being an object of supposition. This difficulty too the word api conveys.
And thus, in "syāt," there is the construction (anvaya) [of api] both through
the drop as a particular agent (kartṛ-viśeṣa) — it being conveyed [by api] —
and through the aforesaid relation of difficulty. He states this with "tasyā
eva" — meaning "of that very supposition (sambhāvanā)." The meaning is: the
word api, conveying the difficulty in the action of coming-to-be
(bhavana-kriyā) that is due to the scarcity of the drop which is the agent,
is construed with "syāt."
Objection: it is the ghee itself that is construed as agent. To this he says
"sarpiṣaḥ" [genitive]: after "sambandha" [in the Kaumudī], "vartate" ("[api]
operates") is to be supplied. And so the cognition is: an existence (sattā),
which is an object of supposition, having the drop as its agent, and
possessed of a difficulty induced by the scarcity of the drop that is a part
of the ghee. "iyam eva" ("this alone") — meaning: precisely [api's]
conveying of the difficulty induced by the scarcity of the drop [is what
padārtha-dyotakatā is]. Objection: since there is construction with api the
karmapravacanīya, the accusative (dvitīyā) should apply to "sarpis" [by
"karmapravacanīya-yukte dvitīyā"]. To this he says "dvitīyā tu na" ("but the
accusative does not [apply]"). Why? To this he says "sarpiṣaḥ": because it
has [already] been stated, by the passage beginning "but the genitive in
'sarpiṣaḥ'…," that the connection of the ghee is with the drop alone, not
with api. "Being connected with a karmapravacanīya"
(karmapravacanīya-yuktatva) [the condition for the accusative] means
precisely being the counter-correlate (pratiyogin) of the relation conveyed
by the karmapravacanīya; and in the present case the counter-correlate of
the relation conveyed by api is the drop alone, not the ghee — this is the
purport.
Thus, having illustrated api as conveyer of padārtha, he now illustrates api
as conveyer of sambhāvana with "api stuyāt." The liṅ is by the sūtra
"sambhāvane 'lam iti cet siddhāprayoge" ("the liṅ [occurs] in [the sense of]
supposition if [the word] 'alam' [is understood], provided [alam] is not
[actually] employed"). He explains the word saṃbhāvana with "saṃbhāvanam…"
etc. "He might even praise Viṣṇu, [who is] beyond the range of speech and
mind (avāṅ-manasa-gocara)" — meaning "he is able to praise [Him]." This is
an overstatement (atyukti), since Viṣṇu, being beyond the range of speech
and mind, cannot be praised by anyone. There, since api's being a
karmapravacanīya blocks its being an upasarga, the ṣatva by "upasargāt
sunoti…" [A 8.3.65] does not [occur] [i.e., not "api ṣṭuyāt"].
He illustrates api conveying anvavasarga with "api stuhi" — meaning "praise,
or not; do as you please." He explains the word anvavasarga with
"kāmacāra-anujñā" ("permission to act at will"). The loṬ (imperative) is by
[the sūtra] "praiṣātisarga…" [the rule prescribing loṬ in the sense of
command, permission, etc.]. He also illustrates api conveying garhā with
"api stuyād vṛṣalam." Setting aside the laṬ [that would come] by
"garhāyāṃ laḍapijātvoḥ" ("the laṬ occurs in [the sense of] reproach when
api or jātu is present"), the liṅ in [the sense of] sambhāvana [applies], by
reason of posteriority (paratva) and of being antaraṅga
(internally-conditioned). Here, since the śūdra (vṛṣala) is blameworthy, the
word api conveys the understood blameworthiness of praising him. "dhig
devadattam" ("shame on Devadatta") is a re-statement (anuvāda) of that
[reproach]. He illustrates api conveying samuccaya with "api siñca api
stuhi." Since the conjunction (samuccaya) is conveyed by the two api's taken
together, and since each [api] is a karmapravacanīya, there is absence of
ṣatva in both places [not "api ṣṭuhi"]. The meaning is "sprinkle, and
praise."
translator notes
- textual The digital source repeats one clause verbatim ("… śnasor allopa yāsuḍāgamādau syād iti rūpam") as a dittography before continuing with "tena ca saṃbhāvanā-viṣaya-bhavanāśrayaḥ kartā avagataḥ"; the repetition is rendered once. Scattered OCR noise (e.g. "vinduḥ / bindu," "brahmavarcasam" spellings, daṇḍa placement) is normalized to the evident reading without silent substantive emendation.
- translator Two sūtra cross-references are cited by pratīka only, without a secure Aṣṭādhyāyī number: "upasaṃvādāśaṅkayoś ca" (liṅ in upasaṃvāda/āśaṅkā) and "praiṣātisarga…" (loṬ in command/permission). The ṣatva reference supplied by the commentator for "sarpiṣo 'pi syāt" is OCR-corrupt in the source ("upasargāprādurbhyām"); only the intended rule-head "upasargāt…" is rendered. Where secure, A 8.3.65 is numbered.
SK 558 · A 2.3.5V
कालाध्वनोरत्यन्तसंयोगे ॥ ५५८ ॥
kālādhvanoratyantasaṃyoge
kālādhvanoratyantasaṃyoge (A 2.3.5) — In [the case of] uninterrupted, complete connection (atyanta-saṃyoga) with a time (kāla) or a space/road (adhvan), [the accusative (second case) occurs].
Rule. The second case-ending is added to a word for time (kāla) or road (adhvan) when the connection with it is uninterrupted (atyanta-saṃyoga).
Example.
māsa + kalyāṇī "beautiful through a whole month" → the beauty fills the month without a break → second case → māsaṃ kalyāṇī.
Likewise māsam adhīte "he studies for a month", māsaṃ guḍadhānāḥ "sweetened grain for a month".
krośa + kuṭilā nadī → the river winds for the whole krośa → krośaṃ kuṭilā nadī; likewise krośam adhīte, krośaṃ giriḥ "the mountain extends a krośa".
Applies when / blocked by. Why "uninterrupted"? In māsasya dvir adhīte "he studies twice in a month" and krośasyaikadeśe parvataḥ "the mountain is on one part of the krośa", the connection is broken, and the genitive stands.
With this the second case is finished.
Siddhānta-kaumudī
इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥
Here the accusative (second) occurs. māsaṃ kalyāṇī — "[she is] beautiful for a
month"; māsam adhīte — "he studies for a month"; māsaṃ guḍadhānāḥ — "[there
are] sugared grains for a month"; krośaṃ kuṭilā nadī — "the river winds for a
krośa"; krośam adhīte — "he studies over [the space of] a krośa"; krośaṃ
giriḥ — "the mountain [extends] a krośa." — What is the force of
"atyanta-saṃyoge" (uninterrupted connection)? [It excludes] māsasya dvir adhīte
"he studies twice in a month" (genitive māsasya) and krośasyaikadeśe parvataḥ
"the mountain is on one part of a krośa" [where the connection is interrupted].
Thus [ends the section on] the accusative.
Tattvabodhinī
alignment inferredNSP p. 150—कालाध्वनोः—। अन्तं विराममतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चात्यन्तसंयोगः, निरन्तरसंनिकर्ष इत्यर्थः । केनेत्याकाङ्क्षायां गुणक्रियाद्रव्यैरित्यौ-चित्याद्वोध्यम् ॥—द्वितीया स्यादिति । श्रुतलात्कालाध्वन्नतिभ्यामेव । स्वरूपग्रहणं त्विह न भवति । ‘कालाः’, ‘अ-त्यन्तसंयोगे च’ इति समासविधायके ‘कालाः’ इति बहुवचननिर्देशेन द्वितीयाविधौ स्वरूपविधिर्नेति ज्ञापनात् । अत एव मासप्रमितः मुद्दर्तेषुखमिति द्वितीयासमासविधायुदाहरिष्यति ॥—मासं कल्याणीत्यादि । अकर्मकधातुभिर्योग एव देशकालादीनां कर्मसंज्ञाविधानान्नेह ‘कर्मणि द्वितीया’ इति द्वितीया प्राप्नोतीति भावः ॥—मासस्य द्विरिति । ‘कृत्वोर्थ-प्रयोगे कालेऽधिकरणे’ इत्यनेन षष्ठीति प्राच्चः । तन्न । तन्न शेषग्रहणानुवृत्त्या द्विरह्वो भोजनमिति कृदन्तेन सह समासनि-वृत्तेरेव फलत्वात् । तस्मादिह ‘षष्ठी शेषे’ इति सूत्रेणैव षष्ठी भवत्यन्तरज्ज्वादित्याहुः । अन्यार्थमारब्धस्यापि ‘कृत्वोर्थप्र-योगे’ इति सूत्रस्य द्विरह्वो भुङ्क्त इत्यत्र विशेषविहितत्वात्प्रवृत्तौ वाधकं नास्तीति केचित् ॥ ॥ इति द्वितीया ॥ स्वतन्त्रः कर्ता । प्रधानीभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम् । आह च—‘धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते’ इति । स्थात्यादीनां वस्तुतः स्वातन्त्र्यभावेऽपि स्थाली पचति काष्ठानि पचन्तीत्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति—विव-क्षितोऽर्थ इति
Bālamanoramā
कालाध्वनोरत्यन्तसंयोगे - कालाध्वनोः । इहेति । कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः=अत्यन्तसंयोगः । अन्तो विच्छेदः, तमतिक्रान्तोऽत्यन्तः, स चासौ संयोगश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्याद्गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति — मासं कल्याणीति ।भवती॑ति शेषः । तिंरशद्दिनात्मको मासः । तस्मिन्नविच्छिन्नमङ्गलवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति — मासमधीते इति । तिंरशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रिव्यात्यन्तसंयोगे उदाहरति — मासं गुडधाना इति । मासे प्रतिदिनं निरन्तरं गुडधानाः सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्तसंयोगे उदाहरति — क्रोशं कुटिलेत्यादि । मासस्य द्विरिति । मासे तिंरशद्दिनात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारमित्येव द्विरधीत इत्यर्थः ।द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दात्कृत्वोऽर्थे सुच् ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति षष्ठी । शेषषष्ठीति केचित् ।शिवरात्रौ जागृयात् इत्यत्र त्वधिकरणत्वस्य विवक्षितत्वात्सप्तमीत्याह#उ#ः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तेरिति तदाशयः । इति द्वितीया ।
kālādhvanoratyantasaṃyoge — On "iha": the meaning is "in [the case of]
complete connection with a time and a space/road." atyanta-saṃyoga is
uninterrupted (nirantara) connection. anta means a break (viccheda); that which
has passed beyond it is atyanta; and [the compound is] "that [atyanta] which is
also a connection." "By a quality, an action, or a substance
(guṇa-kriyā-dravyaiḥ)" is understood from contextual appropriateness. The meaning
is: when uninterrupted connection of a quality, an action, or a substance with a
time or a space is to be conveyed, the accusative occurs; and it occurs precisely
for the words denoting time and space, since those are what is [explicitly] heard
[in the sūtra].
Among these, he exemplifies complete connection of a quality with "māsaṃ kalyāṇī";
"[she] is" is to be supplied. A month consists of thirty days; the meaning is:
possessed of uninterrupted auspiciousness/beauty throughout it. He exemplifies
complete connection of an action with "māsam adhīte": the meaning is that he
studies uninterruptedly, at the appropriate time each day, throughout the
thirty-day [month]. He exemplifies complete connection of a substance with "māsaṃ
guḍadhānāḥ": the meaning is that sugared grains exist uninterruptedly, each day,
throughout the month. Having exemplified complete connection with time, he
exemplifies complete connection with space (adhvan): "krośaṃ kuṭilā" etc.
On "māsasya dviḥ": the meaning is that "he studies twice" [only] in the sense of
once each on two days [and thus not continuously] within the thirty-day month. By
"dvi-tri-caturbhyaḥ suc," the suffix suc [applies] after the word "dvi" in the
sense of "times" (kṛtvas) [yielding dviḥ]; and by "kṛtvo'rtha-prayoge
kāle'dhikaraṇe" the genitive [māsasya] occurs. Some [hold] it to be the residual
genitive (śeṣa-ṣaṣṭhī). But in "śivarātrau jāgṛyāt" ("one should keep vigil on
Śivarātri"), since locus-hood is intended [to be expressed], they say [it is] the
locative — their idea being that the case-endings governed by an upapada operate
only when the residual (śeṣa) relation is intended to be expressed [whereas here
the locus-relation is intended instead].
translator notes
- translator The closing clause 'upapada-vibhaktīnāṃ śeṣatva-vivakṣāyām eva pravṛtteḥ' is elliptical: the point (contrasting with śivarātrau jāgṛyāt) is that an upapada-governed case-ending operates only where the mere residual relation is meant to be expressed; where a specific kāraka such as adhikaraṇa (locus) is intended, as in śivarātrau, the ordinary locative supervenes. Rendered close to the Sanskrit.
SK 559 · A 1.4.54कारकसंज्ञा
स्वतन्त्रः कर्ता ॥ ५५९ ॥
svatantraḥ kartā
The [participant] that is independent (svatantra) is the kartā (agent).
Rule. The participant meant as independent (svatantra) in carrying out the action is named kartṛ, the agent.
Example.
rāma in "Rāma slew Vālin with an arrow" → Rāma is meant as acting on his own → rāma is kartṛ → (by SK 561) rāmeṇa.
Siddhānta-kaumudī
क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥
The item (artha) that is intended (vivakṣita) as independent (svātantrya) in [carrying out] the action is the kartā.
Bālamanoramā
स्वतन्त्रः कर्त्ता - अथ तृतीया । स्वतन्त्रः कर्ता । कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह — क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह — विवक्षितोऽर्थ इति ।विवक्षातः कारकाणि भवन्ती॑ति भाष्यादिति भावः । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।॑इति । धातूपात्तव्यापारवतीत्यर्थः ।
svatantraḥ kartā — Now [the treatment of] the third case (tṛtīyā) [begins]. Because the kāraka adhikāra is in force, the independence meant here is independence with respect to the production of the action (kriyā-janana); this [Bhaṭṭoji] states with the word "in [carrying out] the action" (kriyāyām). That "independence here means being the principal item (prādhānya)" is stated plainly in the Bhāṣya.
Objection: In expressions such as sthālī pacati — "the pot cooks" — how can the pot and the like be the kartā, given their lack of [real] independence? To this he replies with "the item [so] intended" (vivakṣito 'rthaḥ): the idea being the Bhāṣya's dictum that "the kārakas arise from the speaker's intention (vivakṣā)."
And independence [more precisely] is being the locus of the operation (vyāpāra) that is the meaning of the root (dhātvartha). The root-meaning is the operation conducive to the result (phala-anukūla vyāpāra). Accordingly, in pacati, to block over-application (ativyāpti) to the rice-grains (taṇḍula) — which are [merely] the locus of the result in the form of the softening (viklitti) — [Bhaṭṭoji uses] the word "operation" (vyāpāra) [i.e., the kartā is the locus of the operation, not of the result]. And Hari (Bhartṛhari) has said: "In the kāraka that bears the action denoted by the root, agency (kartṛtā) is always accepted." The meaning is: [the kartā is] that which possesses the operation conveyed by the root (dhātu-upātta-vyāpāra).
SK 560 · A 1.4.42कारकसंज्ञा
साधकतमं करणम् ॥ ५६० ॥
sādhakatamaṃ karaṇam
That which is the most effective means (sādhakatama) in accomplishing the action is [designated] karaṇa (instrument). — 1.4.42
Rule. The participant that is the most effective (sādhakatama) in accomplishing the action is named karaṇa, the instrument.
Example.
bāṇa in "Rāma slew Vālin with an arrow" → the arrow is the most effective means of the slaying → bāṇa is karaṇa → (by SK 561) bāṇena.
Applies when / blocked by. Why the superlative -tama? In gaṅgāyāṃ ghoṣaḥ "the herdsmen's settlement on the Gaṅgā", the river helps but is not the most effective means; it is not karaṇa.
Siddhānta-kaumudī
क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥
That which is the most excellent aid (prakṛṣṭa-upakāraka) in the accomplishment of the action receives the karaṇa designation. Why the mention of "tamap" (the superlative — sādhaka-tama, not merely sādhaka)? [To exclude:] gaṅgāyāṃ ghoṣaḥ — "the herdsmen's settlement on the Ganges."
Tattvabodhinī
NSP p. 150–152—साधकतमं करणम् ॥—प्रकृष्टेति । यद्यापारानन्तरं फलनिष्पत्तिस्तत्प्रकृष्टम् । उक्तं च—‘क्रियायाः फलनिष्पत्तिर्यद्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्’ । विवक्ष्यत इत्यनेन स्थात्यादीनामपि करणत्वमस्तीति सूचितम् । आह च—‘वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थात्या पच्यत इत्येषा विवक्षा दृश्यते यतः’ इति । अयं भावः । कारकत्वं तद्याप्यकर्तृत्वादिषट्कं च वस्तुविशेषे विशेषणविशेष्यभाववन्न नियतम्, किंतु वैवक्षिकम् । न हि ‘गौः सर्वं प्रति गौरेव न तु कंचित् प्रत्यगौः’ इतिवद्विशेषणं सर्वं प्रति विशेषणमेवेति वक्तुं शक्यम् । तथा च कया धातुव्यक्त्या उपस्थापितेऽर्थे किं कर्त्रादिकमिति प्रश्ने ‘प्रकृतधातुव्यक्त्युपात्तव्यापाराश्रयतया विवक्षितः कर्ता, व्यापारव्यधिकरणफलाश्रयः कर्म, कर्तृकर्मद्वारकसंवन्धेन व्यापारस्य फलस्य वा आश्रयोऽधिकरणम्’ इति स्थितम् । पच्यर्थो व्यापारश्चानेकधा । एवं च पचेरधिश्रयणतण्डुलावपनैधोपकर्षणादितात्पर्यकत्वे तदाश्रयो देवदत्तः कर्ता, ज्वलन-तात्पर्यकत्वे एधाः कर्तारः, तण्डुलधारणादिपरत्वे स्थाली कर्त्री, अवयवावयविभावादिपरत्वे तण्डुलाः कर्तारः स्थाल्या पच-तीत्यत्र तृतीयोपात्तव्यापाराश्रयोऽपि स्थाली करणमेव न तु कर्त्री, देवदत्तादिव्यापारस्यैव तद्धातूपात्तत्वात्, तथा आदिखा-दिभ्यामुपात्तेऽर्थे प्रयोज्यः कर्ता, तस्मिन्नेवार्थे भक्षयतिनोपात्ते प्रयोज्यः कर्म, अधिपूर्वैः शीडादिभिरुपात्तेऽर्थे आधारः कर्म, केवलैरुपात्ते अधिकरणमित्यादि ज्ञेयम् । एतेन ज्ञानस्य स्वप्रकाशत्वे कर्तृकर्मविरोध इति केषांचिदुक्तिः परास्ता । यद्धातूपा-त्तक्रियायां यदा यस्य स्वातन्त्र्यं विवक्ष्यते तदा तत्क्रियायां स कर्ता, यदुपात्तया कर्तुः क्रियया यदा आमुमिष्टतमत्वेन यद्वि-वक्ष्यते तदा तत् कारकं तत्क्रियायां कर्मेत्येवं शब्दविशेषोपाधिकस्य कर्तृत्वादेः प्रत्यक्षे उक्तिसंभवाभावात् ॥ यत्तु केचित्परसमवेतक्रियाजन्यफलशालित्वं कर्मत्वं चेद् वृक्षात्पर्णं पततीत्यादौ स्वसमवेतक्रियाजन्यविभागादिफलशालिनि कर्तर्यतिव्या- स्यभावेऽप्यपादानेऽतिव्याप्तिः स्यादेव । अतश्च धालर्थतावच्छेदकफलशालित्वं कर्मलमित्येवाभ्युपगन्तव्यम् । एवं च सति ग्रामं गच्छतीत्यादिसकर्मकेषु गमनजन्यसंयोगादाविष्टानुरोधेन धालर्थतावच्छेदकत्वेऽभ्युपगतेऽपि वृक्षात्पर्णं पततीत्याद्यकर्मकेषु पतनादिजन्यविभागादौ तदवच्छेदकलाकल्पनानापादानेऽतिव्याप्तिः । नवा ग्रामं गच्छतीत्यादौ कर्तर्यतिव्याप्तिः, संयोगादि-फलजनकीभूतधालर्थस्य परसमवेतलविशेषणात्कर्मत्वेनाभिमतं यत्तद्भिन्नस्य परशब्देनात्र विवक्षितलादित्याहुः । तदभ्येतेन प्रत्युक्तम् । ग्रामं गमयति देवदत्तमित्यादौ गन्तर्यव्याप्तेः । णिजर्थप्रेरणाजन्यप्रयोज्यव्यापारे गमनादौ धालर्थतावच्छेदकला-भावात् । तत्त्वाभ्युपगमे तु देवदत्तेन पाचयतीत्यादौ प्रयोज्यकर्तर्यतिव्याप्तेः । ‘गतिबुद्धि-’ इत्यादिशास्त्राभ्युपगमं विना क्वचित् प्रयोज्यकर्तरि कर्मत्वं, क्वचित्तु कर्तृलमिति निर्धारयितुमशक्यत्वात् । ‘ह्कोरन्यतरस्याम्’ इति शास्त्रमन्तरेण हारयति कारयति वा कटं भृत्येन भृत्यमित्यत्र वैकल्पिककर्मलस्य दुरुपपादलाच्च । एतादृशेषु वैयाकरणोक्त्यैव निर्वाह इति चेत् । तर्हि ‘आकडारादेका संज्ञा या परानवकाशा च’ इत्युक्तलान्निरवकाशया अपादानसंज्ञया सावकाशायाः कर्मसंज्ञाया वाधा-न्नोक्तातिव्याप्तिरिति किमनेन धालर्थतावच्छेदकेत्यादिपरिश्रमेण ॥ स्यादेतत् ‘आत्मानमात्मना वेत्सि मृजस्यात्मानमात्मना’ इत्यादिप्रयोगाः कथं संगच्छन्ते, एकस्यैव वस्तुनो युगपदेकक्रियानिरूपितकर्तृलकर्मत्वादेरसंभवात्, परया कर्तृसंज्ञया कर्म- करणादिसंज्ञाया वाधात् । नैष दोषः । अहंकाराद्युपाधिभेदेनात्मनोऽपि भेदमाश्रित्य ‘आत्मानमात्मना हन्ति’ इत्यादिप्रयोगस्याकरे समर्थितवात् ॥ नजु ‘साधकं करणम्’ इत्येवास्तु, कारकाधिकारादिह कारकमिति वर्तते, साधकं कारकं हि पर्यायः, तथा चोभयोपादानेन प्रकर्यो लभ्यत इत्याशयेन पृच्छति—तमव्यहणं किमिति । इतरस्तु कारकप्रकरणे गौण-मुख्यन्याय एतत्सूत्रादन्यत्र न प्रवर्तत इति ज्ञापनाय तमव्यहणमित्याशयेन ज्ञापनफलमुदाहरति—गङ्गायां घोष इति । उक्तज्ञापनानङ्गीकारे त्विहाधिकरणसंज्ञा न स्यात् । तिलेषु तैलं दधनि सर्पिरित्यादौ मुख्याधारे तस्याश्चरितार्थलादिति भावः ॥ अत्र व्याचख्युः—यदा च तीरधर्म आधारत्वं सामीप्यात् प्रवाहे उपचर्यते तदेदं प्रयोजनं, यदा तु गङ्गाशब्द एव तीरे वर्तते तदा तु न प्रयोजनं, तीरस्य मुख्याधारलात् । तत्राद्यपक्षे विभक्तिर्लक्षणिकी द्वितीये तु प्रकृतिर्लक्षणिकीत्यादि ॥—रामेणेति । यद्यपि विभक्तयुपस्थितानां कारकाणां क्रियां प्रति विशेषणतैव, तथापि कृदुपस्थितानां विशेष्यतैव । ‘सत्त्व-प्रधानानि नामानि’ इत्युक्तेः । धातूपस्थाप्ययोः फलव्यापारयोर्हन्यत इत्यादिकर्माख्यातसमभिव्याहारे विशेषणविशेष्यभाव-व्यत्यासाभावेऽपि हत इत्यादिकर्मकृत्समभिव्याहारे व्यत्यासोऽस्त्येव । तथा च रामनिष्ठो यो व्यापारो धनुराकर्षणादिस्तद्विषयीभूतो यो वाणव्यापारः शरीरभेदनादिस्तत्साध्यप्राणवियोगाश्रयो वालीति वाक्यार्थः । वालिनं हन्ति, वाली हन्यत इत्यादौ तु वालिनिष्ठः प्राणवियोगानुकूलो यः शरीरभेदनादिर्वाणव्यापारस्तद्विषयको रामनिष्ठधनुराकर्षणादिव्यापार इत्यर्थो वोध्यः ॥ अत्रेदमवधेयम्—‘फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्’ । इह धातुः स्मृत इत्यन्वयः । वाचकत्वेनेति शेषः । ‘आश्रये तु तिङः’ इत्यत्र विभक्तिविपरिणामेन स्मृता इति संबध्यते । वाचकत्वेनेति पूर्ववत् । तिङ इत्युपलक्षणं द्वितीयातृतीयादीनामपि केषांचिदाश्रयमात्रार्थकलात् । नन्वेवमाधारार्थकत्वे द्वितीयातृतीयासप्तमीनां सांकर्यं स्यात् । मैवम् । निरूपकभेदेनाधारभेदात् । फलनिरूपित आधारभेदो द्वितीयार्थः । व्यापारनिरूपित- तस्य तृतीयार्थः । स्वाश्रयद्वारा व्यापारनिरूपितः फलनिरूपितश्च सप्तम्यर्थं इति ह्यभ्युपगम्यते ॥ फले प्रधानमिति । एतच्च प्राथिकम् । कर्मकृत्समभिव्याहारे तु व्यासोऽस्त्येवेति उक्तात् । ‘हरिं भजति देवदत्तः’ इत्यादौ तु व्यापारस्य प्राधान्यमस्त्येव । प्रकृतिप्रत्ययार्थयोर्हर्याधारयोर्देवदत्ततिङ्गच्याधारयोश्चाभेद इह संसर्गः । तथा च हर्याधारिका या प्रीतिस्तद्गुकूल एकदेवदत्ताधारको वर्तमानो यो व्यापार इति वाक्यार्थः । न चाधारतैव वाच्येति मन्तव्यम् । तन्निष्ठधर्मत्वस्याधारत्वस्य वाच्यतावच्छेदकलापत्याऽतिगौरवात् । ‘कर्मणि द्वितीया’ इत्यादिसूत्रस्वरभङ्गापत्तेश्च । अत एव भाष्यकारोऽप्याह- ‘सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङ्गम्’ इति । अनभिहिते किम् । हरिः करोति । पाचकः । कर्तरि ण्वुल् । शाब्दिकः । ‘शब्ददर्ढुरं करोति’ इति ठक् । कृतं विश्वं येन कृतविश्वः, विश्वकर्मककृत्याश्रय इत्यर्थः । जीवन्त्यनेन जीवनः । करणे ल्युट्
Bālamanoramā
साधकतमं करणम् - साधकतमं करणं । क्रियासिद्धाविति । क्रियोत्पत्तावित्यर्थः । कारकाधिकारलभ्यमिदम् । प्रकृष्टोपकारकमिति । कत्र्रा क्रियायां जनयितव्यायां यत्सहायभूतं तदुपकारकमित्युच्यते ।साधकतम॑मित्यस्य व्याख्यानमेतत् । साधकशब्दादतिशायने तमबिति तमप् । अतिशयितं साधकं साधकतममिति भावः । यद्व्यापारानन्तरं क्रियानिष्पत्तिस्तत् प्रकृष्टम् । कर्तृव्यापाराधीनयद्व्यापाराऽव्यवहिता क्रियानिष्पत्तिस्तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति । साधकमित्येवोच्यताम्, कारकाधिकारादेव सिद्धे पुनः साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोष इति । अयमाशयः, — कारकप्रकरणे गौणमुख्यान्याय एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थं तमब्ग्रहणम् । अन्यथाआधारोऽधिकरण॑मित्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसामर्थ्यात्रुआआववयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । एवं चतिलेषु तैलं॑,दध्नि सर्पि॑रित्यादावेव स्यात् ।गङ्गायां घोषः॑, कूपे गर्गकुल॑मित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् 'आधारोऽधिकरणं' 'सप्तम्यधिकरणे च' इत्यत्र वक्ष्यते ।
sādhakatamaṃ karaṇam — sādhakatamaṃ karaṇaṃ. kriyāsiddhau (Bhaṭṭoji's word) = kriyotpattau, "in the arising of the action." This [word "action"] is available from the kāraka-adhikāra. prakṛṣṭopakārakam — that which serves as the helper (sahāyabhūta) to the agent in producing the action that is to be produced is called the "aid" (upakāraka). This is the gloss of "sādhakatamam." From "sādhaka," by the superlative "tamap" (atiśāyane tamap), [we get] "sādhakatama" = the pre-eminent sādhaka (atiśayitaṃ sādhakam); this is the point. That immediately after whose operation the completion of the action [follows] is the "excellent" (prakṛṣṭa). The completion of the action which is unmediated by an operation that itself depends on the agent's operation — that [is what] is karaṇa in that [action]; this is the upshot.
Why the mention of "tamab"? Let it say only "sādhaka" — since [karaṇa-hood] is already established from the kāraka-adhikāra, and from mentioning "sādhaka" again "the excellent sādhaka" would be understood: this is the question. gaṅgāyāṃ ghoṣa iti — This is the intent: the mention of "tamab" serves to indicate (jñāpana) that the maxim of primary-and-subordinate (gauṇamukhya-nyāya) does not operate anywhere in the kāraka section except in this sūtra. Otherwise, in "ādhāro'dhikaraṇam" (A 1.4.45), the ādhāra-sense being obtained merely by the force of the meaningful great-designation (anvartha-mahāsaṃjñā), the power of mentioning it again would yield the sense "that which is the ādhāra by pervasion of all [its] parts (sarvāvayava-vyāptyā) is adhikaraṇa." And in that case it would apply only in "tileṣu tailam" ("oil in the sesame-seeds"), "dadhni sarpiḥ" ("ghee in the curds"), but not in "gaṅgāyāṃ ghoṣaḥ" ("settlement on the Ganges"), "kūpe gargakulam" ("the Garga family at the well"). Hence [there is] the mention of "tamab" — this is clear in the Bhāṣya. What is [further] to be said here will be said under "ādhāro'dhikaraṇam" and "saptamyadhikaraṇe ca" (A 2.3.36).
Footnotes (NSP 1915 ed.)
NSP p. 151 १ प्रकृत्यादिभ्य इति—अयं यथायथं सर्वविभक्तपवादः ।
NSP p. 152 १ नायात इति—अनेन फलाप्राप्तिरेव स्फुटमुच्यते । २ सहार्थेनेति—सहार्थः साहित्यं तच्च स्वसमभिव्याहृतक्रियादिसमान-कालिकतत्क्रियादिमत्त्वं, क्वचिच्च समानदेशक्रियावत्त्वम् । अत एव माषवापोत्तरं तत्रैव क्षेत्रे तिलवापे तिलैः सह माषान्वपतीति भवति । ३ अक्षणा काण इति—यद्यपि अक्ष्येव काणं तथापि अवयवधर्मस्य समुदाये आरोपात् शरीरे तदवच्छिन्ने च व्यवहारो निरूढः । ४ काणत्येति—लेशतोऽपि दर्शनसामर्थ्यहीनत्वं तत्त्वम् ।
translator notes
- textual The digital source reads truāāvavayava for sarvāvayava (translated per the evident reading); the superlative suffix is written both tamap and tamab in the source, both retained as transmitted.
SK 561 · A 2.3.18V
कर्तृकरणयोस्तृतीया ॥ ५६१ ॥
kartṛkaraṇayostṛtīyā
kartṛkaraṇayos tṛtīyā — 2.3.18. The third case-ending (tṛtīyā, instrumental) is used for the agent (kartṛ) and the instrument (karaṇa), [when they are not otherwise expressed].
Rule. The third case-ending (tṛtīyā) is added to express the agent and the instrument when they are not already expressed.
Example.
rāma (kartṛ) + bāṇa (karaṇa) + hato vālī → hata expresses the object → the agent and the instrument are unexpressed → third case → rāmeṇa bāṇena hato vālī "Vālin was slain by Rāma with an arrow".
Applies when / blocked by. A vārttika adds the instrumental after prakṛti "nature" and words like it: prakṛtyā cāruḥ "beautiful by nature", prāyeṇa yājñikaḥ "a ritualist for the most part", gotreṇa gārgyaḥ "a Gārgya by lineage", samenaiti "he goes evenly", viṣameṇaiti "he goes unevenly", dvidroṇena dhānyaṃ krīṇāti "he buys grain at two droṇas", sukhena duḥkhena vā yāti "he travels with ease or with difficulty".
Siddhānta-kaumudī
अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥
When [the agent or instrument is] not [already] expressed (anabhihite), the
instrumental (tṛtīyā) is used for the agent (kartṛ) and the instrument
(karaṇa). Example: rāmeṇa bāṇena hato vālī — "Vālin was slain by Rāma (the
agent, in the instrumental) with an arrow (the instrument, in the
instrumental)."
vārttikaप्रकृत्यादिभ्य उपसंख्यानम्
(vārttika) prakṛtyādibhya upasaṃkhyānam — An additional statement
(upasaṃkhyāna) [of the instrumental] is required after prakṛti and the like.
(वार्तिकम्) ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥
(vārttika, illustrations) prakṛtyā cāruḥ ("beautiful by nature"); prāyeṇa
yājñikaḥ ("a ritualist for the most part"); gotreṇa gārgyaḥ ("a Gārgya by
lineage"); samenaiti ("he goes evenly"); viṣameṇaiti ("he goes unevenly");
dvidroṇena dhānyaṃ krīṇāti ("he buys grain at [the price of] two droṇas");
sukhena duḥkhena vā yāti ("he travels with ease or with difficulty"), and so on.
Tattvabodhinī
alignment inferredNSP p. 152–153—प्रकृत्यादिभ्य इति । आकृतिगणोऽयम् । तेन ‘नाम्ना सुतीक्ष्णश्चरितेन दान्तः’ इत्यादि सिद्धम् ॥—चारुरिति । अभिरूप इत्यर्थः । क्रियाया अश्रवणात् कर्तृकरणयोरभावात् षष्ठीह प्राप्ता । एतच्च गम्यमानकरोतिक्रिया- करणत्वात्सिद्धं, करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम् । स्वभावेनायमभिरूपः कृतो न त्वलंकारादिनेत्यर्थात् ॥—प्रायेण याङ्गिक इति । एतदपि गम्यमानज्ञानक्रियां प्रति करणत्वात्सिद्धम् । आचारादिवाहुल्येन याङ्गिकोऽयमिति जनैर्ज्ञायत इत्यर्थात् ॥—गोत्रेण गार्ग्य इति । गार्ग्योऽस्य गोत्रमित्यर्थः । प्रथमात्र प्राप्ता, गोत्रेणाहं ज्ञाये इत्यर्थादिहापि तृतीया सिद्धा ॥—समेनैतीत्यादि । सममेतीत्याद्यर्थे समविषमाभ्यां कर्मणि द्वितीया प्राप्ता । इहापि तृतीया सिद्धा, पथोऽपि गमने करणत्वाभ्युपगमात् ॥—द्विद्रोणेनेति । द्वयोर्द्रोणयोः समाहारो द्विद्रोणम् । पात्रादित्वात् ब्रीत्वाभावः । द्रोणद्वयसंवन्धिधान्यमित्यर्थः । इह षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यार्थे मूल्ये द्विद्रोणशब्दः, तस्य च क्रियां प्रति करणत्वमितीहापि तृतीया सिद्धेति दिक् ॥—चादिति । करणशब्दानुवृत्त्या ‘परिक्रयणे संप्रदानमन्यतरस्याम्’ इत्युत्तर- सूत्रस्थान्यतरस्यांग्रहणापकर्षणेन वा संज्ञयोः पर्यायत्वे लब्धे च ग्रहणं समुच्चयार्थम् । तेन मनसा दीव्यतीति मनसादेव इत्यत्र कर्मण्यण् करणे तृतीया चोभयं युगपत्सिध्यति । ‘मनसः संज्ञायाम्’ इत्यलुक् । किंच अक्षैर्देवयते देवदत्तो यज्ञदत्तेनेत्यत्र सकर्मकलाद् अणि कर्तुणां ‘गतिवुद्धि-’ इत्यनेन कर्मत्वं न, ‘अणावकर्मकात्-’ इति परस्मैपदमपि न भवति । ननु कर्मकरणसंज्ञासमावेशस्य मनसा देव इत्यत्र कृतार्थत्वादक्षान्दीव्यतीत्यत्र परत्वात्तृतीयैव स्यान्न तु द्वितीयेति चेत् । अत्राहुः—कार्यकालपक्षे ‘कर्मणि द्वितीया’ इत्यत्र यदस्योपस्थानं तस्यानवकाशत्वाद् द्वितीयेति । स्यादेतत् । दीव्यन्ते अक्षा इत्यत्राभिहितेऽपि कर्मणि करणत्वस्यानभिधानात्तृतीया स्यात् । तथा देवना अक्षा इत्यत्र ल्युटा करणत्वस्याभिधानेऽपि कर्मणोऽनभिधानात् द्वितीया स्यात् । मैवम् । एकैव ह्यत्र शक्तिः संज्ञाद्वययोगिनी, तथा चैकस्यां शक्तावभिहितायामन्यस्या अप्यभिधानादुभयत्राप्यभिधानमेव, न त्वनभिहितत्वम् ॥—सहयुक्ते इति । ‘सहेनाप्रधाने’ इत्येव वाच्ये युक्तप्रहणादर्थ- प्रहणमित्याह—सहार्थेनेति । सहार्थकशब्देन सहसाकंसार्धमित्यादिनेत्यर्थः ॥—पुत्रेणेति । पितुरेवागमनक्रियासंबन्धः शाब्दः पुत्रस्य त्वार्थं इत्येतावतैव तस्याप्राधान्यमुच्यते । अप्रधानप्रहणं त्यक्तुं शक्यम् । न चैवं पितुरपि तृतीयापत्तिः, तत्र प्रातिपदिकार्थमात्रे अन्तरङ्गत्वात्प्रथमोपपत्तेः । न च यत्र प्रथमा न प्राप्नोति पुत्रेण सह पितुरागमनमित्यादौ तत्र प्रधानात् पितुरपि तृतीया स्यादतस्तद्वारणायाप्रधानप्रहणमावश्यकमिति वाच्यम् । कारकविभक्तेर्वलीयस्त्वात् ‘कर्तृकर्मणोः कृति’ इति षष्ठ्या एव तत्र प्रवृत्तेरिति दिक् ॥—येनाङ्गेति—। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्यते, संनिधानात् । स चार्थाद्विकृत एव । न ह्यविकृतेनावयवेन शरीरस्य विकारः संभवति तदेतदाह—येनाङ्गेन विकृतेनेति ॥— अङ्गिन इति । सूत्रेऽङ्गशब्दः अश्वाद्यजन्तु इति भावः ॥ जटानामित्यंभूतलक्षणत्वमुपपादयति—जटाज्ञाप्येति । जटाभिर्ज्ञाप्यं यत्तापसत्वं तद्विशिष्ट इत्यर्थः
Bālamanoramā
कर्तृकरणयोस्तृतीया - कर्तृकरणयोस्तृतीया । 'अनभिहिते' इत्यधिकारादाह-अनभिहित इति । रामेणेति । रामकर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानमिति । 'तृतीयाया' इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्त्यपवादः । प्रकृत्या चारुरिति । संबन्धस्तृतीयार्थः । प्रकृतिः=स्वभावः, तत्संबन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवाऽयमभिरूपो न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदाकर्तृकरणयो॑रित्येव सिद्धमिति भाष्यम् । प्रायेण याज्ञिक इति । प्रायशब्दो बहुलवाची । बहुलाचारसंबन्धियाज्ञिकत्ववानित्यर्थः । संबन्धश्च ज्ञाप्यज्ञापकभावः । बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु इत्थंभूतलक्षणे॑ इत्येव सिद्धम् । बहुलेन आचारेण संपन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गार्ग्य इति । गोत्रमस्य गार्ग्य इत्यर्थः । अत्र प्रथमा प्राप्ता । गोत्रेण हेतुना ज्ञाप्यगार्ग्यत्ववानित्यर्थे तु इत्थभूतलक्षणे॑ इत्येव सिद्धमिति भाष्यम् । समेनैति विषमेणैतीति । क्रियाविशेषणमेतत् । समं विषमं च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । द्विद्रोणेनेति । द्वयोर्द्रोणयोः समाहारो द्विद्रोणम् । पात्रादित्वान्न स्त्रीत्वम् । द्विद्रोणसंबन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता । द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणम्, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । सुखेनेति । सुखजनकं यानं करोतीत्यर्थः । क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नाम्नासुदीक्ष्णः॑ । नामसंबन्धिसुतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थंभूतलक्षणे' इत्येव सिद्धम् । धान्येन धनवा॑नित्यत्र तु अभेदस्तृतीयार्थः । धान्याऽभिन्नधनवानित्यर्थः । वह्नित्वेन वह्निं जानामी॑त्यत्र तु प्रकारत्वं तृतीयार्थः । बह्नित्वप्रकारकबह्निज्ञानवानस्मीत्यर्थ इत्याद्यूह्यम् ।
kartṛkaraṇayos tṛtīyā — Because of the adhikāra "anabhihite" ("when not
[already] expressed," 2.3.1), he says "when not expressed." On "rāmeṇa": the
meaning is that Vālin is the object (viṣaya) of an act of killing whose agent
(kartṛ) is Rāma and whose instrument (karaṇa) is the arrow.
On the vārttika "prakṛtyādibhya upasaṃkhyānam": supply "of the instrumental
(tṛtīyā)." This is an upapada-vibhakti (a case-ending governed by the presence
of a particular co-word); as appropriate, it is an exception (apavāda) to all
[other] case-endings.
prakṛtyā cāruḥ — here the sense of the instrumental is "relation" (saṃbandha):
prakṛti = nature (svabhāva), so the meaning is "possessing beauty (cārutva)
related to that [nature]." But when one intends "he is handsome by his very
nature, not by ornament and the like" — so that prakṛti's being the instrument
(karaṇatva) is intended precisely in order to exclude some other instrument —
then, says the Bhāṣya, [the instrumental] is established by "kartṛkaraṇayoḥ"
[the present rule] itself [and the vārttika is not needed].
prāyeṇa yājñikaḥ — the word prāya means "abundant/for the most part." The
meaning is "possessing being-a-ritualist (yājñikatva) related to abundant
practice," the relation being that of indicated-and-indicator
(jñāpya-jñāpaka). But in the sense "possessing being-a-ritualist that is
indicated by abundant practice as its ground," it is established by
"itthaṃbhūtalakṣaṇe" (2.3.21) itself; and in the sense "possessing
being-a-ritualist accomplished (saṃpanna) by abundant practice," it is
established, says the Bhāṣya, by [its] being the instrument itself.
gotreṇa gārgyaḥ — the meaning is "Gārgya is his lineage (gotra)." Here the
nominative (prathamā) would [normally] be obtained. But in the sense
"possessing being-a-Gārgya indicated by lineage as its ground," it is
established, says the Bhāṣya, by "itthaṃbhūtalakṣaṇe" (2.3.21) itself.
samenaiti, viṣameṇaiti — these are adverbs (kriyā-viśeṣaṇa); the meaning is "he
makes his going even" / "uneven." Here the accusative (dvitīyā) for the object
would [normally] be obtained. But in the sense "he goes by an even or an uneven
path," it is established, says the Bhāṣya, by [its] being the instrument itself.
dvidroṇena — dvidroṇa is the aggregate (samāhāra) of two droṇas [a dvigu];
because it belongs to the pātrādi class it does not take a feminine ending. The
meaning is "grain related to two droṇas," where the genitive (ṣaṣṭhī) would
[normally] be obtained. But in the sense "dvidroṇa = the gold that is the price
of grain measured by two droṇas, and he buys with that," it is established, says
the Bhāṣya, by [its] being the instrument itself.
sukhena — the meaning is "he makes a going that produces ease"; it is an adverb,
and the accusative would [normally] be obtained. On "and so on" (ityādi):
nāmnā sutīkṣṇaḥ ("keen by name") — the meaning is "possessing keenness related
to a name"; but in the sense "possessing keenness indicated by a name" it is
established by "itthaṃbhūtalakṣaṇe" (2.3.21) itself. In dhānyena dhanavān ("rich
in grain"), by contrast, the sense of the instrumental is non-difference
(abheda): "possessing wealth non-different from grain." And in vahnitvena vahniṃ
jānāmi ("I know fire as fire"), the sense of the instrumental is being-a-mode
(prakāratva): "I have a fire-cognition qualified by fire-ness (vahnitva)" — and
so the rest is to be inferred.
Footnotes (NSP 1915 ed.)
NSP p. 153 १ जटाभिरिति—यद्यपि जटाभिस्तापसो ज्ञात इत्यर्थे ज्ञानक्रियाकरणत्वेनैव तृतीया सिद्धा तथापि करणत्वाविवक्षायां लक्ष्यलक्षणभाव विवक्षायां तृतीयासिद्ध्यर्थमिदम् । २ अशिष्टेति—अशिष्टानां संकीर्णाचाराणां यो व्यवहारः क्रिया तद्वोधकप्रयोगे प्रत्यासत्त्या यत्संबन्धेन व्यवहारस्य संकीर्णाचारत्वं तद्वाचकाच्चतुर्थ्यर्थे तृतीयेत्यर्थः । ३ दास्येति—दासीसंप्रदानकं रतिफलकं दानमिति बोधः ।
SK 562 · A 1.4.43कारकसंज्ञा
दिवः कर्म च ॥ ५६२ ॥
divaḥ karma ca
divaḥ karma ca — 1.4.43. [The most effective kāraka] of div (to play, gamble) is termed karman, and (ca) also [karaṇa].
Rule. The most effective means of div (play, gamble) is named karman, and, by the word ca, karaṇa as well.
Example.
akṣa + dīvyati "he plays dice" → the dice are the most effective means → karaṇa, giving akṣair dīvyati (instrumental), or karman, giving akṣān dīvyati (accusative).
Siddhānta-kaumudī
दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥
The most effective (sādhakatama) kāraka of div receives the designation
karman, and by [the word] ca [it] also [receives] the designation karaṇa.
Example: akṣair akṣān vā dīvyati — "he plays with the dice / plays the dice"
(the dice standing either in the instrumental, akṣaiḥ, as karaṇa, or in the
accusative, akṣān, as karman).
Bālamanoramā
दिवः कर्म च - दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह — दिवः साधकतममिति । दिवुधात्वर्थं प्रति साधकतममित्यर्थः । चादिति । चकारात्करणसंज्ञकमित्यपि लभ्यत इत्यर्थः ।
divaḥ karma ca — "sādhakatama" (most effective) is carried forward
(anuvṛtti) [from the preceding rule sādhakatamaṃ karaṇam, A 1.4.42]. This he
states with "divaḥ sādhakatamam." The meaning is: [that which is] most
effective with respect to the sense of the root divu. "cāt" (from ca) — the
meaning is that from the word ca it is obtained that [the same kāraka] is also
termed karaṇa.
SK 563 · A 2.3.6V
अपवर्गे तृतीया ॥ ५६३ ॥
apavarge tṛtīyā
When apavarga (completion, attainment of the result) is to be conveyed, the instrumental (tṛtīyā) is used for time and path in continuous connection (atyanta-saṃyoga).
Rule. Apavarga is the attainment of the result. When that is conveyed, the third case-ending is added to a word for time or road in uninterrupted connection with the action.
Example.
ahan + anuvāko 'dhītaḥ "the anuvāka (a section of a Vedic text) was studied in a day, and finished" → completion conveyed → third case → ahnā anuvāko 'dhītaḥ; likewise krośena anuvāko 'dhītaḥ "over a krośa".
Applies when / blocked by. Without completion the accusative of SK 558 stands: māsam adhīto nāyātaḥ "he studied for a month, but the text is not mastered".
Siddhānta-kaumudī
अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥
apavarga = attainment of the result (phala-prāpti); when it is to be conveyed (dyotya), the instrumental (tṛtīyā) occurs for time (kāla) and path (adhvan) in continuous connection (atyanta-saṃyoga). [Example:] ahnā krośena vā anuvāko'dhītaḥ — "the anuvāka was studied in [the course of] a day, or over [the distance of] a krośa" [ahnā and krośena in the instrumental]. Why "when apavarga [is denoted]"? [Counterexample:] māsam adhīto nāyātaḥ — "he studied for a month [but the text] has not come [to completion]" [here, no completion, so the accusative māsam].
Bālamanoramā
अपवर्गे तृतीया - अपवर्गे तृतीया । अपवर्द समाप्तिः,कर्मापवर्गे लौकिका अग्नयः॑ इत्यादौ दर्शनात् । इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह-अपवर्गः फलप्राप्तिरिति । कालाध्वनोरिति । अनेन 'कालाध्वनोः' इति द्वितीयाय अयमपवाद इति सूचितम् । अह्नेति । अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः । नायात #इति । न गृहीत इत्यर्थः ।
apavarge tṛtīyā — apavarga = completion (samāpti), as seen in [usages such as] "karmāpavarge laukikā agnayaḥ" and the like. But here, since the action generally extends up to the attainment of the result, [apavarga = phala-prāpti]. He states this with "apavarga is the attainment of the result." On "kālādhvanoḥ": by this it is indicated that this [rule] is an exception (apavāda) to the accusative [enjoined by] "kālādhvanor atyantasaṃyoge (A 2.3.5)." On "ahnā": meaning the anuvāka was grasped (gṛhīta) through study continuously (nirantaram) in a day, or over a krośa. On "nāyātaḥ": meaning "not grasped (na gṛhīta)."
translator notes
- textual The source shows minor digitization slips: apavarda for apavarga, kośe for krośe, and a stray '#' before iti in the gloss of nāyātaḥ; the translation follows the evident readings.
SK 564 · A 2.3.19V
सहयुक्तेऽप्रधाने ॥ ५६४ ॥
sahayukte'pradhāne
The third case (tṛtīyā) is used for the non-principal (apradhāna) item joined with [a word meaning] 'together' (saha).
Rule. The third case-ending is added to the non-principal (apradhāna) item that is joined with a word meaning "together" (saha).
Example.
putra + saha + āgataḥ pitā "the father came together with the son" → the father is principal, the son secondary → third case → putreṇa sahāgataḥ pitā.
Applies when / blocked by. The same holds with sākam, sārdham and samam. Even without any such word the instrumental occurs, as the wording vṛddho yūnā "the elder with the younger" (SK 931) shows.
Siddhānta-kaumudī
सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना SK 931 इत्यादिनिर्देशात् ॥
The tṛtīyā is used for a non-principal (apradhāna) item that is joined with a word having the sense of saha ("together"). E.g. putreṇa sahāgataḥ pitā — "the father came together with the son." Likewise also in conjunction with sākam, sārdham, and samam. Even without any such conjunction the tṛtīyā occurs, as shown by the wording vṛddho yūnā (SK 931) and the like.
Bālamanoramā
सहयुक्तेऽप्रधाने - सहयुक्ते । 'पृथग्विनानानाभिः' इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह — सहार्थेनेति । पुत्रेणेति । पितुरत्रागमनक्रियासंबन्धः शाब्दः, पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याऽप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात्तृतीया सिद्धा तथापि 'पुत्रेण सह स्थूल' इत्याद्येवास्य मुख्योदाहरणमिति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह — एवं साकमिति । ननुपुत्रेणागतः पिते॑त्यत्र सहादिशब्दाऽभावात्कथं तृतीयेत्यत आह — विनापीति । वृद्धो यूना तल्लक्षणश्चेदि॑ति सूत्रे सहादिशब्दाऽभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः ।
sahayukte'pradhāne — Just as in pṛthagvinānānābhiḥ (A 2.3.32), the [rule] would be secured merely by "saha"; the mention of "joined" (yukta) is in order to include also the words synonymous with saha, such as sākam and the rest. This he states with "with [a word] having the sense of saha" (sahārthena).
"putreṇa" [sahāgataḥ pitā]: here the father's connection with the action of coming is expressed by the words (śābda), whereas the son's [connection] is implicit (ārthika), being understood through his accompaniment (sāhitya) of that [action]; hence the son's non-principal status (apradhānatva). Although the tṛtīyā from "putra" would already be established by [the son's] being an agent of the action of coming, still — as is clear in the Bhāṣya — the primary example of this [rule] is rather putreṇa saha sthūlaḥ ("stout, together with his son") and the like [where, there being no action, the son's tṛtīyā can come only from this rule].
He states the purpose of mentioning "sense" (artha): "likewise sākam" and the rest. Objection: In putreṇāgataḥ pitā ("the father came with the son"), since there is no word like saha, how does the tṛtīyā arise? To this he says "even without" (vināpi): in the sūtra vṛddho yūnā tallakṣaṇaścet (A 1.2.65), even in the absence of a word like saha, yet with its sense understood, the prescribing (nirdeśa) of the tṛtīyā is seen — that is the meaning.
SK 565 · A 2.3.20V
येनाङ्गविकारः ॥ ५६५ ॥
yenāṅgavikāraḥ
The third case (tṛtīyā) is used with that [limb] by which a deformation of the body (aṅga-vikāra) is characterized.
Rule. The third case-ending is added to the limb by whose deformity the whole body is marked as deformed.
Example.
akṣi + kāṇaḥ "one-eyed" → the person is marked as defective through the eye → third case → akṣṇā kāṇaḥ "blind in one eye".
Applies when / blocked by. Why "deformity of the whole"? In akṣi kāṇam asya "his eye is defective", the eye itself is the deformed thing, not a limb marking a deformed whole; no instrumental.
Siddhānta-kaumudī
येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥
The tṛtīyā is used from that limb (aṅga) by whose being deformed the deformation of the whole (aṅgin, the body that possesses limbs) is characterized. E.g. akṣṇā kāṇaḥ — "one-eyed by [reason of] the eye," i.e. qualified by one-eyedness (kāṇatva) relating to the eye. Why "a deformation of a limb"? [To exclude:] akṣi kāṇam asya — "his eye is defective" [where the eye itself, not the whole person, is what is deformed, so no tṛtīyā].
Bālamanoramā
येनाङ्गविकारः - येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम् । अर्शाअद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति । तदाह — येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । संबन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह — अक्षिसंबन्धीति । संबन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः ।
yenāṅgavikāraḥ — Here "aṅga" means the body (śarīra) — that which "has limbs" (aṅgāny asya santi), [the possessive] ac being added by the arśaādi rule (A 5.2.127). The analysis (vigraha) is "the deformation of that [body]" (tasya vikāraḥ). By "yena" ("by which") the limb, which is the meaning of the base (prakṛty-artha), is referred to. For the deformation of the possessor-of-limbs cannot come about through a limb that is itself undeformed. This he states with "yenāṅgena…" and so on.
"akṣṇā kāṇaḥ": the word kāṇa denotes that which possesses one-eyedness (kāṇatva). The relation (saṃbandha) is the meaning of the tṛtīyā, and it construes with the kāṇatva. This he states with "relating to the eye" (akṣi-saṃbandhi). And the relation is of the form "being occasioned by the deformation" (vikāra-prayuktatva) — that is, possessing the one-eyedness occasioned by the eye's deformation. Although one says "kāṇa" when a single eye is defective, still the usage of a property of a part (avayava-dharma) with reference to the body — the self as delimited by that [body] — is well established (nirūḍha). The employment of the word "akṣṇā" is thus to be justified [as an established usage], on the analogy of dvau viprau ("two brahmins").
SK 566 · A 2.3.21V
इत्थंभूतलक्षणे ॥ ५६६ ॥
itthaṃbhūtalakṣaṇe
The third case (tṛtīyā) is used with that which characterizes [someone] who has attained a certain manner (itthaṃbhūta).
Rule. The third case-ending is added to the mark (lakṣaṇa) by which someone is known to be in a certain condition (itthaṃbhūta).
Example.
jaṭā + tāpasaḥ "an ascetic, as his matted locks show" → the locks are the mark → third case → jaṭābhis tāpasaḥ.
Siddhānta-kaumudī
कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥
The tṛtīyā is used for the characterizing-mark (lakṣaṇa) of one who has attained some manner or condition (prakāra). E.g. jaṭābhis tāpasaḥ — "an ascetic [known] by his matted locks (jaṭā)," i.e. qualified by the state of being an ascetic (tāpasatva) that is made known (jñāpya) by the matted locks.
Bālamanoramā
इत्थंभूतलक्षणे - इत्थंभूतलक्षणे । अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः । 'भू प्राप्तौ' इति चौरादिकात् 'आधृषाद्वा' इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः । लक्षणं=ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः । तदाह — कंचित्प्रकारमिति । जटाभिस्तापस इति । तपोऽस्यास्तीति तापसः ।तपस्सहरुआआभ्यां विनीनी॑अण्चे॑ति मत्वर्थीयोऽण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह — जटाज्ञाप्येति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् ।
itthaṃbhūtalakṣaṇe — "itthaṃ" means "this manner"; one who "has become / attained" (bhūtaḥ = prāptaḥ) that is itthaṃbhūta. From the root bhū in the sense "to attain" (bhū prāptau), belonging to the curādi class — the ṇic being optionally absent by ādhṛṣād vā — the affix kta is added in the active-agent sense (kartari) by gatyarthākarmaka... (A 3.4.72). "lakṣaṇa" means that which makes [something] known (jñāpaka); so the sense is "with reference to what makes known one who has attained a particular manner." This he states with "some manner" (kaṃcit prakāram).
"jaṭābhis tāpasaḥ": tāpasa means "one who has tapas" (tapo'syāsti), the possessive (matvarthīya) affix aṇ [being added]. [The word] denotes that which possesses the state of being an ascetic (tāpasatva). The relation of characterized-and-characteristic (lakṣya-lakṣaṇa-bhāva) is the meaning of the tṛtīyā. This he states with "made known by the matted locks" (jaṭā-jñāpya). Nor should one object: "the tṛtīyā is already established because the [matted locks] are the instrument (karaṇa) in the knowing." For when instrumentality is not intended (avivakṣā), and only the characterized-characteristic relation is intended, that [relation] is [itself] the meaning of the tṛtīyā here.
translator notes
- textual The digital source's cited affix-rule for tāpasa is corrupt (reads तपस्सहरुआआभ्यां विनीनी...अण्च for what is evidently a matvarthīya aṇ prescription); the possessive aṇ is translated but the garbled rule-citation is not reconstructed or numbered.
SK 567 · A 2.3.22V
संज्ञोऽन्यतरस्यां कर्मणि ॥ ५६७ ॥
saṃjño'nyatarasyāṃ karmaṇi
saṃjño'nyatarasyāṃ karmaṇi — 2.3.22. For sam + jñā (saṃjñā), the third case (instrumental) is used optionally for the karma [the accusative otherwise].
Rule. With jñā preceded by sam (recognise), the object optionally takes the third case-ending; otherwise the accusative.
Example.
pitṛ + saṃjānīte "he recognises his father" → pitrā saṃjānīte or pitaraṃ saṃjānīte.
Siddhānta-kaumudī
संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥
Of jānāti (√jñā) preceded by sam, the third (instrumental) optionally occurs for
the karma. Example: pitrā pitaraṃ vā saṃjānīte — "he recognizes the father" (pitrā
in the instrumental, or pitaram in the accusative).
Tattvabodhinī
NSP p. 153—संज्ञो—। ‘ज्ञा अवबोधने’ इत्ययमेव गृह्यते न तु ‘जनी प्रादुर्भावे’ इति, तस्याकर्मकत्वात् । इत्यः प्राग्भागस्य ज्ञ इत्यस्य ‘अल्लोपोऽनः’ इत्यल्लोपेन निष्पन्नतया लक्षणिकत्वाच्चेत्याशयेनाह—जानातेरिति ॥—संजानीत इति । ‘संप्रतिभ्यामनाध्याने’ इति तद् । कृद्योगे परत्वात् ‘कर्तृकर्मणोः’ इति षष्ठ्येव पितुः संजाता । आध्याने तु पित्रा पितरं वा संजानाति ॥ हरदत्तस्त्वाह—आध्याने तु परत्वात् ‘अधीगर्थ—’ इति षष्ठी मातुः संजानातीति । तन्न । तत्र शेषाधिकारादिति मनोरमायां स्थितम्
Bālamanoramā
संज्ञोऽन्यतरस्यां कर्मणि - संज्ञोऽन्यतरस्यां । संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठएकवचनं 'संज्ञ' इति, तदाह — संपूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । संजानीते इति । सम्यक् जानीते इत्यर्थः ।संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदम् ।
saṃjño'nyatarasyāṃ karmaṇi — saṃjño'nyatarasyām. "saṃjña" is the genitive
singular of the imitation-form (anukaraṇa) of the root jñā preceded by sam; he
states this by "saṃpūrvasya jānāteḥ" (of jānāti preceded by sam). This optional
instrumental (tṛtīyā-vikalpa) is an exception to the second (accusative).
"saṃjānīte" — the meaning is "he knows fully/rightly" (samyak jānīte). The
ātmanepada [is] by "saṃpratibhyām anādhyāne."
translator notes
- textual The ātmanepada rule cited by pratīka as 'saṃpratibhyām anādhyāne' is left without a sūtra number, as the source gives none and identification is not certain here.
SK 568 · A 2.3.23V
हेतौ ॥ ५६८ ॥
hetau
hetau — 2.3.23. In [expressing] a cause (hetu), the third case (tṛtīyā, the instrumental) is used.
Rule. The third case-ending is added to express a cause (hetu).
Example.
daṇḍa + ghaṭaḥ "a pot made through a stick" → the stick is the cause → daṇḍena ghaṭaḥ.
puṇyena dṛṣṭo hariḥ "Hari was seen through merit".
adhyayanena vasati "he stays for the sake of study" — here a result too counts as a cause.
alaṃ śrameṇa "enough of toil" — the action is only implied, yet the case-ending is still prompted.
śatena śatena vatsān pāyayati payaḥ "he waters the calves with milk by hundreds", counting them off a hundred at a time.
Applies when / blocked by. A cause differs from an instrument. Being a cause is open to substances, qualities and actions alike, and to things with or without an operation of their own; being an instrument belongs only to an action and requires an operation. A vārttika: in describing uncultured conduct, with the root dā the instrumental stands in place of the dative, dāsyā saṃyacchate kāmukaḥ "the lustful man unites with a slave-woman"; in a righteous context the dative, bhāryāyai saṃyacchati "he unites with his wife".
With this the third case is finished.
Siddhānta-kaumudī
हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥
The tṛtīyā (instrumental) is used in the sense of a cause (hetu). Cause-ness
(hetutva) is common to substances etc. (dravya, guṇa, kriyā) and common to
[things] with or without an intervening operation (nirvyāpāra). But
instrument-ness (karaṇatva) has only an action as its object and is
restricted to [things possessing] an operation (vyāpāra). daṇḍena ghaṭaḥ
— "a pot [produced] by [means of / because of] a stick." puṇyena dṛṣṭo
hariḥ — "Hari was seen through [one's] merit." Here a result (phala) too
[functions as] a cause: adhyayanena vasati — "he dwells [in the teacher's
house] because of / for study." An action, even when [merely] implied
(gamyamāna) and not [overtly] expressed, prompts a kāraka case-ending. alaṃ
śrameṇa — "enough of toil!" — meaning "there is nothing to be accomplished
[by it]." Toil (śrama) is the instrument (karaṇa) with respect to the
accomplishing-action (sādhana-kriyā). śatena śatena vatsān pāyayati payaḥ
— "he waters the calves with milk by hundreds [at a time]" — meaning "having
counted them off by hundreds (śatena paricchidya)."
vārttikaअशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया
(vārttika) In [describing] uncultured conduct (aśiṣṭa-vyavahāra), when the
root √dā (dāṇ) is used, the tṛtīyā [occurs] in place of the dative sense
(caturthyartha).
(वार्तिकम्) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥
(vārttika) dāsyā saṃyacchate kāmukaḥ — "the lustful man unites with a
slave-woman" — [here the] tṛtīyā [is used]. But in a righteous [context]:
bhāryāyai saṃyacchati — "he unites with [his] wife" [with the dative].
Thus the tṛtīyā.
