PREMABASESiddhānta-kaumudī
Prakaraṇa 71 · SK 3650–3978

स्वरप्रकरणम्

svaraprakaraṇam · 416 sūtras (incl. 87 phiṭ) · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 3650 · A 6.1.158स्वरनिर्णयपरिभाषा
अनुदात्तं पदमेकवर्जम् ॥ ३६५० ॥
anudāttaṃ padamekavarjam
Siddhānta-kaumudī
परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः - SK 2304 इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ।
vārttika
सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्
(वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ॥
Subodhinī
alignment inferredNSP p. 625
—सति शिष्टेति । यो हि यस्मिन् सति शिष्यते स शिष्टः तस्य वाधको भवतीत्यर्थः । एतच्च सति शिष्टस्य वाधकत्वं न्यायसिद्धम् । तथा हि उदात्तस्वरितविधिभिरेकवाक्यतामापन्नयाऽनया शेषनिधातः क्रियते तत्रोत्सर्गस्यापवादस्य वा चरमा या प्राप्तिस्त्वा त्रास्या उपस्थाने पूर्वा प्रवृत्तिर्वाध्यते । तथा औपगवलमित्यत्राण्प्रत्यये लप्रत्यये च ‘आद्युदात्तश्च’ इति प्रवर्तमानं स्वस्यैव प्रथमप्रवृत्तिं वाधते द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्ठापयतीति दिक् । ननु यदि सति शिष्टः स्वरो बलीयस्तर्हि सति शिष्टलाद्विकरणस्वरोऽपि बलीयः स्यात् । तथा च गृणीत इत्यादि मध्योदात्तं पदं स्यादत आह—अन्यत्रेति । सति शिष्टोऽपि विकरणस्वरः प्रत्ययस्वरं न वाधत इत्यर्थः । अत्र च ज्ञापकं तासेः परस्य लसार्वधातुकस्यानुदात्तविधानम् । तथाहि यथापि लावस्थायां तासिर्विधीयते तथापि लकारमात्रापेक्षलादन्तरङ्गेषु परेषु च लादेशेषु कृतेषु पश्चात्तासिरिति तत्स्वरस्य सति शिष्टलात् शेषनिधातेनैव सिद्धेरनर्थकं तत्स्यात् ॥—गृणीत इति । अन्तोदात्तं पदम् । अत्र ‘तास्यनुदात्त—’ इति लसार्वधातुकनिधातो न, अदुपदेशेति तपरकरणात् श्राप्रत्ययस्यादन्तलाभावात् । ‘तिष्ठतिङः’ इति निधातस्तु न भवति ‘यद्वृत्तान्नित्यम्’ इति निषेधात् । स हि व्यवहितेऽपि प्रवर्तते ॥—तस एवेति । तस ‘आद्युदात्तश्च’ इत्याद्युदात्तः स्वरः शिष्यत इत्यर्थः
SK 3651 · A 6.1.161V
अनुदात्तस्य च यत्रोदात्तलोपः ॥ ३६५१ ॥
anudāttasya ca yatrodāttalopaḥ
Siddhānta-kaumudī
यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ॥
Subodhinī
NSP p. 625–626
—अनुदात्तस्य—। देवशब्दोऽच्प्रत्ययान्तलात् ‘चितः’ इत्यन्तोदात्तः पचादिषु देवङिति पाठात् ‘टिङ्गा—’ इति ङीप् तस्य ‘अनुदात्तौ युप्पितौ’ इत्यनुदात्तत्वे ‘यस्येति च’ इत्यकारलोपः । नन्वनुदात्तस्येति व्यर्थं न ह्याद्युदात्ते स्वरिते वा परे उदात्तलोपोऽस्ति । न च प्रसज्यत इति प्रासङ्गः कर्मणि घन् ‘कर्षालतो घनोऽन्त उदात्तः’ इत्यन्तोदात्तम् । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इत्युपसर्गस्य दीर्घः ‘तं वहति’ इति प्राग्विधात्यत् ‘तित्त्वात्स्वरितः’ तस्मिन् परे ‘यस्य—’ इति लोपः । अत्र स्वरिते परे उदात्तलोपोऽस्त्येवेति वाच्यम् । स्वरिते हि विधीयमाने परिशिष्टम् ‘अनुदात्तं पदमेकवर्जम्’ इत्यनुदात्तं तत्कृत उदात्तलोप इति चेत्सत्यम् । मा हि धुक्षातामित्यत्र दुहेर्लङ्कात्मनेपदमातां ‘शल इगुपधा—’ इति च्लेः क्सः आतामित्यस्य ‘तास्यनुदात्तेन्द्रियदुपदेशात्’ इति लसार्वधातुकमनुदात्तलम् । क्सः प्रत्ययस्वरेणोदात्तः ‘क्यस्याचि’ इत्यकारलोपः । अत्र ‘कर्षालतो घनोऽन्त उदात्तः’ इत्यत अन्त इत्यधिकारादन्त्यस्योदात्तत्वं स्यात् सति लस्मिन्नादेर्भवति । ननु यत्रोदात्तलोप इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः । न हि तदुदात्तलोपस्य निमित्तमिति चेत्तर्हि आदेरपि न प्राप्नोति । तस्याप्युदात्तलोपं प्रत्यनिमित्तत्वात् । ‘क्सस्याचि’ इत्यजादौ प्रत्यये विधानात् । तस्माद्यत्र प्रत्यय उदात्तलोपस्तस्वनिधनोऽनुदात्तस्योदात्तो भवतीति सूत्रार्थेनान्ताधिकारादन्त्यस्य प्रसङ्गः । यदि तु निमित्तत्वानादरेण यत्रानुदात्ते परत उदात्तलोपस्तस्योदात्तो भवतीति सूत्रार्थस्तदानुदात्तस्येति न वक्तव्यम् । अन्त्यस्य प्रसङ्गाभावात् । न च मा हि धुक्षातामित्यत्र ‘तिङ्कतिङः’ इति निधातः स्यादिति वाच्यम् । ‘हि च’ इति निषेधात्
SK 3652 · A 6.1.222V
चौ ॥ ३६५२ ॥
cau
Siddhānta-kaumudī
लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ।
vārttika
अतद्धित इति वाच्यम्
(वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥
Subodhinī
alignment inferredNSP p. 626
—उदात्तनिवृत्तीति । कृदुत्तरपदप्रकृतिस्वरेणोदात्तस्याश्चत्यकारस्य ‘अच’ इति लोपे सति ‘अनुदात्तस्य च—’ इति सूत्रेणोदात्तः प्राप्तस्तस्यायमपवाद इत्यर्थः ॥—देवद्रीचीमिति । देव अच् इति स्थिते ‘विष्वग्देवयोः—’ इति देवशब्दस्याद्रि आदेशः । ‘उगितश्च’ इति ङीप् ‘अचः’ इत्यश्चतेरकारलोपः । ‘चौ’ इति दीर्घत्वम् । द्रीतीकार उदात्तः । ततः परस्य ‘उदात्तादनुदात्तस्य स्वरित’ इति स्वरितत्वम् ॥—अतद्धित इति । चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः । अन्यथा देवद्रीचीमित्यादौ यथोदात्तनिवृत्तिस्वरं वाधते तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सति शिष्टस्वरो वाधेत । तस्मादतद्धित इति वक्तव्यम् । अस्मिन्न सति उदात्तनिवृत्तिस्वरस्यायमपवाद इति फलितम् ॥—दाधीच इति । दधि अच् अण् इति स्थितेऽण्स्वर उदात्तत्वे कृते ‘अचः’ इत्यकारलोपः । ततः सति शिष्टत्वात् ‘चौ’ इति स्वरः प्राप्तो निषिध्यते । तथा चाण्प्रत्ययस्वरेणैव व्यवस्था । तदाह—प्रत्ययस्वर एवात्रेति ॥—अग्न इत्यादि । ‘सामन्त्रितम्’ इत्यनेनामन्त्रितत्वम्
SK 3653 · A 6.1.198V
आमन्त्रितस्य च ॥ ३६५३ ॥
āmantritasya ca
Siddhānta-kaumudī
आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ॥
SK 3654 · A 8.1.19V
आमन्त्रितस्य च ॥ ३६५४ ॥
āmantritasya ca
Siddhānta-kaumudī
पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् SK 412 । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् SK 413 समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ॥
Subodhinī
alignment inferredNSP p. 626
—प्रागुक्तपाष्टस्येति । आमन्त्रितस्य चेत्यस्य ॥—इमं म इति । मेशब्दात्परत्वमाश्रित्य गङ्गेप्रभृतीनां त्रयाणामनुदात्तः । स च पदपाठे स्पष्ट एव । संहितायां तु ‘स्वरितात्संहितायामनुदात्तानाम्’ इति वक्ष्यमाणा प्रचयापरपर्याया एकश्रुतिः प्रवर्तते ॥—शुतुद्रीति । षाष्टेन ‘आमन्त्रितस्य च’ इत्यनेनाद्युदात्तः ॥—आमन्त्रितं पूर्वम् ॥—अग्न इन्द्रेति । सर्वाणि षाष्टेनाद्युदात्तानि ॥—निधातो नेति । आष्टमिकेनेति भावः ॥—नामन्त्रिते—अत्रोत्तरसूत्रस्थं सामान्यवचनमत्र संवन्धनीयमिति भाष्यं तद्याचष्टे—विशेष्यमिति । विशेष्यसमर्पकमित्यर्थः । क्वचित् ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ इति पाठः । स वृत्त्यनुरोधेनेति ज्ञेयम् ॥—अग्ने तेजस्विन्नित्यादि । अग्ने इत्यस्य विद्यमानत्वात्तेजस्विन्नित्यस्य त्रातरित्यस्य चाष्टमिकनिधातः ॥—अग्न्ये देवि सरस्वतीति । तैत्तिरीयके ब्राह्मणे सहस्रमतीं प्रकृत्य ‘इडेरन्ते दिते सरस्वति प्रिये प्रेयसि महि विश्रुति एतानि ते अग्निये नामानि’ । वृत्तौ तु इडे काल्ये विहव्ये इति पाठः । स तु शास्त्रान्तरे द्रष्टव्यः । समानाधिकरणग्रहणं पाणिनिमतेऽग्न इन्द्र वरुण इत्यादौ व्यधिकरणनिवृत्त्यर्थम् । भाष्यकृन्मते विस्पष्टार्थं सामान्यवचनापेक्षत्वात्तत्र सामानाधिकरणस्यावश्यं स्थितत्वात्
SK 3655 · A 8.1.74V
सामान्यवचनं विभाषितं विशेषवचने ॥ ३६५५ ॥
sāmānyavacanaṃ vibhāṣitaṃ viśeṣavacane
Siddhānta-kaumudī
अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ॥
Subodhinī
NSP p. 626
—सामान्य—वहुवचनमिति पूर्वनिषेधस्यास्य विकल्पस्य च विषयविभागार्थम् ॥—देवीः षडिति । अत्र देवीरित्यामन्त्रितं नाविद्यमानवत् । तेन षडित्यस्य निधातः ॥—शरण्या इति । शरणं रक्षितृत्वं तत्र साधवः शरण्याः । इति यत् ॥—द्वितीयस्येति । षष्टशब्दस्य शरण्यशब्दस्य चेत्यर्थः
Bālamanoramā
सामान्यवचनं विभाषितं विशेषवचने (बहुवचनम्) - सु=शोभनौ पादौ यस्येति बहुव्रीहौसंख्यासुपूर्वस्ये॑ति पादशब्दान्त्यलोपे सुपाच्छब्दः । तस्य सुटि रूपाण्याह — सुपादित्यादिना ।
SK 3656 · A 2.1.2स्वरविधाने पराङ्गतादात्म्यातिदेशः
सुबामन्त्रिते पराङ्गवत् स्वरे ॥ ३६५६ ॥
subāmantrite parāṅgavat svare
Siddhānta-kaumudī
सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ।
vārttika
षष्ठ्यामन्त्रितकारकवचनम्
(वार्तिकम्) ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् ।
vārttika
पूर्वाङ्गवच्चेति वक्तव्यम्
(वार्तिकम्) ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) ।
vārttika
अव्ययानां न
(वार्तिकम्) ॥ उच्चारधीयान ।
vārttika
अव्ययीभावस्य त्विष्यते
(वार्तिकम्) ॥ उपाभ्यधीयान ॥
Subodhinī
alignment inferredNSP p. 626–627
—सुवामन्त्रिते—॥—परस्याङ्गवदिति । तस्यैव परस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति । तद्ग्रहणेन गृह्यत इत्यर्थः ॥—षष्ट्यामन्त्रित—। अत्र षष्टीशब्देन षष्ट्यर्था विभक्तिरुच्यते । तेन गोपु स्वामिन्नित्यत्रापि पराङ्गवद्भावः सिध्यति ॥—परशुना वृश्चन्निति । आङ्परयोः ‘स्वन्निशुभ्यां डिब्ब’ इति कुप्रत्ययान्तोऽन्तोदात्तः ॥—षष्ट्यन्तमामन्त्रितान्तं मृति यत्कारकमिति ॥— कारकापेक्षा तथापि आमन्त्रिततया धातुवाच्या या क्रिया तस्यास्तदपेक्षास्तीति तत्कारकमित्यर्थः ॥—पितर्मरुतामिति । अत्र मरुतामिति परं पदं पूर्वस्य पितरित्यस्याङ्गवद्भवति । पितरित्यामन्त्रितनिधातेनानुदात्तं ततः परं मरुतामित्येतदप्यनुदात्तमेव भवतीत्यर्थः ॥—अव्ययानां नेति । तेनोच्चैरधीयानेत्यत्र ‘आमन्त्रितस्य च’ इत्याद्युदात्तत्वं न । न च निषेधवैयर्थ्यम् । ‘निपाता आद्युदात्ताः’ इत्याद्युदात्तत्वस्यानिवारणादिति वाच्यम् । स्वरादिष्वन्तोदात्तयोरुच्चैर्नांचैःशब्दयोः पाठात् ॥—अव्ययीभावस्य त्विति । ‘अव्ययीभावश्च’ इति अव्ययीभावस्याव्ययसंज्ञा सूत्रे लङ्घुखस्वरोपचारा इति गणनादन्यत्राव्ययसंज्ञाभावेनाव्ययानां नेति निषेधो न प्रवर्तते इति भावः ॥—उपाश्यधीयानेति । पराङ्गवद्भावेनामन्त्रितस्येत्याद्युदात्तत्वम् ॥—अभ्यभीति । अभिशब्द ‘उपसर्गाश्वाभिवर्जम्’ इत्याद्युदात्तनिषेधात् फिद्खरेणान्तोदात्तः । तस्य ‘नित्यवीप्सयोः’ इति द्वित्वं ‘तस्य परमाम्रेडितम्’ ‘अनुदात्तं च’ इति परस्यानुदात्तत्वं तस्मिन्नेव परे इकारस्योदात्तस्य यणि कृते उदात्तयणः परत्वाद्यकारात्स्वरितः । खल्लपूशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । तस्य ‘ओः युपि’ इति यण् । स उदात्तयण् । ततः परो डिप्रत्ययः युस्वादनुदात्तः । तस्यानेन स्वरितः । ‘उदात्तयणो हल्पूर्वात्’ इत्युदात्तत्वं तु न । ‘नोड्धात्वोः’ इति निषेधात् । तस्य च स्वरितेकारस्य यणि ततः परस्याशाशब्दाकारस्यानेनैव स्वरितः । आशाशब्दो हि ‘आशाया अदिगाख्या चेत्’ इत्यन्तोदात्तत्वादनुदात्तादिः ॥—अस्येति । आशाशब्दप्रथमाकारस्थानिकस्ये- लयः ॥—शेषेति । आशाशब्दस्य निधातो नेलयः । ननु यणादेशं प्रति स्वरितस्यासिद्धलात्स्थानिन्येव यण् प्रवृत्तः यथा औजढदिलत्र हतशब्दे द्वित्वं प्रवर्तते न तु ढशब्दे । न च स्वरितयणः परस्येलाश्रयणात्सिद्धत्वं शङ्क्यम् । तथा सति ‘उदात्तादनुदात्तस्य स्वरितः’ इत्यनेन यत्र स्वरितः क्रियते तत्रापि ह्यसिद्धत्वं न स्यात् । न चेष्टापत्तिः, लक्ष्यविरोधात् । ‘प्रलमिरुषसामप्रमख्यत्’ इत्यादौ स्वरितादर्शनात् । न च नोदात्तस्वरितोदयमिति निषेधः शङ्क्यः । ‘अनन्तरस्य’ इति न्यायेन ‘उदात्तादनुदात्तस्य’ इति यत्र प्राप्तिस्तन्मात्रस्य निषेधात् । अन्यथा खलब्याशान्या अग्निर्ग्राह्या अस्मानित्यादावपि निषेधापत्तिरिति चेत् । अत्राहुर्भाष्यकाराः । ‘योगविभागः करिष्यते उदात्तयणः परस्यानुदात्तस्य स्वरितो भवति । ततः स्वरितयणः, उदात्तयण इत्यनुवर्तते, उदात्तयण इत्येवं योऽभिनिर्वृत्तः स्वरितस्तद्यणः परस्यानुदात्तस्य स्वरितः स्यादित्यर्थः । एवं चास्यैवाश्रयात्सिद्धत्वं नान्यस्य ॥—एकादेश इति । उदात्तयोरेव स्थानित्वे आन्तरतम्यादेव सिद्धम् । अन्यतरस्यानुदात्तत्वे स्वरितत्वे वा आन्तरतम्यात् स्वरिते प्राप्ते विधिरयमिति ध्वनयनुदाहरणद्वयमाह—कवोऽभ्या इत्यादि । ‘बहुवचनस्य वस्त्रसौ’ इत्यत्र ‘अनुदात्तं सर्वमपादादौ’ इत्यधिकाराद्वस् अनुदात्तः । अशेः क्रनिति व्युत्पादनादश्वशब्द आद्युदात्तः । वसोरुलम् । उलम् । ‘एङः पदान्तादति’ इति पूर्वरूपम् ॥—क्रेति । ‘किमोत्’ ‘क्राति’ इति किमः क्रादेशः ‘तित्स्वरितम्’ । अवरशब्दः ‘स्वाङ्गशिटामदन्तानाम्’ इत्युदात्तः । तयोर्दीर्घं उदात्तः
SK 3657 · A 8.2.4V
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ ३६५७ ॥
udāttasvaritayoryaṇaḥ svarito'nudāttasya
Siddhānta-kaumudī
उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥
SK 3658 · A 8.2.5V
एकादेश उदात्तेनोदात्तः ॥ ३६५८ ॥
ekādeśa udāttenodāttaḥ
Siddhānta-kaumudī
उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ॥
SK 3659 · A 8.2.6V
स्वरितो वाऽनुदात्ते पदादौ ॥ ३६५९ ॥
svarito vā'nudātte padādau
Siddhānta-kaumudī
अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्हृदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-SK 86 इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ॥
Subodhinī
NSP p. 627–628
—स्वरितो—वीजमित्यादि । विशब्दो निपातलादाद्युदात्तः । इदंशब्दः फिट्स्वरेणान्तोदात्तः । तयोरेकादेशः स्वरितः । दिविशब्दे ‘ऊडिदंपदात्’ इति विभक्तिरुदात्ता । इयते ‘इङ् गतौ’ दिवादिः । ‘तिङ्कतिङः’ इति निहतम् । अत्रेकादेश उदात्तः ॥—इकारयोः स्वरित इति । हस्त्वेकारयोरेवेत्यर्थः ॥—दीर्घप्रवेशे त्विति । दिवीयत इत्यत्र ॥—उदात्त इति । एकादेश उदात्त इत्यनेन । इयं च बह्वानां व्यवस्थोक्ता अन्येषामपि तदीयप्रातिशाख्यानुसारेण ह्येया ॥—पूर्वरूपे इति । तेऽवदन्नित्यादौ ते इति तच्छब्दः फिट्स्वरेणान्तोदात्तः । जसः सुस्वात् ‘अनुदात्तौ सुप्पितौ’ इत्यनुदात्तः । तयोरेकादेश उदात्तः ॥—अवदन्निति । वदेर्लङ्कि प्रथमपुरुषबहुवचनम् । तेइत्यतिङन्तात्परस्य तस्य ‘तिङ्कतिङः’ इति निधातः ॥—सोऽयमिति । स इति तच्छब्दस्य प्रथमैकवचनम् । तच्छब्दः फिट्स्वरेणान्तोदात्तः । सुइति सुस्वादनुदात्तः’ तस्य रुत्वे उत्वे गुणे च कृते एकादेशेनौकार उदात्तः । अयमितीदमः प्रथमैकवचनं फिट्स्वरेणान्तोदात्तम् । तयोः ‘एङः पदान्ता’ इति पूर्वरूपे ओकारः स्वरितः ॥—इकारयोश्च प्रश्लेष इति । हस्तयोरिकारयोः सवर्णदीर्घे हस्ययोर्यत्र सवर्णदीर्घः स प्रश्नेषु इत्युच्यते । उदात्तस्वरितस्थाने यो यण् स क्षेत्रः सन्धिः । यत्र 'एकः पदान्तात्' इति स अभिनिहतसन्धिरुच्यते । तेषु स्वरतः स्वीक्रियत इत्यर्थः । 'वीदं ज्योतिः' 'अभ्यभि हि' 'तेऽवदन्' इति क्रमेणोदाहरणानि
Footnotes (NSP 1915 ed.)
