Premabase · Laghu-siddhānta-kaumudī · Prakaraṇa 33
Show
VṛttiGovind
LSK 781
कुत्वविधायकं विधिसूत्रम्
चजोः कु घिण्ण्यतोः
Aṣṭādhyāyī 7.3.52
Vṛtti Varadarājācārya

चजोः कुत्वं स्याद् घिति ण्यति च परे।

Hindi commentary Govind Prasad Sharma · śrīdhara-mukhollāsinī

७८१- चजोः कुः घिण्ण्यतोः। चश्च ज् च चजौ, तयोश्चजोः। घ् इद् यस्य स घित् (बहुव्रीहिः) घिच्च ण्यच्च तयोरितरेतरयोगद्वन्द्वो घिण्ण्यतौ, तयोर्घिण्ण्यतोः। चजोः षष्ठ्यन्तं, कु लुप्तप्रथमाकं, घिण्ण्यतोः सप्तम्यन्तं, त्रिपदं सूत्रम्।

घित् या ण्यत् के परे होने पर चकार और जकार के स्थान पर कवर्ग आदेश होता है।