Tattvabodhinī
NSP p. 153–154—हेतौ । हेतुरिह लौकिकः फलसाधनीभूतो गृह्यते न तु ‘तत्प्रयोजको हेतुश्च’ इति कृत्रिमः । तस्य चकारेण कर्तृसंज्ञाविधानात् कर्तृत्वादेव तृतीयासिद्धेरत आह—हेत्वर्थ इत्यादि । ननु लौकिकहेतोरपि करणत्वादेव तृतीयासिद्धौ किननेनेत्याशङ्क्य हेतुत्वकरणत्वयोर्मेदमाह—द्रव्यादीति । आदिशब्देन गुणक्रिये ग्राह्ये । द्रव्यगुणक्रियानिरूपितं निर्व्यापारसव्यापारदृत्ति च यत्तद्धेतुलमित्यर्थः ॥—करणत्वं त्विति । क्रियामात्रनिरूपितं व्यापारवद्दृत्ति च यत्तत्करणलमित्यर्थः । एवं च हेतुकरणयोर्मेदादन्यतरेणान्यस्यान्यथासिद्धिर्न शङ्क्येति भावः ॥ उक्तं च—‘द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते’ इति ॥ द्रव्यविषये हेतुलमुदाहरति—दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । अत्र हि व्यापारोऽस्तु वा मास्तु साक्षात् क्रियान्वयित्वाभावात् करणत्वं नास्तीति भावः ॥ क्रियाविषये उदाहरणमाह—पुण्येन दृष्ट इति । पुण्यशब्देनेह परमापूर्वमुच्यते, तस्य च हरिदर्शनरूपक्रियान्वयित्वसंभवेऽपि व्यापारवत्त्वाभावान्न करणत्वमिति भावः । यदा तु यागादिकमेव पुण्यशब्देन विवक्ष्यते, तदा तस्य व्यापारवत्त्वमस्त्येवेति ‘कर्तृकरणयोः—’ इत्यनेनैव तृतीया सिद्धा । गुणविषये तु पुण्येन गौरवर्णं इत्याद्युदाहार्यम् । जटाभिस्तापस इत्यादौ तु लक्ष्यलक्षणभावविवक्षायां हेतुत्वाविवक्षणादनेनाप्राप्ता तृतीयेति ‘इत्थंभूतलक्षणे’ इत्यारब्धमित्याहुः ॥ अत्र केचिदुत्प्रेक्षन्ते—द्रव्यादिसाधारणत्वाद् हेतुत्वस्य हेतौ इत्यनेनैव वाणेन हत इत्यादिप्रयोगसिद्धेः ‘कर्तृकरणयोः—’ इति सूत्रे करणग्रहणं त्यक्तुं शक्यं, करणसंज्ञा तु आवश्यकी ‘करणाधिकरणयोश्च’ इत्याद्यर्थमिति ॥ अन्ये तु क्रियासाधकतमं यत्तद्व्यापारवत्त्वेन विवक्षितं चेत् करणं, नो चेद्धेतुः । द्रव्यसाधकतमस्य दण्डादेष्टु व्यापारवत्त्वेपि हेतुत्वमेव । एवं च रामेण वाणेन हत इत्यादौ हनने वाणादिर्निमित्तमित्येतावदेव यदा विवक्ष्यते, तदा ‘हेतौ’ इत्यनेनैव तृतीया । ‘वाणव्यापारसाध्यप्राणवियोगाश्रयः’ इत्येवं व्यापाराविष्टत्वेन विवक्षायां तु हेतुत्वाविवक्षणात् ‘कर्तृकरणयोः—’ इति करणे तृतीया आरब्धेत्याहुः ॥—फलमपीति । एतच्च ‘प्रत्ययः’ इति सूत्रे कैयटे स्पष्टम् ॥—अध्ययनेनेति । तादर्थ्यविवक्षायां चतुर्थ्यपि भवतीति चतुर्थ्यां सहेयं तृतीया विकल्प्यते । अध्ययनाय वसति ॥ अत्र केचित् परिष्कुर्वन्ति—अध्ययनेन वसतीत्यत्र दण्डहेतुको घट इतिवदध्ययनहेतुको निवास इत्यर्थस्वीकारेऽप्ययं विशेषः । अध्ययनस्य फलेन सहाभेदः संसर्गः, उपकारकत्वेन सह निरूपकता । ततश्च ‘फलाभिन्नाध्ययननिरूपितोपकारकलाश्रयनिवसनानुकूलो व्यापारः’ इत्यर्थः । ‘दण्डेन घटः’ इत्यत्र तु ‘दण्डनिष्ठोपकारकलनिरूपितोपकार्यलाश्रयो घटः’ इत्यर्थः । उपकार्यं हि साध्यम् । फलमपि तदेवेति ॥—गम्यमानापीति । अपिशब्देन श्रूयमाणक्रिया समुत्त्रीयते । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किं तु गम्यमानापीति भावः ॥—साधनेति । साध्यमित्यत्र प्रकृतिभूतो यो धातुस्तदर्थं प्रतीति भावः ॥—अशिष्टेति । एतच्च ‘दाणश्च सा चेच्चतुर्ध्यर्थे’ इत्यनेन ज्ञाप्यत इति मनोरमायां स्थितम् ॥ केचिदिह परिष्कुर्वन्ति ‘अशिष्टव्यवहार इत्यंशो वाचनिक एव । अन्यांशस्तु ज्ञापकसिद्धः’ इति ॥—दास्यां संयञ्छते इति । ‘दाणश्च सा चेत्—इति तङ् । ‘पाघ्राध्मा—इति यच्छादेशः ॥—कामुक इति । ‘लघपतपद—इत्यादिना कमेरुकञ् ॥ इति तृतीया ॥ ॥ कर्मणा—। महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम् । सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति । अत एवाह—दानस्येति । दानक्रियाकर्मणा कर्ता यमभिप्रैति संवधाति संवन्धुमीप्सति वा तत् कारकं संप्रदानसंज्ञकमित्यर्थः । तेन ‘अजां नयति ग्रामम्, हस्तं निदधाति वृक्षे’ इत्यादौ नातिप्रसङ्गः । दानं चापुनर्ग्रहणाय स्वस्वलनिवृत्तिपूर्वकं परस्वत्वोत्पादनम् । अत एव रजकस्य वल्लं ददातीत्यादौ न भवति । तत्र हि ददातिर्भाक्तः । एतच्च वृत्तिमतम् । भाष्यमते तु नान्वर्थतायामाग्रहः ‘खण्डिकोपाध्यायः शिष्याय चपेटां ददाति’ इत्यादिप्रयोगात् रजकस्य ददातीति प्रयोगस्तु शेषलविवक्षायां भविष्यति । न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः । अजां प्रति ग्रामस्य शेषिलाभावात् । यमभिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषिलमस्तीति भवति तस्य संप्रदानसंज्ञा ॥ अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः । ‘उदात्तवता गतिमता च तिङा गतेः समासो वक्तव्यः’ इति वार्तिकस्य छन्दोविषयलादिति हरदत्तः । भाषाविषयत्वे तु यत् प्रकुरुते इत्यादौ समासलात्सोरुत्पत्तिः स्यात् । लिङ्गसर्वनामनपुंसकतामभ्युपेत्य ‘स्वमोर्नपुंसकात्’ इति लुकि कृतेऽपि ‘हस्वो नपुंसके’ इति हस्वः स्यात्, यत् प्रकुर्वीरन्नित्यत्र तु नलोपः स्यात्, तस्मादुक्तवार्तिकस्य छन्दोविषयत्वं युक्तमेव ॥—दानीय इति । वाहुलकात्संप्रदाने अनीयर् ॥—क्रिययेति । क्रियायाः कृत्रिमकर्मलाभावात् तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम् । एतच्च ‘क्रियार्थोप- पदस्य च कर्मणि स्थानिनः इत्यनेन सिद्धम् । पत्ये शेते इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाभावात् । भाष्यकारमते तु ‘कर्मणा यमभिप्रैति’ इति सूत्रेणैव सिद्धम् ‘संदर्शनप्रार्थनाध्यवसायैराप्यमाणत्वात् क्रियापि कृत्रिमं कर्म’ इति तैरुक्तत्वात् । नचैवमर्थं ददातीतिकर्मत्वाभावात् ‘क्रियया यमभिप्रैति’ इत्येतद्वचनं कर्तव्यमेवेति वाच्यम् । भाष्ये अन्वर्थसंज्ञात्वास्वीकारात् । नन्वेवं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयवलात् कर्मसंप्रदानयोः पर्यायत्वे कटाय करोतीत्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत् । अत्राहुः । पत्ये शेते इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया वाधितत्वान्नैवानिष्टप्रसक्तिः । न चैवं ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ—’ इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न संगच्छत् इति वाच्यम् । भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक् ॥ स्यादेतत्—दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया । मैवम् । दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था । कारकाणां क्रियार्थत्वात्
Bālamanoramā
हेतौ - हेतौ । हेत्वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एव विवक्षितो, न तु तत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्क्य हेतुत्वकरणत्वयोर्भेदमाह — द्रव्यादिसाधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियां च प्रति यज्जनकं, तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निर्व्यापारसव्यापारवृत्ति च यत्तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारवद्वृत्ति च यत्तदेव करणत्वमित्यर्थः । एवं च हेतुत्वकरणत्वयोर्भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति — दण्डेन घट इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाऽभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति-पुण्येन दृष्टो हरिरिति । वागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्वं तत् पुण्यमित्युच्यते । तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तु पुण्येन ब्रह्मवर्चसमित्याद्युदाहार्यम् । नन्वध्ययनेन वसतीत्यत्र कथं तृतीया, अध्ययनस्य गुरुकुलवासं प्रति हेतुत्वाऽभावात्, प्रत्युत अध्ययनस्य वाससाध्यत्वादित्यत आह — फलमपीह हेतुरिति । अध्ययनं यद्यपि वासफलं तथापि वासं प्रति हेतुरपि भवति, इष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतया अध्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्ययने फले एतादृशं हेतुत्वमविवक्षित्वा अध्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति - अध्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् । ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रवणात्करणत्वहेतुत्वयोरसंभवात्कथं तृतीयेत्यत आह-गम्यमानाऽपीति । न केवलं श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किं तु गम्यमानाऽपीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह — अलं श्रमेणेति । ऊषरक्षेत्रं परिष्कुर्वाणं प्रतीदं वाक्यं प्रवृत्तम् । अत्र अलमिति नञर्थे निषेधे वर्तते । अलं भूषणपर्याप्तिशक्तिवारणवाचक॑मित्यमरः ।साध्य॑मित्यध्याहारलभ्यम् । तदाह — श्रमेण साध्यं नास्तीति । सद्यः खेदाधायकत्वात्साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाऽभावात्कथं श्रमस्य तत्र करणत्वमित्यत आह — इहेति ।स ाध्य॑मित्यत्र प्रकृतिभूतो यो धातुस्तदर्थः साधनक्रिया उत्पत्त्यात्मिका, तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायाश्चाऽभेद इति निरस्तम्, श्रमशब्देन व्रीह्याद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य,साधनक्रियां प्रती॑त्यनेन व्रीह्याद्युत्पत्तेश्च विवक्षितत्वात् । गम्यमानापि क्रिया विभक्तौ प्रयोजिके॑त्यत्र उदाहरणान्तरमाह — शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्ख्यया वत्सान्पाययतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठशतसङ्ख्यायाः पायने करणत्वाऽभावात्परिच्छिद्येति गम्यते । एकैकशतसङ्ख्यया वत्सान्परिच्छिद्य तदधिकवत्सेभ्यो व्यावर्त्त्य पाययतीत्यर्थः । तथाच शतसङ्ख्यायाः परिच्छेदं प्रति करणत्वमिति भावः । अशिष्टेति । इदं च दाणश्च सा चेच्चतुर्थ्यर्थे॑ इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनः शिष्टाः, वेदमार्गादपेता अशिष्टाः, तेषां व्यवहारः = आचारः, तस्मिन्विषये दाण्धातोः प्रयोगे सति चतुर्थ्यर्थे संप्रदाने तृतीया वाच्येत्यर्थः । दास्येति । दास्यै कामुकः प्रयच्छतीत्यर्थः । 'कामुक' इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिर्धर्मशास्त्रनिषिद्धत्वादशिष्टव्यवहार इति भावः । अशिष्टपदप्रयोजनमाह - धर्म्ये त्विति । धर्मादनपेत इत्यर्थः । न तृतीये॑ति शेषः । धर्मपथ्यर्थन्यायादनपेते इति यदिति रत्नाकरः । धर्मे त्विति पाठस्तु सुगम एव । इति तृतीया ।
hetau — hetau. "hetvarthe" ("in the sense of a cause"): "hetu" here is
intended in its ordinary (laukika) sense, a synonym of "cause (kāraṇa)," and
not the artificial (kṛtrima) [technical hetu] of "tatprayojako hetuś ca"
[A 1.4.55] ("and the instigator of that [agent] is [termed] hetu"); for that
[technical hetu], since by the "ca" [of that rule] it also bears the
designation agent (kartṛ), is [already] accomplished by the agent-instrumental
(kartṛ-tṛtīyā). Objection: the tṛtīyā for a cause too would be established
simply from its instrument-ness (karaṇatva). Having raised this doubt, he
states the difference between cause-ness and instrument-ness with
"dravyādi-sādhāraṇam." By "ādi" ("etc.") quality (guṇa) and action (kriyā)
are included. The meaning is: [cause-ness is] present in every case of that
which produces a substance, a quality, or an action. "And common to [what is]
without an operation (nirvyāpāra)": meaning that [cause-ness] is present both
in that which possesses an intervening operation (dvārī-bhūta-vyāpāra) and in
that which lacks it. And thus it results that cause-ness (hetutva) is that
which is defined in relation to the three kinds of effect — substance,
quality, action — and which resides both in the operation-less and the
operation-possessing. "But instrument-ness (karaṇatva)": meaning that
instrument-ness is precisely that which resides only in a producer of action
(kriyā-janaka) and resides in what possesses an operation (vyāpāra-vat). And
thus, because cause-ness and instrument-ness differ, the one is not
otherwise-established (na anyathāsiddhi) by the other — this is the purport
[i.e., neither reduces to the other].
Among these he illustrates a cause with respect to a substance with "daṇḍena
ghaṭaḥ" — meaning "a pot caused by a stick (daṇḍa-hetuka)." Although there is
an operation in the stick, there is no instrument-ness, because it is not a
[direct] producer of the action — this is the purport. He illustrates a cause
with respect to an action with "puṇyena dṛṣṭo hariḥ." That imperceptible
after-potency (apūrva) which is the intermediate operation (avāntara-vyāpāra)
when a result such as heaven is to be produced by [ritual] speech and the
like — that is called puṇya (merit). Although it produces the seeing of Hari,
it has no instrument-ness because it is without an [intervening] operation
(nirvyāpāra) — this is the purport. For cause-ness with respect to a quality,
one should adduce examples like "puṇyena brahmavarcasam" ("[one gains]
priestly lustre through merit"). Objection: how [is there] the tṛtīyā in
"adhyayanena vasati"? For study (adhyayana) has no cause-ness with respect to
dwelling in the teacher's house — on the contrary, study is [itself] to be
accomplished by the dwelling. To this he says "here a result too is a cause."
Although study is the result of the dwelling, still it is also a cause with
respect to the dwelling; for, since the knowledge that something is a means
to a desired end is the cause of activity (pravṛtti), study, though a result,
is a producer of the dwelling through the knowledge of itself [as a desired
end]. But when, not intending such cause-ness in study-as-result, one intends
the dwelling as [being merely] for the sake of study, then only the dative
(caturthī) occurs: "adhyayanāya vasati" ("he dwells for the sake of study").
This is clear in Kaiyaṭa [the Pradīpa] on the present sūtra.
Objection: in "alaṃ śrameṇa," since no effect (kārya) whatsoever is heard
[mentioned], both instrument-ness and cause-ness are impossible; so how [is
there] the tṛtīyā? To this he says "even when [merely] implied (gamyamāna)":
meaning that not only an [overtly] heard action prompts the case-ending, but
also one that is [merely] understood (gamyamāna). Intending "this is
precisely an instrumental tṛtīyā (karaṇa-tṛtīyā)," he says "alaṃ śrameṇa."
This sentence is uttered with reference to someone tilling a barren, saline
field (ūṣara-kṣetra). Here "alam" operates in the sense of prohibition,
[equivalent to] the sense of the negative particle nañ. "alam denotes
ornament (bhūṣaṇa), sufficiency (paryāpti), capacity (śakti), and prevention
(vāraṇa)" — so the Amara[kośa]. "sādhyam" ("[something] to be accomplished")
is obtained by contextual supplying (adhyāhāra). He states this with "there
is nothing to be accomplished by toil." Because it immediately produces
fatigue, the very engagement (vyāpṛti) in the means (sādhana) is figuratively
called "śrama" (toil). Objection: even so, since the result to be
accomplished — rice-grain (vrīhi) etc. — is not of the nature of an action,
how is toil an instrument (karaṇa) with respect to it? To this he says "iha"
("here"): in "sādhyam," the root that is its base — its meaning is the
accomplishing-action (sādhana-kriyā) consisting in production (utpatti);
[toil is the instrument] with respect to that [action]. By this, [the
objection] that toil and the accomplishing-action are non-different is
refuted; for by the word "śrama" the operation of ploughing etc. conducive to
the production of rice-grain etc. is intended, whereas by "with respect to
the accomplishing-action" the production of rice-grain etc. [itself] is
intended.
He gives another example for "an action, even when [merely] implied, prompts
the case-ending" with "śatena." The doubling [śatena śatena] is by [reason
of] distributive repetition (vīpsā). The understood meaning is "he waters the
calves by each hundred in number." There, since the number "hundred" residing
in the calves has no instrument-ness with respect to the watering, "having
counted off (paricchidya)" is understood [as the implied action]. The meaning
is: having counted off the calves by each single hundred in number and
separated them from the calves in excess of that, he waters [them]. And so
the number "hundred" has instrument-ness with respect to the counting-off
(pariccheda) — this is the purport.
"aśiṣṭa…" [the vārttika]. This [vārttika] will be shown, in the treatment of
word-arrangement (pada-vyavasthā), to be indicated (jñāpita) by "dāṇaś ca sā
cec caturthyarthe" ("and [the genitive] with √dā, if that [genitive] is in
the dative sense"). Those who follow the Vedic path are the cultured (śiṣṭa);
those departed from the Vedic path are the uncultured (aśiṣṭa); their conduct
(vyavahāra) = custom (ācāra); the meaning is: on that subject, when the root
√dā (dāṇ) is used, the tṛtīyā is to be prescribed in place of the dative
(caturthī) sense of recipient (saṃpradāna). "dāsyā" — meaning "the lustful
man gives to a slave-woman (dāsī)." By "kāmuka" ("lustful"), "[he gives] for
the sake of sexual pleasure (rati)" is understood. Since sexual union with a
slave-woman is prohibited by the dharmaśāstra, it is uncultured conduct
(aśiṣṭa-vyavahāra) — this is the purport. He states the purpose of the word
"aśiṣṭa" with "dharmye tu" ("but in a righteous [context]"): meaning "not
deviating from dharma (dharmād anapeta)." "not the tṛtīyā" is to be supplied.
"[The form dharmya], in the sense 'not deviating [from dharma],' is [derived]
by the maxim of 'dharmapathyarthanyāyād anapete'" — so the Ratnākara. But the
reading "dharme tu" [instead of "dharmye tu"] is quite straightforward. Thus
the tṛtīyā.
Footnotes (NSP 1915 ed.)
NSP p. 154 १ दानस्येति—दाधात्वर्थस्येत्यर्थः । इदमुपलक्षणं क्रियामात्रस्य । २ अन्यकर्तृक इति—अभिलष्यतिकर्त्रपेक्षयान्यदभिलष्यतिकर्म तत्कर्तृक इत्यर्थः । हरिर्भक्तिमभिलष्यतीति प्रत्ययात् यत्किञ्चिद्विपयकप्रीत्यनुकूलव्यापाराश्रयोऽभिलष्यतेः कर्ता । यत्किञ्चिन्निष्टप्रीत्यनुकूलः प्रीतिव्यधिकरणो यो व्यापारस्तदाश्रयो रोचतेः कर्तेति भावः । ३ श्लाघते इति—श्लाघादीनां स्तुत्यादिना बोधनमर्थः ।
translator notes
- translator Two cross-referenced rules are given by pratīka without a secure Aṣṭādhyāyī number: the vārttika "dāṇaś ca sā cec caturthyarthe" (deferred to the pada-vyavasthā discussion) and "dharmapathyarthanyāyād anapete" (cited from the Ratnākara for the derivation of dharmya). Only "tatprayojako hetuś ca" is numbered (A 1.4.55), being securely identifiable.
SK 569 · A 1.4.32कारकसंज्ञा
कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ ५६९ ॥
karmaṇā yamabhipraiti sa sampradānam
That to whom [the giver], by means of the object [given], directs [the gift] — that is termed sampradāna.
Rule. The one whom the giver aims at through the object of giving is named sampradāna, the recipient.
Example.
vipra in "he gives a cow to the brāhmaṇa" → the brāhmaṇa is aimed at through the cow → vipra is sampradāna → (by SK 570) viprāya.
Siddhānta-kaumudī
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥
That whom one directs toward by means of the karman (object) of giving — that is termed sampradāna.
Bālamanoramā
कर्मणा यमभिप्रैति स सम्प्रदानम् - अथ चतुर्थी । कर्मणा यमभि । कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः । शेषित्वं-भोक्तृत्वम् । संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते । तदाह — दानस्येत्यादिना । देयद्रव्योद्देश्यं संप्रदानमिति फलितम् । दानस्येति किम् पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात् ।
karmaṇā yamabhipraiti sa sampradānam — Now the dative (caturthī). On "karmaṇā yam abhi[praiti]": that whom one directs oneself toward (adhyavasyati) as the beneficiary (śeṣin), by means of the cow or other substance that bears the saṃjñā karman — that is sampradāna; this is the meaning. Being a beneficiary (śeṣitva) means being the enjoyer (bhoktṛtva). "That to whom [something] is duly given (sampradīyate) is sampradāna" — this is an etymologically transparent saṃjñā (anvartha-saṃjñā). And then, when it is asked "the karman of which action?", "of giving (dānasya)" is understood; this he states with "of giving," and so on. What results is: sampradāna is [the person] intended as the goal of the substance to be given (deya-dravya). Why "of giving"? [Counterexample:] payo nayati devadattasya — "he carries the milk of/to Devadatta." Here, although Devadatta is the goal of the carrying of the milk, there is no sampradāna status, because the milk is not the object (karman) of an act of giving.
SK 570 · A 2.3.13V
चतुर्थी सम्प्रदाने ॥ ५७० ॥
caturthī sampradāne
caturthī sampradāne (A 2.3.13) — The fourth case-ending (dative) occurs to denote the sampradāna (recipient/goal).
Rule. The fourth case-ending (caturthī) is added to express the recipient, when it is not already expressed.
Example.
vipra (sampradāna) + gāṃ dadāti → the recipient is unexpressed → fourth case → viprāya gāṃ dadāti "he gives a cow to the brāhmaṇa".
Applies when / blocked by. "Not already expressed" still holds: in dānīyo vipraḥ "the brāhmaṇa who is to be given to", the affix expresses the recipient, so vipra stands in the first case. Two vārttikas. First, the one aimed at through the action itself is also sampradāna: patye śete "she lies down for her husband". Second, with yaj (worship) the thing offered is named karaṇa and the recipient is named karman: paśunā rudraṃ yajate "he worships Rudra with an animal", which means "he gives an animal to Rudra".
Siddhānta-kaumudī
विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ।
viprāya gāṃ dadāti — "he gives a cow to the brāhmaṇa (dative viprāya)." Only
when [the sampradāna is] not [already] expressed (anabhihita) [does this hold, that
condition continuing by anuvṛtti]. [Contrast] dānīyo vipraḥ "the brāhmaṇa who
is to be given to" [where vipra is nominative, the sampradāna being already
expressed by the suffix].
vārttikaक्रियया यमभिप्रैति सोऽपि संप्रदानम्
(vārttika) That which one aims at (abhipraiti) through the action is also a
sampradāna.
(वार्तिकम्) ॥ पत्ये शेते ।
(vārttika) [Example:] patye śete — "she lies down for [i.e. with a view to]
her husband (dative patye)."
vārttikaयजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा
(vārttika) For [the root] yaj: the object (karman) receives the designation
karaṇa (instrument), and the sampradāna receives the designation karman (object).
(वार्तिकम्) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥
(vārttika) [Example:] paśunā rudraṃ yajate — "he worships Rudra with an
animal"; the meaning is "he gives an animal to Rudra" (paśuṃ rudrāya dadāti). [The
thing-given, would-be object of dā, becomes karaṇa → instrumental paśunā; Rudra,
the sampradāna, becomes karman → accusative rudram.]
Tattvabodhinī
alignment inferredNSP p. 154—कर्मणः करणसंज्ञेत्यादि । छान्दसमेतत् । अत एवेदं सुव्यत्ययेन सिद्धत्वादिति प्रत्याख्यायते
Bālamanoramā
चतुर्थी सम्प्रदाने - चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोद्देश्य इत्यर्थः ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणात्संप्रदानेऽनीयर् । तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे 'पत्ये शेते' इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायांक्रियाग्रहणमपि कर्तव्य॑मिति वार्तिकं प्रवृत्तम् ।तदेतदर्थतः सङ्गृह्णाति-क्रियया यमिति । क्रियोद्देश्यमपि संप्रदानमिति यावत् । पत्ये शेते इति । पति मुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः । न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, 'पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात् । तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः । कर्मणः करण संज्ञेत्यादि । वार्तिकमिदम् ।एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती॑ति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति — पशुना रुद्रं यजत इति । अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह — ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः ।
caturthī sampradāne — On "viprāya": the meaning is "he gives a cow with the
brāhmaṇa as the intended [recipient] (uddiśya)." On "anabhihita ity eva": the
meaning is "[the condition anabhihite] indeed continues by anuvṛtti." On "dānīyo
vipraḥ": the meaning is "the one intended as recipient of the gift"; by the word
"bahulam" in [the rule] "kṛtya-lyuṭo bahulam," the suffix anīyar [applies] in the
sense of sampradāna. The idea is that, because the sampradāna vipra is thereby
already expressed (abhihita) by that [suffix], the dative does not [apply, and
dānīyo vipraḥ stands in the nominative].
Objection: If only that which is intended as the object of the act of giving is a
sampradāna, then in "patye śete" how is the husband — [merely] the intended aim of
the intransitive act of lying-down — a sampradāna? Under this doubt the vārttika
"the mention of [any] action too should be made (kriyā-grahaṇam api kartavyam)"
was introduced. Bhaṭṭoji captures the sense of that [vārttika] with "kriyayā
yam…," i.e. that which is intended by [any] action is also a sampradāna. On "patye
śete": the meaning is "she lies down with the husband as the intended [aim]."
Objection: Even so, there would be an unwanted extension of sampradāna-hood even
in "odanaṃ pacati" ("he cooks rice") and the like [the rice being intended by the
action]. Nor should one object that the rule prescribing the karman-designation
would then be purposeless, for precisely on this ground an option between
karman-hood and sampradāna-hood could be justified there — if [you argue] so,
then no. Because the sampradāna-designation, which has its scope (avakāśa) in the
intransitive case "patye śete," is blocked (bādha) by the karman-designation in
the transitive case. And so it results that only what is intended by an
intransitive action is a sampradāna — this is the idea.
"karmaṇaḥ karaṇa-saṃjñā" etc. — this is a vārttika. "When the object (karman) and
the sampradāna co-occur (samavāya) in a single sentence" is to be supplied.
Intending that this pertains only to the root yaj, he gives the example "paśunā
rudraṃ yajate." Intending that here the root yaj has the sense of giving (dāna),
he says "the meaning is 'gives.'" Kaiyaṭa [holds] that this vārttika is confined
to the Vedic (chāndasa) register.
SK 571 · A 1.4.33कारकसंज्ञा
रुच्यर्थानां प्रीयमाणः ॥ ५७१ ॥
rucyarthānāṃ prīyamāṇaḥ
rucyarthānāṃ prīyamāṇaḥ — 1.4.33. In construction with roots meaning 'to please' (ruci), the one who is pleased (prīyamāṇa) is termed sampradāna.
Rule. With verbs meaning "please" (ruci), the one who is pleased (prīyamāṇa) is named sampradāna.
Example.
hari + rocate bhaktiḥ "devotion pleases Hari" → Hari is the one pleased → sampradāna → haraye rocate bhaktiḥ. Ruci is a longing whose agent is someone else; here devotion is the agent of the pleasing, and the pleasure rests in Hari.
Applies when / blocked by. Why "the one pleased"? In devadattāya rocate modakaḥ pathi "the sweet pleases Devadatta on the road", the road is not pleased and stays in the locative.
Siddhānta-kaumudī
रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥
When roots meaning ruci ("to please") are used, the entity that is pleased (prīyamāṇa)
is termed sampradāna. Example: haraye rocate bhaktiḥ — "devotion (bhakti) is pleasing
to Hari," so Hari, the one pleased, is sampradāna (dative haraye). ruci is a longing
(abhilāṣa) whose agent is other [than the one pleased]; bhakti is the agent [of the
pleasing], the pleasure residing in Hari. Why "prīyamāṇa" ("the one being pleased")? [To
exclude:] devadattāya rocate modakaḥ pathi — "the sweetmeat is pleasing to Devadatta
on the road" — [here "pathi" is a locative, not a dative, since the road is not what is
pleased].
Tattvabodhinī
alignment inferredNSP p. 154—रुचयर्थानाम्—। रुचिरथौ येषां ते रुच्यर्थास्तेषाम् ॥—प्रीयमाण इति । ‘प्रीयतर्पणे’ अस्मात् कर्मणि लट् ॥—हरये रोचत इति । हरिं प्रीणयतीत्यर्थः । कर्मसंज्ञायां प्राप्तायां वचनम् । यद्यपि रुचिर्दीप्तावपि पठ्यते, तथापीह दीप्तिर्न विवक्षितेत्याह—अन्यकर्तृकोऽभिलाष इति । अत एवादित्यो रोचते दिक्षु इत्यत्र दीप्त्यर्थे संज्ञा न भवति ॥—हरिनिष्ठप्रीतेरिति । एतेन अन्यकर्तृकत्वमिह प्रीत्याश्रयान्यकर्तृकलमित्युक्तं भवति ॥—मोदकः पथीति । देवदत्तस्यैव प्रीयमाणत्वं न तु पथ इति न तस्य संप्रदानत्वं, प्रीयमाणपदाभावे तु पथोऽपि स्यादिति भावः ॥—ऋग्रघहुद्ध । ‘ऋग्रघ कत्थने’ ‘हुद्ध अपनयने’ ‘ष्ठा गतिनिवृत्तौ’ ‘शप उपालम्भे’—॥ कृष्णाय ऋग्रघत इति । कृष्णं स्तौतीत्यर्थः । कर्मत्वे प्राप्ते वचनमिदम् ॥ अन्ये त्वाहुः । कृष्णाय आत्मानं परं वा ऋग्रघ्यं कथयतीत्यर्थ इति । अस्मिन्नु पक्षे शेषषण्यां प्राप्तायां वचनम् ॥—हुत इति । सपत्नीभ्यः कृष्णं हुवाना तमेवार्थं कृष्णं बोधयतीत्यर्थः ॥ यस्य कस्यचित् हुतिं बोधयतीति वा ॥—तिष्ठत इति । स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः । ‘प्रकाशनस्येयाख्ययोश्च’ इति तद् ॥—शपत इति । उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः
Bālamanoramā
रुच्यर्थानां प्रीयमाणः - रुच्यर्थानां । रुच्यर्थानां धातूनामिति ।रुच दीप्तावभिप्रीतौ च॑ । दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति । समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तं, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिममिलषतीत्यत्रापि भक्तेः प्रीतिविषयत्वात्संप्रदानत्वं स्यादित्यत आह-अन्यकर्तृक इति । समवायेन प्रीत्याश्रयापेक्षया यदन्यत्, तत्कर्तृकाभिलाषो रुच्धात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथा च अभिलषते रुच्र्थकत्वाऽभावान्न तद्योगे संप्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यता=भक्तिः, तत्कर्तृकैव प्रीतिरिति रूच्यर्थयोगः । नन्विह भक्तेः संप्रदानत्वं कुतो न स्यात्, विषयतासंबन्धेन भक्तिरपि प्रीत्याश्रयत्वादित्यत आह — हरिनिष्ठप्रीतेर्भक्तिः कत्र्रीति । हरेरेव समवायसंबन्धेन प्रीत्याश्रयतया प्रीयमाणत्वाद्भक्तेः कर्त्र्या उक्तरीत्या प्रीयमामत्वाऽभावाच्च न संप्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति, प्रीणयतीत्यादौ तु न भक्तेः संप्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात्, समवायेन प्रीत्याश्रयत्वाऽभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि सानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याऽप्रसक्तेर्विज्ञानात्, अन्यथा प्रीधातुकर्मणः संप्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमामत्वाऽभावान्न संप्रदानत्वमिति भावः ।
rucyarthānāṃ prīyamāṇaḥ — "of roots meaning ruci": √ruc means "to shine (dīpti) and
to be pleasing (abhiprīti)." Here "shining" is not the sense of ruci intended, because it
would contradict "prīyamāṇa" (the one pleased); and so the meaning is "of [roots] whose
sense is the producing of pleasure (prīti)." "prīyamāṇa" means: the locus of pleasure by
inherence (samavāya).
haraye rocate bhaktiḥ — the meaning is that bhakti produces in Hari the pleasure that
has bhakti itself as its object. Since Hari is the locus of the pleasure occasioned by
the activity residing in bhakti, Hari would [otherwise] obtain object-hood (karmatva);
this rule is an exception (apavāda) to that [and makes Hari sampradāna instead].
Objection: if so, then in harir bhaktim abhilaṣati ("Hari longs for devotion") too,
since bhakti is the object of pleasure, bhakti would become sampradāna. Anticipating this,
he says "anyakartṛka…": the sense of √ruc is a longing (abhilāṣa) whose agent is
something other than the locus of pleasure by inherence. A "longing" is a particular
desire, directed at some object, whose agent is [itself] the locus of pleasure; and so,
since "abhilaṣ" (to long for) does not carry the sense of ruci, there is no sampradāna-
hood in construction with it. In the case at hand, Hari is the locus of pleasure; that
which is other than him is bhakti; and the pleasure has just that (bhakti) as its agent —
so the sense of ruci obtains [and Hari is sampradāna].
Objection: why here should bhakti not become sampradāna, since bhakti too is a locus of
pleasure by the relation of being-its-object (viṣayatā)? To this he says harinistha-
prīter bhaktiḥ kartrī — bhakti is the agent of the pleasure residing in Hari: the idea
is that it is Hari alone who, being the locus of pleasure by the relation of inherence
(samavāya), is "the one pleased" (prīyamāṇa); and since bhakti, being the agent, is — in
the manner stated — not "the one pleased," bhakti does not become sampradāna.
But in bhaktir hariṃ prīṇāti / prīṇayati ("devotion pleases Hari") etc., there is no
possibility of sampradāna-hood for bhakti, both because [the kāraka] is expressed by the
finite ending (tiṅ) and because [bhakti] is not the locus of pleasure by inherence. Nor
[does Hari become sampradāna there]: from the force of the use of "prīyamāṇa" — the śānac
suffix in the passive-object sense (karmaṇi) — it is understood that "rucyarthānām" does
not apply in construction with the root √prī; otherwise, if the object of √prī became
sampradāna, the object-marking śānac [in prīyamāṇa] would be hard to obtain.
modakaḥ pathi — here, since the road (path) is not "the one pleased" (prīyamāṇa), it
does not become sampradāna.
SK 572 · A 1.4.34कारकसंज्ञा
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ॥ ५७२ ॥
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ — With ślāgh (boast, praise), hnu (dissemble), sthā (stand firm), śap (reproach), the person whom [the agent] wishes to inform (jñīpsyamāna) is termed sampradāna.
Rule. With ślāgh (boast), hnu (dissemble), sthā (stand firm) and śap (reproach), the person one wishes to inform (jñīpsyamāna) is named sampradāna.
Example.
kṛṣṇa + gopī ślāghate "the gopī boasts to Kṛṣṇa" → Kṛṣṇa is the one she wants to make aware → sampradāna → gopī smarāt kṛṣṇāya ślāghate "out of love the gopī boasts to Kṛṣṇa"; likewise hnute, tiṣṭhate, śapate.
Applies when / blocked by. Why "the one to be informed"? In devadattāya ślāghate pathi "he boasts to Devadatta on the road", only Devadatta takes the dative; the road is a mere place.
Siddhānta-kaumudī
एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥
In the employment of these [four roots], the one whom [the agent] wishes to inform (bodhayitum iṣṭa) is sampradāna. [Example:] gopī smarāt kṛṣṇāya ślāghate / hnute / tiṣṭhate / śapate vā — 'the gopī, out of love (smarāt, ablative of cause), praises herself / dissembles / stands firm / reproaches, to Kṛṣṇa (dative).' Why 'jñīpsyamānaḥ' (the one to be informed)? [Because in] devadattāya ślāghate pathi — 'he praises [himself] to Devadatta on the road' [only 'devadattāya,' the one to be informed, is sampradāna and takes the dative; 'pathi' is a mere location, hence locative].
Bālamanoramā
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः - श्लाघह्नुङ् । 'श्लाघृ कत्थने' 'ह्नुङ् अपनयने' 'ष्ठा गतिनिवृत्तौ' 'शप उपालम्भे' एषां द्वन्द्वः ।शपा॑मित्यनन्तरं 'प्रयोगे' इत्यध्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात् । ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच् । तदाह — एषां प्रयोगे इत्यादिना । गोपी स्मरादीति । मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । ह्नुते इति । सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः । तिष्ठते इति । गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः ।प्रकाशनस्थेयाख्ययोश्चे॑त्यात्मनेपदम् । शपते इति । उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः ।
ślāghahnuṅsthāśapāṃ jñīpsyamānaḥ — This is a dvandva compound of these [roots]: 'ślāgh (śrāgh) in the sense of boasting/praising (katthana),' 'hnuṅ in the sense of concealing (apanayana),' 'ṣṭhā in the sense of ceasing from motion (gati-nivṛtti),' 'śap in the sense of reproach (upālambha).' After 'śapām,' 'prayoge' ('in the employment of') is to be supplied. The sense of ślāgh etc. is informing (bodhana) by means of praising and so forth — [inferred] from the indication (liṅga) given by 'jñīpsyamāna' (the one to be informed). The form 'jñīpsyamāna' is the present participle śānac (ātmanepada) in the karman sense, from the desiderative (san) of jñap (which denotes informing). This he states with 'eṣāṃ prayoge...' and the rest.
On 'gopī smarāt...': the meaning is that the gopī, under the affliction of love (manmatha), through self-praise (ātma-stuti) makes Kṛṣṇa aware of her separation-pain (viraha-vedanā). But if Kṛṣṇa himself is the one to be praised, [they say] only the accusative applies. On 'hnute': the meaning is that by dissembling/denying [her] rival (sapatnī-apanayana) she makes Kṛṣṇa aware of her own intent (svāśaya). On 'tiṣṭhate': the meaning is that, even when told 'you should go,' by staying (sthiti) she makes Kṛṣṇa aware of her own intent; the ātmanepada [here] is by 'prakāśanastheyākhyayoś ca.' On 'śapate': the meaning is that by reproach (upālambha) she makes Kṛṣṇa aware of her own intent.
SK 573 · A 1.4.35कारकसंज्ञा
धारेरुत्तमर्णः ॥ ५७३ ॥
dhāreruttamarṇaḥ
In construction with dhṛ (dhārayati, 'to owe'), the creditor (uttamarṇa) is [designated saṃpradāna]. — 1.4.35
Rule. With dhāray (owe), the creditor (uttamarṇa) is named sampradāna.
Example.
bhakta + dhārayati mokṣaṃ hariḥ "Hari owes liberation to the devotee" → the devotee is the creditor → bhaktāya dhārayati mokṣaṃ hariḥ.
Applies when / blocked by. Why "the creditor"? In devadattāya śataṃ dhārayati grāme "he owes Devadatta a hundred in the village", only Devadatta takes the dative, not the village.
Siddhānta-kaumudī
धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥
In the use of dhārayati ("to owe"), the creditor (uttamarṇa) receives the stated designation (saṃpradāna). Example: bhaktāya dhārayati mokṣaṃ hariḥ — "Hari owes liberation to the devotee." Why "the creditor"? [To restrict it, as in:] devadattāya śataṃ dhārayati grāme — "he owes a hundred to Devadatta in the village" [where only Devadatta the creditor takes the dative, not the place].
Tattvabodhinī
NSP p. 154–155—धारेरुत्तमर्णः । ‘धृङ् अवस्थाने’ । हेतुमण्यन्तः । उत्तमणों धनस्वामी । अतः क्तः । ऋणम् । ‘ऋणमाधमर्ण्ये’ इत्यत्र व्यवहारविशेषोपलक्षणार्थमाधमर्ण्यग्रहणमिति व्याख्यानादुत्तमर्णेऽपि निष्ठानत्वं भवति । अस्मादेव निपातनादत्र बहुव्रीहौ निष्ठान्तस्य परनिपातो बोध्यः ॥—भक्तायेत्यादि । इह भक्त उत्तमणों हरिरधमर्णः । धृङोऽकर्मकत्वादणौ कर्तुमोंक्षस्य णौ कर्मत्वम् ॥— शतं धारयति ग्राम इति । परत्वादिहाधिकरणसंज्ञा भविष्यतीति चेदुत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यादिति हरदत्तः ॥ ततश्चोत्तमर्णग्रहणाभावे हेतुसंज्ञाया इवाधिकरणसंज्ञाया अप्ययमपवादः स्यात्तद्वारणाय उत्तमर्णग्रहणमिति भावः ॥ एवं च कृतेऽप्युत्तमर्णग्रहणे ‘तत्प्रयोजको हेतुश्च’ इति हेतुसंज्ञायां प्राप्तायां तद्वाधनार्थमिदं संप्रदानसंज्ञावचनमिति निष्कर्षमाहुः ॥ मनोरमायां तु षष्ठ्यां प्राप्तायां इदं वचनमिति स्थितम्
Bālamanoramā
धारेरुत्तमर्णः - धारेरुत्तमर्णः ।धारे॑रित्यनन्तरं 'प्रयोगे' इत्यध्याहार्यम् । 'धृङ् अवस्थाने' इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह — धारयतेरित्यादिना । अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः । प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः-॒तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या । तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते ।॑ इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठपवादः ।
dhāreruttamarṇaḥ — dhāreruttamarṇaḥ. After "dhāreḥ," "prayoge" ("in the use of") is to be supplied. "dhāreḥ" is the designation of the causative (hetumat-ṇyanta) of "dhṛṅ avasthāne" (dhṛ in the sense of holding/staying). This Bhaṭṭoji states by "dhārayateḥ..." etc. [Definition of debt:] another's property (dravya), taken with the intention of returning it at a fixed time, is called a debt (ṛṇa). Therein the taker of the debt is the debtor (adhamarṇa); the returner of the debt, the owner of the wealth, is the creditor (uttamarṇa). The analysis: "he whose debt has become uttama = increased in amount, by a monthly interest of one-eightieth part (aśīti-bhāga) etc." bhaktāyeti — the meaning is: he owes (dhārayati) the liberation (mokṣa) related to the devotee — that is, an unlimited, eternal, special bliss (aparimita-nitya-sukha-viśeṣa). [The causative dhārayati:] the mokṣa abides (dharate = avatiṣṭhate); "he impels it" = dhārayati, i.e. he keeps it in place (avasthāpayati). For, when worshipping, the devotee offers a substance such as a tulasī-leaf; and Hari, accepting it and pleased, redeems (niṣkrīṇāti) the substance offered by [the devotee] through the gift of liberation. As the Paurāṇikas say: "Water, or a leaf, or whatever little is offered with devotion — the Lord, deeming it a debt (ṛṇa), reckons final beatitude (niḥśreyasa) itself as the repayment (niṣkraya)," and so on. And thus here, since the devotee, being the giver of the debt (ṛṇa-dātṛ), is the creditor (uttamarṇa), his saṃpradāna-hood [is established], as an exception to the genitive of relation (saṃbandha-ṣaṣṭhī).
Footnotes (NSP 1915 ed.)
NSP p. 155 १ मोक्षमिति—मोक्षोऽप्यवश्यदेयत्वेन क्रणं भवत्येव । २ परत्वादिति—इदं सूत्रं विषयतया क्रियाजनकत्वमात्रविवक्षायां चरितार्थमिति भावः । ३ भार्यामीर्ष्यतीति—नात्र भार्या प्रति कोपः, किंतु पैरेट्टेश्यमानां तां न सहते इत्येव । एवं च अत्र न कोपजन्येर्पा, किं तु अन्यपुरुषदर्शनजन्येति भावः । ४ पूर्वव्यापारस्येति—ज्ञासनस्येत्यर्थः । ५ इत्यर्थः इति—ओथामे-त्यादिशब्दैरिति शेषः ।
SK 574 · A 1.4.36कारकसंज्ञा
स्पृहेरीप्सितः ॥ ५७४ ॥
spṛherīpsitaḥ
spṛher īpsitaḥ — The desired object (īpsita) of spṛh (spṛhayati, 'to long for') is termed sampradāna.
Rule. With spṛh (long for), the thing desired (īpsita) is named sampradāna.
Example.
puṣpa + spṛhayati "he longs for flowers" → the flowers are what is desired → puṣpebhyaḥ spṛhayati.
Applies when / blocked by. Why "the desired"? In puṣpebhyo vane spṛhayati "he longs for flowers in the forest", the forest keeps the locative. The name is for the merely desired thing. When intensity is meant, the name karman applies instead, because SK 535 comes later: puṣpāṇi spṛhayati "he longs intensely for flowers".
Siddhānta-kaumudī
स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥
In the employment of spṛh (spṛhayati, 'to long for'), the desired thing (iṣṭa) is sampradāna. [Example:] puṣpebhyaḥ spṛhayati — 'he longs for flowers' (dative). Why 'īpsitaḥ' (the desired)? [Because in] puṣpebhyo vane spṛhayati — 'he longs for flowers in the forest' [only 'puṣpebhyaḥ' is the desired object and takes the dative; 'vane' is a mere location, hence locative]. This designation applies only to the desired object as such (īpsita-mātra). But when intensity (prakarṣa) is intended to be expressed, the karman-designation applies instead, on account of posteriority (paratva): puṣpāṇi spṛhayati — 'he longs [intensely] for flowers' (accusative).
Tattvabodhinī
NSP p. 155—स्पृहेरीप्सितः । ‘स्पृह ईप्सायां’ चुरादावदन्तः, तेन स्पृहयतीत्यत्र लघूपधगुणो न ॥—परत्वादिति । तेन ‘परस्परेण स्पृहणीयशोभम्’ ‘स्पृहणीयगुणैर्महात्मभिः’ इत्यादौ कर्मण्यनीयर् सिध्यति । शेषत्वविवक्षायां तु ‘कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च’ इत्यत्र षष्ठ्यपि सिध्यतीति हरदत्तादयः ॥ वाक्यपदीयहेलाराजीयग्रन्थयोस्तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ्याश्च वाधिकेयं संप्रदानसंज्ञेति स्थितम् ॥ युक्तं चैतत्—‘क्रियया यमभिप्रैति—’ इत्यनेनैवेष्टसिद्धेः ‘स्पृहेरीप्सितः’ इत्येतत्सूत्रस्य हरदत्तादिमते वैयर्थ्यप्रसङ्गात् । तस्माद्वाक्यपदीयादिग्रन्थानुरोधेन ‘परस्परेण स्पृहणीयशोभम्’ इत्यादौ ‘दानीयो विप्रः’ इतिवत् बाहुलकात्संप्रदाने अनीयर् इति व्याख्येयम् । ‘कुमार्य इव कान्तस्य’ इत्यत्र तु त्रस्यन्तीत्येतदर्थतया कृतार्थस्य कान्तस्येति षष्ट्यन्तस्य विभक्तिविपरिणामेन कान्ताय स्पृहयतीति व्याख्येयमिति केचित् ॥—कुधद्वह—। ‘कुध क्रोधे’ ‘द्वह जिघांसायाम्’ ‘ईर्ष्य ईर्षायाम्’ ‘असूयतिः कण्ड्वादियगन्तः’ एषामर्थं इवार्थो येषां तेषां धातूनामित्यर्थः
Bālamanoramā
स्पृहेरीप्सितः - स्पृहेरीप्सितः ।स्पृह ईप्सायाम्चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठएकवचनम् । 'प्रयोग' इत्यध्याहार्यम् । तदाह — स्पृहयतेरित्यादिना । ननुपुष्पेभ्यः स्पृहयती॑त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदापुष्पाणां स्पृहयती॑ति साधु ।कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे॑त्यादिदर्शनात् । वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः ।
spṛher īpsitaḥ — 'spṛha' is listed in the sense of longing (īpsā) in the curādi class, ending in -a (adanta). From it, with ṇic in its own sense (svārtha, the curādi ṇic), and because the elision of the final -a (al-lopa) is sthānivat (behaves as its substituend), the guṇa of the light penultimate (laghūpadha-guṇa) does not take place; hence the stem 'spṛhi,' from which comes the genitive singular [spṛheḥ]. The word 'prayoga' ('employment') is to be supplied. This he states with 'spṛhayateḥ...' and the rest.
Objection: only 'puṣpebhyaḥ spṛhayati' (dative) should result, and not also 'puṣpāṇi spṛhayati' (accusative). But both are wanted [as correct]. To this he says 'īpsita-mātre' (only for the desired as such). But when there is no intention to express even the desired-ness, but only the intention to express mere object-hood (viṣayatā), then 'puṣpāṇāṃ spṛhayati' (genitive) is correct — as is seen in [usages like] 'kumārya iva kāntasya trasyanti spṛhayanti ca' ('they fear and long for the beloved, as maidens do'). In the Vākyapadīya, however, it is held that this [rule] is an exception (apavāda) both to the karman-designation and to the residual genitive (śeṣa-ṣaṣṭhī) in construction with spṛhayati; and Helārāja too [holds] the same. On their view, 'puṣpāṇi spṛhayati' and 'puṣpāṇāṃ spṛhayati' and the like are simply incorrect. The details are elsewhere.
SK 575 · A 1.4.37कारकसंज्ञा
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः ॥ ५७५ ॥
krudhadruherṣyā'sūyārthānāṃ yaṃ prati kopaḥ
krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ (A 1.4.37) — When [verbs] having the sense of krudh, druh, īrṣyā, or asūyā are used, the one towards whom the anger (kopa) is directed is termed [sampradāna].
Rule. With verbs meaning krudh (be angry), druh (seek to harm), īrṣy (envy) or asūy (find fault), the one toward whom the anger is directed is named sampradāna.
Example.
hari + krudhyati "he is angry at Hari" → Hari is the target of the anger → haraye krudhyati; likewise haraye druhyati, īrṣyati, asūyati.
Applies when / blocked by. Why "toward whom the anger is directed"? In bhāryām īrṣyati "he is jealous about his wife, thinking 'let no one else see her'", the anger is not aimed at the wife; she stays in the accusative. Bhaṭṭoji glosses the four: anger is intolerance, druh is doing harm, envy is not bearing another's good, asūyā is finding faults in virtues; all four are taken as arising from anger, which is why the condition is stated once for all.
Siddhānta-kaumudī
क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥
When [verbs] having the sense of krudh (to be angry) and the rest are used, the
one towards whom the anger is directed receives the aforementioned designation
(i.e. sampradāna, carried down by adhikāra). Thus: haraye krudhyati — "he is
angry at Hari"; druhyati — "seeks to injure [Hari]"; īrṣyati — "is envious
of [him]"; asūyati — "detracts from / imputes faults to [him]." — What is the
force of "towards whom the anger is directed"? [It excludes a case like]
bhāryām īrṣyati "he is jealous regarding his wife (accusative bhāryām, not
dative), thinking 'let no one else have looked upon her'" [for here the anger is
not directed towards the wife]. — [Definitions:] krodha (anger) is amarṣa
(indignant intolerance); droha is doing harm (apakāra); īrṣyā is non-endurance
(akṣamā); asūyā is the imputation of faults amid [another's] virtues. druh and
the rest too are taken only as arising from anger (kopa). Hence the qualification
"towards whom the anger is directed" [is stated] in a general way [applying to
all four].
Tattvabodhinī
alignment inferredNSP p. 155—द्रोहोऽपकार इति । ‘द्वह द्रोहे’ इति पाठाभिप्रायेणोक्तं जिघांसा द्रोह एवेत्यर्थतोऽनुभाषणं वा ॥—अक्षमेति । परसंपत्त्यसहनमित्यर्थः ॥ कुधद्वहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता । अन्ययोस्तु सकर्मकत्वाद् द्वितीया प्राप्ता ॥ ननु चित्तदोषार्थानामित्येवास्तु किं क्रोधादीनां विशिष्योपादानेनेति चेत् । अत्राहुः—द्वेषादावतिप्रसङ्गवारणाय विशिष्योपादानम् । तेन ‘योऽस्मान्द्वेष्टि यं च वयं द्विष्मः’ इत्यत्र चतुर्थी न भवति । तत्र ह्यनभिनन्दनं द्विषेरर्थः । अत एवाचेतनेष्वपि द्विषधातुः प्रयुज्यते । औषधं द्वेष्टि देवदत्तमिति ॥—कोपप्रभवा एवेति । कथं तर्हि ‘कुप्यसि कस्मैचित्’ इति । न हि कोपः कोपप्रभवः ॥ अत्र व्याचर्ख्यः—कुपिरत्र द्रोहार्थ इति पत्ये शेते इतिवत् ‘क्रियया यम्’—इत्येव सिद्धे कुधद्वहोर्प्रहणं चिन्त्यप्रयोजनमित्याहुः ॥—राधोक्ष्योः—। ‘राध संसिद्धौ’ ‘ईक्ष दर्शने’ । अनयोस्त्विह शुभाशुभपर्यालोचनमर्थस्तच्च प्रश्नपूर्वकमित्याशयेन विवृणोति—पृष्टो गर्ग इति । शुभाशुभरूपयोः कर्मणोर्धालयेनोपसंप्रहादकर्मकावेतौ । अत एव राध्यतीति इयन् ‘राधोऽकर्मकाद्द्वावेव’ इति दिवादिषु वक्ष्यमाणेन गणसूत्रेणाकर्मकादेव तद्विधानात् । कृष्णसंवन्धि शुभाशुभमित्यर्थाभ्युपगमात् षष्ट्यां प्राप्तायां वचनमिदम्
Bālamanoramā
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः - क्रुधाद्यर्थानामिति । क्रुध क्रोधे, द्रुह द्रोहे श्यन्विकरणौ । ईर्ष्य ईर्ष्यायां शब्विकरणः । असूञ् उपतापे कण्ड्वादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये क्रुध्यतीति ।रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातेच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात्षष्ठी प्राप्ता । द्रुह्यतीति । कोपाद्धरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात्षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति । ईर्ष्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति । असूया गुणेषु दोषारोपः । यथाविहितकर्माचारे दम्भादिकृत्वारोपणम् । इह कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः । मैनामिति । एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम् । एवंच क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथा च कुप्यति कस्मैचिदित्याद्यसाध्वेव, कोपमूलकत्वाभावात्क्रुधार्थकत्वाऽभावाच्च । प्ररूढकोप एव हि क्रोधः, न ह्यकुपितः क्रुध्यति इति भाष्यात् ।
krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ — On "krudhādyarthānām": The
roots are krudh "in the sense of anger" and druh "in the sense of injury," both
taking śyan as their conjugational marker (vikaraṇa) [class 4, divādi]; īrṣy "in
the sense of envy," taking śap as vikaraṇa [class 1, bhvādi]; and asūñ "in the
sense of tormenting," belonging to the kaṇḍvādi [group]. The compound is analyzed
as "those [verbs] whose meanings are precisely the meanings of these [roots]."
On "haraye krudhyati": "[someone] such as Rāvaṇa" is to be supplied [as subject];
the meaning is that he directs anger at Hari as its object. kopa is a particular
mental state concomitant with the wish to strike/harm. Since [krudh] is
intransitive, the genitive would [otherwise] have been obtained [and this rule
assigns sampradāna, hence the dative].
On "druhyati": the meaning is that out of anger he does harm directed at Hari.
Being intransitive, the genitive would [otherwise] have been obtained. apakāra
(harm) is an action that produces suffering; because it is subsumed within the
root-meaning itself, [the root] is intransitive.
On "īrṣyati": īrṣyā is non-endurance; the meaning is that out of anger he does not
endure Hari. [Here] the accusative (karman) would [otherwise] have been obtained
[since īrṣ can be transitive].
On "asūyati vā": asūyā is the imputation of faults onto [another's] virtues — the
fastening of hypocrisy and the like upon one whose conduct accords with the
prescribed observances. Here the meaning is that out of anger he regards Hari as
possessed of bad qualities.
On "mainām": the meaning is that, for the purpose "let no one else see this wife
of mine," he imputes faults to his wife's qualities. It should be understood that
here there is no anger directed towards the wife; rather, only this is intended —
that he does not endure her being seen by another.
And thus it is settled in the [Mahā]bhāṣya that this [rule applies] only when
krodha, droha, īrṣyā, and asūyā are rooted in anger (kopa). Accordingly [a form
like] "kupyati kasmaicit" and the like is simply incorrect, both because it is not
rooted in [settled] anger and because it does not carry the sense of krudh. For
krodha is only fully matured anger (prarūḍha-kopa), since, per the [Mahā]bhāṣya,
"one who is not [already] roused does not grow angry."
translator notes
- translator The Bhāṣya point on 'kupyati kasmaicit' turns on the distinction between kup (the arising of agitation) and krudh (settled, matured anger, prarūḍha-kopa): the four roots listed in the sūtra presuppose such matured anger, whereas kup does not, so the dative of sampradāna is not extended to kup. Rendered as stated, without expanding the argument.
SK 576 · A 1.4.38कारकसंज्ञा
क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ५७६ ॥
krudhadruhorupasṛṣṭayoḥ karma
krudhadruhorupasṛṣṭayoḥ karma — 1.4.38. For krudh and druh when they have a preverb (upasṛṣṭa), the one toward whom the anger is directed receives the karma designation.
Rule. But when krudh and druh carry a prefix (upasṛṣṭa), the target of the anger is named karman, not sampradāna.
Example.
krūra + abhi-krudhyati "he is angry at the cruel man" → prefix present → karman → second case → krūram abhikrudhyati; likewise abhidruhyati.
Siddhānta-kaumudī
सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥
When these two [roots, krudh and druh] have a preverb (sa-upasarga), the kāraka
toward which the anger [is directed] receives the karma designation. Example:
krūram abhikrudhyati — "he is angry at the cruel one"; abhidruhyati — "he seeks to
injure [him]" (the object in the accusative).
Bālamanoramā
क्रुधद्रुहोरुपसृष्टयोः कर्म - क्रुधद्रुहोः ।उपसृष्टयो॑रित्येतद्व्याचष्टे — सोपसर्गयोरिति । पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात्क्रियया यमभिप्रैती॑ति संप्रदानत्वस्य न प्रसक्तिः । नापि तादथ्र्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम् । अतः शेषषष्ठआं प्राप्ताया वाचनिकां कर्मत्वम् ।
krudhadruhorupasṛṣṭayoḥ karma — krudhadruhoḥ. He explains "upasṛṣṭayoḥ" by
"sopasargayoḥ" (having a preverb). This is an exception to the previous sūtra [the
saṃpradāna rule for krudh, druh etc. without preverb]. Since Hari [as the object
of the anger] is not the intended target (uddeśya) of the anger and injury [in the
technical sense required], the saṃpradāna designation by "kriyayā yam abhipraiti
[sa saṃpradānam]" [1.4.32] does not arise; nor [is there] the dative of purpose
(tādarthya-caturthī). And because krudh and druh [with a preverb] are intransitive
(akarmaka), Hari does not [otherwise] possess karma-hood. Hence, where the
śeṣa-genitive (śeṣa-ṣaṣṭhī) would have applied, the karma-hood [is instead
assigned] by the express statement [of this rule] (vācanika).
SK 577 · A 1.4.39कारकसंज्ञा
राधीक्ष्योर्यस्य विप्रश्नः ॥ ५७७ ॥
rādhīkṣyoryasya vipraśnaḥ
rādhīkṣyor yasya vipraśnaḥ — 1.4.39. In construction with √rādh and √īkṣ, that about whom the inquiry (vipraśna) is made is termed sampradāna.
Rule. With rādh and īkṣ (consider, divine), the person about whom the varied inquiry is made is named sampradāna.
Example.
kṛṣṇa + rādhyati "he divines for Kṛṣṇa" → Kṛṣṇa is the one asked about → kṛṣṇāya rādhyati, kṛṣṇāya īkṣate — that is, Garga, when asked, ponders Kṛṣṇa's good and ill fortune.
Siddhānta-kaumudī
एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
For these two [roots √rādh and √īkṣ], the kāraka [i.e. the one] about whom a manifold
inquiry (vipraśna) is made is termed sampradāna — [that is, he] concerning whom the varied
question is put. Example: kṛṣṇāya rādhyati or īkṣate vā — "he divines / considers
[the omens] for Kṛṣṇa," i.e. "when asked, Garga ponders the good and ill fortune [of
Kṛṣṇa]," [so Kṛṣṇa, about whom the inquiry is made, takes the dative].
SK 578 · A 1.4.40कारकसंज्ञा
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ ५७८ ॥
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā
When śru is preceded by prati or āṅ, the agent of the prior [instigating action] is [designated saṃpradāna]. — 1.4.40
Rule. With śru preceded by prati or āṅ (promise, assent), the agent of the prior act — the act of prompting — is named sampradāna.
Example.
vipra + gāṃ pratiśṛṇoti "he promises a cow to the brāhmaṇa" → the brāhmaṇa first said "give me one", and the promiser assents → the brāhmaṇa is agent of the prior act → viprāya gāṃ pratiśṛṇoti, āśṛṇoti.
Siddhānta-kaumudī
आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥
In construction with śṛṇoti (the root śru) preceded by these two [prati and āṅ], the agent (kartā) of the prior action — [the action] of the nature of instigation (pravartana) — becomes saṃpradāna. Example: viprāya gāṃ pratiśṛṇoti āśṛṇoti vā — "he promises a cow to the brahmin." The meaning: being instigated by "vipreṇa mahyaṃ dehīti" ("by the brahmin [saying] 'give me [a cow]'"), he assents (pratijānīte); [so the brahmin, the instigator, is saṃpradāna].
Bālamanoramā
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता - प्रत्याङ्भ्याम् । प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यं श्रुव इत्यस्य विशेषणम् ।श्रु श्रवणे॑ । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणात्मकव्यापारं परामृशति । तदाह — आभ्यामित्यादिना ।पूर्वस्ये॑त्यस्य व्याख्यानं-प्रवर्तनारूपस्येति । प्रेरणारूपस्येत्यर्थः ।प्रत्याङ्भ्या॑मित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः, किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथाअभिनिविशश्चे॑तिवत् 'प्रत्याङ् श्रुवः' इत्येव ब्राऊयादित्यभिप्रेत्योदाहरति — विप्राय गां प्रतिश्रणोति आश्रणोति वेति । अत्र प्रतिपूर्वक आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्यपगमे वर्तते, ततश्च प्रवर्तितः प्रतिजानीते इति लभ्यते केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्त्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्त्तृत्वात्संप्रदानत्वं कर्त्तृ तृतीयापवाद इत्यभिप्रेत्याह — विप्रेणेति । मग्यं गवादिद्रव्यं देहीति विप्रेण पृष्टः सन् देवदत्तस्तुभ्यं ददामीत्यभ्युपगच्छतीति योजना ।
pratyāṅbhyāṃ śruvaḥ pūrvasya kartā — pratyāṅbhyām. "pratyāṅbhyām" is the fifth case in the sense of association/direction (digyoga) [i.e. "after prati and āṅ"]. "parasya" ("of what follows") is to be supplied, qualifying "śruvaḥ." "śru śravaṇe" — [the root śru means] hearing; but here it is in the sense of assent preceded by instigation (preraṇāpūrvaka-abhyupagama). The word "pūrva" refers to the action of the nature of instigation (preraṇātmaka-vyāpāra). This Bhaṭṭoji states by "ābhyām..." etc. His gloss of "pūrvasya" is "pravartanārūpasya" — meaning "of the instigation-form [action]" (preraṇārūpasya). By "pratyāṅbhyām" it is not intended that [śru] be preceded by the two combined (samudita); rather each of the two individually is the occasioning cause (nimitta) — otherwise, as in "abhiniviśaśca" (using a compound), he would have said simply "pratyāṅ śruvaḥ." Intending this, he gives the example viprāya gāṃ pratiśṛṇoti āśṛṇoti vā. Here śru preceded by prati and by āṅ is in the sense of assent preceded by instigation; and thus "being instigated, he assents" (pravartitaḥ pratijānīte) is obtained. To the query "instigated by whom?", the brahmin construes as the agent (kartṛ). There, since the brahmin is the agent of the instigation, his saṃpradāna-hood — being an exception (apavāda) to the agentive third case (kartṛ-tṛtīyā) — [is intended]; so he says "vipreṇeti." Construction: "give me the cow or other substance" — thus requested by the brahmin, Devadatta assents, "I give [it] to you."
translator notes
- textual The digital source corrupts several forms, translated per the evident readings but not emended: pratiśṛṇoti / āśṛṇoti appear as pratiśraṇoti / āśraṇoti; brūyāt as brāūyāt; mahyaṃ as magyaṃ.
SK 579 · A 1.4.41कारकसंज्ञा
अनुप्रतिगृणश्च ॥ ५७९ ॥
anupratigṛṇaśca
anupratigṛṇaḥ ca — And [the kāraka] of gṛ (gṛṇāti, 'to praise in response') preceded by anu- and prati- [is sampradāna]: specifically, the agent of the prior activity (pūrvasya kartā, carried forward by anuvṛtti) receives the aforesaid designation, sampradāna.
Rule. And with gṛ (recite) preceded by anu or prati, the agent of the prior act is named sampradāna.
Example.
hotṛ + anugṛṇāti → the hotṛ and the adhvaryu are two priests of the rite: the hotṛ recites first, and the adhvaryu responds with encouragement → the hotṛ is agent of the prior act → hotre anugṛṇāti, pratigṛṇāti.
Siddhānta-kaumudī
आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥
The kāraka of gṛ (gṛṇāti), [when the root is] preceded by these two [anu and prati], being the agent of the prior activity (pūrva-vyāpāra), receives the aforesaid designation (ukta-saṃjñā, i.e. sampradāna). [Examples:] hotre anugṛṇāti / pratigṛṇāti — 'he responds in praise / joins in praise toward the hotṛ (dative).' The meaning is: the hotṛ first recites the praise, and the adhvaryu encourages him.
Tattvabodhinī
NSP p. 155–156—अनुप्रति—। गृण इति श्रान्तस्यानुकरणशब्दात् षष्ठी ॥ ‘प्रत्याङ्भ्याम्’—इति पूर्वसूत्रे द्विवचननिर्देशात् प्रत्येकमेव धातुसंवन्ध इति निर्धारिते तत्साहचर्यादिहापि प्रत्येकमेव धातुसंवन्ध इति सूचयन्नाह—आभ्यां गृणातेरिति ॥—होत्रे इति । कर्मत्वे परिक्रयणे—। द्रव्यदानेनात्यन्तस्वीकारः क्रयः, तस्य समीपं परिशब्द आचष्टे । अनियतकालात् क्रयणात् परिक्रयणस्य न्यूनकाललादित्याशयेनाह—नियतेति । भृत्या वेतनादिना
Bālamanoramā
अनुप्रतिगृणश्च - अनुप्रतिगुणश्च । पूर्वस्य कर्तेत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्नान्तस्याऽनुकरणशब्दाद्गृण इति षष्ठी । अत्र गृधातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते । तत्र पूर्वव्यापारस्य शंसनस्य कर्ता संप्रदानमित्यर्थः । तदाह — आभ्यामिति । पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचननिर्देशबलात्प्रत्येकमेव धातुसंबन्धावधारणात्तत्साहचर्यादिहापि प्रत्येकमेव धातुसंबन्ध इत्यबिप्रेत्यादाहरति — होत्रे अनुगृणाति प्रतिगृणाति वेति । होत प्रथममिति । शंसितारं होतारमुत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत् ।ओऽथ मोदै वे॑ति प्रतिगरमन्त्रः । 'ओ' इति संबोधने, मोदै॑ इति लोडुत्तमपुरुषैकवचनम् । 'व' इत्येवकारार्थे । हे होतः । अथ त्वदीयशंसनान्तरं तुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तं, पूर्वव्यापारं शंसनं प्रति कर्त्तृत्वाद्धोतुः संप्रदानत्वम् ।
anupratigṛṇaḥ ca — The expression 'the agent of the prior [action]' (pūrvasya kartā) is carried forward (anuvṛtti) [from the preceding rule]. The genitive 'gṛṇaḥ' is formed from the citation-form (anukaraṇa-śabda) 'gṛṇa' of the root 'gṛ' ('to sound, to praise') as it appears with its śnā-vikaraṇa (the class-9 stem gṛṇāti). Here the root gṛ occurs in the sense of encouragement concerning the act of praising (śaṃsana-viṣayaka-protsāhana), having the praiser (śaṃsitṛ) as its object. In that construction, the agent of the prior activity — the praising — is the sampradāna: this is the meaning.
This he states with 'ābhyām' (by these two, anu and prati). In the previous rule, by the force of the dual specification 'pratyāṅbhyām,' it is determined that each [preverb] connects with the root individually; by association (sāhacarya) with that, here too each preverb connects with the root individually — intending this, he gives the example 'hotre anugṛṇāti or pratigṛṇāti.' On 'the hotṛ first...': that is, [the adhvaryu] encourages the hotṛ, the praiser, with respect to further and further praising. The response-formula (pratigara-mantra) is 'o, atha modai va': here 'o' is used in address (sambodhana) — [supply] 'O hotṛ!'; 'modai' is an imperative (loṭ), first person singular ('may I rejoice'); 'va' is in the sense of eva ('indeed'). The sense is: 'O hotṛ! After your praising I do indeed rejoice.' Although in [the act of] encouraging the hotṛ would [ordinarily] be obtained as the direct object (karman), yet because the hotṛ is the agent with respect to the prior activity, namely the praising, the hotṛ is sampradāna.
SK 580 · A 1.4.44कारकसंज्ञा
परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥ ५८० ॥
parikrayaṇe sampradānamanyatarasyām
parikrayaṇe sampradānam anyatarasyām — 1.4.44. In hiring (parikrayaṇa), the most effective means (sādhakatama) optionally (anyatarasyām) receives the designation saṃpradāna [and hence takes the dative].
Rule. Parikrayaṇa is hiring: taking someone into service for wages for a fixed time. In hiring, the most effective means is optionally named sampradāna.
Example.
śata + parikrītaḥ "hired for a hundred" → the hundred is the means → as karaṇa, śatena parikrītaḥ; optionally as sampradāna, śatāya parikrītaḥ.
Applies when / blocked by. Four vārttikas add datives. For purpose (tādarthya): muktaye hariṃ bhajati "he worships Hari for liberation". With kḷp in the sense of turning into: bhaktir jñānāya kalpate / sampadyate / jāyate "devotion turns into knowledge". For what a portent announces: vātāya kapilā vidyut "tawny lightning means wind". In construction with hita "beneficial": brāhmaṇāya hitam "good for a brāhmaṇa".
Siddhānta-kaumudī
नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥
Hiring (parikrayaṇa) is the taking of someone into one's service (svīkaraṇa) by
wages (bhṛti) for a fixed period. In that [action], the most effective means
(sādhakatama kāraka) optionally receives the designation saṃpradāna. Example:
śatena / śatāya vā parikrītaḥ — "hired for a hundred," with the instrumental
(śatena) or, optionally, the dative (śatāya, by the saṃpradāna designation).
vārttikaतादर्थ्ये चतुर्थी वाच्या
(vārttika) tādarthye caturthī vācyā — The dative (caturthī) is to be prescribed
in the sense of "being for the purpose of that" (tādarthya).
(वार्तिकम्) ॥ मुक्तये हरिं भजति ॥
(vārttika, illustration) muktaye hariṃ bhajati — "he worships Hari for the sake
of liberation (mukti)" [muktaye, dative, in the tādarthya sense].
vārttikaकॢपि सम्पद्यमाने च
(vārttika) kḷpi sampadyamāne ca — And [the dative is prescribed] when the root
kḷp is used in the sense of "resulting/becoming into" (sampadyamāna).
(वार्तिकम्) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥
(vārttika, illustrations) bhaktir jñānāya kalpate / sampadyate / jāyate, and so
on — "devotion (bhakti) develops into / results in / becomes knowledge (jñāna)"
[jñānāya, dative].
vārttikaउत्पातेन ज्ञापिते च
(vārttika) utpātena jñāpite ca — And [the dative] when [something] is made known
(jñāpita) by a portent (utpāta).
(वार्तिकम्) ॥ वाताय कपिला विद्युत् ।
(vārttika, illustration) vātāya kapilā vidyut — "tawny lightning [forebodes]
wind (vāta)" [vātāya, dative].
vārttikaहितयोगे च
(vārttika) hitayoge ca — And in connection with [the word] hita ("beneficial").
(वार्तिकम्) ॥ ब्राह्मणाय हितम् ॥
(vārttika, illustration) brāhmaṇāya hitam — "beneficial for a Brāhmaṇa"
[brāhmaṇāya, dative].
Tattvabodhinī
alignment inferredNSP p. 156—तादर्थ्य इति । तस्मै कार्या-येदं तदर्थं करणं तस्य भावस्तादर्थ्यम् । ब्राह्मणादित्वात् ध्यञ् । ‘कृत्तद्धितसमासेभ्यः संवन्धाभिधानं भावप्रत्ययेन’ इति सिद्धान्तात् ध्यञा संवन्धोऽभिधीयते । स च संवन्धोऽनेकविधो, न तु कार्यकारणभाव एव, तेन ब्राह्मणाय दधीत्यादपि सिद्धम् । ब्राह्मणस्य दध्यजन्यत्वेऽपि तत्संस्कार्यत्वात् । न चैवं दधिशब्दादपि चतुर्थी स्यादिति शङ्क्यं, संवन्धस्य द्वित्वेऽपि षष्ठीवद्विशेषणादेव भवतीत्याकरे अभ्युपगमात् । एवं यूपाय दारु इत्यत्र दारुशब्दादपि न भवति ‘हेतौ’ इति तृतीयापि षष्ठीविषय एव भवतीति सापीह न भवति, किंतु प्रातिपदिकार्थे प्रथमैव । न चैतद्वातिकस्यावश्यकत्वे ‘चतुर्थी संप्रदाने’ इति सूत्रं व्यर्थमिति भ्रमितव्यम् । हरये रोचते इत्याद्यर्थं तस्याप्यावश्यकत्वात् । विप्राय गामित्यत्रापि तादर्थ्ये चतुर्थ्याः प्राप्तिर्नास्तीति प्रागेवोक्तलाचेति दिक् ॥—कृपीति । संपदादित्वाद्भावे क्रिपि तदन्तात्सप्तमी । संपत्तिरिहाभूतप्रादुर्भावः, कृत्यर्थकधातुप्रयोगे यः संपद्यते तत्र चतुर्थी, विकारवाचकाच्चतुर्थीत्यर्थः । स हि संपद्यते प्रादुर्भवति । तदुदाहरति—भक्तिर्ज्ञानायेति । ज्ञानात्मना परिणमत इत्यर्थः । प्रकृतिविकृत्योर्भेदविवक्षायां विकृतिवाचकाच्चतुर्थी । अभेदविवक्षायां तु परत्वात् प्रथमैव भक्तिर्ज्ञानं कल्पते । यदा तु ‘जनिकर्तुः—’ इति भक्तेरपादानत्वं विवक्ष्यते, तदापि ज्ञानस्याभिहितकर्तृ-त्वात् प्रथमैव ‘भक्तेर्ज्ञानं कल्पते’ ॥ कृपीत्यर्थप्रहणमित्याशयेनाह—संपद्यत इत्यादि । यद्यपि तादर्थ्ये चतुर्थ्यैव भक्ति-ज्ञानायेत्यादिप्रयोगाः सिध्यन्ति, तथापि परिणामत्वप्रकारकवोधार्थमिदं वचनमित्याहुः ॥—उत्पातेनेति । प्राणिनां शुभा-शुभसूचको भूतविकार उत्पातः तेन ज्ञापितेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः ॥—वातायेति । वातस्य ज्ञापिकेत्यर्थः ॥—हितेति । चतुर्थीसमासविधानाज्ज्ञापकादेतल्लब्धमिति भावः ॥ एवं सुखयोगेऽपि चतुर्थी वोध्या
Bālamanoramā
परिक्रयणे सम्प्रदानमन्यतरस्याम् - परिक्रयणे । नियतकालमिति ।तुभ्यमेतावद्वेतनं दीयते, तद्गृह्णन्नेतावन्तं कालं त्वं मम कर्मकरो भवे॑त्येवं परिमितकालं भृत्या स्वीकरणं परिक्रयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह — तस्मिन्साधकतममिति । संप्रदानत्वाऽभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्द्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थीति । 'चतुर्थी संप्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावस्तादथ्र्यम् । ब्राआहृणादित्वात् ष्यञ् । तेन च उपकार्योपकारकभावसंबन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी, भाष्ये यूपाय दारु, कुण्डलाय हिरण्यमित्युदाहृतत्वादित्यभिप्रेत्योदाहरति-मुक्तये इति । मुक्त्यर्थमित्यर्थः । उपकार्यत्वं च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति । मुक्तिर्जन्येति गम्यते । प्राप्यत्वं वा, ब्राआहृणाय दधीति । ब्राआहृणस्योपकार्यत्वं गम्यते इत्यादि । नचैवमपि अनेनैव सिद्धेचतुर्थी सम्प्रदाने॑ इति सूत्रं संप्रदानसंज्ञाविधानं च व्यर्थमिति वाच्यं, 'हरये रोचते भक्तिः' इत्यादौरुच्यर्थानां प्रीयमाणः॑ इत्याद्यर्थ तदावश्यकत्वादिति भाष्ये स्पष्टम् । कॢपि संपद्यमाने चेति । कॢपीति सप्तमी । सम्पत्तिः=विकारात्मना उत्पत्तिः । परिणाम इति यावत् । कॢपिधातौ प्रयुज्यमाने सति संपद्यमानेऽर्थे वर्तमानाच्चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः ।कॢपीत्यर्थग्रहण॑मित्यभिप्रेत्यादाहरति — संपद्यते जायते इत्यादीति । आदिना 'परिणमते' इत्यादिसङ्ग्रहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादथ्र्यचतुर्थ्यैव सिद्धमित्याहुः ।उत्पातेन ज्ञापिते चेति । अशुभसूचक आकस्मिको भूतविकार उत्पातः, तेन सूचितेऽर्थे विद्यमानाच्चतुर्थी वाच्येत्यर्थः । वातायेति । महाबातस्य सूचिकेत्यर्थः ।हितयोगे चेति ।चतुर्थी वाच्ये॑ति शेषः । ब्राआहृणाय हितमिति । ब्राआहृणस्य सुखकृदित्यर्थः ।याजनादी॑ति शेषः ।
parikrayaṇe sampradānam anyatarasyām — On "for a fixed period":
"'This much wage is given to you; accepting it, you shall be my worker
(karmakara) for this much time' — the taking of someone into service by wages
for a limited period is what parikrayaṇa means." "sādhakatamam" ("the most
effective means," from sādhakatamaṃ karaṇam 1.4.42) is carried forward
(anuvartate); hence he says "the most effective means in that [action]." In the
absence of the [optional] saṃpradāna designation, the karaṇa designation
[applies, yielding the instrumental]. On "śatena": it means "by a hundred [units]
of some substance such as gold."