NSP p. 628 जपेति पर्युदासाल्लभ्यते तेनोहादिषु न । अत एव खाहेन्द्रशत्रुर्वर्धस्वेति समासान्तोदात्तत्वे कर्तव्ये आद्युदात्तं प्रयुक्तमिति प्रसिद्धिः ॥—जपादीनिति । जपन्यूङ्कसामानीत्यर्थः ॥—अग्निर्मूर्धेति । ‘अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वतोम् ३’ ‘अङ्गेर्निर्नलोपश्च’ इति अग्निशब्दः प्रत्ययस्वरेण फिद्रस्वरेण वान्तोदात्तः । ‘मुर्वां बन्धने’ ‘कनिन् युद्यषितक्षिराजिधन्वि’—इत्यतः कनिनि वर्तमाने ‘क्षुधुक्षन्पूषन्’—इत्यत्र मूर्धन्शब्दः कनिन्प्रत्ययान्तोऽन्तोदात्तो निपातितः । दिवशब्दात्परस्य षष्ठयेकवचनस्य ‘ऊडिदम्पदात्’—इत्युदात्तलम् । ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदात्तः । पातेर्बतिः । पतिशब्दः प्रत्ययस्वरेणाद्युदात्तः । ‘प्रयेः पिवन् संप्रसारणं च’ षित्वान्डीष् । षष्ठयेकवचनस्य ‘उदात्तयणो ह्रस्वपूर्वात्’ इत्युदात्तलम् । इदम्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः । आप्नोतेः क्विप् ह्रस्वश्च । ‘ऊडिदम्’—इति विभक्तेरुदात्तं लम् । रीङ्मजिभ्यां तुङ्गेत्यसुन्प्रत्ययः नित्स्वरेणाद्युदात्तो रेतःशब्दः ॥—जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि ‘तिष्ठतिङः’ इति निधातः । ‘प्रणादृष्टेः’ इति मयोगक्रवके प्रणावाः ॥—मभस्यादि । युध्मदस्मदीक्षसि इत्याद्युदात्तलम् ।
SK 3660 · A 8.4.66V
उदात्तादनुदात्तस्य स्वरितः ॥ ३६६० ॥
udāttādanudāttasya svaritaḥ
Siddhānta-kaumudī
उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ॥
Subodhinī
NSP p. 628
—उदात्तादनुदात्तस्य । यत्र 'तयोर्व्यावचि' इत्यतः संहितायामित्यनुवर्तते तेन पदकाले अनुदात्तमेव ॥—अग्निमीळे इति । अग्निशब्दः फिद्रस्वरेण प्रत्ययस्वरेण वान्तोदात्तः अम् सुस्वादनुदात्तः । 'अमि पूर्वः' इति एकादेश उदात्तः । इंळे इति तु 'ईड स्तुतौ' लटि उत्तमपुरुषैकवचनम् । 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स वक्रात् ळकारः' इति वक्ष्यमाणेन प्रातिशाख्येन डस्य ळः । 'तिङ्कतिङः' इति निहतम् । ईकारस्य स्वरितः । न च मकारेण व्यवधानम् । स्वरविधौ व्यजनमविद्यमानवत्' इति परिभाषणात् । एवं सर्वत्र ज्ञेयम् । ननु 'तित्स्वरितम्' इत्यस्यानन्तरमिदं वक्तव्यम् । एवं च स्वरितप्रहणं न कर्तव्यं भवतीत्याशङ्क्याह—अस्येति । यदि तत्र क्रियेत 'अनुदात्तं पदमेकवर्जम्' इत्येतत्प्रवर्तेत, इह प्रकरणे न प्रवर्तते स्वरितस्यासिद्धत्वात् । तेन द्वयोरप्युदात्तस्वरितयोः श्रवणं सिद्धम् ॥—तमीशानास इति । तमिति तच्छब्दस्य द्वितीयैकवचनमन्तोदात्तम् । ईशानशब्दाज्जसि 'आज्जसेरसुक्' इत्यसुगागमे कृते रूपम् । 'ईश ऐश्वर्येऽस्माच्छानच् । चित्त्वादन्तोदात्तः । जसः सुस्वादनुदात्तत्वम् । ईकारस्य सकाराकारस्य च स्वरितत्वम्
SK 3661 · A 8.4.67V
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् ॥ ३६६१ ॥
nodāttasvaritodayamagārgyakāśyapagālavānām
Siddhānta-kaumudī
उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ॥
Subodhinī
NSP p. 628
—नोदात्त—। उदात्तस्वरितौ उदयौ यस्मादिति बहुव्रीहिः । उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः । लाघवार्थं परशब्दे प्रयोक्तव्ये मङ्गलार्थमुदयशब्दः प्रयुक्तः । तथा चोक्तं भाष्ये 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च' । इहादौ वृद्धिशब्दो, मध्ये शिवशब्दः 'शिवशमरिष्टस्य करे' इति, अन्ते चायमुदयशब्द इति पाणिनीये मङ्गलं कृतम् ॥—प्र य आरुरिति । ये इति यच्छब्दस्य प्रथमावहुवचनं फिद्रस्वरेणान्तोदात्तम् ॥ आरुरिति । अतोलिटि प्रथमपुरुषबहुवचनं ज्ञिः । तस्य 'परस्मैपदानाम्'—इत्युप् प्रत्ययस्वरेणोदात्तः । न च 'तिङ्कतिङः' इति निघातः शङ्कः । 'यद्वृत्तान्नित्यम्' इति निषेधात् । आकारस्य 'उदात्तस्वरितपरस्य' इति वक्ष्यमाणेन सन्नतरादेशः ॥—बोश्वाः केति । अत्रापि श्वेत्याकारस्य सन्नतरः ॥—केति । 'किमोत्' 'तित्स्वरितम्'
SK 3662 · A 1.2.33V
एकश्रुति दूरात् सम्बुद्धौ ॥ ३६६२ ॥
ekaśruti dūrāt sambuddhau
Siddhānta-kaumudī
दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ॥
Subodhinī
NSP p. 628–629
—एकश्रुति—। संबोधनं संबुद्धिरित्यनेनान्वर्थस्य संबुद्धिशब्दस्य प्रहणं, न 'एकवचनं संबुद्धिः' इति पारिभाषिकस्य । सति तु तस्य प्रहणे आगच्छत देवन्नाह्वाणा इत्यत्र न स्यात्तदाह—दूरात्संबोधने इति । अन्वर्थप्रहणं च दूरादित्यनेन संबन्धाल्लभ्यते । न ह्यामन्त्रितविभक्तेः दूरत्वमदूरत्वं च संभवति । संबोधनस्य तु क्रियारूपत्वादपादानत्वाद्दूरादिति विशेषणसंभवः' दूरत्वं न देशस्वरूपमाश्रीयते अनवस्थितत्वात् किं तर्हि संबोधनक्रियापेक्षया दूरत्वं यावति देशे प्रकृतिप्रयत्नोच्चारितं संबोध्यमानेन न श्रूयते किं लघिकं प्रयत्नमपेक्षते तत्संबुद्धौ दूरं भवति ॥—एकश्रुतिरिति । उदात्तादीनां स्वराणामविभागेनावस्थानमेकश्रुतिः ॥—आगच्छेत्यादि । 'दूराद्धृते च' इति 'वाक्यस्य टेः मुत उदात्तः' प्रत्युदाहरणे त्रैस्वर्यमेव भवति । तत्राङ्कुपसर्गश्चाभिवर्जमित्याद्युदात्तः । गच्छेति तिङन्तस्य निघातः । भोशब्दो 'निपाता आद्युदात्ताः' इत्याद्युदात्तः । शेषस्यामन्त्रितनिघातः ॥—यज्ञ—। त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते तेषां यज्ञक्रियायामपि नृश्चैव पुण्येने पुण्ये पुण्यान्तर्भिर्भिर्भवे । अग्नेः शब्दस्यामन्त्रितनिघातः । वर्चःशब्दोऽसुन्प्रत्ययान्तः । विपूर्वात् ह्वयतेः ‘ह्वः संप्रसारणं च’ इत्यप्रत्ययः । थाथादिसूत्रेणान्तोदात्तलम् ॥—उच्चैस्तराम् । वषदशब्देनात्र वौषदशब्दो लक्ष्यते समानार्थलात् । द्वावपि हि तौ देवतासंप्रदानकस्य दानस्य द्योतकौ । नन्वेवं प्रतिपत्तिलाघवार्थं वौषदशब्द एव कुतो नोक्त इति चेत् विचित्रा हि सूत्रस्य कृतिः पाणिनेः क्वचिदक्षरलाघवमाश्रीयते क्वचित्प्रतिपत्तिलाघवमिति । ननु वषट्कार इत्यत्र कारप्रत्ययो न स्यात् वर्णनिदंशे हि स विहित इति चेत्सत्यम् । एतदेव ज्ञापयति समुदायादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धम् । उच्चैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनक्रियायां वर्तते तेन क्रियाप्रकर्षादाम्प्रत्यय उदात्ततरो भवतीति फलितोऽर्थः । ‘ब्रूहि प्रेष्य’ इति सूत्रेण वौषदशब्दस्यादेः कुत उदात्तो विहितः तदपेक्षयायमुदात्ततरोऽन्त्यस्य विधीयते । अन्ये तु स्वार्थिकस्तरवित्याहुः ॥—विभाषा—वाग्रहणेऽनुवर्तमाने विभाषाग्रहणं अच्छन्दसीति पदच्छेदेन तन्त्रादिना भाषायामपि विधानार्थम् । अत एव ‘श्वेतो धावति’ अलंबुसानां पातेति व्यर्थं वाक्यमिति पस्पशान्ते भाष्यम् । तत्र श्वेतेति प्रातिपदिकस्वरेणान्तोदात्तम् । इत इति इदंशब्दात्तसिल् । ‘ऊडिदम्’—इत्यनेन श्वेत इति ‘वर्णानां तण—’ इत्याद्युदात्ते प्राप्ते घृतादित्वादन्तोदात्तम् । अलंशब्दो निपातत्वादाद्युदात्तः । सुसशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । अलंबुसशब्दः फिट्स्वरेणान्तोदात्तः । तत्र भाषायां यद्येकश्रुतिर्न स्यात्तर्हि स्वरमेदे कथमेकवाक्यं व्यर्थं स्यात् ॥—न सु—सुब्रह्मण्याख्ये निगदे इति । अपादवन्धे गदिर्वर्तते । यथा गद्यमिति निःशब्दः प्रकर्षे । उच्चैरपादवन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ्यते स निगदः । नितरां गद्यत इति कर्मणि ‘नौ गदनद—’ इत्यप् । तस्य च सुब्रह्मण्यशब्दोपलक्षकलात् सुब्रह्मण्याशब्दोऽपरित्यक्तल्लीलिङ्ग एव निगदविशेषस्य नाम ॥—सुब्रह्मण्योमिति । ‘तत्र साधुः’ इति यत् । ‘तित्स्वरितं’ ‘यतोऽनावः’ इति तु न, तत्र ब्यच इत्यनुवृत्तेः टापा सहैकादेशः । ‘स्थानेऽन्तरतमः’ इति स्वरितः । ततो निपातत्वादाद्युदात्तेन ओम्शब्देन ‘ओमाडोश्च’ इत्युदात्तस्वरितयोरेकादेशः स्वरित एवेति हरदत्तादयः ॥ असाविति प्रथमान्तस्योपलक्षणं तदाह— प्रथमान्तस्येति ॥—गार्ग्य इति । ‘गर्गादिभ्यो यन्’ ॥—अमुष्येति । षष्ठ्यन्तस्योपलक्षणम् ॥—दाक्षेरिति । दक्षशब्दादपत्येऽत इश् । अत्रापि वित्स्वरः प्राप्तः ॥—स्यान्तस्येति । स्येति रूपं विवक्षितं पूर्ववार्तिकारम्भात् । स्यशब्दान्तस्योपोत्तममन्त्यश्वोभयमुदात्तं भवति
SK 3663 · A 1.2.34V
यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ ३६६३ ॥
yajñakarmaṇyajapanyūṅkhasāmasu
Siddhānta-kaumudī
यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥
SK 3664 · A 1.2.35V
उच्चैस्तरां वा वषट्कारः ॥ ३६६४ ॥
uccaistarāṃ vā vaṣaṭkāraḥ
Siddhānta-kaumudī
यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ॥
SK 3665 · A 1.2.36V
विभाषा छन्दसि ॥ ३६६५ ॥
vibhāṣā chandasi
Siddhānta-kaumudī
छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ॥
SK 3666 · A 1.2.37V
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ ३६६६ ॥
na subrahmaṇyāyāṃ svaritasya tūdāttaḥ
Siddhānta-kaumudī
सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि SK 3663 इति विभाषा छन्दसि SK 3635 इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः SK 3658 इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ॥
vārttika
असावित्यन्तः
(वार्तिकम्) ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ।
vārttika
अमुष्येत्यन्तः
(वार्तिकम्) ।
vārttika
स्यान्तस्योपोत्तमं च
(वार्तिकम्) ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ।
vārttika
वा नामधेयस्य
(वार्तिकम्) ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥
SK 3667 · A 1.2.38V
देवब्रह्मणोरनुदात्तः ॥ ३६६७ ॥
devabrahmaṇoranudāttaḥ
Siddhānta-kaumudī
अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ॥
Subodhinī
NSP p. 629
—देवब्रह्मणो—। सुब्रह्मण्यायामेव देवा ब्रह्मण इति पठ्यते तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते ॥—देवा ब्रह्मण इति । देवब्रह्मणोर्वैयधिकरण्ये द्वयोरप्याद्युदात्तलम् । ततः परस्यानुदात्तस्य स्वरितः । तस्यानेनानुदात्तः । आमन्त्रितनिघातस्तूतरस्य न । पूर्वामन्त्रिताविद्यमानत्वेन पदात्परत्वाभावात् । यदा तु सामानाधिकरण्यं तदा ‘विभाषितं विशेषवचने’ इति पूर्वस्य पक्षे विद्यमानत्वात् पदात्परत्वाद् ब्रह्मण इत्यस्य निघातोऽपि भवति । अस्मिन् पक्षे देवशब्दे वशब्दस्यैवानेनानुदात्तत्वं विधेयम् । ब्रह्मग्रहणं तु न कर्तुंव्यम्
SK 3668 · A 1.2.39V
स्वरितात् संहितायामनुदात्तानाम् ॥ ३६६८ ॥
svaritāt saṃhitāyāmanudāttānām
Siddhānta-kaumudī
स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ॥
Subodhinī
NSP p. 629–630
—स्वरित—॥—अनुदात्तानामिति । जातौ बहुवचनम् । तेनैकस्य द्वयोर्बहूनां च भवति । एकस्य पचति । द्वयोः । अग्निमीळे पुरोहितम् । वहूनां तु मूल एव दर्शितम् ॥—इमं मे इति । इदमशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । विभक्तिरनुदात्ता । त्यदाद्यत्वे ‘अमि पूर्वः’ एकादेश उदात्तः । मे इत्यनुदात्तम् । ‘अनुदात्तं सर्वमपादादौ’ इत्यधिकारात्तस्य उदात्तादनुदात्तस्य स्वरितः । तस्मात्परेषां गङ्गेप्रभृतीनामुदात्तानामेकश्रुतिः । सर्व एते आमन्त्रितनिघातानुदात्ता । ननु मे इत्यस्य स्वरितस्य उदात्तविधायकं प्रति त्रिपादीस्थलादसिद्धत्वं स्यात् । न च स्वरितादित्याश्रयात्सिद्धम् । ‘क्व वः सुम्ना—’ इत्यादौ चरितार्थलादिति चेन्मैवम् । ‘तस्यादितः—’ इत्यारभ्य नवसूत्र्याः स्वस्थानादुत्कृष्य शास्त्रान्ते भाष्यवार्तिकयो- निवेशात् । ‘न सुब्रह्मण्यायाम्’ इति सूत्रे स्वरितस्य तदात्त इति वदता एव काण्डोत्कर्षस्य ज्ञापित्वाच्च । न च सुब्रह्मण्योमिति सिद्धः स्वरितोऽस्तीति वाच्यम् । तत्र ‘एकादेश उदात्तेन’ इति सूत्रप्रवृत्तेरावश्यकत्वात् । तत्र ह्यनुदात्तस्य ग्रहणं नानुवर्तते
SK 3669 · A 1.2.40V
उदात्तस्वरितपरस्य सन्नतरः ॥ ३६६९ ॥
udāttasvaritaparasya sannataraḥ
Siddhānta-kaumudī
उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् SK 83 ॥
Subodhinī
NSP p. 630
—उदात्त—। सन्नशब्देन नीचैरर्थं उच्यते । तेन त्वनुदात्तत्वं लक्ष्यत इत्याह—अनुदात्ततर इति । प्रकर्षस्तन्यानुदात्तापेक्षः ॥—सरस्वतीत्यादि । अत्र मेशब्दमाश्रित्य सरस्वतीत्यस्यामन्त्रितनिघातः । शुतुद्रिशब्दस्य तु न, पादादित्वात् । ‘आमन्त्रितस्य’ इति षाष्टेन शुतुद्रीत्यस्योदात्तं प्रथममक्षरं तस्मिन्परे पूर्वस्य सरस्वतीकारस्य सन्नतरः ॥ व्यचक्षयत्स्व इति । वीति उपसर्गत्वादाद्युदात्तः । ततः परस्याचक्षयदिति तिङन्तस्य ‘तिङ्कतिङः’ इति निघातः ॥—स्वरिति । न्यङ्खरौ स्वरिताविति स्वरितः । तस्मिन् परे यकारस्य सन्नतरः
SK 3670 · A 8.1.3V
अनुदात्तं च ॥ ३६७० ॥
anudāttaṃ ca
Siddhānta-kaumudī
द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ॥
Subodhinī
alignment inferredNSP p. 630
—साधारणस्वरा इति । एकस्मिन् पदे पदद्वयेऽपि च वर्तमानत्वात्साधारण्यम् । ‘आयुदात्तश्च’ ‘ञ्नित्यादिनित्यम्’ इत्यादयस्तु एकस्मिन्नेव पदे वर्तमानत्वान्न साधारणाः ॥ प्रकृतिर्द्विधा । धातुः प्रातिपदिकं च । तत्र धातुस्वरानाह—धातोरिति । ‘कर्षात्त्वतः’ इत्यत अन्तउदात्त इत्यनुवर्तते तदाह—अन्त उदात्त इति ॥—गोपायेति । यकाराकारस्योदात्तत्वे तमित्यस्य ‘तात्पन्नुदात्तेन’ इत्यनुदात्तत्वे ‘उदात्तादनुदात्तस्य’ इति स्वरितः । ‘वहुवचनस्य वस्रसौ’ इति नसादेशस्य, ‘स्वरितात्संहितायाम्’ इति प्रचयापरपर्याया एकश्रुतिः ॥—असीति । अस्तेः सिप् ‘तासस्त्योः’ इति सलोपः । अकारस्योदात्तत्वम् । ततः परस्य स्वरितः । सत्यशब्दे सकारस्य ‘उदात्तस्वरितपरस्य’ इत्यनुदात्ततरादेशः
SK 3671 · A 6.1.162V
धातोः ॥ ३६७१ ॥
dhātoḥ
Siddhānta-kaumudī
अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ॥
SK 3672 · A 6.1.188V
स्वपादिहिंसामच्यनिटि ॥ ३६७२ ॥
svapādihiṃsāmacyaniṭi
Siddhānta-kaumudī
स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ॥
Subodhinī
NSP p. 630
—स्वपादि—। ‘तात्पन्नुदात्तेन’ इत्यतः लसार्वधातुकमित्यनुवर्तते तदन्यनिटीति संबन्धादिदं सप्तम्यन्तं संपद्यते तदाह—अनिट्यजादावित्यादि ॥—अदाद्यन्तर्गण इति । आ गणान्तादिति भावः ॥—हिंसन्तीति । हिंसि हिंसायां रुधादिः । ‘श्रान्नलोपः’ । ‘श्रसोरलोपः’ ॥—क्षित्येवेष्यत इति । वृत्त्यनुरोधादेतदुक्तम् । भाष्ये तु प्रायेणेदं न दृश्यते । एवं च हिनसानीत्यत्राद्युदात्तत्वमपि पक्षे भवति । यदि तु आयुदात्तत्वं पक्षे नेष्यते तर्हि व्यवस्थितविभाषाश्रयणान्न । केचित्तु स्वपानीत्यत्रैतदभावे धातुस्वरेणायुदात्तत्वमेवेति विशेषाभावादयं विधिर्न प्रवर्तते तत्साहचर्याद्धिनसानीत्यत्राप्ययं न प्रवर्तते इति वृत्तिकारावश्यं कल्पयन्ति ॥—हिनसानीति । अत्र श्रमः ‘तन्मध्यपतितस्तद्वहणेन गृह्यते’ इति न्यायाद् धातुग्रहणे नकाराकारं उदात्तः । ततः परस्य स्वरितत्वम् । अनिटि किम् । स्वपितः । ‘रुधादिभ्यः सार्वधातुके’ इतीद्
SK 3673 · A 6.1.189V
अभ्यस्तानामादिः ॥ ३६७३ ॥
abhyastānāmādiḥ
Siddhānta-kaumudī
अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ॥
Subodhinī
NSP p. 630
—अभ्यस्तानाम्—। ‘आदिः सिचोऽन्यतरस्याम्’ इत्यतः आदिरिति वर्तमाने पुनरादिग्रहणं नित्यार्थम् । अन्यथाऽऽदिग्रहणसंबद्धमन्यतरस्यां ग्रहणमनुवर्तेत । अचि किम् । दद्यात् । अनिटि किम् । जक्षिथ ॥—ये ददतीति । डुदाञ् दाने लटि क्षिः । तस्य ‘अदभ्यस्तात्’ इत्यदादेशः । ‘श्राभ्यस्तयोः’ इत्यालोपः ॥—चित्स्वरमिति । ‘चितः’ इत्यनेन विहितमन्तोदात्तस्वरमित्यर्थः ॥—दधानेति । लटः शानजादेशः
SK 3674 · A 6.1.190V
अनुदात्ते च ॥ ३६७४ ॥
anudātte ca
Siddhānta-kaumudī
अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ॥
Subodhinī
NSP p. 630
—अनुदात्ते च । न विद्यते उदात्तो यस्मिन्निति वहुव्रीहिस्तदाह—अविद्यमानेत्यादि । अन्यथा हि शास्त्रीयेऽनुदात्ते गृह्यमाणे मा हि स्म दद्यादित्यत्र नित्यत्वादन्तरञ्जलाद्वा इकारलोपे कृते आयुदात्तत्वं न स्यात् । वहुव्रीहौ विज्ञाते तु भवति । हिशब्दो ‘हि च’ इति निघातनिषेधार्थः
SK 3675 · A 6.1.192V
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति ॥ ३६७५ ॥
bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvam piti
Siddhānta-kaumudī
भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ॥
Subodhinī
NSP p. 630–631
—भीही—आयुदात्तस्यापवादोऽयम् । तत्र मदिर्दिवादिः । दरिद्राजाग्रावदादी । अन्ये तु जुहोत्यादयः । उदाहरणानि विभेति जिहेति विभर्ति । ‘भृजामित्’ इत्यभ्यासस्येत्यम् ॥—ममत्विति । मदेलोट् ‘वहुलं छन्दसि’ इति शपः श्रुः । जजनत् दधनं दिति । जन जनने, धन धान्ये । आभ्यां लेट् तिप् ‘इतश्च’ इतीकारलोपः ‘लेटोऽङाटौ’ इत्यट् । दरिद्राति । जागर्ति पिति किम् । दरिद्राति । अत्र परत्वादाकारलोपे कृते इकारस्योदात्तत्वं मा भूत् । ननु पूर्वग्रहणं व्यर्थं प्रत्यये पितीत्येवोक्ते ‘तस्मिन्निति निर्दिष्टे’ इति ॥—अन्यत्र पूर्वस्यान्न अविष्यति । अन्यत्र पितीत्यर्थं पूर्वमेव कार्यमाण्यथा स्यात् पिदन्ते मा भूदित्येवमर्थं तदिति वाच्यम् । कथं पुनः सप्तमीनिर्देशे तदन्तस्य प्रसङ्गः । एतदेव ज्ञापयति सौवर्यः सप्तम्यस्तदन्तसप्तम्या इति । तेन ‘उपोत्तमं रिति’ रित्प्रत्ययान्ते उपोत्तममुदात्तं भवति । चङ्यन्यतरस्यां चङ्न्तस्येत्यर्थो न तु रिति परतश्चङ्कि परत इति । नन्वेनं ‘चतुरः शसि’ इत्यत्रापि शसन्तस्य प्राप्नोति शस्प्रहणसामर्थ्यान्न भविष्यति । यदि हि ‘चतुरः शसि’ इत्यनेन शस उदात्तत्वमिष्टं स्यात्तत ‘ऊडिदंपदात्’ इत्यस्यानन्तरं चतुरश्चेत्येव ब्रूयात् । तत्रासर्वनामस्थानग्रहणावृत्त्या ‘षट्त्रिचतुर्भ्यो हलादिः’ इति हलादेरुदात्तविधानाच्च शस एव भविष्यति
SK 3676 · A 6.1.193V
लिति ॥ ३६७६ ॥
liti
Siddhānta-kaumudī
प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥
Subodhinī
NSP p. 631
—लिति । पूर्वसूत्रात्प्रत्ययात्पूर्वमिति वर्तते तदाह—प्रत्ययात्पूर्वमिति । तेन स्वरविधौ सप्तम्यस्तदन्तत्वज्ञापनात् लिदन्तस्य स्वरो न शङ्कनीयः ॥—चिकीर्षक इति । चिकीर्षेति । सन्नन्ताण्णुल् तस्याकादेशः । सनोऽतो लोपः । ककारेकार उदात्तः । नचाल्लोपस्य स्थानिवत्त्वम् । स्वरविधौ तन्निषेधात् । क्वचित्पुस्तके भौरिकिविधम् । ऐषुकारिभक्तमिति दृश्यते । तत्र ‘भौरिक्याचैषुकार्यादिभ्यो विधल्भक्तलौ’ इति ‘विषयो देशे’ इत्यस्मिन्नर्थे यथाक्रमं भौरिकिशब्दादैषुकारिशब्दाच्च विधल्भक्तलौ ज्ञेयौ
SK 3677 · A 6.1.194V
आदिर्णमुल्यन्यतरस्याम् ॥ ३६७७ ॥
ādirṇamulyanyatarasyām
Siddhānta-kaumudī
अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥
Subodhinī
alignment inferredNSP p. 631
—आदिर्णमुलि—॥—अभ्यस्तानामिति । यद्यपि लोल्लयमिति प्रतीकमुपादाय एकाश्च धातुषु लित्स्वरस्यास्य च विशेषाभावादनेकाशुदाहृत इति हरवत्त्वप्रन्थादभ्यस्तेति निवृत्तमिति प्रतीयते तथाप्यार्थिकार्थकथनपरतया नेयम् ॥—णमुलि पर इति । यद्यपि सौवर्यः सप्तम्यस्तदन्तसप्तम्या इति ‘भीही’ इति सूत्रे व्यवस्थापितत्वात् णमुलन्तस्यादिरुदात्तो भवतीति सूत्रार्थेन भाव्यं तथापि फले विशेषाभावादेवमुक्तमिति प्रतिभाति ॥—लोल्लयं लोल्लयमिति । यङन्ताण्णमुल् । ‘नित्यवीप्सयोः’ इति द्वित्वम् । अत्र प्रथमः लोल्लयशब्द आयुदात्तः । ल्ल इति स्वरितः । ततश्चत्वारः प्रचयाः ॥—अचः—। इह कीर्यत इत्यादौ इत्वे रपरत्वे च सति अयं स्वर इष्टस्तन्निर्वाहार्थं ‘तास्यनुदात्तेत्’ इति सूत्रे समासैकदेशोऽप्युपदेशशब्द इहानुवर्तते सप्तम्या च विपरिणम्यते तदाह—उपदेशेऽजन्तानामिति । नन्वेवम् ‘एकं द्वादशधा जज्ञे’ इत्यादाविवान्तर्भूतप्यन्तात्कर्मकर्तृ-विषयात् जनेर्लटि जायते स्वयमेवेत्यत्रैष स्वरो न स्यात् । ‘ये विभाषा’ इत्यात्वे सति उत्तरकालमजन्तत्वेऽपि उपदेशेऽजन्तत्वादिति चेन्मैवम् । ये इति विषयसप्तमीमाश्रित्य प्रत्ययोत्पत्तेः प्रागेवात्प्रवृत्तेरित्याहुः
SK 3678 · A 6.1.195V
अचः कर्तृयकि ॥ ३६७८ ॥
acaḥ kartṛyaki
Siddhānta-kaumudī
उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥
Subodhinī
NSP p. 631
—कर्तृयकीति । कर्तृवाचिनि सार्वधातुके विहितो यो यक् तस्मिन् परे ॥—ल्लयत इति । आदिमध्यौ पर्यायेणोदात्तौ ‘तस्यानुदात्तेत्’ इति ते इत्यस्यानुदात्तत्वम्
SK 3679 · A 6.1.218V
चङ्यन्यतरस्याम् ॥ ३६७९ ॥
caṅyanyatarasyām
Siddhānta-kaumudī
चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥
Subodhinī
NSP p. 631
—चङ्यन्यतरस्याम् । ‘उपोत्तमं रिति’ इत्यतः उपोत्तममिति वर्तते तदाह—उपोत्तममिति । त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम् ॥—मा हि चिकरतामिति । अदुपदेशात्परत्वेन लसार्वधातुकानुदात्तत्वे कृते चङ् एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तः । उपोत्तमग्रहणानुवृत्त्या द्वयोर्न । मा हि दधत् । अत्र ‘विभाषा धेट्श्योः’ इति चङ् ॥ इति धातुस्वराः ॥ कर्षात्त्वतः—। ‘अनित्यादिनित्यम्’ इत्यस्यापवादः । आदस्यास्तीति आत्वान् । ‘तसौ मत्वर्थे’ इति भलाज्ज्वलाभावः । कर्षश्चात्वांश्चेति समाहारद्वन्द्वः । कर्ष इति शबन्तस्यानुकरणं न घनन्तस्य तदाह—शपा निर्देशादिति ॥—पाक इति । पचेर्घञ् । ‘चजोः’ इति कुलम् ॥—कालविशेष इति । कृतद्वापरादौ ॥—भक्षशब्द इति । भक्ष अवने चुरादिः । ‘अनित्यप्यन्ताश्चुरादयः’ इति यदा णिच् नास्ति तदा घञ् प्यन्तात्तु ‘एरच्’ इत्यचि सिद्धम् । एरजप्यन्तानामिति तु नास्तीत्याहुः ॥—उत्तमशश्वत्तमाविति । तमवन्तावेतौ । तेन द्रव्यप्रकर्षविवक्षायामाभावः । द्वित्वानुदात्तत्वे प्राप्ते पाठः
SK 3680 · A 6.1.159V
कर्षात्वतो घञोऽन्त उदात्तः ॥ ३६८० ॥
karṣātvato ghaño'nta udāttaḥ
Siddhānta-kaumudī
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ॥
SK 3681 · A 6.1.160V
उञ्छादीनां च ॥ ३६८१ ॥
uñchādīnāṃ ca
Siddhānta-kaumudī
अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ॥
SK 3682 · A 6.1.167V
चतुरः शसि ॥ ३६८२ ॥
caturaḥ śasi
Siddhānta-kaumudī
चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-SK 299 इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ॥
Subodhinī
NSP p. 631–632
—चतुरः । ‘चतेरुरन्’ नित्वादायुदात्तत्वे प्राप्तेऽन्तोदात्तार्थमिदम् । ननु चतस्रः पश्येत्यत्र चतस्र अस् इति स्थिते परत्वात् ‘अचि र ऋतः’ इति रेफादेशे तकाराकारस्योदात्तत्वं प्राप्नोति अत आह—अचि र इति । —स्थानिवत्त्वादिति । न च स्वरविधौ स्थानिवत्त्वनिषेधः । ‘स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्’ इति नियमात्
SK 3683 · A 6.1.180V
झल्युपोत्तमम् ॥ ३६८३ ॥
jhalyupottamam
Siddhānta-kaumudī
षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः (अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑) । नवभिर्वाजैर्नवती (न॒वभि॑र्वाजै॑र्नव॒ती) । च (च॑) । सप्तम्भोजायमानः (स॒प्तम्भो॒जाय॑मानः) । आदशभिर्विवस्वतः (आद॒शभि॑र्वि॒वस्व॑तः) । उपोत्तमं किम् । आषड्भिर्हूयमानः (आष॒ड्भिर्हू॒यमानः) । विश्वैर्दवैस्त्रिभिः (विश्वैर्दे॒वैस्त्रि॒भिः॑) । झलि किम् । नवानां नवतीनाम् (न॒वा॒नां न॑वती॒नाम्) ॥
