Premabase · Laghu-siddhānta-kaumudī · Prakaraṇa 57
Show
VṛttiGovind
LSK 1208
तसिलादिविधायकं विधिसूत्रम्
इतराभ्योऽपि दृश्यन्ते
Aṣṭādhyāyī 5.3.14
Vṛtti Varadarājācārya

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते।

दृशिग्रहणाद् भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्।

तं भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः,

आयुष्मान्।

.....

Hindi commentary Govind Prasad Sharma · śrīdhara-mukhollāsinī

१२०८- इतराभ्योऽपि दृश्यन्ते। इतराभ्यः पञ्चम्यन्तम्, अपि अव्ययपदं, दृश्यन्ते क्रियापदं,

त्रिपदं सूत्रम्। पञ्चम्यास्तसिल्, सप्तम्यास्त्रल् आदि सूत्रों से तसिल्, त्रल् की अनुवृत्ति

आती है, उसे यहाँ पर तसिलादयः कह दिया गया है और प्रत्ययः, परश्च, उच्याप्यातिपदिकात्,

तद्धिताः का अधिकार है।