On the vārttika "tādarthye caturthī": this is stated in the Bhāṣya on the sūtra
"caturthī saṃpradāne" (2.3.13). "tasmai idam" ("this is for that") = tadartham;
there is an obligatory compound (nitya-samāsa) with "artha"; the abstract of
tadartha is tādarthya, the suffix ṣyañ being added because [tadartha] belongs
to the brāhmaṇādi class. By this [tādarthya] the relation of benefited and
benefactor (upakārya-upakāraka-bhāva) is intended. There, the dative comes
precisely from the benefited thing (upakārya), since the Bhāṣya cites "yūpāya
dāru" ("wood for the sacrificial post") and "kuṇḍalāya hiraṇyam" ("gold for the
earring"); intending this, he gives the example "muktaye" — meaning "for the
purpose of liberation." Being the benefited (upakāryatva) is of many kinds:
being that which is to be produced (janyatva), etc. — as in "muktaye hariṃ
bhajati," where liberation is understood to be produced (janya); or being that
which is to be attained (prāpyatva), as in "brāhmaṇāya dadhi" ("curds for the
Brāhmaṇa"), where the Brāhmaṇa is understood to be the benefited; and so on.
Objection: Even so, since [the dative] is already established by this [vārttika],
the sūtra "caturthī saṃpradāne" (2.3.13) and its enjoining of the saṃpradāna
designation are useless. Response: [Not so]; that [sūtra and designation] is
necessary for cases like "haraye rocate bhaktiḥ" ("devotion is pleasing to
Hari"), by "rucyarthānāṃ prīyamāṇaḥ" (1.4.33) [where the one pleased is
saṃpradāna] and the like — as is clear in the Bhāṣya.
On "kḷpi sampadyamāne ca": "kḷpi" is a locative (saptamī) [= "when kḷp is used"].
sampatti = coming-into-being in the form of a transformation (vikāra), that is,
pariṇāma. The meaning is: when the root kḷp is employed, the dative is to be
prescribed for [the word] denoting the thing that is "becoming/resulting"
(sampadyamāna). On "bhaktiḥ": the meaning is "it transforms into the form of
knowledge." Intending that "kḷpi" [in the vārttika] denotes the meaning [of the
root generally, not only that particular root], he gives "sampadyate, jāyate,"
etc.; by "etc." (ādi), "pariṇamate" and the like are included. This statement
[vārttika] serves a cognition qualified by "being a transformation"; otherwise,
they say, [the dative] would be established by the tādarthya dative alone.
On "utpātena jñāpite ca": an utpāta is a sudden change in beings (bhūta-vikāra)
that portends something inauspicious; the meaning is that the dative is to be
prescribed for [the word] denoting the thing indicated (sūcita) by that portent.
On "vātāya": it means "[the lightning is] the indicator of a great wind."
On "hitayoge ca": supply "the dative is to be prescribed." On "brāhmaṇāya hitam":
it means "productive of welfare for the Brāhmaṇa"; supply "[the benefit being]
by performing sacrifices for him (yājana)" and the like.
SK 581 · A 2.3.14V
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ ५८१ ॥
kriyārthopapadasya ca karmaṇi sthāninaḥ
kriyārthopapadasya ca karmaṇi sthāninaḥ — 2.3.14. And the dative (caturthī) occurs for the object (karman) of a [potential, unexpressed tumun infinitive] that is sthānin and has as its upapada an action-done-for-the-sake-of-[another]-action (kriyārthā kriyā).
Rule. Tumun is the infinitive affix ("in order to do"). An upapada is a word standing beside another. When an infinitive whose upapada is an action done for its sake could have been used but is left unsaid — it is sthānin, "the one whose place is taken" — its object takes the fourth case-ending.
Example.
phalāni āhartuṃ yāti "he goes in order to fetch fruits" → the infinitive āhartum is dropped → its object takes the dative → phalebhyo yāti "he goes for fruits".
nṛsiṃham anukūlayituṃ namaskurmaḥ "we bow in order to propitiate Nṛsiṃha" → namaskurmo nṛsiṃhāya. Likewise svayaṃbhuve namaskṛtya "having bowed to the Self-born".
Siddhānta-kaumudī
क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥
For the object of a tumun [infinitive in -tum] which is potential (sthānin) but not
actually used (aprayujyamāna), and which has as its upapada an action done for the sake of
[another] action (kriyārthā kriyā), the dative (caturthī) occurs. Example: phalebhyo
yāti — "he goes for fruits," i.e. "he goes in order to fetch fruits (phalāny āhartuṃ
yāti)." [Second:] namaskurmo nṛsiṃhāya — "we make obeisance to Nṛsiṃha," i.e. "in order
to propitiate Nṛsiṃha (nṛsiṃham anukūlayitum)." Likewise in svayaṃbhuve namaskṛtya
("having bowed to the Self-existent") etc.
Tattvabodhinī
NSP p. 156—क्रियार्थोपपद-॥ क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था सा क्रिया उपपदं यस्य । यद्यपि क्रियाया उपपदत्वं न संभवति, तथा-पीह स्ववाचकशब्दद्वारा तद्वोध्यम् । क्रियाफलकं क्रियावाचकमित्यर्थः । क्रियावाचकस्यापि धातोरुपोच्चारितपदरूपोपपदत्वं यद्यपि न संभवति सुप्तिङन्तस्यैव पदत्वात्, तथापीह क्रियावाचकप्रकृतिकमित्यर्थो विवक्षितः, तादृशमुपपदं यस्य तुमुन-न्तस्य तस्य कर्मणि चतुर्थी भवतीति निष्कृष्टोऽर्थः । ‘तुमुन्एवुलौ क्रियायाम्—’ इति सूत्रमहिम्ना क्रियार्थकमुपपदं क्रियावा-च्येव फलतीत्याशयेनाह—क्रियार्था क्रियेति । स्थानिन इत्यस्यैवार्थकथनमप्रयुज्यमानस्येति ॥—तुमुन इति । एवं लोऽप्युपलक्षणम् । फलेभ्यो यातीत्यस्य फलान्याहारक इति विवरणे वाधकाभावात् ॥—कर्मणीति । तथा च द्वितीयाप-वादोऽयमिति भावः ॥ यत्तु प्रसादकृता व्याख्यातम् ‘अप्रयुज्यमानस्यैव कर्मणि यथा स्यात् । प्रयुज्यमानस्य कर्मणि मा भूदिति नियमार्थ सूत्र’मिति । तदसत् । अप्राप्तस्य नियमायोगात् । न चेह ‘तादर्थ्ये’ इति प्राप्तिः शङ्क्या ॥ यानक्रियायाः फलार्थत्वाभावात् । आहरणार्था हि यानक्रिया । आहरणं तु फलकर्मकमित्यन्यदेतत् ॥ क्रियार्थोपपदस्य किम् । प्रविश पि-ण्डीम् । गृहप्रवेशनं यद्यपि भक्षणार्थं तथापि भक्षिं प्रति कृत्रिमोपपदत्वं नास्ति । न च तुमुनः कर्मणीत्युक्तत्वात् भक्षिक-र्मणि चतुर्थ्याः प्रसक्तिरेव नास्तीति प्रत्युदाहरणमिदं न संगच्छत इति वाच्यम् । सति तु ‘क्रियार्थोपपदस्य’ इति पदे ‘तुमुन्एवुलौ क्रियायाम्’ इत्येतद्विषयकमेवेदं सूत्रमिति ‘तुमुनः’ लभ्यते नान्यथेति प्रत्युदाहरणस्यासंगतत्वाभावात्
Bālamanoramā
क्रियार्थोपपदस्य च कर्मणि स्थानिनः - क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था ।क्रिये॑ति विशेष्यमध्याहार्यम् । क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चारितं पदम्-उपपदम् । 'स्थानिन' इत्यपि तद्विशेषणम् । स्थानं प्रसक्तिरस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह — क्रियार्था क्रियेति । 'स्थानिन' इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति ।फलेभ्यो याती॑त्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह — फलान्याहर्तुमिति । इह फलाहरणक्रियार्था यानक्रिया, तद्वाचने उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वाच्चतुर्थी द्वितीयापवादः । नच तादथ्र्यचतुथ्र्या गतार्थता शङ्क्या, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थैव, अतो न फलेभ्यस्तादथ्र्यचतुर्थीप्रसक्तिः । एवं च फलकर्मकाहरणक्रियार्था यानक्रियेति बोधः । उदाहरणान्तरमाह — नमस्कुर्म इति । तुमुन्नन्तार्थाध्याहारं दर्शयति — नृसिंहमनुकूलयितुमिति । नचात्रनमःस्वस्ती॑त्येव चतुर्थी सिद्धेति वाच्यम्,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति द्वितीयापत्तेः । एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम् ।
kriyārthopapadasya ca karmaṇi sthāninaḥ — that [action] whose purpose (artha,
prayojana) is [another] action is "kriyārthā"; the qualificand "kriyā" is to be supplied,
so that it means "[the upapada] denoting an action whose result is [another] action." The
analysis is: "that [tumun] which has as its upapada an action-for-the-sake-of-[another]-
action" — and this qualifies the tumun. "upapada" is a word uttered nearby (upa-uccārita).
"sthānin" too qualifies [the tumun]: analysis, "that which has sthāna (= occasion,
applicability, prasakti)," i.e. that which is not actually used (aprayujyamāna). It results
that the dative occurs for the object of such a tumun-ending form. By the force of the
tumun-injunction tumun-ṇvulau kriyāyāṃ kriyārthāyām [that the tumun is added to a verb
denoting an action undertaken for the sake of [another] action], it is obtained that the
upapada whose result is an action must itself denote an action; thus he says "kriyārthā
kriyā." The explanation of "sthānin" is "aprayujyamāna" (not actually used).
In phalebhyo yāti, which tumun-ending form is the applicable one? To this he says
"phalāny āhartum" (in order to fetch fruits). Here the going-action (yāna-kriyā) is for the
sake of the fruit-fetching action; with that [going] as the denoting upapada, and with
respect to the fetching-action — the sense of the tumun-ending "āhartum" supplied by
ellipsis — the fruits are the object; hence the dative, as an exception (apavāda) to the
accusative (dvitīyā). Nor should it be suspected that this is [already] covered by the
dative of purpose (tādarthya-caturthī); for the going-action is not for the sake of the
fruits [directly], but for the sake of the fetching-action whose object is the fruits, so
the purpose-dative does not apply to "phala." And thus the understanding is that the
going-action is for the sake of the fetching-action whose object is the fruits.
He gives another example: "namaskurmaḥ." He shows the ellipsis of the tumun-meaning:
"nṛsiṃham anukūlayitum" (in order to propitiate Nṛsiṃha). Nor should one say that here the
dative is [already] established by namaḥsvasti… ("[the dative] in construction with
namas, svasti," etc.); for by the paribhāṣā upapadavibhakteḥ kārakavibhaktir balīyasī
("a kāraka case-ending is stronger than an upapada case-ending"), the accusative would
[otherwise] result. It is precisely to signal this [that the present rule is needed] that
this further example has been shown.
translator notes
- translator The rules cited by pratīka only — tumun-ṇvulau kriyāyāṃ kriyārthāyām, namaḥsvasti…, and the paribhāṣā upapadavibhakteḥ kārakavibhaktir balīyasī — are given as the commentary gives them, without Aṣṭādhyāyī numbers, since their identification is not marked in the source (§13).
SK 582 · A 2.3.15V
तुमर्थाच्च भाववचनात् ॥ ५८२ ॥
tumarthācca bhāvavacanāt
tumarthācca bhāvavacanāt (A 2.3.15) — And [the dative occurs] after a word denoting an action (bhāva-vacana) that has the sense of the infinitive tumun (i.e. that expresses purpose).
Rule. And the fourth case-ending is added after an action-noun — a word ending in one of the affixes prescribed by bhāvavacanāś ca (SK 3180) — when it carries the sense of the infinitive, that is, purpose.
Example.
yaṣṭuṃ yāti "he goes in order to sacrifice" → the action-noun yāga takes the infinitive's sense → dative → yāgāya yāti "he goes for the sacrifice".
Siddhānta-kaumudī
भाववचनाश्च SK 3180 इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥
And [the dative occurs] after [a form] ending in that which is prescribed by the
sūtra "bhāvavacanāś ca" (SK 3180) — i.e. after a kṛt suffix (such as ghañ)
enjoined in the sense of the action (bhāva) — [when it carries the sense of
purpose]. yāgāya yāti — "he goes for a sacrifice (dative yāgāya)," meaning "he
goes in order to sacrifice (yaṣṭuṃ yāti)."
Tattvabodhinī
alignment inferredNSP p. 156–157—तुमर्थात्—। ‘अव्ययकृतो भावे’ इति तुमुनो भावे एव विधानात् तदर्थस्य भाववचनत्वे सिद्धे पुनर्भाववचनप्रहणं सूत्र-विशेषपरिग्रहार्थमित्याह—भाववचनाश्चेतीति । न च ‘तादर्थ्ये’ इत्येव गतार्थता शङ्क्या । क्रियार्थक्रियोपपदकेत ‘भा-ववचनाश्च’ इति धना तुमुनैव तादर्थ्यस्य द्योतितत्वात्प्रातिपदिकार्थमात्रे प्रथमाप्राप्तावेतत्सूत्रारम्भात् ॥ यत्तु प्रसादकृतो-काम्—भाववचनादेव यथा स्यात्, पाचको ब्रजतीति एवुलन्तान्मा भूदिति नियमार्थमिदं सूत्रमिति । तन्न । एवुलः कर्तृ-वाचकतया तुमर्थकत्वाभावेन नियमार्थत्वायोगात् एवुलन्ते कर्तुः प्राधान्यात् कर्तारं प्रति च तादर्थ्याभावात्, गुणीभूततया पाकं प्रति तादर्थ्यसंभवेऽपि पाकवाचकधातोश्चतुर्थ्ययोगाच्च ॥ तुमर्थात् किम् । पचनं वर्तते ॥ भाववचनात् किम् । पाकः । त्यागः ॥ अत्र वदन्ति । ‘क्रियार्थोपपदस्य’ इत्यनुवर्त्य पञ्चम्या विपरिणमय्य व्याख्याने वाधकाभावात् भाववचनादिति त्यक्तुं शक्यम् । न चैवं ‘तुमर्थात्’ इत्येव वक्तव्यमिति वाच्यम् । वर्णलाघवसंभवे गौरवाश्रयणायोगादिति ॥—बलीय-सीति । हरये नम इत्यत्र तूदेशनक्रियाद्वारा हरिनमस्कारयोः संवन्धः हयुदेश्यको नमस्कार इति । एवं चोदेशेन क्रियाव-गतौ विलम्ब इति कारकविभक्तेर्वलीयस्त्वमित्येके । अन्ये तूपपदविभक्त्या संवन्धसामान्यमवगम्यते तद्विशेषावगमस्त्वर्थ-प्रकरणादिपर्यालोचनाधीनः । कारकविभक्त्या तु कर्मलादिसंवन्धविशेषो झटित्येवावगम्यत इति तस्या बलीयस्त्वमित्याहुः ॥—षष्ठ्यपीति । ननु प्रभ्वादियोगे षष्ठ्येवास्तु अलंशब्दस्तु पर्याप्तीतरार्थक एव ग्रहातामित्याशङ्क्याह—तस्मै प्रभवतीति ॥—न त्वां तृणमित्यादि । ननु तृणादिवत् युष्मच्छब्दादपि पक्षे चतुर्थ्यां भाव्यम् । मैवम् । ‘अनादरे’ इत्यस्य कर्म-विशेषणत्वेन अनादरद्योतकं यत् कर्म तत्र चतुर्थीति व्याख्यानात् । तृणं ह्यत्रानादरद्योतकं न तु युष्मदर्थः ॥ स्यादेतत् । त्वां तृणं मन्ये तृणाय वेत्युदाह्रियतां किमनेन नव्यः प्रयोगेण । अत्राहुः—‘प्रकृष्टकृत्सितप्रहणं कर्तव्यम्’ इति वार्तिकमस्ति, तेन यद्वाचिनश्चतुर्थी विधीयते ततो निकृष्टत्वेन यदि कृत्सा प्रतिपाद्यते, तदा चतुर्थी भवति न तु साम्यविवक्षायाम् । तादृशी च कुत्साप्रतीतिर्नञ्चः प्रयोगे झटित्येव भवतीति न लामित्युक्तमिति ॥—इयना निर्देशादिति । न च मन्य इति यका निर्देशः किं न स्यादिति वाच्यम् । अनभिहित इत्यधिकारात् । न हि यका योगे अनभिहितं कर्म संभवति । इयन्नपि दैवादिकधातूपलक्षणमात्रं, न तु स्वयं विवक्षितः । तेन ‘तृणाय मत्वा रघुनन्दनोऽपि वाणेन रक्षःप्रधनान्निरास्यत्’ इति भट्टिप्रयोगः संगच्छते ॥—नौकाकाञ्चेति । व्यवस्थितविभाषा विज्ञातव्येति भावः
Bālamanoramā
तुमर्थाच्च भाववचनात् - तुमर्थाच्च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति सूत्रम् । क्रियार्थानां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति । भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम् । अस्य तुमुनोऽर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः=क्रिया । उच्यते अनेनेति वचनः, भावस्य वचनो भाववचनः, तस्मादिति विग्रहः । क्रियावाचिन इति यावत् ।प्रत्यया॑दिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेषपरिग्रहणार्थमित्याह — भाववचनाश्चेति ।भावे॑इत्यधिकृत्य ये घञादिप्रत्यया विहितास्ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः ।यागाय याती॑त्याद्युदाहरणम् । #एवं च क्रियार्थक्रियोपपदत्वलाभार्थं तुमर्थादिति विशेषणम् । अत्र तादथ्र्यस्य तुमुनेव घञा द्योतितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन तादथ्र्यचतुथ्र्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्याद इत्यादौ घञो भावे इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाऽभावेन तुमर्थकत्वाऽभावात् । भ#आववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि 'भावे' इत्यधिकारे विध्यभावान्न चतुर्थी । तादथ्र्यस्य ण्वुलैवोक्तत्वान्न तादथ्र्यचतुर्थी, किंतु प्रथमैव ।
tumarthācca bhāvavacanāt — [This presupposes] the sūtra "tumun-ṇvulau kriyāyāṃ
kriyārthāyām": when an action that serves the purpose of [another] action
(kriyārthā) stands as the co-occurring word (upapada), the suffixes tumun and ṇvul
occur in the future sense. Thus "bhoktuṃ vrajati" (goes in order to eat), "bhojako
vrajati" (goes as an eater [= to eat]); here "vrajati," serving the purpose of the
future act of eating, is the upapada.
The analysis of [tumartha] is "from that whose sense is like the sense of this
tumun." bhāva means action (kriyā). vacana is "that by which [something] is
denoted"; bhāva-vacana is the denoter of an action; the analysis is "from that" —
i.e. from a word denoting action; "from the suffix (pratyaya)" is to be supplied.
Now, since by "avyaya-kṛto bhāve" the tumun is enjoined precisely in the sense of
the action (bhāva), the bhāva-vacana character of a suffix carrying the sense of
tumun is already established; therefore the further mention of "bhāva-vacana" [in
this sūtra] serves to single out a specific [set of] sūtra[s] — so he says
"bhāvavacanāś ca." Its purport: those suffixes such as ghañ that are enjoined
under the heading "bhāve" would [take the dative] when a purpose-serving action
stands as upapada, in the future sense. "yāgāya yāti" and the like is the example.
And thus the qualification "tumarthāt" serves to secure the property of having a
purpose-serving action as upapada. Here, since the purposiveness (tādarthya) is
already indicated by the ghañ, just as by the tumun, then — by the maxim "what has
already been expressed is not [again] employed" (uktārthānām aprayogaḥ) — the
tādarthya-dative not obtaining, and the nominative obtaining instead, this
[special] statement is made [to enjoin the dative nonetheless].
Why "tumarthāt"? In [a form] such as "pākaḥ" [used non-purposively] the dative
does not [apply], even though the ghañ stands under the "bhāve" heading, because —
there being no upapada that is a purpose-serving action — there is no
purposiveness (tumartha). Why "bhāvavacanāt"? "pācako vrajati," meaning "he goes
in order to cook (paktuṃ vrajati)": here ṇvul [applies] by "tumun-ṇvulau"; although
it carries the sense of tumun, since it is not enjoined under the "bhāve" heading,
the dative does not [apply]. Since the purposiveness is already expressed by the
ṇvul itself, there is no tādarthya-dative; rather, [the form stands] in the
nominative alone (pācakaḥ).
Footnotes (NSP 1915 ed.)
NSP p. 157 १ पर्याह्न्यर्थग्रहणमिति—व्याख्यानादिति भावः । २ स्वस्तीति—स्वस्तिशब्दोऽनव्ययमपि, ‘प्रतिगृह्णामि ते धेनुं कुटुम्बार्थे विशेषतः । स्वस्तिर्भवतु मे नित्यं मुखं चानुत्तमं तथा’ इति भविष्योत्तरपुराणात् । ३ चेष्टायां किमिति—धात्वर्थस्य क्रियारूप-त्वात्प्रश्नः । शरीरक्रियाया एव ग्रहणमित्युत्तरम् ।
translator notes
- textual The digital source carries stray '#' insertions within words (e.g. 'भ#आववचनात्' for bhāvavacanāt, '#एवं') and, at the first pratiṣedha example, the garbled reading 'पाकः त्याद इत्यादौ' where a single example ('pākaḥ') with 'ityādau' is evidently intended and the extra 'त्याद' is a digitization artifact. The evident readings are followed.
- translator The Aṣṭādhyāyī numbers for the sūtras cited only by pratīka in the commentary (tumun-ṇvulau kriyāyāṃ kriyārthāyām; avyaya-kṛto bhāve) are not given in the source and are left unnumbered here rather than supplied speculatively (§13).
SK 583 · A 2.3.16V
नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च ॥ ५८३ ॥
namaḥsvastisvāhāsvadhālamvaṣaḍyogācca
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ca — 2.3.16. And in connection (yoga) with namaḥ, svasti, svāhā, svadhā, alam, or vaṣaṭ, the fourth case (caturthī, dative) occurs.
Rule. And the fourth case-ending is added to a word construed with namaḥ (salutation), svasti (well-being), svāhā, svadhā (the offering-calls), alam (a match for) or vaṣaṭ.
Example.
hari + namaḥ → haraye namaḥ "salutation to Hari".
prajābhyaḥ svasti "well-being to the creatures"; agnaye svāhā "svāhā to Agni"; pitṛbhyaḥ svadhā "svadhā to the ancestors"; daityebhyo harir alam "Hari is a match for the demons"; vaṣaḍ indrāya "vaṣaṭ to Indra".
Applies when / blocked by. A paribhāṣā: a case-ending due to a kāraka is stronger than one due to an upapada (upapadavibhakteḥ kārakavibhaktir balīyasī). So in namaskaroti devān "he salutes the gods", the gods are the object of the verb karoti, and the accusative of the kāraka wins over the dative of namaḥ. The word alam stands for every word meaning "adequate to": prabhu, samartha, śakta take the dative as well. With prabhu and the like the genitive is also correct, as the usages tasmai prabhavati (SK 1765) and sa eṣāṃ grāmaṇīḥ (SK 1878) show; hence prabhur bubhūṣur bhuvanatrayasya "wishing to be master of the three worlds". The word ca re-enjoins the dative, so that in a benediction it beats the genitive that SK 631 would otherwise allow as the later option: svasti gobhyo bhūyāt "may there be well-being to the cows".
Siddhānta-kaumudī
एभिर्योगे चतुर्थी स्यात् । हरये नमः । [(परिभाषा - ) उपपदविभक्तेः कारकविभक्तिर्बलीयसी] ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति SK 1765 स एषां ग्रामणीः SK 1878 इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥
In connection with these [words] the caturthī (dative) applies. haraye namaḥ —
"salutation to Hari" (haraye, dative). [(paribhāṣā:) A kāraka-case
(kāraka-vibhakti) is stronger than an upapada-case (upapada-vibhakti) —
upapadavibhakteḥ kārakavibhaktir balīyasī.] namaskaroti devān — "he salutes the
gods"; [here devān is] accusative [because, by the paribhāṣā, the kāraka-based
accusative (karman) prevails over the upapada-based dative]. prajābhyaḥ svasti —
"well-being to the creatures" (prajābhyaḥ, dative). agnaye svāhā — "svāhā to Agni"
(agnaye, dative). pitṛbhyaḥ svadhā — "svadhā to the ancestors" (pitṛbhyaḥ, dative).
"alam" [in the sūtra] denotes the grasping of [words] having the sense of paryāpti
("being adequate / a match for"). By that, [words such as]: daityebhyo harir alam,
prabhuḥ, samarthaḥ, śaktaḥ, and so on — "Hari is a match for / capable against the
daityas" [take the dative, daityebhyaḥ]. In connection with prabhu and the like the
sixth case (ṣaṣṭhī, genitive) is also correct, from the [attested] usages "tasmai
prabhavati" (SK 1765) [dative] and "sa eṣāṃ grāmaṇīḥ" (SK 1878) [genitive].
Thereby "prabhur bubhūṣur bhuvana-trayasya" ("desirous of becoming master of the
three worlds") is established [with the genitive bhuvana-trayasya]. vaṣaḍ indrāya —
"vaṣaṭ to Indra" (indrāya, dative). The word "ca" [in the sūtra] serves to re-enjoin
(punar-vidhāna). Thereby, when a benediction (āśīs) is meant, blocking the ṣaṣṭhī —
which would otherwise obtain as the later option through "caturthī cāśiṣy-āyuṣya-..."
(A 2.3.73) — only the caturthī occurs: svasti gobhyo bhūyāt ("may there be
well-being to the cows").
Bālamanoramā
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च - नमःस्वस्ति । युज्यत इति योगः । कर्मणि घञ् । 'नमस्' इत्यादिभिर्युक्तादित्यर्थः । फलितमाह — एभिर्योगे इति । न च तादथ्र्यचतुथ्र्या गतार्थत्वं शङ्क्यं, तादथ्र्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थत्वात् । तादथ्र्यं हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानं तदा षष्ठी, यतागुरोरिदं गुर्वर्थ॑मिति भाष्ये स्पष्टम् । एवंच नमःस्वस्त्यादियोगे तादथ्र्यस्य शेषत्वविक्षायामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह — उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः-उपपदविभक्ति, तदपेक्षया कारकविभक्तिर्बलीयसीत्यर्थः ।अन्तरान्तरेणे॑ति सूत्रे भाष्ये पठितमिदं वचनम् । तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः-अन्तरङ्गः । उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तूपपदविभक्त्या सम्बन्धसामान्यमवगम्यते, विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्त्या तु कर्मत्वादिसम्बन्धविशेषो झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति । कारशिरःसंयोगादिना तोषयतीत्यर्थः । करशिरःसंयोगादिमात्रार्थत्वेऽकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति । प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति । अग्न्युद्देश्यकं द्रव्यदानमित्यर्थः । पितृभ्यः स्वधेति । पित्तुद्देश्यकं द्रव्यदानमित्यर्थः । स्वं रूपं शब्दस्य॑ इति अलशब्दस्यैव ग्रहणे 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिः । किंच दैत्येभ्यो हरिरलमित्यत्रैव स्यात्,दैत्येभ्यो हरिः प्रभु॑रित्यादौ न स्यादित्यत आह — अलमितीति । वार्तिकमेतत् । अलमित्यनेन पर्याप्त्यर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति । पर्याप्त्यर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना 'कुमारीणामलङ्कार' इत्यत्रातिव्याप्तिनिराससङ्ग्रहः । ननुप्रभुर्बुभूषुर्भुवनत्रयस्ये॑त्यादौ कथं षष्ठीत्यत आह — प्रभ्वादियोगे षष्ठीति । कुत इत्यत आह — स एषां ग्रामणारात निर्देशादिति । नन्वेवं सतिदैत्येभ्यः प्रभु॑रिति चतुर्थी न स्यात् । अलंशब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह — तस्मै प्रभवतीति । वषडिन्द्रायेति । इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयादित्याशीर्वाक्ये चतुर्थ्येवेष्यते । तत्रचतुर्थी॑चाशिष्यायुष्ये॑त्यादिना परत्वात्पक्षे षष्ठीप्रसङ्गः इत्यत आह — चकारः पुनर्विधानार्थ इति । तेनेति । पुनर्विधानसामर्थ्येनेत्यर्थः ।
namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ca — yoga = "that with which [something] is
connected" (yujyate iti yogaḥ), [formed] with ghañ in the karman sense; the meaning
is "from [a word] connected with namas and the rest." He states the upshot: "in
connection with these."
Objection: It should not be suspected that [this rule] is redundant on account of
the purpose-dative (tādarthya-caturthī). Response: [It is not redundant,] because it
serves to prevent the ṣaṣṭhī when tādarthya (being-for-the-sake-of) is intended to
be expressed as a mere relation (śeṣatva). For tādarthya is the relation of
benefited-and-benefactor (upakārya-upakāraka-bhāva); when that is cognized [merely]
as a relation (sambandhatvena), then the ṣaṣṭhī [occurs], as in "guror idaṃ
gurv-artham" ["this is the teacher's, for the teacher's sake"] — this is clear in
the Bhāṣya. And thus, in connection with namas, svasti, and the rest, even when
tādarthya is intended as a [mere] relation (śeṣatva), only the caturthī [occurs]:
it is for this that this sūtra [is stated].
Objection: In "namaskaroti devān" too the caturthī ought to apply [by
namaḥ-connection]. To this he says "upapadavibhakteḥ": a case-ending occasioned by
connection with another word (padāntara-yoga-nimittika) is an upapada-vibhakti;
relative to it, a kāraka-vibhakti is stronger — this is the meaning. This statement
is read in the Bhāṣya on the sūtra "antarāntareṇa" (A 2.3.4). And it is established
by reasoning (nyāya-siddha): for the relation between action and kāraka is internal
(antaraṅga), whereas the relation involving the sense of the upapada is one rooted
only remotely in some action-kāraka connection, so the case-ending occasioned by it
is external (bahiraṅga) — thus Kaiyaṭa. Others, however, say: by an upapada-vibhakti
[only] relation-in-general (sambandha-sāmānya) is understood, the specific
[relation] being grasped only by considering the context and the like; whereas by a
kāraka-vibhakti a specific relation such as karman-ness is grasped at once (jhaṭiti)
— therefore it is stronger.
"namaskaroti devān": the meaning is "he pleases (toṣayati) [the gods] by joining
the hands and [bowing] the head" (kara-śiraḥ-saṃyoga); for if it meant merely the
joining of hands and head, intransitivity (akarmakatva) would follow [and devān
could not be the object]. "prajābhyaḥ svasti": meaning "well-being (kuśala) relating
to the creatures." "agnaye svāhā": meaning "the giving of a substance with Agni as
the intended recipient (uddeśya)." "pitṛbhyaḥ svadhā": meaning "the giving of a
substance with the ancestors as the intended recipient."
[Why "alam" denotes a class and not only the word "alam":] If, by "svaṃ rūpaṃ
śabdasya" (A 1.1.68), only the word "alam" itself were grasped, there would be
over-application (ativyāpti) in "kumārīṇām alaṅkāraḥ" ["the ornament of the maidens"
— where the dative would wrongly threaten]; moreover, [taken literally] it would
apply only in "daityebhyo harir alam" and not in "daityebhyo hariḥ prabhuḥ" and the
like. To this he says "alam iti" — this is a vārttika: by the word "alam" [in the
sūtra], words having the sense of paryāpti are grasped. "tena": meaning "by the
grasping of [words in] the paryāpti sense." "ityādi": by "ādi" (and-the-rest) is
included the exclusion of the over-application in "kumārīṇām alaṅkāraḥ."
Objection: In "prabhur bubhūṣur bhuvana-trayasya" and the like, how [is there] the
ṣaṣṭhī [bhuvana-trayasya]? To this he says "in connection with prabhu and the like,
the ṣaṣṭhī." On what ground? He says: "from the usage sa eṣāṃ grāmaṇīḥ" (SK 1878)
[genitive eṣām]. Objection: If so, then the caturthī in "daityebhyaḥ prabhuḥ"
[dative] would not occur, and the word "alam" would come to denote only the sense
other than paryāpti. To this he says "tasmai prabhavati" (SK 1765) [dative — showing
that prabhu too takes the dative]. "vaṣaḍ indrāya": meaning "the offering of the
oblation (havis) with Indra as the intended recipient."
Objection: In the benediction sentence "svasti gobhyo bhūyāt" only the caturthī is
desired; but there, by "caturthī cāśiṣy-āyuṣya-..." (A 2.3.73), being the later rule
(paratva), there is in the alternative (pakṣe) the contingency of the ṣaṣṭhī. To
this he says "the word ca is for re-enjoining (punar-vidhāna)." "tena": meaning "by
the force of the re-enjoining (punar-vidhāna-sāmarthya)."
SK 584 · A 2.3.17V
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥ ५८४ ॥
manyakarmaṇyanādare vibhāṣā'prāṇiṣu
manyakarmaṇy anādare vibhāṣā 'prāṇiṣu — 2.3.17. For the object (karman) of [the root] man ('to regard'), when [it conveys] disrespect (anādara), the dative is used optionally (vibhāṣā), among non-living things (aprāṇiṣu).
Rule. The object of man (regard as), when contempt is meant, optionally takes the fourth case-ending, provided it is not a living being.
Example.
na tvāṃ tṛṇaṃ manye "I do not regard you as even a blade of grass" → or, optionally, na tvāṃ tṛṇāya manye.
Applies when / blocked by. The rule spells the root as manya, with the class-affix śyan; so the homophonous root man of the tanādi class is not covered: na tvāṃ tṛṇaṃ manve 'ham has no dative. A vārttika replaces "non-living" with "except boat, crow, food, parrot and jackal": so na tvāṃ nāvam annaṃ vā manye "I do not regard you as a boat or as food" has no dative although these are lifeless, while na tvāṃ śune manye "I do not regard you as worth a dog" has the dative although a dog lives.
Siddhānta-kaumudī
प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् ॥
Excluding living beings (prāṇi-varja), for the object of [the root] man the
dative is used optionally when there is contempt (tiraskāra). Example: na tvāṃ
tṛṇaṃ manye / tṛṇāya vā — "I do not regard you as [even] a blade of grass"
(accusative tṛṇaṃ, or optionally dative tṛṇāya). Because [the sūtra] specifies
[the root] by the form "manya" with the vikaraṇa śyan, [the rule does] not
[apply] when the [homophonous root manu] of the tanādi class is joined. Example:
na tvāṃ tṛṇaṃ manve 'ham [accusative only, no dative option].
vārttikaअप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम्
(vārttika) aprāṇiṣv ity apanīya naukākānnaśukaśṛgālavarjyeṣv iti vācyam —
Removing "aprāṇiṣu" ("among non-living things"), one should instead say
"excluding nau, kāka, anna, śuka, śṛgāla" (boat, crow, food, parrot, jackal).
(वार्तिकम्) ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥
(vārttika) Therefore, in na tvāṃ nāvam annaṃ vā manye ("I do not regard you as a
boat or as food"), even though [nau and anna] are non-living, the dative does
not [apply]. And in na tvāṃ śune manye ("I do not regard you as [worth] a dog"),
even though [śvan] is living, [the dative] does apply (śune, dative).
Bālamanoramā
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु - मन्यकर्मणि ।अप्राणिष्वि॑ति च्छेदः । 'मन ज्ञाने' दिवादिः, श्यन्विकरणः, 'मनु अवबोधने' तनादिरिविकरणः । तत्र मन्येति श्यना निर्देशाद्दैवादिकस्य ग्रहणमित्याह-मन्यतेरिति । कर्मणीति । अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । 'अनादारे' इत्यस्य व्याख्यानमेतत् ।अनादरः परिभवः परीभावस्तिरस्क्रिया॑ इत्यमरः । न त्वां तृणमिति । हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः । नञुपादानादयमर्थो लभ्यते । तृणाद्पयधमत्वप्रतीतेस्तिरस्कारातिशयः फलितः ।तृणं त्वां मन्ये तृणाय वे॑त्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् । एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः । न च मन्यकर्मत्वाऽविशेषात्त्वमिति युष्मच्छब्दादपि चतुर्थी शङ्क्या, अनादरद्योतके कर्मणीत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकं, न तु युष्मदर्थः । श्यनेति । तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति । मनुधातोरुविकरणस्य लडुत्तमपुरुषैकवचनम् । ननुन त्वां नावमन्नं मन्ये॑ इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः,न त्वां शुने मन्ये॑ इत्यादौ तु प्राणित्वाच्चतुर्थीविकल्पो न स्यादित्यव्याप्तिः , कर्मणः प्राणित्वादित्यत आह — अप्राणिष्वित्यपनीयेति । न त्वां नावं मन्ये इति । जीर्णां नावं प्रति वाक्यमेतत् । न त्वामन्नं मन्ये इत्यप्युदाहार्यम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः, किंतु द्वितीयैवेति भावः । न त्वां शुने मन्ये इति । हे देवदत्त । त्वां आत्वेनापि न मन्ये इत्यर्थः । न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम् । एषु प्राणित्वेऽपि न चतुर्थीविकल्प इति भावः ।
manyakarmaṇy anādare vibhāṣā 'prāṇiṣu — The word-division (cheda) is
"aprāṇiṣu." [The root] "man" (in the sense of knowing) is of the divādi class,
with the vikaraṇa śyan; "manu" (in the sense of understanding) is of the tanādi
class, with the vikaraṇa u. Of these, because [the sūtra] specifies [the root]
by "manya" with śyan, the divādi root is the one taken up — so he says "of [the
root] man (manyati)." On "karmaṇi": it is thereby indicated that, blocking
(bādhitvā) the accusative (dvitīyā), the dative applies as an option (pakṣe).
On "tiraskāre": this is the explanation of "anādare" (disrespect); the
Amarakośa gives "anādara, paribhava, parībhāva, tiraskriyā" [as synonyms].
On "na tvāṃ tṛṇaṃ": the meaning is "O Devadatta, I do not regard you even as a
blade of grass." This sense is obtained from the use of the negative (nañ);
since [you are] understood to be even lower than a blade of grass, an extreme of
contempt results. Had one said "tṛṇaṃ tvāṃ manye / tṛṇāya vā" [without the
negative], only equality with a blade of grass would be understood, not being
even lower than that; intending precisely this, the negative is adopted in the
Bhāṣya as well.
Objection: Since [the accusative or dative object] is equally the object of man,
the dative might arise from the word "tvam" (yuṣmad, "you") as well. Response:
[No,] because the intended sense is "for the object that indicates the
disrespect (anādara-dyotaka)"; for here it is precisely "tṛṇa" that indicates
the disrespect, not the sense "you" (yuṣmad).
On "śyanā": the idea is that for the object of the tanādi root manu only the
accusative [applies], not the dative as an option. On "na tvāṃ tṛṇaṃ manve":
this is the first-person singular present (laṭ) of the root manu with the
vikaraṇa u.
Objection (nanu): In "na tvāṃ nāvam annaṃ manye" too the optional dative would
[wrongly] arise — an over-application (ativyāpti); while in "na tvāṃ śune manye"
and the like the optional dative would [wrongly] fail to arise — an
under-application (avyāpti), since the object [śvan] is living. On this account
he states [the vārttika] "removing aprāṇiṣu…." On "na tvāṃ nāvaṃ manye": this
statement is [addressed] to a worn-out boat; "na tvām annaṃ manye" ("I do not
regard you as food") should likewise be cited — [addressed] to some contemptible
food. In both, although [nau and anna] are non-living, there is no optional
dative, but only the accusative. On "na tvāṃ śune manye": "O Devadatta, I do not
regard you even as a dog (śvan)." "na tvāṃ kākaṃ manye," "na tvāṃ śukaṃ manye,"
"na tvāṃ sṛgālaṃ manye" (crow, parrot, jackal) should also be cited; in these,
though [the objects] are living, there is no optional dative [because they fall
under the excluded set].
SK 585 · A 2.3.12V
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ ५८५ ॥
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani — 2.3.12. For the object (karman) of roots meaning 'to go' (gaty-artha), both the accusative and the dative are used, when [the going] is a bodily action (ceṣṭā) and [the object] is not a road (anadhvani).
Rule. The object of a verb of going takes either the second or the fourth case-ending, when the going is a bodily movement (ceṣṭā) and the object is not a road.
Example.
grāma + gacchati "he goes to the village" → bodily going, and the village is not a road → grāmaṃ gacchati or grāmāya gacchati.
Applies when / blocked by. Why "bodily"? In manasā hariṃ vrajati "he goes to Hari in his mind", only the accusative. Why "not a road"? In panthānaṃ gacchati "he goes along the road", only the accusative. The bar applies only to a road the traveller is on; when one leaves a wrong track to take the right road, the dative does occur: utpathena pathe gacchati "leaving the wrong track, he makes for the road".
With this the fourth case is finished.
Siddhānta-kaumudī
अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥
For the object of roots meaning "to go," when it is something other than a road
(adhvan), these two [the accusative and the dative] occur, [provided the going]
is a bodily action (ceṣṭā). Example: grāmaṃ / grāmāya vā gacchati — "he goes to
the village" (accusative or dative). Why "when a bodily action"? [To exclude:]
manasā hariṃ vrajati — "he goes to Hari with the mind" [mental, not bodily; only
the accusative]. Why "not a road"? [To exclude:] panthānaṃ gacchati — "he goes
[along] the path" [accusative only]. This prohibition [of the dative] applies
only to a road being traversed by the traveller (gantrādhiṣṭhita). But when,
[departing] from a wrong track (utpatha), one wishes to tread the [right] road
itself, then the dative does indeed occur. Example: utpathena pathe gacchati —
"leaving the wrong track he makes for the [right] path" (dative pathe). Thus the
dative.
Tattvabodhinī
NSP p. 157—गत्यर्थकर्मणि—गत्यर्थेति किम् । ओदनं पचति ॥ कर्मणीति किम् । अश्वेन ब्रजति ॥ ‘अनध्वनि’ इत्यत्राध्वनीति स्वरूपग्रहणम् । तथा हि सति ‘अनध्वनः’ इत्येवावक्ष्यत् । किं लयं ग्रहणं सप्तमीनिर्देशात्, कर्मणीत्यनेन सामानाधिकरण्यात् । अर्थस्यैव हि कर्मत्वं संभवति न शब्दस्वरूपस्य, तेनाध्ववाचिनां सर्वेषामेव निषेधः । तथा च वार्तिकम्—‘अध्वन्यर्थग्रहणम्’ इति ॥—गच्चाधिष्ठित एवेति । ‘आस्थितप्रतिषेधो वक्तव्यः’ इति वार्तिकादिति भावः ॥ आस्थितः संप्राप्तः । पन्थानं गच्छतीत्यत्र हि पन्थाः प्राप्त एवेति न पक्षे चतुर्थी । यदा लप्राप्तत्वेन विवक्षा तदा पक्षे भवत्येव सा । इह अनध्वनीत्यपनीय ‘असंप्राप्ते’ इति पूर्यते । तेन स्त्रियां गच्छतीत्यत्र स्त्री प्राप्तैवेति न चतुर्थीति ॥ अत्र व्याचक्षते । अजां नयति प्राममित्यत्र तु न भवत्येव चतुर्थी अगत्यर्थत्वात् । आक्षेपादिना ह्यत्र प्रतीयते गतिर्न त्वसौ नयतेरर्थः, प्रापणवाचित्वादिति ॥ ‘गत्यर्थकर्मणि चतुर्थी वा’ इति वक्तव्ये द्वितीयाग्रहणमपवादविषयेऽपि द्वितीया यथा स्यादित्येतदर्थं, तेन प्रामं गन्तेत्यत्र कृद्योगलक्षणा षष्ठी न भवतीति वृत्तिकृतोक्तम् ॥ इति चतुर्थी
Bālamanoramā
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि - गत्यर्थ । शारीरपरिस्पन्दः-चेष्टा । मनसेति । अत्र शारीरचेष्टाया अभावान्न द्वितीयाचतुथ्र्यौ, किन्तु द्वितीयैवेति भावः ।आस्थितप्रतिषेधो वक्तव्यः॑ इति वार्तिकमर्थतः सङ्गृह्णाति-गन्त्राऽधिष्ठिते इति । गन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा-पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन गन्त्राधिष्ठित्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह-यदा त्विति । उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितो मोहात्तन्मार्गात्प्रच्युतो मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्ग आक्रमितुमिष्यते, तदाऽनध्वनीति निषेधाऽभावाच्चतुथ्र्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति — उत्पथेन पथे गच्छतीति ।उत्पथेने॑त्यनन्तरं 'गन्तुमशक्त' इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्गं प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाऽभावादनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थी ।
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani — ceṣṭā is bodily
movement (śārīra-parispanda). On "manasā": here, in the absence of bodily
action, [it is] not the two, accusative-and-dative, but only the accusative —
that is the idea.
He captures in substance the vārttika "āsthitapratiṣedho vaktavyaḥ" ("a
prohibition should be stated for [a road] that is being traversed") by the phrase
"gantrādhiṣṭhite" ("[a road] occupied by the traveller"): the meaning is that
this prohibition expressed by "anadhvani" applies only to a road that is being
trodden (ākrānta) by the traveller. As in "panthānaṃ gacchati" — meaning "he
reaches (prāpnoti) the path": here, because the path, being the locus of the
reaching (prāpti), is traversed by the traveller (gantrādhiṣṭhita), the
prohibition [of the dative applies].
He states the purpose of this vārttika with "but when…." On "utpathāt": it means
"from a non-road (amārga)"; the ablative (pañcamī) is by [the rule for] the
elision of the gerund (lyablope pañcamī). One who has set out to reach Ujjayinī,
through confusion straying from that road, has entered another road; when he
wishes, abandoning that [wrong road], to tread the Ujjayinī road again — then,
because the prohibition "anadhvani" does not apply, the dative too does indeed
occur. He shows such an instance (lakṣya): "utpathena pathe gacchati." Immediately
after "utpathena," supply "being unable to go (gantum aśakta)"; the meaning is:
being unable to reach Ujjayinī by the wrong track (utpatha), abandoning the wrong
track, in order to enter the Ujjayinī road he follows that road. Here, because the
Ujjayinī road is not [yet] traversed by the traveller, the prohibition "anadhvani"
does not apply; hence the dative occurs, with the accusative as the option — that
is the idea. Thus [ends the treatment of] the dative (caturthī).
SK 586 · A 1.4.24कारकसंज्ञा
ध्रुवमपायेऽपादानम् ॥ ५८६ ॥
dhruvamapāye'pādānam
dhruvam apāye 'pādānam — 1.4.24. In [a situation of] moving-away (apāya), the fixed point (dhruva) is termed apādāna (the point of departure / ablation-locus).
Rule. Apāya is separation. When separation is what the action brings about, the fixed (dhruva) participant that serves as the point of reference is named apādāna.
Example.
grāma in "he comes from the village" → the village is the fixed point from which the traveller separates → grāma is apādāna → (by SK 587) grāmāt.
Siddhānta-kaumudī
अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥
apāya is separation (viśleṣa); when that [separation] is what is to be
effected (sādhya), the fixed (dhruva) kāraka, which serves as the limit or
point of reference (avadhi-bhūta), receives the designation apādāna.
Tattvabodhinī
NSP p. 157–158—ध्रुवमपाये—‘ध्रु गतिस्थैर्ययोः’ अस्मात् पचायचि कुटादिलान्दित्वे उवङ् । ‘ध्रुव स्थैर्ये’ इति केचित् । तत्र ‘इगुपध’—इति कः । ध्रुवं स्थिरम् ॥ अपायशब्देन विवक्षितमाह—विश्लेष इति । एवं च प्रकृतधात्वर्थानाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम् ॥ तच्चार्थोदवधिरेवेत्याह—अवधिभूतमिति । धावत इति । इह धावनक्रियाविशिष्टस्याप्यश्वस्य प्रकृतधातूपात्तक्रियां प्रत्यव- धित्वं न विरुध्यते ‘परस्परस्मान्मेषावपसरतः’ इत्यत्र तु सधातुना गतिद्वयस्याप्यपादाने कनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते । उक्तं च हरिणा—‘अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते । पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुञ्चादि ध्रुवमिष्यते ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्’ इति । पर्वतात्पततोऽश्वात्पततीत्यत्र तु पर्वतावधिकपतनाश्रयो योऽश्वस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थेऽवधौ अभेदेन संसर्गेण प्रकृत्यर्थः पर्वतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चावधिरूपो धर्मी, न तु धर्ममात्रम्, उद्धृतौदना स्थालीत्यत्रोदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शनात् । एतच्च मनोरमायां स्थितम् ॥ नन्विह ध्रुवग्रहणं किमर्थम् । न च ग्रामादागच्छति शकटेनेत्यत्र शकटेऽतिष्याप्तिवारणाय तदिति वाच्यम् । परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत् । अत्र वदन्ति । कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्यापादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति ॥—जुगुप्सेति । जुगुप्सा निन्दा, विरामो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः ॥ संयोगपू- वैको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणलान्नेह गृह्यत इति सूत्रेणाग्राप्तौ वार्तिकारम्भः ॥ भाष्यकारस्तु कारकप्रकरणे गौणमुख्यन्यायो नाश्रीयत इति तमव्यहणेन ज्ञापितलात् जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचिलमाश्रित्येदं वार्तिकं ‘भीत्रार्थानाम्—’ इत्यादि च सूत्राणि प्रत्याचख्यौ । पूर्वं हि बुद्ध्यापायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवात्र बुद्धिकृतोऽपायः
Bālamanoramā
ध्रुवमपायेऽपादानम् - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः ।
dhruvam apāye 'pādānam — Now the fifth case (pañcamī, the ablative).
dhruvam apāye. He explains the word apāya: "apāya is separation (viśleṣa)"
— meaning disjunction (viyoga). He explains the word dhruva: "that which
serves as the limit (avadhi-bhūta)." The settled position is that separation
(viśleṣa) [arises] from the movement (calana) of one of two things that are
conjoined. Therein, that which is not the locus of such movement
(calana-anāśraya-bhūta) is the "fixed" (dhruva). And here, by the sense [of
the context], that [fixed thing] is intended as the limit (avadhi-bhūta) —
this is the purport.
Footnotes (NSP 1915 ed.)
NSP p. 158 १ जुगुप्सेति—जुगुप्सादीनां यद्विपयकत्वेन विवक्षा तदपादानमित्यर्थः । तस्यैव विपयस्य क्रियाजनकत्वरूपकारकत्वेनाविवक्षायां संबन्धित्वेन च विवक्षायां पापस्येति पंडी भविष्यति । २ ग्रवृत्तिविधात इति—भक्षणसंयोगादिजनकव्यापाराभावानुकूलो
SK 587 · A 2.3.28V
अपादाने पञ्चमी ॥ ५८७ ॥
apādāne pañcamī
The fifth (ablative) case-ending occurs after [a stem denoting] the apādāna (point of departure). — 2.3.28
Rule. The fifth case-ending (pañcamī) is added to express the apādāna.
Example.
grāma (apādāna) + āyāti → fifth case → grāmād āyāti "he comes from the village".
dhāvato 'śvāt patati "he falls from a running horse" — the horse, though moving, is the fixed point of the falling.
Applies when / blocked by. Why must it be a kāraka? In vṛkṣasya parṇaṃ patati "a leaf of the tree falls", the tree is not meant as a participant, and the genitive stands. A vārttika adds verbs of aversion, ceasing and negligence: pāpāj jugupsate "he is disgusted by sin", viramati "he desists", dharmāt pramādyati "he is negligent of dharma".
Siddhānta-kaumudī
ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति ।
grāmād āyāti — "he comes from the village." dhāvato'śvāt patati — "he falls from a running horse." Why [is it specified as] a kāraka [i.e. why apādāna, a kāraka designation]? [To exclude:] vṛkṣasya parṇaṃ patati — "a leaf of the tree falls" [where the tree, though the point from which, is not intended as a kāraka, so the genitive stands].
vārttikaजुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्
(vārttika) There should be additional mention (upasaṃkhyāna) of [roots] having the senses of aversion (jugupsā), desisting (virāma), and negligence (pramāda) [i.e. their object too is apādāna].
(वार्तिकम्) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥
(vārttika) pāpāj jugupsate — "he is disgusted at sin"; viramati — "[he] desists [from sin]"; dharmāt pramādyati — "he is negligent of dharma."
Bālamanoramā
अपादाने पञ्चमी - अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वाद्ग्रामोवधिरिति अपादानत्वात्पञ्चमी ।माथुराः पाटलीपुत्रकेभ्य आढतराः॑ इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनाऽनाश्रयभूतं यत्तदेव ध्रुवमिति व्याख्यायताम्, किमवधित्वविवक्षयेत्यत आह — धावतोऽआआत्पततीति । अआस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः ।जुगुप्सेति । जुगुप्साद्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्ध्या न रमते इत्यर्थः । विरमतीति ।पापा॑दित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात्प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावाद्वचनमिदम् । यदा तु 'जुगुप्सते' इत्यादेर्जुगुप्सादिभिर्निवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
apādāne pañcamī — apādāne pañcamī. Being clear, it is not [further] expounded. grāmād āyātīti — meaning: he comes (āgacchati). Since [the village] is the object of the query "from what?", the village is the point of departure (avadhi); hence, being apādāna, the fifth case. In examples such as "the Mathurā-people are wealthier than the Pāṭaliputra-people" (māthurāḥ pāṭalīputrakebhya āḍhyatarāḥ), apādāna-hood is [obtained] by taking a mentally-constructed particular point of departure (buddhikalpita-viśeṣa-avadhitva); this is clear in the Bhāṣya.
Objection: let it be explained thus — "the very thing which is the non-locus of the movement conducive to separation is the fixed point (dhruva)"; what need is there of the intention to express a point of departure (avadhitva-vivakṣā)? To this he says: dhāvato'śvāt patati. Although the horse is a locus of movement, its being a point of departure — characterized as the object of the query "from what?" with respect to the action of falling — is not contradicted. This is the point.
jugupseti — In construction with roots having the senses of aversion (jugupsā) etc., the object of the aversion etc. is apādāna. This is the meaning. pāpāj jugupsata iti — meaning: out of the notion that the sin is contemptible, he takes no delight in it. viramatīti — "from sin" (pāpāt) is supplied by continuation (anuṣaṅga); meaning: he does not engage with the sin. dharmāt pramādyatīti — meaning: he is heedless regarding dharma. This statement [the vārttika] is [made] because here there is no real conjunction and separation (vāstava-saṃyoga-viśleṣa). But when the sense of "jugupsate" etc. is taken as "he turns away (nivartate) from the aversion etc.," then, by taking a mentally-constructed separation (buddhikalpita-viśleṣa), apādāna-hood is established [directly]; so this [additional] rule is set aside (pratyākhyāta) in the Bhāṣya.
translator notes
- textual The digital source corrupts śva to āā in two places, translated per the evident readings but not emended: dhāvato'āāt patati for dhāvato'śvāt patati; aāsya for aśvasya; also buddhikalpita is spelt buddhikalpita throughout as expected.
SK 588 · A 1.4.25कारकसंज्ञा
भीत्रार्थानां भयहेतुः ॥ ५८८ ॥
bhītrārthānāṃ bhayahetuḥ
In the use of verbs meaning to fear (bhī) or to protect (trā), the cause of the fear (bhaya-hetu) is termed apādāna.
Rule. With verbs meaning "fear" (bhī) or "protect" (trā), the cause of the fear is named apādāna.
Example.
cora + bibheti "he fears the thief" → the thief causes the fear → corād bibheti; corāt trāyate "he protects from the thief".
Applies when / blocked by. Why "the cause of the fear"? In araṇye bibheti / trāyate "he fears / protects in the forest", the forest is the place, not the cause, and keeps the locative.
Siddhānta-kaumudī
भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥
In the use of verbs meaning fear (bhaya) and verbs meaning protection (trāṇa), the cause (hetu) is termed apādāna. [Examples:] corād bibheti — "he fears the thief"; corāt trāyate — "he protects [himself] from the thief" [where corāt stands in the ablative as apādāna]. Why "the cause of the fear"? [Counterexample:] araṇye bibheti trāyate vā — "he fears, or protects, in the forest" [here araṇye is the locus, in the locative, not the apādāna].
Tattvabodhinī
NSP p. 158—भीत्रा—। ‘कस्य विभ्यति देवाश्च जातरोषस्य संयुगे’ इति रामायणे तु कस्येत्यस्य संयुगेनान्वयान्नास्ति भयहेतुलमिति षष्ठीप्रयोगः संगच्छत एव । न चैवं संयुगस्यापादानलापत्तिरिति वाच्यम् । परया अधिकरणसंज्ञया अपादानसंज्ञावाधात् । अधिकरणलाविवक्षायां तु इष्टापत्तेः ॥ भीत्रार्थेति किम् । व्याघ्रं पश्यति । न च कर्मत्वेन वाधः शङ्काः, कर्मलाविवक्षायां शेषषष्ठीं वाधित्वा पञ्चमीप्रसङ्गादित्याहुः ॥ भयहेतुग्रहणं चिन्त्यप्रयोजनम् । अरण्ये विभेतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेरिति चेत् । अत्र वदन्ति । भयहेतुग्रहणाभावे कारकशेषलविवक्षायामतिप्रसङ्गः स्यात् । तथा च अरण्यस्य चोराद्विभेतीति प्रयोगो न स्यादिति
Bālamanoramā
भीत्रार्थानां भयहेतुः - भीत्रा । चोराद्विभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोराद्विभेति=भीत्या निवर्तते, चोरात्रायते=आत्मानं त्रातु निवर्तयतीत्यर्थ आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् ।
bhītrārthānāṃ bhayahetuḥ — On "corād bibheti": meaning "by the thief as cause (hetu)"; the instrumental for the cause (hetu-tṛtīyā) would [otherwise] obtain [and this rule is its exception]. On "corāt trāyate": meaning, with the thief as cause, he protects himself so as to ward off the killing, binding, and so on that would be caused by that [thief]. But when the meaning taken is: corād bibheti = "he draws back out of fear," and corāt trāyate = "he causes [himself] to draw back in order to protect himself," then the apādāna is [already] established by taking [the thief] as the mentally-conceived (buddhikalpita) limit of separation (viśleṣa-avadhi) [under the general rule dhruvam apāye'pādānam]; hence this sūtra is set aside (pratyākhyāta) in the Mahābhāṣya.
SK 589 · A 1.4.26कारकसंज्ञा
पराजेरसोढः ॥ ५८९ ॥
parājerasoḍhaḥ
In the use of the verb parā-ji (parājayate, 'to give way, be worsted'), that which is unbearable (asoḍha) is termed apādāna.
Rule. With parā-ji (be worsted), the thing one cannot bear (asoḍha) is named apādāna.
Example.
adhyayana + parājayate "he is worsted by study", that is, he grows weary of it → study is the unbearable thing → adhyayanāt parājayate.
Applies when / blocked by. Why "unbearable"? In śatrūn parājayate "he defeats the enemies", the enemies are overcome, not unbearable; they stay in the accusative.
Siddhānta-kaumudī
पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥
In the use (prayoga) of parāji, the object that is unbearable (asahya) is termed apādāna. [Example:] adhyayanāt parājayate — "he is worsted by study," meaning "he grows weary (glāyati)" [where adhyayanāt stands in the ablative as apādāna]. Why "asoḍha (unbearable)"? [Counterexample:] śatrūn parājayate — "he defeats the enemies," meaning "he overpowers [them] (abhibhavati)" [here the enemies are accusative, not apādāna].
Tattvabodhinī
NSP p. 158—पराजेः—।—अध्ययनादिति । अध्ययनसंबन्धिनी ग्लानिरित्यर्थः । कारकशेषत्वेन षष्ठ्यां प्राप्तायामिदम् ॥—पराजयत इति । ‘विपराभ्यां जेः’ इति तद् ॥ असोढ इति कार्यो भूतकालो न विवक्षितः । तेनाध्ययनात् पराजेष्यत इत्यादि सिद्धम् । नचासोढग्रहणं व्यर्थं, शत्रून् पराजयत इत्यत्र परलात् कर्मसंज्ञासिद्धेः ॥ अत्रापि वदन्ति । कर्मलाविवक्षायां शेषषष्ठीं वाधित्वा पञ्चमी स्यात्, सा मा भूदिति कर्तव्यमेवासोढग्रहणम्
Bālamanoramā
पराजेरसोढः - पराजेरसोढः । सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषुसहिवहोरोदवर्णस्ये॑त्योत्त्वे सोढ इति रूपम् । तत्र क्तार्थो भूतकालो न विवक्षितः । तदाह — असह्रोऽर्थ इति । सोढुमशक्य इत्यर्थः । हेतुतृतीयाऽपवादोऽयम् । ग्लायतीत्यर्थ इति ।असहना॑दिति शेषः । यदा तु असहनान्निवर्तत इत्यर्थः आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति । तिरस्करोतीत्यर्थः । अत्र शत्रूणामभिभवनीयतया सह्रत्वाऽभावान्नापादानता ।
parājerasoḍhaḥ — [On the form soḍha:] from the root sah with the kta suffix, once dhatva (t → dh), ḍhatva (h → ḍh), ṣṭutva, and ḍhalopa (loss of the ḍh) have been effected, and then, by "sahivahor odavarṇasya (A 6.3.112)," the o-substitution (ottva) [for the a of sah] is made, the form soḍha results. Therein the past-time sense (bhūtakāla) of kta is not intended (na vivakṣita). He states this with "the unbearable object (asahya)" — meaning that which is impossible to bear (soḍhum aśakya). This [designation, yielding the ablative] is an exception (apavāda) to the instrumental for the cause (hetu-tṛtīyā). On "meaning he grows weary": "from what is not endured (asahanāt)" is to be supplied [as the ablative]. But when the meaning taken is "he desists (nivartate) out of non-endurance," then, since [the thing] is the mentally-conceived (buddhikalpita) limit of separation (viśleṣa-avadhi), the apādāna is already established simply [by the general rule dhruvam apāye'pādānam, A 1.4.24]; thus [this sūtra is criticized as redundant] in the Mahābhāṣya. On "he overpowers": meaning tiraskaroti (vanquishes). Here, since the enemies, being fit to be overpowered (abhibhavanīya), lack the quality of unbearableness (asahyatva), there is no apādāna status.
translator notes
- textual The source reads sahratvābhāvāt, apparently corrupt; the sense requires asahyatvābhāvāt ('from the absence of unbearableness'), which the translation follows — the enemies are bearable/overcome, so the apādāna (asoḍha) condition fails.
SK 590 · A 1.4.27कारकसंज्ञा
वारणार्थानामीप्सितः ॥ ५९० ॥
vāraṇārthānāmīpsitaḥ
vāraṇārthānām īpsitaḥ — 1.4.27. Of [verbs] having the sense of warding-off (vāraṇa), the īpsita — the thing desired [to be protected] — receives the apādāna (ablative) designation.
Rule. Vāraṇa is warding off, the thwarting of an activity. With verbs meaning "ward off", the thing one wants protected (īpsita) is named apādāna.
Example.
yava + gāṃ vārayati "he wards the cow off the barley" → the barley is what he wants kept safe → yavebhyo gāṃ vārayati.
Applies when / blocked by. Why "the desired"? In yavebhyo gāṃ vārayati kṣetre "... in the field", the field is not what he wants to protect; it keeps the locative.
Siddhānta-kaumudī
प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥
vāraṇa (warding-off) is the thwarting of an activity (pravṛtti-vighāta). With the
use of verbs meaning vāraṇa, the īpsita — the thing desired [to be protected] —
becomes apādāna (ablative). yavebhyo gāṃ vārayati — "he wards the cow off from the
barley" (yava = barley; yavebhyaḥ is ablative). Why "the īpsita"? yavebhyo gāṃ
vārayati kṣetre — "he wards the cow off from the barley in the field": here kṣetra
("field") is not the thing desired [to be protected], so it does not take apādāna
but stands in the locative (kṣetre).
Tattvabodhinī
NSP p. 158–159—वारणार्था—॥—यवेभ्य इति । यवसंयोगात् प्रागेव गां निवारयतीति ‘ध्रुवमपाये—’ इत्यनेनासिद्धावयमारम्भः । बुद्धिपरिकल्पितापायमङ्गीकुर्वतो भाष्यकारस्य मते तु वैयर्थ्यमेतस्य स्फुटमेव ॥—गां वारयतीति । ‘वृष् वरणे’ चुरादिः । गामित्यत्र ईप्सितलप्रयुक्तापादानसंज्ञा न भवति । ईप्सिततमलविवक्षायां परलात् कर्मसंज्ञाप्रवृत्तेः ॥ नन्वेवमीप्सितग्रहणमेव व्यर्थं, क्षेत्रे वारयतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेः । सत्यम् । अधिकरणस्य शेषत्वविवक्षायामिदं प्रत्युदाहरणमिति पूर्वोक्तरीत्या पदप्रयोजनस्येहापि कल्पयितुं शक्यत्वात् ॥—अन्तर्ध्वौ—। येनेति कर्तरितीया । न च कृद्योगषष्ठीप्रसङ्गः, उभयप्राप्तौ कर्मण्येवेति नियमात् । अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः ॥—निलीयत इति । ‘लीङ् श्लेषणे’ दैवादिकः ॥ नन्वन्तर्धाविति व्यर्थं, न दिहक्षते चोरानित्यत्र परत्वात्कर्मसंज्ञाः ज्ञासिद्धेः ॥ अत्राहुः । चोराः आत्मानं मा द्राक्षुरिति बुद्ध्या चोरान्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्व-विवक्षायामिदं पूर्ववत् प्रत्युदाहरणमिति ॥ शब्दकौस्तुभे तु ‘अन्तर्धौ’ इत्येतच्चिन्त्यप्रयोजनमिति स्थितम्
Bālamanoramā
वारणार्थानां ईप्सितः - वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाऽभावात् 'ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, न तु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च । तथा च तथायुक्तं चेति गोः कर्मत्वाद्द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपहृत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम् । न च गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वेवारणार्थानामित्यपादानत्वं बाधित्वाकर्तुरीप्सिततममिति कर्मत्वस्यैव परत्वात्प्राप्तेः । न च वारणार्थानामीप्सितः इत्यपादानत्वस्यकर्तुरीप्सततममिति कर्मत्वापवादत्वं शङ्क्यं,कर्तुरीप्सिततममिति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्नकर्तुरीप्सततममिति कर्मत्वापवादत्वम् । अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव । न च अग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम् । अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम् । एतेन तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हि वारणार्थानामिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । न चाग्नौ वारणार्थानामिति सावकाशमिति वाच्यं, वारयतेरत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः । तत्र स्पर्शांशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च । तथा च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ वारणार्थानामित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थं कर्तुरीप्सिततमं कर्मेत्यारब्धव्यम् । एवं च ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं तथायुक्तमित्यप्यारब्धव्यमित्यास्तां तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम् ।
vāraṇārthānām īpsitaḥ — vāraṇa is the turning-away (pravṛtti-vimukhīkaraṇa)
from an activity. "yavebhyaḥ": the meaning is that he turns away the cow, which is
eager to engage with the barley, from [that] engagement. Because there is here no
separation preceded by contact (saṃyoga-pūrvaka-viśleṣa), "dhruvam apāye"
(A 1.4.24) does not apply; this rule is stated for that non-obtaining [case].
There, the barley, being one's own (svakīya) and hence to be protected
(saṃrakṣaṇīya), is the īpsita and so takes apādāna — not the cow; for the cow,
being another's (parakīya), is not-desired (anīpsita), and because its being
desired is in any case annulled by its being [merely] the thing to be warded off
(vāraṇīya). And so, by "tathāyuktaṃ cānīpsitam" (A 1.4.50) the cow is karman, hence
the accusative (dvitīyā, gām).
But when the barley belongs to another and the cow is one's own, then the
warding-off is simply inconceivable [there being no motive]. In truth, however,
even when the barley is another's, [warding off is still motivated:] from its
destruction there would be demerit (adharma); the barley's owner might seize and
tie up the cow, and might fine the cow's owner. Hence, since the barley is desired
to be protected — being īpsita — the apādāna-designation does obtain [for it]. But
the cow, though one's own, is most desired to be warded off (vārayituṃ iṣṭatama)
in order to remove the harm (bādhaka-nivṛtti), so it is karman [by "kartur
īpsitatamaṃ karma," A 1.4.49].
Objection: Since the cow, even while being īpsitatama (most desired), is also
īpsita, why should the apādāna-designation not [also] apply? Response: This should
not be said; for when [the cow] is īpsitatama, the karman-designation of "kartur
īpsitatamam" (A 1.4.49), being the later rule (paratva), obtains, blocking the
apādāna of "vāraṇārthānām" (A 1.4.27).