Subodhinī
NSP p. 632
—इत्युपोत्तमम् । ‘षट्त्रिचतुर्भ्यों हलादिः’ इत्यस्यापवादः ॥—पञ्चमिरित्यादि । पञ्चनवसप्तदशशब्दाः कनिनन्तः ॥—आषाङ्गिरिति । षष्शब्दः फिट्खरेणान्तोदात्तः । तनोतेर्द्विः त्रिः । अयमपि फिट्खरेण प्रत्ययखरेण वान्तोदात्तः । उभयत्रापि ‘षट्त्रिचतुर्भ्यों हलादिः’ इति विभक्तेरुदात्तत्वम् ॥—नवानामिति । अत्रापि विभक्तिरुदात्ता
SK 3684 · A 6.1.181V
विभाषा भाषायाम् ॥ ३६८४ ॥
vibhāṣā bhāṣāyām
Siddhānta-kaumudī
उक्तविषये ॥
Subodhinī
NSP p. 632
—विभाषा—॥—उक्तविषय इति । षट्त्रिचतुर्भ्यः परा या झलादिविभक्तिरुदन्तस्योपोत्तमं भाषायामुदात्तं वा स्यात् । पञ्चभिः सप्तभिः तिस्रभिः चतुर्भिः । पक्षे ‘षट्त्रिचतुर्भ्यों हलादिः’ इत्यन्तोदात्तानि
SK 3685 · A 6.1.191V
सर्वस्य सुपि ॥ ३६८५ ॥
sarvasya supi
Siddhānta-kaumudī
सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ॥
Subodhinī
NSP p. 632
—सर्वस्य—। सर्वशब्द उच्छादिष्वन्तोदात्तो निपातितः । सर्वस्य विकारः सार्व इत्यत्र ‘अनुदात्तादेरन्’ इत्यनुदात्तलक्षणोऽन् यथा स्यात् । श्रवणं तु सर्वत्रानुदात्तस्यैव प्रत्ययलक्षणेनापि सर्वखरस्येष्यमाणत्वात् ॥—ञ्जित्यादि—। ‘भीही—’ इति सूत्रे पूर्वप्रहणेन सौवर्यः सप्तम्यस्तदन्तसप्तम्या इति ज्ञापितत्वात् तदन्तासप्तमीयमित्याह—ञ्जिदन्तस्येति
SK 3686 · A 6.1.197V
ञ्नित्यादिर्नित्यम् ॥ ३६८६ ॥
ñnityādirnityam
Siddhānta-kaumudī
ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च <{उ639}> इति चकारादसुनो नुडागमश्च ॥
SK 3687 · A 6.1.199V
पथिमथोः सर्वनामस्थाने ॥ ३६८७ ॥
pathimathoḥ sarvanāmasthāne
Siddhānta-kaumudī
आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ॥
Subodhinī
NSP p. 632
—पथिमथोः—। गमेरिनिः । उषः कित् । मन्थः । ‘पतेः स्थ च’ इतीनिप्रत्ययान्तावेतावन्तोदात्तौ । मन्थः कित्त्वादुपधालोपः ॥—पन्था इति । ‘पथिमथ्युभुक्षामात्’ । ‘थो न्थः’ ॥—पथ इति । भस्य टेलोपः ॥—उदात्तनिवृत्तिस्वरेणेति । ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति विभक्तिरुदात्ता ॥—दातवा उ इति । ददातेः ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ इति तवै-प्रत्ययः । ऐकारस्यायादेशः । ‘लोपः शाकल्यस्य’ इति यलोपः । युगपद्बह्वं पर्यायनिवृत्त्यर्थम् । अन्यथा एकवर्जमिति वचनाद्यौगपद्यं न स्यात्
SK 3688 · A 6.1.200V
अन्तश्च तवै युगपत् ॥ ३६८८ ॥
antaśca tavai yugapat
Siddhānta-kaumudī
तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ॥
SK 3689 · A 6.1.201V
क्षयो निवासे ॥ ३६८९ ॥
kṣayo nivāse
Siddhānta-kaumudī
आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ॥
Subodhinī
NSP p. 632
—क्षयो—। निवासेऽभिधेये क्षयशब्द आद्युदात्तः ॥—स्वे क्षये इति । क्षि निवासगत्योः । क्षयन्ति निवसन्ति यस्मिन्नित्यधिकरणे ‘पुंसि संज्ञायाम्—’ इति घः । निवासे किम् । व्याधेः क्षयः । क्षि क्षये ‘एरच्’ । कर्तरि षष्ठी ॥—जयः—॥—जयोऽश्व इति । पुंसीति करणे घः । करणे किम् । जयो त्राह्मणानाम् । भावे एरच्’
SK 3690 · A 6.1.202V
जयः करणम् ॥ ३६९० ॥
jayaḥ karaṇam
Siddhānta-kaumudī
करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ॥
SK 3691 · A 6.1.203V
वृषादीनां च ॥ ३६९१ ॥
vṛṣādīnāṃ ca
Siddhānta-kaumudī
आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती (वाजे॑भिर्वा॒जिनी॑वती) । इन्द्रं वाणीः (इन्द्रं(आ) वाणीः॑) ॥
Subodhinī
NSP p. 632
—वृषा—दीनाम्—। वृषु सेचने इगुपधलक्षणः कः ॥—वाजेमिरिति । वजेर्धन् । ‘कर्षात्त्वतः—’ इत्यन्तोदात्ते प्राप्ते वृषादेराकृति-गणत्वादाद्युदात्तः
SK 3692 · A 6.1.204V
संज्ञायामुपमानम् ॥ ३६९२ ॥
saṃjñāyāmupamānam
Siddhānta-kaumudī
उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ॥
Subodhinī
NSP p. 632
—संज्ञायाम्—॥ चञ्चेति । उपमानशब्दोऽयमुपमेयस्य संज्ञा ॥—कनो लुबिति । ‘इवे प्रतिकृतौ’ इति कनो ‘लुम्मनुष्ये’ इति लुप् ॥ ननु प्रत्ययलक्षणेन नित्त्वात् ‘ञ्जित्यादिर्नित्यम्’ इत्येव सिद्धमत आह—एतदेवेति
SK 3693 · A 6.1.205V
निष्ठा च द्व्यजनात् ॥ ३६९३ ॥
niṣṭhā ca dvyajanāt
Siddhānta-kaumudī
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ॥
Subodhinī
NSP p. 632
—निष्ठा ॥—दत्त इति । ददातेः कः ‘दो दद्धोः’ इति दतादेशः ॥—चिन्तित इति । चिति स्मृत्याम् । चुरादिः ॥—कृतं हतमिति । प्रत्ययखरेणान्तोदात्तावेत्तौ
SK 3694 · A 6.1.206V
शुष्कधृष्टौ ॥ ३६९४ ॥
śuṣkadhṛṣṭau
Siddhānta-kaumudī
एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अत सं न शुष्कम् (अत॒ सं न शुष्क॑म् ) ॥
Subodhinī
alignment inferredNSP p. 632
—असंज्ञार्थमिति । संज्ञायां तु ‘निष्ठा च द्यजनात्—’ इत्येव सिद्धम् ॥—शुष्कमिति । शुषेः कः तस्य ‘शुषः कः’ इति कादेशः
SK 3695 · A 6.1.207V
आशितः कर्ता ॥ ३६९५ ॥
āśitaḥ kartā
Siddhānta-kaumudī
कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ॥
Subodhinī
NSP p. 632
—आशितः—॥—कर्तृवाचीति । आङ्पूर्वा-दश भोजनेऽस्मात्कर्तरि क्तो निपात्यते । अपर आह । कर्तेत्यनेन भूतपूर्वगत्या अणौ कर्ता णौ कर्माभूत एव विवक्षितः । तथा चाशेर्ण्यन्तस्य प्रयोज्यकर्तरि ‘गतिवृद्धिप्रत्यवसामाध्यं ॥ इति ॥ कर्मसंज्ञको निष्ठायामाशित इति ॥ रुपमति
SK 3696 · A 6.1.208V
रिक्ते विभाषा ॥ ३६९६ ॥
rikte vibhāṣā
Siddhānta-kaumudī
रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् SK 3693 इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ॥
Subodhinī
alignment inferredNSP p. 632–633
—रिक्त इति । रिचिर् विरेचने ॥—संज्ञायामित्यादि । ‘निष्ठा च ब्रजनात्’ इत्यस्यावकाशः । गुप्तः । अस्य लवकाशः असंज्ञायां रिक्तो घट इति । संज्ञायामुभयप्रसङ्गे पूर्वविप्रतिषेधः । रिक्तो नाम कश्चित्
SK 3697 · A 6.1.209V
जुष्टार्पिते च छन्दसि ॥ ३६९७ ॥
juṣṭārpite ca chandasi
Siddhānta-kaumudī
आद्युदात्ते वा स्तः ॥
Subodhinī
NSP p. 633
—जुष्टार्पिते—जुष्टः । अर्पितः इत्येते शब्दरूपे छन्दसि विषये आद्युदात्ते वा स्तः । जुषी प्रीतिसेवनयोः क्तः । ‘श्वीदितो निष्ठायाम्’ इतीण्निषेधः । जुष्टः । अर्तेणिच् । ‘अर्ति—’ इत्यादिना पुक् । अर्पितः
SK 3698 · A 6.1.210V
नित्यं मन्त्रे ॥ ३६९८ ॥
nityaṃ mantre
Siddhānta-kaumudī
एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ॥
Subodhinī
NSP p. 633
—नित्यं—। जुष्टार्पिते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते स्तः ॥—पूर्वेणैव सिद्धेरिति । ननु पक्षेऽन्तोदात्तलमपि प्राप्नोतीत्याशङ्क्याह—छन्दसीत्यादि । न केवलं गतार्थल-मात्रं किं लारभ्यमाणे सूत्रे दोषोऽप्यस्तीत्याह—अर्पिताः षष्टिरित्यादिना
SK 3699 · A 6.1.211V
युष्मदस्मदोर्ङसि ॥ ३६९९ ॥
yuṣmadasmadorṅasi
Siddhānta-kaumudī
आदिरुदात्तः स्यात् । नहिषस्तव नो मम ॥
Subodhinī
alignment inferredNSP p. 633
—युष्मदसदोः—। ‘युष्यसिभ्यां मदिक्’ इति मदिक्प्रत्ययान्तावन्तोदात्तौ ॥—ममेति । ‘युष्मदसम्भ्रां ङसोऽश् ‘तवममौ ङसि’ इति मपर्यन्तस्य ममादेशः । शेषे लोपः । ‘अतो गुणे’ इति पररूपलम् । ‘एकादेश उदात्तेनोदात्तः’ इति विभक्तेरुदात्तत्वे प्राप्ते इदमुच्यते
SK 3700 · A 6.1.212V
ङयि च ॥ ३७०० ॥
ṅayi ca
Siddhānta-kaumudī
तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ॥
Subodhinī
NSP p. 633
—ङयि च । योगविभागो यथासंख्यनिवृत्त्यर्थः ॥—तुभ्यं मह्यमिति । ‘ङे प्रथमयोरम्’ । ‘तुभ्यमह्यौ ङयि’ ॥—यतः—। ‘तित्सरितम्’ इत्यस्यापवादः । ‘निष्ठा च ब्रजनात्’ इत्यतो ब्रजनुवर्तते तदाह—द्याच इति । अत्र ‘अनावः’ इति निषेधो ज्ञापयति ‘स्वरविधौ व्यजनमविद्यमानवत्’ इति । अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः यश्च स्वरयोग्य आकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् । अनावः किम् । नावा तार्यं नाव्यम् । ‘नौवयोधर्मं—’ इति यत् । ब्राच् किं, चिचीर्ष्यम् । उभयत्रापि तित्सरः
SK 3701 · A 6.1.213V
यतोऽनावः ॥ ३७०१ ॥
yato'nāvaḥ
Siddhānta-kaumudī
यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट
SK 3702 · A 6.1.214V
ईडवन्दवृशंसदुहां ण्यतः ॥ ३७०२ ॥
īḍavandavṛśaṃsaduhāṃ ṇyataḥ
Siddhānta-kaumudī
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ॥
Subodhinī
NSP p. 633
—ईडवन्द—। ईड स्तुतौ, वदि अभिवादनस्तुत्योः, वृद्धं संभक्तौ, शंसु स्तुतौ, दुह प्रपूरणे । प्यन्तो ब्रानुवन्धकलाद्यद्वहणेन ग्रहणं न प्राप्नोतीति वचनम् ॥—ईड्य इत्यादि । ‘ऋहलोः—’ इति प्यत् ॥—वार्यमिति । नन्वत्र ‘एतिस्तुशासु—’ इत्यादिना विशेषविहितेन क्यपा भाव्यमिति चेत्सत्यम् । क्यव्विधौ वृत्त एव ग्रहणं नास्येति मूल एव स्पष्टम्
SK 3703 · A 6.1.215V
विभाषा वेण्विन्धानयोः ॥ ३७०३ ॥
vibhāṣā veṇvindhānayoḥ
Siddhānta-kaumudī
आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ॥
Subodhinī
NSP p. 633
—विभाषा—। वेणुशब्दो नित्सरेण नित्यमाद्युदात्तः प्राप्तः । ‘स्थो णु’रित्यनुवर्तमाने ‘जृवृरिभ्यो निच्च’ इति व्युत्पादनात् । इन्धानशब्दो यदि चानशन्तस्तदा चित्त्वादन्तोदात्तः । यदा शानजन्तस्तदा लसा-वैधातुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः । ‘भ्रसोरल्लोपः’ इति उदात्तस्य भ्रसोऽकारस्य लोपात् सर्वथाप्य-प्राप्तमाद्युदात्तत्वं पक्षे विधीयते
SK 3704 · A 6.1.216V
त्यागरागहासकुहश्वठक्रथानाम् ॥ ३७०४ ॥
tyāgarāgahāsakuhaśvaṭhakrathānām
Siddhānta-kaumudī
आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ॥
Subodhinī
NSP p. 633–634
—त्यागराग—। त्यज हानौ । ‘चजोः—’ इति कुलम् । रज्ज रागे ‘घञि च भाव—’ इति नलोपः । हसे हसने एषां पक्षे ‘कर्षात्त्वतो घञोऽन्त उदात्तः’ इति भवति ॥—त्रयः पचाद्यजन्ता इति । कुह विस्मापने, श्वठ असम्यग्भाषणे, चौरादिकावदन्तौ । कथं हिंसायाम् । अत्र प्रत्ययस्वरेणान्तोदात्तत्वं पक्षे भवति । मतोः—॥—मतोः पूर्वं आकार इति । आर्थव्याख्यानमेतत् । सूत्रे तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । केचित्तु सूत्रे पूर्वशब्दं पुंलिङ्गमेव पठन्ति ॥—शरावतीति । चातुरर्थिको नद्यां मतुप् ‘मादुपधायाः’ इति वलम् । ‘मतौ बह्वचोऽनजिरादीनां’ ‘शरादीनां च’ इति दीर्घलम् ॥—वेत्रवतीति । मतुप् । वलम् । न चात्र वलस्यासिद्धलादवती-शब्दोऽयं न भवतीति शङ्क्यम् । तस्याश्रयात्सिद्धत्वेनासिद्धलाभावात् । अवत्या इति निर्देशादिह न भवति राजवतीति । स्वरविधौ व्यजनस्याविद्यमानलालायमवतीशब्दः ॥—अहीवतीति । पूर्ववहीर्घः । संज्ञायामिति वलम् ॥ अथ फिद्सूत्राणि
SK 3705 · A 6.1.219V
मतोः पूर्वमात् संज्ञायां स्त्रियाम् ॥ ३७०५ ॥
matoḥ pūrvamāt saṃjñāyāṃ striyām
Siddhānta-kaumudī
मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ॥
SK 3706 · A 6.1.220V
अन्तोऽवत्याः ॥ ३७०६ ॥
anto'vatyāḥ
Siddhānta-kaumudī
अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ॥
SK 3707 · A 6.1.221V
ईवत्याः ॥ ३७०७ ॥
īvatyāḥ
Siddhānta-kaumudī
ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥
SK 3708 · A 3.1.3प्रत्ययस्य आद्युदात्तत्वाधिकारः
आद्युदात्तश्च ॥ ३७०८ ॥
ādyudāttaśca
Siddhānta-kaumudī
प्रत्ययः आद्युदात्तः एव स्यात् । अग्निः । कर्तव्यम् ॥
SK 3709 · A 3.1.4V
अनुदात्तौ सुप्पितौ ॥ ३७०९ ॥
anudāttau suppitau
Siddhānta-kaumudī
पूर्वस्य अपवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥
SK 3710 · A 6.1.163V
चितः ॥ ३७१० ॥
citaḥ
Siddhānta-kaumudī
अन्त उदात्तः स्यात् ।
vārttika
चितः सप्रकृतेर्बह्वकजर्थम्
(वार्तिकम्) ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ॥
Subodhinī
NSP p. 638
—चितः ॥—सप्रकृतेरिति । नन्विदं कथं लभ्यमिति चेच्छृणु । चितः । अर्शआदेराकृतिगणत्वादच् प्रत्ययः । षष्ठ्यर्थे प्रथमा । तेन चिद्वतः समुदायस्येत्यर्थः । अत्र च लिङ्गमकचश्चित्करणम्, अन्यथा तस्यैकाच्त्वादनर्थकं तत्स्यात् ॥—अन्यके इति । ‘अव्ययसर्वनाम्नाम्’ इत्यकच् ततः परादिरुदात्ता । एवं यके तकदित्यत्रापि यत्तच्छब्दादकच् । वहुच उदाहरणं तु वहुपटव इत्यादि ज्ञेयम् ॥—अत्स्वरवाधनार्थमिति । च्फलश्चकारो ‘ब्रातच्फञोरस्त्रियाम्’ इति विशेषणे चरितार्थः । लकारो वृद्धौ । तत्रासत्यस्मिन् परत्वात् अत्स्वरः स्यात् इति भावः ॥—कौञायना इति । कुञ्जस्यापत्यानि वहूनि । ‘गोत्रे कुञ्जादिभ्यश्चक्ष्य’ ‘ब्रातच्फञोरस्त्रियाम्’ इति अः । ‘आदयस्तद्राजाः’ । तद्राजस्य वहुषु छक् ॥—आग्नेय इति । अग्नेर्वह्ने ॥—तिसृ-। अर्थगतं वहुत्वं शब्द आरोप्य वहुवचननिर्देशः । तिसृभ्यः परस्य जसोऽन्त उदात्तः स्यात् ॥—तिसृ इति । अन्तोदात्तत्रिशब्दस्य स्थाने तिसृदेशः स्थानिवद्भावादन्तोदात्तः । ‘अनुदात्तौ मुपितौ’ इति जसनुदात्तः । अत्र ‘अचि र ऋतः’ इति रेफादेशे कृते ‘उदात्तस्वरितयोर्यणः’ इति जसः स्वरितत्वं प्राप्तमनेन वाच्यते ॥—सप्तमीवहुवचनमिति । न प्रथमैकवचनम् व्याख्यानात् । राज्ञेति । सावित्येतस्मिन् सति एकाचः परा तृतीयादिर्विभक्तिरुदात्ता भवतीत्यर्थो भवति । भवति चायमल्लेपे कृते एकाच् ॥—राज इति । राजशब्द आद्युदात्तः । ‘कनिन्युवृषितक्षिराजिधन्विष्णुप्रतिदिवः’ इति कनिनन्तत्वात्
SK 3711 · A 6.1.164V
तद्धितस्य ॥ ३७११ ॥
taddhitasya
Siddhānta-kaumudī
चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ॥
SK 3712 · A 6.1.165V
कितः ॥ ३७१२ ॥
kitaḥ
Siddhānta-kaumudī
कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ॥
SK 3713 · A 6.1.166V
तिसृभ्यो जसः ॥ ३७१३ ॥
tisṛbhyo jasaḥ
Siddhānta-kaumudī
अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ॥
SK 3714 · A 6.1.168V
सावेकाचस्तृतीयादिर्विभक्तिः ॥ ३७१४ ॥
sāvekācastṛtīyādirvibhaktiḥ
Siddhānta-kaumudī
साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ॥
SK 3715 · A 6.1.169V
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ ३७१५ ॥
antodāttāduttarapadādanyatarasyāmanityasamāse
Siddhānta-kaumudī
नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ॥
Subodhinī
NSP p. 638–639
— अन्तोदात्ता-। एकाच इति वर्तते तृतीयादिर्विभक्तिरिति च नित्यशब्दः स्वर्यते तेन नित्याधिकारागतिर्भवतीत्याहुः ॥— नित्याधिकारेत्यादि । अनित्यसमासे किम् । अग्निचित् । ‘अग्नौ च’ इति क्विप्रत्ययः । उपपदसमासः । ‘गतिकारकोपपदात्कृत्’ इति कृदुत्तरपदप्रकृतिस्वरेण चिच्छब्द उदात्तः । अधिकारग्रहणं किम् । विग्रहाभावमात्रेण यो नित्यसमासस्तत्र पर्युदासो माभूत् । अवाचा ब्राह्मणेन । ‘वहुव्रीहौ नञ्सुभ्याम्’ इत्यन्तोदात्तत्वम् । अत्र विभक्तेर्वैकल्पिक उदात्तो भवत्येव । अन्तोदात्तात्किम् । अवाचा । तत्रासत्यस्याप्याद्युदात्तः । अत्र वहुव्रीहि Garismi नञ्सुभ्याम् इत्यन्तोदात्तत्वं न भवति किं लव्ययपूर्वपदप्रकृतिस्वर एव भवतीत्यर्थः । उत्तरपदग्रहणं तु एकाच्चेनोत्तरपदं विशेषयितुम् । अन्यथा समासविशेषणं स्यात् । तथा च शुनः ऊर्क्च श्वोर्क् इत्यादावेवायं विधिः स्यात् । एकाच् किम् । राजद्दृष्ट्वा । षष्ठीसमासात् टाप् ॥—दधीच इति । दध्यञ्चतीति ‘ऋत्विग्’ आदिना किन् । ‘अनिदिताम्’ इति नलोपः । ‘अचः’ इत्यकार-लोपः । ‘चौ’ इति दीर्घलम् । अत्र ‘चौ’ इति पूर्वपदान्तोदात्तत्वं प्राप्तम्
SK 3716 · A 6.1.170V
अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ ३७१६ ॥
añceśchandasyasarvanāmasthānam
Siddhānta-kaumudī
अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ॥
Subodhinī
alignment inferredNSP p. 639
—शस्परिग्रहार्थमिति । शसादिग्रहणं तु न कृतं नपुंसके शसि मा भूत् सुटि यथा स्यादिति ॥—ऊडिदं—अत्रैकाच इति वर्तते अन्तोदात्तादिति च । एकाच-न्तोदात्तेभ्यः परा सर्वनामस्थानविभक्तिरुदात्ता स्यात् ॥—प्रष्टौह इति । ‘छन्दसि सहः’ । ‘वहश्च’ इति ण्विः । ‘वाह ऊठ्’ । उपपदसमासे प्रष्ठवाहशब्दो ‘गतिकारकोपपदात्कृत्’ इत्यन्तोदात्तः । अत्र प्रष्टौहशब्दस्यानेकाच्चेऽपि ऊठ् शब्दस्यैकाच्चलमेव ॥—ऊठयुपधाग्रहणमिति । उपधाभूत् ऊठ् गृह्यते न लन्त्य इत्यर्थः । पञ्चमीनिर्देशात्परस्यैव प्रहणे प्राप्ते वचनम् । तेनाक्षद्यूरित्यादौ विभक्तेराद्युदात्तत्वं न । अत्र हि अक्षैर्दीव्यतीति किप् । अन्तरजलादूठ् यण उपपदसमासलात् कृत्स्वरेणान्तोदात्तोऽयम्
SK 3717 · A 6.1.171V
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ॥ ३७१७ ॥
ūḍidampadādyappumraidyubhyaḥ
Siddhānta-kaumudī
एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ।
vārttika
ऊठ्युपधाग्रहणं कर्तव्यम्
(वार्तिकम्) ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ SK 350 इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् SK 228 इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ॥
Subodhinī
alignment inferredNSP p. 639
—अन्वादेशेनेति । अत एव ‘सावेकाचः’ इत्यपि स्वरो न । यदि स्यात्तर्हीहान्तोदात्ताधिकारो व्यर्थः स्यात् ॥—प्र ते वभ्रू इति । भिन्ना ऋक् । अन्वादेशप्रदर्शनार्थं माभ्यामित्यत्रोक्ता ॥—माभ्यामिति । अत्र पूर्वार्धचें वभ्रूशब्देनोक्तयोरिहेदमा परामर्शेप्यन्वादेशोऽस्त्येव । अन्वादेशश्च कथितानुकथित-मात्रं न त्विदमा कथितस्येदमैवानुकथनमिति भाष्योक्तेः ॥—षट्पदादय इति । न तु ततः परे एकाच इत्यनुवृत्तेः
SK 3718 · A 6.1.172V
अष्टनो दीर्घात् ॥ ३७१८ ॥
aṣṭano dīrghāt
Siddhānta-kaumudī
शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ॥
Subodhinī
NSP p. 639
—अष्टनो—दीर्घान्तादष्टनः परा सर्वनामस्थानविभक्तिरुदात्ता । ‘झल्युपोत्तमम्’ इत्यस्यापवादः । अष्टनशब्दो घृतादि-लादन्तोदात्तः । तेन उत्तरार्थमनुवर्तमानस्यान्तोदात्तादित्यस्येहापि नान्वनः । दीर्घात्किम् । अष्टभिः । इह ‘झल्युपोत्तमम्’ इति स्वरः । ननु चात्रापि ‘अष्टन आ विभक्तौ’ इत्यनेन भवितव्यं तद्विधौ विकल्पस्याभावादिति चेत्सत्यम् । इदमेव दीर्घग्रहणमष्टन आलविकल्पं ज्ञापयति । नित्ये लात्वे व्यावर्त्याभावादीर्घग्रहणमनर्थकं स्यात् । कृतालस्य षट्संज्ञां च ज्ञापयति । अन्यथा ह्यालपक्षे सावकाशोऽष्टनः स्वरः परलादनालपक्षे षट्स्वरेण वाधिष्यत इति किं दीर्घग्रहणेन ॥—जानतीति । ‘ज्ञाननोर्जा’ इति जादेशः । ‘श्राभ्यस्तयोरातः’ इति श्राकारलोपः । अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदात्तम् ॥—कृण्वत इति । ‘धिन्विकृण्व्योर च’ ॥—तुदन्तीति । तुदादिलाच्छः । ‘आच्छीनद्योः’ इति नुम् ॥ प्रत्युदाहरणे यज्ञविकलतां परिहरति—एकादेशोऽत्रोदात्त इति । तुदन्तीत्यत्र शे कृते तस्मात्परस्य शतुरदुपदेशात्परलात् ‘तास्य-युदात्त’ इति निघाते ‘एकादेश उदात्तेनोदात्तः’ इत्युदात्तलम् । अस्मिन्कर्तव्ये तस्यासिद्धत्वं नास्ति अनुम इति प्रतिषेधा-ज्ज्ञापकात् । न ह्येकादेशस्वरेण विना शत्रन्तं सनुमकमन्तोदात्तं भवति
SK 3719 · A 6.1.173V
शतुरनुमो नद्यजादी ॥ ३७१९ ॥
śaturanumo nadyajādī
Siddhānta-kaumudī
अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः SK 3673 इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक SK 3730 इति निघातः ॥
SK 3720 · A 6.1.174V
उदात्तयणो हल्पूर्वात् ॥ ३७२० ॥
udāttayaṇo halpūrvāt
Siddhānta-kaumudī
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ॥
Subodhinī
NSP p. 639–640
—उदात्तयणो—उदात्तस्वरितयोर्यणः स्वरितो-ऽनुदात्तस्य’ इति प्राप्ते वचनम् । चोदयित्री नेत्री सवित्रे इति तृजन्ता एते । ‘वितः’ इत्यन्तोदात्तः ॥ हल्पूर्वादिति किम् । वहुतितवा व्राह्मण्या । स्त्रीलिङ्गोपादानं नाभावनिवृत्त्यर्थम् । ‘तनोतेर्डनः सन्वच्च’ इति उः । ‘चालनी तितउः पुमान्’ । ‘वहोर्नवदुत्तरपदभूमि’ इति वहुव्रीहिरन्तोदात्तः । तत्र ‘उदात्तस्वरितयोः’ इति विभक्तेः स्वरितलम् । अस्मिन्पूत्रे नकारग्रहणं च कर्तव्यम् । उदात्तस्थाने यो नकारस्ततोऽपि परस्या नद्या उदात्तत्वं वक्तव्यमित्यर्थः । तेन वाचां पतिः वाक् पत्नीति सिद्धम् । अत्र हि ‘पलावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरस्य ‘न भूवाक्चिद्दिधिषु’ इति प्रतिषेधात्समासान्तोदात्तत्वे ‘विभाषा सपूर्वस्य’ इति नकारे नान्तलान्डीप् अनेनोदात्तः ॥—नोङ् ॥—शासादय इति । यद्यपि पूर्वसूत्रे नद्यजादीलमुवर्तते तथापि ऊङ्धात्वोर्यणः परा नदी न संभवतीति नानुवर्तिता ॥—ब्रह्मवन्ध्वेति । ऊङ् प्रलयस्वरेणोदात्तः । तेन सह य एकादेशः सोप्युदात्तः । तस्मात्परस्योदात्तत्वे प्रतिषिद्धे ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य इति विभक्तिः स्वरिता ॥—सुभ्वे इति । क्विन्तस्य कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्य ‘ओः सुपि’ इति यण् ॥—अव्दिमानिति । आपो दीयन्तेऽस्मिन्निति ‘कर्मण्यधिकरणे च’ इति किः । उदनिशब्दोऽन्युत्पन्नः । अस्य घृतादिलादन्तोदात्तत्वं बोध्यम् । अन्यथा ‘युतान्यण्यन्तानाम्’ इति द्वितीयस्योदात्तत्वं प्रसज्येत । ‘मनुवसोरुः संयुद्धौ छन्दसि’ इति रुः । ‘आतोऽटि निलम्’ इत्यनुनासिकः ॥—अक्षण्वन्त इति । अक्षिशब्दान्मनुप् ‘अस्थिदधिसक्थ्यक्षणामनङुदात्तः’ इति ‘छन्दस्यपि दृश्यते’ इत्यनङ् । ‘अनो नुद्’ इत्यस्यासिद्धलात्पूर्व नलोपः । ततो भूतपूर्वगत्या मनुपो नुद् । ‘मादुपधायाः—’ इति वलम् ॥—इषुरिति । ‘धान्ये नित्’ इत्यधिकारे ‘इषेः किञ्च’ इति उप्रलयान्त आद्युदात्त इषुशब्दः तस्मात्परो मनुवनुदात्त एव । ननु मरुतोऽस्य सन्तीति मरुलान् । अत्र मनुवनुदात्तत्वं प्राप्नोति । ‘मृगोरुतिः’ इत्युतिप्रलये प्रलयस्वरेण मरुच्छब्दस्यान्तोदात्तलात् । नच तकारेण व्यवधानं स्वरविधौ व्यजनस्याविद्यमानलात् अत आह—स्वरविधाविति ॥—नेष्यत इति । ‘समासस्य’ इति सूत्रे मरुलानिलात्र ‘हस्वनुङ्भ्यां मनुप्’ इति स्वरः प्राप्नोतीति दोषमुद्भाव्य हल्स्वरप्राप्ताविति भाष्योक्तेरिति भावः ॥—रेवानिति । रयिरस्यास्तीति मनुप् ‘रयेर्मतौ बहुलम्’ इति संप्रसारणं पूर्वरूपलम् । ‘आहुणः’ ततो हस्वाभाववद्वचनम्
SK 3721 · A 6.1.175V
नोङ्धात्वोः ॥ ३७२१ ॥
noṅdhātvoḥ
Siddhānta-kaumudī
अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ॥
SK 3722 · A 6.1.176V
ह्रस्वनुड्भ्यां मतुप् ॥ ३७२२ ॥
hrasvanuḍbhyāṃ matup
Siddhānta-kaumudī
ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ॥
SK 3723 · A 6.1.177V
नामन्यतरस्याम् ॥ ३७२३ ॥
nāmanyatarasyām
Siddhānta-kaumudī
मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ॥
Subodhinī
NSP p. 640
—नामन्य—। हस्वग्रहणमनुवर्तते मनुव्यग्रहणं च । तद्विसप्तम्या विपरिणम्यते तेन हस्वो विशेष्यते तदाह—मनुपि यो हस्व इति ॥—सुमतीनामिति । सुमतिशब्दो बहुत्रीहिः । ‘नञ्सुभ्याम्—’ इत्यन्तोदात्तः । मनुपा हस्वविशेषणं किम् । भूतपूर्वेऽपि हस्वे यथा स्वरः स्यात् अमीनामित्यादौ अन्यथा परलान्नित्यलाञ्च दीर्घत्वे कृते हस्वाभावान्न स्यात् । तिसृणामित्यत्र सांप्रतिके हस्वे स्यात् । सांप्रतिकाभावे हि भूतपूर्वगतिर्भवति न तु सत्यपि तस्मिन् । नन्वेवं तिसृणामित्यत्र न स्यात् । मनुपि तिसृभावस्यैवाभावात् इष्टमेवैतत्संगृहीतम् । अत्र हि ‘षदत्रिचनुभ्यों हलादिः’ इति नित्यमेव विभक्तेरुदात्तलमिष्यते
SK 3724 · A 6.1.178V
ङ्याश्छन्दसि बहुलम् ॥ ३७२४ ॥
ṅyāśchandasi bahulam
Siddhānta-kaumudī
ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ॥
SK 3725 · A 6.1.179V
षट्त्रिचतुर्भ्यो हलादिः ॥ ३७२५ ॥
ṣaṭtricaturbhyo halādiḥ
Siddhānta-kaumudī
एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ॥
Subodhinī
NSP p. 640–641
—षट्त्रि—। अन्तोदात्तादित्येतन्निधृतम् । यद्येतदनुवर्तेत पञ्चानां नवानां चतुर्णामित्यत्र न स्यात् । ‘त्रः संख्यायाः’ इत्याद्युदात्तलात्क तर्हि स्यात् सप्तानामष्टानाम् । सप्ताष्टशब्दौ घृतादिलादन्तोदात्तौ । हलादिः किम् । चतस्रः पश्य । यथैतदिह हलादिग्रहणस्य व्यावस्यं तथा ‘चतुरः शसि’ इत्यत्रैवावोचाम ॥—न गो—। साविति यदि सप्तमीबहुवचनग्रहणं स्यात् तेभ्यः केभ्यः इत्यत्र न स्यात् तत्किंशब्दयोः सप्तमीबहुवचने परतः त्यदाद्यत्वे कृते ‘बहुवचने झल्येत्’ इत्येत्यविधानात् । तेषु केषु इत्यत्रावर्णान्तलाभावात् । ताभिर्याभिरित्यादावेव स्यात् तासु यास्वित्यत्रावर्णान्तलात् । तस्मात्प्रथमैकवचनमित्याह—सौ प्रथमैकवचन इति । अनन्तरप्रतिषेधस्यासंभवात् षाष्टिकस्वरस्य प्रतिषेधो विज्ञायत इत्याह—प्रागुक्तं नेति । एवं च वीरवत्तममित्यत्र ‘हस्वनुङ्भ्यां मनुप्’ इति न भवति । ‘स्फायितञ्चि—’ इत्यादिना रकि अन्तोदात्तो वीरशब्दः ॥—गोभ्यं शब्दस्य मध्ये प्रक्षिप्यते । पदकाले तु शुनःशेपं चिदिति पठ्यते । ‘शेपपुच्छलाङ्गलेषु शुनः’ इत्यलक् । वनस्पत्यादिलादनुभयपदप्रकृतिस्वरः । श्वन्शब्दे तेभ्यः तेषामित्यत्र च ‘सावेकाचः—’ इति प्राप्तं प्रतिषेध्यते । राञिति क्विन्तः । राजा ॥—अङिति । अञ्चतिः क्विन्तः । तस्य सनकारस्य ग्रहणं विषयावधारणार्थम् । यत्र नलोपो नास्ति तत्रैव प्रतिषेधो यथा स्यात् । प्राज्ञा । प्राङ्भ्याम् । ‘नाम्बेः पूजायाम्’ इति प्रतिषेध्यते इत्येषु केषु अन्येषु अन्येषु स्वरसर्ववामस्थानम्’ इति प्राप्तं निषिध्यते । गतौ तु विभक्त्युदात्तः स्यादेव । प्राचा प्राचे । क्रुडिति क्विवन्तः । क्रुब्धा । क्रुब्ध कौटिल्याल्पीभावयोः । ‘ऋत्विक्-’ इत्यादिना क्विन् । तत्रैव सूत्रे क्रुब्धेति निपातनान्नलोपाभावः । कृत् करोतिः क्रुन्ततिर्वा क्विवन्तः । कृता कृते
SK 3726 · A 6.1.182V
न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः ॥ ३७२६ ॥
na gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ
Siddhānta-kaumudī
एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ॥
SK 3727 · A 6.1.183V
दिवो झल् ॥ ३७२७ ॥
divo jhal
Siddhānta-kaumudī
दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः (द्युभि॑र॒क्तुभिः॑) । झलिति किम् । उपत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दि॒वेदि॑वे) ॥
Subodhinī
NSP p. 641
—दिवो ॥—झलादिरिति । नन्वसति सप्तमीनिर्देशे कथं पुनरत्र तदादिविधिः । केवलश्चालात्मिकाया विभक्तेरभावादेव तदादिविधिः । ननु तर्हि तदन्तविधिरस्तु का पुनर्श्चलन्ता विभक्तिः । शसादिः सकारान्ता इति चेत्सत्यम् । ‘षट्त्रिचतुभ्यों हलादिः’ इत्यतः आदिरिति वर्तते । दिवः परा विभक्तिर्नोदात्ता भवति कीदृशी यस्याज्झलादिरिति ॥—द्युभिरिति । ‘सावेकाचः-’ इति वा ‘ऊडिदम्-’ इति वा प्राप्तः स्वरः प्रतिषिध्यते ॥—दिवे दिवे इति । ‘ऊडिदंपदात्-’ इति विभक्तिरुदात्ता
SK 3728 · A 6.1.184V
नृ चान्यतरस्याम् ॥ ३७२८ ॥
nṛ cānyatarasyām
Siddhānta-kaumudī
नुः परा झलादिर्विभक्तिर्वोदात्ता । नभिर्येमानः (नृभि॑र्येमा॒नः) ॥
SK 3729 · A 6.1.185V
तित्स्वरितम् ॥ ३७२९ ॥
titsvaritam
Siddhānta-kaumudī
निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ॥
Subodhinī
NSP p. 641
—तित्स्वरितम् ॥—निगदव्याख्यातमिति । उच्चारणेनैव व्याख्यातमित्यर्थः ॥—क्वेति । ‘किमोत्’ ‘तित्स्वरितम्’ ‘क्वाति’ इति किमः क्वादेशः
SK 3730 · A 6.1.186V
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः ॥ ३७३० ॥
tāsyanudāttenṅidadupadeśāllasārvadhātukamanudāttamahnviṅoḥ
Siddhānta-kaumudī
अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते ।
vārttika
विन्दीन्धिखिदिभ्यो नेति वक्तव्यम्
(वार्तिकम्) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-SK 3651 इति सूत्रे भाष्ये स्थितम् ॥
Subodhinī
NSP p. 641–642
—तास्यनु-। तास्यादीनां समाहारद्वन्द्वः । उपदेशप्रहणं संभवव्यभिचाराभ्यां डिदुन्न्यां संवध्यते न तु तास्यनुदात्तन्याम् । डिदिति कर्मधारयः । उपदिश्यत इत्युपदेशः । तस्याकारेण डिता च विशेषणात्तदन्तविधिः । तथा च सूत्रार्थः । तासेरनुदात्तेतो डिददुपदेशादकारान्तोपदेशाच्च परं लसावैधातुकमनुदात्तं स्यात् न्हिडौ वर्जयित्वा ॥—कर्तेत्यादि । ‘लुटः प्रथमस्य डारौरसः’ एकवचने डित्वाद्विलोपः । इतरत्र ‘रि च’ इति सलोपः । आस्त इत्यत्रादादित्वाच्छपो लुक् ॥—डित इति । अस्याप्युपदेशविशेषणान्नेह । शृणुते जरितुर्हवम् । अत्र शुरतिदेशेन इति ॥—चनस्यतमिति । चनोन्नन्तादात्मन इच्छतमित्यर्थः । क्यच् । लोद् यसस्तं शप् स चानुवन्धस्यानेकान्तलाद्रुपदेशः ॥—चित्स्वरोऽपीति । चित्स्वरस्यावकाशः । चलनः चलनशब्दार्थादकर्म-काद्युच् । अस्यावकाश आस्ते इत्यादौ । वर्धमानमित्यत्र त्वयं निघातश्चित्स्वरं वाधते परलादिति भावः ॥—वर्धमान-मिति । दृष्टु दृष्टौ । लटः शानच् । शप् ‘आने मुक्’ इति मुक् । न चात्र मुका व्यवधानम् । यद्यकारस्यागमो मुक् तदाकारोपदेशात् परं लसार्वधातुकमिति सिद्धो निघातः । स्वावयवेन व्यवधानाभावात् । यद्यकारान्तस्याङ्गस्य भक्तो मुक् तदादुपदेशलसार्वधातुकमात्रापेक्षलादन्तरङ्गस्वरं प्रत्यकारान्तविशिष्टाङ्गप्रत्ययापेक्षस्य वहिरङ्गस्य मुकोऽसिद्धलात्सिद्धो निघातः ॥—हत इति । ‘अनुदात्तोपदेश—’ इत्यनुनासिकलोपे कृते सत्यकारान्तात्परं लसार्वधातुकं भवति । तथाप्यु-पदेशप्रहणान्न भवति । न हि हन्तिरदन्त उपदिश्यते ॥—कतीह पचमाना इति । ताच्छीत्यवयोवचनशक्तिषु चानश् । क्वचित्तु कतीह निघाना इति दृश्यते तत्र निघ्नशब्दादाचारकिवन्ताच्छान्दसो मुगभावः । तत्तु तास्यादिभ्यः परलाभावाच्चिन्त्यम् ॥—शिश्य इति । ‘एरनेकाचः—’ इति यणादेशः ‘लिद् च’ इत्यार्धधातुकमेतत् ॥—यदधीत इति । यच्छब्दप्रयोगो ‘निपातैर्यद्यदिहन्त—’ इति निघातप्रतिषेधार्थः । अत्र प्रत्ययाद्युदात्तत्वमेव । विद् विचारणे, इन्धी दीसौ, खिद् दैन्ये, इति त्रयोऽनुदात्तेतः । तेभ्यः परस्य सार्वधातुकस्यानुदात्तत्वे प्राप्ते आह—विन्दीत्यादि । एभ्यः परस्य लसार्वधातुकस्यानुदात्तत्वं नेति वक्तव्यमित्यर्थः ॥—यासिष्टमिति । या प्रापणे । लुङ् थसस्तम् । ‘चिल लुङि’ च्छेः सिञ् ‘यमरमनमाताम्— इतीदसकौ । ‘वहुलं छन्दस्यमाञ्जोगेऽपि’ इत्यडभावः । इदमाद्युदात्तत्वाभावे उदाहरणम् । आद्युदात्तत्वे तूदाहरणान्तरं मृग्यम् ॥—थलि— ‘णमुत्यन्यतरस्याम्’ इत्यतोऽन्यतरस्यामित्यनुवर्तमाने वाग्रहणं कार्यि- विकल्पार्थम् । अन्यतरस्यांग्रहणेन कार्यिविकल्पस्य सिद्धत्वात् । तेनेडादयः पर्यायेण कार्यं प्रतिपद्यन्ते । ननु ‘तवै चान्तश्च युगपत्—’ इत्यादौ युगपद्बह्वणादेवान्यत्र पर्यायः सिद्धः । सत्यम् । आदेरपि प्राप्त्यर्थं वाग्रहणम् । अन्यथा श्रुतयोरिडन्त- योरेव कार्यित्वं विकल्प्येत । सेटीति किम् । यथा थलि स्वरः । नन्विड्महणात्सेडेव थल् प्रहीष्यत इति चेत्सत्यम् । इड्महणं तु यदेडागमः क्रियते तदा तस्योदात्तार्थं स्यात् । यथा ‘कर्तुः क्यङ् सलोपश्च’ इत्यत्र सः । ततश्च यथा लुलवि- शेखादौ चतुर्णां पर्यायेणोदात्तविधाने ययिशेखादौ चतुर्थांभावेऽपि पर्यायेणोदात्तत्रयं भवति एवमिङभावेऽपि स्यादित्यर्थः ॥ —आहवनीय इति । वाहुलकादधिकरणेऽनीयर् । प्रीणानार्थात्कर्मणि वा । ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरः ॥ इति प्रत्ययस्वराः ॥ समासस्य ॥—यज्ञश्रियमिति । षष्ठीतत्पुरुषः । श्रीशब्दस्योदात्तत्वे कृते आन्तरतम्यादियङ्कुदात्तः ॥—वहुत्रीहौ । इहोदात्तस्वरितप्रहणमनुवर्तमानं तद्वति वर्तते । पूर्वपदसामानाधिकरण्यात्मूत्रे प्रकृत्येतावदुक्तेऽपि स्वरप्रकरणात्प्रतिस्वरेणैव प्रकृतिभावो विज्ञायते । पूर्वपदस्य प्रकृतिभावस्तत्स्थयोरुदात्तस्वरितयोः प्रकृतिभावद्वारेणेत्याशयेनाह— उदात्तस्वरितयोगीति ॥—चित्रेति । श्रूयते इति श्रवः कीर्तिः । चित्रं श्रवो यस्य स चित्रश्रवाः । ततस्तम्प चित्रशब्दः फिद्रस्वरेणान्तोदात्तः । ततः परस्य ‘उदात्तानुदात्तस्य—’ इति स्वरितः । ततः परस्य ‘स्वरितात्संहितायामनुदात्तानाम्’ इति प्रचयः ॥—समपाद इति । ललसमसिमेत्यनुच्चानीति सर्वानुदात्तः समशब्दः । पादशब्दो ‘वृषादीनां च’ इत्याद्युदात्तः । अत्र समासान्तोदात्तलमेव ॥—तुल्यश्वेत इति । ‘नौवयोधर्मविष—’ इति यति ‘यतोऽनावः’ इत्याद्युदात्तस्तुल्यशब्दः । ‘सदक्श्वेतः सदश्वेतः’ इति । ‘समानान्ययोश्च’ इति किञ्चन्तः सदक्शब्दः ‘गतिकारकोपपदात्कृत्’ इति कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । एवं सदशब्दः कञन्तो मध्योदात्तः ॥—किरिणेति । ‘कृत्वाकुठिमिदिच्छिदिभ्यश्च’ इत्याणादिक इः स च कित् । ‘भुजेः किञ्च’ इत्यतः किदित्यनुवर्तनात् । तेन किरिगिरिशब्दौ प्रत्ययस्वरेणान्तोदात्तौ ॥—मन्दयत्स्वरमिति । मदि स्तुत्यादिषु । ण्यन्ताल्लटः शत्रादेशः । तस्य ‘छन्दस्युभयश्चा’ इत्यार्थधातुकत्वेन शवभावात्—‘तास्यनुदात्तेन्दिदुपदेशात्—’ इति निघातो न । अतः प्रत्ययाद्युदात्तलमेव । ‘णेरनिटि’ इति णिलोपस्तु न । तं प्रति सार्वधातुकलाश्रयणात् । न च वैपरीत्यमापादनीयम् । छन्दसि दृष्टानुविधानात् । इत्थं मन्दयच्छब्दोऽन्तोदात्तः ॥—शस्त्रीश्यामेति । ‘उपमानानि सामान्यवचनैः’ इति समासः । शस्त्रीशब्दो गौरादिङीषन्तोऽन्तोदात्तः ॥— अव्यये—। निपातलादेव सिद्धे नञ्प्रहणमकरणिरित्यादौ परस्यापि कृत्स्वरस्य वाधनार्थम् । अकरणिरित्यादौ ‘आक्रोशे नञ्यनिः’ इत्यनिः । किंच तिस्र इत्यत्र ‘तिस्रभ्यो जसः’ इति सति शिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण वाध्यते । अपि च चलारः अनङ्गाह इत्यत्र सति शिष्टोऽप्यामस्वरो वाध्यते । अव्ययीत्यत्र ‘जिदृक्षि—’ इत्यादिना धातुना समासं निपात्य इनिः क्रियते । तस्यापि स्वरस्य वाधनार्थं कुप्रहणं चादिषु पाठाभावात् ॥—स्नात्वेति । मयूरव्यंसकादिरयम् । नन्वयं तत्रैवान्तोदात्तो निपात्यतामिति चेन्न । सामिकृतं स्वयंधौतमित्यादिवारणाय परिगणनस्यावश्यकत्वात् । अन्यथा तत्रापि पूर्वपदप्रकृतिस्वरः स्यात् । इष्यते तु समासस्येत्यन्तोदात्तः । सामिकृतमित्यादौ ‘सामि’ ‘स्वयं केन’ इति समासः ॥— मुहूर्तसुखमिति । ‘कालाध्वनोः—’ इति द्वितीया । ‘अत्यन्तसंयोगे च’ इति समासः । मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः ॥—भोज्योष्णमिति । ‘कृत्यतुल्याख्या—’ इति समासः । भोज्यशब्दो ण्यदन्तः ‘तित्स्वरितम्’ इति स्वरितान्तः
Footnotes (NSP 1915 ed.)
NSP p. 642 वर्णा वर्णनं अत्र एते इति प्रातिषधाद्बहुचक्रननिर्देशाच्च उत्तरपदे स्वरूपग्रहणं न, तत्साहचर्यात्पूर्वपदेऽपि स्वरूपग्रहणं न तदाह—वर्णवाचिनीत्यादि-॥—कृष्णशब्दो नफ्प्रत्ययान्त इति। ‘वृषेर्वर्ण’ इति विहितो यो नक् तदन्त इत्यर्थः। कृष्णशब्दः ‘कृष्णस्यामृगाख्या चेत्’ इत्यन्तो वेदे। भाषायां तु ‘वर्णानां तप्ततितितान्तानाम्’ इत्याद्युदात्तः॥—इतञ्चन्त इति। ‘रहे रथ्य लो वा’ इति इतन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः॥—कृष्णतिला इति। ‘वर्णो वर्णेन’ इति प्रतिपदोक्तः समझ्य Dightzera गूढतीति सैबंधतिश्च अर्थं प्रहणं जनम् ॥
SK 3731 · A 6.1.187V
आदिः सिचोऽन्यतरस्याम् ॥ ३७३१ ॥
ādiḥ sico'nyatarasyām
Siddhānta-kaumudī
सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ॥
SK 3732 · A 6.1.196V
थलि च सेटीडन्तो वा ॥ ३७३२ ॥
thali ca seṭīḍanto vā
Siddhānta-kaumudī
सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लिति SK 3676 इति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ॥
SK 3733 · A 6.1.217V
उपोत्तमं रिति ॥ ३७३३ ॥
upottamaṃ riti
Siddhānta-kaumudī
रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥
SK 3734 · A 6.1.223V
समासस्य ॥ ३७३४ ॥
samāsasya
Siddhānta-kaumudī
अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ॥
SK 3735 · A 6.2.1V
बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ ३७३५ ॥
bahuvrīhau prakṛtyā pūrvapadam
Siddhānta-kaumudī
उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥
SK 3736 · A 6.2.2V
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ॥ ३७३६ ॥
tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ
Siddhānta-kaumudī
सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या SK 749 इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ।
vārttika
अव्यये नञ्कुनिपातानाम्
(वार्तिकम्) ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ॥
SK 3737 · A 6.2.3V
वर्णो वर्णेष्वनेते ॥ ३७३७ ॥
varṇo varṇeṣvanete
Siddhānta-kaumudī
वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ॥
Subodhinī
NSP p. 642–643
—वर्णो वर्णे—। अत्र एत इति प्रतिषेधादहवचननिर्देशाच्च नच्चयते ॥ गाध-
SK 3738 · A 6.2.4V
गाधलवणयोः प्रमाणे ॥ ३७३८ ॥
gādhalavaṇayoḥ pramāṇe
Siddhānta-kaumudī
एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ॥
Subodhinī
alignment inferredNSP p. 643
—अरित्रगाधमिति । अरित्रं नौकाष्ठं तस्य गाधं स्पृश्यमानं तलम् । गाध्यत इति गाधः । गाध् प्रतिष्ठायां कर्मणि घञ् । अर्धचादिलात् क्लीवलम् ॥—गोलवणमिति । पष्ठीसमासः । गोशब्दो ‘गमेर्डोः’ इति डोप्रत्ययान्तोऽन्तोदात्तः ॥—इत्रान्त इति । ‘अर्तिल्लधूमूखनसहचर इत्रः’ इति विहितः ॥—मध्योदात्त इति । प्रत्ययखरेण ॥—इयत्ता परिच्छेदमात्रमिति । इयत्तायाः परिच्छित्तिरियत्तापरिच्छेदः । क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते न पुनरायाममात्रे रूढ इत्यर्थः
SK 3739 · A 6.2.5V
दायाद्यं दायादे ॥ ३७३९ ॥
dāyādyaṃ dāyāde
Siddhānta-kaumudī
तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ॥
Subodhinī
NSP p. 643
—दायाद्यम्—दातव्यो दायोशः दायमादत्ते दायादः । मूलविभुजादिलात्कः । दायादस्य भावो दायाद्यम् । दायस्य दानं तत्संबन्धो वा । इह तु लक्षणया आदीयमाने दाय एव दायाद्यशब्दो वर्तते दायादशब्दे परे दायाद्यवाचि पूर्वपदं प्रकृतिखरं स्यात् ॥—क्युप्रत्ययान्त इति । ‘कृपृष्टजिमन्दिनिधायः क्युः’ इति विहितः ॥—परमदायाद इति । अत्र समासान्तोदात्तलमेव
SK 3740 · A 6.2.6V
प्रतिबन्धि चिरकृच्छ्रयोः ॥ ३७४० ॥
pratibandhi cirakṛcchrayoḥ
Siddhānta-kaumudī
प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ॥
Subodhinī
NSP p. 643
—प्रतिवन्धि-। कार्यसिद्धिं प्रतिवध्नातीति प्रतिवन्धि । आवश्यके णिनिः ॥—गमनचिरम् । व्याहरणकृच्छ्रमिति । गमनव्याहरणशब्दौ ल्युडन्तौ । तयोर्लित्खरः । अत्र विशेषण-समासः । ननु सामानाधिकरण्ये सति विशेषणसमासो भवति । न चेह तदस्ति । गमनशब्दस्य गतिवाचिलाचिरशब्दस्य कालवाचिलात् । नैष दोषः । चिरकालवाचिनि गमनेऽत्र चिरशब्दो वर्तते, गमनमत्र विशेष्यं तद्विशेषणे तु चिरकृच्छ्रे तत्र विशेष्यस्य पूर्वनिपातनार्थं मयूरव्यंसकादिलमप्येष्टव्यम् । पूर्वपदस्य प्रतिवन्धिवाचिलमुपपादयति—गमनमित्यादि । कारणवैकल्याद्धि चिरकालभावि गमनं कार्यसिद्धेः प्रतिवन्धि जायते । कृच्छ्रयोगि वा कृच्छ्रं दुःखं तद्योगि वा कार्यसिद्धेः प्रतिवन्धि जायते ॥—मूत्रकृच्छ्रमिति । पष्ठीसमासः
SK 3741 · A 6.2.7V
पदेऽपदेशे ॥ ३७४१ ॥
pade'padeśe
Siddhānta-kaumudī
व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-SK 3878 आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ॥
Subodhinī
NSP p. 643
—पदेऽपदेशे—अपदेशो व्याजः । ‘व्याजोऽपदेशो लक्ष्यं च’ इत्यमरात्तदाह—व्याजवाचिनीति ॥—उच्चारपदेनेति । उच्चारः पुरीषक्रिया ॥—विष्णुपदमिति । पष्ठी-समासः
SK 3742 · A 6.2.8V
निवाते वातत्राणे ॥ ३७४२ ॥
nivāte vātatrāṇe
Siddhānta-kaumudī
निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ॥
Subodhinī
NSP p. 643
—निवाते—निवातशब्दे परे वातत्राणवाचिनीति । वातत्राणार्थे निवातशब्दे परे इत्यर्थः । वातस्या-भावो निवातमित्यव्ययीभावः । निरुद्धो वातोऽस्मिन्निति बहुव्रीहिर्वा । तत्र कुञ्चादयो वर्तमानाः समानाधिकरणा निवात-शब्देन समस्यन्ते । कुटी एव निवातं कुटीनिवातम् । कुञ्च एव निवातं कुञ्चनिवातम् ॥—ऊ्यगन्त इति । कवते-र्च्यक् डकारस्येत्संज्ञा न भवति । गुणप्रतिषेधार्थात्ककारानुबन्धात् ॥—यगन्त इत्यन्ये इति । ते तु कवतेर्ज्यन्निति सूत्रमधीयते
SK 3743 · A 6.2.9V
शारदेऽनार्तवे ॥ ३७४३ ॥
śārade'nārtave
Siddhānta-kaumudī
ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च <{उ15}> इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ॥
Subodhinī
NSP p. 643–644
—शारदे—नूतनार्थ इति । अव्युत्पन्न इत्यर्थः ॥—रज्जोः सद्य उद्धृतमिति । रज्जुबद्धपात्राधारे रज्जुशब्दः । इदानीमेव कूपादुद्धृतं नूतनं जलमित्यर्थः ॥—सृजेरसुम्चेति । ‘स्कन्देः सलोपश्च’ इत्यतः सलोप इति वर्तते ‘भृमृशीङ्’ इत्यतः उरिति ‘धान्ये नित्’ इत्यतो निदिति । सृजेरुः स्यात्स च नित् धातोरसुगागमः सलोपश्चेत्यर्थः । तत्र सृजेरन्त्यादचः परेऽसुमि सलोपयणादेशेऽसुम्सकारस्य जरुवे च रज्जुरिति भवति ॥—आद्युदात्त इति । प्रत्ययस्य नित्वान्नित्खरेण ॥—उत्तमशारदमिति । शरदि ऋतौ भवं शारदम् ॥—अध्व-॥—कठाध्वर्युरिति । अध्वरं यज्ञं यातीत्यध्वर्युः ऋत्विग्विशेषः । कठेन प्रोक्तं छन्दोऽधीते कठः । कठशब्दादण्णन्तात् णिनिप्रत्ययः तस्य लुक् । अध्येत्रणस्तु ‘प्रोक्तालुक्’ इति लुक् । विशेषणसमासोऽयम् ॥—दौवारिककृषाय इति । पष्ठीसमासः ॥—सदृश-। सादृश्य- वाचिति तत्पुरुषे पूर्वपदं प्रकृत्या एतयोरुत्तरपदयोः ॥—पितृसदृश इति । पितृमातृशब्दावुणादितृजन्तौ चित्सरेणान्तोदात्तौ । नन्वत्र ‘पूर्वसदृशसमोनार्थं’ इति तृतीयासमासे कृते ‘तत्पुरुषे तुल्यार्थं’ इत्येव सिद्धम् । न च तुल्यार्थयोगे षष्ठ्या अपि विहितत्वेन षष्ठीसमासार्थमिदमिति वाच्यम् । तत्रानभिधानात्षष्ठीसमासो नेत्यपि सुवचलादिति चेन्मैवम् । अङ्कसमासानुरोधेन षष्ठीसमासस्वीकारस्यावश्यकलात् । तद्यथा । दास्याः सदृशो वृषल्याः सदृश इति । ‘षष्ठ्या आक्रोशे’ इत्यलङ्क् । दासीशब्दो ‘दंसेष्टो न आ च’ इति दंसेष्टः प्रत्ययः नकारस्य चाकारः । प्रत्ययस्वरेण दासशब्द उदात्तः । टित्वान्ङीप् ‘यस्य’ इति लोपः । ‘अनुदात्तस्य च यत्र’ इति ङीप उदात्तलम् । वृषलशब्दाज्जातिलक्षणो ङीष् । उभयत्रापि ‘उदात्तयणो हल्पूर्वात्’ इति विभक्तिरुदात्ता । नन्वेवं तृतीयासमासविधायके ‘पूर्वसदृश’ इति सूत्रे सदृशप्रहणं मास्तु सर्वत्र षष्ठीसमासोऽस्तु इति चेन्मैवम् । यत्र षष्ठ्यर्थो नास्ति तदर्थं सदृशप्रहणम् । विद्यया सदृशो विद्यासदृश इति अन्यो देवदत्तादिरत्र प्रतियोगी
SK 3744 · A 6.2.10V
अध्वर्युकषाययोर्जातौ ॥ ३७४४ ॥
adhvaryukaṣāyayorjātau
Siddhānta-kaumudī
एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च SK 1484 इति णिनेः कठचरकाल्लुक् SK 1487 इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ॥
SK 3745 · A 6.2.11V
सदृशप्रतिरूपयोः सादृश्ये ॥ ३७४५ ॥
sadṛśapratirūpayoḥ sādṛśye
Siddhānta-kaumudī
अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥
SK 3746 · A 6.2.12V
द्विगौ प्रमाणे ॥ ३७४६ ॥
dvigau pramāṇe
Siddhānta-kaumudī
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ।
vārttika
प्रमाणे लोद्विगोर्नित्यम्
(वार्तिकम्) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ॥
Subodhinī
alignment inferredNSP p. 644
—प्राच्यशब्द आद्युदात्त इति । ‘द्युप्रागपागुदकप्रतीचो यत्’ इति यदन्तलात् ‘यतोऽनावः’ इत्याद्युदात्तः ॥—परमसप्तसममिति । सप्तानां समानां समाहारः सप्तसमं समाहारद्विगुः । पात्रादिलात् ब्रीत्वाभावः
SK 3747 · A 6.2.13V
गन्तव्यपण्यं वाणिजे ॥ ३७४७ ॥
gantavyapaṇyaṃ vāṇije
Siddhānta-kaumudī
वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ॥
Subodhinī
NSP p. 644
—गन्तव्यपण्यम्—वणिगेव वाणिजः । प्रज्ञादित्वादण् ॥—मद्रवाणिज इति । मद्रेषु गला व्यवहरतीत्यर्थः ॥—गोवाणिज इति । गमेर्जोः । अन्तोदात्तोऽयम् ॥—सप्तमीसमास इति । सप्तमीति योगविभागात् मद्रवाणिजेत्यत्र षष्ठीसमासः ॥—रक्प्रत्ययान्त इति । ‘स्फायितश्चि’ इति विहितो रक् तदन्तादित्यर्थः । प्रत्ययस्वरेणान्तोदात्तोऽयम्
SK 3748 · A 6.2.14V
मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ ३७४८ ॥
mātropajñopakramacchāye napuṃsake
Siddhānta-kaumudī
मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः SK 3280 इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ॥
Subodhinī
NSP p. 644
—मात्रो—तथेति । पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः । भिक्षाशब्दोऽप्रत्ययान्तोदात्तः । मात्रशब्दस्तु तुल्यपर्यायो वृत्तिविषये तुल्यप्रमाणे वर्तते भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीतत्पुरुषः । तदाह—भिक्षाया इति । पाणिन्युपह्नमिति । उपज्ञायत इति उपज्ञः । ‘आतश्चोपसर्गे’ कर्मण्यङ् । पाणिनिशब्द इत्यन्तलादाद्युदात्तः । तस्य उपज्ञा इति षष्ठीसमासः । ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’ इति नपुंसकता ॥—नन्दोपक्रममिति । षष्ठीसमासः । अत्रापि पूर्ववच्चपुंसकता । उपक्रम्यते इति कर्मणि घञ् ‘नोदात्तोपदेशस्य’ इति वृद्धिप्रतिषेधः ॥—इषुच्छायमिति । इषूणां छायेति तत्पुरुषः । ‘छाया वाहुल्ये’ इति नपुंसकता ॥ ‘इषेः किम्’ इत्युप्रत्ययान्त इषुः तत्र निदधिकारादाद्युदात्तस्तदाह—इषुशब्द इति ॥—गमनसुखमिति । समानाधिकरणसमासो मयूरव्यंसकादिर्वा
SK 3749 · A 6.2.15V
सुखप्रिययोर्हिते ॥ ३७४९ ॥
sukhapriyayorhite
Siddhānta-kaumudī
एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ॥
Subodhinī
alignment inferredNSP p. 644
—लित्स्वर इति । गमनशब्दो ल्युडन्तः ‘लिति’ इति सूत्रेणाद्युदात्तः
SK 3750 · A 6.2.16V
प्रीतौ च ॥ ३७५० ॥
prītau ca
Siddhānta-kaumudī
प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ॥
Subodhinī
alignment inferredNSP p. 644