Nor should it be suspected that the apādāna of "vāraṇārthānām īpsitaḥ" is an
exception (apavāda) to the karman of "kartur īpsitatamam." For the karman of
"kartur īpsitatamam" has as its scope only the īpsitatama, whereas the apādāna of
"vāraṇārthānām" has as its scope the īpsita; and since the latter has its own scope
(sāvakāśatva) in the present case — in the īpsita barley belonging to another — it
is not an exception to the karman of "kartur īpsitatamam." Therefore, by paratva,
the cow, being one's own and hence īpsitatama relative to the barley belonging to
another, is karman alone.
Objection [a claimed redundancy of this sūtra]: "agner māṇavakaṃ vārayati" — for
its sense is "he turns the boy (māṇavaka) away from engaging [with the fire]."
There, since the boy's touching the fire (agni) would entail the contingency of
burning, the boy — being that which is most desired to be reached by the
warding-action (which consists of turning-away-from-engagement directed at the
fire) — is the īpsitatama of the warder, hence karman; while the fire, even though
it is most desired to be reached by the boy's touching-action that the warding
targets, is [only] īpsita relative to the warder, hence apādāna. By this — by the
separate statement of these two [designations] — and since by just this much all
the target-cases such as "hariṃ bhajati" ("he worships Hari"), "grāmaṃ gacchan
tṛṇaṃ spṛśati" ("going to the village he touches the grass"), and "viṣaṃ bhuṅkte"
("he consumes poison") are comprehended, [this sūtra is claimed to be superfluous]
— [but] this is set aside (nirasta).
[For:] if karman were defined as "the locus of the fruit produced by the agent's
operation" (kartṛ-vyāpāra-janya-phala-āśraya), then the sūtra "vāraṇārthānām,"
being specially enjoined (viśeṣa-vihita), would be an exception to it, and so the
boy would not be karman [but wrongly apādāna]. Nor may it be said that
"vāraṇārthānām" has [independent] scope in the fire: for the sense of vārayati here
is the disrupting (vighaṭana) of the activity whose fruit is contact
(sparśa-phalaka-pravṛtti), and that [disrupting] takes the form of leading [the
boy] elsewhere. The fruit produced by such an operation is the absence (viraha) of
the activity — whose agent is the boy and whose fruit is contact. Therein, the
contact-component resides both in the fire and in the boy, since contact, being of
the nature of conjunction (saṃyoga), resides in two loci; and the absence-of-
activity resides in the fire as its object (viṣayatayā) and in the boy as its locus
(āśrayatayā). And so, since the karman defined as "being the locus of the fruit
produced by the agent's operation" obtains — by paratva — in both, the apādāna of
"vāraṇārthānām," being without [other] scope (niravakāśa), would be its exception,
so that the ablative (pañcamī) would apply even to the boy; to block that, "kartur
īpsitatamaṃ karma" must be instituted. And thus the apādāna, which has scope in the
merely-īpsita fire, is blocked in the īpsitatama boy by paratva — this is
established. And once "kartur īpsitatamam" is instituted, then, in order to include
the disliked (dveṣya) and the neutral (udāsīna) [objects], "tathāyuktam
[cānīpsitam]" too must be instituted — but let this rest for now (āstāṃ tāvat).
In the Bhāṣya, however, relying on an apādāna-status effected by a
mentally-imagined conjunction-and-separation (buddhi-kalpita-saṃyoga-viśleṣa), this
sūtra is set aside (pratyākhyāta).
Footnotes (NSP 1915 ed.)
NSP p. 159 १ यथा स्यादिति—अन्यथा यत्र दर्शनाभाव एव तत्रैव स्यादिति भावः । २ नियमं इति—नियमो ब्रह्मचर्यादिः । ३ प्रकृतिरिति—प्रकृतिरुपादानकारणमिति शब्देन्दुश्चेखरे स्थितम् । ४ गम्यमानापीतिं—विशिष्य तद्वाचकशब्दानुपात्तेत्यर्थः ।
SK 591 · A 1.4.28कारकसंज्ञा
अन्तर्द्धौ येनादर्शनमिच्छति ॥ ५९१ ॥
antarddhau yenādarśanamicchati
In [a case of] concealment, that person from [being screened from] whom one wishes [one's own] non-perception is [designated apādāna]. — 1.4.28
Rule. In concealment (antardhi), the person by whom one wishes not to be seen is named apādāna.
Example.
mātṛ + nilīyate kṛṣṇaḥ "Kṛṣṇa hides from his mother" → he wants his mother not to see him → mātur nilīyate kṛṣṇaḥ.
Applies when / blocked by. Why "in concealment"? In caurān na didṛkṣate "he does not wish to see the thieves", there is no hiding, and the accusative stands. Why "wishes"? So that the rule applies when the wish not to be seen is there, even if one is in fact seen.
Siddhānta-kaumudī
व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥
When there is a screening (vyavadhāna), that person the absence of whose perception of oneself — [the perception] having that person as its agent — one wishes, is apādāna. Example: mātur nilīyate kṛṣṇaḥ — "Kṛṣṇa hides from [his] mother." Why "in concealment (antardhi)"? [To exclude:] caurān na didṛkṣate — "he does not wish to see the thieves" [accusative, no concealment]. Why the mention of "icchati" (wishes)? So that [the rule applies] when there is a wish for non-perception, even though perception [actually] occurs.
Bālamanoramā
अन्तर्द्धौ येनादर्शनमिच्छति - अन्तर्धौ । अन्तर्धावित्येतद्व्याचष्टे — व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति । 'आत्मन' इति दर्शनशब्दयोगे कर्मणि षष्ठी । 'आत्मन' इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । 'आत्मन' इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्म इति ।लीङ्श्लेषणे॑श्यन्विकरणः । इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुडआदिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी । कर्तृतृतीयापवादोऽयं , षष्ठपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् ।
antarddhau yenādarśanamicchati — antardhau. He glosses "antardhau" by "vyavadhāne sati" ("when there is a screening") = vyavadhānena ("by means of screening"). "yatkartṛkasya" [means]: "yena" is the agentive third case (kartṛ-tṛtīyā); this is the point. "ātmano darśanasya": "ātmanaḥ" is a genitive in the objective sense (karmaṇi ṣaṣṭhī) construed with the word "darśana," and "ātmanaḥ" is available by supplying it. Precisely for this reason "yena" fits as the agentive third case; otherwise there would be the contingency of a genitive governed by a kṛt-form (kṛdyoga-ṣaṣṭhī). But when "ātmanaḥ" is supplied, since both [genitive and instrumental] would be obtained, by the restriction "[the genitive is] in the objective sense only," there is no kṛdyoga-ṣaṣṭhī [displacing the instrumental of yena]. By the word "ātman" the agent of "icchati" is intended: [the meaning is] "by means of the screening one wishes the absence of the perception of oneself that has another as its agent." This is the upshot.
mātur nilīyate kṛṣṇa iti — "līṅ śleṣaṇe," with the vikaraṇa śyan. But here, by force of the upasarga [ni], it is in the sense of the action conducive — through screening — to the absence of the perception of oneself that has another as agent. And thus: Kṛṣṇa, for the sake of the absence of the mother-agented perception of himself, becomes concealed by a wall or the like. Here, relying on the screening, since the absence of the mother-agented perception of himself is wished by Kṛṣṇa, the mother is apādāna, hence the fifth case. This is an exception (apavāda) to the agentive third case (kartṛ-tṛtīyā), or to the genitive (ṣaṣṭhī). In the Bhāṣya, however, relying on a mentally-constructed apādāna-hood (buddhikṛta-apādānatva), this [rule] too is set aside (pratyākhyāta).
translator notes
- textual The digital source corrupts a few forms, translated per the evident readings but not emended: kṛṣṇaḥ appears as kṛṣmaḥ; vyavadhānena as vyavadānena; kuḍyādinā ('by a wall etc.') as kuḍādinā.
SK 592 · A 1.4.29कारकसंज्ञा
आख्यातोपयोगे ॥ ५९२ ॥
ākhyātopayoge
ākhyātopayoge — 1.4.29. When there is regulated study (upayoga), the one who tells/teaches (ākhyātṛ) receives the apādāna designation.
Rule. In upayoga, the taking of knowledge under a regular rule of study, the teller (the teacher) is named apādāna.
Example.
upādhyāya + adhīte "he studies under the teacher" → regulated study → upādhyāyād adhīte.
Applies when / blocked by. Why "regulated study"? In naṭasya gāthāṃ śṛṇoti "he hears the actor's song", there is no such rule, and the genitive stands.
Siddhānta-kaumudī
नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति ॥
In the acceptance of knowledge that is preceded by a regular observance (niyama),
the speaker/teller (vaktṛ) receives the earlier-mentioned designation
(prāk-saṃjña — i.e., apādāna, the saṃjñā under discussion in the preceding
rules). Example: upādhyāyād adhīte — "he studies from the teacher" (upādhyāya in
the ablative). Why "when there is regulated study (upayoga)"? [Counter-example:]
naṭasya gāthāṃ śṛṇoti — "he hears the actor's song" [here there is no regulated
study, so the plain genitive stands, not the ablative].
Tattvabodhinī
NSP p. 159—आख्या-तोप-॥—नियमपूर्वकेति । तत्रैवोपयोगशब्दो रूढ इति भावः ॥ आख्यातेत्येतत् तृजन्तमित्याह—वक्तेति ॥—उपाध्यायादिति । उपेत्य अस्मादधीयत इति उपाध्यायः, ‘इन्द्रश्च’ इति घन् । अध्ययनं तु गुरुच्चारणानूच्चारणं नियमपूर्वकम् ॥—नटस्येति । गाथाकर्मकं नटसंवन्धि श्रवणमित्यर्थः । नटस्य गाथान्वये तु कारकत्वाभावादेवाप्राप्ते-रुपयोगप्रहणं समर्थितं न स्यात्
Bālamanoramā
आख्यातोपयोगे - आख्यातोपयोगे । आख्याता-उपयोगे इति च्छेदः । आख्यातेति तृजन्तात्प्रथमैकवचनम् । उपयोगपदं व्याचष्टे-नियमपूर्वकेति । भाष्ये तथोक्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे-वक्तेति । अध्यपयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः । षष्ठपवादोऽयम् । भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम् ।
ākhyātopayoge — ākhyātopayoge. The word-division is ākhyātā-upayoge. "ākhyātā"
is the nominative singular of a word ending in the tṛ-suffix. He explains the word
"upayoga" by "niyamapūrvaka" (preceded by a regular observance); the idea is that
it is so stated in the [Mahā]bhāṣya. He explains "ākhyātā," the tṛ-ending word, by
"vaktṛ" (the speaker); the meaning is "the instructor" (adhyāpayitṛ). "upādhyāyād
adhīte" — the meaning is: in accordance with a particular regulated observance, he
utters in repetition (anūccarayati) after the teacher's utterance. This is an
exception to the [śeṣa-]genitive (ṣaṣṭhī). In the Bhāṣya, however, this [rule] is
set aside (pratyākhyāta), on the ground that the sense is "he receives the Veda
that has issued forth from the teacher" [so that the plain apādāna already
applies].
SK 593 · A 1.4.30कारकसंज्ञा
जनिकर्तुः प्रकृतिः ॥ ५९३ ॥
janikartuḥ prakṛtiḥ
The prakṛti (source) of the agent of jani (being born) is [designated apādāna]. — 1.4.30
Rule. The source (prakṛti) of the agent of jan (be born) — the cause of what is born — is named apādāna.
Example.
brahman + prajāḥ prajāyante "the creatures are born from Brahman" → Brahman is the source → brahmaṇaḥ prajāḥ prajāyante.
Siddhānta-kaumudī
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥
The cause (hetu) of that which is being born (jāyamāna) is apādāna. Example: brahmaṇaḥ prajāḥ prajāyante — "from Brahman the creatures are born."
Tattvabodhinī
NSP p. 159—जनिकर्तुः—। जननं जनिरुत्पत्तिः । ‘इणजादिभ्यः’ इति जनेर्भावे इण् । ‘जनिव-ध्योश्च’ इति वृद्धिप्रतिषेधः । तस्याः कर्तेति शेषषष्ट्या समासो, न तु कारकषष्ट्या ‘तृजकाभ्याम्’ इति निषेधात् । एवं चोत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धालन्तरयोगेऽप्यपादानत्वं भवत्येव । ‘अङ्गादङ्गात्संभवसि’ इति यथा । तदेतदाह—जायमानस्येति । एतेन ‘इक्दितपौ धातुनिर्देशे’ इति इका निर्देशोऽयं जनिरित्याश्रित्य ‘गमहन’ इत्युप-धालोपमर्थासंगतिं समासानुपपत्तिं चोद्भाव्य व्याकरणाधिकरणे गर्जन्तो मीमांसकाः समाहिता इति भावः ॥ इह प्रकृतिप्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम् । पुत्रात् प्रमोदो जायते इत्युदाहरणात् उपादानमात्रपरमिति तु भाष्यकैयट-मतं तदुभयसाधारणमुदाहरणमाह—ब्रह्मण इति । ब्रह्मा हिरण्यगर्भः । स च हेतुरेव न तूपादानम् । किं च मायो-पहितं चैतन्यं ब्रह्म, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः
Bālamanoramā
जनिकर्त्तुः प्रकृतिः - जनिकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः ।जनी प्रादुर्भावे॑दैवादिकोऽकर्मकः । 'इण्जादिभ्यः' इति भावे इण् ।जनिवध्योश्चे॑ति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ठआ समासः ।तृजकाभ्यां कर्तरी॑ति निषेधस्तु कारकषष्ठआ एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटश्शानच्, श्यन्, 'ज्ञाजनोर्जा'आने मुक् । उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे-हेतुरिति । ब्राहृण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव । अत एव भाष्यकैयटयोःगोमायाद्वृश्चिका जायन्ते॑ गोलोमाऽविलोमभ्यो दूर्वा जायन्ते॑ इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यवायवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवं चब्राहृणः प्रजाः प्रजायन्ते॑ इत्यत्र ब्राहृशब्देन मायोपहितमीआरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।
janikartuḥ prakṛtiḥ — janikartuḥ prakṛtiḥ. "jani" = jananam = utpatti (origination). "janī prādurbhāve," a root of the fourth (daivādika) class, intransitive (akarmaka). By "iṇjādibhyaḥ," the [affix] iṇ in the sense of bhāva. By the prohibition "janivadhyośca," there is no vṛddhi of the penultimate (nopadhāvṛddhi). The analysis is "the agent of jani" (janeḥ kartā); the compound is by the genitive-of-remainder (śeṣa-ṣaṣṭhī). The prohibition "tṛjakābhyāṃ kartari" [against such a compound], however, applies only to the kāraka-genitive, as will be stated. jāyamānasya (Bhaṭṭoji's word) — from the root jan, in the agentive sense, śānac for laṭ; the vikaraṇa śyan; by "jñājanor jā" [the jā-substitute]; the muk augment [by "āne muk"] → jāyamāna. Meaning: "of that which is the locus of origination (utpatty-āśraya)." The word "prakṛti" he glosses as "hetuḥ" (cause). brahmaṇa iti — meaning "from Hiraṇyagarbha." His being the efficient cause (nimitta-kāraṇa) in the production of creatures, like the potter etc. in [the production of] pots etc. — this is the point [of the Vṛttikāra].
This view of the Vṛttikāra is incorrect (ayuktam), because [the ablative] is already established by "dhruvam apāye" itself, owing to the presence of conjunction-and-separation (saṃyoga-viśleṣa). Hence here in the root text the word "hetu" refers only to the material cause (upādāna-kāraṇa). Precisely for this reason, the rejection (pratyākhyāna) by the Bhāṣyakāra and Kaiyaṭa is coherent: citing "gomayād vṛścikā jāyante" ("scorpions are born from cow-dung") and "golomāvilomabhyo dūrvā jāyante" ("dūrvā-grass is born from cow-hair and sheep-hair"), [they hold that] even though in the transformations there is the continuity of the material substance (prakṛti-dravya) and of the pervading [air], yet, owing to the presence of a mentally-constructed separation (buddhikṛta-viśleṣa), it is established by "dhruvam apāye" alone. And thus, in "brahmaṇaḥ prajāḥ prajāyante," by the word "brahman" is intended precisely the consciousness of Īśvara conditioned by māyā (māyopahita-īśvara-caitanya); for that is the material cause of all effects (sarva-kārya-upādāna) — such is the Vedānta doctrine (vedānta-siddhānta).
translator notes
- textual The digital source corrupts a few forms, translated per the evident readings but not emended: īśvara-caitanyam appears as īāra-caitanyam; the jā-substitution phrase 'jñājanor jā' āne muk runs together in the source.
SK 594 · A 1.4.31कारकसंज्ञा
भुवः प्रभवः ॥ ५९४ ॥
bhuvaḥ prabhavaḥ
bhuvaḥ prabhavaḥ — 1.4.31. That which is the prabhava (source, point of first origin) of the agent (kartṛ) of [the root] bhū receives the apādāna (ablative) designation.
Rule. The point of first origin (prabhava) of the agent of bhū (come into being) is likewise named apādāna.
Example.
himavat + gaṅgā prabhavati "the Gaṅgā rises from the Himālaya" → the mountain is where the river first appears → himavato gaṅgā prabhavati.
Applies when / blocked by. Bhaṭṭoji attaches several vārttikas here. When an absolutive in lyap is dropped, its object and its locus take the ablative: prāsādāt prekṣate "he looks from the palace" (for "having climbed the palace"), āsanāt prekṣate "from the seat" (for "having sat on the seat"), śvaśurāj jihreti "he is bashful before his father-in-law" (for "having seen him"). An action only implied still prompts a kāraka's case-ending: kasmāt tvam? nadyāḥ "Where are you from? From the river." The point from which a distance or a time is measured takes the ablative, and the distance-word then takes the first or the seventh case, a time-word the seventh: vanād grāmo yojanaṃ / yojane "the village is a yojana from the forest", kārtikyā āgrahāyaṇī māse "the Āgrahāyaṇī full moon is a month from the Kārtikī".
Siddhānta-kaumudī
भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥
bhavana ("coming-into-being / existing") is [the sense of] bhū. The prabhava
(source, point of origin) of the agent (kartṛ) of bhū [takes apādāna] likewise.
himavato gaṅgā prabhavati — "the Gaṅgā originates from the Himavat" (himavataḥ,
ablative); the meaning is "it first becomes manifest (prakāśate) there."
vārttikaल्यब्लोपे कर्मण्यधिकरणे च
(vārttika) lyablope karmaṇy adhikaraṇe ca — When [an absolutive in] lyap is elided,
[the ablative (pañcamī) is used] for its karman (object) and its adhikaraṇa (locus).
(वार्तिकम्) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥
(vārttika, illustrated:) prāsādāt prekṣate — "he looks out from the palace"; āsanāt
prekṣate — "he looks from the seat"; the meaning is "having climbed the palace
(prāsādam āruhya) he looks; having sat on the seat (āsane upaviśya) he looks" [the
lyap-forms āruhya / upaviśya being elided, their object prāsāda and locus āsana take
the ablative]. śvaśurāj jihreti — "he is bashful [turning away] from the
father-in-law" (śvaśurāt, ablative), meaning "having seen the father-in-law
(śvaśuraṃ vīkṣya)."
vārttikaगम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्
(vārttika) gamyamānāpi kriyā kārakavibhaktīnāṃ nimittam — An action, even when
[merely] implied (gamyamāna) [and not overtly expressed], is the occasion (nimitta)
for the kāraka case-endings.
(वार्तिकम्) ॥ कस्मात्त्वं नद्याः ॥
(vārttika, illustrated:) kasmāt tvam? — nadyāḥ — "[Coming] from where are you? —
From the river" [the action "come" being only implied, the ablative nadyāḥ still
applies].
vārttikaयतश्चाध्वकालनिर्माणं तत्र पञ्चमी
(vārttika) yataś cādhva-kāla-nirmāṇaṃ tatra pañcamī — And from whatever [limit] the
measuring (delimitation) of a road-distance (adhvan) or of time (kāla) [is
reckoned], there the fifth case (pañcamī, ablative) [occurs].
(वार्तिकम्) ।
(vārttika — no illustration is supplied here.)
vārttikaतद्युक्तादध्वनः प्रथमासप्तम्यौ
(vārttika) tad-yuktād adhvanaḥ prathamā-saptamyau — After a road-distance word
(adhvan) connected with that [ablative], the first case (prathamā, nominative) and
the seventh case (saptamī, locative) [occur].
(वार्तिकम्) ।
(vārttika — no illustration is supplied here.)
vārttikaकालात्सप्तमी च वक्तव्या
(vārttika) kālāt saptamī ca vaktavyā — And after a time-word (kāla) [connected with
that ablative], the seventh case (saptamī, locative) is to be prescribed.
(वार्तिकम्) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥
(vārttika, illustrated:) vanād grāmo yojanaṃ yojane vā — "from the forest the
village is a yojana [distant]," or "at a yojana" (vanāt, ablative; the road-word in
the nominative yojanam or the locative yojane). kārtikyā āgrahāyaṇī māse — "from the
Kārtikī [full moon] the Āgrahāyaṇī [full moon comes] in a month" (kārtikyā,
ablative; the time-word in the locative māse).
Tattvabodhinī
alignment inferredNSP p. 159—भुवः—॥—भवनं भूरिति । संपदादिलाङ्गावे क्रिप् । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृप्रहणमनुवर्तते स्वरितलादित्याह—भूकर्तुरिति । प्रभवत्यस्मादिति प्रभवः, ‘अक-र्तरि च कारके’ इत्यधिकारादपादानार्थे ‘ऋदोरप्’ । जनिकर्तुरित्येव सिद्धे निरर्थकमिदमित्याशङ्कां परिहरन्नाह—तत्र प्रकाशत इति । प्रथमं दृश्यत इत्यर्थः । एष चार्थो धातूनामनेकार्थलाल्लभ्यते । तथा चाभूतप्रादुर्भावो जनिः । अन्यतः सिद्धस्य प्रथममुपलम्भः प्रभव इत्यर्थभेदोऽस्तीति भावः ॥ ‘भीत्रार्थानाम्’ इत्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता ॥ तत्रेत्थमुपपत्तिसंभवः । ‘चौरेभ्यो विभेति’ भयान्निवर्तत इत्यर्थः, त्रायते रक्षणेन चौरेभ्यो निवर्तयतीत्यर्थः, पराजयते ग्लान्या निवर्तत इत्यर्थः, वारयतीति प्रवृत्तिं प्रतिवप्नन्निवर्तयतीत्यर्थः, निलीयते निलयनेन निवर्तत इत्यर्थः, अधीते उपा-ध्यायान्निःसरन्तं शब्दं गृह्णातीत्यर्थः, ब्रह्मणः प्रपञ्चो जायत इत्यत्रापि ततोऽपकामन्निर्गच्छतीत्यर्थः, प्रभवतीत्यत्रापि भव-नपूर्वकं निःसरणमर्थः तथा च ‘ध्रुवमपाये’ इत्यनेनैवेष्टरूपसिद्धिरिति ॥ वस्तुतस्तु निवृत्तिविस्मरणादिधालन्तरार्थविशिष्टे स्वार्थे वृत्तिमाश्रित्य यथाकथंचिदुक्तप्रयोगाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः नटस्य शृणोतीतिवत् । न ह्युपाध्यायनटयोः क्रियानुकूलव्यापारांशे विशेषो वक्तुं शक्यः । अनभिधानब्रह्मास्रमाश्रित्य प्रत्याख्यानं तु नातीव मनो-रमम् । एवं ‘जुगुप्साविराम’ इत्यादिवार्तिकमप्यारम्भणीयम् । तथा च सूत्रवार्तिकमतमेवेह प्रबलम् । तथा ‘ध्रुवं’ ‘भयहेतुः’ ‘असोढः’ इत्यादिसंज्ञिनिर्देशोऽपि सार्थकः । परलात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां ‘न माषाणामश्रीयात्’ इत्यादाविव षष्ट्या इष्टतया तत्रापादानसंज्ञाया वारणीयत्वात् । एतच्च शब्दकौस्तुभे स्पष्टम् ॥—ल्यब्लोप इति । त्यव-न्तस्य गम्यमानार्थलादप्रयोग इत्यर्थः । त्यव्प्रहणमिह त्यवर्थपरं तेन क्त्वोऽपि लोपे सिध्यति । आसने स्थित्वा प्रेक्षते आसनात्प्रेक्षत इति ॥—यतश्चेति । यदवधित्वेनाश्रित्याध्वनः कालस्य वा निर्माणं परिच्छेदः प्रतिपाद्यते ततः पञ्चमी-त्यर्थः । तेन पञ्चम्यन्तार्थेनार्थद्वारा युक्तान्निर्मीयमाणाध्ववाचिनः प्रथमासप्तम्यौ स्तः ॥—कालादिति । इहापि तद्यु-कादित्यपेक्षते ॥—आग्रहायणीति । अग्रे हायनमस्याः सा । प्रज्ञादेराकृतिगणत्वात् स्वार्थिकोऽण् । ‘पूर्वपदात्संज्ञायाम्’ इति णत्वम्
Bālamanoramā
भुवः प्रभवः - भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह — भूकर्तुरिति । भवनं भूः । संपदादित्वात्क्विप् । भुवः कर्ता भूकर्ता, तस्येत्यर्थः । प्रभव इति । प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानमित्यर्थः ।प्रभवती॑त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः । तदाह — प्रकाशते इत्यर्थ इति । प्रथमं प्रकाशते इति यावत् । अत एव 'हिमवपि प्रकाशते' इत्यत्र न भवति । एतेनजनिकर्तु॑रित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । ल्यब्लोपे इति । ल्यबन्तस्य लोपे= अदर्शने अप्रयोगे सति गम्यमानतदर्थं प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्येतीति । लज्जते इत्यर्थः ।नन्वत्र ल्यबन्तस्य प्रयोगाऽभावात्कथं तदर्थं प्रति कर्माद्यवगतिरित्यत आह — गम्यमानापीति । प्रकरणादिनेत्यर्थः ।गम्यमानापी॑त्यस्य प्रयोजनान्तरमाह — कस्मात्त्वमिति ।आगतोऽसी॑ति गम्यमानक्रियापेक्षमपादानत्वगिति भावः । 'नद्या' इत्युत्तरम् ।आगतोऽस्मी॑ति गम्ययानक्रियापेक्षमपादानत्वमिति भावः । यतश्चेति । 'यत' इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः=इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् ।तत्र पञ्चमी॑ति पाठेऽप्ययमेवार्थः । तद्युक्तादिति । तेन=पञ्चम्यन्तेन युरक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये॑ इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या॑ इति वाक्यान्तरम् । तद्युक्तादित्यनुषज्यते । तेन=पञ्चम्यन्तेन अन्वितात्कालवाचिनः सप्तमी वक्तव्येत्यर्थः । वनादिति । अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादाभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः । वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः । अवधिसत्वसत्त्वेऽपि विश्लेषाऽप्रतीतेध्र्रुवमित्यपादानत्वाऽभावाद्वचनम् । कार्तिक्या इति । कार्तिक्या मासे आग्रहायणीत्यन्वयः । अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मासे इति सप्तम्यास्तु स्वोत्तराऽव्यवहितकालवृत्तित्वमर्थः । कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः ।
bhuvaḥ prabhavaḥ — The mention of "kartṛ" (agent), though stated within the
compound in the previous sūtra ["janikartuḥ prakṛtiḥ," A 1.4.30], is carried forward
(anuvartate) here by the force of the declaration of a svarita-accent
(svaritatva-pratijñā) on that part [of the compound]. He states this: "of the agent
of bhū (bhū-kartuḥ)." bhavanaṃ bhūḥ — the word "bhū" [is the action-noun
"coming-into-being"], with kvip by [its inclusion in] the saṃpad-ādi [class];
"bhū-kartṛ" = "the agent of bhū (existing/arising)"; the meaning is "of that
[agent]." "prabhava": prabhavati = "first becomes manifest (prathamaṃ prakāśate) in
it," hence prabhava = "the place of first manifestation (prathama-prakāśa-sthāna)."
But if "prabhavati" were taken in the sense "is produced (utpadyate)," there would
be incongruity, since the Gaṅgā is not [literally] produced there [in the Himavat];
so he states "the meaning is prakāśate," i.e. "first becomes manifest." For this
very reason [the designation] does not apply in "himavati prakāśate" ["it shines on
the Himavat" — where there is no "first-origin" sense]. By this ["first
manifestation"] interpretation the [alleged] redundancy through "janikartuḥ
[prakṛtiḥ]" (A 1.4.30) and through "dhruvam apāye" (A 1.4.24) is set aside. In the
Bhāṣya, however, relying on the sense "moves away (apakrāmati)," it is settled that
[the form] is established by "dhruvam apāye" alone.
"lyablope": the meaning is that when there is elision (lopa — non-appearance,
non-use) of a lyap-ending [absolutive], the ablative (pañcamī) is to be prescribed
for the karman and the adhikaraṇa with respect to the understood sense of that
[elided form]. "jihra": meaning "is ashamed (lajjate)." Objection: Here, since no
lyap-ending word is [actually] used, how is the karman and the rest cognized with
respect to its sense? To this he says "gamyamānāpi" — meaning "through the context
(prakaraṇa) and the like [the action is understood]." He states a further purpose of
"gamyamānāpi": "kasmāt tvam"; the apādāna-status is with respect to the implied
action "āgato 'si" ("you have come") — this is the idea; "nadyāḥ" ("from the river")
is the answer; [likewise] the apādāna is with respect to the implied action "āgato
'smi" ("I have come").
"yataś ca": the affix tasi [in "yataḥ"] is in the sense of the third case
(tṛtīyā). By whatever limit (avadhi) the measuring (nimāna) — that is, the
delimitation (pariccheda), the [determinate] quantity (iyattā) — of a road-distance
or of time is understood, from that the pañcamī is to be prescribed: this is one
[vārttika-]sentence. Even in the reading "tatra pañcamī" this is the very same
meaning. "tad-yuktāt": after a road-distance word (adhva-vācin) connected with
(yukta = anvita) that (tena = the ablative-ending word), the prathamā and saptamī
are to be [used]: this is the second sentence. "kālāt saptamī ca vaktavyā" is
another sentence; "tad-yuktāt" is supplied by continuation (anuṣaṅga): after a
time-word (kāla-vācin) connected with that (the ablative-ending word), the saptamī
is to be prescribed.
"vanāt": here the road-measure amounting to a yojana is delimited by the forest as
the prior limit (pūrva-avadhi), since the expectancy "starting from where is it a
yojana?" arises. "yojane / yojanam": the sense of the nominative and locative too is
"residing in the region immediately following (sva-uttara-avyavahita-deśa) [the
limit]"; i.e., "the village is in the region following the yojana whose prior limit
is the forest." Even though a limit is present, because separation (viśleṣa) is not
cognized there is no apādāna by "dhruvam [apāye]"; hence this [special
vārttika-]statement. "kārtikyā": the construal is "from the Kārtikī, in a month, the
Āgrahāyaṇī"; here the time-measure amounting to a month is delimited by the Kārtikī
[full moon] as the prior limit, since the expectancy "starting from where is it a
month?" arises. "māse": the sense of the locative is "residing in the time
immediately following [the limit]"; i.e., the Āgrahāyaṇī (Mārgaśīrṣa full moon) is
in the time following the month whose prior limit is the Kārtika full moon.
translator notes
- textual The digital source reads 'himavapi prakāśate'; the evidently intended reading is 'himavati prakāśate' (locative), which the translation follows.
- textual For the phrase rendered 'even though a limit is present,' the source prints a dittography 'avadhi-sattva-sattve 'pi'; read 'avadhi-sattve 'pi.'
SK 595 · A 2.3.29V
अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते ॥ ५९५ ॥
anyārāditarartedikchabdāñcūttarapadājāhiyukte
anyārāditarartedikchabdāñcūttarapadājāhiyukte — 2.3.29 (a vibhakti rule). In construction (yukta) with [any of] anya, ārāt, itara, ṛte, a direction-word (dikśabda), a word whose final member is añc (añcūttarapada), the affix āc, or the affix āhi, the fifth case (pañcamī) is used [for the fixed limit].
Rule. The fifth case-ending is added to a word construed with anya "other", ārāt "far / near", itara "other", ṛte "except", a direction-word (dikśabda), a word ending in añc, or the affixes āc and āhi.
Example.
kṛṣṇa + anya → anyaḥ kṛṣṇāt "other than Kṛṣṇa"; likewise bhinnaḥ, itaro vā kṛṣṇāt.
ārād vanāt "far from the forest"; ṛte kṛṣṇāt "except Kṛṣṇa"; pūrvo grāmāt "east of the village".
prāk / pratyag grāmāt "east / west of the village" (words in añc); dakṣiṇā grāmāt (affix āc); dakṣiṇāhi grāmāt "far to the south of the village" (affix āhi).
Applies when / blocked by. Anya stands for its meaning, so every word for "other" counts; itara is listed only for illustration. A direction-word keeps the ablative even when used of place or time: caitrāt pūrvaḥ phālgunaḥ "Phālguna is before Caitra". But not when the word names a part: pūrvaṃ kāyasya "the front of the body", as the wording of SK 83 shows. Words in añc are direction-words already; they are listed separately to block the genitive that SK 609 would give. Two more ablatives rest on hints. From the Mahābhāṣya's own usage kārtikyāḥ prabhṛti, the ablative with words meaning "from ... onward": bhavāt prabhṛti / ārabhya sevyo hariḥ "Hari is to be served from birth onward". From the compound rule apaparibahiḥ (SK 666), the ablative with bahis: grāmād bahiḥ "outside the village".
Siddhānta-kaumudī
एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् SK 83 इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ SK 609 इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी SK 587 इति सूत्रे कार्तिक्याः प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः SK 666 इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥
In construction with these [eight] the fifth case (pañcamī) occurs. "anya" is taken by its meaning [i.e. it stands for any word meaning "other," not the word anya alone]. The mention of "itara" is for illustration (prapañca). [Examples:] anyo / bhinno / itaro vā kṛṣṇāt — "other than / different from / distinct from Kṛṣṇa" (kṛṣṇāt, ablative). ārād vanāt — "far from, or near to, the forest." ṛte kṛṣṇāt — "except Kṛṣṇa." pūrvo grāmāt — "[situated] to the east of the village." A word seen [in usage] to denote a direction is a "direction-word" (dikśabda); thereby [the fifth case] occurs even in construction with such a word now functioning in the sense of place or time: caitrāt pūrvaḥ phālgunaḥ — "Phālguna is before Caitra." But not in construction with a word denoting a part (avayava), because of the wording "tasya param āmreḍitam" (SK 83): pūrvaṃ kāyasya — "the fore-part of the body" (genitive, not ablative). As for a word whose final member is añc (añcūttarapada): although it is already a direction-word, it is mentioned separately in order to block the genitive that would be prescribed by "ṣaṣṭhy-atasarthe..." (SK 609): prāk pratyag vā grāmāt — "to the east or the west of the village." The affix āc: dakṣiṇā grāmāt — "to the south of the village." The affix āhi: dakṣiṇāhi grāmāt — "far to the south of the village." In the [Bhāṣya on the] sūtra "apādāne pañcamī" (SK 587), because of the Bhāṣya's usage "kārtikyāḥ prabhṛti," the fifth case [also] occurs in construction with a word meaning "prabhṛti" (from... onward): bhavāt prabhṛti, or ārabhya, sevyo hariḥ — "Hari is to be served from birth onward." And because the prescription of the compound in "apaparibahiḥ..." (SK 666) serves as an indicator (jñāpaka), the fifth case occurs in construction with "bahiḥ": grāmād bahiḥ — "outside the village."
Tattvabodhinī
NSP p. 159–160—अन्यारा—॥—अर्थप्रहणमिति । व्याख्यानादिति भावः ॥—प्रपञ्चार्थमिति । न च ‘इतरस्त्व- न्यनीचयोः इत्यमरोक्तेर्नाचार्थस्येदं ग्रहणमस्तीति वाच्यम् । ‘अस्मात्तारो मन्द्रो वा’ इतिवत् ‘पञ्चमी विभक्ते’ इत्यनेनैव सिद्धत्वात् ॥—अन्यो भिन्न इतरो वेति । न चैवं घटः पटो नेत्यत्रातिप्रसङ्गः नञोऽपि भेदे शक्तत्वादिति वाच्यम् । निपातानां योतकत्वमेव न तु वाचकत्वमित्यभ्युपगमात् ॥—आराद्वनादिति । इह ‘दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्’ इति प्राप्तम् ॥—ऋते कृष्णादिति । कथं तर्हि ‘फलति पुरुषाराधनमृते’ इति प्रयोग इति चेत् । प्रमादोऽयमिति हरदत्तः । अन्ये तु ‘ततोऽन्यत्रापि दृश्यते’ इति दृशिग्रहणाच्चैत्रं यावच्छीतमित्यादाविव ऋतेयोगे द्वितीयापि साधुरित्याहुः ॥ अस्मिन् व्याख्याने ‘ऋते द्वितीया च’ इति चान्द्रसूत्रमनुकूलम् ॥—दिशि दृष्ट इति । रूढ्येति शेषः । तेनैन्द्रादयो नात्र गृह्यन्ते ॥ नन्वेवं ककुभादिग्रहणप्रसङ्ग इति चेत् । अत्राहुः । अन्यतरसाहचर्याद्याख्यानाद्वा दिग्भिन्नेऽर्थे यो न दृष्टः सोऽत्र गृह्यत इति ॥—दिक्शब्दत्वेऽपीति । यद्यपि दिक्शब्दोऽप्यङ्कृतरपदमस्ति सभ्यङ्कित्यादिः, तथापि दिक्शब्दसाहचर्याद्यङ्कृतरपदेन प्रागित्यादिदिक्शब्द एव गृह्यते । तेन सध्यङ् देवदत्तेनेत्यत्र नातिप्रसङ्ग इति भावः ॥—दक्षिणा ग्रामादिति । दिक्शब्दत्वेनैव सिद्धे आजाहिग्रहणं चिन्त्यप्रयोजनमित्याहुः ॥—प्रभृतियोग इति । प्रभृत्यर्थैर्योग इत्यर्थः । तथा च ‘कार्तिक्याः प्रभृति’ इति भाष्यं विवृण्वता कैयटेन ‘तत आरभ्य’ इत्यर्थ इति प्रयुक्तम् ॥—ग्रामाद्वहिरिति । ‘ज्ञापकसिद्धं न सर्वत्र’ । तेन ‘करस्य करभो वहिः’ इति सिद्धम् ॥—अपपरीति—। वर्जने किम् । परिषिञ्चति । सर्वत् इत्यर्थः । अत्रोपसर्गत्वात् षत्वम् ॥—वचनग्रहणादिति । विना तेनेति मर्यादा, सह तेनेत्यभिविधिः इत्यत्र य उपातो विशेषो विशेषणांशरूपः सोऽत्र न गृह्यते वचनग्रहणसामर्थ्यात्, किं तु अवधिमात्रं विवक्ष्यते इत्यर्थद्वयसंग्रहः ॥ यद्वा मर्यादाशब्दो यस्मिन्नुच्यते तत् मर्यादावचनं तद्धि ‘आङ्मर्यादाभिविध्योः’ इति सूत्रं, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः ॥—परिहरेरिति । हरिं वर्जयित्वेत्यर्थः । ‘परेर्वर्जने वा वचनम्’ इति वार्तिकात् पक्षे द्विर्वचनाभावः ॥—परिरत्रेति । अत्र पञ्चमीविधौ वर्जनार्थेनापेन साहचर्यादिति भावः ॥—आमुक्तेरिति । मुक्तिं मर्यादीकृत्येत्यर्थः ॥—आसकलादिति । सकलमभिव्याप्येत्यर्थः
Bālamanoramā
अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते - अन्यारात् । युक्त इति भावे क्त इत्याह-एभिर्योगे इति । अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि एतैरष्टभिर्योगे सतीत्यर्थः । भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह — अन्येत्यर्थग्रहणमिति । व्याख्यानादिति भावः । अन्यार्थकशब्दयोगे पञ्चमीति फलितम् । तर्हितरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह — इतरग्रहणं प्रपञ्चार्थमिति ।पचि विस्तारे॑ । अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति । भेदवान्विलक्षण इत्याद्युपलक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः । षष्ठपवादोऽयम् । अन्यादिशब्दानामवधिनियमसत्त्वेऽपि संयोगविश्लेषाऽभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि । आराद्वनादिति । वनस्य दूरं समीपं वेत्यर्थः । 'आराद्दूरसमीपयोः' इत्यमरः । ऋते कृष्णादिति । 'ऋते' इत्येकारान्तमव्ययम् । 'ऋते वर्जने' इत्यमरः । कृष्मस्य वर्जने सुखं नास्तीत्यर्थः ।क्व कर्मप्रध्वंसः फलति पुरुषाराधनमृते॑ इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः ।ततोन्यत्रापि दृश्यते॑ इति वा द्वितीया ।ऋते द्वितीया चे॑ति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदाहरति — पूर्वो ग्रामादिति । ग्रासावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननुचैत्रात्पूर्वः फाल्गुन॑ इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाऽभावात्कथं तद्योगे पञ्चमीत्यत आह — दिशि दृष्ट इति । रूढआ दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते नत्वैन्द्रीककुबादयः । संप्रतीति । कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह — अवयववाचीति । तस्य परमिति । तस्येति हि प्रकृतं द्विरुक्तं पराभृशति । द्विरुक्तस्य परं=परावयवभूतमाम्रेहितमिति तदर्थः । पूर्वं कायस्येति । शसीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुरुत्तरपदं यस्य स अञ्चूत्तरपदः=प्रागादिदिक्छब्दः, नतु सध्र्यङ् इत्यादिशब्दोऽपि, दिक्शब्दसाहचर्यात् । तेन सध्र्यङ् देवदत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह — अञ्चूत्तरपदस्येति.॒षष्ठतसर्थे॑त्नन्तरंपरत्वात्प्राप्ता॑मिति शेषः । प्राक् प्रत्याग्वा ग्रामादिति । ग्रामावधिक इत्यर्थः । आजिति । अच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम् । दक्षिणा ग्रामादिति । ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति । आहिप्रत्ययान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति । ग्राभावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । 'आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपिषष्ठतसर्थे॑ति षष्ठीं बाधितुं पृथग्ग्रहणम् । नन्वेवमपिभवात्प्रभृत्यारभ्य वा सेव्यो हरिः॑ इत्यादौ कथं पञ्चमी, अन्यादिशब्दयोगाऽभावादित्यत आह — अपादाने इति । प्रभृतियोगे इति । प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि — ॒अपादाने पञ्चमी॑ति सूत्रे भाष्येयतश्चाध्वकालनिमानमि॑ति वार्तिकं पठित्वा कार्तिक्या आग्रहायणी मासे इत्युदाहृत्यइदं न वक्तव्यमि॑ति तद्वार्तिकप्रत्याख्यानमुपक्षिप्यइदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे॑ इत्युक्तम् । प्रभृतिशब्दाऽभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं वदता भाष्यकृताप्रभृत्यर्थकशब्दयोगे पञ्चमी॑ति वचनं ज्ञाप्यते । अन्यथा पञ्चम्यर्थं वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । एवंच प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव चकार्तिक्याः प्रभृति॑ इति भाष्यव्याख्यावसरे 'तत आरभ्येत्यर्थ' इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत्सर्वमभिप्रेत्योदाहरति — भवात्प्रभृत्यारभ्य वेति । भवः=उत्पत्तिः । आरभ्येत्यस्यावधिं परिगृह्रेत्यर्थः । प्रभृतीत्यव्ययमप्येतदर्थकमेव । भवमवधिं परिगृह्र हरिः सेव्य इत्यर्थः । उत्तपत्तिक्षणात्मकपूर्ववधिकोत्तरकाले सर्वदा आमरणं हरिः सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां द्वितीयैव,उपपदविभक्तेः कारकविभक्तिर्बलीयसी॑त्युक्तेः । यथासूर्योदयमारभ्य आऽस्तमयाज्जपती॑त्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात्पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दार्थस्यावधिं परिगृह्रेत्यस्यावध्यादिघटित्वेन क्रियात्वाऽभावात् । अपपरीति । बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्यअपपरिबहिरञ्चवः पञ्चम्या॑ इति समासविधानाद्बहिश्शब्दयोगे पञचमी विज्ञायते इत्यर्थः । इदंचअपपरी॑ति सूत्रे भाष्ये स्पष्टम् । 'करस्य करमो बहिः' इति त्वसाध्वेव ।ज्ञापकसिद्धं न सर्वत्रे॑ति वा कथञ्चित्समाधेयम् ।
anyārāditarartedikchabdāñcūttarapadājāhiyukte — anyārāt. [The word] "yukta" [in the sūtra] takes the -kta affix in the abstract (bhāva) sense; this he states with "in construction with these" (ebhir yoge): the meaning is "when there is construction with these eight — anya, ārāt, itara, ṛte, a direction-word, a word ending in añc, the affix āc, [and] the affix āhi."
To establish the fifth case in construction with words like "bhinna," he says "anya is taken by its meaning (anya ity artha-grahaṇam)"; the idea being that this is known from the [traditional] explanation (vyākhyāna). The upshot: the fifth case occurs in construction with a word bearing the sense of "anya" (other). [Objection:] Then the mention of "itara" is purposeless, since [the fifth case] is already established by itara's own having the sense of "anya." In response he says "the mention of itara is for illustration (prapañca)." [The word prapañca derives from √paci in the sense of expansion.] That is to say, it serves to state the purpose of [taking] the word "anya" as an indication (upalakṣaṇa) of [all] words meaning "other."
On "anyo bhinna itaro vā": this is an indication [covering also] "bhedavān" (possessing difference), "vilakṣaṇa" (dissimilar), and the like. The meaning is "possessing a difference whose counter-correlate (pratiyogin) is Kṛṣṇa" [i.e. one that differs from Kṛṣṇa]. This [rule] is an exception (apavāda) to the genitive (ṣaṣṭhī). Although the words "anya" etc. involve a fixed limit (avadhi-niyama), because there is no disjoining from a prior conjunction (saṃyoga-viśleṣa), the apādāna designation does not apply [and so the fifth case cannot come by apādāna, requiring this special rule]. Likewise in what follows.
On "ārād vanāt": the meaning is "far from, or near to, the forest"; Amara [says] "ārāt [is used] in [the senses of] far and near." On "ṛte kṛṣṇāt": "ṛte" is an indeclinable ending in -e; Amara: "ṛte [is used] in [the sense of] exclusion (varjana)." The meaning is "in excluding Kṛṣṇa there is no happiness." The usage "kva karma-pradhvaṃsaḥ phalati puruṣārādhanam ṛte" — found in a hymn contained in the Śiva-rahasya, where "ṛte" governs an accusative — is however ārṣa (a seer's liberty); or the accusative there arises by "tato 'nyatrāpi dṛśyate," or "ṛte dvitīyā ca" is a Cāndra sūtra [prescribing the accusative with ṛte].
Now he illustrates construction with a direction-word: "pūrvo grāmāt" — the meaning is "situated in the eastern direction with the village as the limit." Objection: in "caitrāt pūrvaḥ phālgunaḥ," since the word "pūrva" denotes time and not direction, how can the fifth case arise in construction with it? In response he says "seen [in the sense of] direction (diśi dṛṣṭaḥ)": by convention (rūḍhi) only pūrva and the rest, which denote specific directions, are taken, not [derivative terms] like "aindrī," "kauberī" [the quarter of Indra, of Kubera, and so on]. On "samprati" ("presently"): the meaning is that with words that [normally] denote direction but now denote time as well, the fifth case occurs in construction. Objection: this being so, [the fifth case] would arise in "pūrvaṃ kāyasya" too. In response he says "denoting a part (avayava-vācin)." On "tasya param": "tasya" [in the sūtra tasya param āmreḍitam, SK 83] refers back to the doubled (dvir-ukta) word under discussion; "param" of the doubled word means "the āmreḍita, which is its latter member (parāvayava)" — that is its sense [and this very wording, treating pūrva/para as denoting a member, is the jñāpaka]. On "pūrvaṃ kāyasya": the meaning is "the anterior member of the body." A word whose final member is the root añcu is an "añcūttarapada" — i.e. a direction-word such as prāñc, but not also a word like "sadhryañc," because of the association with dikśabda [in the sūtra]. Hence in "sadhryaṅ devadattena" the fifth case does not occur. Objection: since these are already established by being direction-words, the mention of añcūttarapada is purposeless. In response he says "of añcūttarapada...": [supply] "in order to block the genitive that would be obtained by 'ṣaṣṭhy-atasarthe...' owing to that rule's posteriority (paratva)."
On "prāk pratyag vā grāmāt": the meaning is "having the village as the limit." On "āc": this signals that an example of construction with a word ending in the affix "ac" is to be stated. On "dakṣiṇā grāmāt": the meaning is "in the southern direction with the village as the limit." On "āhi": this signals an example of construction with a word ending in the affix "āhi." On "dakṣiṇāhi grāmāt": the meaning is "far off, in the southern direction, with the village as the limit"; the affix "āhi" [is taught by] "āhi ca dūre" [added in the sense of 'far']. Although the words ending in the affixes āc and āhi are direction-words, they are mentioned separately in order to block the genitive [that would come] by "ṣaṣṭhy-atasarthe..."
Objection: even so, in "bhavāt prabhṛti / ārabhya vā sevyo hariḥ" and the like, how does the fifth case arise, there being no construction with words like "anya"? In response he says "apādāne..." [SK 587]. On "in construction with prabhṛti": the meaning is "in construction with a word bearing the sense of prabhṛti (from... onward)." To explain: in the Bhāṣya on the sūtra "apādāne pañcamī," having recited the vārttika "yataś cādhvakālanirmāṇam" ("and [the fifth case] from that whence measurement of road-distance or time is reckoned") and illustrated it with "kārtikyā āgrahāyaṇī māse" ("Āgrahāyaṇī is a month from Kārtikī"), and then raising the retraction of that vārttika, "idaṃ na vaktavyam" ("this need not be stated"), it is said: "this ought to be employed here yet is not employed — [rather] 'kārtikyāḥ prabhṛty āgrahāyaṇī māse'" [with prabhṛti understood]. The meaning is: even in the absence of the word "prabhṛti," by the mere presence of its sense the fifth case is established. By speaking thus, the author of the Bhāṣya makes known (jñāpaka) the rule "the fifth case occurs in construction with a word bearing the sense of prabhṛti"; otherwise, since the vārttika would be indispensable for the fifth case, its inconsistency [with the retraction "idaṃ na vaktavyam"] would be evident. And thus the fifth case occurs even in construction with synonyms of the word "prabhṛti." For this very reason, in explaining the Bhāṣya's "kārtikyāḥ prabhṛti," Kaiyaṭa says "the meaning is 'starting from that' (tata ārabhya)"; for there "tataḥ" is the tasi [suffix] of the fifth case.
Having all this in view he illustrates: "bhavāt prabhṛti / ārabhya vā." "bhava" = origination (utpatti, birth); "ārabhya" means "taking [something] as the limit (avadhi)"; the indeclinable "prabhṛti" too has just this sense. The meaning: "taking birth as the limit, Hari is to be served" — that is, in all the later time whose prior limit is the moment of origination, always, until death, Hari is to be served. Here, with reference to the action "ārabhya," when object-status (karmatva) is intended [for bhava], the accusative alone [is used], because it is said "a kāraka-case is stronger than a collocational (upapada) case (upapada-vibhakteḥ kāraka-vibhaktir balīyasī)" — as in "sūryodayam ārabhya āstamayāj japati" ("he recites from sunrise until sunset") and the like. But when a mere relation (śeṣatva) is intended, the genitive being blocked, the fifth case [is used] after the word "bhava." In construction with the word "prabhṛti," however, in the sense of "ārabhya," the accusative never [occurs], because the sense of "prabhṛti" — "having taken a limit" — being composed of "limit" and so forth, is not an action (kriyā) [and hence governs no accusative object].
On "apapari" [the sūtra apaparibahiḥ...]: treating the fifth case in construction with the word "bahiḥ" as already established, from the prescription of the compound in "apa-pari-bahir-añcavaḥ pañcamyā" (these compound with a fifth-case word), it is understood that the fifth case occurs in construction with the word "bahiḥ." This is clear in the Bhāṣya on the sūtra "apapari..." But "...bahiḥ" [with a genitive] is simply ungrammatical; or it may somehow be reconciled by "jñāpaka-siddhaṃ na sarvatra" ("what is established through an indicator does not [apply] everywhere").
Footnotes (NSP 1915 ed.)
NSP p. 160 १ दिशि दृष्ट इति—शब्दग्रहणसामर्थ्यादिति भावः । २ आरभ्येति—अवाचीमारभ्येत्यादौ तु आरभ्येत्यस्य गृहीत्वेत्यर्थः । ३ पञ्चमीति—पंचभ्यपीत्यर्थः । तेन ‘करस्य करभो वहिः’ इत्यपि सूपपादम् । ४ धूमादिति—धूमपदं स्वज्ञाने, अभिमत्पदं च स्वज्ञानविषये लाक्षणिकं वोध्यमिति ।
translator notes
- textual The digital source has several evident OCR garbles, corrected silently to the coherent reading: kṛṣmasya → kṛṣṇasya ('in excluding Kṛṣṇa'); śasīrasya → śarīrasya ('of the body'); grāsāvadhika → grāmāvadhika and grābhāvadhikāyāṃ → grāmāvadhikāyāṃ ('with the village as limit'). The source also carries a dittography of the passage 'yathā sūryodayam ārabhya āstamayāj japati... śeṣatvavivakṣāyām,' collapsed here. Near the end the source reads 'karasya karmo bahiḥ,' which is corrupt; the sense required is a genitive construction with bahiḥ (of the type 'grāmasya bahiḥ'), which Vāsudeva pronounces incorrect — the translation follows that evident sense.
SK 596 · A 1.4.88निपातसंज्ञा
अपपरी वर्जने ॥ ५९६ ॥
apaparī varjane
apaparī varjane — apa and pari [are termed karmapravacanīya] when [used] in the sense of exclusion (varjana).
Rule. Apa and pari are karmapravacanīyas in the sense of exclusion (varjana).
Example.
hari + pari "apart from Hari" → exclusion → pari is a karmapravacanīya → (by SK 598) pari hareḥ.
Siddhānta-kaumudī
एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥
These two [apa and pari], in the sense of exclusion (varjana), are
karmapravacanīya.
Bālamanoramā
अपपरी वर्जने - अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । 'कर्मप्रवचनीयाः' इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात्उपसर्गात्सुनोती॑ति षत्वम् ।
apaparī varjane — apaparī varjane. On "[they] are karmapravacanīya
(karmapravacanīyau staḥ)": the point is that the governing term
"karmapravacanīyāḥ" (plural), inherited by adhikāra, undergoes modification
(vipariṇāma) into the dual, [so as to agree with the dual apaparī]. Why "in the
sense of exclusion (varjane)"? [Consider] pariṣiñcati — meaning "he sprinkles on
all sides (sarvataḥ siñcati)." Here, since [pari] is a preverb (upasarga), the
ṣ-substitution (ṣatva) applies by "upasargāt sunoti…" (A 8.3.65) [i.e. the pari
that is not karmapravacanīya remains an ordinary upasarga and conditions ṣatva —
which is precisely the contrast that fixes the varjana condition here].
SK 597 · A 1.4.89निपातसंज्ञा
आङ् मर्यादावचने ॥ ५९७ ॥
āṅ maryādāvacane
āṅ maryādāvacane — 1.4.89. āṅ, when a limit (maryādā) is expressed, receives the karmapravacanīya designation.
Rule. Āṅ is a karmapravacanīya when a limit (maryādā) is expressed. Because the rule says "expression" (vacana), it covers the inclusive limit (abhividhi) too.
Example.
mukti + ā "up to liberation" → limit → ā is a karmapravacanīya → (by SK 598) ā mukteḥ.
Siddhānta-kaumudī
आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥
āṅ, in [the sense of] maryādā (a boundary/limit), receives the aforesaid
designation (karmapravacanīya). And because of the inclusion of the word "vacana"
(expression), [it applies] also in [the sense of] abhividhi (an inclusive limit).
Bālamanoramā
आङ् मर्यादावचने - आङ्मर्यादावचने । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननुआङ्मर्यादायामि॑त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — वचनग्रहणादिति । तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=आङ्मर्यादाभिविध्योः॑ इति सूत्रम् । तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः । तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः ।
āṅ maryādāvacane — āṅ maryādāvacane. "uktasaṃjña" (having the aforesaid
designation): the meaning is "having the designation karmapravacanīya." Objection:
Since the [rule] would be established simply as "āṅ maryādāyām" ("āṅ in the sense
of a limit"), the inclusion of "vacana" (expression) is pointless. To this he
replies with "vacana-grahaṇāt" (because of the inclusion of "vacana"). "maryādā"
means "exclusive of that" (tena vinā — the limit not taking in the end-point);
"abhividhi" means "inclusive of that" (tena saha — the limit taking in the
end-point). That in which the word maryādā is uttered (ucyate) is "maryādā-vacana"
— namely, the sūtra "āṅ-maryādābhividhyoḥ." The meaning is: the āṅ seen there
receives the designation karmapravacanīya. And so it results that āṅ is
karmapravacanīya in [both] maryādā and abhividhi — this is the idea.
translator notes
- textual The Bālamanoramā refers to the sūtra 'āṅ-maryādābhividhyoḥ' (the avyayībhāva rule) as the passage where the word maryādā occurs; the number is left unassigned here as it is not identified in the source.
SK 598 · A 2.3.10V
पञ्चम्यपाङ्परिभिः ॥ ५९८ ॥
pañcamyapāṅparibhiḥ
pañcamyapāṅparibhiḥ — With apa, āṅ, and pari [used as karmapravacanīya, carried forward], the ablative (pañcamī) is used.
Rule. The fifth case-ending is added to a word construed with the karmapravacanīyas apa, āṅ and pari.
Example.
hari + apa / pari → apa hareḥ, pari hareḥ saṃsāraḥ "saṃsāra lies outside Hari" — pari here excludes.
ā mukteḥ saṃsāraḥ "saṃsāra lasts up to liberation" (limit); ā sakalāt brahma "Brahman reaches up to and including everything" (inclusive limit).
Applies when / blocked by. When pari marks a sign or the other senses of SK 552, the accusative stands: hariṃ pari.
Siddhānta-kaumudī
एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥
In construction with these karmapravacanīyas, the ablative occurs. [Examples:] apa hareḥ, pari hareḥ saṃsāraḥ — 'saṃsāra [exists] apart from Hari.' Here 'pari' is in the sense of exclusion (varjana). But in [the sense of] characterization (lakṣaṇa) etc., [it takes the accusative:] hariṃ pari. ā mukteḥ saṃsāraḥ — 'saṃsāra [lasts] up to liberation.' ā sakalāt brahma — 'Brahman [pervades] up to and including the entirety.'
Bālamanoramā
पञ्चमी अपाङ्परिभिः - पञ्चम्यपाङ्परिभिः । एतैरिति । अप आङ् परि-इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ।कर्मप्रवचनीययुक्ते॑ इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः परि हरेः संसार इति । अपहरेः संसारः, परिहरेः संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननुवृक्षं प्रति विद्योतते॑, 'भक्तो हरिं प्रति' इत्यादौलक्षणेत्थंभूते॑ति कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीया॑ इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वापञ्चम्यपाङ्परिभि॑रिति पञ्चमी स्यादित्यत आह — परिरत्रेति 'पञ्चम्यपाङ्परिभिः' इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः । आ मुक्तेरिति । मुक्तेः प्रागिति यावत् । आ सकलादिति । ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः ।
pañcamyapāṅparibhiḥ — 'etaiḥ' means 'by these: apa, āṅ, pari.' 'karmapravacanīyaiḥ' [is understood] because 'karmapravacanīya' carries forward (anuvṛtti) from '[karmapravacanīya]yukte...' On 'apa hareḥ pari hareḥ saṃsāraḥ': the construction is 'apa hareḥ saṃsāraḥ, pari hareḥ saṃsāraḥ'; the meaning is that transmigration (saṃsaraṇa), consisting of the wheel of birth and death, [exists] excluding Hari.
Objection: in [examples] like 'vṛkṣaṃ prati vidyotate' ('it shines toward the tree') and 'bhakto hariṃ prati' ('the devotee [turns] toward Hari'), since [such a particle] is karmapravacanīya by 'lakṣaṇetthaṃbhūta...', the accusative would apply by 'karmapravacanīyayukte dvitīyā'; now, blocking that accusative — both by posteriority (paratva) and by being an exception (apavāda) — the ablative would result by 'pañcamyapāṅparibhiḥ' [so would this rule not wrongly give the ablative in the lakṣaṇa sense too?]. To this he says 'parir atra...': in 'pañcamyapāṅparibhiḥ,' because of association (sāhacarya) with 'apa,' which means exclusion (varjana), 'pari' too is taken as meaning only exclusion. On 'ā mukteḥ': that is, 'up to (before) liberation.' On 'ā sakalāt': the meaning is that Brahman exists pervading everything inclusively (abhivyāpya).
translator notes
- textual The BM pratīka is printed 'pañcamī apāṅparibhiḥ' in the source; the sūtra itself reads 'pañcamyapāṅparibhiḥ' (with sandhi). The bold lemma renders the sūtra.
SK 599 · A 1.4.92निपातसंज्ञा
प्रतिः प्रतिनिधिप्रतिदानयोः ॥ ५९९ ॥
pratiḥ pratinidhipratidānayoḥ
prati is termed karmapravacanīya in the senses of pratinidhi (proxy, substitution) and pratidāna (giving in return).
Rule. Prati is a karmapravacanīya in the senses of substitution (pratinidhi) and giving in return (pratidāna).
Example.
kṛṣṇa + prati "in place of Kṛṣṇa" → substitution → prati is a karmapravacanīya → (by SK 600) kṛṣṇāt prati.
Siddhānta-kaumudī
एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥
In these two senses [pratinidhi and pratidāna], prati bears the aforementioned saṃjñā (uktasaṃjña) [namely karmapravacanīya, stated earlier].
Bālamanoramā
प्रतिः प्रतिनिधिप्रतिदानयोः - प्रतिनिधि । अत्रेति सूत्रोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठर्थे पञ्चमी, अस्मादेव निर्देशात् ।कृष्णस्य प्रतिनिधिः॑ इति तुज्ञापकसिद्धं न सर्वत्रे॑ति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति । युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थः सादृश्यम् । प्रतिस्तु तद्द्योतकः । तिलेभ्य इति । ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी ।
pratiḥ pratinidhipratidānayoḥ — On "pratinidhi": "atra" [in the base text] means "in the domain stated by the sūtra (sūtrokta-viṣaya)." In the sūtra [pratinidhipratidāne ca yasmāt, A 2.3.11], the [ablative] "yasmāt" is a pañcamī (ablative) used in the sense of the genitive (ṣaṣṭhī), on the strength of that very form of statement (nirdeśa). But [the usage] "kṛṣṇasya pratinidhiḥ" ("Kṛṣṇa's proxy," with genitive) is established by an indicator (jñāpaka); this is to be resolved by [the maxim] "na sarvatra" ([the ablative rule does] not [apply] everywhere). And so what results is this sense: the pañcamī (ablative) is used after that [word] — construed with the karmapravacanīya [prati] — connected with which the pratinidhi (proxy) or pratidāna (repayment) occurs. On "pradyumnaḥ kṛṣṇāt prati": the meaning is that in battle and so on Pradyumna possesses a likeness (sādṛśya) determined with reference to Kṛṣṇa [i.e. stands as Kṛṣṇa's proxy]. The sense of the pañcamī (ablative) is likeness (sādṛśya); prati is [merely] its indicator (dyotaka). On "tilebhyaḥ [prati]": the meaning is that he gives back the sesame seeds taken as a loan (ṛṇatvena), either in their own form or in the form of their price and the like. This is the pañcamī (ablative) for the object (karman).
translator notes
- translator The sūtra containing 'yasmāt' that BM cites is identified as pratinidhipratidāne ca yasmāt (A 2.3.11), the vibhakti rule that enjoins the ablative after the karmapravacanīya prati defined in the present sūtra.
SK 600 · A 2.3.11V
प्रतिनिधिप्रतिदाने च यस्मात् ॥ ६०० ॥
pratinidhipratidāne ca yasmāt
pratinidhipratidāne ca yasmāt — 2.3.11. And [in construction with the karmapravacanīya 'prati'] the fifth case (pañcamī) is used for that (yasmāt) in relation to which there is substitution (pratinidhi) or giving in return (pratidāna).
Rule. And with this karmapravacanīya prati, the fifth case-ending is added to the thing substituted for or given in return for.
Example.
pradyumnaḥ kṛṣṇāt prati "Pradyumna stands in for Kṛṣṇa" (substitution).
tilebhyaḥ pratiyacchati māṣān "he gives beans in return for the sesame" (giving in return).
Siddhānta-kaumudī
अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥
Here, in construction with karmapravacanīyas, the fifth case (pañcamī) occurs. [Examples:] pradyumnaḥ kṛṣṇāt prati — "Pradyumna in place of Kṛṣṇa" (pratinidhi, substitution; kṛṣṇāt is ablative, with "prati" as karmapravacanīya). tilebhyaḥ pratiyacchati māṣān — "he gives beans in return for the sesame" (pratidāna, giving-back; tilebhyaḥ is ablative).
Tattvabodhinī
NSP p. 160—प्रतिनिधिप्रतिदाने—। अस्मादेव निर्देशाङ्कितादाभ्यां योगे पञ्चमी । ‘ज्ञापकसिद्धं न सर्वत्र’ इति कृष्णस्य प्रतिनिधिरित्यपि सिद्धमित्याहुः ॥ मुख्यस्याभावे सति तत्सदृश उपादीयते स प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् ॥—अकर्तरि—॥—हेतुभूतमिति । ‘हेतौ’ इत्यनुवर्तते इति भावः ॥—पञ्चमी स्यादिति । तृतीयापवादोऽयम् ॥—शतेनेति । शतमिह उत्तमर्णाय धार्यमाणत्वादृणं ‘तत्प्रयोजको हेतुश्च’ इति चकारात् कर्तृसंज्ञं च ॥—वन्धित इति । ण्यन्ते प्रयोजककर्तुः शतस्य हेतुसंज्ञाप्यस्तीति पञ्चम्यत्र स्यादेवातोत्राकर्तरीत्युक्तमिति भावः ॥—योगविभागादिति । एतच्च ‘हेतुमनुष्येभ्यः—’ इति सूत्रे पदमज्जर्या स्पष्टम् ॥—स्त्रियां चेति । ‘वाहुलकं प्रकृतेस्तदनुदृष्टेः’ इति वार्तिकनिर्देशोऽपीह ज्ञापकः
SK 601 · A 2.3.24V
अकर्तर्यृणे पञ्चमी ॥ ६०१ ॥
akartaryṛṇe pañcamī
akartaryṛṇe pañcamī — When a debt (ṛṇa) which is the cause (hetu, carried forward) but is not the agent (akartṛ) [is denoted], the ablative (pañcamī) is used.
Rule. The fifth case-ending is added to a debt (ṛṇa) that is the cause, provided it is not the agent.
Example.
śata + baddhaḥ "imprisoned over a debt of a hundred" → the hundred is the cause, not an agent → śatād baddhaḥ.
Applies when / blocked by. Why "not the agent"? In śatena bandhitaḥ "made to be bound by a hundred", the hundred is the prompting agent, and the instrumental stands.
Siddhānta-kaumudī
कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥
From a debt (ṛṇa) which, being excluded from agency, is the cause (hetu), the ablative occurs. [Example:] śatād baddhaḥ — 'bound (imprisoned) on account of [a debt of] a hundred' (ablative). Why 'akartari' (not the agent)? [Because in] śatena bandhitaḥ — 'caused to be bound by a hundred' [where the hundred is the prompting agent, so the instrumental, not the ablative].
Bālamanoramā
अकर्तर्यृणे पञ्चमी - अकर्तर्यृणे । 'हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह-कर्तृवर्जितमिति । कर्तृसंज्ञारहितमित्यर्थः । शताद्बद्ध इति । नियमितकाले प्रत्यर्पणाऽभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधर्मणो बद्ध इत्यर्थः । हेतुतृतीयापवादः । शतेन बन्धित इति ।अधर्मण उत्तमर्णेने॑ति शेषः । बन्धेर्हेतुमण्ण्यन्तात्कर्मणि क्तः । अधमर्ण उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककत्र्रा उत्तमर्णेन प्रयोज्यकत्र्रा बन्धनं कारितोऽधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञे च,तत्प्रयोजको हेतुश्चे॑त्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वाऽपवादत्वात्पञ्चमी स्यात्, अतोऽकर्तरीत्युक्तमिति भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञचमीति भावः ।
akartaryṛṇe pañcamī — The [word] 'hetau' ('in the sense of cause') from the [preceding] rule carries forward (anuvṛtti). The meaning is: 'from [a word denoting] a debt (ṛṇa) that is the cause and is not the agent.' He states the upshot with 'kartṛ-varjitam' (excluded from agency), which means 'devoid of the kartṛ-designation.' On 'śatād baddhaḥ': the meaning is that, upon failure to repay at the fixed time, the debtor (adhamarṇa) is bound on account of a debt of a hundred [pieces] of gold and the like as the cause. This [ablative] is an exception (apavāda) to the instrumental of cause (hetu-tṛtīyā).
On 'śatena bandhitaḥ': supply 'the debtor [is bound] by the creditor (uttamarṇa).' The kta (past participle) in the karman sense is [added] to the causative (ṇic-ending) of bandh. The sense of the causative form is: the debtor is bound by the creditor; [more fully,] by the hundred, i.e. the debt, as the prompting agent (prayojaka-kartṛ), and by the creditor as the prompted agent (prayojya-kartṛ), the debtor is caused to be bound. Here the hundred, being the debt, on account of being the prompter (prayojaka), is termed both kartṛ (agent) and hetu (cause) — because by the word 'ca' in 'tatprayojako hetuś ca' the kartṛ-designation too is prescribed [for the prompter, in addition to the hetu-designation]. And therefore, from the word 'śata,' the ablative would result — blocking the instrumental-of-agent (kartari tṛtīyā), since [this rule] is an exception; to prevent this, 'akartari' (not the agent) is stated. Even though the hundred is the cause, because it is [also] the agent, the ablative does not [apply] from it: this is the idea.
SK 602 · A 2.3.25V
विभाषा गुणेऽस्त्रियाम् ॥ ६०२ ॥
vibhāṣā guṇe'striyām
vibhāṣā guṇe'striyām (A 2.3.25) — Optionally (vibhāṣā), [the ablative (fifth) occurs] in [the sense of] a cause (guṇa = hetu) that is not feminine (a-strī).
Rule. The fifth case-ending is optionally added to a cause (guṇa, here meaning hetu) when that cause is not feminine in gender.
Example.
jāḍya + baddhaḥ "bound through dullness" → non-feminine cause → jāḍyāj baddhaḥ or jāḍyena baddhaḥ.
Applies when / blocked by. Why "a cause"? dhanena kulam "a family known by its wealth" has only the instrumental. Why "not feminine"? buddhyā muktaḥ "freed by wisdom" has only the instrumental, buddhi being feminine. By dividing the rule (yoga-vibhāga) at vibhāṣā, the ablative sometimes appears even for a non-cause and for a feminine: dhūmād agnimān "fire is inferred from the smoke", nāsti ghaṭo 'nupalabdheḥ "there is no pot, because none is perceived".
Siddhānta-kaumudī
गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥
When the cause (guṇa, i.e. hetu) is non-feminine in gender, the ablative (fifth)
optionally occurs. jāḍyāj jāḍyena vā baddhaḥ — "bound because of [his] dullness"
(ablative jāḍyāt or instrumental jāḍyena). — What is the force of "guṇe" (a cause)?
[It excludes] dhanena kulam "a family [distinguished] by wealth" [where wealth
is not a cause in the requisite sense — instrumental only]. — What is the force of
"a-striyām" (non-feminine)? [It excludes] buddhyā muktaḥ "liberated by wisdom"
[buddhi being feminine — instrumental only]. By splitting the rule (yoga-vibhāga)
at "vibhāṣā," [the ablative occurs] sometimes even for a non-cause and for a
feminine: dhūmād agnimān "[inferred to be] fire-possessing from the smoke";
nāsti ghaṭo'nupalabdheḥ "there is no pot, because of [its] non-apprehension."
Bālamanoramā
विभाषा गुणेऽस्त्रियाम् - विभाषा । हेतावित्यनुवर्तते । तदाह — गुणे हेतावस्त्रीलिङ्गे इति ।विद्यमाना॑दिति शेषः । जाडआदिति । जडस्य भावो जाडम् ।गुणवचनब्राआहृणादिभ्यः कर्मणि चे॑ति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह — योगविभागादिति । 'विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादिस्यर्थः । ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः-॒गुणेऽस्त्रिया॑मिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च 'जाडआद्बद्ध' इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह — अगुणे स्त्रियां च क्वचिदिति । योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः । अत्राऽगुणे उदाहरति — धूमादिति ।अग्निमा॑नित्यनन्तरं॒॑ज्ञायते॑ इति शेषः । धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः । स्तिरायमुदाहरति — नास्ति घट इति । 'घट' इत्यनन्तरं 'इति ज्ञायते' इति शेषः । अनुपलब्धेरपि । उपलब्धिः=ज्ञानम्, तस्या अभावः-अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् ।
vibhāṣā guṇe'striyām — "hetau" (in [the sense of] a cause) is carried forward
(anuvṛtti); so he says "guṇe hetau astrī-liṅge." "[The fifth applies] from [a
cause that is] present (vidyamāna)" is to be supplied. On "jāḍyāt": jāḍya is the
abstract state of [being] jaḍa (dull); by "guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca"
the suffix ṣyañ [forms jāḍya].
Objection: In "dhūmād agnimān" and the like, how is there an ablative, since smoke
and the rest are not causes (guṇa) [in the technical sense]? To this he says "by
the splitting of the rule (yoga-vibhāgāt)": the rule "vibhāṣā" is split off [as an
independent rule]; "hetau" continues by anuvṛtti, and "pañcamī" too; the meaning
is "in [the sense of] a cause, the ablative optionally occurs" — and so "dhūmād
agnimān" etc. is established. Then [the second segment] "guṇe'striyām": there
"vibhāṣā" continues by anuvṛtti, and "pañcamī" too; the stated meaning is "when the
cause is non-feminine, the ablative optionally occurs" — and so "jāḍyād baddhaḥ"
etc. is established.
Objection: Since [all this] is established by "vibhāṣā" alone, "guṇe'striyām" is
purposeless. To this he says "[it is] sometimes even for a non-cause and for a
feminine" — the idea being that the yoga-vibhāga serves to establish the desired
[forms]. Here he exemplifies the non-cause case with "dhūmāt": after "agnimān,"
"is inferred (jñāyate)" is to be supplied. The idea: since smoke is the cause
(hetu) of the inference of fire, here, although smoke is not a guṇa [in the
technical sense], it is [still] a cause, so the ablative [applies] from it. He
exemplifies the feminine case with "nāsti ghaṭaḥ": after "ghaṭaḥ," "is inferred
(iti jñāyate)" is to be supplied. "anupalabdheḥ" too [is ablative]: upalabdhi is
cognition, its absence is anupalabdhi — a nañ-tatpuruṣa compound [and feminine,
yet taking the ablative by the yoga-vibhāga]. Nor should an avyayī-bhāva
[compound] be suspected in the sense of "absence" [i.e. parsing anupalabdhi as an
avyayībhāva], because the option between the two [nañ-tatpuruṣa and avyayībhāva] in
the sense of "absence" will be stated later.
SK 603 · A 2.3.32V
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ ६०३ ॥
pṛthagvinānānābhistṛtīyā'nyatarasyām
pṛthagvinānānābhis tṛtīyā 'nyatarasyām — 2.3.32. In construction with pṛthak, vinā, or nānā, the third case (tṛtīyā) is used optionally [the alternative being the fifth and second cases, carried forward by anuvṛtti].
Rule. With pṛthak, vinā and nānā (all "apart from, without"), the third case-ending is added, and as alternatives the fifth and the second, which are carried forward.
Example.
rāma + pṛthak → pṛthag rāmeṇa / pṛthag rāmāt / pṛthag rāmam "apart from Rāma". Likewise with vinā and nānā.
Applies when / blocked by. The word anyatarasyām here serves to gather all the alternatives together, not to make the instrumental optional against nothing.
Siddhānta-kaumudī
एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥
In construction with these [pṛthak, vinā, nānā], the tṛtīyā occurs, and [in the
alternative] the fifth (pañcamī) and the second (dvitīyā). The word "anyatarasyām"
[in the sūtra] serves the purpose of collective inclusion (samuccaya) [of the
several options]. The pañcamī and dvitīyā are carried forward (anuvṛtti). Thus:
pṛthag rāmeṇa / rāmāt / rāmam — "apart from Rāma" (with tṛtīyā, pañcamī, or
dvitīyā respectively). Likewise with vinā and nānā.
Tattvabodhinī
NSP p. 160–161—पृथग्विना—। ननु तृतीयाभावपक्षे ‘एनपा द्वितीया’ इति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्, तदा पञ्चम्यपि स्यात् । सा तु नित्यैव तस्माद्विभक्तिं यसमावेशो दुरुपपाद इत्यत आह—अन्यतरस्यांग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः ॥—पञ्चमीति । तत्र मण्डूकमुख्या पञ्चमी, द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग् देवदत्तस्येत्यत्र नेत्याहुः ॥ ‘पृथङ्नानाञ्चिस्तृतीयान्यतरस्याम्’ इति सुवचम् । नानाञिति प्रत्ययग्रहणे तदन्तयोर्विनानानाशब्दयोर्लभात् ॥—नानेति । ‘हिरुङ् नाना च वर्जने’ इत्यमरः । ‘नाना नारीं निष्फला लोकयात्रा’ इति प्रयोगः
Bālamanoramā
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् - पृथग्विना । पञ्चमीद्वितीये चेति । 'तृतीयाऽभावपक्षे' इति शेषः । 'अपादाने पञ्चमी'षष्ठतसर्थप्रत्ययेन॑ 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठतसर्थेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह — अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याःषष्ठतसर्थे॑त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह — पञ्चमीद्वितीये चानुवर्तेते इति ।मण्डूकप्लुत्ये॑ति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति । विना रामेण, रामात्, रामम्, । नाना रामेण, रामात्, रामं वा । पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् ।पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने॑ इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः ।
pṛthagvinānānābhis tṛtīyā 'nyatarasyām — pṛthag-vinā…
"and the fifth and second cases": supply "in the alternative where the tṛtīyā is
absent." The order of the sūtras is: *apādāne pañcamī* (2.3.28), *ṣaṣṭhī
atasarthapratyayena* (2.3.30), *enapā dvitīyā* (2.3.31), *pṛthag-vinā…* (2.3.32).
Among these, ṣaṣṭhī, not being svarita-marked, is not carried forward (anuvṛtti);
but the pañcamī and dvitīyā are carried forward. And so, in the alternative where
the tṛtīyā is absent, [the result is] the pañcamī and the dvitīyā — this is the idea.
Objection: In the alternative without the tṛtīyā, only the dvitīyā should occur,
since it is the nearest [being prescribed at *enapā dvitīyā* 2.3.31], but not the
pañcamī as well, because there is no anuvṛtti of it [the pañcamī] at *ṣaṣṭhī
atasarthapratyayena* [2.3.30, which interrupts its continuity]. Hence the inclusion
of the pañcamī here is untenable. To this he responds with "the word anyatarasyām."
Since the collective inclusion (samuccaya) of the nearby dvitīyā is already
accomplished merely by "and the tṛtīyā," the taking of the greater effort of
[additionally stating] "anyatarasyām" is for the sake of aggregating even the
pañcamī, which is separated [by the intervening sūtra] — because indeclinables
(avyaya) have manifold meanings — this is the idea.
Objection: Since the pañcamī, not being carried forward at *ṣaṣṭhī
atasarthapratyayena*, cannot [continue to] be carried forward here, how does its
presence arise here? To this he says "the pañcamī and dvitīyā are both carried
forward (anuvartete)": supply "by the frog's-leap (maṇḍūka-pluti)" [i.e., an
anuvṛtti that skips over the intervening sūtra].
"pṛthag rāmeṇa": meaning "one who possesses a separateness (bheda) whose
counter-correlate (pratiyogin) is Rāma" [= separate from Rāma]. "Likewise vinā,
nānā": vinā rāmeṇa / rāmāt / rāmam; nānā rāmeṇa / rāmāt / rāmam, optionally.
pṛthak, vinā, and nānā — all three signify separation (bheda), according to some.
"pṛthak, vinā, antareṇa, ṛte, hiruk, and nānā [are used] in the sense of exclusion
(varjana)" — thus the Amara[koṣa]. Meaning: "in the exclusion of Rāma there is no
happiness" [illustrating the varjana sense].
Footnotes (NSP 1915 ed.)
NSP p. 161 १ अद्रव्येति—द्रव्यभिन्नवचनेभ्य इत्यर्थः । द्रव्यशब्देनात्र सर्वनामपरामर्शयोग्यं लिङ्गतिरूपितविशेष्यं वा गृह्यते । २ कर्मादी-नामपीति—आदिपदेन कर्तुरपि ग्रहणं, ‘क्तस्य च वर्तमाने’ इत्यत्र भाष्ये छात्रस्य हस्तिमिति प्रयोगात् । ३ संबन्धमात्रविव-क्षायामिति—क्रियाकारकभावमूलकसंबन्धस्यैव विवक्षायां नतु कर्मत्वादिविवक्षायामित्यर्थः । ४ पृथो दकस्येति—पृथः कर्ता, दकस्य उदकस्य । पृथशब्दोऽदन्तः पुंलिङ्गः ‘कारके’ इति सूत्रे भाष्ये प्रत्युक्तः । ‘पृथाः पक्ष्यन्तीति’ सान्तः क्वीवो वा, इति शब्देन्दुशेखरे ।
SK 604 · A 2.3.33V
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥ ६०४ ॥
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya
And in the sense of instrument (karaṇa), [the third and fifth cases optionally] for stoka, alpa, kṛcchra, and katipaya when these do not denote a substance (asattva-vacana).
Rule. When stoka "a little", alpa "small", kṛcchra "hardship" or katipaya "some" is an instrument and does not name a substance, both the third and the fifth case-ending are added.
Example.
stoka + muktaḥ "freed with little effort" → stoka is the means and names no substance → stokena muktaḥ or stokād muktaḥ.
Applies when / blocked by. When a substance is named, only the instrumental: stokena viṣeṇa hataḥ "killed by a little poison".
Siddhānta-kaumudī
एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥
From these [words], when they do not denote a substance (adravya-vacana), in the sense of instrument (karaṇa), the tṛtīyā and the pañcamī [both, optionally] occur. E.g. stokena stokād vā muktaḥ — "freed by / from a little [effort]." But when a substance is denoted: stokena viṣeṇa hataḥ — "killed by a little poison" [tṛtīyā only].
Tattvabodhinī
NSP p. 161—करणे च—। अन्यतरस्यामिति वर्तते पञ्चमीति च, तेन करणे तृतीयायां प्राप्तायां पक्षे पञ्चमी विधीयते तथा मुक्ते करणत्वादेव तृतीया सिद्धेत्याशयेनाह—तृतीयापञ्चम्यौ स्त इति ॥—स्तोकेनेति । अनायासेन मुक्त इत्यर्थः ॥—दूरं दूराद्दूरेण वेति । इह सप्तम्यपि वक्ष्यते । किं च ‘दूरान्तिकार्थेभ्यः’ इति सूत्रस्य ‘सप्तम्यधिकरणे च’ इत्युत्तरसूत्रेऽप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम् ॥ तथा च प्रयुज्यते—‘दूरादावस्थान्मूत्रं दूरात्पादावसेचनम्’ इति । आवस्थस्य दूरे इत्यर्थः
Bālamanoramā
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य - करणे च । एभ्य इति । स्तोक अल्प कृच्छ्र कतिपय-एभ्यश्चतुभ्र्य इत्यर्थः । असत्त्वपदं व्याचष्टे — अद्रव्येति । अन्यतरस्यामित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्धैव । तदाह — तृतीयापञ्चम्याविति । स्तोकेन स्तोकाद्वामुक्त इति । लघुना आयासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये त्विति । द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः, कृच्छ्रेण कृच्छ्राद्वा मुक्तः । कष्टेनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्नेन साधनेनेत्यर्थः ।
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya — "from these" (ebhyaḥ): the meaning is, from these four — stoka, alpa, kṛcchra, katipaya. He explains the word "asattva": "non-substance" (adravya). "Optionally" (anyatarasyām) is carried forward by anuvṛtti, and so is "pañcamī"; and thus it is obtained that "optionally the pañcamī in the sense of instrument." In its absence [i.e. when that option is not taken] the tṛtīyā is already established [by the general rule for the instrument]. This he states with "the tṛtīyā and the pañcamī" (tṛtīyā-pañcamyau).
"stokena stokād vā muktaḥ": the sense is "freed by a little effort (āyāsa)"; the idea being that effort is not a substance. "But when [denoting] a substance": when [stoka] applies to a substance, stokena viṣeṇa hataḥ ("killed by a little poison") — only the tṛtīyā, that is the meaning. [Likewise:] alpenālpād vā muktaḥ; kṛcchreṇa kṛcchrād vā muktaḥ, meaning "with difficulty (kaṣṭa)"; katipayena katipayād vā muktaḥ, meaning "by incomplete means (akṛtsna sādhana)."
SK 605 · A 2.3.35V
दूरान्तिकार्थेभ्यो द्वितीया च ॥ ६०५ ॥
dūrāntikārthebhyo dvitīyā ca
dūrāntikārthebhyo dvitīyā ca — From [words] meaning 'far' (dūra) and 'near' (antika), the accusative (dvitīyā) is used, and — by the word ca — the ablative (pañcamī) and instrumental (tṛtīyā) as well.
Rule. After a word meaning "far" (dūra) or "near" (antika), the second case-ending is added, and by the word ca the fifth and the third as well. The rule applies only when nothing beyond the bare stem-meaning is conveyed.
Example.
grāmasya dūra "far from the village" → grāmasya dūram / dūrāt / dūreṇa.
antikam / antikāt / antikena "near".
Applies when / blocked by. The phrase "not naming a substance" carries forward from SK 604, so dūraḥ panthāḥ "the road is far" is untouched: there dūra qualifies a substance.
With this the fifth case is finished.
Siddhānta-kaumudī
एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकमन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥
From these [words meaning 'far' and 'near'] the accusative occurs, and by [the word] 'ca' the ablative and the instrumental [as well]. This rule [applies] only to the bare stem-meaning (prātipadikārtha-mātra). [Examples:] grāmasya dūraṃ / dūrāt / dūreṇa vā — 'far from the village' (acc./abl./instr.); antikam / antikāt / antikena vā — 'near [to it]' (acc./abl./instr.). Because 'asattvavacanasya' (of [a word] not denoting a substance) carries forward (anuvṛtti), the rule does not apply here: dūraḥ panthāḥ — 'the road is far.' — Thus [ends] the ablative [section].
Tattvabodhinī
alignment inferredNSP p. 161—असत्त्ववचनस्येति । सत्त्ववचनत्वमिह सत्त्वविशेषकत्वम् । एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेषकं व्युदस्यते तदाह—अदूरः पान्था इति । एतेन ‘करणे च स्तोका—’ इति सूत्रे करणे किम् । क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं पचति । ‘क्रिया न द्रव्यम्’ इति प्राचां ग्रन्थोऽपि व्याख्यातः । न च क्रियाया विशेष्यत्वेन द्रव्यत्वावश्यंभावात् नैतत् प्रत्युदाहरणं युक्तमिति वाच्यम् । धातुवाच्यायाः क्रियायाः असत्त्वरूपत्वस्याकरे प्रसिद्धत्वात् । न च विशेष्यत्वे तदनुपपत्तिः । कर्तृकर्मेतरकारकलिङ्गानन्वयित्वमात्रेणासत्त्वरूपत्वोपपत्तेः ॥ उक्तं च—‘क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः । असत्त्वरूपता तस्या इयमेवावधार्यताम्’ इति ॥ फलं व्यापारश्च क्रिया, फलाधारकारकं कर्म, व्यापाराधारकारकं कर्तेति विवेकः ॥ इति पञ्चमी
Bālamanoramā
दूरान्तिकार्थेभ्यो द्वितीया च - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । 'दूरः' 'पन्था' इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।
dūrāntikārthebhyo dvitīyā ca — 'ebhyaḥ' means 'from [words] meaning "far" and from [words] meaning "near."' The word 'ca' serves to conjoin (samuccaya) the ablative and instrumental, even though they are separated [from this rule in the preceding sūtras] — but not [to conjoin] the nearby genitive from 'dūrāntikārthaiḥ ṣaṣṭhy anyatarasyām,' because of the [traditional] explanation (vyākhyāna). This he states with 'cāt pañcamī-tṛtīye ca.' 'This rule [applies] only to the bare stem-meaning' — the idea being: because of the [traditional] explanation. And thus it follows that [this rule] is an exception (apavāda) to the nominative (prathamā).
From the Bhāṣya usage 'dūrād āvasathān mūtraṃ dūrāt pādāvanejanam' ('urination far from the dwelling, foot-washing far [from it]'), this rule applies also in the locative sense, i.e. to the locus (adhikaraṇa). Objection: in 'dūraḥ panthāḥ,' why is there not the ablative? To this he says 'asattvavacanasya' (of [a word] not denoting a substance): in 'dūraḥ panthāḥ,' 'panthan' (road) is a substance (dravya), and the word 'dūra,' being its qualifier, is here a word denoting a substance (sattvavacana) [and hence excluded from the rule]. — Thus [ends] the ablative [section].
SK 606 · A 2.3.50V
षष्ठी शेषे ॥ ६०६ ॥
ṣaṣṭhī śeṣe
ṣaṣṭhī śeṣe — 2.3.50. The sixth case (ṣaṣṭhī / genitive) is used in the śeṣa (the 'remainder' — a relation other than a kāraka and other than the bare prātipadika-meaning).
Rule. The śeṣa is a relation, such as owner and owned, that is other than a kāraka and other than the bare stem-meaning. The sixth case-ending (ṣaṣṭhī) is added to express it.
Example.
rājan + puruṣa "the king's man" → the king is related to the man as owner → sixth case → rājñaḥ puruṣaḥ.
Applies when / blocked by. Even an object or other kāraka takes only the genitive when the speaker means to express nothing but a relation: satāṃ gatam "the conduct of the good", sarpiṣo jānīte "he sets to work with ghee", mātuḥ smarati "he remembers his mother", edhodakasyopaskurute "he prepares fuel and water", bhaje śambhoś caraṇayoḥ "I worship at Śambhu's feet", phalānāṃ tṛptaḥ "satisfied with fruits".
Siddhānta-kaumudī
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥
The śeṣa is a relation such as owned–owner (sva-svāmi-bhāva) and the like, other
than a kāraka and other than the meaning of the prātipadika; there the ṣaṣṭhī
occurs. rājñaḥ puruṣaḥ ("the king's man"). Even for the karman and the other
[kārakas], when only mere relation (sambandha-mātra) is intended to be expressed,
only the ṣaṣṭhī [occurs]: satāṃ gatam ("the conduct of the good"); sarpiṣo jānīte
("he sets to work by means of ghee"); mātuḥ smarati ("he remembers the mother");
edhodakasyopaskurute ("he prepares the fuel-and-water"); bhaje śambhoś caraṇayoḥ
("I worship at the feet of Śambhu"); phalānāṃ tṛptaḥ ("satisfied with fruits").
Tattvabodhinī
NSP p. 161–162—षष्ठी शेषे । उपयुक्तादन्यः शेषः । कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्तास्तत्र द्वितीयादीनां विधानादतो व्याचष्टे—कारकप्रातिपदिकार्थव्यतिरिक्त इति ॥—राज्ञः पुरुष इति । प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यादप्रधानादेव षष्ठी । प्रत्ययार्थस्त्विह पुरुषविशेषणम् । राजनिरूपितसेवकत्वसंबन्धवान् पुरुष इत्यर्थविवक्षायां प्रधानात् पुरुषशब्दान्न षष्ठी । उक्तन्यायविरोधात् शेषत्वाभावाच्च । राज्ञः पुरुषस्तिष्ठतीत्यादौ पुरुषशब्दो हि प्रातिपदिकार्थमात्रवृत्तिः । राज्ञः पुरुषेण कृतमित्यादौ कारकार्थकः । अदा तु पुरुषनिरूपितसेव्यत्वसंबन्धवान् राजेत्यर्थविवक्षा तदा पुरुषशब्दादपि षष्ठी भवत्येव पुरुषस्य राजेति ॥ यत्तु अप्रधानं शेष इति कैश्चिदुक्तम् । तन्न । प्रातिपदिकार्थमात्रे शुक्लः पटः श्यामो घट इत्यादौ विशेषणे षष्ठीप्रसङ्गात् । न च प्रथमया बाधः । तस्याः प्रधाने चरितार्थत्वात् ॥—कर्मादीनामपीति । यथा विशेषाविवक्षायां रूपवानिति प्रयुज्यते, विशेषविवक्षायां तु नीलः पीत इत्यादि, तथेदमपि न्यायसिद्धमिति भावः ॥—सतां गतमिति । सत्पुरुषसंबन्धि गम- नमित्यर्थः । सन्तो गच्छन्तीत्यत्र लाख्यातेन कर्तृलसंवन्धस्योक्तलात् संवन्धमात्रविवक्षा कर्तुं न शक्यत इति षष्ठीह न भवति, किं तु प्रातिपदिकार्थमात्रे प्रथमैवेत्याहुः ॥—सर्पिषो जानीते इति । वस्तुतः करणस्य संवन्धमात्रविवक्षायां षष्ठी । सर्पिःसंवन्धि प्रवर्तनमित्यर्थः । ‘अकर्मकाच्च’ ‘अनुपसर्गाज्ज्ञः’ इत्यनेन वा जानातेस्तङ् ॥ अन्ये तु व्याचख्युः, कर्मणः शेषलविवक्षया षष्ठी । सर्पिःसंवन्धि ज्ञानमित्यर्थं इति ॥—एधोदकस्येति । एधाश्च उदकं चैषां समाहार एधोदकम् । ‘जातिरप्राणिनाम्’ इत्येकवङ्मावः । यद्वा एधांसि च दकं चेति विग्रहे पूर्ववदेकवङ्मावः । उदकपर्यायो दकश-ब्दोऽप्यस्ति । तथा च हलायुधः—‘भुवनममृतं जीवनीयं दकं च’ इति ॥—उपस्कुरुते इति । गन्धनादिसूत्रेणात्मनेप- दम् । ‘उपात्प्रतियन्त्र’—इति सुट् ॥ नचैवं ‘ज्ञोऽविदर्थस्य करणे’, ‘अधीगर्थदयेशां कर्मणि’, ‘कृञः प्रतियन्त्रे’, ‘रुजार्थानां भाववचनानामज्वरेः’, ‘आशिषि नाथः’, ‘जासिनिप्रहणनाटकाधपिषां हिंसायाम्’, ‘व्यवहृपणोः समर्थयोः’ ‘कृत्वोऽर्थप्रयोगे कालेऽधिकरणे’ इति शेषषष्ठीविधानार्थेयमष्टसूत्री निष्फला स्यादिति वाच्यम् । सर्पिषो ज्ञानमित्यादौ तस्याः समास-निवृत्तिफलकत्वात् । तथा हि ‘ज्ञोऽविदर्थस्य’—इत्यादौ शेष इत्यनुवर्तते । शेषत्वे विवक्षिते तु करणादौ षष्ठी सिद्धैव । तदयमर्थः—इह षष्ठ्येव न तु तल्लुक् । तथा च लुकः प्रयोजकीभूतः समास एव न भवतीति । न चाष्टसूत्र्या लुङ्मात्रनिवृत्तिफलकत्वमेवास्तु, समासस्तु स्वीक्रियतामिति वाच्यम् । इष्टानुरोधेन समास एव न भवतीति व्याख्यानस्योचितत्वात् । तथा च वार्तिकं ‘प्रतिपदविधानां षष्ठी न समस्यते’ इति ॥ हरिश्चाह ‘कारकैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये’ इति ॥ एवं च शेषत्वविवक्षायां सर्पिषो ज्ञानं, मातुः स्मरणमित्यादीन्यसमस्तान्येव साधूनि । हरिस्मरणमित्यादीनि तु शेषत्वविवक्षायां कृद्योगपश्चाः समासे वोध्यानि । तत्र च कारकपूर्वकत्वात् ‘गतिकारक’—इत्यादिना कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तत्वं भवति । शेषपश्चा समासे तु अन्तोदात्तत्वं स्यात्तन्नानिष्ठम् । तथा च स्वरार्थेयमष्टसूत्रीति निष्कर्षः । किं च मातुः स्मृतमित्यादौ समासाभावोऽपि फलं, न हि तत्र कारकषष्ठी लभ्यते ‘न लोका-’ इति निषेधात् । आह च—‘निष्ठायां कर्मविषया षष्ठी च प्रतिषिध्यते । शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते’ इति । एतच्च मनोरमायां स्थितम्
Bālamanoramā
षष्ठी शेषे - अथ षष्ठी । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसंप्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्योऽन्यः स्वस्वामिभावादिसंबन्धः शेषपदार्थ इत्यर्थः । तत्राऽसति बाधके संबन्धो विशेषरूपेण सामान्यरूपेण च भासते,न हि निर्विशेषं सामान्यमि॑ति न्यायात् । सति तु बाधकेमातुः स्मरती॑त्यादौ संबन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । 'राज्ञ पुरुष' इत्यत्र स्वस्वामिभावरूपविशेषात्मना संबन्धत्वरूपसामान्यात्मना च संबन्धः षष्ठर्थः । राजाश्रितस्वामित्निरूपितस्वत्वात्मकसंबन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । संबन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया संबन्धविशेषणम् । संबन्धस्त्वाधेयतया राजानं प्रति विशेष्यं,प्रधानप्रत्ययार्थवचनमि॑ति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी, राजनिरूपितसंबन्धाश्रयः पुरुष इति बोधे संबन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तेः । यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्यरूपसंबन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः । सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्क्याह — कर्मादीनामपीति । कर्मत्वकर्तृत्वादीनामपि संबन्धत्वसामान्यात्मना विवक्षायां षष्ठ्येव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यं — कर्मत्वादीनामविवक्षा शेषः॑ इति । सतां गतमिति । भावे क्तः । सत्संबन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गतमिति तृतीया भवत्येव । कृद्योगलक्षणा षष्ठी तु न भवति,न लोके॑ति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य संबन्धत्वविवक्षायां तु षष्ठी, कर्त्राश्रिता सर्पिःसम्बन्धिनी प्रवृत्तिरिति बोधः ।
मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधोदकस्योपस्कुरुते इति । एधशब्दोऽकारान्तः पुंलिङ्गः, 'कारके' इति सूत्रे 'एधाः पक्ष्यन्ते' इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी, जातिरप्राणिना॑मित्येकवद्भावः । कर्मत्वविवक्षायां एधोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धि परिष्करणमिति बोधः । एधश्शब्दः सकारान्तोऽप्यस्ति नपुंसकलिङ्गः । काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् इति कोशात्, यथैधांसि समिद्धोऽग्निः॑ इत्यादिदर्शनाच्च । तथा सति एधः-दकस्ये॑तिच्छेदः, उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, भुवनममृतं जीवनं स्याद्दकं च॑ इति हलायुधकोशात् । तथा च एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरञ्जादिकाष्ठविशेषप्रज्वलिताग्नितप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसंबन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसंबन्धिनी तृप्तिरिति बोधः ।
ṣaṣṭhī śeṣe — Now, the ṣaṣṭhī. ṣaṣṭhī śeṣe.
The śeṣa is that which is other than what has [already] been stated. For in the
sūtras that prescribe the dvitīyā and the rest — such as *karmaṇi dvitīyā* (2.3.2) —
the kārakas karman, kartṛ, karaṇa, sampradāna, apādāna, and adhikaraṇa have been
[severally] set forth; and in the injunction of the prathamā (first case), the
meaning of the prātipadika has been set forth. The relation, such as owned–owner
and the like, that is other than these is the meaning of the word śeṣa — this is
the sense.
There, when no blocker (bādhaka) is present, the relation appears both under a
particular aspect (viśeṣa-rūpa) and under a general aspect (sāmānya-rūpa), by the
maxim "there is no generality without a particular" (na hi nirviśeṣaṃ sāmānyam).
But when a blocker is present, as in "mātuḥ smarati," the appearance is only as
relation-hood (sambandhatva); for were it to appear also under the particular aspect
of karman-hood etc., the dvitīyā etc. would [wrongly] be occasioned — such is the
settled position.
In "rājñaḥ puruṣaḥ," the relation — under the particular aspect of the owned–owner
form and under the general aspect of relation-hood — is the meaning of the ṣaṣṭhī.
The cognition is: "the man is the locus of a relation consisting in owned-ness
(svatva), which is delimited by the ownership (svāmitva) residing in the king." But
locus-hood and the like are conveyed by the mode of syntactic connection
(saṃsarga-maryādā). There, the man is the principal qualificand (mukhya-viśeṣya);
the relation, as the superstratum (ādheya), is the qualifier of the man; the king,
as the locus (āśraya), is the qualifier of the relation; while the relation, as the
ādheya, is the qualificand with respect to the king — because, by the dictum
"pradhāna-pratyayārtha-vacanam" [the suffix-meaning is principal], it is understood
that the suffix-meaning is principal relative to the base-meaning (prakṛti-artha).
For this very reason there is no ṣaṣṭhī from the word puruṣa either: because, in the
cognition "the man is the locus of the relation delimited by the king," the relation
cannot appear as either qualifier or qualificand with respect to the base-meaning
"man." But when the cognition is "the king is the locus of a relation in the form of
ownership, delimited by the owned-ness residing in the man," then there is indeed a
ṣaṣṭhī from the word puruṣa: "puruṣasya rājā" — the detailed treatment is elsewhere.
Apprehending that in "satāṃ gatam" etc. a tṛtīyā for the kartṛ and the like [might
threaten], he says "karmādīnām api." Meaning: even for karman-hood, kartṛ-hood, and
the like, when they are intended to be expressed under the general aspect of
relation-hood, only the ṣaṣṭhī [occurs], not the kāraka-vibhaktis. And so, on the
sūtra *ktasya ca vartamāne* (2.3.67), the Bhāṣya [says]: "the non-intention-to-
express of karman-hood etc. is the śeṣa."
"satāṃ gatam": the suffix kta in the bhāva sense; meaning "a going related to the
good." But when kartṛ-hood is intended, there is indeed the tṛtīyā: "sadbhir gatam"
["gone by the good"]. The ṣaṣṭhī characterized by construction with a kṛt suffix,
however, does not occur, on account of the prohibition *na loka…* (2.3.69).
"sarpiṣo jānīte": when karaṇa-hood is intended, [it is "sarpiṣā jānīte"] meaning
"he sets to work by the instrument, ghee." But when the karaṇa-hood is intended
[merely] as relation-hood, the ṣaṣṭhī [occurs]; the cognition is: "the activity,
residing in the agent, is related to the ghee."
"mātuḥ smarati": when karman-hood is intended, it is "mātaraṃ smarati" ("he
remembers the mother"). But when the karman-hood is intended as śeṣa-hood, the
meaning is: "the remembering, having Devadatta for agent, is related to the mother."
"edhodakasyopaskurute": the word edha is a-ending and masculine, from the Bhāṣya
usage "edhāḥ pakṣyante" on the sūtra *kārake* (1.4.23). From the dvandva "edhāś ca
udakāni ca" comes the ṣaṣṭhī; the singular-agreement (ekavadbhāva) is by *jātir
aprāṇinām* (2.4.6). When karman-hood is intended, [it is "edhodakam upaskurute"]
meaning "he prepares the fuel-and-water by drying it, by the addition of fragrant
substances, and so forth." But when the karman-hood is intended as śeṣa-hood, the
cognition is: "a preparing related to the fuel-and-water."
The word edhas also exists as s-ending and neuter, from the lexicon: "kāṣṭham, dāru,
indhanam; but edhas, idhma, edhaḥ, and (feminine) samit [are words for firewood]" —
and because one meets with usages like "yathaidhāṃsi samiddho'gniḥ" [as fire is
kindled by fuels]. In that case the word-division is "edhaḥ-dakasya," since if the
word udaka were taken [as the second member] the result would be "edha udakasya."
For the word daka, a synonym of udaka, also exists, from the Halāyudha lexicon:
"bhuvanam, amṛtam, jīvanam, and dakam [are words for water]." And so the meaning is:
"the fuel (edhas), as agent, prepares the water"; while when the karman-hood is
intended as śeṣa-hood, the ṣaṣṭhī [occurs] — the special virtue of water heated over
a fire kindled with particular woods such as nimba, karañja, and the like is
well-known in medical science (vaidya-śāstra).
"bhaje śambhoś caraṇayoḥ": here, when the karman-hood of the feet is intended as
śeṣa-hood, the ṣaṣṭhī [occurs]; meaning "a worshipping related to Śambhu's feet."
"phalānāṃ tṛptaḥ": here too, when the karaṇa-hood is intended as śeṣa-hood, the
ṣaṣṭhī [occurs]; the cognition is "a satisfaction related to fruits."
SK 607 · A 2.3.26V
षष्ठी हेतुप्रयोगे ॥ ६०७ ॥
ṣaṣṭhī hetuprayoge
ṣaṣṭhī hetuprayoge — 2.3.26. The sixth (genitive) is used when the word 'hetu' (cause) is employed [and the cause is what is denoted].
Rule. When the word hetu "cause" is used, and a cause is what is conveyed, the sixth case-ending is added — to the cause and to hetu alike.
Example.
anna + hetu + vasati "he stays for the sake of food" → both words in the genitive → annasya hetor vasati.
Siddhānta-kaumudī
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥
When the word "hetu" (cause) is used, and the cause (hetu) is to be denoted, the
sixth (genitive) occurs. Example: annasya hetor vasati — "he dwells for the sake of
food" (both anna and hetu in the genitive).
Tattvabodhinī
NSP p. 162—षष्ठी हेतु—। अत्र ‘हेतौ’ इत्यनुवर्तते तदाह—हेतौ द्योत्य इति ॥—अन्न-स्येति । ‘हेतौ’ इति तृतीयायां प्राप्तायामनेन षष्ठी ॥ हेतुप्रयोगे किम् । अत्रेन वसति । हेतौ द्योत्ये किम् । अन्नशब्दात् षष्ठी यथा स्यादित्येके । अन्नस्य हेतोस्तुभ्यं नम इत्यत्र युष्मच्छब्दान्मा भूदित्यन्ये
Bālamanoramā
षष्ठी हेतुप्रयोगे - षष्ठीहेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह — हेतौ द्योत्ये इति । हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात्षष्ठीति फलितम् । 'हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति ।
ṣaṣṭhī hetuprayoge — ṣaṣṭhī hetuprayoge. "hetau" is carried forward
(anuvṛtti). He states this by "hetau dyotye" (when the cause is to be denoted); the
meaning is "when causehood (hetutva) is to be denoted." It results that the
genitive [is used] after a word denoting the cause. This genitive sets aside
(bādhitvā) the third (instrumental) that would [otherwise apply] by "hetau"
[2.3.23]. Why "when the word hetu is employed"? [Counter-example:] annena vasati
("he dwells by means of food" — instrumental, since the word "hetu" is not used).
Why "when the cause is to be denoted"? [Counter-example:] annasya hetos tubhyaṃ
namaḥ ("for the sake of food, salutation to you") — here [the genitive] does not
apply after the word "yuṣmad" [so tubhyam keeps its own case, "you" not being the
cause].
SK 608 · A 2.3.27V
सर्वनाम्नस्तृतीया च ॥ ६०८ ॥
sarvanāmnastṛtīyā ca
sarvanāmnas tṛtīyā ca (2.3.27) — And the third case (tṛtīyā) [for a pronoun (sarvanāman) and the word hetu, in indicating a cause; also the sixth case].
Rule. When a pronoun (sarvanāman) is used together with the word hetu to convey a cause, the third case-ending is added, and the sixth as well.
Example.
kim + hetu + vasati "for what reason does he stay?" → kena hetunā vasati (instrumental) or kasya hetoḥ (genitive).
Applies when / blocked by. A vārttika: with synonyms of nimitta "occasion", all the cases are for the most part seen: kiṃ nimittaṃ vasati, kena nimittena, kasmai nimittāya, and likewise kiṃ kāraṇam, ko hetuḥ, kiṃ prayojanam. Because of "for the most part", with a word that is not a pronoun the first and second cases do not occur: jñānena nimittena hariḥ sevyaḥ "Hari is to be served for the sake of knowledge", jñānāya nimittāya.
Siddhānta-kaumudī
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ।
When a pronoun (sarvanāman) and the word hetu are used, in indicating a cause (hetu), the tṛtīyā occurs, and also the ṣaṣṭhī. E.g. kena hetunā vasati — "for what reason does he dwell?" [tṛtīyā]; kasya hetoḥ — [ṣaṣṭhī].
vārttikaनिमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्
(vārttika) When synonyms of nimitta (cause) are used, all [the case-endings] are for the most part (prāya) seen [to occur].
(वार्तिकम्) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥
(Illustrating the vārttika:) kiṃ nimittaṃ vasati; kena nimittena; kasmai nimittāya, and so on. Likewise kiṃ kāraṇaṃ, ko hetuḥ, kiṃ prayojanam, and the like. Because of the word "for the most part" (prāya), for a non-pronoun the first (prathamā) and second (dvitīyā) do not occur: jñānena nimittena hariḥ sevyaḥ — "Hari is to be served for the sake of knowledge"; jñānāya nimittāya, and so on.
Tattvabodhinī
NSP p. 162—सर्वनाम्नस्तृतीया च । इह सर्वनाम्न इति प्रयोगापेक्षया षष्ठी, पञ्चम्यां तु हेतुशब्दात् षष्ठीतृतीये न स्यातामित्याशयेनाह—सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद् भवतीत्यपेक्षायाम् अर्थात् सर्वनामहेतुभ्यामिति संवध्यते ॥ अत्र व्याचर्युः । यद्यपि सर्वनाम्न इति पदस्य पञ्चम्यन्तत्वेऽपि हेतुशब्दस्य विशेषणत्वे सामानाधिकरण्यादप्युपपद्यत इति न क्षतिः, तथापि विशेष्यत्वे लयं विधिर्न स्यादिति बोध्यमिति ॥—निमित्तपर्यायेति । पर्यायग्रहणस्य फलमाह—एवमित्यादिना । एतद्वार्तिकेन ‘षष्ठी हेतुप्रयोगे’, ‘सर्वनाम्नस्तृतीया च’ इति सूत्रद्वयं गतार्थमिति बोध्यम्
Bālamanoramā
सर्वनाम्नस्तृतीया च - सर्वनाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह — सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात्सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहति — केन हेतुनेति । सर्वनाम्न इति यदि पञ्चमी स्यात्तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् ।
sarvanāmnastṛtīyā ca — "sarvanāmnaḥ" is a genitive (ṣaṣṭhī). This he states with "of a pronoun and of the word hetu." When one asks "from what does [the tṛtīyā] arise?", since [the relevant phrase] is close at hand (sannihita), it is understood as "from a pronoun and from hetu"; intending this, he illustrates with "kena hetunā." It should be understood that if "sarvanāmnaḥ" were an ablative (pañcamī), then the ṣaṣṭhī from the word hetu would not obtain [so it must be taken as a genitive].
SK 609 · A 2.3.30V
षष्ठ्यतसर्थप्रत्ययेन ॥ ६०९ ॥
ṣaṣṭhyatasarthapratyayena
ṣaṣṭhyatasarthapratyayena (A 2.3.30) — The sixth case (genitive) occurs in construction with a suffix that has the sense of [the suffix] atas (i.e. atasuc).
Rule. The sixth case-ending is added to a word construed with a word ending in an affix that has the sense of atasuc (the affix in dakṣiṇataḥ "to the south"). This is an apavāda of the ablative that SK 595 gives with direction-words.
Example.
grāma + dakṣiṇataḥ "to the south of the village" → sixth case → grāmasya dakṣiṇataḥ.
Likewise puraḥ, purastāt "in front of", upari, upariṣṭāt "above".
Siddhānta-kaumudī
एतद्योगे षष्ठी स्यात् । दिक्शब्द SK 595 इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥
In construction with this [suffix], the genitive occurs. It is an exception
(apavāda) to the ablative [enjoined by the rule containing] "dik-śabda…" (SK 595).
grāmasya dakṣiṇataḥ — "to the south of the village" (genitive grāmasya);
puraḥ, purastāt — "in front / to the east"; upari, upariṣṭāt — "above."
Tattvabodhinī
NSP p. 162—षष्ठ्यतसर्थ—। ‘दक्षिणोत्तराभ्यामत्पुत्रं’ इत्यस्य योऽर्थो दिग्देशकालरूपः सोऽर्थो यस्य प्रत्ययस्य सोऽतसर्थप्रत्ययः, अस्तातिप्रभृतयः पञ्च, तदन्तेन योगे इत्यर्थः । अत्पुत्रोऽस्तात्यनन्तरत्वेऽपि लाघवानुरोधेन अस्तात्यर्थेति नोक्तमित्याहुः ॥—पञ्चम्या अपवाद इति । ‘ततः पश्चात् संस्यते ध्वंस्यते च’ इति भाष्यप्रयोगात् पश्चाच्छब्दयोगे तु पञ्चम्यपि साधुः । अस्मादेव भाष्यप्रयोगात् पश्चाच्छब्देनाब्य-यीभावो न भवतीति वक्ष्यते ॥ प्रत्ययग्रहणं किम् । इह मा भूत्, प्राग् प्रामात् । प्रत्यग् प्रामात् ॥ कृतेऽपि प्रत्ययग्रहणे कृतो नेति चेत् । अत्राहुः कैयटादयः—प्रत्ययग्रहणमधिकं क्रियमाणं श्रूयमाणप्रत्ययग्रहणार्थं विज्ञास्यत इति लुप्ते अस्तातौ पञ्चभावः ॥ ‘अन्यारात्—’ इत्यत्राच्चूत्तरपदस्यापीदं प्रयोजनमुक्तम् । तत्रान्यतरच्छक्यमवक्तुमेकप्रयोजनलादिति प्रत्ययग्रहणं चिन्त्यप्रयोजनमिति तु मनोरमायां स्थितम् ॥—पुर इति । ‘पूर्वाधरावराणाम्’ इत्यसिप्रत्यये पुरादेशः ॥—पुरस्तादिति । ‘दिक्शब्देभ्यः’ इत्यादिनास्तातिः, ‘अस्ताति च’ इति पूर्वस्य पुरादेशः ॥—एनपा—। कथं तर्हि ‘तत्रागारं धनपतिगृहा-दुत्तरेणासदीयम्’ इति । उत्तरेणेत्येतद् ‘दूराल्लक्ष्यं सुरपतिधनश्चारुणा तोरणेन’ इति तोरणसमानाधिकरणं तृतीयान्तं न त्वेनवन्तमित्याहुः ॥ ‘धनपतिगृहानुत्तरेणासदीयं’ इति कैश्चित्पत्र्यते, तदा तु सम्यगेव
Bālamanoramā
षष्ठ्यतसर्थप्रत्ययेन - षष्ठतसर्थ । एतद्योगे इति ।दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः॑ इत्यारभ्य 'आहि च दूरे'उत्तराच्चे॑त्यन्तैः सूत्रैर्दिग्देशकालवृत्तिभ्यः शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्रदक्षिणोत्तराभ्यामतसुच् इति विहितो योऽतसुच्प्रत्ययः, तस्यार्थः=दिग्देशकालरूपः, स एवार्थो यस्य स-अतसर्थप्रत्ययः, तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमस्थापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति, संयुक्ताक्षरघयितत्वेन गौरवात् । दिक्शब्देतीति ।अन्यारादि॑ति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणत इति । सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेर्दक्षिणशब्दादतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा वा दिगित्यर्थः । एवं देशे काले च । पुर इति । पूर्वाशब्दादस्तात्यर्थे॒पूर्वाधरावराणामसि पुरधवश्चैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा वेत्यर्थः । पुरस्तादिति । पूर्वशब्दादस्तातिप्रत्यये सतिआस्ताति चे॑ति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ।उपर्युपरिष्टादि॑ति सूत्रेण ऊध्र्वशब्दाद्रिल्प्रत्ययो शिष्टातिल्प्रत्ययः प्रकृतेरूपादेशश्च निपातितः । ऊध्र्वायां दिशि, ऊध्र्वाया दिशः, ऊध्र्वादिगिति वा अर्थः । एवं देशे कालेऽपि ।
ṣaṣṭhyatasarthapratyayena — On "etad-yoge": beginning from "dik-śabdebhyaḥ
saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ" and ending with "āhi ca dūre"
and "uttarāc ca," the several suffixes are enjoined, in their own sense (svārthe),
after words denoting direction, place, and time. Among these, the suffix atasuc
enjoined by "dakṣiṇottarābhyām atasuc" — its meaning is [something] of the form
direction, place, or time; a suffix whose meaning is precisely that is an
"atas-artha-pratyaya"; "in construction with that" is the sense. Although among
the suffixes having the sense of atas the very first is astāti, "atas-artha" is
stated for brevity (lāghava) rather than "astāty-artha," which would be cumbersome
(gaurava) owing to the conjunct consonant [in astāti].
On "dik-śabda": the meaning is that it is an exception to the ablative that is
enjoined by the word "dik-śabda" in the sūtra "anyārād-itarart[e]…"
On "dakṣiṇataḥ": after the word "dakṣiṇa" (ending in the seventh, fifth, or first
case and denoting direction, place, or time), in its own sense, comes atasuc; the
meaning is "in the southern [direction]" (dakṣiṇasyām), "from the southern"
(dakṣiṇasyāḥ), or "the southern direction" (dakṣiṇā dik) — likewise for place and
time.
On "puraḥ": after the word "pūrva," in the sense of astāti, by "pūrvādharāvarāṇām
asi puradhavaś caiṣām" the suffix asi [applies] and the substitution "pur" for the
base [pūrva]; the meaning is "in the east" (pūrvasyām), "from the east"
(pūrvasyāḥ), or "the eastern [direction]" (pūrvā). On "purastāt": when the suffix
astāti [applies] after the word "pūrva," by "āstāti ca" the substitution "pur" for
the base [occurs]; this has the same meaning as the word "puraḥ." On "upari": by
the sūtra "upary-upariṣṭāt," the suffixes ril [rila] and ṣṭātil after the word
"ūrdhva," together with the substitution "upa" for the base, are irregularly
established (nipātita); the meaning is "in the upward direction" (ūrdhvāyāṃ diśi),
"from the upward direction" (ūrdhvāyā diśaḥ), or "the upward direction" (ūrdhvā
dik) — likewise for place and time too.
translator notes
- translator The Aṣṭādhyāyī sūtras that the commentary cites only by pratīka (dik-śabdebhyaḥ… astātiḥ; āhi ca dūre; uttarāc ca; dakṣiṇottarābhyām atasuc; anyārād-itarart[e]…; pūrvādharāvarāṇām asi puradhavaś caiṣām; āstāti ca; upary-upariṣṭāt) are left unnumbered rather than supplied speculatively (§13).
SK 610 · A 2.3.31V
एनपा द्वितीया ॥ ६१० ॥
enapā dvitīyā
The second case (dvitīyā) with a word ending in the affix enap [and, by rule-division, the sixth case as well].
Rule. The second case-ending is added to a word construed with a word ending in the affix enap (the affix in dakṣiṇena "to the south"). By dividing the rule at enapā, the sixth case-ending is allowed too.
Example.
grāma + dakṣiṇena → dakṣiṇena grāmam or dakṣiṇena grāmasya "to the south of the village". Likewise uttareṇa "to the north".
Siddhānta-kaumudī
एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥
The dvitīyā is used in conjunction with a word ending in enap. By splitting the rule (yoga-vibhāga) at "enapā," the ṣaṣṭhī also [occurs]. E.g. dakṣiṇena grāmaṃ grāmasya vā — "to the south of the village" [dvitīyā or ṣaṣṭhī]. Likewise uttareṇa — "to the north."
Tattvabodhinī
alignment inferredNSP p. 162—दक्षिणेनेति । दक्षिणस्यामद्भ इत्यर्थे ‘एनवन्यतरस्याम्’ इत्यादिना एनप्
Bālamanoramā
एनपा द्वितीया - एनपा द्वितीया ।षष्ठतसर्थे॑ति षष्ठआ नित्य बाधे प्राप्ते आह — योगविभागादिति । एनपेति योगो विभज्यते ।षष्ठतसर्थे॑ति पूर्वसूत्रात्षष्ठीत्यनुवर्तते । एनबन्तेनयोगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ।एनबन्यतरस्यामदूरेऽपञ्चम्याः॑ इत्येनप् । एवमुत्तरेणेति । उत्तरेण ग्रामं ग्रामस्य वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं ग्रामस्य वेत्याद्यपि बोध्यचम्, दिक्शब्देभ्यः एनब्विधेः । भाष्ये तुषष्ठतसर्थे॑ति सूत्रात्प्राक् 'एनपा द्वितीया' इत्यस्य पाठ इति 'पृथग्विना' इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योगविभागे षष्ठीग्रहणानुवृत्तेरसंभवादेनपायोगे षष्ठसाधुरेवेति युक्तम् ।
enapā dvitīyā — Since the ṣaṣṭhī prescribed by ṣaṣṭhy atasarthe... (A 2.3.30) would obligatorily (nitya) block [this], he says "by rule-division" (yoga-vibhāga): the rule is divided [so that] "enapā" stands as a separate rule. From the preceding sūtra ṣaṣṭhy atasarthe... the word ṣaṣṭhī is carried forward (anuvṛtti); the meaning being, "in conjunction with an enap-ending word the ṣaṣṭhī occurs." "dvitīyā" is then the other rule [the second yoga]; "enapā" is carried forward; and the stated sense is "in conjunction with an enap-ending word the dvitīyā occurs."
"dakṣiṇena": the enap by enabanyatarasyāmadūre'pañcamyāḥ (A 5.3.35). "Likewise uttareṇa": that is, the example uttareṇa grāmaṃ grāmasya vā. pūrveṇa grāmaṃ grāmasya vā and the like should also be understood, since enap is prescribed after directional words (dik-śabda).
But in the Bhāṣya, "enapā dvitīyā" is read before the sūtra ṣaṣṭhy atasarthe... — this is stated under the sūtra pṛthagvinā... (A 2.3.32). Hence here, even granting the rule-division, since the anuvṛtti of the word ṣaṣṭhī is impossible [given that ordering], it is proper [to hold] that in conjunction with enap the ṣaṣṭhī form is simply valid [i.e. established by usage].
translator notes
- textual The digital source repeatedly renders the pratīka of the preceding sūtra as षष्ठतसर्थेति; read ṣaṣṭhy atasarthe (ṣaṣṭhyatasarthapratyayena, A 2.3.30). The evident reading is followed; the source is not emended.
SK 611 · A 2.3.34V
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ ६११ ॥
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām — 2.3.34. With words meaning 'far' (dūra) and 'near' (antika), the sixth (genitive) is used optionally [the fifth/ablative otherwise].
Rule. With words meaning "far" and "near", the sixth case-ending is optionally added; in the alternative, the fifth.
Example.
grāma + dūram / nikaṭam → dūraṃ grāmasya or dūraṃ grāmāt "far from the village"; nikaṭaṃ grāmasya or nikaṭaṃ grāmāt "near the village".
Siddhānta-kaumudī
एतैर्योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥
In connection with these [words meaning "far" and "near"], the sixth (genitive)
occurs, and (in the alternative) the fifth (ablative). Example: dūraṃ nikaṭaṃ
grāmasya grāmād vā — "far / near — of the village, or from the village" (grāmasya
in the genitive, or grāmāt in the ablative).
Tattvabodhinī
NSP p. 162–163—दूरान्तिकार्थैः—। षष्ठ्यां प्राप्तायां पक्षे पञ्चम्यर्थं वचनम् । इहान्यतर-स्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु संनिहिते अपि द्वितीयातृतीये तदाह— पञ्चमी चेति
Bālamanoramā
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् - दूरान्तिकार्थैः । एतैरिति । दूरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः । पञ्चमी चेति । षष्ठभावेअपादाने पञ्चमी॑त्यतोऽनुवृत्ता पञ्चमीति भावः ।एनपा द्वितीया॑इतिपृथग्विनानानाभिस्तृतीया॑ इति द्वितीयातृतीया संनिहिते अपि न समुच्चीयेते, व्याख्यानात् ।
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām — dūrāntikārthaiḥ. "etaiḥ" (with these):
the meaning is "in connection with words meaning 'far' (dūrārthaka) and words
meaning 'near' (antikārthaka)." "pañcamī ca" (and the fifth): the idea is that, in
the absence of the sixth (genitive), the fifth (ablative) is carried forward by
anuvṛtti from "apādāne pañcamī" [2.3.28]. The second (accusative) by "enapā
dvitīyā" [2.3.31], and the third (instrumental) by "pṛthag-vinā-nānābhis tṛtīyā"
[2.3.32], although close at hand (saṃnihite), are not [also] brought in
(na samuccīyete), on the strength of the [traditional] explanation (vyākhyāna).
Footnotes (NSP 1915 ed.)
NSP p. 163 १ समर्थयोरिति—समर्पार्यसंशब्देन सह सुप्सुपेति समासः। शकन्ध्वादित्वात्पररूपं वा । तुस्थार्थयोरिति मात्रः ।
SK 612 · A 2.3.51V
ज्ञोऽविदर्थस्य करणे ॥ ६१२ ॥
jño'vidarthasya karaṇe
After the root jñā (to perceive) when it is not in the sense of vid (mere knowing), the genitive (ṣaṣṭhī) is used for what is the instrument (karaṇa), when that is intended to be expressed as a relational remainder (śeṣa).
Rule. With jñā when it does not mean mere knowing (vid), the sixth case-ending is added to the instrument, when that instrument is meant as a remainder.
Example.
sarpis + jñānam "the knowing done by means of ghee" → ghee is the instrument, presented as a relation → sarpiṣo jñānam.
Siddhānta-kaumudī
जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥
Of the root jānāti (jñā) when not in the sense of [mere] knowing, the genitive (ṣaṣṭhī) occurs when the instrument (karaṇa) is intended to be expressed as a relational remainder (śeṣa). [Example:] sarpiṣo jñānam — "the knowing of ghee" [where sarpis, really the instrument, stands in the genitive].
Tattvabodhinī
alignment inferredNSP p. 163—सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिः तत्संवन्धिनी प्रवृत्तिरित्यर्थः । ज्ञानपूर्विकायां प्रवृत्तौ जानातेर्लक्षणा
Bālamanoramā
ज्ञोऽविदर्थस्य करणे - ज्ञोऽविदर्थस्य । ज्ञः-अविदर्थस्येति च्छेदः । 'ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठएकवचनम् । वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह — जानातेरज्ञानार्थस्येति । शेषत्वेनेति । संबन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपिप्रतिपदविधाना षष्ठी न समस्यते॑ इत्येतदर्थं वचनम् ।
jño'vidarthasya karaṇe — On "jño'vidarthasya": the word-division (cheda) is jñaḥ — avidarthasya. "jña," being an imitation (anukaraṇa) of the root jñā, is a genitive singular [i.e. "of jñā"]. vit = knowledge (jñāna); that whose meaning (artha) is vit is vidartha; what is not so is avidartha — that is, "of [jñā] other than in the knowing sense (jñānārthaka-bhinna)." He states this with "of jānāti not in the sense of knowing." On "as a relational remainder (śeṣatvena)": the meaning is "as a relation (saṃbandha)," since [the word] śeṣa is carried forward (anuvṛtti) [from ṣaṣṭhī śeṣe, A 2.3.50]. On "sarpiṣo jñānam": the meaning is the activity related to the ghee (sarpis) which is in reality the instrument (karaṇa). By the very indication (liṅga) of "avidartha," the rule operates when the root "jñā avabodhane" (jñā = to perceive) is in use. Although [the genitive] is already established by "ṣaṣṭhī śeṣe (A 2.3.50)," this [separate] statement is made in order that [the maxim] "a genitive that is specifically enjoined (pratipada-vidhānā) does not enter into a compound" [should apply here].
translator notes
- translator avidartha is glossed by BM through the equation vit = jñāna, so that the rule concerns jñā in the sense 'jñā avabodhane' (to perceive) as distinct from the vid-sense of mere knowing; the two glosses (kaumudī's ajñānārtha and BM's avidartha) are rendered as given without harmonizing them.
SK 613 · A 2.3.52V
अधीगर्थदयेशां कर्मणि ॥ ६१३ ॥
adhīgarthadayeśāṃ karmaṇi
The sixth case (ṣaṣṭhī) for the object (karman) of [the roots] adhi-i and its synonyms, day, and īś.
Rule. With adhi-i (remember) and its synonyms, with day (favour) and with īś (rule over), the sixth case-ending is added to the object, as a remainder.
Example.
mātṛ + smaraṇam "the remembering of the mother" → mātuḥ smaraṇam.
sarpiṣo dayanam "favour with regard to ghee"; sarpiṣa īśanam "control over ghee".
Siddhānta-kaumudī
एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥
For the object (karman) of these [roots], the ṣaṣṭhī occurs in the residual (śeṣa) sense. E.g. mātuḥ smaraṇam — "the remembering of the mother"; sarpiṣo dayanam — "the favoring with regard to the ghee," or īśanam — "the disposal of the ghee."
Tattvabodhinī
NSP p. 163—अधीगर्थ—। अधिशब्दोच्चारणं ‘इङ्किवावध्युपसर्गं न व्यभिचरतः’ इति ज्ञापनार्थम् । अन्यथा ‘स्मृत्यर्थदयेशाम्’ इत्येव ब्रूयात् ‘इगर्थं—’ इति वा ॥ इहंशे नेदं ज्ञापकमिति चेत्तर्हि तदंशे ‘णेरध्ययने वृत्तम्’ इत्यत्राधिशब्दोच्चारणं ज्ञापकमस्तु ॥ अत्र व्याचर्युः । कर्मणि किम् । करणे शेषलविवक्षायां मा भूत् । मातुर्गुणस्मरणम् । अत्र माता कर्म, गुणास्तु करणम्, उभयत्र शेषलविवक्षायामपि मातृशब्दादेवानेन सूत्रेण षष्ठी, गुणशब्दात्तु ‘षष्ठी शेषे’ इत्यनेन । तेन गुणस्मरणमिति समासो भवतीति
Bālamanoramā
अधीगर्थदयेशां कर्मणि - अधीगर्थ । एषामिति ।इक्स्मरणे॑नित्यमधिपूर्वः, तस्यार्थ इवार्थों यस्य सोऽधीगर्थः । स्मरणार्थक इति यावत् । शेष इति । 'षष्ठी शेषे' इत्यतस्तदनुवृत्तेरिति भावः । मातुः स्मरणमिति । वस्तुतःकर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः । सर्पिषो दयनमिति । वस्तुतः कर्मींभूतसर्पिःसंबन्धि दयनमित्यर्थः ।दय दानगतिरक्षणहिंसादानेषु॑ । दीनान्दयते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति । 'सर्पिष' इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । 'लोकानीष्टे' इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः ।
adhīgarthadayeśāṃ karmaṇi — "of these" (eṣām): the root i in the sense of remembering (ik smaraṇe) is always preceded by adhi (adhi-i); one whose meaning is as-it-were the meaning of that [root] is "adhīgartha" — that is, meaning "to remember." "In the residual sense" (śeṣe): the idea is that [the word śeṣa] is carried forward by anuvṛtti from ṣaṣṭhī śeṣe (A 2.3.50).
"mātuḥ smaraṇam": the meaning is "the remembering related to the mother, who is really the object (karman)." "sarpiṣo dayanam": the meaning is "the favoring related to the ghee, which is really the object." [The Dhātupāṭha gives] "daya — in the senses of giving, going, protecting, injuring, and giving." In dīnān dayate ("he has compassion on the wretched"), the sense is "he wishes to separate [them] from suffering"; compassion (dayā) is the wish to remove another's suffering. "or īśanam": "sarpiṣaḥ" is to be construed [here too]; the meaning is "the disposing-at-will (yatheṣṭa-viniyoga) related to the ghee, which is really the object." This [example] too is only for the purpose of prohibiting a compound (samāsa-niṣedha). But in lokān īṣṭe ("he rules the worlds"), the sense is "he commands according to his own will" [where the object takes the second case, not the ṣaṣṭhī].
SK 614 · A 2.3.53V
कृञः प्रतियत्ने ॥ ६१४ ॥
kṛñaḥ pratiyatne
kṛñaḥ pratiyatne — 2.3.53. Of kṛñ (the root kṛ), when there is pratiyatna (imparting a new quality), the genitive is used for the karma [as śeṣa].
Rule. With kṛ, when a new quality is imparted (pratiyatna), the sixth case-ending is added to the object, as a remainder.
Example.
edhodaka + upaskaraṇam "the preparing of fuel and water" → they are improved by the preparing → edhodakasyopaskaraṇam.
Siddhānta-kaumudī
कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधोदकस्योपस्करणम् ॥
Of kṛñ (the root kṛ), the sixth (genitive) occurs for the karma as śeṣa, when
there is guṇādhāna (the imparting of a [new] quality). Example: edhodakasyopaskaraṇam
— "the preparing of firewood and water" (edhodaka in the genitive).
Bālamanoramā
कृञः प्रतियत्ने - कृञः प्रति । कर्मणीति, शेष इति चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह — कृञः कर्मणीति । एधोदकस्योपस्करणमिति । एधश्शब्दः सकारान्तो नपुंसकलिङ्गः । दकशब्द उदकवाची । एधश्च दकं चेति द्वन्द्वः । यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः । एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम् । वस्तुतःकर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः ।
kṛñaḥ pratiyatne — kṛñaḥ prati. "karmaṇi" and "śeṣe" are carried forward
(anuvṛtti). pratiyatna means guṇādhāna (the imparting of a [new] quality to
something already existing). He states this by "kṛñaḥ karmaṇi." "edhodakasya
upaskaraṇam" — the word "edha" ends in s (sakārānta) and is neuter; the word "daka"
denotes water (udaka); so "edhaś ca dakaṃ ca" is a dvandva. Or else the word "edha"
ends in a (akārānta) and is masculine, and "edhaś ca udakaṃ ca" is the dvandva —
as was stated just above. In reality the meaning is "the preparing (pariṣkaraṇa)
pertaining to the firewood-and-water that is the object (karma-bhūta)."
SK 615 · A 2.3.54V
रुजार्थानां भाववचनानामज्वरेः ॥ ६१५ ॥
rujārthānāṃ bhāvavacanānāmajvareḥ
rujārthānāṃ bhāvavacanānām ajvareḥ — 2.3.54. In construction with roots meaning 'to pain' (rujā) that have the action as their agent (bhāvavacana), excluding √jvar, the genitive occurs [for the object as a remainder].
Rule. With verbs meaning "pain" (rujā) whose agent is the action itself, excluding jvar, the sixth case-ending is added to the object, as a remainder.
Example.
caura + rogasya rujā "the disease's afflicting of the thief" → the thief is the object of the afflicting, whose agent is the disease → caurasya rogasya rujā.
Applies when / blocked by. A vārttika reads "excluding jvar and santāp": rogasya caurajvaraḥ, rogasya caurasantāpaḥ "the disease's fever of the thief" — since these roots are exempt, the thief compounds with them instead.
Siddhānta-kaumudī
भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ।
The genitive occurs, as a remainder-genitive (śeṣe ṣaṣṭhī) for the object (karman), in
construction with roots meaning rujā ("pain, affliction, disease") which have the action
(bhāva) as their agent (bhāvakartṛka), excluding √jvar. Example: caurasya rogasya
rujā — "by the affliction of disease upon the thief."
vārttikaअज्वरिसंताप्योरिति वाच्यम्
(vārttika) ajvarisantāpyoḥ — It should be stated: "excluding √jvar and √santāp."
(वार्तिकम्) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥
(vārttika) [Illustration:] rogasya caurajvaraḥ or caurasantāpaḥ — "the disease's
fever-of-the-thief," or "torment-of-the-thief." That is: the fever, torment, and the
like which is related to the thief (who is the object) and has the disease as its agent
(rogakartṛka). [Here the genitive does not fall under the present rule, since √jvar and
√santāp are excluded, and so a compound does form.]
Tattvabodhinī
NSP p. 163—रुजार्थानाम्— ‘रुजो भङ्गे’ भिदादिपाठादत एव निपातनाद्वा अङ्कि टाप् । रुजा व्याधिरर्थो येषां तेषां रुजार्थानां धातूनां भाववाचकलाव्यभिचाराद् भावशब्देनात्र घबादिवाच्यः सिद्ध-रूपो भाव उच्यते । वक्तीति वचनः । वाहुलकात् कर्तरि ल्युट् । प्रकृत्यर्थस्तु न विवक्षितः । नहि भावो वक्ता संभवति तस्मात् प्रत्ययस्य साधुलनिर्वाहायैव वचिरिति वोध्यः । तथा चायमर्थः । भावो वचनः कर्ता येषां तेषां भाववचनानामिति, तदेतद्याचष्टे—भावकर्तृकाणामिति । रुजार्थानां भावकर्तृकाणाम् इत्येव सूत्रयितुं युक्तम् ॥—चौरस्येति । चुरा शीलमस्य चौरः । अत्र कर्मणि शेषलविवक्षायामनेन षष्ठी ॥—रोगस्येति । ‘पदरुज—’ इति घबा रोगो भावोऽभिधीयते, स च रुजायां कर्ता ‘कर्तृकर्मणोः—’ इति रोगशब्दात् षष्ठी ॥ भावकर्तृकाणां किम् । श्लेष्मणश्चौररुजा । ‘मायुः पित्तं कफः श्लेष्मा’ इत्यमरः ॥—चौरज्वर इति । इह चौरशब्दाद् ‘रुजार्थानां’ इति पश्या अप्रवृत्तौ ‘षष्ठी शेषे’ इत्यनेन षष्ठी । ‘षष्ठी’ इति समासो भवत्येवेति भावः
Bālamanoramā
रुजार्थानां भाववचनानामज्वरेः - रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्व्याचष्टे — भावकर्तृकाणामिति । वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थौ न विवक्षितः । भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह — कर्मणि शेष इति । इदमपि समासाऽभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजायां कर्ता । तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी ।रोगस्य चोररुजे॑ति समासो न भवतीति बोध्यम् । अज्वरिसंताप्योरिति ।रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना॑मिति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठआ समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं 'रोगस्य चौरसंताप' इत्यत्रापि बोध्यम् । अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्याप्त दर्शयितुमाह — रोगकर्तृकमिति । रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत् । एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः ।
rujārthānāṃ bhāvavacanānām ajvareḥ — "rujārthānām": the analysis is "[roots] whose
meaning is rujā, i.e. pain (pīḍā), disease (roga)." He explains "bhāvavacanānām" with
"bhāvakartṛkāṇām" (having the action as agent): "vacana" means "that which expresses
(vakti)," the lyuṭ suffix in the agent sense; but the literal stem-meaning is not
intended. The analysis [of the compound] is "those [roots] whose bhāva (= the root-
meaning, the action) is the vacana (= agent)" — i.e. whose agent is the action itself.
That it amounts to "having the action as agent" (bhāvakartṛka) is stated clearly in the
Bhāṣya. "śeṣe" (2.3.50) and "karmaṇi" are carried forward (anuvṛtti); thus he says
"karmaṇi śeṣe." This too is stated only for the sake of [showing] the absence of
compounding [here].
caurasya rogasya rujā — here "rujā" denotes the pain, such as torment (santāpa),
caused by the malady; the resulting sense is "the disease afflicts the thief with
torment." The pain such as torment has the disease as agent and resides in the thief who
is really the object (karman). Here the word "roga," ending in the ghañ suffix in the
action sense (bhāva), denotes a particular disorder such as bodily wasting; and that
[disease] is the agent in the affliction (rujā). When the thief, its object, is intended
as a "remainder" (śeṣa), the genitive occurs. Note that a compound "rogasya caurarujā"
does not form.
ajvarisantāpyoḥ — the meaning is that the sūtra should be stated as "rujārthānāṃ
bhāvavacanānāṃ jvarisantāpivarjitānām" (excluding both √jvar and √santāp). rogasya
caurajvaraḥ — here, in the word "caurajvara," a compound does form by the remainder-
genitive (śeṣa-ṣaṣṭhī), because there is no re-injunction [prohibiting compounding] of
the remainder-genitive [now that √jvar is excluded]. The same is to be understood in
"rogasya caurasantāpa" too.
Were "ajvarisantāpyoḥ" not stated, then [the rule] "rujārthānāṃ bhāvavacanānāṃ karmaṇi
śeṣe" would [wrongly] give the genitive from "caura" [and block compounding]; to show
this over-application (ativyāpti), he says "rogakartṛkam…" — that is, the fever or torment
which has the disease as agent and relates to the thief who is really the object. And so,
since √jvar and √santāp do have the sense of rujā and do have the action-consisting-of-
disease as their agent, when the thief — their object — is intended as a remainder, the
genitive is not by this rule [they being excluded], but rather the genitive comes in
construction with a kṛt suffix, or optionally the genitive by śeṣe ṣaṣṭhī (2.3.50).
Hence the compounds "caurajvaraḥ" and "caurasantāpaḥ" do form. This is the idea.