—प्रागुक्तमिति । सुखप्रिययोः परयोस्तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः । योगविभागो यथासंख्यनिवृत्त्यर्थः । ननु ‘सुखप्रिययोः’ इत्येतावत्पूर्वसूत्रं कृत्वा ‘हिते च’ इति वक्तव्यं तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यतीति चेत्सत्यम् । प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम् ॥—ब्राह्मणच्छात्रशब्दाविति । ब्रह्मणोऽपत्यमित्यण् । ‘ब्राह्मो जातौ’ इति जातौ टिलोपाभावेऽन्निति प्रकृतिभावः । छात्रशब्दः ‘छत्रादिभ्यो णः’ इति णप्रत्ययान्तः
SK 3751 · A 6.2.17V
स्वं स्वामिनि ॥ ३७५१ ॥
svaṃ svāmini
Siddhānta-kaumudī
स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ॥
SK 3752 · A 6.2.18V
पत्यावैश्वर्ये ॥ ३७५२ ॥
patyāvaiśvarye
Siddhānta-kaumudī
दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ॥
Subodhinī
NSP p. 644–645
—पत्या—ऐक्षर्यार्थे पतिशब्दे परे पूर्वपदं प्रकृतिस्वरं स्यात् तत्पुरुषे । गृहपतिरिति षष्ठीसमासः । ‘गेहे कः’ इति कप्रत्ययान्तो गृहशब्दः प्रत्ययस्वरेणान्तोदात्तः ॥—जेक् ॥ अवाप्तेनां दिग्गताहरिद्वन्द्वे नपुंसकत्वम् । हस्त्विम् ॥—एतानीति । भूवाक्चिद्दिधिषु एतानीत्यर्थः ॥—न प्रकृत्येति । पूर्वेण प्राप्तः प्रतिषिध्यते ॥—भूपतिरित्यादि । षष्ठीसमासा एते । तत्र भ्वादयस्त्रयः क्विवन्ताः । दिधिषूशब्दः ‘अन्दूहम्भूकफेल्लकर्कन्धूदिधिषू’ इत्यूप्रत्ययान्तो निपातितः । सर्वेऽप्यन्तो-दात्ताः ॥—वा भु—॥—उक्तविषये इति । ऐश्वर्यवाचिनि पतिशब्दे परे भुवनशब्दः पूर्वपदप्रकृतिस्वरः स्यात् । ‘पत्यावैश्वर्ये’ इति प्राप्ते विकल्पोऽयम् ॥—भुवनपतिरिति । भुवनशब्दः क्युनप्रत्ययान्तो नित्सरेणाद्युदात्तः ॥—आशङ्कावाध—। आशङ्कावाधनेदीयस्पूत्तरपदेषु संभावनवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । शकि शङ्कायाम् । वाधृ लोडने । आङ्पूर्वाभ्यां कर्मणि घन् । अतिशयेनान्तिकं नेदीयः । द्वयोरन्तिकयोर्मध्ये एकस्यातिशयविवक्षायामीयसुनि ‘अन्तिकवाढयोः—’ इति नेदादेशः । गमनाशङ्कादयो विशेषणसमासाः मयूरव्यंसकादयो वा
SK 3753 · A 6.2.19V
न भूवाक्चिद्दिधिषु ॥ ३७५३ ॥
na bhūvākciddidhiṣu
Siddhānta-kaumudī
पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ॥
SK 3754 · A 6.2.20V
वा भुवनम् ॥ ३७५४ ॥
vā bhuvanam
Siddhānta-kaumudī
उक्तविषये । भुवनपतिः भूसूधूभ्रस्जिभ्यः <{उ238}> इति क्युन्नन्तो भुवनशब्दः ॥
SK 3755 · A 6.2.21V
आशङ्काबाधनेदीयस्सु संभावने ॥ ३७५५ ॥
āśaṅkābādhanedīyassu saṃbhāvane
Siddhānta-kaumudī
अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥
Subodhinī
alignment inferredNSP p. 645
—अस्तित्वाध्यवसाय इति । अस्तित्वनिश्चयः ॥—गमनाशङ्कमिति । पूर्वपदानि ल्युङन्तानि । तत्र लित्स्वरः ॥—गमनं शङ्क्यत इत्यादि । संभाव्यत इत्यस्य प्रत्येकमन्वयः । गमनमाशङ्क्यते इति संभाव्यते । गमनमावाध्यत इति संभाव्यते । गमनं निकटतरमिति वा संभाव्यते
SK 3756 · A 6.2.22V
पूर्वे भूतपूर्वे ॥ ३७५६ ॥
pūrve bhūtapūrve
Siddhānta-kaumudī
आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥
Subodhinī
NSP p. 645
—पूर्वे भूतपूर्वे । भूतपूर्वार्थे पूर्वशब्दे परे पूर्वपदं प्रकृतिस्वरं स्यात् ॥—आढ्यो भूतपूर्वे इति । यः पूर्वमाढ्य आसीत्स एवमुच्यते ॥—आढ्यपूर्वे इति । अत्र विशेषणसमासो मयूरव्यंसकादिर्वा । आढ्यशब्दः आङ्पूर्वाध्यायतेः ‘घन्यर्थे कविधानम्’ इति कर्मणि कः । आतो लोपः । पृषोदरादिलाद्वस्य ढः यथादि-स्वरेणान्तोदात्तः ॥—परमपूर्वे इति । परमश्वासौ पूर्वश्चेति योयं वाक्यार्थः पूज्यमानतालक्षणस्तस्मिन्निह प्रत्युदाहरणे समासः । परमश्वासौ भूतपूर्वश्चेति विग्रहे तूदाहरणमेव ॥—सविध्र—। सामीप्यार्थेषु सविधादिषूत्तरपदेषु पूर्वपदं प्रकृत्या तत्पुरुषे ॥—मद्रसविध्रमिति । सर्वत्रोदाहरणे षष्ठीसमासः । मद्रः रगन्तेनोदात्तः । गान्धारिः ‘कर्दमादीनां च’ इत्याद्युदात्तो वा । काश्मीरो ‘लघावन्ते—’ इति मध्योदात्तः । सविधादीनां सह विधया इत्येवमादिका व्युत्पत्तिरेव केवलम् । समीपवाचिनस्त्वेते समुदायाः । मद्रादीनां सविधं समीपमित्यर्थः । समर्यादमिति । ‘बोपसर्जनस्य’ इति सहस्य सादेशः । चैत्रसमर्यादमिति षष्ठीसमासः । सविधादिषु किम् । मद्रसमीपम्
SK 3757 · A 6.2.23V
सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ॥ ३७५७ ॥
savidhasanīḍasamaryādasaveśasadeśeṣu sāmīpye
Siddhānta-kaumudī
एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥
SK 3758 · A 6.2.24V
विस्पष्टादीनि गुणवचनेषु ॥ ३७५८ ॥
vispaṣṭādīni guṇavacaneṣu
Siddhānta-kaumudī
विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तरः SK 3783 इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ॥
Subodhinī
NSP p. 645–647
—विस्पष्टा—। गुणवचनेषु परेषु विस्पष्टादीनि पूर्वपदानि प्रकृत्या स्युः ॥—विस्पष्टकटुकमिति । स्पष्टा वाधनस्पर्शनयोरित्यस्य ण्यन्तस्य निष्ठायां ‘वा दान्तशान्त—’ इति स्पष्टशब्दो निपातितः । तस्य विशब्देन गतिसमासः । विस्पष्टं कटुकमिति विग्रहः । विस्पष्टादीनि शब्दप्रवृत्तिनिमित्तस्य विशेषणानि न द्रव्यस्य । कटुकादिशब्दैर्गुणवद्रव्यमभिधीयते इति सामानाधिकरण्याभावात्कर्मधारयाभावे सुप्सुपेति समासः ॥—विचित्रेत्यादि । चित्र चित्रीकरणे चुरादिण्यन्ता-देरच् । विशेषेण चित्रं विचित्रं प्रादिसमासः ‘तत्पुरुषे तुल्यार्थ—’ इत्यव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तः । चिती संज्ञाने निष्ठा । विगतं चित्रमस्य इति विचित्रः । ‘बहुत्रीहौ प्रकृत्या पूर्वपदम्’ इत्याद्युदात्तः । अजू व्यक्त्यादिषु । तस्य विपूर्वस्य निष्ठायां गतिस्वरे ‘उदात्तस्वरितयोः—’ इति स्वरितादिः पदेः कर्तरि कः । यथादिस्वरेणान्तोदात्तः । ग-तिस्वरस्तु न कर्मणीति तत्र वर्तते । अयं कर्तरि कः । ‘फलिपाटिनमिमनिजनां कुक्पटिनाकिधतश्च’ इत्युप्रत्ययान्तः पट्टशब्दः । तत्र निदित्यधिकारादाद्युदात्तः । पडि गतौ कः प्रत्ययस्वरः । उणादिवृत्तौ तु पण व्यवहारे स्तुतौ च । अम-न्ताडः । पण्डा बुद्धिः सा संजाताऽस्येति तारकादिलादितच् । एवमुक्तम् । कुशान् लातीति कुशलः । ‘आतोऽनुपसर्गे’ इति कः कृत्स्वरेणान्तोदात्तः । चुप मन्दायां गतौ । अस्मात् ‘चुपेरबोपधायाः’ इति कलप्रत्ययः । तत्र ‘वृषादिभ्य-श्चित्’ इत्यतश्चिदिति वर्तनादन्तोदात्तः । पुण कर्मणि शुभे । ‘इगुपधज्ञाप्रीकिरः कः’ । यथादिस्वरेणान्तोदात्तः ॥——धज्या—। धज्यकनमादेशानामुत्तरपदलासंभवात्सामर्थ्यात्तद्वदुत्तरपदं गृह्यत इत्याह—इत्यादेशवतीति । इष्टेयसुनोः पञ्चमी । ‘अपपरिवहिरञ्चवः पञ्चम्या’ इत्यव्ययीभावः ॥—प्रतिपूर्वाह्नमिति । अहः पूर्वा भागः पूर्वाह्नः । ‘अहाह्निः एतेभ्यः’ इत्यहादेशः । ‘अहोऽदन्तात्’ इति णलम् । पूर्वाह्नं प्रति । ‘लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः ॥—उपपूर्वाह्नमिति । पूर्वाह्नस्य समीपम् । ‘अव्ययं विभक्ति—इत्यादिना सामीप्येऽव्ययीभावः ॥—उपपूर्वरात्रमिति । रात्रेः पूर्वो भागः पूर्वरात्रः । ‘अहःसर्वैकदेश—इत्यत्र ‘रात्राह्नाहाः—’ इति पुंस्त्वम् । पूर्वरात्रस्य समीपमुपपूर्वरात्रम् ॥—उपसर्गा—आद्युदात्तानि पूर्वपदानि ॥—सिद्धत्वादिति । ‘बहुव्रीहौ प्रकृत्या पूर्वपदम्’ ‘तत्पुरुषे तुल्यार्थतृतीया-सप्तम्युपमानाव्ययद्वितीयाकृत्याः’ इत्यनेन । ननु किं पुनः कारणम् । अपपर्शोरेव वर्ज्यमान उदाहृतो नेतरयोस्त्राह—अपपर्योरिति । तेन त्रिगर्तं वर्जयित्वेत्यर्थं उपत्रिगर्तं प्रतित्रिगर्तमिति न भवति । ननु पूर्वाह्नं पूर्वरात्रं वर्जयित्वेत्यर्थं अपपूर्वाह्नं परिपूर्वाह्नं अपपूर्वरात्रं परिपूर्वरात्रमिति अहोरात्राद्यवयवा अपपर्योः कस्मान्नोदाह्नियन्ते इत्याशङ्क्याह—अहो-रात्रावयवा इति ॥—वर्ज्यमाना इति । वर्ज्यमानग्रहणेनैव सिद्धलाल पृथगुदाहता इत्यर्थः ॥—वर्ज्येति किमिति । वर्ज्यमानाहोरात्रावयवेषु किम् ॥—अग्निं प्रतीति । ‘लक्षणेनाभिप्रती—इत्यव्ययीभावः
SK 3759 · A 6.2.25V
श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये ॥ ३७५९ ॥
śrajyā'vamakanpāpavatsu bhāve karmadhāraye
Siddhānta-kaumudī
श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥
SK 3760 · A 6.2.26V
कुमारश्च ॥ ३७६० ॥
kumāraśca
Siddhānta-kaumudī
कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ॥
SK 3761 · A 6.2.27V
आदिः प्रत्येनसि ॥ ३७६१ ॥
ādiḥ pratyenasi
Siddhānta-kaumudī
कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥
SK 3762 · A 6.2.28V
पूगेष्वन्यतरस्याम् ॥ ३७६२ ॥
pūgeṣvanyatarasyām
Siddhānta-kaumudī
पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च SK 3760 इत्येव भवति ॥
SK 3763 · A 6.2.29V
इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ३७६३ ॥
igantakālakapālabhagālaśarāveṣu dvigau
Siddhānta-kaumudī
एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥
vārttika
तमधीष्टो-
(वार्तिकम्) ॥ इत्यधिकारे ।
vārttika
द्विगोर्यप्
(वार्तिकम्) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ॥
SK 3764 · A 6.2.30V
बह्वन्यतरस्याम् ॥ ३७६४ ॥
bahvanyatarasyām
Siddhānta-kaumudī
बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः SK 3657 इति भवति ॥
SK 3765 · A 6.2.31V
दिष्टिवितस्त्योश्च ॥ ३७६५ ॥
diṣṭivitastyośca
Siddhānta-kaumudī
एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥
SK 3766 · A 6.2.32V
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ॥ ३७६६ ॥
saptamī siddhaśuṣkapakvabandheṣvakālāt
Siddhānta-kaumudī
अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ॥
SK 3767 · A 6.2.33V
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ॥ ३७६७ ॥
paripratyupāpā varjyamānāhorātrāvayaveṣu
Siddhānta-kaumudī
एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ॥
SK 3768 · A 6.2.34V
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ३७६८ ॥
rājanyabahuvacanadvandve'ndhakavṛṣṇiṣu
Siddhānta-kaumudī
राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ॥
Subodhinī
alignment inferredNSP p. 647
—श्वाफल्क-चैत्रका इति । श्वफल्कचैत्रकाभ्यामपत्येऽण् ॥—शिनिराद्युदात्त इति । ‘वहिश्रिश्रुयुद्धग्लाहात्वरिभ्यो नित्’ इति सूत्रेण वाहुलकाच्छीडोऽपि निः तस्य नित्त्वं ह्रस्वत्वं चेति ॥—द्वैप्या इति । ‘द्विपादनुसमुद्रं यज्’ ॥—भैमेरपत्य-मिति । भीमस्यापत्यम् ‘अत इज्’ तदन्ताद्वृद्धाच्छः । ननु च राज्ञोऽपत्ये जातिग्रहणमिति वचनाद्राजन्यशब्दः क्षत्रिय-जातिवचनः । ततश्च द्वैप्यभैमायना इत्ययुक्तं प्रत्युदाहरणं तेषामपि क्षत्रियलादत आह—राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्रियलाव्यभिचाराद्राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ॥—एकादशेति । ‘संख्याया अल्पी-यस्याः—’ इत्येकशब्दस्य पूर्वनिपातः । ‘आन्महतः—’ इत्यत्र आदिति योगविभागात्प्रागेकादशभ्य इति निर्देशाद्वा आलम् । ‘इणभीकायाशल्यतिमर्चिभ्यः कन्’ इति नित्त्वादेकशब्द आद्युदात्तः ॥—द्वादशेति । ‘ब्राह्मनः संख्यायाः—’ इत्यालम् ॥—त्रयोदशेति । ‘त्रेस्रयः—’ इति त्रयआदेशः ॥—अन्तोदात्तो निपात्यत इति । इदं काशिकानुरोधेनोक्तम् । वस्तुतस्तु ‘त्रयोदश च मे’ इति लक्ष्यानुरोधादाद्युदात्तो निपात्यत इति बोध्यम्
SK 3769 · A 6.2.35V
संख्या ॥ ३७६९ ॥
saṃkhyā
Siddhānta-kaumudī
संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ॥
SK 3770 · A 6.2.36V
आचार्योपसर्जनश्चान्तेवासी ॥ ३७७० ॥
ācāryopasarjanaścāntevāsī
Siddhānta-kaumudī
आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ॥
Subodhinī
NSP p. 647
—आचार्योपसर्जन—आचार्यः उपसर्जनं यस्य आचार्योपसर्जनः ॥—अन्तेवासीति । अन्ते वसतीत्यन्तेवासी ‘शयवासवासिष्वकालात्’ इति सप्तम्या अलक् । सूत्रे पष्ठीबहुवचनस्य स्थाने प्रथमैकवचनं तदाह—आचार्योपसर्जनान्तेवासिनां द्वन्द्वे इति ॥—पाणिनीयरौ-ढीया इति । वृद्धाच्छः । रौढिशब्दात् ‘इजश्च’ इत्यण् ‘न द्यचः प्राच्यभरतेषु’ इति निषेधात् ॥—द्वन्द्वविशेषणार्थ-मिति । न त्वन्तेवासिविशेषणार्थं, तस्य आचार्योपसर्जनलाव्यभिचारात् । किमर्थं पुनर्द्वन्द्वविशेषणं विज्ञायत इत्याह—सकलो द्वन्द्व इत्यादि ॥—छान्दसेति । ‘छन्दोधीते’ इत्यण् । ‘श्रोत्रियंश्छन्दोऽधीते’ इति तु न तत्र वाग्रहणानुवृत्तेः ॥—आपिशलपाणिनीये इति । आपिशलस्यापत्यमापिशलिराचार्यः । तेन प्रोक्तमापिशलम् । ‘इजश्च’ इत्यण् । पाणि-निना प्रोक्तं पाणिनीयम् । वृद्धाच्छः । आपिशलं च पाणिनीयं च आपिशलपाणिनीये
SK 3771 · A 6.2.37V
कार्तकौजपादयश्च ॥ ३७७१ ॥
kārtakaujapādayaśca
Siddhānta-kaumudī
एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ॥
Subodhinī
NSP p. 647
—कार्त—कुर्भूमिः तत्र जाताः कुजाः तान् पातीति कुजपः । कृतकुजपाभ्यामपत्ये श्रुध्यण् । सावर्णिरिजन्तः । माण्डूकेयशब्दो ‘ढक् च मण्डूकात्’ इति ढगन्तः ॥—महाव्रीहिरिति । ‘आन्महतः—’ इत्यालम्
SK 3772 · A 6.2.38V
महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३७७२ ॥
mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu
Siddhānta-kaumudī
महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-SK 740इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ॥
Subodhinī
alignment inferredNSP p. 647–648
—महेष्वास इति । अत्रैकारः ‘स्वरितो वानुदात्ते पदादौ’ इति खरितो वा । आदिपदेन महाजावालः, महाभारः, महाभारतः, महाहैलिहिलः, महरौरवः । महाप्रवृद्धः । महच्छव्दोन्तोदात्त इति ‘वर्तमाने पृष्ठन्महत्—’ इत्यत्र तथा निपातनात् ॥—सन्महदिति । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । ननु प्रवृद्धप्रहणमनर्थकं ‘कर्मधारये निष्ठा’ इति वक्ष्यमाणेनैव सिद्धत्वात् । ‘कृद्धहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति प्रवृद्धशब्दस्य क्तान्तत्वादिति चेन्न । कर्मधारये निष्ठेत्यत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः समासः श्रेण्यादिस्तस्यैव ग्रहणमित्यर्थः
SK 3773 · A 6.2.39V
क्षुल्लकश्च वैश्वदेवे ॥ ३७७३ ॥
kṣullakaśca vaiśvadeve
Siddhānta-kaumudī
चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥
Subodhinī
NSP p. 648
—श्रुलुक—। श्रुलुकमहच्छब्दौ पूर्वपदे प्रकृतिखरौ स्तः वैश्वदेवशब्दे परे ॥—श्रुलुकेति । ‘आतोऽनुपसर्गे कः’ । ‘तोर्लिं’ इति परसवर्णः
SK 3774 · A 6.2.40V
उष्ट्रः सादिवाम्योः ॥ ३७७४ ॥
uṣṭraḥ sādivāmyoḥ
Siddhānta-kaumudī
उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ॥
Subodhinī
NSP p. 648
—उष्ट्रः—। उष्ट्रः पूर्वपदं प्रकृतिखरं स्यात्सादिवाम्योः परतः ॥—उषेः पूनीति । उष दाहे अस्मात् पूनिति वर्तमाने ‘उषिखनिभ्यां कित्’ इति व्युत्पादितत्वात्
SK 3775 · A 6.2.41V
गौः सादसादिसारथिषु ॥ ३७७५ ॥
gauḥ sādasādisārathiṣu
Siddhānta-kaumudī
गोसादः । गोसादिः । गोसारथिः ॥
Subodhinī
NSP p. 648
—गौः साद—। गोशब्दः पूर्वपदं प्रकृत्या सादादिपूत्तरपदेषु ॥—गोसाद इत्यादि । सदेर्घञ् । तदन्तेन षष्ठीसमासः । अथ वा गां सादयतीति गोसादः । सदेर्ण्यन्तात्कर्मण्यण् तस्मादेव णिनिः । गोसादी । तत्र सादसादिनोः कृत्स्वरस्यापवाद इत्यर्थः । सारथौ समासखरस्य ॥—कुरु—। इह पण्यकम्बलान्ताः सप्त समासाः । तत्रादिनोर्द्वयोः षष्ठ्याः सात्रौ लुक् इतरेषां पञ्चानां षष्ठ्याः स्थाने प्रथमैकवचनं तदाह—एपामिति । दासीभाराणामिति बहुवचननिर्देशादायर्थोऽवगम्यते तदाह—दासीभारादेरिति
SK 3776 · A 6.2.42V
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च ॥ ३७७६ ॥
kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūḥpaṇyakambalo dāsībhārāṇāṃ ca
Siddhānta-kaumudī
एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः । कुरुः ।
vārttika
वृजेरिति वाच्यम्
(वार्तिकम्) ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।रिक्ते विभाषा SK 3696 इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः ।
vārttika
पण्यकम्बलः संज्ञायामिति वक्तव्यम्
(वार्तिकम्) ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव प्रतिपदोक्ते समासे कृत्याः SK 2831 इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् (स रा॒ये स पुरं॑ध्याम्) । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च SK 3271 इति किप्रत्ययः । अलुक् छान्दसः । (फिट्)नब्विषयस्य इत्याद्युदात्तः पुरशब्दः ॥
Subodhinī
alignment inferredNSP p. 648
—उप्रत्ययान्त इति । ‘कृप्रोरुच्च’ इति व्युत्पादितत्वात्प्रत्ययखरेणान्तोदात्तोऽयम् ॥—आद्युदात्त इति । वृजी वर्जने ‘इगुपधात्कित्’ इतीन्नन्तत्वात् फिषस्तु ‘इगन्तानां च ब्रणम्’ इत्यादिर्द्वितीयो वोदात्तः । एवं कुरुरपि । रिक्तगुर्वादयत्रयः कर्मधारयाः ॥—असूतजरती । अश्लीलदृढरूपेति । असूताश्लीलशब्दौ नञ्समासत्वादाद्युदात्तौ ॥— श्रीर्यस्यास्तीति । श्रीशब्दो लावण्यवचनः ॥—कपिलकादित्वालुत्वमिति । ‘कृपो रो लः’ इत्यत्र कपिलकादीनामुपसंख्यानाल्लत्वम् । लावण्यरहितापि कुब्जलादीनामभावात्संस्थानमात्रेण दृढेत्यर्थः ॥—पारेवडवेति । ‘पारेमध्ये—’ इत्यव्ययीभावस्तु न । तथा सति सूत्रे दीर्घनिर्देशोऽयुक्तः स्याद् वडवायाः पारस्यासंभवाच्च ॥—तिलिनोऽपत्यमिति । तिलाः सन्त्यस्मिन्निति तिली । तिलशब्दान्मत्यर्थीय इनिः टिलोपः । पृषोदरादित्वात्तिशब्दस्य द्वित्वम् । अत्र यदाऽपत्येण तदा ‘नस्तद्धिते’ इति टिलोपः । यदा तु छात्रे तदानीम् ‘इनण्यनपत्ये’ इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्यनेन टिलोपः ॥—पण्यशब्दे इति । ‘अवयपण्य—’ इति यदन्तो ‘यतोऽनावः’ इत्याद्युदात्तः ॥—संज्ञायामिति । नियतप्रमाणकस्य नियतमूल्यस्य कम्बलस्यैषा संज्ञा ॥—समासान्तोदात्तत्वमेवेति । ननु पण्यशब्दस्य कृत्यप्रत्ययान्तत्वात् ‘तत्पुरुषे तुल्यार्थं—’इत्यादिना पूर्वपदप्रकृतिखरेण भाव्यमत आह—प्रतिपदोक्ते हीति । ‘कृत्यतुल्याख्या अजात्या’ इति यः कृत्यसमासः प्रतिपदोक्तस्तत्रैव सः । अयं तु ‘विशेषणं विशेष्येण—’ इति सामान्यलक्षणविहितः कम्बलशब्दस्य जातिवचनत्वात् । न च ‘कृत्यतुल्याख्या अजात्या’ इत्यस्य वैयर्थ्यं शङ्क्यम् । तद्धि गुणक्रियावाचिनोरनियमेन पूर्वनिपातप्रसन्ने कृत्यान्तस्य पूर्वनिपातार्थं वचनं ननु जातिनिषेधार्थमजात्येति वचनं न्यायसिद्धार्थानुवाद एवेति स्थितम् ॥—दासीभार इति । ‘दंसेष्टो न आ च’ इति टित्वान्झीप् । उदात्तनिवृत्तिखरेण दासीशब्दोऽन्तोदात्तः ॥—देवद्वृतिरिति । देवः पञ्चाशजन्तः ॥यत्र एकत्वमस्येत्यपि केवलं दासीभारादेरीकृतिपणत्यं शर्शितम्
SK 3777 · A 6.2.43V
चतुर्थी तदर्थे ॥ ३७७७ ॥
caturthī tadarthe
Siddhānta-kaumudī
चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ॥
Subodhinī
NSP p. 648–649
— चतुर्थी-। तस्मै इदं तदर्थं तच्छब्देन चतुर्थ्यन्तस्यार्थं उच्यते तदाह—चतुर्थ्यन्तार्थाय यदिति ॥—यूपदाविति । निदिति दीर्घश्चेत्यनुवर्तमाने ‘कुयुभ्यां च’ इति पः । नित्वादाद्युदात्तो यूपशब्दः ॥—देवार्थमिति । देवः पचाय-जन्तः ॥—गोहितमिति । ‘चतुर्थी चाशिष्य—’ इत्यादिना चतुर्थी ॥—आद्युदात्त इति । श्रिष् सेवायाम् । ‘वहिश्रियु-दुग्लाहात्परिभ्यो नित्’ इति निप्रत्ययस्य नित्वादाद्युदात्तः ॥—पूगशब्द इति । ‘मुदिग्रोग्गौ’ वाहुलकात्प्लोऽपि गक् ॥—कृताकृतमिति । ‘केन निञ्विशिष्टेनानञ्’ इति समासः । अनिष्टेत्यनुच्यमाने इहैव स्यात् । श्रेण्यादिसमासापेक्षया ‘केन नञ्विशिष्टेन—’ इति समासस्य प्रतिपदोक्तत्वादिति हरदत्तः
SK 3778 · A 6.2.44V
अर्थे ॥ ३७७८ ॥
arthe
Siddhānta-kaumudī
अर्थे परे चतुर्थ्यन्तं प्रकृत्या देवार्थम् ॥
SK 3779 · A 6.2.45V
क्ते च ॥ ३७७९ ॥
kte ca
Siddhānta-kaumudī
क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥
SK 3780 · A 6.2.46V
कर्मधारयेऽनिष्ठा ॥ ३७८० ॥
karmadhāraye'niṣṭhā
Siddhānta-kaumudī
क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ॥
SK 3781 · A 6.2.47V
अहीने द्वितीया ॥ ३७८१ ॥
ahīne dvitīyā
Siddhānta-kaumudī
समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-SK 3878 इत्यस्यापवादोऽयम् ॥
Subodhinī
NSP p. 649
—अहीने—। हीनं त्यक्तं न हीनमहीनम् ॥—अहीनवाचि समास इति । पूर्वपदद्वारेण समासस्याहीनवाचित्वम् ॥—कष्टश्रित इति । ‘द्वितीयाश्रिता—’ इति समासः ॥—कष्ट-शब्द इति । कान्तत्वात् ॥—ग्रामशब्द इति । ‘प्रसेरा च’ इति मन्प्रत्ययान्त आद्युदात्तः ॥—अनुपसर्ग इति वक्तव्यमिति । सूत्रेऽहीनग्रहणमपनीयानुपसर्गग्रहणं कर्तव्यं व्यापकत्वादित्यर्थः ॥—थाथेत्यस्यापवाद इति । तथा च प्रत्युदाहरणे थाथादिस्वर इति भावः
SK 3782 · A 6.2.48V
तृतीया कर्मणि ॥ ३७८२ ॥
tṛtīyā karmaṇi
Siddhānta-kaumudī
कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥
Subodhinī
NSP p. 649
—तृतीया ॥—त्वोतास इति । त्वया ऊताः रक्षिताः त्वोतासः । ‘प्रत्ययोत्तर-पदयोश्च’ इति मपर्यन्तस्य त्वादेशे दकारलोपश्छान्दसः । अवतेः कः ‘ज्वरत्वर—’ इत्यूद् । ‘एत्येषत्यूद्’ इति वृद्धिरित्वा-गमस्य चाभावश्छान्दसः । तदन्ताज्जसः ‘आज्जसेरमुक्’ इत्यसुगागमः । पूर्वपदप्रकृतिस्वरे कृते ‘एकादेश उदात्तेनोदात्तः’ । ततः स्वरितप्रचयः ॥—रगन्त इति । ‘रोदेर्णिल्लक् च’ इति विहितः ॥—महाराजहत इति । ‘राजाहःसखिभ्यष्टव्’ इति ठजन्तो महाराजशब्दोऽन्तोदात्तः ॥—रथेन यात इति । गत्यर्थत्वात्कर्तारे क्तः ॥—पुरोहितमिति । ‘पूर्वाधरावराणामसिपुरधवधैषाम्’ इत्यसिप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः पुरःशब्दः । अत्र समासान्तोदात्तत्वम् अव्ययपूर्वपदप्रकृतिस्वरः कृत्स्वरः थाथादिस्वर इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिस्वरो भवति
SK 3783 · A 6.2.49V
गतिरनन्तरः ॥ ३७८३ ॥
gatiranantaraḥ
Siddhānta-kaumudī
कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-SK 3878 इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ॥
Subodhinī
alignment inferredNSP p. 649–650