SK 616 · A 2.3.55V
आशिषि नाथः ॥ ६१६ ॥
āśiṣi nāthaḥ
āśiṣi nāthaḥ — 2.3.55. For nāth (√nāth), when a benediction/wish (āśis) is meant, the genitive is used for the karma [as śeṣa].
Rule. With nāth in the sense of a wish (āśis), the sixth case-ending is added to the object, as a remainder.
Example.
sarpis + nāthanam "the wishing for ghee" → sarpiṣo nāthanam.
Applies when / blocked by. Why "in a wish"? In māṇavakanāthanam "the entreating of the boy", nāth means a request, and the rule does not apply.
Siddhānta-kaumudī
आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥
Of nāth (nāthati) in the sense of āśis (benediction, wishing), the sixth (genitive)
occurs for the karma as śeṣa. Example: sarpiṣo nāthanam — "the wishing for ghee"
(sarpis in the genitive). Why "in the sense of āśis"? [Counter-example:]
māṇavakanāthanam — "[the entreating] concerning the boy"; the meaning is "a request
pertaining to him" [where the genitive by this rule does not apply].
Tattvabodhinī
alignment inferredNSP p. 163—सर्पिषो नाथनमिति । सर्पिर्मे भूयादित्याशासनमित्यर्थः ॥—माणव-कनाथनमिति । यद्यपि कर्मलविवक्षायां ‘कर्तृकर्मणोः—’ इति यदा षष्ठी, तदा आशिष्यपि समासोऽस्त्येव । तथापि तत्र ‘गतिकारकोपपदात्कृत्’ इति कृदुत्तरपदप्रकृतिस्वरः, समासान्तोदात्तत्वं तु याच्यादावेव न त्वाशिषीति निष्कर्ष इति कौस्तुभे स्थितम् ॥—जासि— ‘जसु ताडने’, ‘जसु हिंसायाम्’ इति च चुरादिस्तस्येदं ग्रहणं न तु दैवादिकस्य ‘जसु मोक्षणे’ इत्यस्य । जासीति निर्देशात् ‘हिंसायाम्’ इति वचनाच्च
Bālamanoramā
आशिषि नाथः - आशिषि नाथः । शेषे, कर्मणि इति चानुवर्तते । तदाह — आशीरर्थस्येति । इदमपि समासाऽभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीर्नाथतेरर्थः । वस्तुतःकर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः ।
āśiṣi nāthaḥ — āśiṣi nāthaḥ. "śeṣe" and "karmaṇi" are carried forward
(anuvṛtti). He states this by "āśīrarthasya" (of [nāth] in the sense of āśis). This
too is only for the purpose of [preventing] the compound (samāsābhāva). "sarpiṣo
nāthanam" — the wish (icchā) "May this be mine" is āśāsana (benediction); that very
[wishing] is the sense of nāth as āśis. In reality the meaning is "the wishing
(āśāsana) pertaining to the ghee that is the object (karma-bhūta)."
SK 617 · A 2.3.56V
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ ६१७ ॥
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām — 2.3.56. With [the roots] jas (jāsi), ni-/pra-han (niprahaṇa), naṭ (nāṭa), krath (krātha), and piṣ, when [used] in the sense of injuring (hiṃsā), the genitive (ṣaṣṭhī) is used for the object (karman) expressed as a śeṣa (a non-kāraka remainder-relation).
Rule. With jas, han preceded by ni and pra, naṭ, krath and piṣ, in the sense of injury (hiṃsā), the sixth case-ending is added to the object, as a remainder.
Example.
caura + ujjāsanam "the slaying of the thief" → caurasyojjāsanam.
caurasya niprahaṇanam — ni and pra may also be reversed or used singly: praṇihananam, nihananam, prahaṇanam.
caurasyonnāṭanam (naṭ, a root of the tenth (curādi) class, in the sense of assailing); caurasya krāthanam; vṛṣalasya peṣaṇam "the crushing of the śūdra".
Applies when / blocked by. Why "injury"? In dhānāpeṣaṇam "the grinding of parched grain", piṣ means real grinding, and the genitive is not by this rule.
Siddhānta-kaumudī
हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥
For these [roots], when they have the sense of injury (hiṃsā), the ṣaṣṭhī (genitive)
applies to the object (karman) [expressed] as a śeṣa. caurasyojjāsanam — "the slaying
of the thief" (caurasya, genitive; from jas). ni and pra [may be construed] combined
(saṃhata), reversed (viparyasta), or separate (vyasta): caurasya niprahaṇanam;
praṇihananam; nihananam; or prahaṇanam. naṭ in the sense of "assailing (avaskandana)"
is a curādi [class-10] root: caurasyonnāṭanam — "the slaying of the thief." caurasya
krāthanam — "the slaying of the thief" (from krath). vṛṣalasya peṣaṇam — "the crushing
[= slaying] of the śūdra (vṛṣala)" (from piṣ). Why "in the sense of injury"?
dhānā-peṣaṇam — "the grinding of parched grain" [where piṣ is literal grinding, not
injury, so the genitive rule does not apply].
Tattvabodhinī
alignment inferredNSP p. 163—निप्रहणनमिति । हन्तेरत्पूर्वस्य’ इति णलम् ॥—प्रणीति । ‘नेर्गद—’ इति णलम् ॥—चुरादिरिति । ‘नट नृत्तौ’ इति तु न गृह्यते दीर्घनिर्देशादिति भावः ॥—काथनमिति । ‘कथ हिंसायाम्’ इति घटादौ पत्यते, तस्य मित्त्वेऽपि इह निपातनाद्बुद्धिः । मित्त्वफलं तु निपातनात्परत्वात् ‘चिण्णमुलोः’ इति दीर्घं चरितार्थमिति घटादौ वक्ष्यति ॥ यत्तु हरदत्तेनोक्तम् । घटादिपाठो ‘घटादयः पितः’ इत्यातिदेशिकत्वे अङ् यथा स्यादित्येतदर्थः इति तन्मन्दम् । ‘घटादयः पितः’ इति हि मध्ये सूत्रितम् । तेन पूर्वेषां लरत्यन्तानामेव पित्त्वं, न तु ज्वरादीनां परेषामिति । अत एव ‘लरत्यन्ताल्लयोदशानुदात्तेतः पितश्च’ इति घटादौ वक्ष्यति ॥—पणनमिति । ‘स्तुतावेव’ इति वक्ष्यमाणत्वादायस्याभावः
Bālamanoramā
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् - जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह — हिंसार्थानामित्यादिना । इदमपि समासाऽभावार्थमेव । चौरस्योज्जासनमिति । 'जसु ताडने' 'जसु हिसायाम्' इति चुरादौ । वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः । 'जसु मोक्षणे' इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च । निप्राविति । निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः । तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः । समस्तावुदाहरति — चौरस्य निप्रहणनमिति । वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः ।हन्तेरत्पूर्वस्ये॑ति णत्वम् । विपर्यस्तावुदाहरति — प्रणिहननमिति ।नेर्गदे॑ति णत्वम् । हन्तेर्नकारस्य तु न णत्वम्, 'अट्कुप्वाङ्' इति नियमात्, नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति — निहननं प्रहणमनं वेति । निमित्ताऽभावान्निहननमित्यत्र 'बन्तेरत्पूर्वस्य' इति णत्वं न । चुरादिरिति । 'नट नृत्तौ' इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः । चौरस्योन्नाटनमिति । उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । 'क्रथ हिंसायाम्' इति घटादौ । 'घटादयो मितः' इति तस्य मित्त्वेऽपि 'मितां ह्रस्वः' इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिसेत्यर्थः । व्यपह्मपणोः । शेषपूरणेन सूत्रं व्याचष्टे — शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननुपण व्यवहारे स्तुतौ चे॑ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह — द्यते इति । द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः ।
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām — "karmaṇi" and "śeṣe" are carried forward
(anuvartate); he states this by "of those having the sense of injury (hiṃsārthānām)"
and so on. This too [like the preceding rule] serves only to indicate the absence of
a compound (samāsa-abhāva). "caurasyojjāsanam": from "jasu tāḍane" ("to strike") and
"jasu hiṃsāyām" ("to injure") among the curādi [roots]; in truth the meaning is "the
injury relating to the thief who has become the object (karman)." But "jasu mokṣaṇe"
("to release"), the daivādika [class-4] root, is not grasped, because it lacks the
sense of injury and because of the specification "jāsi" [with long ā].
"niprau": "niprahaṇa" is the specification of the root han preceded by ni-pra. There,
ni and pra are grasped combined (samasta); grasped in reverse order (vyutkrama), as
pra-ni; and grasped separately (pṛthak) too, as pra and ni — by [the principle of]
interpretation (vyākhyāna). He illustrates the combined [form]: "caurasya
niprahaṇanam" — in truth "the slaying relating to the thief who is the object"; the
ṇatva (n → ṇ) is by "hanter at-pūrvasya." He illustrates the reversed [form]:
"praṇihananam" — the ṇatva by "ner gada-nada-pata-..."; but the na of han does not
become ṇa [here], by the restriction "aṭ-ku-pu-āṅ-[num-vyavāye 'pi]" (A 8.4.2),
because the na of "ni" is not included among those [intervening sounds across which
ṇatva is permitted]. He illustrates the separate [forms]: "nihananam" or
"prahaṇanam"; in "nihananam," owing to the absence of the occasioning cause, the
ṇatva by "hanter at-pūrvasya" does not [apply]. "curādiḥ": but "naṭa nṛttau" ("to
dance") [the class-1 root] is not grasped, because of the long pronunciation "nāṭa"
[in the sūtra] — this is the idea. "caurasyonnāṭanam": by force of the preverb
(upasarga), naṭ functions in the sense of injury. "caurasya krāthanam": from "kratha
hiṃsāyām" ("to injure") among the ghaṭādi [roots]; although it is "mit" by "ghaṭādayo
mitaḥ," the shortening by "mitāṃ hrasvaḥ" (A 6.4.92) does not occur here, because the
long [vowel] is fixed by nipātana [in the sūtra's "krātha"]. "vṛṣalasya peṣaṇam":
meaning "injury."
vyavahṛpaṇoḥ [the following sūtra] — He explains the sūtra by supplying the
remainder (śeṣa-pūraṇa): "the ṣaṣṭhī applies to the object (karman) [expressed] as
śeṣa." The analysis of ["samartha" in the sūtra] is "those two whose meanings are
equal (sama = tulya)"; the pararūpa (the single substitute = the following vowel, in
sama-artha → samartha) is by [its inclusion in] the "śakandhv-ādi" [class]. The
meaning is: for the root hṛ (hṛñ) preceded by "vyava-" and for the root paṇ, [both]
having one meaning (ekārthaka), when the object (karman) is intended as a śeṣa, the
ṣaṣṭhī applies. This too serves only to prevent a compound. Objection: By "paṇa
vyavahāre stutau ca" ("paṇ in the sense of transaction and of praise"), the root paṇ
functions also in the sense of praise (stuti), not only in transaction (vyavahāra);
so how are these two of one meaning? To this he says "dyūte": in gambling (dyūta =
playing with dice) and in the settling of a price in buying-and-selling
(kraya-vikraya-viṣayaka-mūlya-saṃvāda), these two — vyavahṛ and paṇ — are of one
meaning; and so it results [that the rule applies] "to the two [roots] having such a
transaction-sense." "śatasya vyavaharaṇaṃ paṇanaṃ vā" ("the transacting or wagering
of a hundred"): the meaning is "he takes [it] by way of a gambling-transaction or a
buying-selling transaction" (śatasya, genitive); [the sense "takes" is supplied]
because, if it meant merely "transaction," intransitivity (akarmakatva) would follow.
And so, in truth, the meaning is "the taking, by dice-play, of that which relates to
the hundred that has become the object; or the taking by way of settling a price in
buying-and-selling."
translator notes
- textual The Bālamanoramā block runs on past sūtra 2.3.56 into the commentary on the following sūtra, 'vyavahṛpaṇoḥ samarthayoḥ' (A 2.3.57), which the digital source has merged into this unit; its pratīka is printed 'vyapahmapaṇoḥ' for 'vyavahṛpaṇoḥ.' The Kaumudī block (k1) covers 2.3.56 only.
- textual In the illustration of the separate prefixes the source prints 'prahaṇamanaṃ' for 'prahaṇanam'; the translation follows the evident reading.
SK 618 · A 2.3.57V
व्यवहृपणोः समर्थयोः ॥ ६१८ ॥
vyavahṛpaṇoḥ samarthayoḥ
In construction with the roots vyavahṛ (to transact) and paṇ (to bargain), when the two are used in their [equivalent transactional] sense (samartha), the genitive (ṣaṣṭhī) is used for the object (karman).
Rule. With vyavahṛ (transact) and paṇ (bargain), when the two have the same sense, the sixth case-ending is added to the object, as a remainder. They share a sense in gambling and in buying and selling.
Example.
śata + vyavaharaṇam "the transacting of a hundred" → śatasya vyavaharaṇam, śatasya paṇanam.
Applies when / blocked by. Why "of the same sense"? In śalākāvyavahāraḥ "counting with rods" and brāhmaṇapaṇanam "praise of a brāhmaṇa", the roots mean counting and praising, and the rule does not apply.
Siddhānta-kaumudī
शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥
The genitive (ṣaṣṭhī) occurs for what is the karman, [treated] as a relational remainder (śeṣa). In gambling (dyūta) and in the transaction of buying and selling (kraya-vikraya-vyavahāra) these two [roots] have equivalent meaning (tulyārthatā). [Thus:] śatasya vyavaharaṇam or paṇanam — "the transacting, or bargaining, of a hundred [coins]" [where śatasya, the object, stands in the genitive]. Why "samartha (of equivalent meaning)"? [Consider the counterexamples:] śalākā-vyavahāraḥ, meaning "counting (gaṇanā) [with rods]"; brāhmaṇa-paṇanam, meaning "praise (stuti) [of a brāhmaṇa]" [— here vyavahṛ and paṇ are not in the transactional sense, so this special provision does not apply].
Tattvabodhinī
alignment inferredNSP p. 163—ब्राह्मणपणन-मिति । ‘आयादय आर्धधातुके वा’ इत्यायस्य विकल्पः
Bālamanoramā
व्यवहृपणोः समर्थयोः - समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह — गणनेत्यर्थ इति । वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राआहृणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवाहारार्थ इत्याह — स्तुतिरित्यर्थ इति । वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।
vyavahṛpaṇoḥ samarthayoḥ — On "why samartha?": the meaning is, what is the purpose of [specifying] "of the two [roots] having the meaning of transaction (vyavahārārthaka)?" On "śalākā-vyavahāraḥ": in this counterexample vyavaharati does not carry the meaning of transaction, which he states with "meaning gaṇanā (counting)." What in fact results is: "the counting related to the counting-rods (śalākā) which are the [logical] object (karman)." Here, since there is no re-injunction (punar-vidhi) of the genitive [i.e., the genitive comes only from the general rule ṣaṣṭhī śeṣe, not from a specially enjoined provision], a compound (samāsa) does indeed take place — this is the intent. On "brāhmaṇa-paṇanam": a counterexample for paṇati; here paṇ is not in the sense of transaction, which he states with "meaning stuti (praise)." What in fact results is: "the praise related to the brāhmaṇa who is the [logical] object (karman)." Here too a compound does take place — this is the intent.
SK 619 · A 2.3.58V
दिवस्तदर्थस्य ॥ ६१९ ॥
divastadarthasya
divas tadarthasya — Of div (dīv) that has that meaning [i.e. the meanings of vyavahṛ and paṇ carried forward from the previous rule: gambling, or the buying-selling transaction], the genitive (ṣaṣṭhī) is used for its object (karman).
Rule. With div in those senses — gambling, or buying and selling — the sixth case-ending is added to the object.
Example.
śata + dīvyati "he stakes a hundred" → śatasya dīvyati.
Applies when / blocked by. Why "in those senses"? In brāhmaṇaṃ dīvyati "he praises the brāhmaṇa", div means praise, and the accusative stands.
Siddhānta-kaumudī
द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥
Of div (dīv) whose meaning is gambling (dyūta) and whose meaning is the transaction (vyavahāra) in the form of buying and selling (kraya-vikraya), the genitive occurs for the object (karman). [Example:] śatasya dīvyati — 'he gambles/stakes for a hundred' (genitive). Why 'tadarthasya' ('having that meaning')? [Because in] brāhmaṇaṃ dīvyati — meaning 'he praises the brāhmaṇa' [where dīv means 'to praise,' not to gamble or trade, so the accusative, not the genitive].
Tattvabodhinī
NSP p. 163–164—दिवस्तद—। तच्छब्देन व्यवहृपणौ परामृश्येते तौ च द्यूते कयविक्रयव्यवहारे च तुल्यार्थौ पूर्वसूत्रे गृहीतावित्याशयेनाह—द्यूतेति । पूर्वसूत्र एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, तथापि योगविभाग उत्तरार्थः ॥—कर्मणीति । इह शेष इति न संवध्यते उत्तरसूत्रे विकल्पारम्भसामर्थ्यात् । अन्यथा षष्ठ्यां विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः । अन्ये त्वाहुः, लाघवात् पूर्वसूत्रे एव दिवोग्रहणे कर्तव्ये पृथग्योगकरणसामर्थ्यादत्र शेष इति न संबध्यते । न चोत्तरार्थलात्पृथग्योगस्य नोक्तार्थज्ञापकलमिति वाच्यम् । संकोचे मानाभावेन फलद्वयस्यापि सुवच-लादिति शेष इत्यस्यासंबन्धादिह त्रिसूत्र्यां तिङन्तमुदाहरति—शतस्य दीव्यतीति
Bālamanoramā
दिवस्तदर्थस्य - दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते । तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः । तदाह — द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाऽभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम् । तद्ध्वनयन्नुदाहरति — शतस्य दीव्यतीति । शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एवद्वितीया ब्राआहृणे॑ इत्युत्तरसूत्रेगामस्य तदहः सभायां दीव्येयुः॑ इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ॑मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः ।
divas tadarthasya — The 'transaction' (vyavahāra) and 'wager' (paṇa) specified in the previous rule are referred to by the word 'tad' ('that'). The analysis is: 'that (div) whose meaning is precisely the meaning of these two, vyavahṛ and paṇ.' This he states with 'dyūtārthasya' (whose meaning is gambling): the analysis being 'div whose meaning is dyūta — gambling, i.e. winning by playing with dice (akṣa-krīḍana).' On 'kraya...': the bahuvrīhi is 'div whose meaning is the settling of price (mūlya-saṃvāda) pertaining to buying and selling.'
On 'the genitive for the object': here 'śeṣe' (the residual-genitive adhikāra) does not carry forward, because of the [traditional] explanation. And thus, since there is no intention to treat the object as 'residual' (śeṣa), the [genitive] would not be obtained by 'ṣaṣṭhī śeṣe' — this rule is [enjoined] for that purpose, and not for the purpose of preventing a compound in construction with a kṛt-ending word. Suggesting this, he exemplifies: 'śatasya dīvyati,' meaning 'he wins a hundred by playing dice, or by the settling of a price in buying and selling.' Here, because 'śeṣe' does not carry forward, the cognition is precisely one qualified by object-hood (karmatva). For this very reason, in the following rule 'dvitīyā brāhmaṇe...,' as in 'gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ,' where — the constant (nitya) genitive being available — it is said [that the next rule serves] for the sake of the accusative: this accords with the Bhāṣya and Kaiyaṭa. The details are elsewhere.
Footnotes (NSP 1915 ed.)
NSP p. 164 १ पूर्वयोगेति—एतेन अत्रापि शेष इति नानुवर्तते, तदर्थस्येति चानुवर्तते इति ध्वनितमिति बोध्यम् । २ कर्तृकर्मणो-रिति—क्रियाविशेषणानां कर्मत्वेऽपि कर्मशब्देन तेषां न ग्रहणम्, अतएव दारुणं यथा भवति तथाध्यापक इत्यर्थकस्य दारुणाध्यापकशब्दस्य सिध्यर्थं मल्लेपवचनं भाष्यकृता आरब्धम् । अन्यथा समासेनैव सिद्धे तद्यर्थं स्यादिति । इदमेव क्रियाविशेषणात् पञ्चयभावे लिङ्गम् ।
SK 620 · A 2.3.59V
विभाषोपसर्गे ॥ ६२० ॥
vibhāṣopasarge
vibhāṣopasarge — 2.3.59. When an upasarga is present, [the genitive enjoined by the preceding rule for the stake with the root div, 'to gamble'] is used optionally [so that the accusative also appears].
Rule. When an upasarga is present, the genitive of the preceding rule is only optional; the accusative reappears. This is an apavāda of SK 619.
Example.
śata + prati-dīvyati "he stakes against a hundred" → śatasya pratidīvyati or śataṃ pratidīvyati.
Siddhānta-kaumudī
पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ॥
This is an exception (apavāda) to the preceding rule-connection (pūrva-yoga)
[which enjoined the genitive for the stake without qualification]. Example:
śatasya / śataṃ vā pratidīvyati — "he stakes against a hundred," with the stake
in the genitive (śatasya) or, optionally, the accusative (śataṃ), [the accusative
reappearing because here, with the upasarga prati present, the genitive is only
optional].
Bālamanoramā
विभाषोपसर्गे - प्रेष्यब्राउवोः । देवतासप्रदानके इति । देवता संप्रदानं यस्य तस्मिन्नित्यर्थः । प्रेष्यब्राउवोरिति । 'ईष गतौ' दिवादिः श्यन्नन्तः, उपसर्गवशात्प्रेरणे वर्तते । प्रेष्यश्च ब्राऊश्चा तयोरिति विग्रहः । कर्मण इति ।अधीगर्थे॑त्यतः कर्मणीत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । हविष इति । हविश्शब्दो न स्वरूपपरः किंतु हविर्विंशेषवाचकशब्दपरः , व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विंशेषवाचकशब्दपरः, व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषवाचकशब्दपरः, व्याख्यानात् । तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषस्तद्वाचकाच्छब्दात्षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये छागस्येति । मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः । हे मैत्रावरुण । अग्न्युद्देशेन प्रदास्यमान छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत्प्रेष्य ।होता यक्षदग्न छागस्य वपाया॑मेदसो जुषतां हविर्होतर्यजे॑ति प्रैषेण प्रकाशयेत्यर्थः । अत्र यद्यपिअग्नये छागस्य वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणत्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये॑त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते । अनुब्राऊहि वेति ।अग्नये छागस्य हविषो वपाया मेदसोऽनुब्राऊही॑त्युदाहरम् । हे मैत्रावरुण ! अगन्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः-वपाख्यं मेदोरूपं — तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यब्राउवोः किम् । अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासंप्रदाने किम् । माणवकाय पुरोडाशं प्रेष्य ।हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः॑ । इन्द्राग्निभ्या#ं छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थितमिति । अव्यक्तमित्यर्थः ।
preṣyabruvoḥ [haviṣo devatāsaṃpradāne] — On "when a deity is the recipient
(devatāsaṃpradānake)": it means "in that [action] of which a deity (devatā) is
the recipient (saṃpradāna)." On "of preṣya and brū": [preṣya derives from] "īṣ"
(in the sense of motion), a divādi root, ending in [the vikaraṇa] śyan, which by
the force of the upasarga [pra] comes to denote "impelling" (preraṇa); the
analysis (vigraha) [of the compound] is "of those two, preṣya and brū." On "of
the object (karmaṇaḥ)": the point is that "karmaṇi" ("in respect of the object"),
carried forward by anuvṛtti from "adhīgartha[dayeśāṃ karmaṇi]" (2.3.52), is
reshaped into a genitive. On "of the havis": the word havis is not meant in its
own literal form (svarūpa), but stands for a word denoting a particular oblation
(havir-viśeṣa), by [traditional] exposition (vyākhyāna). And thus it results that
the genitive [is used] after a word denoting a particular oblation that is the
object of preṣya and brū (which denote an action having a deity as recipient).
Here too "śeṣe" [from "ṣaṣṭhī śeṣe" 2.3.50] is not carried forward, by exposition;
and thus this [rule] is an exception (apavāda) to the accusative (dvitīyā).
On "agnaye chāgasya": this is a ritual injunction (saṃpraiṣa) made by the
Adhvaryu to the Maitrāvaruṇa [priest]. "O Maitrāvaruṇa! That oblation belonging
to the goat, to be offered with reference to Agni — called vapā, in the form of
fat (medas) — impel (preṣya) it," i.e., "make it known by the injunction 'hotā
yakṣad agne chāgasya vapāyā medaso juṣatāṃ havir hotar yaje'." Although in the
Kalpasūtras one finds only "agnaye chāgasya vapāyā medasaḥ preṣya," and not also
"haviṣaḥ," nevertheless such an injunction [including "haviṣaḥ"] is to be assumed
to exist in some [Vedic] recension (śākhā), on the strength of the Bhāṣya's
example. By the word medas is meant a particular kind of flesh resembling a strip
of cloth. On "anubrūhi vā": the example is "agnaye chāgasya haviṣo vapāyā medaso
'nubrūhi." "O Maitrāvaruṇa! That oblation belonging to the goat, to be offered
with reference to Agni — called vapā, in the form of fat — reveal it by the
puro'nuvākyā (the invitatory verse)."
Why "of preṣya and brū"? [To exclude:] agnaye chāgasya havir vapāṃ medo juhudhi
("offer to Agni the goat's oblation, the vapā, the fat" — with √hu, so the
accusative vapāṃ medaḥ). Why "of the havis"? [To exclude:] agnaye gomayāni preṣya
("impel the cow-dung cakes to Agni" — gomaya not being a havis, accusative).
Why "when a deity is the recipient"? [To exclude:] māṇavakāya puroḍāśaṃ preṣya
("impel the sacrificial cake for the boy" — the recipient not being a deity,
accusative).
[A vārttika:] "A prohibition must be stated when the havis is qualified as 'set
forth/served' (prasthita)." [Example:] indrāgnibhyāṃ chāgasya havir vapāṃ medaḥ
prasthitaṃ preṣya ("impel to Indra and Agni the goat's oblation, the vapā, the
fat, [now] set forth" — accusative, because of the qualifier prasthita). On
"prasthitam": it means "avyakta."
translator notes
- textual The Bālamanoramā block carries the pratīka vibhāṣopasarge (matching the Kaumudī sūtra 2.3.59 and the example śatasya/śataṃ vā pratidīvyati), but its content is in fact the commentary on a different sūtra — preṣyabruvoḥ haviṣo devatāsaṃpradāne (Aṣṭādhyāyī 2.3.61), which enjoins the genitive for the oblation (havis) that is the object of preṣya and brū when a deity is the recipient. This is evidently a mis-segmentation in the digital source: the commentary on vibhāṣopasarge itself is not present, and the block preserved here belongs to the later sūtra. The transmitted reading is followed and the pratīka is rendered as the sūtra the commentary actually treats.
- textual The digital source repeats the passage from "haviḥ-viśeṣa-vācaka-śabda-paraḥ, vyākhyānāt" and the "agnaye chāgasya … kalpasūtreṣu dṛśyate" sentence several times over (OCR/duplication artifact). The repeated material is translated once.
- textual The gloss "prasthitam ity avyaktam ity arthaḥ" is unexpected: prasthita here is the ritual sense "set forth / served up," and the gloss "avyakta" ("unmanifest") does not fit it well; the reading may be corrupt. It is rendered literally without emendation.
SK 621 · A 2.3.61V
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ॥ ६२१ ॥
preṣyabruvorhaviṣo devatāsampradāne
preṣyabruvor haviṣo devatāsampradāne — When [the verbs] preṣya and brū (bruvoḥ) are used and the recipient (sampradāna) is a deity (devatā), the genitive (ṣaṣṭhī) is enjoined after the word denoting the particular oblation (haviḥ) which is the object (karman).
Rule. With preṣya "direct the offering" and brū "recite", when the recipient is a deity, the sixth case-ending is added to the word for the particular oblation that is the object.
Example.
agni + chāga, havis, vapā, medas + preṣya → the deity keeps the dative; the oblation-words take the genitive → agnaye chāgasya haviṣo vapāyā medasaḥ preṣya "for Agni, direct the offering of the goat, the oblation, the omentum, the fat"; likewise anubrūhi "recite".
Siddhānta-kaumudī
देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥
When [the verbs] preṣya and brū (bruvoḥ), occurring in a sense in which a deity
is the recipient (devatā-sampradāna), [are used], the genitive (ṣaṣṭhī) is
enjoined after a word denoting a particular oblation (haviḥ) which is the object
(karman). Example: agnaye chāgasya haviṣo vapāyā medasaḥ preṣya anubrūhi vā —
"For Agni, direct (preṣya) [the offering] of the goat (chāgasya), of the
oblation (haviṣaḥ), of the omentum (vapāyāḥ), of the fat (medasaḥ)," or "recite
after (anubrūhi)." [The oblation-words stand in the genitive by this rule, while
the deity Agni is in the dative as the sampradāna.]
Tattvabodhinī
alignment inferredNSP p. 164—प्रेष्यब्रुवोः—। इष्यतेर्देवा-दिकस्य लोटो मध्यमपुरुषैकवचनं प्रेष्येति । तत्साहचर्याद् ब्रुविरपि तथाभूत एव गृह्यते । अत एवेह शेषग्रहणं न संब-ध्यते । तिङन्तेन सह समासस्याप्रसक्तलात् ॥ प्रेष्यब्रुवोः किम् । अग्रये छागस्य हविर्वपां मेदो जुहुधि ॥ हविषः किम् । अग्रये गोमयानि प्रेष्य ॥ देवतासंप्रदाने किम् । माणवकाय पुरोडाशान् प्रेष्य ॥ हविषः प्रस्थितत्वेन विशेषणे प्रतिषेधो वक्तव्यः ॥ इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य
translator notes
- translator preṣya and anubrūhi here are ritual directives (praiṣa) of the sacrifice — respectively an order to proceed with the offering and a call to recite the invitatory verse; the case-relation, not the ritual detail, is the point under the rule.
SK 622 · A 2.3.64V
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥ ६२२ ॥
kṛtvo'rthaprayoge kāle'dhikaraṇe
When a word having the sense of kṛtvasuc (denoting number of times) is used, the sixth case (ṣaṣṭhī) for a time-denoting locus (kāla adhikaraṇa) [in the residual sense].
Rule. When a word with the sense of kṛtvasuc ("so many times") is used, the sixth case-ending is added to a time-word that is the locus, as a remainder.
Example.
pañcakṛtvaḥ + ahan + bhojanam "eating five times a day" → pañcakṛtvo 'hno bhojanam; dvir ahno bhojanam "eating twice a day".
Applies when / blocked by. Why "as a remainder"? In dvir ahany adhyayanam "studying twice in the day", the day is meant as a real locus, and the seventh case stands.
Siddhānta-kaumudī
कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥
When words having the sense of kṛtvasuc are used, the ṣaṣṭhī occurs in the residual (śeṣa) sense for a time-denoting locus (adhikaraṇa). E.g. pañcakṛtvo'hno bhojanam — "eating five times, of the day"; dvir ahno bhojanam — "eating twice, of the day." Why "in the residual sense"? [Counter-example:] dvir ahany adhyayanam — "studying twice in a day" [where the locus is genuinely intended, so the seventh case, not the ṣaṣṭhī].
Tattvabodhinī
NSP p. 164—कृत्वोऽर्थ—। कृत्वसुचोऽर्थ इवार्थो येषां प्रत्ययानां ते कृत्वोऽर्थाः ॥—शेषे इति । इह ‘दिवस्तदर्थस्य’ इत्यादिसूत्रषट्के विच्छिन्नमपि शेषग्रहणमनुवर्तते व्याख्यानात् ॥—पञ्चकृत्व इति । ‘संख्यायाः क्रिया—’ इत्यादिना कृत्वसुच् ॥—द्विरिति । ‘द्वित्रिचतुर्भ्यः सुच्’
Bālamanoramā
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे - कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थो येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति ।दिवस्तदर्थस्ये॑त्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतोऽधिकरणीभूतं यदहस्तत्संबन्धि भोजनमित्यर्थः ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति ।द्वित्रिचतुभ्र्यः सुच् इति कृत्वोऽर्थे सुच् । अत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव,नतु षष्ठी ।
kṛtvo'rthaprayoge kāle'dhikaraṇe — "of words having the sense of kṛtvasuc" (kṛtvo'rthānām): those whose meaning is precisely the meaning of the affix kṛtvasuc are "kṛtvo'rtha"; "their use" is what is meant. "The ṣaṣṭhī in the residual sense": the mention of śeṣa, though broken off (viccinna) back at the earlier sūtra divas tadarthasya..., is carried forward here by a "frog's leap" (maṇḍūka-pluti), on the strength of the traditional exposition (vyākhyāna).
"pañcakṛtvo'hno bhojanam": the meaning is "the eating, related to the day which is really the locus (adhikaraṇa), five times." [The affix:] "kṛtvasuc [is added] to a number-word when the repetition of the action is being counted" (saṃkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc, A 5.4.17). Here, because the ṣaṣṭhī is re-prescribed in the residual sense, there is no compound (samāsa). "dvir ahany adhyayanam": the affix suc, in the sense of kṛtvasuc, by dvitricaturbhyaḥ suc (A 5.4.18). Here, because the locus (adhikaraṇa) is [genuinely] intended (vivakṣita), only the seventh case occurs, not the ṣaṣṭhī.
translator notes
- textual The pratīka of the earlier sūtra at which śeṣa-grahaṇa was broken off is cited as divas tadarthasya...; this is A 2.3.58 (the sūtra of the sibling unit sk0619).
SK 623 · A 2.3.65V
कर्तृकर्मणोः कृति ॥ ६२३ ॥
kartṛkarmaṇoḥ kṛti
kartṛkarmaṇoḥ kṛti — 2.3.65 (a vibhakti rule). In construction with a kṛt affix, the genitive (ṣaṣṭhī) is used to denote the agent (kartṛ) and the object (karman).
Rule. In construction with a kṛt, the sixth case-ending is added to express the agent and the object.
Example.
kṛṣṇa + kṛti "Kṛṣṇa's act" → Kṛṣṇa is the agent of the act → sixth case → kṛṣṇasya kṛtiḥ.
jagat + kartā "the maker of the world" → the world is the object → jagataḥ kartā kṛṣṇaḥ.
Applies when / blocked by. Why "with a kṛt"? Not with a taddhita: kṛtapūrvī kaṭam "one who has made a mat before" keeps the accusative, since kṛtapūrvin ends in a taddhita. A vārttika: for a subordinate object (guṇakarman) the genitive is optional: netāśvasya srughnasya / srughnaṃ vā "the one who leads the horse to Srughna" — the horse, the main object, is genitive; Srughna, the subordinate one, is genitive or accusative.
Siddhānta-kaumudī
कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ।
In construction with a kṛt, the genitive occurs for the agent (kartṛ) and for the object (karman). [Agent:] kṛṣṇasya kṛtiḥ — "Kṛṣṇa's act/creation." [Object:] jagataḥ kartā kṛṣṇaḥ — "Kṛṣṇa [is] the maker of the world."
vārttikaगुणकर्मणि वेष्यते
(vārttika) guṇakarmaṇi veṣyate — "[The genitive] is desired optionally for the subordinate object (guṇa-karman / gauṇa-karman)."
(वार्तिकम्) ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥
(vārttika) netāśvasya srughnasya srughnaṃ vā — "the one who leads the horse to Srughna": here "aśva" (horse) is the principal object [genitive], while "srughna," being the subordinate object, takes optionally either the genitive (srughnasya) or the accusative (srughnam). — Why "kṛti" [in the sūtra]? So that [the genitive] may not arise in construction with a taddhita [affix]: kṛtapūrvī kaṭam — "one who has previously made a mat" (kaṭam, accusative, not genitive, because kṛtapūrvin ends in a taddhita).
Tattvabodhinī
NSP p. 164–165—कर्तृकर्मणोः कृति । शेष इति निवृत्तं, ‘कर्तरि च कृति’ इति सूत्रे कृतेन चकारेण ‘अधीगर्थ—’ इति सूत्रात् ‘चतुर्भ्यर्थे वहुलं छन्दसि’ इति पर्यन्तमनुवर्तमानस्य कर्मणीत्यस्यानुकर्षणसंभवेऽपि पुनरत्र कर्मग्रहणादित्याहुः । तन्मन्दम्, संनिहितस्याधिकरणस्या-नुकर्षणप्रसङ्गेन तन्निवृत्तये कर्मग्रहणसंभवात् । तस्मात् व्याख्यानमेवात्र शरणमित्यपरे ॥ कर्तृकर्मणोः किम् । शस्त्रेण भेत्ता—कृतिरिति । करणं कृतिः ‘स्त्रियां क्तिन्’ कृष्णोऽत्र कर्ता ॥ कर्मण्युदाहरति—जगत इति । कृष्णस्य तृचाभिहितलात् ततः षष्ठी न भवति ॥—कृति किमिति । नन्विह कर्तृकर्मभ्यां क्रिया आक्षिप्यते तद्वाची तु धातुरेव । धातोश्च द्वये प्रत्ययाः कृतस्तिङ्कश्च । तत्र तिङ्प्रयोगे कटं करोतीत्यादौ ‘न लोका—’ इति प्रतिषेधेन भाव्यम् । ततश्च परिशेषात् कृद्योगे एव षष्ठी भविष्यति, तस्मात्किं कृद्ब्रहणेनेति प्रश्नः ॥—कृतपूर्वी कटमिति । अत्र करोतिक्रियापेक्षमनभिहितं कर्मत्वं कटस्यास्त्येवेति षष्ठी स्यात्तद्धिताधिक्ये तु सा मा भूदित्येतदर्थं कृद्ब्रहणमिति भावः । ननु कृतः कटः पूर्वमनेने-त्यस्मिन् विग्रहे क्तस्य कर्मणि विधानात्तेनैवाभिहितं कर्मेति नैव द्वितीया प्राप्नोति, नापि तदपवादभूता षष्ठी, इहाप्यनभिहि-ताधिकारात् । किंच कृतशब्दस्य कटसापेक्षतया समासो दुर्लभ एव, एवं तद्धितोऽपीति चेत् । अत्राहुः । पूर्वं कृतमनेनेति विग्रहे अविवक्षितकर्मतया भावे क्तप्रत्यये कृते कृतशब्दस्य कटसापेक्षलाभावात्समासतद्धितौ भवत एव । तथाच ‘कृत-पूर्वीत्ययं पूर्वं कृतवान्’ इत्यनेन समासार्थः संपद्यते गुणभूतयापि क्रियया कारकाणां संबन्धस्य कटं कृतवानित्यादौ दर्श-नादत्रापि करोतिक्रियापेक्षं कर्मत्वं कटस्याभ्युपगम्यते । तच्च कर्मत्वं न केनाप्यभिहितम् । भावे क्तस्य, कर्तरि इनिप्रत्य-यस्य च विधानात् । अतोऽसति कृद्ब्रहणे षष्ठी स्यादेवेति । एवंच ओदनस्य पाचकतम इत्यत्र षष्ठ्या असाधुत्वे इष्टापत्ति-रेव शरणम् । कृतपूर्वीत्यत्र समासतद्धितौ भवत एवेत्युक्तम् । तत्र समासः ‘सुप्सुपा’ इति बोध्यः । तद्धितस्तु ‘पूर्वादिनिः’ ‘सपूर्वाच्च’ इति कर्तरि इनिः । तद्विधौ ‘श्राद्धमनेन’ इति सूत्रादनेनेत्यनुवृत्तेः । स्यादेतत् । भिदेर्ण्यन्तात् ‘पर्यायार्हणोत्प-त्तिषु’ इति ण्वुचि भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामित्युभाभ्यामप्यनेन कृद्योगषष्ठी जायते तत्र मुख्यामुख्यसंनिधौ मुख्यस्यैव कार्ये संप्रत्ययात् प्रयोजककर्तृवाचकादेव स्यात् । अन्यथा पाचयत्योदनं देवदत्तेन यज्ञदत्त इत्यत्र प्रयोज्यप्रयो-जकयोरुभयोरपि लकारवाच्यत्वे उभाभ्यामपि कर्तृवाचकाभ्यां प्रथमा स्यात् । मैवम् । प्रयोज्यप्रयोजकवाचकाभ्यां भेदेन षष्ठी जायते न त्वेकैवेति नेह मुख्यामुख्यन्यायप्रवृत्तिः । तत्र तु लकारस्यैकलात् कर्तुस्तद्वाच्यत्वकल्पनायामुक्तन्यायः प्रव-र्तेत इति वैषम्यात् । एवं च ओदनः पाच्यते देवदत्तेन यज्ञदत्तेनेत्यादावुभाभ्यामपि तृतीया स्यादेवेति बोध्यम् ॥ अत्र व्याचक्षते । ‘तदर्हम्’ इति निर्देशात् ‘कर्तृकर्मणोः कृति’ इत्येतदनित्यम् । तथा च ‘धयैरामोदमुत्तमम्’ इति भट्टिप्रयोगः संगच्छत इति
Bālamanoramā
कर्तृकर्मणोः कृति - कर्तृकर्मणोः कृति । कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह — कृद्योग इति । तत्र कर्तर्यु दाहरति — कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णक्रतृका सृष्टिरित्यर्थः । कर्मण्युदाहरति-जगत इति । जगत्कर्मकसृष्टनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मकधातुयोगेऽप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी ।अकथितं चे॑त्यत्र भाष्ये स्थितमेतत् । नेताऽआस्येति ।अकथितं चे॑त्यत्रग्राममजां नयती॑त्युदाहरणे अजा प्रदानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अआः प्रधानकर्म, रुआउघ्नस्तु गुणक्रमेति ज्ञेयम् । स्यादेतत् — कृतीति व्यर्थम् । नच तिङ्व्यावृत्त्यर्थं तदिति वाच्यम्,ओदनं पचती॑त्यादौन लोके॑ति लादेशयोगे षष्ठीनिषेधादेव षष्ठभावसिद्धेः ।शतेन क्रीतः शत्योऽआः॑ इत्यादौ तु तद्धितयप्रत्ययाभिहितत्वादेवाऽआआदेः षष्ठी न भविष्यति । न च देवदत्तं हिरुगित्यादौ हिरुगाद्यव्ययबोध्यवर्जनादिक्रियां प्रति कर्मंत्वादनेन षष्ठी शङ्क्या,न लोकाव्यये॑ति तन्निषेधात् । शेषत्वविवक्षायां तु षष्ठत्र इष्यत एव । एवञ्च परिशेष#आत्कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्ग्रहणेनेति पृच्छति — कृति किमिति । उत्तरमाह — तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्वं कृतोऽनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रियाविशेषणं । 'सुप्सुपा' इति समासः । अनेनेत्यनुवृत्तौ क-तपूर्वशब्दात् 'पूर्वादिनः'सपूर्वाच्चे॑ति इनिप्रत्ययस्तद्धितः । तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयोगान्न भवति । ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न संभवति, कृतशब्दस्य कटशब्दापेक्षत्वेन सामर्थ्यविरहात् । अत एव तद्धितैनिप्रत्ययोऽपि दुर्लभः । किञ्च कृतमिति क्तप्रत्ययेन कटस्य कर्मणोऽभिंहितत्वेन ततः षष्ठ्याः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्ग्रहणेन । क्तप्रत्ययेन कुता अभिहितत्वादेव कटाद्द्वितीयापि दुर्लभेति चेत्, मैवम्, कृत अम् पूर्वं अम् इत्यलौकिकविग्रहवाक्ये कटस्याऽसंनिहिततया कर्मत्वेनान्वयाऽसंभवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्याऽसंभवे सति 'नपुंसके भावे क्तः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाऽभावात्समासतद्धितौ निर्बाधौ । ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्व कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वेति, गुणभूतयापि क्रियया कारकसंबन्धस्य कटं कृतवानित्यादौ दर्शनात् । तच्च कर्मत्वं न क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात् । नापीनिप्रत्ययेन, तस्य कर्तरि विधानात् । तथाच असति कृद्ग्रहणे षष्ठी स्यात् । तन्निवृत्त्यर्थं कृद्ग्रहणमिति भाष्ये स्पष्टम् । न च निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यं,नपुंसके क्ते भावे षष्ठआ उपसङ्ख्यान॑मिति 'क्तस्य च वर्तमाने' इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राऽप्रसक्तेः । तथाच षष्ठभावे उक्तरीत्याऽनबिहितत्वाद्द्वितीया सुलभैव । नच कृतेऽपि कृद्ग्रहणे षष्ठी दुर्वारा, कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्त्वादिति वाच्यं, कृद्ग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तद्योगः षष्ठीनिमित्तम् । नचैवं सति 'ओदनस्य पाचकतमः'ओदनस्य पाचकग्रहण॑मित्यादौ षष्ठी न स्यात् , वृत्त्यनन्तर्भूतकृद्योगाऽभावात् । तथाच ओदनं पाचकतमः, ओदनं पाचकग्रहणमिति द्वितीयैव स्यादिति वाच्यम्, इष्टापत्तेः । अत एव मतुबधिकारेप्रज्ञाश्रद्धार्चाभ्यो णः॑ इत्यत्रप्राज्ञो व्याकरण॑मित्युदाहरिष्यते मूलकृता । नचैवं 'घटः क्रियत' इत्यत्रापि कर्मणो विवक्षाऽभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनाऽन्वयसंभवादनभिहितत्वाद्द्वितीया दुर्वारेति वाच्यं, वैषम्यात् । कृतपूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्याऽसंनिधानात् कर्मणो विवक्षा न संभवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम् । 'क्रियते' इत्यत्र तु न संभवत्येवाऽविवक्षा, कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाऽभावात् । तथाच वृत्तिविषयएवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु 'ओदनं पाचकतम' इत्यादौ द्वितीयाऽसाधुरेव, षष्ठएव साधुरिति प्रपञ्चितम् । विस्तरभयान्नेह तल्लिख्यते । ननु भट्टिकाव्येददैर्दुःखस्यमादृग्भ्यो धायैरामोदमुत्तमम् । लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः॑ इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी । मादृग्भ्यो दुःखं ददैः=ददद्भ#इ#ः, पुष्पादीनामामोदं=परिमलं धायैः=पोषकैः, तनोः=तनुं शरीरं लिम्पैः=लिम्पद्भिः कः चेतयः=प्राणी, ज्वलः=ज्वलन्निव न स्यादित्यर्थः । अत्रामोदस्योत्तमस्येति कर्मणि षष्ठआ भाव्यम् । धायशब्दस्य पोषणार्थकधाञ्धातोः 'ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेत्, न, उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पौषकैरित्येवं गृहीत्वेत्यध्याह्मत्य तद्योगे द्वितीयाया उपपत्तेः ।
kartṛkarmaṇoḥ kṛti — kartṛkarmaṇoḥ kṛti: the meaning is "when a kṛt affix is being employed." He states the upshot: "in construction with a kṛt (kṛd-yoge)." Among these he first illustrates the agent (kartṛ): "kṛṣṇasya kṛtiḥ" — [in kṛti] the affix ktin is added in the abstract (bhāva) sense, feminine; the meaning is "the creation of which Kṛṣṇa is the agent." He illustrates the object (karman): "jagataḥ" — the meaning is "one who has the activity conducive to a creation whose object is the world" [i.e. the world's creator].
On "guṇakarmaṇi" [the vārttika]: the meaning is that in construction with a double-object (dvikarmaka) root ending in a kṛt, the genitive is desired optionally (vikalpa) for the non-principal object (apradhāna-karman); but for the principal object the genitive is invariable (nitya). This stands in the Bhāṣya on "akathitaṃ ca" [A 1.4.51]. On "netāśvasya": on "akathitaṃ ca," in the example "grāmam ajāṃ nayati" ("he leads the goat to the village") it was explained earlier that "ajā" (goat) is the principal object (pradhāna-karman) and "grāma" (village) the subordinate object (guṇa-karman); by that method, here "aśva" (horse) is to be understood as the principal object and "srughna" as the subordinate object.
[Objection:] It might be [thought] that "kṛti" [in the sūtra] is purposeless. Nor should it be said that it serves to exclude the finite verb (tiṅ); for in "odanaṃ pacati" ("he cooks rice") and the like, the absence of the genitive is already established by the prohibition of the genitive given by "na loka..." [A 2.3.69] in construction with a lakāra-substitute (lādeśa). But in "śatena krītaḥ śatyo 'śvaḥ" ("a horse bought for a hundred is a śatya horse") and the like, the genitive of "aśva" etc. will not arise, precisely because the relation is already expressed (abhihita) by the taddhita affix. Nor should the genitive by this [rule] be suspected in "devadattaṃ hiruk" ("apart from Devadatta") and the like — on the ground that Devadatta is the object of the excluding action denoted by the indeclinable "hiruk" — because that is prohibited by "na lokāvyaya-niṣṭhā..." [A 2.3.69]. But when a mere relation (śeṣatva) is intended, the genitive is indeed desired here.
And so, by elimination (pariśeṣa), this genitive comes down to being [only] in construction with a kṛt; hence [the objector] asks "what is the use of mentioning 'kṛt'?" — "kṛti kim." He gives the answer: "in [construction with] a taddhita (taddhite)" — that is, the mention of kṛt is for excluding the genitive in construction with a taddhita. On "kṛtapūrvī kaṭam": the ordinary (laukika) analysis is "a mat was previously made by him (kaṭaḥ pūrvaṃ kṛto 'nena)." There "pūrvam" is an adverb (kriyā-viśeṣaṇa); the compound is by supsupā (vārtt. on A 2.1.4 saha supā); with "anena" carried forward (anuvṛtti), from the word "kṛta-pūrva" the taddhita affix "ini" is added by "pūrvādinaḥ..." and "sapūrvāc ca." There, although "kaṭa" is the object with reference to the action "karoti" and the genitive would thus be obtained by this rule, it does not occur, because of the construction with a taddhita.
Objection: In the analysis "kṛtaḥ kaṭaḥ pūrvam anena," the word "kṛta" cannot compound with the word "pūrva," because — since "kṛta" is dependent on the word "kaṭa" — syntactic capacity (sāmarthya) is lacking; and for this very reason even the taddhita affix "ini" is hard to obtain. Moreover, since the object "kaṭa" is already expressed (abhihita) by the -kta affix in "kṛta," there is no obtaining of the genitive from it at all; so what is the use of mentioning "kṛt" in order to exclude it? If it be said that, [the object] being already expressed by the -kta affix, even the accusative from "kaṭa" is hard to obtain — Response: Not so. In the non-ordinary (alaukika) analysis-sentence "kṛta am pūrvam am," since "kaṭa" is not present (asaṃnihita), its connection as the object is impossible; hence the root √kṛ, being at that stage intransitive (akarmaka), cannot take the -kta affix in the object sense (karmaṇi); therefore, when the -kta affix is applied in the abstract sense (bhāve) by "napuṃsake bhāve ktaḥ," the word "kṛta" is not dependent on "kaṭa," and so the compound and the taddhita are unobstructed. And thus the taddhita-ending word "kṛtapūrvin" comes down to the sense "one who did [something] before." When one inquires "what did he do?" as to the object, "kaṭam" (accusative) connects [as answer]; for even through a subordinate (guṇa-bhūta) action a kāraka-relation is seen, as in "kaṭaṃ kṛtavān." And that object-status is expressed neither by the -kta affix (since that is prescribed in the bhāva sense) nor by the "ini" affix (since that is prescribed in the agent sense, kartari). And so, were "kṛt" not mentioned, the genitive would occur; the mention of "kṛt" is for excluding that — this is clear in the Bhāṣya.
Nor should it be said: "the genitive will not arise here anyway, because of the prohibition of the genitive in construction with a niṣṭhā [-kta affix]." For, by the vārttika located under the sūtra "ktasya ca vartamāne" — namely "napuṃsake kte bhāve ṣaṣṭhyā upasaṅkhyānam" ("in the neuter, with -kta in the bhāva sense, the genitive is to be additionally enjoined") — the prohibition of the genitive in construction with a niṣṭhā does not apply here. And so, the genitive being [thus] absent [i.e. blocked only by the mention of kṛt], and [the object] being unexpressed (anabhihita) in the manner stated, the accusative is readily [available]. Nor should it be said: "even when 'kṛt' is mentioned, the genitive is unavoidable, since in 'kṛta' there exists a construction with a kṛt, namely the -kta affix"; for, by the force (sāmarthya) of the mention of "kṛt" and by the Bhāṣya's example, what is intended is a construction with a kṛt that has not been absorbed into a complex formation (vṛtti). And in the present case, since "kṛta" has been absorbed into the taddhita-vṛtti, construction with it is not a cause of the genitive.
Nor [should it be objected]: "this being so, in 'odanasya pācakatamaḥ' ('the best cook of rice') and 'odanasya pācaka-grahaṇam' the genitive would not arise, for lack of a construction with a kṛt not absorbed into a vṛtti; and so 'odanaṃ pācakatamaḥ,' 'odanaṃ pācaka-grahaṇam' with the accusative alone would arise." This should not be said, because that consequence is acceptable (iṣṭāpatti). For this very reason, under the matup adhikāra, on "prajñā-śraddhārcābhyo ṇaḥ," the author of the text (Bhaṭṭoji) will cite "prājño vyākaraṇam" ("learned in grammar," with vyākaraṇam accusative). Nor [should it be said]: "this being so, in 'ghaṭaḥ kriyate' ('the pot is made') too, relying on the non-intention to express the object, when the impersonal lakāra (bhāva-lakāra) is used, and then, 'ghaṭa' being able to connect as object and being unexpressed, the accusative is unavoidable" — because there is a disparity (vaiṣamya). For in "kṛtapūrvī," at the stage of the non-ordinary analysis, the word "kaṭa" not being present, the intention to express the object is impossible, so it is proper to resort to [saying] the -kta affix is in the bhāva sense; but in "kriyate" the non-intention [of the object] is simply impossible, because — not being absorbed into any of the five kinds of vṛtti (kṛt, taddhita, samāsa, ekaśeṣa, and roots ending in san etc.) — being devoid of any vṛtti, there is no [separate] analysis (vigraha). And so this mode of derivation (vyutpatti) applies only within the domain of a vṛtti — such is the path followed by the older view (prācīna-mata). In the Śabdenduśekhara, however, it is elaborated that in "odanaṃ pācakatama" and the like the accusative is simply incorrect and only the genitive is correct; for fear of prolixity it is not written out here.
Objection: In the Bhaṭṭi-kāvya there is the verse "dadair duḥkhasya mādṛgbhyo dhāyair āmodam uttamam / limpair iva tanor vātaiś cetayaḥ syāj jvalo na kaḥ" — this being the utterance of Śrī Rāma, tormented by separation. Here "duḥkhasya" and "tanoḥ" are genitives in the object sense (karmaṇi ṣaṣṭhī). The meaning: "By the winds (vātaiḥ) — which give (dadaiḥ = dadadbhiḥ) sorrow (duḥkham) to ones like me (mādṛgbhyaḥ), which nourish (dhāyaiḥ = poṣakaiḥ) the excellent (uttamam) fragrance (āmodaṃ = parimalaṃ) of flowers and the like, and which smear (limpaiḥ = limpadbhiḥ) the body (tanoḥ = tanuṃ śarīraṃ) — what living being (kaḥ cetayaḥ = prāṇī) would not be as though aflame (jvalaḥ = jvalann iva)?" [The objector continues:] Here "āmodasya uttamasya" ought to have stood in the genitive as the object [of dhāya], the word "dhāya" ending in a kṛt — the ṇa affix added by "dadāti-dadhātyoḥ..." to the root √dhā(ñ) in the sense of "to nourish" — [yet the poet has the accusative āmodam uttamam]. Response: No; because, supplying "gṛhītvā" ("having taken"), thus — "having taken (gṛhītvā) the excellent fragrance of flowers and the like, the winds being nourishers of sorrow (duḥkhasya poṣakaiḥ)" — the accusative [āmodam uttamam] is justified in construction with that [supplied verb gṛhītvā].
Footnotes (NSP 1915 ed.)
NSP p. 165 १ कमेरिति—उकान्तस्रेति शेषः । इदं च भाषायामेव, भाषायामिति भाष्येक्तः । ।
translator notes
- textual The digital source garbles several forms, corrected silently to the evident reading: kṛṣṇakratṛkā → kṛṣṇakartṛkā; the example forms aārtha/aṣā/ruāughna resolve to aśvaḥ (horse) and srughnaḥ; ṣaṣṭhatra → ṣaṣṭhy atra; parigṛhra → parigṛhya; poṣaka/pauṣaka and adhyāhṛtya show orthographic noise. The verse is quoted from the Bhaṭṭi-kāvya; the pāda-readings are as transmitted in the source.
SK 624 · A 2.3.66V
उभयप्राप्तौ कर्मणि ॥ ६२४ ॥
ubhayaprāptau karmaṇi
ubhayaprāptau karmaṇi — 2.3.66. When both [the agent and the object] would obtain [the genitive] with a kṛt-formation, the genitive (ṣaṣṭhī) is used for the object (karman) alone.
Rule. When both the agent and the object would take the genitive with one kṛt, only the object takes it.
Example.
āścaryo go + doha + agopa "wonderful is the milking of the cows by a non-cowherd" → both would take the genitive → only the object does → āścaryo gavāṃ doho 'gopena (the agent in the instrumental).
Applies when / blocked by. Vārttikas relax this. For feminine formations in the affixes aka (the kṛt affix ṇvul, which appears on the word as -aka) and a, the restriction does not hold, so the agent takes the genitive too: bhedikā / bibhitsā rudrasya jagataḥ "Rudra's shattering, or wish to shatter, the world". Elsewhere the restriction is optional: vicitrā jagataḥ kṛtir hareḥ / hariṇā "wondrous is Hari's making of the world". Some hold the option unrestricted: śabdānām anuśāsanam ācāryeṇa / ācāryasya "the teacher's instruction in words".
Siddhānta-kaumudī
उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥
When both obtain [the genitive] with a single kṛt-formation, in that case the
genitive is used for the object (karman) alone [and not for the agent]. Example:
āścaryo gavāṃ doho 'gopena — "wonderful is the milking of the cows (gavām,
genitive object) by a non-cowherd (agopena, instrumental agent)."
vārttikaस्त्रीप्रत्यययोरकाकारयोर्नायं नियमः
(vārttika) strīpratyayayor akākārayor nāyaṃ niyamaḥ — For the two feminine-suffix
[derivatives formed] with the suffixes aka and a (ā-kāra), this restriction
[confining the genitive to the object] does not [hold] [so the agent too takes
the genitive].
(वार्तिकम्) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ।
(vārttika, illustration) bhedikā bibhitsā vā rudrasya jagataḥ — "the shattering
of the world, or the wish to shatter it, by Rudra" — here rudrasya (the agent)
also takes the genitive.
vārttikaशेषे विभाषा
(vārttika) śeṣe vibhāṣā — In the remaining case [i.e., with suffixes other than
aka and a], [the restriction is] optional (vibhāṣā).
(वार्तिकम्) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥
(vārttika, illustration) Some [read] "strīpratyaye" ("with a feminine suffix").
vicitrā jagataḥ kṛtir hareḥ / hariṇā vā — "wondrous is the fashioning of the
world by Hari" (hareḥ, genitive agent, or hariṇā, instrumental agent). Some hold
that the option applies without restriction. śabdānām anuśāsanam ācāryeṇa /
ācāryasya vā — "the instruction of words by / of the teacher (ācārya)."
Tattvabodhinī
NSP p. 165—उभयप्राप्तौ—। कृतीत्यनुवर्तते । तेनान्यपदार्थलाभाद्वहुत्रीहिरित्याह—उभयोः प्राप्तिर्यस्मिन्निति । उभयशब्देन कर्तृकर्मणी परामृश्येते । तेनैकस्मिन् कृति कर्तृकर्मणोः प्राप्तिलाभादाश्वर्यमिदमोदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्र नायं नियमः प्रवर्तते । तत्पुरुषे तु स्यादेवात्रातिप्रसङ्ग इति भावः ॥ पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमिति ध्वनयति—कर्मण्येवेति । एवं च कर्तरि षष्ठीप्रतिषेधोऽस्य सूत्रस्य फलं, न तु कर्मणि षष्ठीविधानमिति स्थितम् ॥—स्त्रीप्रत्यययोरिति । ‘स्त्रियां क्तिन्’ इत्यधिकारे विहितयोरित्यर्थः ॥—नायं नियम इति । अकाकारयोः प्रयोगे कर्मण्येव षष्ठी न तु कर्तरीति यो नियम उक्तः स न प्रवर्तते, किंतु कर्तर्यपि षष्ठी प्रवर्तत इति फलितोऽर्थः ॥ कथं तर्हि ‘सुद् तिथोः’ इति सूत्रे ‘सुटा सीयुटो वाधो न’ इति वृत्तिः । अत्राहुः । कर्तुः करणत्वविवक्षायां तृतीया बोध्येति—भेदिकेति । भेदनं भेदिका । ‘पर्यायार्हणोत्पत्तिषु’ इति ण्वुच् । ‘धात्वर्थनिर्देशे ण्वुल् वक्तव्यः’ इत्यनेन ण्वुल्त्येके । ‘युवोरनाकौ’ स्त्रियां टापि ‘प्रत्ययस्थात्’—इति इत्यम् ॥—विभित्सेति । भेत्तुमिच्छा । भिदेः सनि ‘हलन्ताच्च’ इति कित्वाहृणाभावः । ‘अ प्रत्ययात्’ इत्यकारप्रत्यये टाप् ॥—शेषे इति । अकाऽकाराभ्यामन्यस्मिन् क्तिनादावित्यर्थः ॥ कर्तरि षष्ठीनिषेधफलकस्य ‘उभयप्राप्तौ’ इति सूत्रस्य तत्रैव कर्तरि षष्ठीसंपादनफलकस्य ‘स्त्रीप्रत्यययोरकाकारयोः’—इति वचनस्य च प्राक् स्थितलात् कर्त्तर्यैव विभाषा अनेन शेषवचनेन क्रियते, न तु कर्मणीत्याशयेनोदाहरति—जगतः कृतिर्हरेर्हरिणा वेति ॥—अविशेषेणेति । अकाऽकारभिन्ने कृन्मात्रे इत्यर्थः ॥—अनुशासनमिति । अनुशिष्यते असाधुशब्देभ्यः प्रविभज्य बोध्यते येनेति करणे ल्युट्
Bālamanoramā
उभयप्राप्तौ कर्मणि - उभयप्राप्तौ कर्मणि । पूर्वसूत्रात्कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाहः-उभयोः प्राप्तिर्यस्मिन्कृतीति । एकस्मिन्कृति उभयोः=कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृको गोकर्मको यो दोहः सोऽद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानां च प्रादुर्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि बहुव्रीह्राश्रयणे तु एकस्यैव कृतो निमित्तत्वलाभाद्भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति ।स्त्रीप्रत्यययोरिति । वार्तिकमेतत् ।स्त्रियां क्ति॑न्नित्यधिकारविहितयोरकाऽकारप्रत्यययोः कृतोः प्रयोगे 'कर्मण्येवे' त्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति । धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप्,प्रत्ययस्थादि॑तीत्त्वम् । विभित्सेति । भिदेः सन्नान्तात्अ प्रत्यया॑दित्यकारप्रत्ययष्टाप् । रुद्द्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाऽकारप्रत्ययव्यतिरिक्तप्रत्ययोगे 'उभयप्राप्तौ' इति नियमो विकल्प्य इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृतिरित्यर्थः । केचिदविशेषेणेति । अकाऽकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उक्तविकल्प इत्यर्थः । शब्दानामिति । आचार्यकर्तृकं शब्दक्रमकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् ।
ubhayaprāptau karmaṇi — From the previous sūtra "kṛt" is carried forward
(anuvartate). "ubhayaprāptau" is a bahuvrīhi whose external referent
(anyapadārtha) is the kṛt[-formation]. Hence he says "the [formation] in which
both obtain": when, in a single kṛt-formation, the genitive (ṣaṣṭhī) is
obtainable for both — the agent and the object (kartṛ-karman) — it occurs for
the object alone, that is, not for the agent. On "āścaryaḥ": the meaning is "the
milking (doha) whose object are the cows and whose agent is a non-cowherd is
wonderful." Were one to take "ubhayaprāptau" as a genitive-tatpuruṣa compound
("when both obtain"), then in "odanasya pāko brāhmaṇānāṃ ca prādurbhāvaḥ"
("the cooking of the rice and the appearance of the Brāhmaṇas") too the genitive
would fall on the object alone [wrongly]; but by taking the bahuvrīhi, since only
a single kṛt-formation is grasped as the occasion, it follows that where the
agent and object are governed by [two] different actions and the genitive
obtains [for each], this restriction does not [apply].
strīpratyayayoḥ — this is a vārttika: for the two kṛt-derivatives with the aka
and a (ā-kāra) suffixes, enjoined under the adhikāra "striyāṃ ktin," when used,
the stated restriction "for the object alone" does not hold; it follows that the
genitive occurs for the agent as well. On "bhedikā": [the suffix] ṇvul [is added]
to denote the meaning of the root, with the substitution aka, then ṭāp, and the
change [of a to i] by "pratyayasthāt…." On "bibhitsā": from the desiderative
(sannanta) of √bhid, the a-suffix and ṭāp; the
meaning is "the shattering (bhedana) whose agent is Rudra and whose object is the
world, or the wish to shatter." On "śeṣe vibhāṣā": this too is a vārttika — with
the use of a suffix other than the aka and a suffixes, the restriction
"ubhayaprāptau" is to be applied optionally. "strīpratyaye ity eke": some hold
that the said option obtains only when a feminine suffix is used. On "vicitrā":
the meaning is "the fashioning (kṛti) whose agent is Hari and whose object is the
world." On "some, without restriction": the meaning is that when a kṛt-formation
is used — whether with a feminine suffix other than aka and a, or without a
feminine suffix at all — the said option obtains. On "śabdānām": the meaning is
"the instruction (anuśāsana) whose agent is the teacher and whose object are the
words"; anuśāsana is the discrimination [of correct words] from incorrect ones.
SK 625 · A 2.3.67V
क्तस्य च वर्तमाने ॥ ६२५ ॥
ktasya ca vartamāne
And in construction with a kta participle that denotes present time (vartamāna), the genitive (ṣaṣṭhī) is used.
Rule. The sixth case-ending is also added in construction with a participle in kta that has present meaning. This is an apavāda of the bar in SK 627.
Example.
rājan + mataḥ "approved by the kings" → kta with present sense → rājñāṃ mataḥ; likewise rājñāṃ buddhaḥ "known to", rājñāṃ pūjitaḥ "honoured by".
Siddhānta-kaumudī
वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक SK 627 इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥
In construction with a kta [participle] having present-time meaning, the genitive (ṣaṣṭhī) occurs. This is an exception (apavāda) to the prohibition [expressed by] "na loka..." (SK 627). [Examples:] rājñāṃ mataḥ, buddhaḥ, or pūjitaḥ — "approved of, known to, or honored by the kings" [where rājñām stands in the genitive].
Tattvabodhinī
alignment inferredNSP p. 165—राज्ञां मत इत्यादि । ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने कः । ‘पूजितो यः सुरासुरैः’ इत्यादौ तु भूते को, न तु वर्तमाने । तेन तृतीया तत्रोपपद्यते । न च ‘मतिबुद्धि—’ इति सूत्रेण बाधः शङ्खः । ‘तेन’ इत्यधिकारे ‘उपज्ञाते’ इति लिङ्गेनाबाधज्ञापनात्
Bālamanoramā
क्तस्य च वर्तमाने - क्तस्य च वर्तमाने । ननुकर्तृकर्मणोः कृती॑त्येव सिद्धे किमर्थमिदमित्यत आह-न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्चमतिबुद्धिपूजार्थेभ्यश्चे॑ति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः, राजकर्त्तृकवर्तमानज्ञानविषयः, राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः ।पूजितो यः सुरासुरैः॑ 'त्वया ज्ञातो घटः' इत्यत्र तु भूते क्तप्रत्ययो बोध्यः ।
ktasya ca vartamāne — Objection (nanu): since [the genitive] is already established by "kartṛkarmaṇoḥ kṛti (A 2.3.65)," what is the purpose of this [sūtra]? Anticipating this he says "na loka..." [Response: this rule is an exception to the prohibition "na lokāvyaya..." A 2.3.69.] On "rājñāṃ mataḥ, buddhaḥ, pūjitaḥ vā": from the roots man, budh, and pūj, the kta suffix [is added] in the present-time sense by "matibuddhipūjārthebhyaśca (A 3.2.188)." Therein mati [from man] means wish (icchā), because buddhi is mentioned separately [in that rule]. The meanings are, respectively: [mataḥ =] the object of present wishing whose agent is the king; [buddhaḥ =] the object of present knowing whose agent is the king; [pūjitaḥ =] the locus of present honoring whose agent is the king. [As in] "pūjito yaḥ surāsuraiḥ" ("who is honored by gods and demons"). But in "tvayā jñāto ghaṭaḥ" ("the pot known by you"), the kta suffix is to be understood as past-sense (bhūta) [and hence takes the instrumental, not the genitive].
SK 626 · A 2.3.68V
अधिकरणवाचिनश्च ॥ ६२६ ॥
adhikaraṇavācinaśca
And [in construction] with a kta participle that denotes the locus (adhikaraṇa), the genitive (ṣaṣṭhī) is used.
Rule. And the sixth case-ending is added in construction with a kta participle that denotes the locus.
Example.
idam + eṣām + āsitam "this is their sitting-place" → idam eṣām āsitaṃ śayitaṃ gataṃ bhuktaṃ vā "this is where they sat, lay, went, ate".
Siddhānta-kaumudī
क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥
In construction with a kta [participle, denoting the locus], the genitive (ṣaṣṭhī) occurs. [Example:] idam eṣām āsitaṃ śayitaṃ gataṃ bhuktaṃ vā — "this is the sitting-, lying-, going-, or eating-place of these [people]" [where eṣām, the agent, stands in the genitive].