—अभ्युद्धृत इति । इह हतशब्दस्योच्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेणाद्युदात्त उद्धृतशब्दस्तस्य पुनरभिशब्देन समासः । तस्य ‘कृद्धहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति परिभाषया उद्धृतशब्दः कान्त उत्तरपदम् । एवं समासान्तोदात्तत्वे प्राप्ते तद्वाधकाव्ययपूर्वपदप्रकृतिस्वरत्वे तदपवादे कृत्स्वरे तदपवादस्थाथादिस्वरः प्राप्तस्तमपोह्याभेरयं स्वरः स्यात्सोऽनन्तरग्रहणेन वार्यते । नन्वनन्तरग्रहणेनाप्यसौ दुर्वारः कृद्धहणपरिभाषया उद्धृतशब्दस्य कान्तत्वेऽमेस्तदानन्तर्यसत्त्वादिति चेन्मैवम् । अनन्तरग्रहणसामर्थ्याद्धि धातोरनन्तरा गतिराधीयते । अभिश्च न तथा । नन्वेवं मा भूदमेः स्वर इष्टसिद्धिस्तु कथम् । अभ्युद्धृतशब्दे हि उच्छब्दस्य स्वर इष्यते ‘संसृष्टं धनमुभयं समाकृतम्’ इति मन्त्रे समाकृतशब्दे आङः स्वरदर्शनात् । न चासौ प्रकृतसूत्रेण सिद्ध्यति । प्रथमसमासे तत्प्रवृत्तावपि द्वितीयसमासे थाथादिस्वरस्य प्राप्तेरुक्तत्वात् । न च तं वाधित्वा गतिस्वरः प्रवर्तत इति वाच्यम् । द्वितीयसमासे उदः पूर्वपदलाभावात् । अत्रोच्यते । धातोरनन्तर इति व्याख्यानादेव पूर्वपदत्वं विनापि खरोऽयं प्रवर्तते । न हि क्तप्रकृतिभूतं धातुं प्रति पूर्वपदत्वं गतेः संभवति । तस्मादभ्युद्धृतं समासकृतमिति तावत्सुस्थम् । ननु दूरादागत इत्यादौ कारकपूर्वेऽपि गतिस्वरः स्यात् इष्यते तु थाथादिस्वरः अत आह—कारकपूर्वेति । अयं भावः । अनन्तरशब्दोऽयमनन्तरमपेक्ष्य प्रवर्तते तत्र चानन्तरो गतिरित्युक्ते अनन्तरोऽपि संनिधानाद्गतिरेव प्रतीयते । ततश्चापूर्वपदार्थमप्यनन्तरग्रहणं गतिद्वयसमवधाने एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागतादौ न दोष इति । अथ वा ‘कारकादत्तश्रुतयोः’ इति सूत्रे कारकादिति योगो विभज्यते क्तग्रहणं गतिग्रहणं चानुवर्तते । कारकात्परं कान्तं सगतिकसुत्तरपदमन्तोदात्तं स्यादित्यर्थः । तत्र दूरादात् इत्यादौ थाथादिसूत्रेणैव सिद्धत्वात् दूरादागत इत्यादौ ‘गतिरनन्तरः’ इत्यस्य घाधनार्थमेवेदं सूत्रमिति दिक् ॥—दूरादागत इति । ‘स्तोकान्तिक—’ इति समासः । ‘पञ्चाम्याः स्तोकादिभ्यः’ इत्यलङ्क् ॥—प्रभूताविति । किन्नयम्
SK 3784 · A 6.2.50V
तादौ च निति कृत्यतौ ॥ ३७८४ ॥
tādau ca niti kṛtyatau
Siddhānta-kaumudī
तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ॥
Subodhinī
alignment inferredNSP p. 650
—प्रजल्पाक इति । ‘जल्पभिक्षुकुट्टलुण्टवृङः षाकन्’ ॥—आगन्तुरिति । ‘सितनिगमिमव्यविधात्रकुशिभ्यस्तुन्’ । ननु कृतीति व्यर्थम् । तथा हि गतेरयं स्वरो विधीयते, गतिसंज्ञा च धातुमाक्षिपति स च प्रत्ययविशिष्ट एव प्रयोगार्हः । धातोश्च द्वये प्रत्ययाः तिङः कृतश्च । तत्र तिङन्ते पूर्वपदत्वासंभवाद् कृदन्त एव भविष्यतीति चेत्सत्यम् । कृद्धहणं कृत्संज्ञाप्रवृत्तिकालोपलक्षणार्थं, तेन कृद्रुपदेशे तादित्वलाभात्प्रलपितेत्यादि सिद्ध्यति । स्वरप्रवृत्तिवेलायां तादित्वाभावेऽपि पूर्वं तत्सत्त्वात् । आदिग्रहणं शक्यमकर्तुं ‘यस्मिन्विधिः—’ इत्येव सिद्धेः
SK 3785 · A 6.2.51V
तवै चान्तश्च युगपत् ॥ ३७८५ ॥
tavai cāntaśca yugapat
Siddhānta-kaumudī
तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ॥
Subodhinī
NSP p. 650
—तवै चा—॥—अन्त उदात्त इति । कथं पुनरन्तरेणोदात्तग्रहणमुदात्तो भवतीत्ययमर्थो लभ्यते । शृणु । प्रकृत्येति वर्तते तत्रैवमभिसंवन्धः क्रियते । तवैप्रत्ययान्तस्य यः प्रकृत्याश्रयः स्वरः प्राप्तः सोऽन्तस्य भवतीति स चोदात्त एवेति युगपद्धहणं पर्यायनिवृत्यर्थम् ॥—अन्वेतवा उ इति । ‘उपसर्गाश्चाभिवर्जम्’ इत्यनुराद्युदात्तः
SK 3786 · A 6.2.52V
अनिगन्तोऽञ्चतौ वप्रत्यये ॥ ३७८६ ॥
aniganto'ñcatau vapratyaye
Siddhānta-kaumudī
अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ॥
Subodhinī
NSP p. 650
—अनिगन्तोऽञ्चतौ—॥—पराञ्च इति । ‘ऋत्विक्—’ इत्यादिना किन् स च वकारमात्रं ककारादीनामनुवन्धत्वात् । ‘उगिदचाम्—’ इति शुम् पराशब्द आद्युदात्तः ॥—प्रत्यञ्च इति । कृदुत्तरपदप्रकृतिस्वरः ॥—परत्वादिति । चुस्वरस्यावकाशः । दधीचा यत्र गतिर्नास्ति । अनिगन्तस्वरस्यावकाशः पराश्वः इत्यादावुभयप्रसङ्गे परत्वादनिगन्तस्वर एव भवति । न चायं युक्तो विप्रतिषेधः । चुस्वरः सति शिष्टः भसंज्ञायामल्लोपे च कृते प्राप्तत्वात् । सत्यम् । नायं विप्रतिषेधः । किं तर्हि इष्टिरेव । चोः ‘अनिगन्तोऽश्वतावप्रत्यये’ इत्येव स्वर इष्यत इति हरदत्तः । इहापि मूले परत्वादित्यस्येष्टत्वादित्यर्थः
SK 3787 · A 6.2.53V
न्यधी च ॥ ३७८७ ॥
nyadhī ca
Siddhānta-kaumudī
वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । नयङ्ङुत्तानः (न्य॑ङ्ङुत्ता॒नः) । उदात्तस्वरितयोर्यण् इति अञ्चतेरकारः स्वरितः । अध्यङ् ॥
Subodhinī
NSP p. 650
—न्यधी च । अत्रापि चुस्वरादयमेव । कृत्स्वरापवादौ योगौ
SK 3788 · A 6.2.54V
ईषदन्यतरस्याम् ॥ ३७८८ ॥
īṣadanyatarasyām
Siddhānta-kaumudī
ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ॥
Subodhinī
NSP p. 650
—ईषदन्य । ईषच्छब्दः पूर्वपदं प्रकृतिस्वरं वा स्यात् ॥—अन्तोदात्त इति । फिद्रस्वरेण । एतदभावे समासान्तोदात्तत्वम् ॥—ईषद्भेद इति । ‘ईषदुःसुषु कृच्छ्रकृच्छ्रार्थेषु खल्ल’ ॥—कृत्स्वर एव भवतीति । परत्वात् । अथ वा ईषद्गुणवचनेनेति प्रतिपदोक्तसमासप्रहणादुपपदसमासेऽस्याप्रवृत्तिरिति ॥—द्वेषुवर्णे इति । ‘पञ्चकृष्णलक्ष्यो माषस्ते सुवर्णास्तु षोडश । पलं सुवर्णाश्वत्वारः’ इति
SK 3789 · A 6.2.55V
हिरण्यपरिमाणं धने ॥ ३७८९ ॥
hiraṇyaparimāṇaṃ dhane
Siddhānta-kaumudī
सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥
Subodhinī
alignment inferredNSP p. 650
—द्विसुवर्णमिति । पक्षे समासस्वरः ॥—वहुश्रीहावपीति । अत्र तत्पुरुषाधिकाराभावात्
SK 3790 · A 6.2.56V
प्रथमोऽचिरोपसम्पत्तौ ॥ ३७९० ॥
prathamo'ciropasampattau
Siddhānta-kaumudī
प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥
Subodhinī
NSP p. 650
—प्रथमो— अचिरोपसंपत्तिरचिरोपसंल्लेषः । अभिनवलमित्यर्थः । तदाह—अभिनवत्व इति ॥—अचीति किमिति । अचिरोपसंपत्ताविति किमर्थमित्यर्थः ॥—प्रथमवैयाकरण इति । वैयाकरणानामाद्यः मुख्यो वा यः प्रथमवैयाकरणशब्दः स नित्यमन्तोदात्त एव ॥—कतर— एतौ पूर्वपदभूतौ कर्मधारये प्रकृतिस्वरौ वा स्यातां कतरकतमौ डतरडतमयोश्चित्त्वादन्तोदात्तौ ॥—इहत्वित्यादि । ‘कतरकतमौ जातिपरिप्रश्ने’ इति प्रतिपदोक्तो यः समासस्तस्यैव ग्रहणम् । स च कर्मधारय एव । तस्मान्नेहार्थः कर्मधारयग्रहणेनेति भावः
SK 3791 · A 6.2.57V
कतरकतमौ कर्मधारये ॥ ३७९१ ॥
katarakatamau karmadhāraye
Siddhānta-kaumudī
वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥
SK 3792 · A 6.2.58V
आर्यो ब्राह्मणकुमारयोः ॥ ३७९२ ॥
āryo brāhmaṇakumārayoḥ
Siddhānta-kaumudī
आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ॥
Subodhinī
NSP p. 650
—आर्यो ब्राह्मण— ब्राह्मणकुमारयोरुत्तरपदयोर्ण्यः पूर्वपदं प्रकृतिस्वरं वा स्यात्कर्मधारये ॥—अनन्तस्वरिति इति । तत्स्वरितम् इत्यनेन ॥—ब्राह्मणादीति किमिति । ब्राह्मणकुमारयोरिति किमर्थमित्यर्थः
SK 3793 · A 6.2.59V
राजा च ॥ ३७९३ ॥
rājā ca
Siddhānta-kaumudī
ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ॥
Subodhinī
alignment inferredNSP p. 651
—राजब्राह्मण इति । राजशब्दो ब्राह्मणे तादृश्यर्द्धतेत इति सामानाधिकरण्यात्कर्मधारयः । राजशब्दः कनिन्प्रत्ययान्तलादाद्युदात्तः ॥—उत्तरार्थ इति । उत्तरो विधिः राजशब्दस्यैव यथा स्यादार्थशब्दस्य मा भूत् । यथासंख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनं ज्ञेयम्
SK 3794 · A 6.2.60V
षष्ठी प्रत्येनसि ॥ ३७९४ ॥
ṣaṣṭhī pratyenasi
Siddhānta-kaumudī
षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ॥
Subodhinī
alignment inferredNSP p. 651
—राजप्रत्येना इति । प्रतिगतमेनः पापं यस्य प्रत्येनाः । राज्ञः प्रत्येनाः ॥—अन्यत्र नेति । राजा चासौ प्रत्येनाश्च राजप्रत्येना इत्यत्र
SK 3795 · A 6.2.61V
क्ते नित्यार्थे ॥ ३७९५ ॥
kte nityārthe
Siddhānta-kaumudī
क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः SK 690 इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ॥
Subodhinī
alignment inferredNSP p. 651
—द्वितीयासमासोऽयमिति । द्वितीया पुनरत्यन्तसंयोगे । अथवा ‘अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्’ ॥—त्यवन्त इति । ‘त्यवन्तेर्ध्रुवे’ इति त्यप् ॥—मुहूर्तप्रहसित इति । थाथादिस्वरः । समासस्वरस्य द्वितीयापूर्वपदप्रकृतिस्वरो वाधकस्तस्य थाथादिस्वरः तस्यापि पाक्षिकोऽपवादोऽयम्
SK 3796 · A 6.2.62V
ग्रामः शिल्पिनि ॥ ३७९६ ॥
grāmaḥ śilpini
Siddhānta-kaumudī
वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ॥
Subodhinī
NSP p. 651
—ग्रामः—। ग्राम इति स्वरूपग्रहणम् । शिल्पिनीत्यर्थग्रहणम् । ग्रामशब्दः पूर्वपदप्रकृतिस्वरं वा स्याच्छिल्पिवाचिन्युत्तरपदे ॥—ग्रामनापित इति । षष्ठीसमासः ॥—आद्युदात्त इति । ‘प्रसेरा च’ इति मनिन् नित्वादाद्युदात्तः
SK 3797 · A 6.2.63V
राजा च प्रशंसायाम् ॥ ३७९७ ॥
rājā ca praśaṃsāyām
Siddhānta-kaumudī
शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ॥
Subodhinī
alignment inferredNSP p. 651
—राजनापित इति । कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा । षष्ठीसमासे च राजयोग्यतया तस्य प्रशंसा । स हि कर्मणि प्रवीणलाद्राजानं प्रति योग्यो भवति । राजार्थमित्युक्ते प्रशंसा गम्यते । आदिरुदात्तः । पूर्वपदमित्यस्येहार्थात्षष्ठ्या विपरिणामः । सर्वत्र चात्र प्रकरणे पूर्वपदविषये षष्ठ्यर्थे प्रथमा ॥—सम्मी—। हारीत्यावश्यके णिनिः । जनपदे ग्रामे कुले वा परंपरयायातः सदाचारो धर्मस्तस्मादनपेतं धर्म्यम् । ‘धर्मपध्यर्थ—इति यत् । तेन च प्राप्यमित्यर्थे ‘नौवयोधर्म—’ इत्यादिना यत् । आचारवशादवश्यं कर्तव्यमित्यर्थः । हारिण्युदाहरणान्याह—याज्ञिकाश्वेति । षष्ठीसमासः
SK 3798 · A 6.2.64पूर्वपदाद्युदात्तस्वराधिकारः
आदिरुदात्तः ॥ ३७९८ ॥
ādirudāttaḥ
Siddhānta-kaumudī
अधिकारोऽयम् ॥
SK 3799 · A 6.2.65V
सप्तमीहारिणौ धर्म्येऽहरणे ॥ ३७९९ ॥
saptamīhāriṇau dharmye'haraṇe
Siddhānta-kaumudī
सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् SK 721 इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ॥
Subodhinī
alignment inferredNSP p. 651
—कर्मकरवर्द्धितक इति । वर्द्धितको नाम मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः स कर्मकराय दीयते । अन्यथा कर्म न कुर्यादिति । न त्वयं धर्मः ॥—वाडवहरणमिति । क्वचिदयमाचारः । वीजनिषेकानन्तरं वाडवाय शरीरपुष्पर्थं योग्यमशनादि दातव्यं यदीयते तद्वाडवहरणमित्युच्यते । अत्रास्मिन् स्वरे निषिद्धे कृत्स्वरे प्राप्तेऽनोभावकर्मवचन इत्युत्तरपदान्तोदात्तत्वम् । ननु परलादेवायं स्वरो भविष्यति किं प्रतिषेधेनेत्यत आह—परोऽपीति ॥—युक्तवाचिनीति । युक्तः कर्तव्ये तत्परः तद्वाचिनीत्यर्थः । गोवल्लवः । वल्लवादयः शब्दा गवादीनां पालकवचनाः
SK 3800 · A 6.2.66V
युक्ते च ॥ ३८०० ॥
yukte ca
Siddhānta-kaumudī
युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ॥
SK 3801 · A 6.2.67V
विभाषाऽध्यक्षे ॥ ३८०१ ॥
vibhāṣā'dhyakṣe
Siddhānta-kaumudī
गवाध्यक्षः ॥
Subodhinī
NSP p. 651
—विभाषा—। अध्यक्षशब्दे परे पूर्वपदमाद्युदात्तं वा स्यात् । अध्यक्षशब्दोऽपि समासे युक्तवाच्येवेति पूर्वेण नित्ये प्राप्ते विकल्पः ॥—पापं—। पापमिति स्वरूपग्रहणं शिल्पिनीत्यर्थग्रहणं व्याख्यानात् । शिल्पिवाचिनि परे पापशब्दः पूर्वपदमाद्युदात्तं वा स्यात्
SK 3802 · A 6.2.68V
पापं च शिल्पिनि ॥ ३८०२ ॥
pāpaṃ ca śilpini
Siddhānta-kaumudī
पापनापितः । पापाणके-SK 733 इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ॥
SK 3803 · A 6.2.69V
गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ३८०३ ॥
gotrāntevāsimāṇavabrāhmaṇeṣu kṣepe
Siddhānta-kaumudī
भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ॥
Subodhinī
NSP p. 651–652
—गोत्रान्तेवासि—। गोत्रवाचिनि अन्तेवासिवाचिनि चोत्तरपदे माणवत्राह्मणयोश्च परतः क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं स्यात् ॥—भार्यासौश्रुत इति । सुशृणोतीति सुश्रुत तस्यापत्यं सौश्रुतः ॥—भार्याप्रधानतयेति । भार्याप्रधानः सौश्रुत इति शाकपार्थिवादिलादुत्तरपदलोपी समास इति दर्शयति । दक्षेण प्रोक्तं दाक्षं तदधीते दाक्षः ॥—कुमार्यादिलाभकाम इति । तत्प्रोक्ते ग्रन्थे श्रद्धायामसत्यामपि कुमार्यादिलाभकामः संस्तत्र प्रवर्तते तत एवं क्षिप्यते । पूर्ववत्समासः ॥—भयब्राह्मण इति । तृतीयेति योगविभागात्समासः । योऽब्राह्मणः सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति स एवमुच्यते
SK 3804 · A 6.2.70V
अङ्गानि मैरेये ॥ ३८०४ ॥
aṅgāni maireye
Siddhānta-kaumudī
मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ॥
Subodhinī
NSP p. 652
—अङ्गानि—अङ्गमारम्भकम् । बहुवचनं स्वरूपविधिनिरासार्थम् । मैरेयशब्दे उत्तरपदे तदर्थारम्भकवाचीनि पूर्वपदान्याद्युदात्तानि स्युः ॥—मद्यविशेष इति । सुराव्यतिरिक्तं मद्यं मैरेयमित्यर्थः
SK 3805 · A 6.2.71V
भक्ताख्यास्तदर्थेषु ॥ ३८०५ ॥
bhaktākhyāstadartheṣu
Siddhānta-kaumudī
भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ॥
Subodhinī
NSP p. 652
—भक्ताख्या—अन्नवाचि पूर्वपदमाद्युदात्तं स्यात्तदर्थेषूत्तरपदेषु । अत्र बहुवचननिर्देशादेव स्वरूपविधिनिरासे सिद्धे आख्याग्रहणं भक्ष्यविशेषवाचिनां भिक्षादीनां ग्रहणार्थम् । अन्यथा पर्यायाणामेवान्नादीनां ग्रहणं स्यात् । भिक्षाकंसादयः षष्ठीसमासाः । तादध्यें चतुर्थीसमासस्तु न भवति प्रकृतिविकार एव तस्येष्टत्वात् ॥—बहुव्रीहिरिति । तत्पुरुषश्चेदन्तोदात्तः
SK 3806 · A 6.2.72V
गोबिडालसिंहसैन्धवेषूपमाने ॥ ३८०६ ॥
gobiḍālasiṃhasaindhaveṣūpamāne
Siddhānta-kaumudī
धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ॥
Subodhinī
NSP p. 652
—गोविडाल—उपमानशब्दे प्रत्येकं संवन्धादेकवचनम् । गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमाद्युदात्तं स्यात् ॥—धान्यगव इति । अत्रोपमितसमासे ‘गोरतद्धितलुकि’ इति टच् । अत्र पूर्वपदाद्युदात्तविधानसामर्थ्याद्वित्स्वरो बाध्यते । उपमानार्थो यो यत्रोदाहरणे यथा संभवति स तथा योजयितव्यः । तत्र दिब्बात्रं दर्शयति—गवाकृत्येत्यादि । आकृतिः संस्थानम् । संनिवेशितं व्यवस्थापितम् । एवमन्यत्रापि यत्किञ्चित्सादृश्यं योजयितव्यम् ॥—अके—जीविकार्थवाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदमाद्युदात्तं स्यात्
SK 3807 · A 6.2.73V
अके जीविकाऽर्थे ॥ ३८०७ ॥
ake jīvikā'rthe
Siddhānta-kaumudī
दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-SK 711 इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ॥
Subodhinī
alignment inferredNSP p. 652
—दन्तलेखक इति । ‘ण्वुल्तृचौ’ इति ण्वुल् ॥—प्राचाम्—प्राचां क्रीडायामिति श्रुतयोरेवान्वयसंभवान्मतेनेत्यध्याहारो न युज्यते इति तत्राह—प्राग्देशवर्तिनां या क्रीडेति । अजीविकार्थमिदम्
SK 3808 · A 6.2.74V
प्राचां क्रीडायाम् ॥ ३८०८ ॥
prācāṃ krīḍāyām
Siddhānta-kaumudī
प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् SK 3286 इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ॥
Subodhinī
alignment inferredNSP p. 652
—उद्दालकपुष्पभञ्जिकेति । ‘नित्यं क्रीडा’—इति समासः
SK 3809 · A 6.2.75V
अणि नियुक्ते ॥ ३८०९ ॥
aṇi niyukte
Siddhānta-kaumudī
अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ॥
Subodhinī
NSP p. 652
—अणि नियुक्ते—युजिर् योगे इत्यस्य नियुक्त इति रूपम् । नियुक्तः अधिकृतः स च कस्मिंश्चित्कर्तव्ये तत्परो न भवतीति नियुक्त इत्यनेन सिद्ध्यति । युक्त इति सूत्रे हि युज समाधौ दिवादिरात्मनेपदी गृह्यते । समाधिस्तत्परता । अत्र रौधादिकस्य स्वरितेतो ग्रहणं, योगः संवन्धमात्रम् ॥—छत्रधार इति । कर्मण्यण् ॥—शिदिप—नियुक्ते चेत्येव सिद्धे कृत्वः प्रतिषेधार्थं वचनम् ॥—तन्तुवाय इति । ‘ह्वावामश्व’ इत्यण् । आतो युक्
SK 3810 · A 6.2.76V
शिल्पिनि चाकृञः ॥ ३८१० ॥
śilpini cākṛñaḥ
Siddhānta-kaumudī
शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ॥
SK 3811 · A 6.2.77V
संज्ञायां च ॥ ३८११ ॥
saṃjñāyāṃ ca
Siddhānta-kaumudī
अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ॥
Subodhinī
NSP p. 652
—संज्ञायाम्—संज्ञायां विषयेऽणन्ते उत्तरपदे पूर्वपदमाद्युदात्तं स्यात् स चेदण् कृत्वो न भवति
SK 3812 · A 6.2.78V
गोतन्तियवं पाले ॥ ३८१२ ॥
gotantiyavaṃ pāle
Siddhānta-kaumudī
गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ॥
Subodhinī
NSP p. 652
—गोतन्ति—गोतन्तियवशब्दा आद्युदात्ताः स्युः पालशब्दे परे ॥—गोपाल इति । गाः पालयतीति विग्रहः ॥—तन्तिपाल इति । तनु विस्तारे क्तिन् । तन्तिर्ज्ञत्स्वरूपं विषये संरक्षणं
SK 3813 · A 6.2.79V
णिनि ॥ ३८१३ ॥
ṇini
Siddhānta-kaumudī
पुष्पहारी ॥
Subodhinī
NSP p. 652
—णिनि । णिन्नन्ते उत्तरपदे पूर्वपदमाद्युदात्तम्
SK 3814 · A 6.2.80V
उपमानं शब्दार्थप्रकृतावेव ॥ ३८१४ ॥
upamānaṃ śabdārthaprakṛtāveva
Siddhānta-kaumudī
उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥
Subodhinī
alignment inferredNSP p. 652–653
—उपमानम्—उष्ट्रको— शीत्यादि । ‘कर्तर्युपमाने’ इति णिनिः ॥—शब्दार्थप्रकृतौ किमिति । सूत्रं किमर्थमित्यर्थः ॥—चृकवश्चीति । कृत्स्वर एव भवति ॥—प्रकृतिरेवेत्यादि । असति प्रकृतिग्रहणे शब्दार्थात्परो णिनिस्तदन्ते उत्तरपदे इत्यर्थो विज्ञायेत । तथा च यत्रापि धातूपसर्गसमुदायाच्छब्दार्थात्परो णिनिस्तत्रापि स्यात् । ‘कृद्धहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति परिभाषया णिन्नन्तोत्तरपदलानपायात् । प्रकृतिग्रहणे तु न भवति । योऽत्र धातुर्नासौ शब्दार्थः । यश्च शब्दार्थो धातू-पसर्गसमुदायो न ततो णिनिविहित इति भावः । एवं किंशब्दार्थप्रकृतौ उपमानमेवेत्येव नियमो मा भूत्
SK 3815 · A 6.2.81V
युक्तारोह्यादयश्च ॥ ३८१५ ॥
yuktārohyādayaśca
Siddhānta-kaumudī
आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ॥
Subodhinī
NSP p. 653
—युक्ता-रोह्या-। युक्तारोह्यादयः समासा आद्युदात्ताः स्युः ॥—युक्तारोहीत्यादि । अत्र णिनीत्येव सिद्धे पूर्वोत्तरपदनियमार्थं सूत्रम् । यत्र युक्तादीन्येव पूर्वपदानि आरोह्यादीन्येवोत्तरपदानि तत्रैव यथा स्यादित्यर्थः ॥—क्षीरहोतेति । याजकादि-लात्षष्ठीसमासोऽयम् । समासस्वरापवादे कृत्स्वरे प्राप्ते तदपवादे मन्त्रिक्रिति तदपवादोऽयम् ॥—दीर्घकाश-दीर्घान्तं पूर्वपदं काशादीनि च पूर्वपदानि आद्युदात्तानि स्युर्जे उत्तरपदे ॥—कुटीज इति । ‘सप्तम्यां जनेर्जः’ ॥—उपसरज इति । ल्लीगवादिषु पुंसां गर्भाधानाय प्रथममुपसरणमुपसरः । ‘प्रजने सर्तेः’ इत्यप् तत्र जातः उपसरजः ॥—आमलकीज इति । दीर्घकाशेति वाधिला परलादयं स्वरः
SK 3816 · A 6.2.82V
दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ३८१६ ॥
dīrghakāśatuṣabhrāṣṭravaṭaṃ je
Siddhānta-kaumudī
कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥
SK 3817 · A 6.2.83V
अन्त्यात् पूर्वं बह्वचः ॥ ३८१७ ॥
antyāt pūrvaṃ bahvacaḥ
Siddhānta-kaumudī
बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ॥
SK 3818 · A 6.2.84V
ग्रामेऽनिवसन्तः ॥ ३८१८ ॥
grāme'nivasantaḥ
Siddhānta-kaumudī
ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ॥
Subodhinī
NSP p. 653
—ग्रामे—। सूत्रे निवसत्यस्मिन्निति निपूर्वाद्वसेः ‘वृव-सिवहिमासिसाधिगडिमण्डिनन्दिभ्यश्च’इति क्षच्—॥ मल्लग्राम इति । षष्ठीसमासः ॥—दाक्षिग्राम इति । दाक्षयो निवसन्त्यस्मिन्स उच्यते
SK 3819 · A 6.2.85V
घोषादिषु च ॥ ३८१९ ॥
ghoṣādiṣu ca
Siddhānta-kaumudī
दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः ॥
Subodhinī
alignment inferredNSP p. 653
—घोषा—। घोषादिषूत्तरपदेषु पूर्वपदमाद्युदात्तम् । अत्र निवसन्त इति केचिद्गुर्वर्तयन्ति । अपरे नानुवर्तयन्ति । तथा च दाक्षीणां घोषो निवासस्थानमित्यर्थे दाक्षिघोषशब्दे आद्युदात्तत्रं न भवति । मतान्तरे भवति
SK 3820 · A 6.2.86V
छात्र्यादयः शालायाम् ॥ ३८२० ॥
chātryādayaḥ śālāyām
Siddhānta-kaumudī
छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके SK 3857 इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ॥
Subodhinī
NSP p. 653
—छात्र्यादयः—। शालाशब्दे परे छात्र्यादय आद्युदात्ताः स्युः ॥—यदा शालान्त इत्यादि । ‘विभाषा सेनापुरा—’ इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति । छात्रि-शाला । तत्पुरुषे शालायामित्यस्यावकाशो यश्छात्र्यादिपूर्वो न भवति । प्रभुशालम् । क्षत्रियशालम् । यस्तु छात्र्यादिपूर्व-पदो नपुंसकलिङ्गश्च तत्र एकदेशविकृतस्यानन्यत्वादयमपि प्राप्नोति तत्पुरुषे शालायामित्यर्थं च । तत्र पूर्वविप्रतिषेधादयमेव भवतीति वामनहरदत्तौ
SK 3821 · A 6.2.87V
प्रस्थेऽवृद्धमकर्क्यादीनाम् ॥ ३८२१ ॥
prasthe'vṛddhamakarkyādīnām
Siddhānta-kaumudī
प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ॥
Subodhinī
NSP p. 653
—प्रस्थे—। मालादीनां चेति वचनादवृद्धमिति च्छेदः । कर्म्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् ‘वा नामधेयस्य वृद्धसंज्ञा वक्तव्ये’ति ॥—अकेति किमिति । अकर्म्यादीनां किमित्यर्थः
SK 3822 · A 6.2.88V
मालादीनां च ॥ ३८२२ ॥
mālādīnāṃ ca
Siddhānta-kaumudī
वृद्धार्थमिदम् । मालाप्रस्थः ॥
Subodhinī
alignment inferredNSP p. 653
—माला । प्रस्थे परे मालादी-नामादिरुदात्तः स्यात् ॥—शोणप्रस्थ इति । ‘एङ् प्राचां देशे’ इति शोणशब्दस्य वृद्धलम् ॥—अम-। महन्नववर्जितं पूर्वपदमिति । महद्वर्जितं नववर्जितं चेति प्रत्येकं संवन्धः ॥—महानगरमिति । ‘आन्महतः समानाधिकरण—’ इति महत आत्वे कृतेऽवर्णान्तत्वादस्ति प्राप्तिः ॥—नवार्ममिति । नवशब्दः प्रत्यग्रवचनोऽकारान्तः
SK 3823 · A 6.2.89V
अमहन्नवं नगरेऽनुदीचाम् ॥ ३८२३ ॥
amahannavaṃ nagare'nudīcām
Siddhānta-kaumudī
नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ॥
SK 3824 · A 6.2.90V
अर्मे चावर्णं द्व्यच्त्र्यच् ॥ ३८२४ ॥
arme cāvarṇaṃ dvyactryac
Siddhānta-kaumudī
अर्मे परे द्व्यच् त्र्यच् पूर्वमवर्णान्तमाद्युदात्तम् । गुप्तार्मम् । कुक्कुटार्मम् । अवर्णं किम् । बृहदर्मम् । द्व्यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ॥
SK 3825 · A 6.2.91V
न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ३८२५ ॥
na bhūtādhikasaṃjīvamadrāśmakajjalam
Siddhānta-kaumudī
अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् ।
vārttika
आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्
(वार्तिकम्) ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ॥
Subodhinī
alignment inferredNSP p. 653–654
—संघातविगृ-हीतार्थमिति । मद्रशब्दस्य केवलस्य नद्रादमशब्दस्य संघातस्य च तस्य प्रतिषेधार्थः ॥—मद्रादमार्ममिति । ‘अनो- श्मायः सरसां जातिसंज्ञयोः इति समासान्ते कृते अवर्णान्तमेतत् । तदेवं मद्रामम् । मद्राश्माममिति द्वे एवोदाहरणे । प्रायेण अश्माममिति तृतीयमप्युदाहरणं पठ्यते तद्वृत्त्यनुरोधादुक्तम् । अश्मशब्दस्यानकारान्तलम् । न च नलोपे कृतेऽवर्णान्तलम् । स्वरविधौ नलोपस्यासिद्धत्वात् । अपरे तु मद्राश्मग्रहणं संघातविगृहीतार्थमित्यस्य भाष्येऽदर्शनादसंगतमेतदित्याहुः ॥—दिवोदासायेति । 'दिवसश्च दासे' इति पक्ष्या अलुक्
Footnotes (NSP 1915 ed.)
NSP p. 654 —न कुमारत्वमेवेति । यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं तद्वयो न गृह्यत इत्यर्थः । एतच्च वयोग्रहणसामर्थ्याङ्गम्यते । अन्यथा कुमारीशब्दप्रयोगे नियोगतः प्रथमं वयो गम्यत इत्यनर्थकं स्यात् । ननु तर्हि कीवपि न स्यादिति चेच्छृणु । पूर्वं हि प्रथमं वयः प्रवृत्तिनिमित्तं कृत्वा कीपू कृतः सोऽन्तरङ्गो वृद्धादिसामानाधिकरण्येऽपि न निवर्तते ॥—परमकुमारीति । अत्र कुमारत्वमेव गम्यते न वयोन्तरमिति भवति प्रत्युदाहरणम् ॥—उदके—अकेवल इति पदच्छेदः । अन्यथाऽसंदेहार्थं केवल उदक इत्येव ब्रूयात्तदाह—अकेवलं मिश्रमिति । द्रव्यान्तरसंपृक्तं मिश्रम् ॥—गुडोदकमिति । गुडमिश्रमुदकं गुडोदकम् । शीतोदकमिति कर्मधारयः ॥—गर्गत्रिरात्रमिति । षष्ठीसमासः । तिष्ठणां रात्रीणां समाहारस्त्रिरात्रम् । ‘अहःसर्वैकदेश—’ इत्यादिनाचू समासान्तः । ‘संख्यापूर्वं रात्रं क्लीवम्’ इति क्लीवलम्, एवं सप्तरात्र इति । रात्रिमतिक्रान्त इति प्रादिसमासः । विल्वसप्तरात्रमित्यत्र विल्वशब्दो विल्वहोमे वर्तते तेन सह षष्ठीसमासः ॥—गोपालसभामिति । ‘अशाला च’ इति क्लीवलम् ॥—प्रतिपदोक्तेति । ‘सभाराजा—’ इत्यादिविहितम् ॥—रमणीयसभामिति । रमणीया सभा यस्येति ॥—पुरे प्रा—
SK 3826 · A 6.2.92पूर्वपदान्तोदात्तस्वाधिकारः
अन्तः ॥ ३८२६ ॥
antaḥ
Siddhānta-kaumudī
अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ॥
Subodhinī
NSP p. 654
—अन्तः । अत्रापि प्रकरणे पूर्वपदविषया प्रथमा पक्ष्यर्थे वेदितव्या ॥—सर्वं गुण— गुणकार्त्स्ये वर्तमानः सर्वः अन्तोदात्तः, यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्यं भवति ॥—सर्वश्चेत इति । 'पूर्वकालैक—' इत्यादिना कर्मधारयः । अत्र शौक्लेयेन गुणेन सर्वावयवानां व्याप्तिर्गम्यते ॥ आश्रयव्याप्त्येति । नतूज्ज्वलत्वेन ।
SK 3827 · A 6.2.93V
सर्वं गुणकार्त्स्न्ये ॥ ३८२७ ॥
sarvaṃ guṇakārtsnye
Siddhānta-kaumudī
सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ॥
Subodhinī
alignment inferredNSP p. 654
—सर्वसौवर्ण इति । विकारविषयमात्रं कार्त्स्यम् ॥—सर्वश्चेत इति । 'गुणात्तरेण तरलोपश्च' इति समासः तरप्रत्ययलोपश्च ॥—कार्त्स्ये किमिति । गुणवाचिन्युत्तरपदे सर्वशब्दस्तत्कार्त्स्येन व्यभिचरतीति प्रश्नः । अयं नियमः कर्मधारये न षष्ठीसमास इत्याह—सर्वेषामिति । गुणिकार्त्स्ये वर्तमानो न गुणकार्त्स्ये । सर्वेषामिति गुणसंबन्धे षष्ठी । पटस्य शौक्लेयमिति वद् गुणवाचिन एव प्रत्ययः । सर्वेषां पटानां द्रव्यान्तराधारश्चेतगुणापेक्षया सातिशयः श्वेतोगुण इत्यर्थः । यदा तु प्रतिपदोक्तत्वात् 'पूर्वकालैक—' इति समासो गृह्यते तदा कार्त्स्यग्रहणं मासु ॥—अञ्जनागिरिरिति । 'वनगिर्योः संज्ञायाम्' इति दीर्घः
SK 3828 · A 6.2.94V
संज्ञायां गिरिनिकाययोः ॥ ३८२८ ॥
saṃjñāyāṃ girinikāyayoḥ
Siddhānta-kaumudī
एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ॥
SK 3829 · A 6.2.95V
कुमार्यां वयसि ॥ ३८२९ ॥
kumāryāṃ vayasi
Siddhānta-kaumudī
पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ॥
Subodhinī
NSP p. 654–655
—कुमार्याम् । कुमारीशब्दे परे पूर्वपदमन्तोदात्तं स्याद्वयसि द्योत्ये ॥—वृद्धकुमारीति । विशेषणसमासः । 'पुंवत्कर्मधारय—' इति पुंवद्भावः ॥ ननु कुमारीशब्दः प्रथमे वयसि वर्तते तथा 'वयसि प्रथमे' इत्यनेन ङीवत्र विहितः तस्य कथं चरमवयोवाचिना वृद्धेन सामानाधिकरण्यमत आह—कुमारीत्यादि । कुमारीशब्दे द्वयं प्रवृत्तिनिमित्तं प्रथमं वयः पुंसा सहासंप्रयोगश्च, तत्रायमर्थं त्यक्त्वा द्वितीयमात्रे वर्तते तदा वृद्धादिसामानाधिकरण्यं प्रवृत्तिं नाप्यते ॥ पुरशब्दे परे प्राचां देशे पूर्वपदमन्तोदात्तं स्यात्
SK 3830 · A 6.2.96V
उदकेऽकेवले ॥ ३८३० ॥
udake'kevale
Siddhānta-kaumudī
अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ SK 3659 इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ॥
SK 3831 · A 6.2.97V
द्विगौ क्रतौ ॥ ३८३१ ॥
dvigau kratau
Siddhānta-kaumudī
द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अत्रिरात्रः । क्रतौकिम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ॥
SK 3832 · A 6.2.98V
सभायां नपुंसके ॥ ३८३२ ॥
sabhāyāṃ napuṃsake
Siddhānta-kaumudī
सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ॥
SK 3833 · A 6.2.99V
पुरे प्राचाम् ॥ ३८३३ ॥
pure prācām
Siddhānta-kaumudī
देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ॥
SK 3834 · A 6.2.100V
अरिष्टगौडपूर्वे च ॥ ३८३४ ॥
ariṣṭagauḍapūrve ca
Siddhānta-kaumudī
पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥
Subodhinī
NSP p. 655
—अरिष्ट—॥—पूर्वग्रहणं किमिति । अरिष्टगौडयोरिति वक्तव्यमिति प्रश्नः ॥—इहापि यथा स्यादिति । पूर्वग्रहणे हि सति बहुव्रीहिर्लभ्यते । अरिष्टगौडौ पूर्वौ यस्मिन्समास इति तेनारिष्टश्रितपुरं गौडभृत्यपुरमित्यत्रापि पूर्वपदमन्तोदात्तं भवति । असति तु पूर्वग्रहणे श्रितभृत्यशब्दाभ्यां व्यवहितलाच्चारिष्टगौडयोस्तावन्न स्यात् समुदाययोश्च सूत्रेऽनुपात्तलात् ॥—नेहास्ति—। ‘पुरे प्राचाम्’ इति प्राप्तः प्रतिषिध्यते
SK 3835 · A 6.2.101V
न हास्तिनफलकमार्देयाः ॥ ३८३५ ॥
na hāstinaphalakamārdeyāḥ
Siddhānta-kaumudī
पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥
Subodhinī
alignment inferredNSP p. 655
—मार्देयपुरमिति । ‘ढे लोपोऽकट्याः’ इत्युकारलोपः ॥—दिक्शब्दाः—। दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि स्युर्ग्रामादिषूत्तरपदेषु । चानराटे स्वरूपग्रहणमितरेष्वर्थग्रहणम्
SK 3836 · A 6.2.102V
कुसूलकूपकुम्भशालं बिले ॥ ३८३६ ॥
kusūlakūpakumbhaśālaṃ bile
Siddhānta-kaumudī
एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ॥
SK 3837 · A 6.2.103V
दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ ३८३७ ॥
dikśabdā grāmajanapadākhyānacānarāṭeṣu
Siddhānta-kaumudī
दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥
Subodhinī
alignment inferredNSP p. 655
—पूर्वेषुकामशमी । अपरकृष्णमृत्तिकेति । ‘दिक्संख्ये संज्ञायाम्’ इति समासः ॥—पूर्वपञ्चाला इति । समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्त इति पञ्चालैकदेशे पञ्चालशब्दः । ततः पूर्वशब्देन सामानाधिकरण्यात् ‘पूर्वापरप्रथम—’ इत्यादिना कर्मधारयः ॥—पूर्वयायातमिति । ययातिमधिकृत्य कृतो ग्रन्थ इत्यपि यायातशब्दः सिद्धः ॥—शब्दग्रहणमित्यादि । दिशि दृष्टः शब्द इत्युत्तरपदलोपी समासस्तेन कालवाचिनोऽपि ग्रहणात्पूर्वयायातमित्यादावपि भवति
SK 3838 · A 6.2.104V
आचार्योपसर्जनश्चान्तेवासिनि ॥ ३८३८ ॥
ācāryopasarjanaścāntevāsini
Siddhānta-kaumudī
आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥
Subodhinī
NSP p. 655
—आचार्योपसर्जन—। आचार्योपसर्जनग्रहणमन्तेवासिनो विशेषणं सप्तम्यर्थे प्रथमा तदाह—आचार्योपसर्जनान्तेवासिनीति । आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः स चासावन्तेवासी च तद्वाचिनि ॥—पूर्वपाणिनीया इति । ‘पूर्वापरप्रथम—’ इति समासः । पाणिनेश्छात्राः पाणिनीयाः । अत्रान्तेवासिनः प्रधानमाचार्यस्तूपसर्जनम् ।—पूर्वपाणिनीयं शास्त्रमिति । पूर्वं चिरंतनमित्यर्थः
SK 3839 · A 6.2.105V
उत्तरपदवृद्धौ सर्वं च ॥ ३८३९ ॥
uttarapadavṛddhau sarvaṃ ca
Siddhānta-kaumudī
उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥
Subodhinī
NSP p. 655
—उत्तरपदवृद्धौ—। अत्र वृद्धावित्येतावतैव वृद्धिमदुत्तरपदपरिग्रहे सिद्धे उत्तरपदग्रहणात्तदधिकारो लक्ष्यते । उत्तरपदशब्दस्य स्वरितलादिहाधिकारप्रतिपत्तिरित्याशयेनाह—उत्तरस्य पदस्येत्यादि ॥—सर्वपाञ्चालक इत्यादि । ‘सुसर्वार्धदिक्शब्दस्य’ इति तदन्तविधौ ‘अवृद्धादपि बहुवचनविषयात्’ इति दुष्ट्वा । सुसर्वार्धाज्जनपदस्य ‘दिशोऽमद्राणाम्’ इत्युत्तरपदवृद्धिः ॥ वृद्धिशब्देन या वृद्धिर्विहिता तद्वत्युत्तरपद इत्युच्यमानेऽपि न निर्वाह इत्याह— सर्वकारक इति
SK 3840 · A 6.2.106V
बहुव्रीहौ विश्वं संज्ञायाम् ॥ ३८४० ॥
bahuvrīhau viśvaṃ saṃjñāyām
Siddhānta-kaumudī
बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥
Subodhinī
NSP p. 655–656
—बहुव्रीहौ—। संज्ञायामिति बहुव्रीहेर्विशेषणं न विश्वशब्दस्येति । विशेः क्व नित्वादाद्युदात्तो विश्वशब्दः ॥—उदरा—। एषूत्तरपदेषु बहुव्रीहौ संज्ञायां पूर्वपदमन्तोदात्तं स्यात् । अयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः ‘प्राणिनां कुपूर्वाणाम्’ इत्याद्युदात्तः । वृक्त्येवोदरमस्य वृकोदरः ॥—हर्यश्च इति । हरतेः ‘सर्वधातुभ्यः—’ इति इन् । आद्युदात्तो हरिशब्दः । हरिरश्वोऽस्य हर्यश्वः । यणि कृते ‘उदात्तस्वरितयोः—’ इति स्वरितः ॥—महेषुरिति । महच्छब्दोऽन्तोदात्तः । ‘वर्तमाने पृषन्महत्—’ इत्यत्र तथा निपातनात् । तथा च पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति लन्यार्थ आरम्भोऽपवादलादनेनैवान्तोदात्तलम् । उदाहरणं तु सुवर्णपुङ्गेषुरिति ज्ञेयम् । सुष्ठु वर्णो येषां ते सुवर्णाः । ‘नष्टुःसुभ्याम्—’ इत्यन्तोदात्तलम् । सुवर्णाः पुङ्गा येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वं पुनरिषुशब्देन बहुव्रीहौ पूर्वपदमन्तोदात्तम् । एकादेशस्तु ‘स्वरितो वानुदात्ते पदादौ’ इति पक्षे स्वरितः ॥—घटोदर इति । घटशब्दः पचायजन्तः । कटुशब्दात्संज्ञायां कन् । ‘चरिचलिपतिवदीनां वा द्विलमव्याक्चाभ्यासस्य’ इति पचायजन्तो चलाचलशब्दः ॥— अनुदर इत्यादि । अस्यावकाशः । घटोदरः । ‘नञ्सुभ्याम्’— इत्यस्यावकाशः । अयशः । सुयशः । एवं स्थिते विप्रतिषेधः ॥—नदी— वन्धुनीति शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । ‘गर्गादिभ्यो यञ्’ इति यञ्न्ताद्गर्गशब्दात् ‘यञ्च’ इति डीप् ॥—गर्गां— चित्सरेणाद्युदात्तः ॥—ब्रह्मबन्धुरिति । ‘वृहेनोच्च’ इति नकारस्याकारादेशो मनिन्प्रत्ययश्चेति मनिनन्तो ब्रह्मशब्दो नित्सरेणाद्युदात्तः । तदाह—ब्रह्मेत्यादि ॥—गर्गीप्रिय इति । अत्र पूर्वपदप्रकृतिस्वर एव
SK 3841 · A 6.2.107V
उदराश्वेषुषु ॥ ३८४१ ॥
udarāśveṣuṣu
Siddhānta-kaumudī
संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ॥
SK 3842 · A 6.2.108V
क्षेपे ॥ ३८४२ ॥
kṣepe
Siddhānta-kaumudī
उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् SK 3906 इति भवति विप्रतिषेधेन ॥
SK 3843 · A 6.2.109V
नदी बन्धुनि ॥ ३८४३ ॥
nadī bandhuni
Siddhānta-kaumudī
बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥
SK 3844 · A 6.2.110V
निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ३८४४ ॥
niṣṭhopasargapūrvamanyatarasyām
Siddhānta-kaumudī
निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ॥
Subodhinī
NSP p. 656
—निष्ठोपसर्ग— उपसर्गपूर्वं निष्ठान्तं पूर्वपदमन्तोदात्तम् ॥—प्रधौतपाद इति । धातु गतिशुद्धोः कः ‘च्छ्वोः शूद्र— इत्यूद् ‘एत्येधत्यूद्धु’ इति वृद्धिः । प्रधौतशब्दो गतिस्वरेणाद्युदात्तः ॥—प्रसेवकमुख इति । ण्वुलन्तः प्रसेवकशब्दः कृदुत्तरपदप्रकृतिस्वरेण लित्वान्मध्योदात्तः ॥—शुष्कमुख इति । ‘शुष्कधृष्टौ’ इति शुष्कशब्द आद्युदात्तः
SK 3845 · A 6.2.111उत्तरपदाद्युदात्तस्वराधिकारः
उत्तरपदादिः ॥ ३८४५ ॥
uttarapadādiḥ
Siddhānta-kaumudī
उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालम् SK 3871 इत्यवधिकः ॥
Subodhinī
NSP p. 656
—उत्तरपदादिः । उत्तरपदेति पृथक्पदं लुप्तपृथक्
SK 3846 · A 6.2.112V
कर्णो वर्णलक्षणात् ॥ ३८४६ ॥
karṇo varṇalakṣaṇāt
Siddhānta-kaumudī
वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥
Subodhinī
NSP p. 656
—कर्णो—आद्युदात्त इति । सिद्धार्थकथनमेतत् । उत्तरपदस्य कर्णशब्दस्यादिरुदात्त इत्यक्षरार्थः । एवं चास्मिन्प्रकरणे कर्ण इत्यादौ पृथ्व्यर्थे प्रथमेति ज्ञेयम् ॥— शङ्ककर्ण इति । शङ्कः कर्णे यस्येति विग्रहः । ‘सप्तमीविशेषणे—’ इति सप्तम्यन्तस्य पूर्वनिपाते प्राप्ते ‘गङ्गादेः परा सप्तमी’ इति परनिपातः । ‘कर्णे लक्षणस्य—’ इति दीर्घः । पशूनां विभागज्ञानार्थं शङ्कप्रतिरूपकं कर्णादिषु यच्चिह्नं क्रियते तदिह लक्षणं गृह्यते पृथग्वर्णग्रहणात् । अन्यथा वर्णेनापि लक्ष्यमाणलादनर्थकं तत्स्यात् ॥—श्वेतपाद इति । श्विता वर्णे पचायच् ॥—शोभनकर्ण इति । शुभ शोभार्थे ‘अनुदात्तेतथ हलादेः’ इति युच् । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति
SK 3847 · A 6.2.113V
संज्ञौपम्ययोश्च ॥ ३८४७ ॥
saṃjñaupamyayośca
Siddhānta-kaumudī
कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥
Subodhinī
NSP p. 656
—संज्ञौपम्य— संज्ञायामौपम्ये च यो बहुव्रीहिस्तत्र कर्णशब्द उत्तरपदमाद्युदात्तं स्यात्
SK 3848 · A 6.2.114V
कण्ठपृष्ठग्रीवाजंघं च ॥ ३८४८ ॥
kaṇṭhapṛṣṭhagrīvājaṃghaṃ ca
Siddhānta-kaumudī
संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥
Subodhinī
NSP p. 656
—कण्ठपृष्ठ— कण्ठादीनां समाहारद्वन्द्वे नपुंसकहस्त्वलम् । कण्ठादीन्युत्तरपदानि संज्ञौपम्ययोराद्युदात्तानि स्युर्वहुव्रीहौ । कण्ठपृष्ठौ ‘स्वाङ्गशिटाम्’— इत्याद्युदात्तौ । ग्रीवाजङ्घयोः स्वाङ्गत्वेऽप्यदन्तलाभावादन्तोदात्तलम् । सुग्रीव इत्यत्र परलात् ‘नञ्सुभ्याम्’ इत्यन्तोदात्तत्वेन भाव्यम् । अस्य तु दशग्रीवादिरवकाशः । यदि तु नेष्यते तर्हि चकारोऽस्यैव विधेः समुच्चयार्थं इति व्याख्येयम् ॥—नाडीजङ्घ इति । नाड्याकारे जङ्घे यस्य स नाडीजङ्घः
SK 3849 · A 6.2.115V
शृङ्गमवस्थायां च ॥ ३८४९ ॥
śṛṅgamavasthāyāṃ ca
Siddhānta-kaumudī
शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥
SK 3850 · A 6.2.116V
नञो जरमरमित्रमृताः ॥ ३८५० ॥
naño jaramaramitramṛtāḥ
Siddhānta-kaumudī
नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ॥
Subodhinī
NSP p. 656
—नञो जर— ‘नञ्सुभ्याम्’ इत्यस्यापवादः । जरणं जरः ‘ऋदोरप्’ । मरणं मरः । अमरम् । अस्मादेव निपातनादप् । विमिदा ज्ञेहने ‘अमिविमिदिशस्मिभ्यः कः’ । मृडो नपुंसके भावे कः । सूत्रे तु शब्दपरलात्पुंस्त्वम् ॥—जेति किमिति । जरमरमित्रमृतग्रहणं किमर्थंमित्यर्थः ॥—अशत्रुरिति । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तलम् ।—सोमेन— मन् च अस् च मनसी
SK 3851 · A 6.2.117V
सोर्मनसी अलोमोषसी ॥ ३८५१ ॥
sormanasī alomoṣasī
Siddhānta-kaumudī
सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् SK 3906 त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् SK 3907 इति भवति । सुकर्मकः सुस्रोतस्यः ॥
Subodhinī
alignment inferredNSP p. 656–657
— सुकर्माण इत्यादि । यथापि आद्युदात्तं ‘द्यचद्छन्दसि’ इत्यनेन सिद्धमिदं तथापि सुप्रथिमेत्यादि बहुजर्थमन्छन्दोर्थं च सूत्रमिति वोध्यम् । सुप्रथिमेत्यत्र पृथोर्भाव इति पृथ्वादिभ्य इमनिच् । ‘र ऋतो हलादेर्लघोः’ इति रादेशः ॥ —सुराजेति । राजा कृत्य ad कति युवर्षि ection इति कानि प्रत्यर्थान्तः । ‘लुनीति मनिन् लोम’ । उष दाहे । ‘मिथुनेऽसि’ रिति वर्तमाने उषः कित् । उषः ॥—कपि त्विति । अस्यावकाशः सुकर्मा । कपि पूर्वमित्यस्यावकाशः अप्रवकः । एवं स्थिते विप्रतिषेधः ॥—आद्युदात्तम् । ‘नञ्भ्याम्’ इत्यस्यापवादः । ‘अश्मुषिलटिकणिखटि’—इति क्वन्तोऽश्वशब्दः । ‘हनिकुशिनिरमिकाशिभ्यः क्थन्’ इति क्थन्नन्तो रथशब्दस्तमाह—नित्स्वरेणेति ॥—सुवाहुरिति । ‘अर्जिदृशिकम्यमिपशिवाध’—इति कुप्रत्ययान्तो वाहुशब्दः प्रत्ययसंरेणान्तोदात्तः ॥—सुहिरण्य इति । ‘हर्यंतेः कन्यन् हिर च’ इति कन्यन्नन्तो हिरण्यशब्द आद्युदात्तक्थन्
SK 3852 · A 6.2.118V
क्रत्वादयश्च ॥ ३८५२ ॥
kratvādayaśca
Siddhānta-kaumudī
सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः (साम्रा॒ज्याय सु॒क्रतुः॑) । सुप्रतीकः (सु॒प्रती॑कः) । सुहव्यः (सु॒हव्यः॑) । सुप्रतुर्तिनेहसम् (सु॒प्रतू॑र्तिने॒हस॑म्) ॥
SK 3853 · A 6.2.119V
आद्युदात्तं द्व्यच् छन्दसि ॥ ३८५३ ॥
ādyudāttaṃ dvyac chandasi
Siddhānta-kaumudī
यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरँथा आतिथिग्वे (सु॒रँथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ॥
SK 3854 · A 6.2.120V
वीरवीर्यौ च ॥ ३८५४ ॥
vīravīryau ca
Siddhānta-kaumudī
सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः SK 3701 इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥
Subodhinī
NSP p. 657
—वीरवीर्यो—वीर विक्रान्तौ चुरादिस्तत्र पचायचि वीरः । ‘अचो यत्’ वीरेषु साधुरिति प्राग्दीव्यतीयो वा यत् । वीर्यः ॥—तत्रेत्यादि । कथं पुनरेतज्ज्ञापकमित्याह—तत्र हि सतीति
SK 3855 · A 6.2.121V
कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे ॥ ३८५५ ॥
kūlatīratūlamūlaśālā'kṣasamamavyayībhāve
Siddhānta-kaumudī
उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ॥
Subodhinī
NSP p. 657
—कूलतीर इति—एतान्युत्तरपदान्याद्युदात्तानि स्युत्व्ययीभावे । सुषममित्यादौ ‘सुविनिर्दुभ्यः सुपिसूतिसमाः’ इति षलम् । तस्यासिद्धलात्समशब्द एवायम् ॥—तिष्ठद्वप्रभृतिष्वेत इति । तेनाव्ययीभावसंज्ञा
SK 3856 · A 6.2.122V
कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ॥ ३८५६ ॥
kaṃsamanthaśūrpapāyyakāṇḍaṃ dvigau
Siddhānta-kaumudī
द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥
Subodhinī
NSP p. 657
—कंसमन्थ—एतान्युत्तरपदानि द्विगावाद्युदात्तानि स्युः ॥—द्विकंस इति । द्वाभ्यां कंसाभ्यां कीत इति तद्धितार्थे समासः । ‘कंसाद्विठन्’ इति टिठन् तस्य ‘अध्यर्धपूर्व’—इति लुक् ॥—द्विमन्था इति । ‘आहार्दगोपुच्छ’—इत्यादिना ठक् । शेषं पूर्ववत् ॥—द्विशूर्प इति । ‘शूर्पादञ्चतरस्याम्’ ॥—द्विपाय्यमिति । ‘पाय्यसान्नाय्य’—इत्यादिना पाय्यशब्दः परिमाणवाची निपातितः । तत्र ‘प्राग्वहतेष्ठक्’ । द्विकाण्डमिति । द्वे काण्डे प्रमाणमस्य ‘प्रमाणे द्वयसच्’—इति मात्रच् ‘प्रमाणे लो द्विगोर्नित्यम्’ इति लुक्
SK 3857 · A 6.2.123V
तत्पुरुषे शालायां नपुंसके ॥ ३८५७ ॥
tatpuruṣe śālāyāṃ napuṃsake
Siddhānta-kaumudī
शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ॥
Subodhinī
alignment inferredNSP p. 657
—ब्राह्मणशालमिति । ‘विभाषा सेनासुराच्छाया’—इति नपुंसकता ॥—दृढशालमिति । वहुत्रीहिरयं तत्र पूर्वपदप्रकृतिस्वर एव भवति पूर्वपदं च निष्ठान्तलादन्तोदात्तम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव न भविष्यति । सत्यम् । उत्तरार्थमावश्यकं तत्पुरुषग्रहणमिहैव क्रियते परिभाषा नाश्रयणाय
SK 3858 · A 6.2.124V
कन्था च ॥ ३८५८ ॥
kanthā ca
Siddhānta-kaumudī
तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ॥
Subodhinī
alignment inferredNSP p. 657
—सौशमिकन्थमिति । शोभनः शमोऽस्य सुशमस्तस्यापत्यं सौशमिस्तस्य कन्था सौशमिकन्थम् । ‘संज्ञायां कन्थोशीनरेषु’ इति नपुंसकत्वम् ॥—आह्वरकन्थमिति । आङ्पूर्वात् ह्वयतेः ‘आतश्चोपसर्गे’ इति कः
SK 3859 · A 6.2.125V
आदिश्चिहणादीनाम् ॥ ३८५९ ॥
ādiścihaṇādīnām
Siddhānta-kaumudī
कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥
Subodhinī
NSP p. 657
—आदिश्चिह्नणादीनाम् । चिनोतेः क्रिप् । चित् । हन्तेः पचायच् हनः । चिह्नण इति निपातनात्तलोपो णत्वं च । मल मल्ल धारणे आभ्यां रः । निपातनाल्लस्य दत्वं । मन्दरः आदिरिति वर्तमान इति पूर्वत्र ह्यादिग्रहणमुत्तरपदाभिसंवद्धम् । इह तु चिह्नणादीनां पूर्वपदानामाद्युदात्त-लमिष्यते तदर्थं पुनरादिग्रहणं कर्तव्यम्
SK 3860 · A 6.2.126V
चेलखेटकटुककाण्डं गर्हायाम् ॥ ३८६० ॥
celakheṭakaṭukakāṇḍaṃ garhāyām
Siddhānta-kaumudī
चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ॥
Subodhinī
alignment inferredNSP p. 657–658
—पुत्रचेलमिति । चेलं वल्लं तद्वत्पुच्छमित्यर्थः ॥—नगरखेटमिति । खेटमिति तृणनाम तद्वद्वुवलः ॥—दधिकटुकमिति । कटु गतस्वादु तद्वत् गतस्वादु ॥—प्रजाकाण्डमिति । काण्डमिति शरनामा । स यथा सत्वरपीडाकरः एवंभूतम् । व्याघ्रादिभिरिति समासः ॥—चीर—उपमानवाचिचीरशब्द उत्तरपदमाद्युदात्तं स्यात्तत्पुरुषे
SK 3861 · A 6.2.127V
चीरमुपमानम् ॥ ३८६१ ॥
cīramupamānam
Siddhānta-kaumudī
वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ॥
Subodhinī
alignment inferredNSP p. 658
—वस्त्रचीरमिति । पूर्ववच्चाघ्रादिसमासः
Bālamanoramā
चीरमुपमानम् - इकोऽसवर्णे । 'इक' इति षष्ठी ।एङः पदान्ता॑दित्यतःपदान्ता॑दित्यनुवर्तते । तच्च षष्ठन्ततया विपरिणम्यते ।अची॑ति चानुवर्तते । ततश्चपदान्तस्येकोऽसवर्णेऽचि परे ह्रस्वः स्या॑दित्येकं वाक्यम् । चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि संबध्यते । ततश्चउक्तो ह्रस्वः प्रकृत्या स्वभावेन अवतिष्ठत॑ इति वाक्यान्तरं सम्पद्यते । फलितमाह — पदान्ता इक इत्यादिना । यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्रस्वः स्यादित्येव लभ्यते । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात् । वक्रि-अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम् ।
SK 3862 · A 6.2.128V
पललसूपशाकं मिश्रे ॥ ३८६२ ॥
palalasūpaśākaṃ miśre
Siddhānta-kaumudī
घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् SK 697 इति समासः । मिश्रे किम् । परमपललम् ॥
Subodhinī
NSP p. 658