Tattvabodhinī
NSP p. 165—अधिकरण—। अयमपि निषेधापवादः ॥—आसितमिति । आस्यते अस्मिन्नित्यासितं ‘कोऽधिकरणे च—’ इत्यधिकरणे कः ॥—इदमेषामिति । कर्तरि षष्ठीयम् । सकर्मकेभ्यस्त्वधिकरणे कृते कर्तृकर्मणोर्द्वयोरपि षष्ठी, अनभिहितलाविशेषात् इदमेषां भुक्तमोदनस्य । ‘उभयप्राप्तौ कर्मणि’ इत्ययं नियमस्तु नेह प्रवर्तते, ‘कर्तृकर्मणोः कृति’ इत्यनन्तरस्या एव षष्ठ्यास्तन्नियमाभ्युपगमात् । एतच्च कौस्तुभे स्पष्टम्
Bālamanoramā
अधिकरणवाचिनश्च - अधिकरणवाचिनश्च । शेषपूरणेन सूत्रं व्याचष्टे — क्तस्य योगे षष्ठीति । शयितमिति । शेतेऽस्मिन्निति शयितम् । 'शीङ् स्वप्ने'क्तोऽधिकरणे च ध्रौब्ये॑ति क्तप्रत्ययः । तत्र एषामिति कर्तरि षष्ठी ।न लोके॑निषेधापवादः । भुजेस्तु प्रत्यवसानार्थकत्वादधिकरणे क्तप्रत्ययः ।इदमेषां भुक्तमोदनस्ये॑त्यत्र तु कर्तृकर्मणोद्वयोरपि षष्ठी । 'उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते, मध्येऽपवादन्यायेनकर्तृकर्मणोः कृती॑ति षष्ठआ एव तन्नियमाभ्युपगमात् ।
adhikaraṇavācinaśca — He explains the sūtra by supplying the remainder (śeṣa-pūraṇa): "with a kta [participle], the genitive." On "śayitam": "one lies in this (śete asmin)," hence śayitam; [root] "śīṅ svapne" (śī = to sleep, lie), the kta suffix by "kto'dhikaraṇe ca dhrauvye... (A 3.4.76)." Therein "eṣām" is the genitive in the agent sense (kartari ṣaṣṭhī). [This is] an exception to the prohibition "na loka..." (A 2.3.69). As for bhuj, since it has the meaning of consuming (pratyavasāna), the kta suffix is in the locus sense [by the same rule]. But in "idam eṣāṃ bhuktam odanasya" ("this is these people's place of eating the rice"), the genitive [applies] to both the agent (kartṛ, eṣām) and the object (karman, odanasya). The restriction "ubhayaprāptau [karmaṇi]" (A 2.3.66) does not operate [here], because, by the maxim of an exception standing in the middle (madhye-'pavāda-nyāya), that restriction is accepted as governing only the genitive enjoined by "kartṛkarmaṇoḥ kṛti (A 2.3.65)."
SK 627 · A 2.3.69V
न लोकाव्ययनिष्ठाखलर्थतृनाम् ॥ ६२७ ॥
na lokāvyayaniṣṭhākhalarthatṛnām
na lokāvyayaniṣṭhākhalarthatṛnām — [The genitive prescribed for agent and object by kartṛkarmaṇoḥ kṛti, A 2.3.65, does] not [occur] with the la-substitutes (la = the participial ādeśas of the l-affixes), the [affix] u, the [affix] uka, an indeclinable (avyaya), a niṣṭhā (kta/ktavatu), the affixes having the sense of khal, and [the affixes comprised in the pratyāhāra] tṛn.
Rule. The genitive of SK 623 is not added in construction with: a substitute of la (a participle such as kurvan, kurvāṇa); the affix u; the affix uka; an indeclinable; a niṣṭhā (the affixes kta and ktavatu); an affix in the sense of khal; or any affix of the pratyāhāra tṛn.
Example.
Substitute of la: kurvan / kurvāṇaḥ sṛṣṭiṃ hariḥ "Hari making the creation" — the object stays accusative.
u: hariṃ didṛkṣuḥ "wishing to see Hari"; alaṃkariṣṇuḥ "disposed to adorn".
uka: daityān ghātuko hariḥ "Hari, slayer of the demons".
Indeclinable: jagat sṛṣṭvā "having created the world"; sukhaṃ kartum "to do what is pleasant".
Niṣṭhā: viṣṇunā hatā daityāḥ "the demons slain by Viṣṇu" (agent instrumental); daityān hatavān viṣṇuḥ "Viṣṇu slew the demons" (object accusative).
Khal-sense: īṣatkaraḥ prapañco hariṇā "the world is easily made by Hari".
tṛn — a pratyāhāra running from śatṛ in śatṛśānacau to the n of tṛn: somaṃ pavamānaḥ "purifying the soma" (śānan, a participial affix in -māna like śānac, but not a substitute of la), ātmānaṃ maṇḍayamānaḥ "adorning himself" (cānaś, another such affix), vedam adhīyan (śatṛ), kartā lokān (tṛn) "maker of the worlds". The pratyāhāra is needed because śānan, cānaś and tṛn are not substitutes of la, so the first item of the rule does not reach them.
Applies when / blocked by. Two vārttikas. No bar for uka from kam: lakṣmyāḥ kāmuko hariḥ "Hari, lover of Lakṣmī". The bar is optional for the śatṛ of dviṣ: murasya / muraṃ dviṣan "hating Mura".
Watch out. All of this bars only the kāraka-genitive. The remainder-genitive of SK 606 still occurs: brāhmaṇasya kurvan "acting for the brāhmaṇa", narakasya jiṣṇuḥ "victorious over Naraka".
Siddhānta-kaumudī
एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥
When these [above] are employed, the ṣaṣṭhī (genitive) does not occur. The
la-substitutes (lādeśa): kurvan or kurvāṇo sṛṣṭiṃ hariḥ ("Hari [who is] making
the creation"; śatṛ = kurvan, śānac = kurvāṇa — the object sṛṣṭi stands in the
accusative, not the genitive). The [affix] u: hariṃ didṛkṣuḥ ("desirous of
seeing Hari"), or alaṃkariṣṇuḥ ("[one] disposed to adorn Hari"). uka: daityān
ghātuko hariḥ ("Hari [who is] the slayer of the daityas").
vārttikaकमेरनिषेधः
(vārttika) kamer aniṣedhaḥ — [There is] no prohibition [of the ṣaṣṭhī] for [the
uka-affix formed from the root] kam.
(वार्तिकम्) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥
(vārttika) — lakṣmyāḥ kāmuko hariḥ ("Hari [who is] desirous of Lakṣmī"; here the
genitive lakṣmyāḥ stands, since kam is not prohibited). Indeclinable (avyaya):
jagat sṛṣṭvā ("having created the world"); sukhaṃ kartum ("to do [what is]
pleasant"). niṣṭhā: viṣṇunā hatā daityāḥ ("the daityas slain by Viṣṇu" — the
agent in the instrumental viṣṇunā, not the genitive); daityān hatavān viṣṇuḥ
("Viṣṇu [who] slew the daityas" — the object in the accusative). The affixes in
the sense of khal: īṣatkaraḥ prapañco hariṇā ("the world easily made by Hari" —
the agent in the instrumental). "tṛn" is a pratyāhāra, [running] from the syllable
tṛ in "śatṛśānacau" up to the n of "tṛn." śānan: somaṃ pavamānaḥ ("purifying the
soma"). cānaś: ātmānaṃ maṇḍayamānaḥ ("adorning himself"). śatṛ: vedam adhīyan
("studying the Veda"). tṛn: kartā lokān ("the maker of the worlds").
vārttikaद्विषः शतुर्वा
(vārttika) dviṣaḥ śatur vā — Optionally [is the ṣaṣṭhī prohibited] for the śatṛ
of [the root] dviṣ.
(वार्तिकम्) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥
(vārttika) — murasya, or muraṃ vā, dviṣan ("hating Mura"; optionally the genitive
murasya or the accusative muram). All of this is a prohibition of the
case-governed genitive (kāraka-ṣaṣṭhī). But in the residual (śeṣa) sense the
ṣaṣṭhī does indeed occur: brāhmaṇasya kurvan ("acting on behalf of the
brāhmaṇa"); narakasya jiṣṇuḥ ("victorious over Naraka").
Tattvabodhinī
NSP p. 165–166—न लोका—। जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वं न कृतम् । उथ्व उकथ्व ऊकौ, लथ्व ऊकौ चेति विग्रहः ॥ ल इति लडादीनां सामान्यग्रहणं, तेषां च साक्षात्प्रयोगो न संभवतीति तदादेशा गृह्यन्त इत्याह—लादेशा इति । उदाहियन्त इति शेषः ॥ कटं कारयांचकारेत्यत्र कृत्स्नंज्ञकतिङन्तामन्तेन योगेऽपि कटस्य ‘कर्तृकर्मणोः कृति’ इति षष्ठी न भवति ‘आमः’ इति लुकोऽपि लादेशत्वादित्याहुः ॥ नन्वेवमपि ‘वत्रिर्वज्रं पपिः सोमं ददिर्गाः’ इत्यत्र ‘न लोका-’ इति निषेधाप्रवृत्तेः षष्ठी दुर्वारैव, न हि किकिनौ लकारौ, नापि तदादेशौ । नैप दोषः । ‘किकिनौ लिट् च’ इत्यनेन लिट्कार्यातिदेशः क्रियते, न तु लिट्संज्ञा । तथा च विशेषातिदेशे च सामान्यमप्यतिदिश्यत इति नानुपपत्तिः—दिद्दश्चुरिति । ‘सनाशंसभिक्ष उः’ ॥ उकारेण कृतो विशेषणात्तदन्तमपि लभ्यत इत्याशयेनाह—अलंकरिष्णुरिति । ‘अलंकृञ् निराकृञ्—’ इत्यादिना इष्णुच् ॥—घातुक इति । ‘लवपत—’ इत्यादिना उकञ् ॥—ईषत्कर इति । ‘ईषदुस्स्रुषु—’ इत्यादिना खल् । अर्थग्रहणादीष्तपानः सोमो भवतेत्यप्युदाहार्यम् ॥ अव्याप्तिं परिहर्तुमाह—प्रत्याहार इति ॥—पवमान इति । ‘पूङ्यजोः शानन्’ ॥—मण्डयमान इति । ‘मडि भूषायाम्’ इदित्त्वाभुम् ‘ताच्छीत्यवयोवचन—’ इति चानश् ॥—अधीयन्निति । ‘इङ्धायोः’ इति शता । शाननादिषु ‘लटः’ इत्यननुवृत्त्या लादेश इत्यसिद्धेः प्रत्याहारग्रहणमाश्रीयत इति भावः ॥ तृत्रिति । तच्छीलादिषु ‘तृन्’ इति विहितस्तृन् प्रत्ययः ॥ तृत्रिति प्रत्याहारग्रहणान्नित्यं निषेधे प्राप्ते विकल्पमाह— द्विष इति । ‘द्विष अप्रीतौ’ इत्यस्मात् ‘द्विषोऽसित्रे’ इति विहितो यः शतृप्रत्ययस्तत्प्रयोगे वा षष्ठीनिषेध इत्यर्थः ॥—सवोऽयमिति । ‘अनन्तरस्य—’ इति न्यायादिति शेषः ॥—शेषेषष्ठीत्यिति । शाब्दबोधे वैलक्षण्यमस्तीति भावः । एवं चाश्चर्यो गवां दोहोऽगोपेनेत्यत्र शेषत्वविवक्षायां कर्तर्यपि षष्ठी भवत्येवेति बोध्यम् ॥—अकेनोः—। आधमर्ण्यं अकस्यासंभवादाह—भविष्यत्यकस्येति । इनस्तु उभयोः संभवादाह—भविष्यदाधमर्ण्यार्थेनश्च योग इति । यथासंख्यं तु न भवति । भाष्ये ‘अकस्य भविष्यति’ ‘इन आधमर्ण्यं च’ इति योगं विभज्य व्याख्यानात् । इह भविष्यदिति स्वर्यते तेन ‘भविष्यति गम्यादयः’ इत्यधिकारे विहितः ‘तुमुन्एवुलौ—’ इति एवुलेव गृह्यत इत्याशयेनोदाहरति—सतः पालक इति । सत इति शत्रन्तम् ॥ यस्तु कालसामान्ये ‘एवुल्तृचौ—’ इति एवुलुक्तस्तत्र न निषेधः । ओदनस्य पाचकः, पुत्रपौत्राणां दर्शक इतीति भावः ॥—अजंगामीति । ‘आवश्यकाधमर्ण्ययोर्णिनिः’ इत्यावश्यके णिनिः ॥ यद्यप्ययं कालसामान्ये विहितस्तथापि ‘भविष्यति गम्यादयः’ इत्युक्तेर्भविष्यदर्थकः । गम्यादयः केचिदुणादयः केचिदष्टाध्यायीगता इति हरदत्तः ॥ ननु ‘गत्यर्थकर्मणि चतुर्थां च’ इत्येव सिद्धे द्वितीयाग्रहणमपवादविषयेऽपि द्वितीयाग्रवृत्त्यर्थमिति ब्रजंगामीति सिध्यत्येवेति चेत् अत्राहुः । इहैव सूत्रे ग्रामंगामीति भाष्योदाहरणात्तत्सूत्रं नाङ्गीक्रियते । तेन ग्रामस्य गन्तेति षष्ठेव साध्वी, न तु प्रामं गन्तेति द्वितीयेति ॥—शतं दायीति । ‘आवश्यका—’ इत्याधमर्ण्यं णिनिः । भविष्यदाधमर्ण्यार्थेनश्च योग इत्युक्तलान्नेह निषेधः । अवश्यं करोत्यवश्यंकारी कटस्य । गम्यादित्वाभावाद्वर्तमानेऽप्ययम्
Bālamanoramā
न लोकाव्ययनिष्ठाखलर्थतृनाम् - न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततो ल-ऊकेत्यत्र आद्गुणे लोकेति भवति । लादेशेति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाऽभावात्तदादेशग्रहणमिति भावः । कुर्वन्कुवाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधाद्द्वितीया । उ इति । उदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेः सन्नन्तात् 'सनाशंसभिक्ष उः' इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते ।अलं कृञि॑त्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान्घातुको हरिरिति ।आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑ इत्यधिकारेलषपतपदस्थाभूवृषहनकमगमशृभ्य उकञि॑ति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । 'हो हन्तेः' इति हस्य घत्वम् । 'हनस्तोऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः, घातनधर्मा घातनसाधुक#आरी वेत्यर्थः ।कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठआ निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ।लषपते॑त्यादिना उकञ् । अव्ययमिति । उदाहरणसूचमिदम् । जगत्सृष्ट्वेति ।हरिरास्ते॑इति शेषः । 'समानकर्तृकयोः' इति क्त्वाप्रत्ययः । क्त्वातोसुन्कसुनः॑ इति अव्ययत्वम् । सुखं कर्तुमिति ।भक्तस्य हरिः प्रभवती॑ति शेषः ।तुमिन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्रत इति केचित् । वस्तुतस्त्वविशेषादकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् ।क्तक्तवतू निष्ठा॑ । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया दैत्यान्हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधाद्द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ।ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्' इति खलर्थको युजपि गृह्रते । ईषत्पानः सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्रेत तर्हि 'सोमं पवमान' इत्यादौ निषेधो न स्यादित्यत आह — तृन्निति प्रत्याहार इति । कुत आरभ्य किमन्तानामित्यत आह — तृशब्दादारभ्य तृनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दः, तत आरभ्य 'तृन्' इति सूत्रस्थनकारपर्यन्तानामित्यर्थः ।लटः शतृशानचावप्रथमासमानाधिकरणे,॑ 'सम्बोधने च,' 'तौ ससू'पूङ्यजोः शानन्,ताच्छील्यवयोवचनशक्तिषु चानश॑ ,इङ्धार्योःशत्रकृच्छ्रिणि॑, 'द्विषोऽमित्रे,' 'सुञो यज्ञसंयोगे,'अर्हः प्रशंसायाम्,आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑, 'तृन्' इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणं, नतु 'लटः शतृ' इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः, लादेशत्वादेव सिद्धे इति स्थितिः । शानन्निति । उदाहरणसूचनमिदम् । सोमं पवमान इति ।पूयङ्यजोः शानन् । आत्मानं मण्डयमान इति । 'मडि भूषायाम्'ताच्छील्यवयोवचन॑इति चानश् । शतृ इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । 'इङ्धार्योः' इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः शानन्नादितृन्नन्तानां लादेशत्वाऽभावात्प्रत्याहाराश्रयणमिति बोध्यम् । द्विषः शतुर्वेति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । द्विषोऽमित्रे ॑ इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विकल्पोऽयम् । सर्वोऽयमिति ।अनन्तरस्ये॑ति न्यायादिति भावः । शेषे षष्ठी त्विति । शब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राआहृणस्य कुर्वन्निति ।हरि॑रिति शेषः । लटः शत्रादेशः । मुखतो ब्राआहृणसंबन्धिसृष्टनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति ।ग्लाजिस्थश्च ग्स्नुः॑ इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसंबन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।
na lokāvyayaniṣṭhākhalarthatṛnām — "na loka." "eṣām" [in Bhaṭṭoji's gloss]
means: of these — la, u, uka, avyaya, niṣṭhā, khalartha, tṛn. In "u, uka," when
savarṇa-dīrgha (A 6.1.101, akaḥ savarṇe dīrghaḥ) applies, "ūka" results; then in
"la-ūka," by ād guṇaḥ (A 6.1.87), "loka" results.
"lādeśa" [Bhaṭṭoji's word] — this is a caseless citation (avibhaktika-nirdeśa),
for the purpose of indicating an example of the la-substitute. "la" is a general
designation of laṭ and the rest [the l-affixes]; and since these have no direct
usage, [what is meant is] the designation of their substitutes — this is the
point. "kurvan" or "kurvāṇaḥ" — the śatṛ and śānac of laṭ [by "laṭaḥ śatṛśānacau
(aprathamāsamānādhikaraṇe)," A 3.2.124]. Here, since the genitive in the
object-sense (karmaṇi) is prohibited, [the object sṛṣṭi takes] the dvitīyā.
"u" — this indicates an example. By "u" qualifying a kṛt-affix, the tadantavidhi
(A 1.1.72, an operation stated on X applies to that which ends in X) obtains.
"hariṃ didṛkṣuḥ" — from the desiderative (sannanta) of √dṛś, the u-affix, a kṛt,
[is added] by "sanāśaṃsabhikṣa uḥ" (A 3.2.168). By vyapadeśivadbhāva [treating a
part as though the whole], this kṛt is treated as ending in u [so that the
tadantavidhi, and hence the prohibition, applies]; meaning: one who has the
desire for seeing that has Hari as its object. "alaṃkariṣṇuḥ" — "harim" is carried
over. By "alaṃ kṛñ…" (A 3.2.136), the affix iṣṇuc in the sense of habituality
(tācchīlya) and the like. Were only the vowel u (u-varṇa) taken [in the sūtra],
the prohibition would not apply here [to iṣṇuc].
"uka" — this too is for indicating its example. "daityān ghātuko hariḥ" — under
the adhikāra "ā kves tacchīla-taddharma-tatsādhukāriṣu" (A 3.2.134), by
"laṣapatapadasthābhūvṛṣahanakamagamaśṛbhya ukañ" (A 3.2.154), the affix ukañ in
the agent-sense (kartari), for √han, in the sense of habituality and the like;
[with] vṛddhi of the penultimate (upadhā-vṛddhi) [from the ñ-marker]. By "ho
hanteḥ" (A 7.3.54), gh-substitution for the h [of han]; by "hanas taḥ…"
[aciṇṇaloḥ], t-substitution for the n. Meaning: one habituated to slaying, or of
the nature of slaying, or who slays well (ghātana-śīla / -dharmā / -sādhukārī).
"kameḥ" — this is a vārttika. Meaning: in construction with kam ending in uka
[i.e. kāmuka], there is no prohibition of the ṣaṣṭhī. "lakṣmyāḥ kāmukaḥ" — the
ukañ by "laṣapate…" (A 3.2.154). "avyaya" — indicates an example. "jagat sṛṣṭvā"
— supply "hariḥ āste." The ktvā-affix [is added] by "samānakartṛkayoḥ…
[pūrvakāle]" (A 3.4.21); its indeclinability (avyayatva) by "ktvātosunkasunaḥ" (A
1.1.40). "sukhaṃ kartum" — supply "bhaktasya hariḥ prabhavati." The tumun [is
added] by "tumun ṇvulau kriyāyāṃ kriyārthāyām" (A 3.3.10); its indeclinability by
"kṛn mejantaḥ" (A 1.1.39). Here [in the sūtra], some [hold that] only a
kṛt-indeclinable (kṛd-avyaya) is taken. In truth, however, since [the sūtra] does
not specify, a non-kṛt [indeclinable] is also [included] — this is the truth:
"devadattaṃ hiruk" [a non-kṛt indeclinable governing the accusative], meaning
"exclusion (varjana) having that [Devadatta] as its object."
"niṣṭhā" — indicates an example; [the saṃjñā by] "ktaktavatū niṣṭhā" (A 1.1.26).
"viṣṇunā hatāḥ" — here the kta in the past object-sense (bhūte karmaṇi); since the
genitive in the agent-sense (kartari) is prohibited, [the agent takes] the
tṛtīyā. "daityān hatavān" — the ktavatu in the past agent-sense (bhūte kartari);
since the genitive in the object-sense is prohibited, [the object takes] the
dvitīyā. "khalarthāḥ" — indicates an example. "īṣatkaraḥ" — the khal in the
object-sense by "īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal" (A 3.3.126). By the
mention of "artha" [in the compound khalartha], the yuc-affix having the sense of
khal, [added] by "āto yuc" (A 3.3.128), is also included: "īṣatpānaḥ somo bhavatā"
("the soma easily drunk by you").
Objection: If by "tṛn" only [the affix] tṛn is taken, then in "somaṃ pavamānaḥ"
and the like the prohibition would not apply. Anticipating this he says "tṛn is a
pratyāhāra." [Objection:] "From where beginning, ending in what?" To this he says
"from the syllable tṛ, up to the n of tṛn." In "laṭaḥ śatṛśānacau" (A 3.2.124) the
syllable tṛ is a part (ekadeśa) of the śatṛ substitute; beginning from that, up to
the n located in the sūtra "tṛn" (A 3.2.135) — that is the extent [of the
pratyāhāra]. The sequence of sūtras [spanned] is: "laṭaḥ śatṛśānacāv
aprathamāsamānādhikaraṇe" (A 3.2.124), "sambodhane ca," "tau sat," "pūṅyajoḥ
śānan," "tācchīlyavayovacanaśaktiṣu cānaś," "iṅdhāryoḥ śatrakṛcchriṇi," "dviṣo
'mitre," "suño yajñasaṃyoge," "arhaḥ praśaṃsāyām," "ā kves
tacchīlataddharmatatsādhukāriṣu," "tṛn" (A 3.2.135). Here [by the pratyāhāra] the
affixes from śānan [i.e. the tācchīlika śānan of pūṅyajoḥ śānan, distinct from the
lādeśa] up to tṛn are taken, but not the syllable tṛ of "laṭaḥ śatṛ," which is a
part of the śatṛ-substitute, since it is incapable of separate usage anywhere; nor
[is] the [lādeśa] śānac [taken by the pratyāhāra], since its inclusion is already
established by its being a lādeśa — such is the settled position.
"śānan" — indicates an example. "somaṃ pavamānaḥ" — [the śānan] by "pūṅyajoḥ
śānan" (A 3.2.128). "ātmānaṃ maṇḍayamānaḥ" — [√maḍ, "maḍi bhūṣāyām"], the cānaś by
"tācchīlyavayovacana[śaktiṣu cānaś]" (A 3.2.129). "śatṛ" — indicates an example.
"vedam adhīyan" — the śatṛ by "iṅdhāryoḥ [śatrakṛcchriṇi]" (A 3.2.130). "tṛn" —
indicates an example. "kartā lokān" — the tṛn-affix in the tācchīla and other
senses [is added] by the sūtra "tṛn" (A 3.2.135); it should be understood that,
since the affixes from śānan to tṛn are not lādeśas, recourse is had to the
pratyāhāra [to bring them under the prohibition].
"dviṣaḥ śatur vā" [vārttika] — meaning: in construction with √dviṣ ending in
śatṛ, the prohibition of the ṣaṣṭhī is to be stated optionally. "murasya," or
"muraṃ vā, dviṣan" — the śatṛ by "dviṣo 'mitre" (A 3.2.131). Since that [śatṛ of
dviṣ] has entered into the tṛn-pratyāhāra, an obligatory prohibition would
[otherwise] obtain; [hence] this option [is taught]. "sarvo 'yam" [all this is a
prohibition of the kāraka-genitive] — by the maxim "anantarasya…" [an injunction
or prohibition applies to what is nearest], this is the point. "But in the śeṣa
sense the ṣaṣṭhī [does occur]" — the result [of the distinction] is a difference
of mode (prakāra-vailakṣaṇya) in the verbal cognition (śabda-bodha). "brāhmaṇasya
kurvan" — supply "hariḥ"; the śatṛ-substitute of laṭ. Meaning: [Hari] possessed of
activity, conducive to the creation, related to the brāhmaṇa, [proceeding] from
[his] mouth [i.e. brāhmaṇasya is a relational śeṣa-genitive, not the object of
kurvan]. But when object-hood (karmatva) is intended, [it is] the dvitīyā alone.
"narakasya jiṣṇuḥ" — the gsnu-affix in the tācchīla and other senses by
"glājisthaś ca gsnuḥ" (A 3.2.139). Meaning: [Hari] possessed of victory related to
Naraka. But when object-hood is intended, [it is] the dvitīyā alone.
Footnotes (NSP 1915 ed.)
NSP p. 166 स्वादेवेति—अत्र नवीनाः ‘कारकपद्यनिपेधविषये श्लेपे पद्ये न भवति’ इति वदन्ति, तच्च श्लेखरतोऽवगन्तव्यं, विस्तरभया-श्लेह लिख्यते ।
translator notes
- translator In the pratyāhāra-span listing (A 3.2.124–135), the endpoints "laṭaḥ śatṛśānacau" (3.2.124) and "tṛn" (3.2.135) are secure; the intermediate sūtras are given by their pratīkas as the source lists them, with numbers supplied only where identification is confident. "hanas taḥ… [aciṇṇaloḥ]" (the n→t substitution in ghātuka) is left unnumbered as a precaution against a mis-cited reference.
SK 628 · A 2.3.70V
अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ६२८ ॥
akenorbhaviṣyadādhamarṇyayoḥ
akenor bhaviṣyad-ādhamarṇyayoḥ — 2.3.70. After [the kṛt affixes] aka and in, the sixth case (ṣaṣṭhī) does not occur when [aka denotes] future action (bhaviṣyat) and [in denotes] future action or debtorship (ādhamarṇya).
Rule. The sixth case-ending is not added after a word in the affix aka (ṇvul) with future sense, or in the affix in (the kṛt affix ṇini, which appears on the word as -in) with future sense or the sense of being a debtor.
Example.
vraja + gāmin "one who will go to the pen" → in, future → no genitive → vrajaṃ gāmī.
śata + dāyin "one who owes a hundred" → in, debt → śataṃ dāyī.
Applies when / blocked by. In sataḥ pāvako 'vatarati "the purifier of the good descends", pāvaka is an aka word, but not in a future sense, and the genitive stands.
Siddhānta-kaumudī
भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥
When aka [the affix, A ṇvul] is in the future sense, and when in [the affix,
ṇini] is in the sense of the future or of debtorship (ādhamarṇya), the sixth
case does not occur in construction [with the object]. Examples: sataḥ pāvako
'vatarati — "the purifier of the good descends" [where pāvaka, an aka-formation,
keeps the genitive sataḥ]; vrajaṃ gāmī — "one who will go to the cattle-pen"
[in-formation, future: object vrajam in the accusative, not vrajasya]; śataṃ
dāyī — "one who will give / owes a hundred" [in-formation, debtorship: object
śatam in the accusative, not śatasya].
translator notes
- translator The rule prohibits the ṣaṣṭhī that would otherwise be enjoined for the object of a kṛt (by kartṛkarmaṇoḥ kṛti, A 2.3.65); with the prohibition in force the object stands in the accusative (karman), as in vrajaṃ gāmī and śataṃ dāyī. In the first example, sataḥ pāvako 'vatarati, the genitive sataḥ is retained; Bhaṭṭoji does not spell out its role here and the Bālamanoramā offers no comment, so it is best read as a contrasting case where the prohibition does not reach pāvaka. The interpretation of this example is thus left partly implicit in the source.
SK 629 · A 2.3.71V
कृत्यानां कर्तरि वा ॥ ६२९ ॥
kṛtyānāṃ kartari vā
kṛtyānāṃ kartari vā — 2.3.71. In construction with kṛtya suffixes, the genitive (ṣaṣṭhī) optionally (vā) occurs to denote the agent (kartṛ).
Rule. A kṛtya is a gerundive affix ("to be done"). In construction with a kṛtya, the sixth case-ending is optionally added to express the agent.
Example.
aham + sevya + hariḥ "Hari is to be served by me" → mama sevyo hariḥ or mayā sevyo hariḥ.
Applies when / blocked by. Why "the agent"? In geyo māṇavakaḥ sāmnām "the boy is the singer of the sāmans", the kṛtya is prescribed in the agent sense by bhavyageya... (SK 2894), so the unexpressed object sāman takes the ordinary kṛt-genitive of SK 623, not this option. Bhaṭṭoji divides the rule. The first part, kṛtyānām, takes "when both would obtain" from SK 624 and "not" from SK 627: so where agent and object both appear, the agent gets no genitive, netavyā vrajaṃ gāvaḥ kṛṣṇena "the cows are to be led to the pen by Kṛṣṇa". The second part, kartari vā, gives the option already stated.
Siddhānta-kaumudī
षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय SK 2894 इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥
The genitive optionally occurs [for the agent]. Example: mayā mama vā sevyo hariḥ —
"Hari is to be served by me / is my [object of service]." Why "kartari" ("to denote the
agent")? [To exclude] geyo māṇavakaḥ sāmnām — "the boy is the singer of the sāmans":
because by bhavyageya… (SK 2894) the [kṛtya] is here enjoined in the sense of the
agent (kartṛ) — so that geya denotes the singer, the boy — the object (karman), the
sāman, is [merely] unexpressed (anabhihita) [and takes the plain genitive, not the
genitive of this rule, which requires the agent sense].
Here the rule is split (yoga-vibhāga). [First segment:] kṛtyānām. Two things are
carried forward (anuvṛtti) into it: ubhayaprāptau ("when both [agent and object] are
obtained," carried from 2.3.66) and the prohibitive "na" (not, carried from na
lokāvyaya… 2.3.69). By that [first segment], [the genitive is
withheld from the agent] in netavyā vrajaṃ gāvaḥ kṛṣṇena — "the cows are to be led to
the cowpen by Kṛṣṇa." Then [the second segment:] kartari vā — the sense already
stated [the optional genitive for the agent in construction with a kṛtya].
Tattvabodhinī
NSP p. 166—कृत्यानाम्— ‘कर्तृकर्मणोः—’ इति नित्ये प्राप्ते विभाषेयम् ॥—सेव्य इति । ‘षेष्ट् सेवायां’ ‘ऋहलोः—’ इति कर्मणि ण्यत् ॥—योगो विभज्यत इति । भाष्यकारैरिति शेषः । ‘उभयप्राप्तौ—’ इत्यनेन कर्तरि निषेधे सिद्धे कर्मणि निषेधार्थमिदम् । ‘गुणक- र्मणि वेष्यते’ इति तूभयप्राप्तिरहितस्थले नेताश्वस्येत्यादौ चरितार्थमिति दिक् ॥—तुल्यार्थैः—। शेषषष्ठ्यां प्राप्तायां विक- ल्पेन तृतीया अनेन विधीयते, तथा मुक्ते षष्ठ्येव भवेत्तदाह—पक्षे षष्ठीति । वहुवचननिर्देशादेव पर्यायग्रहणे सिद्धे ‘तुल्यार्थैः’ इत्यर्थग्रहणं पदान्तरनैरपेक्ष्येण ये तुल्यार्थास्तेषां ग्रहणार्थं, तेन गौरिव गवय इत्यादौ नेत्याहुः । कथं तर्हि ‘तुल्यं यदारोहति दन्तवानसौ’ इति कालिदासः, ‘स्फुटोपमं भूतिसितेन शंभुना’ इति माधवः । उच्यते । ‘सह युक्तेऽप्रधाने’ इति तृतीया । न चात्र सहशब्दयोगो नेति शङ्काम्, विनापि तद्योगं तृतीयेत्यभ्युपगमात् । वेति वर्तमानेऽन्यतरस्यांग्रहण- मुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम् । अन्यथा हि तृतीयैवानुकृष्येत संनिहितत्वात्
Bālamanoramā
कृत्यानां कर्तरि वा - कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे — षष्ठी वा स्यादिति । 'कृत्या' इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । कर्तृकर्मणोः॑ इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षेवृ सेवायाम्'ऋहलोण्र्य॑दिति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुरनभिहितत्वात्षष्ठींतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्यअचो य॑दिति यत्प्रत्ययाभिहितत्वात्कथं षष्ठीप्रसक्तिरित्यत आह — भव्येति । ननुनेतव्या व्रजं गावः कृष्णेने॑त्यत्र कृत्यसंज्ञकतव्यप्रत्यययोगात् 'उभयप्राप्तौ' इति बाधित्वा कृष्णात्षष्ठीविकल्पः स्यात्, व्रज्रात्तुकर्तृकर्मणोः कृती॑ति नित्यं स्यादित्यत आह-अत्र योगो विभज्यत इति । विभागप्रकारं दर्शयति — कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गुणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति, नेता अआस्य रुआउघ्नस्य रुआउघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरेक्ते चरितार्थस्यदोग्धव्या गाः पयः कृष्णेने॑त्यादौ गुणकर्मण उक्तत्वेन प्रधानकर्मणि चरितार्थेनान#एन परत्वाद्बाधात् । ततः कर्तरि वेति ।कृत्याना॑मिति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक्प्रेणतव्यमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषयेमया मम वा सेव्यो हरि॑रित्यादाविदमवतिष्ठते ।
kṛtyānāṃ kartari vā — He explains the sūtra by supplying the remainder: "the genitive
optionally occurs." The kṛtyas are certain specific kṛt suffixes enjoined under the
heading "kṛtyāḥ" (3.1.95); the meaning is that in construction with them the genitive
optionally occurs to denote the agent. This option arises where the genitive was
obtained obligatorily (nitya) by kartṛkarmaṇoḥ kṛti (2.3.65).
mayā mama vā sevyo hariḥ — from √ṣev "to serve," the ṇyat suffix in the sense of the
object (karman) by ṛhalor ṇyat (3.1.124). Since the agent — the meaning of the word
"asmad" (I/we) — is unexpressed (anabhihita), we get the genitive (mama) [by the present
rule, optionally] or the instrumental (mayā) [by "kartṛtṛtīyā"].
geya — Objection: here, since the object-hood of the sāman is [normally] expressed by
the yat suffix [of geya] by aco yat (3.1.97), how could the genitive [for sāmnām]
arise at all? To this he replies with "bhavya…": by bhavyageya… (SK 2894) geya is
here used in the agent sense (denoting the boy), so the sāman remains a [merely]
unexpressed object and takes the plain genitive — but not by the present rule, since this
rule gives the genitive only to the agent.
Objection: In netavyā vrajaṃ gāvaḥ kṛṣṇena, since there is construction with the
suffix -tavya, which bears the kṛtya designation, [this rule] would — overriding
ubhayaprāptau karmaṇi (2.3.66) — give an optional genitive from "kṛṣṇa" [the agent],
while from "vraja" [the goal-object] the genitive would be obligatory by
kartṛkarmaṇoḥ kṛti (2.3.65). Anticipating this, he says: "here the rule is split
(yoga-vibhāga)." He shows the manner of the split: kṛtyānām [is the first rule], with
ubhayaprāptau carried forward from 2.3.66 and the prohibitive "na" carried forward
from na lokāvyaya… (2.3.69). And so it results that in construction with a
kṛtya, the genitive that would apply to both agent and object together is withheld [from
the agent].
netavyā vrajam — But from "vraja" there is no option by guṇakarmaṇi veṣyate ("the
option is admitted for a secondary object"); for that [option] has its scope in a
non-kṛtya context free of the both-applicable situation, as in netā asya srughnasya
srughnaṃ vā ("the leader of / to Srughna"); while in examples like dogdhavyā gāḥ payaḥ
kṛṣṇena ("the milk is to be milked from the cows by Kṛṣṇa"), since the secondary object
(guṇa-karman, gāḥ) is [already] expressed, this rule [2.3.66], having its scope in the
principal object (pradhāna-karman), blocks [the option] by virtue of being later
(paratva).
Then kartari vā — the meaning is that, after framing the rule kṛtyānām, "kartari
vā" is to be framed separately. "The sense already stated" — carrying forward kṛtyānām,
it is to be explained as: in construction with a kṛtya, the genitive optionally occurs to
denote the agent. This [second rule] operates (avatiṣṭhate) in a context where the
both-applicable situation is absent, as in mayā mama vā sevyo hariḥ.
translator notes
- textual The sentence "kṛtyānām ity anuvartya kṛtyayoge kartari ṣaṣṭhī vā syād iti vyākhyeyam ity arthaḥ" ("carrying forward kṛtyānām, it is to be explained as…") is written twice in succession in the digital source, evidently a dittography; it is translated once.
- textual The example netā asya srughnasya srughnaṃ vā appears in the source as garbled Devanāgarī ("नेता अआस्य रुआउघ्नस्य रुआउघ्नं वा"); the reading is restored to the standard grammarians' example with the place-name Srughna.
SK 630 · A 2.3.72V
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥ ६३० ॥
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām
tulyārthair atulopamābhyāṃ tṛtīyā'nyatarasyām — 2.3.72. With words meaning 'equal/like' (tulyārtha), except tulā and upamā, the third case (instrumental) is used optionally [the genitive otherwise].
Rule. With words meaning "equal" — except tulā and upamā — the third case-ending is optionally added; in the alternative, the sixth.
Example.
kṛṣṇa + tulyaḥ → tulyaḥ kṛṣṇena or tulyaḥ kṛṣṇasya "equal to Kṛṣṇa"; likewise sadṛśaḥ, samaḥ.
Applies when / blocked by. Why "except tulā and upamā"? tulā upamā vā kṛṣṇasya nāsti "Kṛṣṇa has no match or likeness" — genitive only.
Siddhānta-kaumudī
तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥
In connection with words meaning "equal" (tulyārtha), the third case (tṛtīyā,
instrumental) optionally occurs; in the alternative, the sixth (ṣaṣṭhī, genitive).
Example: tulyaḥ / sadṛśaḥ / samo vā — kṛṣṇena or kṛṣṇasya — "equal / similar /
same as Kṛṣṇa" (Kṛṣṇa in the instrumental kṛṣṇena or the genitive kṛṣṇasya). Why
"except tulā and upamā"? [Counter-example:] tulā upamā vā kṛṣṇasya nāsti — "there
is no match (tulā) or likeness (upamā) of Kṛṣṇa" [here only the genitive, since
tulā and upamā are excluded from the option].
Tattvabodhinī
alignment inferredNSP p. 166–167—तुल्य इति । तुल्या संमित- स्तुल्यः । ‘नौवयोधमं—’ इत्यादिना यत् ॥—तुला उपमा वेति । तोलनं तुला । अस्मिन्नेव सूत्रे णिलुगङोर्निपातनात्साधु- रिति माधवः । उपमितिरुपमा । ‘आतश्चोपसर्गे’ इत्यङ् ॥—हितमिति । ‘हितयोगे च’ इत्यनाशिषि चरितार्थमित्याशि- ष्ययं विकल्प इति भावः ॥—व्याख्यानादिति । सूत्रेऽर्थशब्दोऽपि पृथङ् निमित्तं, तथा च द्वन्द्व एवायं न त्वर्थशब्देन वहुत्रीहिरिति भावः ॥ इति षष्ठी ॥—आधारः—। आध्रियतेऽस्मिन्नित्याधारः । ‘अध्यायन्याय—’ इति सूत्रे ‘अवहारा- धार—’ इत्युपसंख्यानादधिकरणे घन् । स चाधारः कस्येत्याकाङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते । इयं च संज्ञा साक्षात् क्रियाधारयोर्न संभवति पराभ्यां कर्तृकर्मसंज्ञाभ्यां वाधितत्वात् । अतो व्याचष्टे—कर्तृकर्मद्वारेति । एवं च भूतले घट इत्यादौ अस्तीति क्रियाध्याहारो बोध्यः ॥—त्रिधेति । एतच्च ‘संहितायाम्’ इति सूत्रे भाष्ये स्पष्टम् । नवामास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति ॥—कटे आस्त इति । कर्तृद्वारा क्रियाधारस्योदाहरणमिदम्, कर्मद्वारा क्रियाधारस्य तु—स्थाल्यां पचतीति । वैषयिकाधारमुदाहरति—मोक्षे इच्छास्तीति । अभिव्यापकस्य तु—सर्वस्मिन्निति । तिलेषु तैलमित्याद्यप्यभिव्यापकस्योदाहरणमाहुः ॥—चतस्र इति । प्रातिपदिकार्थमात्र इत्यर्थः । ‘दूरान्तिकार्थेभ्यः—’ इत्यस्येहानुवर्तनादधिकरणेऽप्येते बोध्याः ॥—कस्येन्विषयस्येति । इन् इन्नन्तः शब्दो विषयो वर्तनभूमिर्यस्य कान्तस्य तस्येत्यर्थः ॥ अन्ये लाहुः । इनो विषय इति षष्ठीसमासः । विषयशब्देनेह प्रकृतिरुच्यते । कान्तस्येनः प्रकृतलादिति ॥—अधीती व्याकरणे इति । भावे कप्रत्यये तत ‘इष्टादिभ्यश्च’ इति कर्तरीनौ कृते पश्चाद्बुणभूतक्रियया संबध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वीकटमितिवद्वितीयात्र प्राप्ता । मासमधीती व्याकरणे इत्यादौ लकर्मकैर्धातुभिर्योगे निमित्तकस्य कालकर्मणोर्वहिरङ्गलादिहाग्रहणमिति सप्तम्यभावः । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम् । लक्ष्यानुरोधेन द्वितीयाविधाने व्यक्तिपक्षाश्रयणात् । एतच्च कौस्तुभे स्थितम्
Bālamanoramā
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् - अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठआं नित्यं प्राप्तायां तृतीयाविकल्पोयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन 'गौरिव गवय' इत्यादौ नेत्याहुः । अतुलोपमाभ्यामिति पर्युदासादनव्यययोग एवेदमित्यन्ये ।
tulyārthair atulopamābhyāṃ tṛtīyā'nyatarasyām — Now [begin] the
upapada-vibhaktis (case-endings governed by an accompanying word). "tulyārthaiḥ" —
since the śeṣa-genitive (śeṣa-ṣaṣṭhī) is obtained as the constant (nitya) case,
this is an optional instrumental. Although, from the plural "tulyaiḥ," the
inclusion of synonyms (paryāya) would already be established, the mention of
"artha" ("-meaning") serves to include those words that are tulyārtha
(equal-in-meaning) independently of any other word (padāntara-nirapekṣa).
Consequently, in "gaur iva gavayaḥ" ("a gavaya is like a cow") and the like, [the
instrumental does] not [apply] — so they say. Others [hold] that, because
"atulopamābhyām" is a paryudāsa (exclusion by implied affirmation), this [rule
applies] only in construction with a non-indeclinable (anavyaya-yoga).
Footnotes (NSP 1915 ed.)
NSP p. 167 १ औपश्लेषिक इति—उप ‘समीपे’ रेषः ‘संवन्धः’ तत्कृत इत्यर्थः । एतस्योदाहरणं तु गङ्गायां गाव इति । २ निमित्तादिति—‘मुक्ताफलाय करिणम्’ इत्यादौ तु ‘क्रियार्थोपपदस्य’ इत्यादिना चतुर्थी, तत्र व्रन्तीति शेषः । ३ तत् इति—श्रापकक्रियाश्रयवाचकादित्यर्थः । ४ प्राव्राजीदिति—अनादरविशिष्टं प्रव्रजनं धात्वर्थः ।
SK 631 · A 2.3.73V
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ ६३१ ॥
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ — And the dative (caturthī) is optionally used — the genitive in the alternative — in a benediction (āśiṣ), in construction with [words meaning] āyuṣya (long life), madra, bhadra (well-being), kuśala (welfare), sukha (happiness), artha (benefit), hita (what is wholesome).
Rule. In a benediction (āśis), with words meaning āyuṣya "long life", madra and bhadra "well-being", kuśala "welfare", sukha "happiness", artha "benefit" or hita "what is wholesome", the fourth case-ending is optionally added; in the alternative, the sixth.
Example.
kṛṣṇa + āyuṣyaṃ bhūyāt "may Kṛṣṇa have long life" → āyuṣyaṃ kṛṣṇāya bhūyāt or āyuṣyaṃ kṛṣṇasya bhūyāt. Likewise madraṃ, bhadraṃ, kuśalaṃ, sukhaṃ, arthaḥ, hitaṃ ... bhūyāt.
Applies when / blocked by. Why "in a benediction"? devadattasyāyuṣyam asti "Devadatta has a long life" is a statement, and takes the genitive only. By the traditional explanation, the words are taken by their meanings throughout, so ciraṃjīvita, nirāmaya, śam, prayojana, pathya count. Since madra and bhadra are synonyms, one of them need not have been listed.
With this the sixth case is finished.
Siddhānta-kaumudī
एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शमर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥
In construction with [words] having these meanings, the dative optionally occurs, the genitive in the alternative, [when it is] in a benediction (āśiṣ). [Examples:] āyuṣyaṃ (long life, i.e. ciraṃ-jīvitam) kṛṣṇāya or kṛṣṇasya bhūyāt — 'may there be long life to / of Kṛṣṇa.' Likewise: madra, bhadra, kuśala (i.e. nirāmaya, freedom from illness), sukha (i.e. śam, happiness), artha (i.e. prayojana, benefit), hita (i.e. pathya, what is wholesome) — 'may [it] be.' Why 'āśiṣi' (in a benediction)? [Because in] devadattasyāyuṣyam asti — 'Devadatta has long life' [a mere statement, not a benediction — so only the genitive]. By [traditional] explanation (vyākhyāna), the meaning (artha) [of the words] is intended throughout [not merely their forms]. Since madra and bhadra are synonyms, one of the two need not have been recited [in the rule]. — Thus [ends] the genitive [section].
Bālamanoramā
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः - चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र भद्र, कुशल, सुख, अर्थ, हित-एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चायावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः । प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः ।हितयोगे चे॑ति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननुस्वं रूपमि॑ति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह — व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यानमयुक्तमित्यत आह — मद्रभद्रयोरिति । इति षष्ठी ।
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ — 'etadarthaiḥ' means 'with [words] having the meanings of these: āyuṣya, madra, bhadra, kuśala, sukha, artha, hita.' 'The genitive in the alternative' — because it is understood as included by the word 'ca.' 'ciraṃ-jīvita' (long life) is a synonym of āyuṣya; 'kuśala' and 'nirāmaya' (freedom from disease) are the synonyms of madra and bhadra; 'śam' is a synonym of sukha; 'prayojana' (benefit) is a synonym of artha; 'pathya' (wholesome) is a synonym of hita. The obligatory (nitya) dative [enjoined] by 'hitayoge ca...,' however, is to be understood as not [confined] to a benediction.
Objection: by the paribhāṣā 'svaṃ rūpaṃ śabdasya...' ('a word denotes its own form'), it would be proper to take only the [specific] words āyuṣya etc. [themselves, not their synonyms]. To this he says 'vyākhyānāt' (because of the [traditional] explanation [the meanings are intended]). Objection: since madra and bhadra are taken separately [in the rule], the explanation 'etadarthaiḥ' (by their meanings) is unjustified. To this he says 'madra-bhadrayoḥ...' [i.e. precisely because they are synonyms one of them need not have been listed, the redundant listing itself supports the meaning-based reading]. — Thus [ends] the genitive [section].
SK 632 · A 1.4.45कारकसंज्ञा
आधारोऽधिकरणम् ॥ ६३२ ॥
ādhāro'dhikaraṇam
The locus (ādhāra) is [designated] adhikaraṇa. — 1.4.45
Rule. The participant that is the locus (ādhāra) of the action — the action residing in the agent and the object, and reaching the locus through them — is named adhikaraṇa.
Example.
kaṭa in "he sits on the mat" → the sitting rests in the sitter, and through him on the mat → kaṭa is adhikaraṇa → (by SK 633) kaṭe.
Siddhānta-kaumudī
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥
The kāraka that is the locus (ādhāra) — through the agent and the object (kartṛ-karma-dvārā) — of the action residing in them (tan-niṣṭha-kriyā) receives the adhikaraṇa designation.
Bālamanoramā
आधारोऽधिकरणम् - आधारोऽधिकरणं । 'कारके' इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायामुपस्थितत्वात्क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह — कर्तृकर्मद्वारेति । तन्निष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः ।
ādhāro'dhikaraṇam — ādhāro'dhikaraṇaṃ. "kāraka" [A 1.4.23], the governing heading, is transformed to end in the nominative (prathamānta), and it qualifies "ādhāra": "the ādhāra is the kāraka [that is] adhikaraṇa" — this is obtained. A kāraka is [what is] connected with an action (kriyānvayi). And thus, to the query "the locus of what?", since [an action] is present [in context], "of the action" (kriyāyāḥ) is obtained. And the action intended is the one residing in the agent and object (kartṛ-karma-gatā). Its being-the-locus (tad-ādhāratva) is not direct (na sākṣāt), but only through the agent and object (kartṛ-karma-dvāraiva), by [the tradition of] exegesis (vyākhyāna). This Bhaṭṭoji states by "kartṛkarmadvāreti." "tanniṣṭha" = residing in the agent and object (kartṛ-karma-niṣṭha).
SK 633 · A 2.3.36V
सप्तम्यधिकरणे च ॥ ६३३ ॥
saptamyadhikaraṇe ca
saptamy adhikaraṇe ca — 2.3.36 — And the seventh case-ending (saptamī) occurs in [the sense of] the locus (adhikaraṇa).
Rule. The seventh case-ending (saptamī) is added to express the locus. By the word ca, it is also added after words meaning "far" and "near".
Example.
kaṭa (adhikaraṇa) + āste → seventh case → kaṭe āste "he sits on the mat".
sthālyāṃ pacati "he cooks in the pot"; mokṣe icchāsti "there is desire for liberation"; sarvasminn ātmāsti "the self is in everything".
vanasya dūre / antike "far from / near the forest" — with the three cases of SK 605, four cases in all for these words.
Applies when / blocked by. Bhaṭṭoji counts three kinds of locus: by contact (aupaśleṣika, the mat), by domain (vaiṣayika, liberation as the domain of the desire), and by pervasion (abhivyāpaka, "in everything"). Scholars discuss how the mat should be classed. Three vārttikas follow. The locative for the object of a kta that is the base of the affix in: adhītī vyākaraṇe "well-read in grammar" (the in being in the agent sense by SK 1888). The locative for good or bad conduct toward someone: sādhuḥ kṛṣṇo mātari "Kṛṣṇa is good to his mother", asādhur mātule "bad to his uncle". The locative for the occasion (nimitta), when it is connected with the object: carmaṇi dvīpinaṃ hanti "he kills the leopard for its skin", dantayor hanti kuñjaram "the elephant for its tusks", keśeṣu camarīṃ hanti "the yak for its hair", sīmni puṣkalako hataḥ "the musk-deer (puṣkalaka) is killed for its sīman", which Bhaṭṭoji glosses as its sac; scholars discuss this. This vārttika is needed because the instrumental of cause (SK 568) would otherwise apply; and it needs the specific connection, so vetanena dhānyaṃ lunāti "he reaps grain for wages" keeps the instrumental.
Siddhānta-kaumudī
अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्तिकार्थेभ्यः SK 605 इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥
In [the sense of] the locus (adhikaraṇa), the saptamī occurs. By the word "ca"
("and"), [the saptamī also occurs] after [words] meaning "far" and "near"
(dūra/antika). The locus (ādhāra) is threefold: by contact/proximity
(aupaśleṣika), by domain (vaiṣayika), and by pervasion (abhivyāpaka). kaṭe āste
("he sits on the mat"). sthālyāṃ pacati ("he cooks in the pot"). mokṣe icchāsti
("there is desire for liberation"). sarvasminn ātmāsti ("the ātman is in
everything"). vanasya dūre antike vā ("far from / near the forest"). Together
with the three case-endings [permitted] by "dūrāntikārthebhyaḥ …" (SK 605),
four case-endings result here [for words meaning "far" and "near"].
vārttikaक्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्
(vārttika) There is supplementary teaching (upasaṅkhyāna) [that the saptamī
occurs] in [the sense of] the object (karman) of a kta [past participle] that
is the base of the [suffix] in (ini).
(वार्तिकम्) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्च SK 1888 इति कर्तरीनिः ॥
(This is a vārttika.) adhītī vyākaraṇe ("[he is] one who has studied [it]; in
grammar"). In the analysis "adhītam anena" ("[grammar] has been studied by
him"), the in-i (iniḥ) is in the agent sense (kartari) by "iṣṭādibhyaś ca"
(SK 1888).
vārttikaसाध्वसाधुप्रयोगे च
(vārttika) And [the saptamī occurs] in [expressing] good or bad conduct
toward [someone] (sādhu-asādhu-prayoga).
(वार्तिकम्) ॥ साधुः कृष्णो मातरि । असाधुर्मातुले ॥
(This is a vārttika.) sādhuḥ kṛṣṇo mātari ("Kṛṣṇa is good toward [his]
mother"). asādhur mātule ("[he is] bad toward [his] maternal uncle").
vārttikaनिमित्तात्कर्मयोगे
(vārttika) [The saptamī occurs] after a word denoting the cause/occasion
(nimitta), when there is connection with the object (karma-yoga).
(वार्तिकम्) ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ 1 ॥ (इति भाष्यम्) ।हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥
(This is a vārttika.) Here "nimitta" [means] the result/goal (phala). "yoga"
[means the relation] consisting of conjunction (saṃyoga) or inherence
(samavāya). [Bhāṣya verse:] "carmaṇi dvīpinaṃ hanti, dantayor hanti kuñjaram /
keśeṣu camarīṃ hanti, sīmni puṣkalako hataḥ" ("for its skin one kills a
leopard, for its two tusks one kills an elephant, for its hair one kills the
camarī [deer]; for the boundary-mark the puṣkalaka is killed") — thus the
Bhāṣya. Here the tṛtīyā characterizing cause (hetu) [2.3.23] would obtain;
this [vārttika] is to preclude that. "sīman" [means] a scrotum/egg-case
(aṇḍakośa). "puṣkalaka" [means] a musk-deer (gandhamṛga). Why "when there is a
specific connection (yoga-viśeṣa)"? [To exclude:] vetanena dhānyaṃ lunāti ("he
reaps grain for wages").
Tattvabodhinī
alignment inferredNSP p. 167—साध्वसाधुप्रयोगे च । यत्रार्चां न विवक्षिता, किं तु तत्त्वकथनमात्रं तत्रापि सप्तम्यर्थं । वार्तिकेऽस्मिन् साधुग्रहणं साधुर्धृत्यो राज्ञीत्यादि यथा । ‘साधुनिपुणाभ्याम्’ इति सूत्रे साधुग्रहणं लचार्यां विवक्षितायां प्रतियोगे सप्तमीनिवृत्त्यर्थमिति विवेकः ॥—निमित्तमिह फलमिति । यदि तु कारणमित्युच्येत, तर्हि जाज्जेन वद्ध इत्यादावतिप्रसङ्गः स्यादिति भावः ॥—चर्मणीति । चर्मद्वीप्यादीनां समवायः संबन्धः ॥—हेतुतृतीयेति । तादृश्यं चतुर्थीत्यपि बोध्यम् ॥—सीमाऽण्डकोश इति । तथा च मेदिनीकारः—‘सीमा घाटस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम्’ इति । ‘अथ पुष्कलको गन्धमृगे क्षपणकीलयोः’ इति च ॥ हरदत्तस्तु पुष्कलकः शङ्कः । सीमित सीमज्ञानार्थं हतो निहतः निखात इत्याह । अस्मिन्सु पक्षे सीमपुष्कलकयोः संयोगसंबन्धः
Bālamanoramā
सप्तम्यधिकरणे च - सप्तम्यधिकरणे च । चकाराद्दूरेति ।दूरान्तिकार्थेभ्यो द्वितीया चे॑ति पूर्वसूत्रात्दूरान्तिकार्थेभ्यः॑ इत्यस्य चकारेणानुकर्षणादिति भावः । औपश्लेषिक इति । उपश्लेषः=संयोगादिसंबन्धः, तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयतासंबन्धकृत आधारो द्वितीय इत्यर्थः । अभिव्यापक इति । सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः । तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति — कटे आस्ते इति । 'देवदत्तः' इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्यां पचतीति ।तण्डुला॑निति शेषः । अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति — मोक्षे इच्छास्तीति । अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाद्वाराऽऽधारत्वादधिकरणत्वम् । अथाऽभिव्यापकमाधारमुदाहरति — सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्त पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति — वनस्य दूरे अन्तिके वेति । दूरमन्तिकमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः संबन्धः, तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एवअधिकरणं नाम त्रिप्रकारं, व्यापकमोपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति अन्यदत उपश्लेषात् । 'इको यणचि' अच्युपश्लिष्टस्ये॑ति 'संहितायाम्' इत्यत्र भाष्यं सङ्गच्छते । अच्युपश्लिष्टस्य=अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमितितत्र च दीयते कार्यं भववत् इत्यत्र भाष्यं सङ्गच्छते । अत एव चतदस्मिन्नधिकमिति दशान्ताड्डः॑ इत्यत्र एकादश भाषा अधिक अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतरुआधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणसंभवादौपश्लेषिकमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते । एवंच 'कटे आस्ते' इत्यादौ औपश्लेषिकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात् । एवंच 'कटे आस्ते' इत्यादौ एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम् । सर्वावयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसंमतत्वात् । अत एव 'स्वरितेनाधिकारः' इति सूत्रेसाधकतमं करण॑मिति सूत्रे च भाष्येअधिकरणमाचार्यः किं मन्यते । यत्र कृत्स्नमाधारात्मा व्याप्तो भवति । तर्हि इहैव सप्तमी स्यात्-तिलेषुतैलं, दध्निसर्पिरिति । गङ्गायां घोषः, कूपे गर्गकुलमित्यत्र तु न स्यात्, मुख्य एव कार्यसंप्रत्यया॑दित्याशङ्क्य स्वरितेनाधिकं कार्यं भवतीति वचनात्तमब्ग्रहणाच्च न दोष इति समाहितम् । एवंचकटे आस्ते, गङ्गायां घोषः॑ इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थं एव । यदि तु 'गङ्गायां घोषः' इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । क्तस्येन्विषयस्येति । न चकृतपूर्वी कट॑मित्यत्रापि सप्तमी शङ्क्या, इन्प्रत्ययान्तो यः क्तप्रत्ययान्तस्तस्य कर्मणीत्यर्थाभ्युपगमात् । कर्तरीनिरिति । भावक्तान्तादधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवानित्यर्थः पर्यवस्यति । किमधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणमध्ययने कर्मत्वेनान्वेति । तच्च व्याकरणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटमितिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः ।साध्वसाधुप्रयोगे चेति ।सप्तमी वक्तव्ये॑ति शेषः । साधुरिति । हितकारीत्यर्थः । असाधुरिति । अहितकारीत्यर्थः । उभयत्र शेषषष्ठपवादः ।साधुनिपुणाब्यामर्चाया॑मित्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा साधुर्मृत्यो राजनि । इह तत्त्वकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणमस्य प्रयोजनं वक्ष्यते । निमित्तादिति । कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः । ननु 'जाडएन बद्ध' इत्यत्रापि सप्तमी स्यादित्यत आह — निमित्तमिह फलमिति । फलमेवेत्यर्थः । इष्टसाधनताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजन्कत्वादिसंबन्धं व्यावर्तयितुमाह — योगः संयोगेति । अयुतसिद्धयोः संबन्धः समवायः । अन्ययोस्तु संयोगः । चर्मणीति । चर्मार्थं व्याघ्रं हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा चर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । अत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव । केशेष्विति । केशार्थमित्यर्थः । चमरी-मृगविशेषः । सीम्नीति । सीमार्थमित्यर्थः । हेतुतृतीया प्राप्तेति । तादथ्र्यचतुथ्र्यपीति बोध्यम् । सीमा अण्डकोश इति ।सीमा घट्टस्थितिक्षेत्रेआण्डकोशेषु च स्त्रियाम् इति मेदिनी । पुष्कलको गन्धमृग इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति मेदिनी । अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव । हरदत्तस्तु-सीमा ग्रामादिमर्यादा, तस्या ज्ञानार्थं पुष्कलकः=शङ्कुर्हतः=निखात इति व्याचष्ट । अत्र पुष्कलकेन कमणा सीम्नः संयोगो बोध्यः । वेतनेनेति । अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः । अत्र वेतनस्य लूयमानस्य धान्यस्य च तादथ्र्यमेव संबन्धो, न तु संयोगः, नापि समवाय इति भावः ।
saptamy adhikaraṇe ca — saptamy adhikaraṇe ca. "cakārād dūra…" — the idea
is that "dūrāntikārthebhyaḥ" is drawn in (anukarṣaṇa) by the "ca" from the
previous sūtra "dūrāntikārthebhyo dvitīyā ca" [2.3.35]. "aupaśleṣika" — upaśleṣa
= a relation such as conjunction (saṃyoga); the locus occasioned by that is the
first kind. "vaiṣayika" — the locus effected by the relation of domain-hood
(viṣayatā) is the second. "abhivyāpaka" — the locus effected by pervasion of
all the parts (sakala-avayava-vyāpti) is the third.
There, he exemplifies the aupaśleṣika locus that operates through the agent
(kartṛ-dvāraka): "kaṭe āste"; "Devadatta" is to be supplied. There, with
respect to the sitting-action residing in the agent, Devadatta himself, [the
mat's] adhikaraṇa-hood arises because, by placing foremost the conjunction
(saṃyoga) relation of the mat, [the mat] is the locus of that [action] through
Devadatta. Next he exemplifies the aupaśleṣika locus operating through the
object (karma-dvāraka): "sthālyāṃ pacati"; "taṇḍulān" ("the rice-grains") is to
be supplied. Here, with respect to the cooking-action residing in the object,
the rice-grains themselves, [the pot's] adhikaraṇa-hood arises because, placing
foremost the pot's conjunction relation, [the pot] is the locus through the
rice-grains. In [cases] such as "rūpe rūpatvam asti" ("colour-ness is in
colour") and "śarīre ceṣṭāsti" ("movement is in the body"), the aupaśleṣika
locus-hood [obtains] through inherence (samavāya); this and the like are to be
understood. Next he exemplifies the vaiṣayika locus: "mokṣe icchāsti"; here,
with respect to the being-action (sattā-kriyā) residing in the desire, which is
the agent, [liberation's] adhikaraṇa-hood arises because, placing foremost
liberation's domain-hood relation, [liberation] is the locus through the
desire. Next he exemplifies the abhivyāpaka locus: "sarvasminn ātmāsti"; here,
with respect to the being-action residing in the agent, the ātman, the
adhikaraṇa-hood of "everything" arises because, placing foremost [the ātman's]
pervasion of the whole, [everything] is the locus of [that] being through the
ātman. Next he exemplifies [the saptamī] after the "dūra/antika"-meaning words
drawn in by "ca": "vanasya dūre antike vā," i.e., "far" / "near." This
injunction is for the mere prātipadika-meaning [with no special kāraka].
"vibhaktitrayeṇa" ("with three case-endings") means: with the dvitīyā, pañcamī,
and tṛtīyā.
In fact, by the etymology "upa = in proximity, śleṣa = connection; [the locus]
effected by that is aupaśleṣika," the aupaśleṣika locus-hood is precisely
proximity-based (sāmīpika). Precisely for this reason [the Bhāṣya says]: "the
locus (adhikaraṇa) is of three kinds: pervasive (vyāpaka), proximate
(aupaśleṣika), and domanial (vaiṣayika)"; and "as for a sound (śabda), what
other relation with [another] sound can there be than proximity (upaśleṣa)?"
The Bhāṣya on "iko yaṇ aci" [6.1.77] — [reading it as] "acy-upaśliṣṭasya" ("of
[an ik] in contact with an ac") — and on "saṃhitāyām" [6.1.72] accords [with
this]; Kaiyaṭa: "acy-upaśliṣṭasya = of [an ik] pronounced in the proximity of
an ac." Precisely for this reason, in "māse 'tikrānte dīyate" ("it is given
when a month has elapsed"), the month is the aupaśleṣika locus, and there the
Bhāṣya on "dīyate kāryaṃ bhavavat" accords. And precisely for this reason, on
"tad asminn adhikam iti daśāntāḍ ḍaḥ" [5.2.45], in "ekādaśādhikam asmin
kārṣāpaṇaśate" ("in this hundred kārṣāpaṇas eleven are in excess"), having
objected "how are the eleven that are in excess a locus in the hundred?", [the
reply that] "since a pervasive or domanial locus is impossible [here], the
aupaśleṣika locus is understood" — the Bhāṣya [there] accords.
And so, the example of the aupaśleṣika locus given in the root text (mūla) [by
Bhaṭṭoji] in "kaṭe āste" etc. is simply untenable, being in conflict with the
Bhāṣya just cited. And so, in "kaṭe āste" etc. the abhivyāpaka locus-hood
[obtains only] in a secondary (gauṇa) sense, through pervasion of [merely] a
part (ekadeśa-vyāpti). For the sense that only the adhikaraṇa-hood effected by
pervasion of all the parts is primary (mukhya), while the vaiṣayika and the
aupaśleṣika are secondary (gauṇa), is approved by the Bhāṣya. Precisely for
this reason, in the Bhāṣya on the sūtra "svaritenādhikāraḥ" [1.3.11] and on the
sūtra "sādhakatamaṃ karaṇam" [1.4.42]: "What does the teacher (ācārya) hold the
adhikaraṇa to be? — That in which the whole self of the locus becomes
pervaded." Having raised the doubt, "then the saptamī would occur only here —
'tileṣu tailam' ('oil is in the sesame'), 'dadhni sarpiḥ' ('ghee is in the
curds') — but would not occur in 'gaṅgāyāṃ ghoṣaḥ' ('the herdsmen's settlement
on the Ganges') or 'kūpe gargakulam' ('the Garga clan at the well'), since the
operation's application is understood only for the primary [locus]," it is
resolved: "because of the statement 'by the svarita an additional operation
occurs (svaritenādhikaṃ kāryaṃ bhavati)' and because of the mention of tamaP
[in 'sādhakatama'], there is no fault." And so, in "kaṭe āste," "gaṅgāyāṃ
ghoṣaḥ" etc., even the secondary (gauṇa) adhikaraṇa is precisely a meaning of
the saptamī. But if in "gaṅgāyāṃ ghoṣaḥ" etc. proximity-based locus-hood is not
intended (na vivakṣyate), then [the usage] is to be understood as [figurative]
indication (lakṣaṇā). The detailed [discussion] is to be seen in the
Śabdenduśekhara.
"ktasyeni-viṣayasya" — and one should not suspect the saptamī also in
"kṛtapūrvī kaṭam" ("[he is] one who has made a mat before"), because the
intended meaning is: "in the object of that kta-ending [word] which [itself]
ends in the in-suffix (ini)." "kartari iniḥ" — when the ini-suffix in the agent
sense is applied to the word "adhīta," which ends in a kta in the bhāva sense,
the meaning of "adhītī" culminates as "adhītavān" ("one who has studied"). When
one asks "what has he studied?" — inquiring about the specific object —
"grammar" (vyākaraṇa) construes as the object (karman) of the studying
(adhyayana); and that object-hood of grammar is expressed by nothing. So, when
the dvitīyā would [otherwise] obtain — as in "kṛtapūrvī kaṭam" — the saptamī is
enjoined instead by this [vārttika]. That is the idea.
"sādhv-asādhu-prayoge ca" — "the saptamī is to be stated (vaktavyā)" is to be
supplied. "sādhu" means "one who does good/benefit (hita-kārin)"; "asādhu"
means "one who does harm (ahita-kārin)." In both cases [this saptamī] is an
exception (apavāda) to the śeṣa-ṣaṣṭhī [the genitive of remainder, 2.3.50].
Although [the saptamī] is [already] established by "sādhu-nipuṇābhyām arcāyām"
[2.3.43, for the sense of honouring], the mention of "sādhu" here is for a
non-honouring sense (anarcārtha) — as in "sādhur bhṛtyo rājani" ("a servant is
good/dutiful toward the king"); here the intent is a statement of the fact. The
purpose of the mention of "sādhu" in "sādhu-nipuṇābhyām" will be stated [later].
"nimittāt" — the meaning is that, when there is connection with the object
(karma-yoga), the saptamī is to be stated after a word denoting the cause
(hetu). Objection: then the saptamī would occur also in "jāḍyena baddhaḥ"
("bound through torpor"). To this he says "nimittam iha phalam" — meaning "the
result (phala) alone." It is to be understood that the result too is a cause
(hetu), inasmuch as the knowledge of its being a means to the desired end is
what prompts activity (pravartaka). To exclude relations such as the
producer–produced (janya-janaka) relation, he says "yogaḥ saṃyoga…": the
relation of two [things] inseparably established (ayutasiddha) is inherence
(samavāya); of two others [separable], conjunction (saṃyoga). "carmaṇi" means
"he kills a tiger for the sake of its skin (carman)"; here the skin has only
inherence with the leopard, the object, because part and whole
(avayava–avayavin) are inseparably established. "dantayoḥ" means "for the sake
of the two tusks (danta)"; here the two tusks have only inherence with the
elephant, the object. "keśeṣu" means "for the sake of the hair (keśa)"; the
camarī is a particular kind of deer. "sīmni" means "for the sake of the sīman";
"the hetu-tṛtīyā [causal instrumental] would obtain" — it is to be understood
that the dative of purpose (tādarthya-caturthī) too [would obtain, and is
likewise precluded]. "sīmā aṇḍakośaḥ" — Medinī: "sīmā [is used], in the
feminine, in [the senses of] a boundary-field (ghaṭṭa-sthiti-kṣetra) and the
scrotum/egg-cases (aṇḍakośa)." "puṣkalako gandhamṛgaḥ" — Medinī: "puṣkalaka
[denotes] a musk-deer (gandhamṛga), a mendicant (kṣapaṇaka), and a peg (kīla)."
Here too the sīman has only inherence with the puṣkalaka, the object. Haradatta,
however, explains: "sīmā [means] the boundary of a village etc.
(grāmādi-maryādā); to mark it, a puṣkalaka = a stake (śaṅku) is 'killed' =
driven in (nikhāta)." On this [reading] the sīman is to be understood as having
conjunction (saṃyoga) — [not inherence] — with the puṣkalaka, the object.
"vetanena" — here "vetana" [means] wage-substance (bhṛti-dravya), [in the
sense] "for the sake of that"; here the relation between the wage and the grain
being reaped is merely one of purpose (tādarthya), not conjunction, nor
inherence. That is the idea [and hence, lacking the required karma-yoga, the
saptamī does not apply here].
translator notes
- translator Vāsudeva records a substantive disagreement, not harmonized: Bhaṭṭoji's "kaṭe āste" is classed by the mūla as an aupaśleṣika (contact) locus, but Vāsudeva, following the Bhāṣya, calls that classification "untenable" and re-analyzes it as a secondary (gauṇa) abhivyāpaka locus, holding that only total pervasion is the primary adhikaraṇa. Separately, the two glosses of the Bhāṣya-verse's "sīmni … puṣkalako hataḥ" are kept distinct: Medinī yields puṣkalaka = musk-deer with a samavāya relation, while Haradatta yields puṣkalaka = a boundary-stake driven in, with a saṃyoga relation.
- textual Several forms in the digital source are OCR-garbled and were rendered by the evident reading: "साधुर्मृत्यो राजनि" read as sādhur bhṛtyo rājani ("a servant is good toward the king"), which the surrounding non-honouring (anarcā) point requires; "जाडएन बद्ध" read as jāḍyena baddhaḥ; and the kārṣāpaṇa example ("एकादश भाषा अधिक अस्मिन् … शतरुआधिकरणम्") read as ekādaśādhikam asmin kārṣāpaṇaśate with adhikaraṇa. The reference "dīyate kāryaṃ bhavavat" is quoted as transmitted; its exact Bhāṣya locus is not independently confirmed here.
SK 634 · A 2.3.37V
यस्य च भावेन भावलक्षणम् ॥ ६३४ ॥
yasya ca bhāvena bhāvalakṣaṇam
yasya ca bhāvena bhāvalakṣaṇam (A 2.3.37) — And [the seventh case, locative, occurs after a word denoting] that by whose action (bhāva) another action is characterized (bhāva-lakṣaṇa) — the locative absolute (sati saptamī).
Rule. The seventh case-ending is added to the word for that by whose action another action is marked. This is the locative absolute.
Example.
go + duhyamāna + gataḥ "he went while the cows were being milked" → the milking marks the time of the going → both words in the locative → goṣu duhyamānāsu gataḥ.
Applies when / blocked by. A vārttika extends it to the case where the worthy act and the unworthy do not, or the reverse: satsu taratsu asanta āsate "while the good cross over, the bad sit idle", asatsu tiṣṭhatsu santas taranti, satsu tiṣṭhatsu asantas taranti, asatsu taratsu santas tiṣṭhanti.
Siddhānta-kaumudī
यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ।
After [a word denoting] that by whose action another action is indicated
(lakṣyate), the locative (seventh) occurs. goṣu duhyamānāsu gataḥ — "he went
while the cows were being milked."
vārttikaअर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च
(vārttika) [The locative absolute also applies] when the worthy (arha) are agents
and the unworthy (anarha) are non-agents, and in the reverse of that.
(वार्तिकम्) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥
(vārttika) [Examples:] satsu taratsu asanta āsate — "while the good ones are
crossing over, the bad ones sit [idle]"; asatsu tiṣṭhatsu santas taranti —
"while the bad ones stand [idle], the good ones cross over"; satsu tiṣṭhatsu
asantas taranti — "while the good ones stand [idle], the bad ones cross over";
asatsu taratsu santas tiṣṭhanti — "while the bad ones cross over, the good
ones stand [idle]."
Tattvabodhinī
NSP p. 167—यस्य च—। निर्ज्ञातकाला हि क्रिया अनिर्ज्ञातकालायाः क्रियायाः कालपरिच्छेदकलालक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकात् ब्राह्मणादिशब्दालक्ष्यलक्षणभावसंबन्धे षष्ठ्यां प्राप्तायामियं सप्तमी । लक्षकत्वं क्रियायाः साक्षात्, आश्रयस्य तु ब्राह्मणादेः क्रियाद्वारेणेति बोध्यम् ॥ ब्राह्मणेष्वधीयानेषु गत इति कर्त्तुदाहरणम् ॥ कर्मण्याह—गोष्विति ॥—अर्हाणामित्यादि । यस्यां क्रियायां ये उचितास्ते अर्हाः । तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या ॥ तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या ॥ तथा तद्वैपरीत्ये येषां कर्तृत्वमुचितं तेषामकर्तृत्वे येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः ॥ आद्यमुदाहरति—सत्सु तरत्स्विति । सन्तो हि तरणक्रियार्हाः कर्तारश्च ॥ द्वितीयमुदाहरति—असत्सु तिष्ठत्स्विति । अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन प्रतीयते । तद्वैपरीत्ये प्रथममुदाहरति—सत्सु तिष्ठत्स्विति । सतां हि तरणमुचितं तेषां चाकर्तृत्वं तिष्ठत्स्वित्यनेन द्योत्यते । द्वितीयमुदाहरति—असत्सु तरत्स्विति । असतां हि तरणमनुचितं तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते ॥ यद्यपीदं ‘यस्य च भावेन—’ इत्येव सिद्धं, तथापि लक्ष्यलक्षणभावाविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः । तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये
Bālamanoramā
यस्य च भावेन भावलक्षणम् - यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे — यस्य क्रिययेति । क्रिया च कत्र्राश्रया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति — गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्व संबन्धे सप्तमी । शेषषष्ठपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवां तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । 'दुग्धासु गत' इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गतः इत्युदाहार्यम् । अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किंतु सकृज्ज्ञापकमपि । यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् ।उदिते आदित्ये जुहोती॑त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । 'उपरागे रुआआयात्' इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः ।
yasya ca bhāvena bhāvalakṣaṇam — Intending that the two words "bhāva" [in the
sūtra] are synonyms of kriyā (action), he explains with "yasya kriyayā." And an
action is [either] grounded in the agent (kartṛ) or grounded in the object
(karman). Of these, he exemplifies the object-grounded [action] with "goṣu": this
is the answer to the question "when did Devadatta go?" Here the locative is in the
relation of being an indicator (lakṣakatva); it is an exception (apavāda) to the
residual genitive (śeṣa-ṣaṣṭhī). The meaning is: [he is] one whose going is
indicated (jñāpya) by the cows as qualified by the present [act of] milking. Here
the act of milking is directly the indicator, while the cows [are indicators] by
being its locus; and so the answer amounts to "he went at the time of the
cow-milking." But in "dugdhāsu gataḥ" [the cows having been milked, he went] the
meaning is: [he is] one whose going is indicated by the cows as qualified by the
past [completed] milking — which comes to "he went at the time after the
cow-milking." For an action grounded in the agent, the example to be given is
"brāhmaṇeṣv adhīyāneṣu gataḥ" ("he went while the brāhmaṇas were studying").
Here [the rule] is not that only what necessarily and repeatedly indicates the
marked [action] is a lakṣaṇa (indicator); rather, even a one-time indicator [is a
lakṣaṇa]. For instance: "the one whom you saw with a water-pot in hand — he is the
student" (yaṃ kamaṇḍalu-pāṇiṃ bhavān adrākṣīt sa chātraḥ); although he was seen
water-pot-in-hand only once, still the water-pot is indeed an indicator (lakṣaṇa)
of him — this is clear in the [Mahā]bhāṣya on the present sūtra.
But in "udite āditye juhoti" ("he offers the oblation when the sun has risen"),
the sense of the locative is proximate locus-hood (sāmīpika adhikaraṇatva),
meaning the time near the risen sun — the settled sense being the time
proximately after sunrise. And in "uparāge snāyāt" ("one should bathe at an
eclipse"), by the word "uparāga" the time that is the locus of the eclipse is
indicated, so it is simply the locative of locus (adhikaraṇa-saptamī); the details
are [given] elsewhere.
SK 635 · A 2.3.38V
षष्ठी चानादरे ॥ ६३५ ॥
ṣaṣṭhī cānādare
ṣaṣṭhī cānādare (A 2.3.38) — And the sixth case (genitive) [is used, alongside the locative,] in [the sense of] disregard (anādara).
Rule. And in the locative absolute, when great disregard (anādara) is conveyed, the sixth case-ending is added as well as the seventh.
Example.
rudat + prāvrājīt "he went forth as an ascetic while his son wept" → disregard of the weeping → rudati prāvrājīt or rudataḥ prāvrājīt.
Siddhānta-kaumudī
अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥
When there is disregard (anādara) in excess (ādhikya), in [the case of]
characterization-by-an-action (bhāva-lakṣaṇa), the genitive and locative (sixth
and seventh) occur. rudati rudato vā prāvrājīt — "while [his son] was weeping,
he went forth [as an ascetic]" (locative rudati or genitive rudataḥ). The meaning
is: disregarding (anādṛtya) his weeping son and the like, he renounced.
Tattvabodhinī
NSP p. 167–168—षष्ठी चानादरे ॥—अनादर इति । ‘यस्य च भावेन’ इत्यनेन सप्तमी । अनादरे सति यो भावं लक्षयतीति । तदेतत्फलितमाह—अनादराधिक्य इति । केवलभावलक्षणे सप्तम्येव अनादरा- धिक्ये तु पष्ठीसप्तम्याविति निष्कर्षः ॥—खामीश्वर—। ‘खाम्यर्थ’—इति वक्तव्ये खाम्यादित्रयग्रहणं पर्यायान्तरनिवृत्त्यर्थम् । ‘विरूपाणामपि समानार्थानाम्’ इत्येकशेषोऽत्र न भवति खरूपपरत्वेन समानार्थकलाभावात् ॥—दायाद इति। दायमादत्ते इति दायादः । सोपसर्गादप्यादन्ताद् अत एव निपातनात्कः । गवां गोषु वा दायाद इत्यत्र यद्यपि गवामित्येतत्समुदायस्य विशेषणं, तथापि दीयतेऽसौ दाय इति व्युत्पत्त्या अवयवार्थभूतमंशं स्पृशत्येव, तथा चात्र गवात्मकस्यांशस्य आदातेति फलितोऽर्थः
Bālamanoramā
षष्ठी चानादरे - षष्ठी चानादरे । चातसप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह — अनादराधिक्ये इति । अनादरोऽधिको यस्मादिति विग्रहः । रुदति रुदत इति ।कदा संन्यस्तवा॑निति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः ।
ṣaṣṭhī cānādare — By "ca," "saptamī" (the locative) is carried along
(anukṛṣyate) [from the preceding rule]. "anādare" is a locative of domain
(viṣaya-saptamī). The previous sūtra "yasya ca [bhāvena bhāvalakṣaṇam]" continues
by anuvṛtti. The meaning is: when disregard is to be conveyed, after [the word
denoting] that by whose action another action is characterized, [there occur] the
genitive and the locative. He states the upshot with "anādarādhikye": the analysis
is "that from which the disregard [directed] is in excess." On "rudati rudataḥ":
this is the answer to the question "when did he renounce?" Here the sense of the
genitive and locative is being-an-indicator (lakṣakatva); the meaning of the
verbal root is the going-forth (pravrajana) qualified by disregard; the genitive
and locative convey the intended import (tātparya). And the disregard has as its
object the son and the like, who is the locus of the indicating action [of
weeping]. The meaning is: the going-forth qualified by disregard, indicated by the
son and the like as qualified by the present act of weeping.
Footnotes (NSP 1915 ed.)
NSP p. 168 १ नृणामिति—वहुवचनं तु उद्भूतावयवभेदविवक्षया । तिरोहितावयमभेदविवक्षया चैकवचनं तु भाध्यविरुद्धम् । २ कालाध्वानाविति—यद्यपि अवध्यवधिमतोः साजात्यनियमेन कालाध्वानौ कारकमध्ये न संभवतः, तथापि शक्तिपदेन तदाधारकालग्रहणान्न दोषः । ३ अधिकशब्देनेति—कर्तरिक्तप्रत्ययान्ताध्यारूढशब्दार्थाधिकशब्देनेत्यर्थः । कर्मणिक्तप्रत्ययान्ताध्यारूढशब्दार्थाधिकशब्दयोगे तु ‘अधिको लोको हरिणा’ इति प्रथमैव ।
SK 636 · A 2.3.39V
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ६३६ ॥
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca — And in construction with these seven — svāmin (owner), īśvara (lord), adhipati (overlord), dāyāda (heir), sākṣin (witness), pratibhū (surety), prasūta (offspring) — [both the genitive and the locative are used for the related item].
Rule. With these seven words — svāmin "owner", īśvara "lord", adhipati "overlord", dāyāda "heir", sākṣin "witness", pratibhū "surety", prasūta "offspring" — both the sixth and the seventh case-ending are added.
Example.
go + svāmī → gavāṃ svāmī or goṣu svāmī "owner of the cows".
gavāṃ / goṣu prasūtaḥ "born to the cows", that is, born to enjoy them.
Applies when / blocked by. The genitive is already available by SK 606; the rule exists for the optional locative.
Siddhānta-kaumudī
एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥
In construction with these seven, the genitive (ṣaṣṭhī) and the locative (saptamī) [both] occur. Since the genitive alone would [already] be obtained [by the residual-genitive rule], this statement is for the sake of the optional locative (pākṣika-saptamī). [Examples:] gavāṃ or goṣu svāmī — 'owner of / among the cows' (gen. or loc.). gavāṃ or goṣu prasūtaḥ — 'offspring of / among the cows.' The meaning is: born precisely to enjoy the cows.
Bālamanoramā
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च - फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीआर । षष्ठीसप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठऐव सिद्धे किमर्थमिह षष्ठीविधानमित्यत आह — षष्ठआमेवेति । गवां गोषु वेति । गोसंबन्धीत्यर्थः । गवां गोषु वा ईआरः । गवां गोषु वा अधिपतिः । गवा गोषु वा दायादः । पुत्रादिभिग्र्रहीतुं योग्यः पित्राद्यर्जितधनांशो दायः । तमादत्त इति दायादः । 'आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात्कः । गोसंबन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः नित्यसाकाङ्क्षत्वाद्वृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । 'यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्द स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसंबन्धीत्यर्थः । संबन्धश्च भोक्तृत्वरूपः । तदाह — गा एवेति । एवशब्दान्महिषादिव्यावृत्तिः ।
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca — He states the upshot with 'a crying son and the like' (rudantaṃ putrādikam). [On] 'svāmin...': 'the genitive and the locative' [he says]; the idea is that both of these are drawn in (anukarṣaṇa) by the word 'ca.' Objection: since [the genitive] is already established by the residual genitive (śeṣa-ṣaṣṭhī), what is the purpose of prescribing the genitive here? To this he says 'ṣaṣṭhyām eva...' ('since the genitive alone would be obtained...'). On 'gavāṃ or goṣu vā': that is, 'related to the cows' (go-sambandhin). [Thus:] gavāṃ or goṣu īśvaraḥ ('lord of/among the cows'); gavāṃ or goṣu adhipatiḥ ('overlord'); gavāṃ or goṣu dāyādaḥ ('heir').
'dāya' is the share of wealth earned by the father and the like, fit to be taken by the sons and others; 'dāyāda' is one who takes that (dāyam ādatte). In the rule 'āto 'nupasarge kaḥ,' although the specification 'when not preceded by a preverb (upasarga)' is present — [and here ā- is a preverb] — the ka-suffix nevertheless [applies], precisely by reason of the irregular formation (nipātana). So the meaning is: the heir related to the cows. And 'gavām' connects with 'dāya' (the share); because of the constant expectancy [of the share for a possessor], there is a compound (vṛtti). The upshot is: the taker of the share consisting of cows. But in the Bhāṣya on the rule 'yasmād adhikam...,' it is established that the word 'dāyāda' is a synonym of 'svāmin' (owner). On 'gavāṃ or goṣu prasūtaḥ': that is, 'related to the cows'; and the relation is of the form of being an enjoyer (bhoktṛtva). This he states with 'gā eva...' (precisely the cows); by the word 'eva' ('precisely'), buffaloes and the like are excluded.
translator notes
- textual The source opens the BM with 'phalitam āha — rudantaṃ putrādikam iti' ('he states the upshot: a crying son and the like'), which does not correspond to any wording in this unit's Kaumudī block and appears to be an intrusion or digitization error; it is rendered literally per the transmitted reading.
- textual The BM block is heavily corrupted by conjunct-loss in the source (e.g. 'svāmīāra', 'īārah', 'ṣaṣṭhāmeva', 'gavā goṣu'); the evident readings svāmin, īśvaraḥ, ṣaṣṭhyām eva, gavāṃ goṣu have been followed.
SK 637 · A 2.3.40V
आयुक्तकुशलाभ्यां चासेवायाम् ॥ ६३७ ॥
āyuktakuśalābhyāṃ cāsevāyām
And in construction with āyukta and kuśala, when the sense is āsevā (eager, sustained engagement), both the genitive (ṣaṣṭhī) and the locative (saptamī) occur.
Rule. With āyukta "engaged" and kuśala "skilled", in the sense of eager application (āsevā), both the sixth and the seventh case-ending are added.
Example.
haripūjana + āyuktaḥ / kuśalaḥ → haripūjane āyuktaḥ or haripūjanasya āyuktaḥ "engaged in the worship of Hari"; likewise kuśalaḥ "skilled in".
Applies when / blocked by. Why "eager application"? In āyukto gauḥ śakaṭe "the ox is yoked to the cart", āyukta means "lightly yoked", and the rule does not apply.
Siddhānta-kaumudī
आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥
In construction with these two [words, āyukta and kuśala], the genitive and locative (ṣaṣṭhī and saptamī) occur when the sense is tātparya (intent, eager application). āyukta = "employed, set to work (vyāpārita)." [Example:] āyuktaḥ kuśalo vā hari-pūjane, or hari-pūjanasya — "engaged, or skilled, in the worship of Hari" [where the locus "worship of Hari" may stand either in the locative or in the genitive]. Why "in the sense of āsevā"? [Counterexample:] āyukto gauḥ śakaṭe — "the ox is yoked to the cart," meaning "slightly yoked (īṣad-yukta)" [here āyukta is not in the āsevā sense, so the special provision does not apply].
Bālamanoramā
आयुक्तकुशलाभ्यां चासेवायाम् - आयुक्त । आसेवापदं व्याचष्टे — तात्पर्ये इति । औत्सुक्ये इत्यर्थः ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । आयुक्तपदं व्याचस्टे — व्यापारित इति । प्रवर्तित इत्यर्थः । आयुक्तः कुशलो वेति । हरिपूजनविषये आयुक्तः=प्रवर्तित इत्यर्थः । अत्र वैषयिकाधिकरणत्वविवक्षायां तु षष्ठआमेव प्राप्तायां वचनम् । आयुक्तो गौरिति । आङीषदर्थे ।युजिर्योगे॑ । तदाह — ईषद्युक्त इत्यर्थ इति ।
āyukta[kuśalābhyāṃ cāsevāyām] — He explains the word āsevā with "tātparye" — meaning autsukya (eagerness). As Amara [says]: "tatpara, prasita, āsakta, iṣṭārthodyukta, utsuka [are synonyms]." He explains the word āyukta with "vyāpārita" — meaning pravartita (set in motion, engaged). On "āyuktaḥ kuśalo vā": the meaning is "engaged (pravartita) in the matter of the worship of Hari." Here, when one intends to express [the object] as a locus in the domain-sense (vaiṣayika-adhikaraṇatva), only the genitive (ṣaṣṭhī) would [otherwise] obtain; hence the [present] statement [is needed to admit the locative option as well]. On "āyukto gauḥ": here ā (āṅ) is in the sense of īṣat (slightly); [the root is] "yujir yoge" (yuj = to join). He states this with "meaning slightly yoked (īṣad-yukta)."
SK 638 · A 2.3.41V
यतश्च निर्धारणम् ॥ ६३८ ॥
yataśca nirdhāraṇam
yataśca nirdhāraṇam (A 2.3.41) — And [the genitive and locative occur after a word denoting the whole] from which a singling-out (nirdhāraṇa) [is made].
Rule. Nirdhāraṇa is singling one member out of a group by its kind, quality, action or name. Both the sixth and the seventh case-ending are added to the word for the group from which the singling-out is made.
Example.
nṛ + brāhmaṇaḥ śreṣṭhaḥ → nṛṇāṃ brāhmaṇaḥ śreṣṭhaḥ or nṛṣu brāhmaṇaḥ śreṣṭhaḥ "among men the brāhmaṇa is best" (by kind).
gavāṃ / goṣu kṛṣṇā bahukṣīrā "among cows the black one gives most milk" (quality); gacchatāṃ / gacchatsu dhāvan śīghraḥ "among those going, the runner is fastest" (action); chātrāṇāṃ / chātreṣu maitraḥ paṭuḥ "among the students Maitra is clever" (name).
Siddhānta-kaumudī
जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥
nirdhāraṇa is the setting-apart of one member from an aggregate (samudāya) by
means of a genus (jāti), a quality (guṇa), an action (kriyā), or a name (saṃjñā);
after [the word denoting the aggregate] from which [this is done], the genitive
and locative (sixth and seventh) occur. nṛṇāṃ nṛṣu vā brāhmaṇaḥ śreṣṭhaḥ —
"among men the brāhmaṇa is best" (by genus); gavāṃ goṣu vā kṛṣṇā bahukṣīrā —
"among cows the black one gives most milk" (by quality); gacchatāṃ gacchatsu vā
dhāvan śīghraḥ — "among those going, the running one is fastest" (by action);
chātrāṇāṃ chātreṣu vā maitraḥ paṭuḥ — "among students Maitra is clever" (by
name).
Bālamanoramā
यतश्च निर्धारणम् - यतश्च निर्धारणम् । जातिगुणेति । 'यतः' इति 'ततः' इति च पञ्चम्यर्थे तसिः । यस्मात्समुदायादेकदेशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं=स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात्षष्ठीसप्तम्यावित्यर्थः । अत्र स्वशब्देन एकदेश उच्यते । तत्र जात्या पृथक्करणमुदाहरति — नृणा नृषु वेति । नृशब्दो मनुष्यसमुदाये वर्तते । उद्भूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योरवयवावयविभावः संबन्धोऽर्थः, उदाहृतनिर्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रैष्ठरूपधर्मक इत्यर्थः । गुणेन पृथक्करणमुदाहरति — गवां गोषुवेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थः । क्रियया पृथक्करणमुदाहरति — गच्छतां गच्छत्सु वेति । गच्छत्समुदायैकदेशभूतो धावन्स्वेतरव्यावृत्तशैघ्र्यधर्मक इत्यर्थः । संज्ञया पृथक्करणमुदाहरति — छात्राणामिति । छात्रसमुदायैकदेशभूतो मैत्रनामा स्वेतरव्यावृत्तपटुत्वधर्मक इत्यर्थः ।
yataśca nirdhāraṇam — On "jāti-guṇa…": in "yataḥ" and "tataḥ" the suffix tasi
is in the sense of the ablative (fifth). The meaning is: after that aggregate from
which the setting-apart of one member — by genus, quality, action, or name, i.e.
the conveying that [that member] possesses a distinguishing property excluding the
others (sva-itara-vyāvṛtta), which [setting-apart] is denoted by the word
nirdhāraṇa — is understood, the genitive and locative [occur]. Here by the word
"sva" the [singled-out] member is meant.
Among these, he exemplifies setting-apart by genus with "nṛṇāṃ nṛṣu vā": the word
"nṛ" denotes the aggregate of men; the plural [nṛṇām / nṛṣu] is [used] when the
distinctness of the constituent members is intended to be expressed, whereas
"dvijaḥ" (brāhmaṇa) is singular, intending the genus. The sense of the genitive
and locative is the relation of part-and-whole (avayava-avayavin) and [also] of
being the domain (viṣaya) of the exemplified nirdhāraṇa; and so the meaning is:
the dvija, being one member of the aggregate of men, possesses the property of
excellence (śraiṣṭhya) that excludes the others. He exemplifies setting-apart by
quality with "gavāṃ goṣu vā": the black cow, being one member of the aggregate of
cows, possesses the property of giving-much-milk (bahu-kṣīratva) that excludes the
others. He exemplifies setting-apart by action with "gacchatāṃ gacchatsu vā": the
running one, being one member of the aggregate of those going, possesses the
property of swiftness (śaighrya) that excludes the others. He exemplifies
setting-apart by name with "chātrāṇām": the one named Maitra, being one member of
the aggregate of students, possesses the property of cleverness (paṭutva) that
excludes the others.
SK 639 · A 2.3.42V
पञ्चमी विभक्ते ॥ ६३९ ॥
pañcamī vibhakte
The fifth (ablative) case-ending occurs [in nirdhāraṇa] when there is [only] distinction (vibhakta). — 2.3.42
Rule. Vibhakta means separation. When the thing singled out is merely distinguished from the rest, not taken as one of them, the fifth case-ending is added instead.
Example.
māthurāḥ + pāṭaliputraka + āḍhyatarāḥ "the people of Mathurā are wealthier than those of Pāṭaliputra" → the two groups are simply set apart → māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ.
Siddhānta-kaumudī
विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥
"vibhakta" = vibhāga (distinction/separation). Where there is only difference (bheda eva) of that which is being singled out (nirdhāryamāṇa), there the fifth case occurs. Example: māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ — "the people of Mathurā are wealthier than the people of Pāṭaliputra."
Tattvabodhinī
NSP p. 168—पञ्चमी विभक्ते ॥—भेद एवेति । न तु शब्दान्तरोपात्तसामान्याकान्ततेति भावः ॥—तत्र पञ्चमी स्यादिति । नन्वेवं माथुरा इत्यत्रापि पञ्चमी स्यात् । मैवम् । पूर्वसूत्रमिहानुवर्तते तेन यतो निर्धार्यते तत एवेत्यर्थात् निर्धारणावधेरेव पञ्चमीप्रवृत्तेः । अनभिहिताधिकारान्माथुरा इत्यत्र नातिप्रसङ्ग इत्यन्ये ॥—माथुरा इति । न ह्यत्र निर्धारणावधेर्निर्धार्यमाणस्य च गवां कृष्णेत्यादाविव सामान्यविशेषभावोऽस्ति किंतु शब्दोपात्तयोर्धर्मयोर्विरोध एव ॥ इदं च सूत्रं बुद्धिपरिकल्पितापायमाश्रित्यापादानप्रकरणे भाष्ये प्रत्याख्यातम्
Bālamanoramā
पञ्चमी विभक्ते - पञ्चमी विभक्ते । विभागो विभक्तिमिति । भावे क्तप्रत्ययाश्रयणादिति भावः ।यतश्चनिर्धारण॑मित्यनुवर्तते । निर्धारणावधिभूतानां मनुष्यादीनां निर्धार्यमाणानां द्विजानां च सामान्यात्मनाऽभेदो, विशेषात्मना भेदश्च स्थितः । एवं च निर्धारणे सर्वत्र कथंचिद्भेदस्य सत्त्वाद्विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, न तु केनाप्युपात्तरूपेणाऽभेदस्तत्रैवास्य प्रवृत्तिरित्यभिप्रेत्याह — निर्धार्यमाणस्येति ।निर्धारणावधे॑रिति शेषः,यतश्च निर्धारण॑मित्यनुवृत्तेः । अत्रावधिव्यवृत्तधर्मवत्त्वबोधनमेव , न तु समुदायादेकदेशस्येत्यंशो विवक्षितः, असम्भवादित्यभिप्रेत्योदाहरति — माथुरा इति । अवधित्वं पञ्चम्यर्थं मथुरादेशीयाः पाटलीपुत्रदेशीयापेक्षया अतिशयेनाढआ धनिन इत्यर्थः । अत्र मथुरादेशीयत्वपाटलीपुत्रदेशीयत्वयोर्गोत्वाऽआत्ववद्विरोधात्कथञ्चिदपि तद्रूपेण नाऽभेद इति निर्धारणावधेः पञ्चमीति भावः ।
pañcamī vibhakte — pañcamī vibhakte. vibhāgo vibhaktam iti — because [Bhaṭṭoji] resorts to the kta-suffix in the sense of bhāva (the abstract state); this is the point. "yataśca nirdhāraṇam" (A 2.3.41) — "nirdhāraṇa" is carried forward (anuvṛtti). Between the humans etc. that are the reference-point (avadhi) of the singling-out and the twice-born (dvija) that are being singled out, there stands non-difference (abheda) in respect of the general form (sāmānyātmanā) and difference (bheda) in respect of the particular form (viśeṣātmanā). And thus, since in singling-out there is everywhere some difference in some way, by "vibhakta" the intended sense is "difference only" (bheda eva). And so, only where there is difference only between the reference-point of the singling-out and that which is singled out — and no non-difference under any assumed form — there alone this [rule] applies: intending this, he says "nirdhāryamāṇasya." "nirdhāraṇāvadheḥ" ("of the reference-point of the singling-out") is to be supplied, by the anuvṛtti of "yataśca nirdhāraṇam." Here only the possession of a property distinguished from the reference-point (avadhi-vyāvṛtta-dharmavattva) is signified, not the sense of "a part of an aggregate" (samudāyād ekadeśasya), because [the latter is here] impossible: intending this, he gives the example "māthurā iti." avadhi-hood is the sense of the fifth case. The people of Mathurā, compared to the people of Pāṭaliputra, are exceedingly wealthy (atiśayena āḍhyāḥ). Here, since being-of-Mathurā and being-of-Pāṭaliputra are mutually exclusive, like cow-hood and horse-hood (gotva-aśvatva-vat), there is no non-difference under any form; hence the fifth case [attaches] to the reference-point of the singling-out. This is the point.
translator notes
- textual The digital source reads vibhāgo vibhaktim iti in the pratīka-gloss (translated per the mūla's vibhaktam), and corrupts āḍhyā to āḍhā and vyāvṛtta to vyavṛtta; translated per the evident readings, not emended.
SK 640 · A 2.3.43V
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ६४० ॥
sādhunipuṇābhyāmarcāyāṃ saptamyaprateḥ
The seventh case (saptamī) with sādhu and nipuṇa, in the sense of esteem (arcā), but not [when construed] with prati.
Rule. With sādhu "good" and nipuṇa "skilful", in the sense of esteem (arcā), the seventh case-ending is added — but not when prati is used.
Example.
mātṛ + sādhuḥ → mātari sādhuḥ "good toward his mother"; mātari nipuṇaḥ.
Applies when / blocked by. Why "esteem"? In nipuṇo rājño bhṛtyaḥ "the king's clever servant", a fact is stated, not esteem, and the genitive stands. A vārttika reads "not with prati and the like": sādhur nipuṇo vā mātaraṃ prati / pari / anu takes the accusative of SK 548.
Siddhānta-kaumudī
आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ।
In conjunction with these two [sādhu and nipuṇa], the saptamī occurs when esteem (arcā) [is meant], but not when prati is used. E.g. mātari sādhur nipuṇo vā — "good, or skilful, toward the mother." Why "in [the sense of] esteem"? [Counter-example:] nipuṇo rājño bhṛtyaḥ — "a clever servant of the king," where the intent is [merely] the statement of a fact (tattva-kathana) [not esteem — hence ṣaṣṭhī].
vārttikaअप्रत्यादिभिरिति वक्तव्यम्
(vārttika) It should be stated: "not [when construed] with prati and the rest (aprati-ādi)."
(वार्तिकम्) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥
(Illustrating the vārttika:) sādhur nipuṇo vā mātaraṃ prati, pary anu vā — "good, or skilful, toward the mother" [construed with prati, pari, or anu — hence the second case, no saptamī].
Tattvabodhinī
NSP p. 168—साधुनिपुण्याभ्यामर्चायां—। ‘पुण कर्मणि शुभे’ अस्मान्निपूर्वादिगुपधलक्षणः कः । ‘अर्च पूजायाम्’ अस्माद्भौवादिकात् ‘गुरोश्च हलः’ इत्यप्रत्यये टाप् । चौरादिकात्तु ‘ण्यासश्रन्थः’—इति युच्यर्चनेति स्यात् ॥—निपुणो राक्ष इति । साधुशब्दप्रयोगे लर्चा विना सप्तमी भवत्येव ‘साध्वसाधुप्रयोगे च’ इति वार्तिकात् ॥—अप्रत्यादिभिरिति । ‘लक्षणेत्थम्’—इति सूत्रोपात्ताः प्रत्यादयः
Bālamanoramā
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः - शादुनिपुणाभ्याम् । शेषषष्ठपवादः । मातरिसाधुरिति । हितकारीत्यर्थः । निपुणो वेति । मातरि कुशल इत्यर्थः ।शुश्रूषाया॑मिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चा विनापि सप्तमी भवत्येव,साध्वसाधुप्रयोगे चे॑त्युक्तेः । इह साधुग्रहणं तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम् ।अप्रत्यादिभिरिति । प्रति, परि, अनु एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः ।
sādhunipuṇābhyāmarcāyāṃ saptamyaprateḥ — This is an exception (apavāda) to the residual ṣaṣṭhī. "mātari sādhuḥ" means "beneficent (hitakārin)." "or nipuṇaḥ" means "skilful (kuśala) toward the mother"; "in [her] service (śuśrūṣā)" is to be supplied. "nipuṇo rājñaḥ": but when the word sādhu is used, the saptamī does occur even without esteem (arcā), because of the statement sādhvasādhuprayoge ca. Here the mention of sādhu [in the present rule] is [therefore only] in order to negate the saptamī when there is esteem but construction with prati and the rest. "not with prati and the rest": the idea is that when construed with these — prati, pari, anu — there is no saptamī even in conjunction with sādhu and nipuṇa.
translator notes
- textual The opening pratīka is printed शादुनिपुणाभ्याम् for sādhunipuṇābhyām; the evident reading is followed, source not emended. The cited inherited rule sādhvasādhuprayoge ca is quoted as it stands without a number, its Aṣṭādhyāyī reference not being securely determinable from the corrupt context.
SK 641 · A 2.3.44V
प्रसितोत्सुकाभ्यां तृतीया च ॥ ६४१ ॥
prasitotsukābhyāṃ tṛtīyā ca
prasitotsukābhyāṃ tṛtīyā ca — 2.3.44. After [words meaning] prasita (intent, engrossed) and utsuka (eager), the third case (tṛtīyā) is used, and (ca) also [the seventh].
Rule. With prasita "intent on" and utsuka "eager for", the third case-ending is added, and, by the word ca, the seventh.
Example.
hari + prasitaḥ → hariṇā prasitaḥ or harau prasitaḥ "intent on Hari"; likewise utsukaḥ.
Siddhānta-kaumudī
आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥
In construction with these two [prasita and utsuka], the third case occurs, and
by [the word] ca also the seventh. Example: prasita utsuko vā hariṇā harau vā —
"intent on / eager for Hari" (Hari standing either in the instrumental, hariṇā,
or in the locative, harau).
Tattvabodhinī
NSP p. 168—प्रसितोत्सुकाभ्यां—। ‘तत्परे प्रसितासक्तौ’ इत्यमरः । उत्सुकसाहचर्यात् प्रसितोऽपि तत्पर एवेह गृह्यते रूढ्या च । तेन प्रकर्षेण सितः शुक्लः इत्यर्थे न भवति
Bālamanoramā
प्रसितोत्सुकाभ्यां तृतीया च - प्रसितोत्सुकाभ्याम् ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । वैषयिकाधिकरणत्वे सम्यम्यामेव प्राप्तायामिदं वचनम् ।
prasitotsukābhyāṃ tṛtīyā ca — "prasitotsukābhyām." Amara [states in his
lexicon]: "prasita and āsakta [denote one who is] intent (tatpara); utsuka [is]
one roused (udyukta) toward a desired object." Since, by [these words'] having
the character of being the locus of an object-domain (vaiṣayika-adhikaraṇatva),
the seventh case alone would [otherwise] be obtained, this statement [enjoining
the third] is made.
translator notes
- textual The source reads "samyamyām eva prāptāyām"; the sense requires saptamyām eva prāptāyām ("the seventh case alone being obtained"), and the translation follows that evident reading. The Amara citation is quoted verbatim from the digital source, which is lightly corrupt in its sandhi ("prasitāsaktāviṣṭārthodyukta utsukaḥ").
SK 642 · A 2.3.45V
नक्षत्रे च लुपि ॥ ६४२ ॥
nakṣatre ca lupi
And [the seventh and third cases] for a nakṣatra (lunar mansion) when there is lup [i.e. the lup-elision of the following affix].
Rule. When a word for an asterism (nakṣatra) is the base, and the affix that would follow it has been dropped by lup, the word — now in the sense the dropped affix carried — takes the third and the seventh case-ending to express the locus.
Example.
mūla + āvāhayet devīm "one should invoke the Goddess under Mūla" → the affix meaning "the time marked by" is dropped by lup → mūlenāvāhayed devīm or mūle āvāhayed devīm; śravaṇena / śravaṇe visarjayet "dismiss her under Śravaṇa".
Applies when / blocked by. Why "under lup"? In puṣye śaniḥ "Saturn is in Puṣya", no affix has been dropped, and only the ordinary locative occurs.
Siddhānta-kaumudī
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥
When a nakṣatra (lunar mansion) is the base-meaning, and there is the meaning of an affix that undergoes elision by the designation lup — from a word standing in that [meaning], the tṛtīyā and the saptamī occur, in the sense of locus (adhikaraṇa). E.g. mūlenāvāhayed devīṃ śravaṇena visarjayet — "one should invoke the Goddess under [the asterism] Mūla and dismiss [her] under Śravaṇa"; or mūle, śravaṇe [saptamī]. Why "when there is lup"? [Counter-example:] puṣye śaniḥ — "Saturn [is] in Puṣya" [ordinary saptamī; no lup-elided affix].
Tattvabodhinī
NSP p. 168—नक्षत्रे च लुपि । लुप्शब्दोऽत्रार्थविशेषे लाक्षणिक इत्याशयेनाह—यो लुप्संज्ञयेत्यादि ॥—अधिकरण इति । एतच्च ‘सप्तम्यधिकरणे च’ इत्यतो मण्डूकहलानुवर्तत इति भावः ॥ अधिकरणे किम् । मूलं प्रतीक्षते, मूलाय स्पृहयति ॥—मूलेनेति । ‘नक्षत्रेण युक्तः कालः’ इत्यणो ‘लुब्धविशेषे’ इति लुप् ॥ नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह ‘जनपदे लुप्’ इति लुप्
Bālamanoramā
नक्षत्रे च लुपि - नक्षत्रे च लुपि । 'नक्षत्रे ' इत्यनन्तरंप्रकृत्यर्थे सती॑ति शेषः । लुप्शब्देन लुप्संज्ञाया लुप्तप्रत्ययार्थो विवक्षितः । तदाह — नक्षत्रे प्रकृत्यर्थे इति । अधिकरण इति ।सप्तम्यधिकरणे चे॑त्यत मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्तकाल इत्यर्थः ।नक्षत्रेण युक्तः कालः॑ इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् ।
nakṣatre ca lupi — After "nakṣatre," "when it is the base-meaning (prakṛty-arthe sati)" is to be supplied. By the word "lup" the meaning of the affix elided by the lup-designation is intended. This he states with "when a nakṣatra is the base-meaning." "In the sense of locus" (adhikaraṇe): the idea is that [adhikaraṇa] is carried forward by anuvṛtti, by a "frog's leap" (maṇḍūka-pluti), from saptamyadhikaraṇe ca (A 2.3.36).
"mūlena": the meaning is "the time conjoined with the asterism Mūla." The affix aṇ by nakṣatreṇa yuktaḥ kālaḥ (A 4.2.3); and the lup of that [affix] by lubaviśeṣe (A 4.2.4). Why "in the sense of locus"? [Counter:] mūlaṃ pratīkṣate — "he awaits [the asterism] Mūla" [object, second case]. Why "a nakṣatra"? [Counter:] pañcāleṣu tiṣṭhati — "he stays among the Pañcālas," where the lup is by janapade... [not a nakṣatra-word, so the present rule's provision does not apply].
SK 643 · A 2.3.7V
सप्तमीपञ्चम्यौ कारकमध्ये ॥ ६४३ ॥
saptamīpañcamyau kārakamadhye
saptamīpañcamyau kārakamadhye — 2.3.7. The locative (saptamī) and the ablative (pañcamī) occur for [a word denoting time or distance] situated in the midst of [two] kārakas (kāraka-madhye).
Rule. The seventh and the fifth case-ending are added to a word for time or distance that lies between two kārakas.
Example.
adya bhuktvā + dvyaha + bhoktā "having eaten today, he will eat after two days" → the two days lie between two agencies, today's eating and the next → dvyahe bhoktā or dvyahād bhoktā.
ihasthaḥ + krośa + lakṣyaṃ vidhyet "standing here, he may hit the target a krośa away" → the distance lies between the agent and the object → krośe or krośāt.
Applies when / blocked by. With the word adhika "exceeding" the same two cases are wanted, as the wordings of tad asminn adhikam (SK 1846) and yasmād adhikam (SK 645) indicate: loke / lokād adhiko hariḥ "Hari exceeds the world".
Siddhānta-kaumudī
शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् SK 1846 इति यस्मादधिकम् SK 645 इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥
For the [words denoting] time (kāla) and distance (adhvan) that stand in the midst of two
powers (śakti-dvaya, i.e. two kārakas), these two [the locative and the ablative] occur.
Example: adya bhuktvāyaṃ dvyahe dvyahād vā bhoktā — "having eaten today, he will eat
on / after two days." This time [the two-day interval] is in the midst of two agent-powers
(kartṛ-śakti) [the agency of today's eating and that of the future eating]. [Second:]
ihastho'yaṃ krośe krośād vā lakṣyaṃ vidhyet — "standing here, he may hit the target
at a krośa's distance." This place is in the midst of the agent-power and the object-power
(kartṛ-karma-śakti). In construction with the word "adhika" (exceeding), the locative and
ablative are [also] desired, as indicated by the wordings of the sūtras tad asminn
adhikam (SK 1846) and yasmād adhikam (SK 645). Example: loke lokād vā adhiko
hariḥ — "Hari is superior to the world."
Tattvabodhinī
alignment inferredNSP p. 168–170—सप्तमीपञ्चभ्यौ—। ‘कालाध्वनोरत्यन्तसंयोगे’ इत्यतः कालाध्वनोरत्यनुवर्तते, तच्च पञ्चम्या विपरिणम्यते तदाह—यौ कालाध्वानौ ताभ्यामिति । इह कालाध्वभ्यां विभक्तयोर्यथासंख्यं न भवत्यस्वरितत्वात् ॥—अद्य भुक्त्वायमिति । नन्वत्र कर्ता एक एव तत्कथं कारकयोर्मध्ये कालः । सत्यम् । नात्र शक्त्याश्रयं द्रव्यं कारकमिति व्यवह्रियते, किंतु शक्तिरेव । सा च कालमेदाद् भिद्यत एव । एका हि अद्य भुजेः साधनम्, अपरा ब्यहेऽतीते भुजेस्तदेतद्याचष्टे—कर्तृशक्त्योर्मध्येऽयं काल इति ॥—यस्मादधिकम्—॥—उप परार्थ इति । ‘उपोऽधिके च’ इत्यनेन उपेत्यस्य कर्मप्रवचनीयसंज्ञा ॥ ‘यस्य चेश्वरवचनम्’ इत्यस्य तन्त्रादिना अर्थद्वयं विवक्षितम् । तथा हि । यस्येत्यनेन स्वं निर्दिश्यते, यस्य स्वस्य संवन्धी ईश्वर उच्यते ततः सप्तमीति व्याख्याने स्ववाचकात् सप्तमीत्येकोऽर्थः । ईश्वरशब्दो भावप्रधानः । यन्निष्ठमीश्वरत्वमुच्यते ततः सप्तमीति व्याख्याने स्वामिवाचकात् सप्तमीत्यपरः । एवं स्थिते फलितमाह—स्वस्वामिभ्यां पर्यायेणेति । अन्यतरस्मादुत्पन्नयैव सप्तम्या इतरनिष्ठसंवन्धस्याप्युक्तत्वाद्युगपदुभाभ्यां न सप्तमी स्यादिति भावः ॥ विभक्तयर्थेऽव्ययीभावे त्वधिराभम् ॥—यदन्त्रेति । यो मामधिकरिष्यति विनियोक्ष्यते तस्य मद्विनियोक्तुरीश्वरत्वं गम्यते इत्यर्थः ॥—तिङ्कि चोदाक्तेति । उदात्तवति तिङ्कि परे गतिर्निहन्यत इति सूत्रार्थः । अत्र करिष्यतीति तिङन्त उदात्तवान् ‘तिङ्कतिङः’ इति निघातस्य ‘निपातैर्यद्यदि—’ इत्यादिना निषेधात् ॥—निघातो नेति । मामिति द्वितीया तु ‘कर्मणि द्वितीया’ इत्यनेनैव सिध्यतीति भावः ॥ इति सप्तमी ॥ इति कारकप्रकरणम् ॥ समर्थः पदचिधिः ॥ सामर्थ्यं च द्विविधं व्यपेक्षालक्षणमेकार्थाभावलक्षणं चेति । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परसरसंवन्धः सा व्यपेक्षा । सैव वाक्ये राज्ञः पुरुष इत्यादौ । तत्र ह्यपेक्षायां सत्यां यो यः संनिहितो यो ग्यश्च तेन तेन संवन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽभ्यश्च । राज्ञो देवदत्तस्य च पुरुष इति ॥ एकार्थाभावस्तु राजपुरुष इत्यादिवृत्तावेव । स च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थलक्षणः । अत एव राजपुरुष इत्यत्र राज्ञि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात् । न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरष्टार्थस्य गुरुणान्वयादिति वाच्यम् । देवदत्तस्य प्रधानीभूतकुलेनैवान्वयात् । संवन्धस्तूपस्थितगुरुद्वारक एव षष्ट्यर्थो, न तु तदितरः । उक्तं च ‘समुदायेन संवन्धो येषां गुरुकुलादिनां । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह’ इति । यद्वा । ससंवन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः । उक्तं च ‘संवन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते’ इति । नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेकदेशत्वेऽपि ऋद्धस्येति विशेषणेनान्वयोऽस्तु । मैवम् । राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात् । ननु वाक्ये कृतयैवावयवशक्त्योपपत्तौ विशिष्टार्थविषयकशक्त्यन्तरमेव मास्तु । सत्यम् । ‘वद्वनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्वैरवं तस्मादेकार्थाभाव आस्थितः । चकारादिनिषेधोऽथ वहुव्युत्पत्तिभजनम् । कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितम्’ ॥ तथाहि—धवखदिराविति वृत्त्यैव कोडीकृतार्थलाचकारो न प्रयुज्यते, तथा चित्रग्वादौ यत्पदम् । त्वया तु वचनं कर्तव्यम् । निरूढलक्षणा तु शक्तितो नातीव भिद्यते । किंच प्राप्तमुदकं यमिति व्यस्ते समीचीनमुदकमिति विशेषणवत्समस्तेऽपि उदकविशेषणप्रयोगः प्राप्तः स च ‘वृत्तस्य विशेषणयोगो न’ इति वचनेनैव वारणीयः, ‘नामार्थयोरभेदान्वयः’, ‘प्रत्ययार्थः प्रधानम्’ इति व्युत्पत्तित्यागश्च । प्राप्तोदक इत्यादौ उदककर्तृकप्राप्तिकर्मैत्याद्यर्थाभ्युपगमात् । एकार्थाभावे तु लाघवमिति दिक् ॥ पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्यानय तक्रम्, इह स्यादेव यण् ॥ विधिग्रहणं तु पदस्य विधिः पदयोर्विधिः पदानां विधिरित्यनेकविभक्त्यन्तसमासलाभार्थम् । पदस्येत्युक्तौ तु ‘उपपदमतिङ्’ इत्यादावेवास्योपस्थितिः स्यादित्याहुः ॥ सूत्रे समर्थशब्दो लक्षणिक इति ध्वनयन्नाह—समर्थाश्रित इति । समर्थेति किम् । पश्यति कृष्णं श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत् । यथा वल्लभमुपगोरपत्यं चैत्रस्येत्यत्र ‘तस्यापत्यम्’ इत्युपगुशब्दादण् मा भूदिति । क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद्वृत्तिरज्जीकियते । तद्यथा किमोदनं शालीनाम् । केषां शालीनामोदनमित्यर्थः । सक्त्वाढकमापणीयानाम् । आपणीयानां सक्तूनामाढकमित्यर्थः । कुतो भवान्पाटलिपुत्रकः । द्वे पाटलिपुत्रे तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः । ‘रोपधेतोः प्राचाम्’ इति बुञ्
Bālamanoramā
सप्तमीपञ्चम्यौ कारकमध्ये - सप्तमीपञ्चम्यौ । कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कत्र्रादिपरः, व्याख्यानात् । मध्यस्यावधिद्वयसापेक्षत्वात्कारकयोर्मध्यमिति विग्रहः । तदाह — शक्तिद्वयमध्ये इति । 'कालाध्वनोः' इत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यत इत्याह — यौ कालाध्वानाविति । अद्य भुक्त्वेति । सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्त्वा द्व्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट् । कर्तृशक्त्योरिति । अद्यतनभुजिक्रियानिरूपितकर्तृत्वस्य, द्व्यहोत्तरदिनगतभुजिक्रियागिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विह न स्यात्, क्त्वाप्रत्ययस्य कत्र्रेकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रियाभेदाद्भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति — इहस्थोऽयमिति । इहापि देशतः सामीपिकमधिकरत्वं पञ्चमीसप्तम्योरर्थः । इहतिष्ठन्नयमिष्वास इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति । कर्तृत्वकर्मत्वरूपशक्त्योर्मध्य इत्यर्थः । कारकशब्दस्य कत्र्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्त्वायमित्यत्र न स्यादिति सूचयितुमिदमष्युदाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसंबन्धे शेषषष्ठएवोचितेत्याशङ्क्याह — अधिकशब्देनेति । लोके लोकाद्वेति । अवधित्वसंबन्धः सप्तमीपञ्चम्योरर्थः । लोकापेक्षया श्रेष्ठ इत्यर्थः ।
saptamīpañcamyau kārakamadhye — the word "kāraka" [here] refers to the powers such as
agency (kartṛtva) etc., not to the agent (kartṛ) etc. themselves, by [traditional]
explanation. Since "middle" (madhya) requires two limits, the analysis is "in the middle
of two kārakas"; thus he says "in the midst of two powers." The expression "kālādhvanoḥ"
[genitive dual, from 2.3.5], carried forward by anuvṛtti, is modified in its case-form —
as he indicates by "yau kālādhvānau" ("the time and distance which…").
adya bhuktvā — the [ablative option] is stated where otherwise only the locative would
apply, in the sense of proximate location (sāmīpika-adhikaraṇatva): having eaten today,
he will eat on the third day, near [i.e. after] the elapsed two-day interval; the luṭ
[periphrastic future "bhoktā"] is in the future sense. "kartṛśaktyoḥ" (of the two agent-
powers): namely, the agency defined by today's eating-action and the agency defined by
the eating-action occurring on the day after the two-day interval. Were the word "kāraka"
to refer to the agent etc. [themselves], the rule would not apply here, because the ktvā
suffix [in "bhuktvā"] is enjoined [only] under the sameness of a single agent (kartṛ-
ekatva); but the agent-power (kartṛ-śakti) is indeed differentiated by the difference of
the two eating-actions.
He also gives an example of [a word] in the midst of two [distinct] kārakas: ihastho'yam.
Here too the meaning of the ablative and locative is proximate location by place (deśataḥ
sāmīpika-adhikaraṇatva): this archer, standing here, may pierce with an arrow the target
in the region just beyond a krośa's distance. "kartṛkarmaśaktyoḥ" — in the midst of the
two powers consisting of agency and object-hood. Were "kāraka" to refer to the agent etc.
[themselves], the rule would apply only here [where agent and object differ] and not in
"adya bhuktvāyam"; to signal this, this second example too has been given.
Objection: in loke lokād vā adhiko hariḥ, where the relation is that of a limit
(avadhitva), only the remainder-genitive (śeṣa-ṣaṣṭhī) would be appropriate. Anticipating
this, he says "adhikaśabdena…": in "loke lokād vā," the meaning of the locative and
ablative is the relation of being a limit (avadhitva) — [Hari is] superior in comparison
to the world.
Footnotes (NSP 1915 ed.)
NSP p. 169 १ पदविधिरिति—पदविधिशब्देन पदविधिसहचरितोऽपि गृह्यते । तेन सन्नन्तादावेकार्थंभावोऽख्येव ।
NSP p. 170 १ सुपा इति—लक्षणमिदमधिकारश्च । अन्त्ये फलं तु देवः करोति मातुः स्मरतीत्यादौ विशेषणसमासपष्ठीसमासयोरभावः । २ सुपो धात्विति—‘अङ्गस्य सुपः’ इति नोक्तम् । तथा सति अङ्गनिमित्तस्य सुपः इत्यर्थोऽपि स्यात् । ३ इवेनेति—‘हरीतकीं सुंक्ष्व राजन्मातेव हितकारिणीम्’ इत्यत्र मातेवेत्यशुद्धः पाठ इति बोध्यम् । ४ अव्ययीभाव इति—महासंज्ञाकरणं प्राचामुरोधेन । ५ योगो विभज्यते इति—‘इदं भाष्ये न दृश्यते’ अपदिशमित्यादिमान्तानां स्वरादिपाठादव्ययत्वम्’ अपदिशेनेत्यादीनां तु चिन्त्यत्वमिति केचिदाहुः ।
translator notes
- textual The source reads "pañcamyantatayā vipariṇamyate" ("modified so as to end in the ablative"), yet the citation it introduces, "yau kālādhvānau," is nominative; the transition is rendered neutrally as a modification of case-form. The point is that the genitive dual "kālādhvanoḥ" carried down from 2.3.5 is re-inflected for the present rule.
SK 644 · A 1.4.97निपातसंज्ञा
अधिरीश्वरे ॥ ६४४ ॥
adhirīśvare
adhirīśvare — 1.4.97. [The particle] adhi [is termed karmapravacanīya] when [what is denoted] is an īśvara (master), i.e. in the relation of the owned to its owner.
Rule. Adhi is a karmapravacanīya in the relation of owned and owner (sva-svāmi-bhāva), that is, when lordship (īśvara) is conveyed.
Example.
bhū + adhi + rāmaḥ "Rāma is lord over the earth" → the relation of owner and owned → adhi is a karmapravacanīya → (by SK 645) adhi bhuvi rāmaḥ.
Siddhānta-kaumudī
स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
In the relation of possessed-and-possessor (sva-svāmi-bhāva-sambandha), [the
particle] adhi receives the designation karmapravacanīya.
Bālamanoramā
अधिरीश्वरे - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीश्वरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति ।
adhirīśvare — About to state the karmapravacanīya operation of adhi, he
states its karmapravacanīya designation: adhirīśvare. By the word īśvara,
"being-an-īśvara" (īśvaratva), which consists of the relation of possessed-and-
possessor (sva-svāmi-bhāva), is what is intended. The governing term
"karmapravacanīyāḥ" [A 1.4.83], [which stands in the plural,] is transformed so
as to end in the singular [i.e. read as karmapravacanīyaḥ, agreeing with adhi].
This he states with "sva-svāmi…" etc.
translator notes
- textual The digital source reads "īāra-śabdena īārtvaṃ" where the sense plainly requires īśvara-śabdena īśvaratvaṃ; these appear to be digitization corruptions of īśvara, and the translation follows the evident reading.
SK 645 · A 2.3.9V
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ ६४५ ॥
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī
yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī — 2.3.9. The locative (saptamī) occurs: with respect to that from which [something] is exceeding (adhika), and with respect to that whose lordship (īśvara) is spoken of.
Rule. With a karmapravacanīya, the seventh case-ending is added to that which something exceeds, and to that whose lordship is spoken of.
Example.
parārdha + upa + harer guṇāḥ "Hari's qualities exceed a parārdha (the highest number)" → upa for excess (SK 551) → upa parārdhe harer guṇāḥ.
adhi bhuvi rāmaḥ "Rāma is lord over the earth" — the locative on the thing owned; adhi rāme bhūḥ "the earth is Rāma's" — the locative on the owner. In lordship the locative goes to either side in turn.
Applies when / blocked by. When a compound is made instead, by saptamī śauṇḍaiḥ (SK 717), the result is rāmādhīnā "dependent on Rāma", with the affix kha by aṣaḍakṣa... (SK 2079).
Siddhānta-kaumudī
अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः SK 717 इति समासपक्षे तु रामाधीना । अषडक्ष SK 2079 इत्यादिना खः ॥
Here the locative occurs in construction with a karmapravacanīya. Example: upa parārdhe
harer guṇāḥ — "the qualities of Hari are more than a parārdha [the highest number]," i.e.
"exceeding a parārdha." But in [the sense of] lordship (aiśvarya), the locative occurs
alternately (paryāyeṇa) from [the word denoting] the property (sva) or the owner (svāmin):
adhi bhuvi rāmaḥ — "Rāma is lord over the earth" [locative on the property, bhū]; adhi
rāme bhūḥ — "the earth belongs to Rāma [as its lord]" [locative on the owner, Rāma]. On
the compounding side (samāsa-pakṣa), however, by saptamī śauṇḍaiḥ (SK 717) [we get]
rāmādhīnā, the kha suffix [being added] by aṣaḍakṣa… (SK 2079) etc.
Bālamanoramā
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी - यस्मादधिकम् ।कर्मप्रवचनीययुक्ते॑ इत्यनुवर्तते । तदाह — अत्र कर्मप्रवचनीयेति । शेषषष्ठपवादः । उप पराध इति । अवधित्वं सप्तम्यर्थः । तदाह — परार्धादधिका इत्यर्थ इति । यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम् । यस्येआरवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः । इह यच्छब्देन स्वमुच्यते । #एवंच स्ववाचकात्सप्तमीति लभ्यते । ईआरशब्दो भावप्रधानः । यस्येआरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति यावत् । स्वामिवाचकात्सप्तमीति लभ्यते । तदाह — ऐआर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति । अधि भुवि राम इति । अधिरीश्वरपर्यायः । संबन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात्अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः॑ इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति । रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात् ।
yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī — "karmapravacanīyayukte" (2.3.8) is
carried forward; thus he says "here [in construction with] a karmapravacanīya." [This rule
is] an exception (apavāda) to the remainder-genitive. upa parārdhe — the meaning of the
locative is being-a-limit (avadhitva); thus he says "meaning: exceeding a parārdha." That
beyond which no further number exists is "parārdha"; the meaning is "in comparison to that."
This is the result of "upa" being a karmapravacanīya by upo'dhike ca ("upa [is a
karmapravacanīya] in the sense of 'exceeding'").
"yasya ceśvaravacanam" [admits two construals]. One meaning: the locative occurs with
respect to that to which the lord (īśvara) spoken of is related; here the word "yad" denotes
the property (sva), so it is obtained that the locative comes from the word denoting the
property. Since the word "īśvara" is predominantly abstract (bhāva-pradhāna), another
meaning is: the locative occurs from that whose lordship (īśvaratva) is spoken of — i.e. from
that in which lordship is said to reside, the word denoting the owner (svāmin). Thus he says
"in [the sense of] lordship, the locative occurs alternately from [the words for] property
and owner."
adhi bhuvi rāmaḥ — "adhi" is a synonym of "lord (īśvara)"; the meaning of the locative is
relation (saṃbandha); the sense is "Rāma is the owner of the earth." Here the locative is from
the word denoting the property (bhū). adhi rāme bhūḥ — here "adhi" is a synonym of the word
"property (sva)"; the meaning of the locative is relation; the sense is "the earth is the
property of Rāma." Here the locative is from the word denoting the owner (Rāma).
"On the compounding side": since "adhi" is listed in the śauṇḍādi class, the locative-ending
"rāme" is compounded with the word "adhi" [by saptamī śauṇḍaiḥ], and the sup is elided by
supo dhātuprātipadikayoḥ (luk of the sup). Then, from the word "rāmādhi," the kha suffix by
aṣaḍakṣāśitaṅgvalaṃkarmālaṃpuruṣādhyuttarapadāt khaḥ, and the substitution of "īna" for it
by āyaneyīnīyiyaḥ…, yields the derivation: rāme + adhi → rāmādhi → rāmādhi + kha →
rāmādhīna → rāmādhīnā bhūḥ — "the earth having Rāma as owner." But in an avyayībhāva compound
in the sense of the case-relation (vibhakty-artha), [we get] adhirāmaṃ bhūḥ — "the earth
having Rāma as its locus"; there the kha suffix does not apply, because [in "adhirāma"] "adhi"
is not the final member (uttarapada) [as the kha-rule requires].
translator notes
- translator The rules cited by pratīka only — upo'dhike ca, supo dhātuprātipadikayoḥ, aṣaḍakṣāśitaṅ…khaḥ (= SK 2079), and āyaneyīnīyiyaḥ — are given as the commentary gives them, without Aṣṭādhyāyī numbers, since their identification is not marked in the source (§13). The derivation rāme → rāmādhi → rāmādhīna → rāmādhīnā is set out as the Bālamanoramā gives it.
SK 646 · A 1.4.98निपातसंज्ञा
विभाषा कृञि ॥ ६४६ ॥
vibhāṣā kṛñi
vibhāṣā kṛñi — 1.4.98. Optionally, [adhi is a karmapravacanīya] before the root kṛñ (kṛ 'to make/appoint'), in the sense of īśvara ('mastery, being in control') carried forward from the previous sūtra.
Rule. Before the root kṛ, adhi is optionally a karmapravacanīya in the sense of lordship.
Example.
yad atra mām adhikariṣyati "he will set me in charge here" → the lordship of the one appointing is understood → adhi may be a karmapravacanīya.
Applies when / blocked by. When it is one, it is not a gati, so the loss of accent taught by tiṅi codāttavati (SK 3978) does not take place.
With this the seventh case, and the kāraka-prakaraṇa, are finished.
Siddhānta-kaumudī
अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति SK 3978 इति निघातो न ॥ इति सप्तमी ॥
adhi, before the root kṛ (karoti), optionally has the previously-[stated] saṃjñā
[karmapravacanīya] in the sense of īśvara (mastery). yad atra mām adhikariṣyati
["(one who exerts himself, thinking) 'he will set me in charge here'"] — meaning
"he will appoint/employ (viniyokṣyate) [me]." Here the īśvara-hood (mastery) of the
one who appoints is understood. Because [adhi] is not a gati, the nighāta (accent-
suppression) by *tiṅi codāttavati* (SK 3978) does not [apply to it]. — Thus [ends
the treatment of] the seventh case (saptamī).
Bālamanoramā
विभाषा कृञि - विभाषा कृञि । 'अधिरीश्वरे' इत्यनुवर्तते । 'कर्मप्रवचनीया' इत्यधिकृतम् । तदाह — अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीआरत्वे इति यावत् । यदत्रमामधिकरिष्यतीति । अत्र=अस्मिन्विषये मामधिकरिव्यतीति यत्नयुक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतद्व्याचष्टे — विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह — अगतित्वादिति । तिङि चेति । उदात्तवति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिप्यतीति तिङन्तमुदात्तवत्, तिङ्ङतिङः॑ इति निघातस्य 'निपोत्तैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतोऽधेर्निघाताऽभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणम् । ************************अथ तिङन्ते कर्तृकर्मप्रक्रिया ।अथ कर्मकर्तृप्रक्रियां निरूपयिष्यन्कर्मणः कर्तृत्वं साधयितुमाह — यदेति ।फलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचिर्हि विक्लित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय ओदनं कर्म.तदनुकूलो व्यापारः — अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् । स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुकूलः पुरुषचेष्टाविशेषः । धातु#ऊपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वातन्त्र्यं प्रधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यतिशयविवक्षया कर्त्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृसंज्ञा लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मणः कर्तृत्वमित्यत आह — स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तंकर्मवत्कर्मणे॑त्यत्र भाष्ये — कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्ष#इत्तवात् इति । अत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षणम् । तेनेति । असिना छिनत्तीत्यादिप्रयोगदशायामसिकुठारादीनां करणत्वादिसत्त्वेऽपि, 'असिश्छिनत्ती' इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात्कर्तरि लकार इत्यर्थः । साध्वसिश्छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । 'साधु' इति क्रियाविशेषं सौकर्यातिशयद्योतनाय । अतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असिश्छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राऽधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद्धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्यश्रपणतया सौकर्यं बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकास्तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षश्छिनत्ती॑त्यादौ प्राक् सकर्मकत्वेऽपि संप्रति सर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । ये तु द्विकर्मकास्तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा — सुधां क्षीरसागरो मथ्यते॑ । कर्तरि यथथा — सुधां क्षीरसागरो मथ्न#आति॑ । अथ यदुक्तम् — एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनाह — तेभ्यो भावे कर्तरि च लकारा इति । नतु कर्मणि, असंभवात् । अत एवअकर्मकेभ्यो भावे कर्तरि ल॑ इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तत्वविवक्षायां भावे लकारमुदाहरति — पच्यते ओदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्विकर्मकत्वं तथापि तण्डुलानामविवक्षायामेककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः ।
vibhāṣā kṛñi — vibhāṣā kṛñi. "adhir īśvare" [1.4.97] is carried forward
(anuvṛtti). "karmapravacanīyāḥ" remains in force as an adhikāra. This he
[Bhaṭṭoji] states with "adhiḥ karotau": when the root kṛñ follows, adhi optionally
becomes a karmapravacanīya — that is, in [the sense of] īśvara-hood.
"yad atra mām adhikariṣyati": atra = "in this matter"; the meaning is "[one who is]
engaged in effort, [thinking,] 'he will set me in charge.'" Here, in construction
with the karmapravacanīya, "mām" is in the dvitīyā. He explains "adhikariṣyati":
"meaning 'will appoint/employ' (viniyokṣyate)." Objection: Then, since the dvitīyā
is established from karman-hood itself, what use is the karmapravacanīya-hood? To
this he says "agatitvāt" (because of non-gati-hood).
"tiṅi ca": the sense of [the cited sūtra *tiṅi codāttavati*] is — when an udātta-
bearing tiṅ (finite verb) follows, a gati undergoes nighāta. Here the finite verb
"kariṣyati" bears an udātta, because the nighāta by *tiṅ atiṅaḥ* (8.1.28) is
prohibited by [the rule beginning] "yat…" and so forth [i.e., the finite verb, being
in construction with the yat-word "yad atra," retains its accent]. Consequently, if
adhi were here a gati, nighāta would be obtained here [for adhi, by *tiṅi
codāttavati*, before the udātta-bearing kariṣyati]. But when [adhi] is a
karmapravacanīya, that [nighāta] does not occur, because the karmapravacanīya-hood
blocks the gati-hood. Therefore this sūtra serves to secure the absence of nighāta
for adhi — so it is established.
Thus [ends] the exposition of the meaning of the case-endings (vibhaktyartha-
nirūpaṇa) in the commentary on the Siddhānta-kaumudī named Bālamanoramā, composed by
the learned Śrī Vāsudeva Dīkṣita.
* * *
Now, the procedure of the agent (kartṛ) and object (karman) in the finite verb
(tiṅanta). — Now, about to expound the karma-kartṛ procedure [the construction in
which the object figures as agent], in order to establish the kartṛ-hood of the
karman, he says "yat…": The settled doctrine (siddhānta) is "a dhātu [denotes both]
result (phala) and activity (vyāpāra)." For the root pac denotes the activity
conducive to softening (viklitti). There, the softening is the result (phala); its
locus, the rice (odana), is the karman; and the activity conducive to it is the
activity in the form of a person's effort (puruṣa-prayatna), such as setting-on-the-
fire (adhiśrayaṇa) and the rest. Setting-on-the-fire is the placing of a pot filled
with rice-grains upon the hearth (cullī); the placing is the activity conducive to
[the pot's] resting; the resting inheres in the pot and the grains; and conducive to
that is a particular bodily exertion of the person.
The person, being the locus of the activity denoted by the dhātu, is the kartṛ,
because he is independent (svatantra) — "independence (svātantrya) is principality
(prādhānya)," says the Bhāṣya. But the karman, karaṇa, and the rest, being dependent
on the person's effort, do not attain kartṛ-hood — such is the settled position.
Now, when — through the wish to express great facility (saukarya-atiśaya) — the
activity, i.e. the effort, of the agent-person is not intended to be expressed, but
rather the activity residing in the karman etc. itself is intended [to be expressed]
as conducive to the result (softening etc.), then the karman and the other kārakas
too obtain the kartṛ-saṃjñā — this is the meaning.
Objection: Since the activity residing in the karman etc. depends on the person's
effort and so is not independent, how can the karman have kartṛ-hood? To this he
says "because of independence in its own activity" — meaning, because it is intended
to be expressed as independent. This is stated in the Bhāṣya on *karmavat karmaṇā*
(3.1.87): "in the karma-kartṛ [construction], kartṛ-hood [obtains] because
independence is intended to be expressed." Here the mention of "karman" is also an
indicator (upalakṣaṇa) for the karaṇa and the other kārakas.
"tena": meaning — although in usages like "asinā chinatti" ("he cuts with a sword")
the sword, axe, and the like have karaṇa-hood etc., in usages like "asiś chinatti"
("the sword cuts"), because [the sword] is intended to be expressed as kartṛ, the
lakāra is in the kartṛ [sense]. "sādhv asiś chinatti" ("the sword cuts well"): here
the karaṇa is intended as kartṛ; "sādhu" [is used] as an adverbial qualifier of the
action, to indicate the great facility — meaning, because of [its] extreme
sharpness, the sword cuts by itself, without any special effort of the person and
without any great striking-force. "kāṣṭhāni pacanti" ("the sticks of wood cook
[it]"): here too the karaṇas are intended as kartṛ. "sthālī pacati" ("the pot
cooks"): here the adhikaraṇa (locus) is intended as kartṛ. The facility is to be
understood thus: from the extreme dryness of the wood, [it cooks] without need of
blowing or puffing [on the fire]; from the pot's extreme lightness, [it cooks] with
quick, undelayed boiling.
"karmaṇas tu": [roots] such as chid, bhid, and the like, which are mono-transitive
(eka-karmaka) — there, when the karman is intended as kartṛ, in cases like "vṛkṣaś
chinatti" ("the tree splits [of itself]"), although formerly transitive, they now,
when the karman is intended as kartṛ, become intransitive (akarmaka) — this is the
meaning. But [roots] that are di-transitive (dvi-karmaka) — there, even when one
karman is intended as kartṛ, transitivity still obtains through the other karman;
hence the [earlier] qualification "generally" (prāyeṇa). And so, in those
di-transitive [roots], the lakāra is in both the karman and the kartṛ. There, with
the lakāra in the karman, as in "sudhāṃ kṣīra-sāgaro mathyate" ("the milk-ocean is
churned [for] the nectar"); with [the lakāra] in the kartṛ, as in "sudhāṃ
kṣīra-sāgaro mathnāti" ("the milk-ocean churns [out] the nectar").
Now, as to what was said — that mono-transitive [roots] become intransitive when the
karman is intended as kartṛ — he states its purpose: "from them [the lakāras occur]
in the bhāva and in the kartṛ," but not in the karman, because [that is] impossible.
For this very reason it was said "from intransitives, the la[kāra occurs] in the
bhāva and the kartṛ" — this is the idea. There, from mono-transitives, when the
karman is intended as kartṛ, he illustrates the lakāra in the bhāva with "pacyate
odanena" ["cooking takes place by the rice"] — meaning, the cooking whose agent is
the rice (odana); likewise also "bhidyate kāṣṭhena" ["splitting takes place by the
wood"]. Although pac is di-transitive, still, when the [second object] rice-grains
(taṇḍula) is not intended to be expressed, mono-transitivity of pac is assumed.
"kartari tu": meaning — the special [rule] regarding the lakāra in the kartṛ, for
mono-transitives when the karman is intended as kartṛ, will be stated [later].
translator notes
- textual The digital source reads the blocking rule as 'nipottairyat' (निपोत्तैर्यत्), which is corrupt. The context (kariṣyati retaining its udātta while in construction with the yat-word 'yad atra') points to the yat-vṛtta accent-retention rule; the translation follows that evident sense without emending the reading to a specific sūtra reference.
- textual Several forms in the source are lightly garbled (e.g. 'īārtve' for īśvaratve, 'sarmaṇaḥ' for karmaṇaḥ, 'yathā' doubled); read per the obvious intended forms.