—पललसूप— पललादीन्युत्तरपदान्याद्युदात्तानि स्युर्मिथे तत्पुरुषे ॥—घृतपललमित्यादि । घृतेन मिथं पललमिति विग्रहः । पललं मांसम् । ‘पललं कव्यमामिषम्’ इत्यमरः
SK 3863 · A 6.2.129V
कूलसूदस्थलकर्षाः संज्ञायाम् ॥ ३८६३ ॥
kūlasūdasthalakarṣāḥ saṃjñāyām
Siddhānta-kaumudī
आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ॥
Subodhinī
NSP p. 658
—कूलसूद— एतान्युत्तरपदान्याद्युत्तानि स्युः संज्ञायाम् ॥—दाण्डायनस्थलीति । ‘प्रातिपदिकग्रहणे लिङ्गंविशिष्टस्यापि ग्रहणम्’ इति स्थलीशब्दो गृह्यते । ‘जानपदकुण्ड—’ इत्यनेन डीप् ॥—चेलराज्यादिस्वरादिति । आदिशब्देन वर्गादिस्वरपरिग्रहः । चेलराज्यादिस्वरस्यावकाशो भार्याचेलं ब्राह्मणराज्यम् । ‘तत्पुरुषे तुल्यार्थ—’ इत्यादिना विहितस्याव्ययस्वरस्यावकाशो निष्कौशाम्बिः । कुचेलं कुराज्यमित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः
SK 3864 · A 6.2.130V
अकर्मधारये राज्यम् ॥ ३८६४ ॥
akarmadhāraye rājyam
Siddhānta-kaumudī
कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् ।
vārttika
चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम्
(वार्तिकम्) ॥ कुराज्यम् ॥
SK 3865 · A 6.2.131V
वर्ग्यादयश्च ॥ ३८६५ ॥
vargyādayaśca
Siddhānta-kaumudī
अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ॥
Subodhinī
NSP p. 658
—वर्ग्या— वर्ग्यादीन्युत्तरपदान्याद्युदात्तानि स्युः । कर्मधारये तत्पुरुषे ये दिगादिषु वर्गादयः पत्र्यन्ते त एवेह यत्प्रत्ययान्ता वर्ग्यादयो गृह्यन्ते वर्गादिपाठाभावात्तदाह—वर्गादिर्दिगाद्यन्तर्गण इति । कौनटिमातुल इति । कुनटस्यापत्यं कौनटिः तस्य मातुलः ॥—आख्याग्रहणादिति । आख्याग्रहणमाचार्यादिभिः प्रत्येकं संबध्यते ॥—होतुः पुत्र इति । ‘ऋतो विद्यायोनिसंबन्धेभ्यः’ इति षष्ठ्या अलुक् ॥—भ्रातुष्पुत्र इति । कस्कादिपाठात्षलम् ॥—वर्णेति । वर्णं चूर्णं संकोचे पचाद्यच्
SK 3866 · A 6.2.132V
पुत्रः पुंभ्यः ॥ ३८६६ ॥
putraḥ puṃbhyaḥ
Siddhānta-kaumudī
पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ॥
SK 3867 · A 6.2.133V
नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ॥ ३८६७ ॥
nācāryarājartviksaṃyuktajñātyākhyebhyaḥ
Siddhānta-kaumudī
एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ॥
SK 3868 · A 6.2.134V
चूर्णादीन्यप्राणिषष्ठ्याः ॥ ३८६८ ॥
cūrṇādīnyaprāṇiṣaṣṭhyāḥ
Siddhānta-kaumudī
एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ॥
SK 3869 · A 6.2.135V
षट् च काण्डादीनि ॥ ३८६९ ॥
ṣaṭ ca kāṇḍādīni
Siddhānta-kaumudī
अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥
Subodhinī
NSP p. 658
—षट् च— अप्राणिभ्यः परा या षष्ठी तदन्तात्पराणि षट् काण्डादीन्याद्युदात्तानि स्युः । चेल खेट कटुक काण्डमिति काण्डशब्दादारभ्य कूल सूद स्थल कर्षाः संज्ञायामिति कूलान्तानि, काण्ड चीर पलल सूप शाक कूल एतानि काण्डादीनि, तत्र काण्डं गर्हायामित्युक्तमगर्हायामपि भवतीति । ‘चीरसुपमानम्’ इत्युक्तमजुपमानेऽपि भवति ‘पललसूपशाकं मिश्रे’ इत्युक्तममिश्रेऽपि भवति कूलं संज्ञायामित्युक्तमसंज्ञायामपि भवति ॥—अप्रेति किमिति । अप्राणिषण्या इति किमर्थमित्यर्थः
SK 3870 · A 6.2.136V
कुण्डं वनम् ॥ ३८७० ॥
kuṇḍaṃ vanam
Siddhānta-kaumudī
कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ॥
Subodhinī
alignment inferredNSP p. 658
—मृत्कुण्डमिति । मृद्भाजनविशेष इत्यर्थः
SK 3871 · A 6.2.137V
प्रकृत्या भगालम् ॥ ३८७१ ॥
prakṛtyā bhagālam
Siddhānta-kaumudī
भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतमन्तः SK 3877 इति यावत् ॥
Subodhinī
NSP p. 658
—प्रकृत्या—भगालमित्यर्थप्रहणं तदाह—भगालवाचीति । अत्र व्याख्यानमेव शरणम् ॥—मध्योदात्ता एते इति । ‘लघावन्ते द्वयोश्च—’ इति सूत्रात् ॥—शितेः—। शितेः परं नित्यावह्न्युक्तं भसतशब्दवर्जितं वहुव्रीहौ प्रकृतिखरं स्यात् ॥—अंसशब्द इति । अमेः सन् अंसः
SK 3872 · A 6.2.138V
शितेर्नित्याबह्वज्बहुव्रीहावभसत् ॥ ३८७२ ॥
śiternityābahvajbahuvrīhāvabhasat
Siddhānta-kaumudī
शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ॥
Subodhinī
alignment inferredNSP p. 658–659
—दर्शनीयपाद इति । ‘वहुव्रीहौ प्रकृत्या—’ इति पूर्वपदभक्तिखरः । दर्शनीयशब्दोऽनीयप्रत्ययान्तः । ‘उपोत्तमं रिति’ इत्युपोत्तमोदात्तः ॥—शितिराद्युदात्त इति । ‘वर्णानां तणतिनितान्तानाम्’ इति सूत्रेण ॥—गतिका—‘शितेर्नित्यावह्वच्—’ इत्यतो वहुत्रीहिग्रहणं नानुवर्ततेऽसरितलात् किं तु ‘तत्पुरुषे शालायाम्’ इत्यतो व्यवहितमपि तत्पुरुषग्रहणमनुवर्तते तदाह—तत्पुरुषे इति ॥—प्रकारक इति । ‘कुगति—’ इति समासः । लित्सरेण पूर्वप्रत्ययाद्युदात्तम् ॥—नृवाहसेति । नृन्वहतीति विग्रहः । ‘वसेर्णित्’ इत्यतो णिदित्यनुवृत्तेरपुनो णित्वादु-पथावृद्धिः । नित्सरेणोत्तरपदमाद्युदात्तम् ॥—इध्मप्रब्रह्म इति । प्रब्रह्म्यते येनेति करणे ल्युद्र । कर्मषष्ट्यन्तेन इध्म-शब्देन समासः । अत्र गतिप्रयुक्ते कृत्सरे कृते कारकप्रयुक्तः कृत्सरः
SK 3873 · A 6.2.139V
गतिकारकोपपदात् कृत् ॥ ३८७३ ॥
gatikārakopapadāt kṛt
Siddhānta-kaumudī
एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ॥
Subodhinī
alignment inferredNSP p. 659
—उच्चैःकारमिति । ‘अब्यये यथाभिप्रेतं’ इति णमुल् । तत्र हि उच्चैरित्युपपदम् ॥—ईपत्कर इति । ‘ईषहुःसुषु कृच्छ्रा—’ इति खल् । उभयथापि लित्सरः ॥—शेषलक्षणा षष्ठीति । न कर्मलक्षणा । तथा सति कारकमेव देवदत्तः स्यात् । ‘तृजकाभ्यां कर्तरि’ इति समास-प्रतिषेधश्च स्यात् । अत्र कृद्बहणं किमर्थम् । निर्गतः कौशाम्ब्याः निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति । यत्क्रिया-युक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा भवन्ति । नच कौशाम्बीशब्दं प्रति क्रियायोगः कारकं च क्रियायमेव संभवति । उपपदमपि धालधिकारे सप्तमीनिर्दिष्टं प्रत्ययनिमित्तमुच्यते । तदेवं गत्यादिभिरपि क्रियावाच्युत्तरपदमाक्षिप्यते धातोश्च क्रियावाचित्वं तस्माच्च द्वये प्रत्ययाः कृतस्तिष्ठश्च । तत्र तिङन्तेन समासाभावात्कृदन्तमेव संभवति । अनुव्यच-लदित्यत्र तु न गतित्वनिवन्धनः समासः किं तर्हि सुवन्तेन योगविभागात्समासः तस्मान्नार्थः कृद्बहणेनेत्यत आह—कृद्बहणं स्पष्टार्थमिति । य एवं प्रतिवक्तुमसमर्थस्तं प्रति विस्पष्टार्थं क्रियत इत्यर्थः । ननु विस्पष्टार्थमपि क्रियमाणे कृद्बहणे आमन्ते न प्राप्नोति । प्रपचतितरामिति । ततश्च समासस्वरं वाधित्वाऽव्ययस्वर एव स्यादत आह—प्रपचति-तरामित्यादि । इत्येक इत्यस्य कृद्बहणं विस्पष्टार्थमित्यादिना कृत्स्नेन संवन्धः । तदयमर्थः । कृद्बहणं विस्पष्टार्थम् । आमन्ते च दोषाभाव इति केचिदाचार्या व्याचक्षते इति ॥—प्रपचतिदेश्यार्थं त्विति । आदिशब्देन प्रपचति-कल्पं प्रपचतिदेशीयः प्रपचतिरूपमित्येतेषां त्रयाणां ग्रहणम् । प्रपचतिदेश्यादौ । अर्थः प्रयोजनं यस्य तत्तथोक्तम् । अयमभिप्रायः । न विस्पष्टार्थं कृद्बहणम्, अपि तु प्रपचतिदेश्यादौ यत्र सति शिष्टं स्वरान्तरं नास्ति तत्रापि स्वरो मा भूतदव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनमाहुः । अत्र हरदत्तः । इदं तु वक्तव्यम् । प्रपचतितरामित्यादौ तरवन्तेन समासे पश्चादाम् भवन्प्रत्ययग्रहणपरिभाषया पचतितरस्यैव धान्तलात्तत एव स्यात् । तत्र को दोषः । सोपसर्गस्य धान्तस्यैकपदाभावादाम् । प्रपचतितरां देवदत्तेत्यादावाम एकान्तरमामञ्जितमनन्तिक इत्येष विधिर्न स्यात् शेषनिधातश्च प्रशब्दस्य न स्याद्भिन्नपदत्वात् । तस्मात्प्रशब्दस्यामन्तेन समासोऽङ्गीकर्तव्यो न तरवन्तेन । तत्र समासत्वात्समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति स्वरे तु दोषप्रसङ्गात्कृद्बहणमपि वक्तव्यमिति भाष्ये स्थितम् । प्रपचतिदेश्यादौ का गतिरिति न विद्मः ॥—उभे—वनस्पतिमिति । वनशब्दो ‘नवविषयस्यानिसन्तस्य’ इत्याद्यु-दात्तः । पतिशब्दोऽपि ‘पातेर्जैतिः’ इति उतिप्रत्ययान्तः प्रत्ययस्वरेण । पारस्करादित्वात्सुद् ॥—वृहस्पतिमिति । ‘वर्तमाने पृष्ठन्महत्—’ इति अतिप्रत्ययान्तत्वादन्तोदात्तोऽप्यत्राद्युदात्तो निपात्यते ‘तद्बृहतोः करपलोः—’ इति सुदतलोपौ
SK 3874 · A 6.2.140V
उभे वनस्पत्यादिषु युगपत् ॥ ३८७४ ॥
ubhe vanaspatyādiṣu yugapat
Siddhānta-kaumudī
एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वनआ (वन॒स्पतिं॒ वन॒आ) । बृहस्पतिं यः (बृह॒स्पतिं॒ यः) । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् (ह॒र्ष॒या॒ शची॒पति॑म्) । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते (तनू॒नपा॑दुच्यते) । नराशंसं वाजिनम् (नरा॒शंसं॑ वा॒जिन॑म्) । निपातनाद्दीर्घः । शुनःशेपम् (शुनः॒शेप॑म्) ॥
Subodhinī
alignment inferredNSP p. 659
—शार्ङ्गरवादित्वादाद्युदात्त इति । शार्ङ्गरवादित्वात् इति कृते नित्वादाद्युदात्तत्वमित्यर्थः ॥—शचीपतिरिति । एते षष्ठीसमासाः ॥—तनूनपादिति । ‘कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः’ इति ऊप्रत्ययान्तत्वादन्तोदात्तोऽपि तनू-शब्दोऽत्राद्युदात्तो निपात्यते । न पातयतीति नपात् । ‘नभ्राण्णपान्नवेदा—’ इति सूत्रे आद्युदात्तो नपाच्छब्दो निपात्यते । तन्वाः नपादिति विग्रहः ॥—नराशंसमिति । नरा एनं शंसन्तीत्यर्थः । नृ नये ‘ऋदोरप्’ शंसेः कर्मणि घन् द्वावप्या-द्युदात्तौ । ‘अन्येषामपि—’ इति दीर्घः ॥—शुनःशेषमिति । शुन इव शेषोऽस्येति वहुत्रीहिः । ‘शेषपुच्छलाङ्गलेषु शुनः संज्ञायाम्’ इत्यलुक् षष्ठ्याः । श्वनशब्दः प्रातिपदिकस्वरेण शेषशब्दः ‘स्वाङ्गशिटामदन्तानाम्’ इत्याद्युदात्तौ ॥—इन्द्रावरुणाविति । इन्द्रशब्दः ‘ऋज्जेन्द्राग्र—’ इति रगन्तः, वरुणशब्दः ‘कृद्दारिभ्य उनन्’ इत्युननन्तः उभौ आद्युदात्तौ । ‘देवताद्वन्द्वे च’ इति पूर्वपदस्यान् ॥—इन्द्रावृहस्पती इति । वृहस्पतिशब्दो वाचस्पत्यादित्वात् द्वावाद्यु-दात्तौ तेनेन्द्रावृहस्पती इत्यत्र त्रय आद्युदात्ताः
SK 3875 · A 6.2.141V
देवताद्वन्द्वे च ॥ ३८७५ ॥
devatādvandve ca
Siddhānta-kaumudī
उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ॥
Subodhinī
alignment inferredNSP p. 659–661
—अग्निष्टोम इति । ‘अमेः स्तुत्सोमसोमाः’ इति षत्तम् ॥— मा भूदित्येवमर्थमेवकारग्रहणमित्यर्थः ॥—देवखातेति । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरः
SK 3876 · A 6.2.142V
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ ३८७६ ॥
nottarapade'nudāttādāvapṛthivīrudrapūṣamanthiṣu
Siddhānta-kaumudī
पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥
SK 3877 · A 6.2.143उत्तरपदान्तोदात्तस्वरप्रकरणम्
अन्तः ॥ ३८७७ ॥
antaḥ
Siddhānta-kaumudī
अधिकारोऽयम् ॥
SK 3878 · A 6.2.144V
थाथघञ्क्ताजबित्रकाणाम् ॥ ३८७८ ॥
thāthaghañktājabitrakāṇām
Siddhānta-kaumudī
थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥
SK 3879 · A 6.2.145V
सूपमानात् क्तः ॥ ३८७९ ॥
sūpamānāt ktaḥ
Siddhānta-kaumudī
सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ॥
SK 3880 · A 6.2.146V
संज्ञायामनाचितादीनाम् ॥ ३८८० ॥
saṃjñāyāmanācitādīnām
Siddhānta-kaumudī
गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ॥
SK 3881 · A 6.2.147V
प्रवृद्धादीनां च ॥ ३८८१ ॥
pravṛddhādīnāṃ ca
Siddhānta-kaumudī
एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥
SK 3882 · A 6.2.148V
कारकाद्दत्तश्रुतयोरेवाशिषि ॥ ३८८२ ॥
kārakāddattaśrutayorevāśiṣi
Siddhānta-kaumudī
संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मान्नियमादत्र संज्ञायामन-SK 3880 इति न तृतीया कर्मणि-SK 3782 इति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्तः उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न शङ्खविशेषस्य संज्ञेयम् । तृतीया कर्मणि-SK 3782 इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥
SK 3883 · A 6.2.149V
इत्थम्भूतेन कृतमिति च ॥ ३८८३ ॥
itthambhūtena kṛtamiti ca
Siddhānta-kaumudī
इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-SK 3782 इत्यस्यापवादः ॥
Subodhinī
NSP p. 661
—इत्थम्—इत्थंभूतेन कृतमित्येतस्मिन्नर्थे इति । इत्थं प्रकारमापन्न इत्थंभूतस्तेन कृतमित्यर्थे ॥—सुप्तप्रलपितमित्यादि । कथमेतान्युदाहरणानि यावता कृतमित्युच्यते । न च प्रलपितानीति कृतानि अभूतप्रादुर्भाव एव हि करोतिर्वर्तते ततश्च सुप्तकृतं सुप्तभावितम् उन्मत्तभावितमित्यादिक्रमेणैवोदाहर्तव्यमित्यत आह—कृतमितीति । कृतिसामान्ये करोतिर्वर्तते इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायामित्यादौ विशेषाणामपि ग्रहणं भवति तद्वदत्रापि । ननु सुप्तप्रलपितमित्यादौ कारकादिति योगविभागेनैव सिद्धमित्याशङ्क्याह—तृतीयेति । तस्य तु योगविभागो न वाधकः तस्य निर्विषयत्वं स्यात् अभूतप्रादुर्भावो निष्पादनमभूतप्रादुर्भाव इति ॥—अनो— ‘गतिकारकोपपदात्कृत्’ इत्यस्यापवादः ॥—पयःपानमिति । ‘कर्मणि च येन—’ इति कर्मण्युपपदे भावे ल्युद । उपपदसमासः
SK 3884 · A 6.2.150V
अनो भावकर्मवचनः ॥ ३८८४ ॥
ano bhāvakarmavacanaḥ
Siddhānta-kaumudī
कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥
Subodhinī
alignment inferredNSP p. 661
—राजभोजना इति । ‘कृत्यल्युदो वहुलम्’ इति कर्मणि ल्युद कर्तरि षष्ठीसमासः ॥—मनुकिन्— कृत्स्वरापवादः । क्रीते तु तृतीयाकर्मणीत्यस्य
SK 3885 · A 6.2.151V
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ ३८८५ ॥
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ
Siddhānta-kaumudī
कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-SK 3784 इति स्वरः ॥
Subodhinī
alignment inferredNSP p. 661
—रथवर्त्मेति । वृत्तेरधिकरणे मनिन् कर्तरि षष्ठ्याः समासः ॥—पाणिनिकृतिरिति । कर्मणि किन् । पूर्ववत्समासः ॥—छन्दोव्याख्यानमिति । व्याख्यानमिति करणे ल्युद । शयनासनस्थानेष्वधिकरणे ल्युद ॥—ब्राह्मणयाजक इति । ‘याजकादिभिश्च’ इति सूत्रे षष्ठीसमासार्थं ये याजकादयस्त एव गृह्यन्ते ॥—प्रभूतौ संगतिमिति । ‘तादौ च नितिकृत्यतौ’ इति पूर्वपदप्रकृतिस्वर एवात्र भवति
SK 3886 · A 6.2.152V
सप्तम्याः पुण्यम् ॥ ३८८६ ॥
saptamyāḥ puṇyam
Siddhānta-kaumudī
अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ॥
Subodhinī
NSP p. 661
—सप्तम्या— सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं स्यात्तत्पुरुषे ॥—अध्ययनपुण्यमिति । अध्ययने पुण्यमिति विग्रहः । सप्तमीति योगविभागात्समासः
SK 3887 · A 6.2.153V
ऊनार्थकलहं तृतीयायाः ॥ ३८८७ ॥
ūnārthakalahaṃ tṛtīyāyāḥ
Siddhānta-kaumudī
माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥
Subodhinī
NSP p. 661
—ऊनार्थ— तृतीयान्तात्पराणि ऊनार्थानि कलहश्च एतान्युत्तरपदान्यन्तोदात्तानि स्युः । उदाहरणेषु ‘पूर्वसदृश—’ इत्यादिना तृतीयासमासः ॥—केचित्त्वित्यादि । नन्वेवमूनशब्दस्यापि स्वरूपस्य ग्रहणं प्रसज्येत । ततश्च तदर्थानामन्येषां ग्रहणं न स्यादत आह—ऊनशब्देन त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम्
SK 3888 · A 6.2.154V
मिश्रं चानुपसर्गमसंधौ ॥ ३८८८ ॥
miśraṃ cānupasargamasaṃdhau
Siddhānta-kaumudī
पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ॥
Subodhinī
NSP p. 661
—मिश्रं च— तृतीयान्तात्परमनुपसर्गं मिश्रमन्तोदात्तं स्यादसन्धौ । अयमपि ‘तत्पुरुषे तुल्यार्थ—’ इत्यस्यापवादः ॥—पणवन्धेनैकार्थ्यमिति । पणवन्धः परिभाषणम् । यदि मे भवानिदं कुर्यादहमपि भवतः करिष्यामीत्येवंरूपम् ॥—तिलमिश्रा इति । ‘पूर्वसदृशसमोनार्थ—’ इति समासः ॥—गुडधाना इति । ‘भक्ष्येण मिश्री—’ इति समासः ॥—तिलसंमिश्रा इति । कथं पुनर्मिश्रशब्दस्य विधीयमानं सोपसर्गेण लभ्यतेऽत आह—मिश्रग्रहणेत्यादि । तेन मिश्रश्छद्गैरिति विधीमानः समासः सोपसर्गेणापि सिद्धः ॥—ब्राह्मणमिश्र इति । यदि मे भवन्तः कार्यं कुर्युस्तदाहं भवतामुपकारं करिष्यामीत्येवंरूपेण पणवन्धेन कृत्वा ब्राह्मणैः सह मिलित इत्यर्थः । अपरे तु स्वरूपमेदग्रहणं सन्धिः । ब्राह्मणमिश्र इत्यत्र ब्राह्मणेनैकीभावेऽपि राजा स्वरूपेण गृह्यते । गुडमिश्र इत्यत्र गुडेनैकीभूतस्य स्वरूपमेदो न गृह्यत इत्याहुः
SK 3889 · A 6.2.155V
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ॥ ३८८९ ॥
naño guṇapratiṣedhe sampādyarhahitālamarthāstaddhitāḥ
Siddhānta-kaumudī
संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ॥
Subodhinī
NSP p. 661–662
— नञो गुण-॥—कार्णवेष्टकिकमिति । ‘संपादिनि’ इति प्राग्वतेष्टन् ॥—छेदिक इति । ‘छेदादिभ्यो नित्यम्’ इति ठक् ॥—वत्सीय इति । ‘तस्मै हितम्’ इति छः ॥—सान्तापिक इति । ‘तस्मै प्रभवति सन्तापादिभ्यः’ इति ठन् ॥—नञः किमिति । प्रतिषेधे प्रायेण नञ एव वृत्तिदर्शनात्प्रश्नः ॥—विगार्दभरथिक इति । अव्ययपूर्वपद-प्रकृतिस्वर एवात्र भवति ॥—गार्दभरथिकादन्य इति । उदाहरणादस्य विशेषं दर्शयितुं गुणप्रतिषेध इति सूत्रावयवं व्याचष्टे—गुण इति ॥—तद्धितार्थं प्रवृत्तिनिमित्तमिति । तद्धितार्थः संपाद्यादि तस्य यत् प्रवृत्तिनिमित्तम् ॥—संपादित्वादिति । आदिशब्देन तदर्हलादेर्प्रहणं स गुण इत्युच्यते । उक्तं हि—‘संसर्गमेदकं यद्यत्सव्यापारं प्रतीयते ॥ गुणत्वं परतन्त्रलात्तस्य शास्त्रे उदाहृतम्’ इति ॥—वोढेति । ‘अर्हें कृत्यतृचक्ष’ इति तृच् । धलढलष्टुलढलोपेषु ‘सहिवहो-रोदवर्णस्य’ इत्योलम् ॥—पाश्येति । समूहे ‘पाशादिभ्यो यः’ ॥—अदन्त्यमिति । ‘शरीरावयवाच्च’ इति यत् ॥—अपाद्यमिति । ‘पादार्धाभ्यां च’ इति यत् ॥—अदेवमिति । इदान् दाने अर्हार्थे अचो यत् । ‘ईद्यति’ इतीत्वे-गुणः
SK 3890 · A 6.2.156V
ययतोश्चातदर्थे ॥ ३८९० ॥
yayatoścātadarthe
Siddhānta-kaumudī
ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ॥
Subodhinī
alignment inferredNSP p. 662
—अवामदेव्यमिति । वामदेवेन दृष्टमित्यर्थे ‘वामदेवात् ज्यङ्ग्यौ’ इति ज्यः ॥—अपच इति । पचाद्यच्—अविलिख इति । ‘इगुपध-’ इति कः । ‘कृत्योकेष्णुच्चार्वादयश्च’ इति वक्ष्यमाणैः कृत्योकेष्णुभिः साहचर्यादच्च कयोः कृतोरिह ग्रहणं तेन कृद्धहणपरिभाषया विलिखशब्दस्य कान्तलम्
SK 3891 · A 6.2.157V
अच्कावशक्तौ ॥ ३८९१ ॥
ackāvaśaktau
Siddhānta-kaumudī
अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥
Subodhinī
alignment inferredNSP p. 662
—अपचो दीक्षित इति । दीक्षितः शास्त्र-विरोधान्न पचति न लशक्तत्वेन
SK 3892 · A 6.2.158V
आक्रोशे च ॥ ३८९२ ॥
ākrośe ca
Siddhānta-kaumudī
नञः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ॥
Subodhinī
alignment inferredNSP p. 662
—अपचो जाल्म इति । पक्तुं शक्तोऽपि पक्तुमयं न शक्नोतीत्यनेन प्रकारेण क्षिप्यते तदाह—पक्तुमित्यादि
SK 3893 · A 6.2.159V
संज्ञायाम् ॥ ३८९३ ॥
saṃjñāyām
Siddhānta-kaumudī
नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ॥
Subodhinī
alignment inferredNSP p. 662
—अदेवदत्त इति । देवदत्तः सन्यस्तत्कर्म न करोति स एवमाक्षिप्यते
SK 3894 · A 6.2.160V
कृत्योकेष्णुच्चार्वादयश्च ॥ ३८९४ ॥
kṛtyokeṣṇuccārvādayaśca
Siddhānta-kaumudī
नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (गणसूत्रम् -) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ॥
Subodhinī
alignment inferredNSP p. 662
—अनागामुक इति । ‘लवपतपद-’ इत्युक्त् ॥—अनलङ्करिष्णुरिति । ‘अलंकृञ्-’ इतीष्णुच् ॥—इकारादेर्विधानसामर्थ्यादिति । भवतेरुदात्तलात्ततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमेवेति भावः ॥ अनाढ्यंभविष्णुरिति । ‘भुवः खिष्णुच्छ्रक्रञ्चौ’ इति खिष्णुच् ॥—अचारुरिति । ‘हसति-’ इति चरेरुण् ॥—असाधु-रिति । साध्रोतेः ‘कृवापाजि-’ इत्युण् ॥—राजाह्वोः । चार्वाद्यन्तर्गणसूत्रम् । नञः परयोरेतयोश्छन्दसि अन्तोदात्तलम् ॥—अराजेति । ‘नञस्तत्पुरुषात्’ इति समासान्तनिषेधः
SK 3895 · A 6.2.161V
विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ ३८९५ ॥
vibhāṣā tṛnnannatīkṣṇaśuciṣu
Siddhānta-kaumudī
तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ॥
Subodhinī
NSP p. 662
—विभाषा तृन्—नञ उत्तरपदान्येतान्यन्तोदात्तानि स्युस्तत्पुरुषे ॥—वहुत्रीहाविदम्—॥—एभ्य इत्यादि । इदमेतत्तत्र्यः अनयोः प्रथमपरणयोः
SK 3896 · A 6.2.162V
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ॥ ३८९६ ॥
bahuvrīhāvidametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane
Siddhānta-kaumudī
एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-SK 692 इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-SK 3912 इत्यतः प्राग्बोध्यः ॥
Subodhinī
alignment inferredNSP p. 662–663
—इदं प्रथमं यस्येति । निग-मनं भोजनं वा ॥—अनेन प्रथम इदप्रथम इति । तृतीयापूर्वपदप्रकृतिस्वर एव भवति ॥—यत्प्रथम इति । यत्प्रथमं गमनं यस्य स यत्प्रथमः ॥—इदं प्रधाना इत्यर्थ इति । अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति । दर्शितम् । तेनात्र गणनाभाव उक्तः ॥—उत्तरपदस्येत्यादि । इह समासस्येति प्रकृतम् । उत्तरपदादिरित्यतः प्रवृति उत्तरपदस्येति च तन्त्रम् । इहोत्तरपदं कार्यित्वेनाश्रीयते तेन यदा क्रुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तो-दात्तं भवति न तु कवन्तम् । कप्रत्ययो हि समासस्यैवान्तो नोत्तरपदस्य । ‘उत्तरपदावयवाः समासान्ताः’ इति पक्षेऽपि प्रथमपूरणयोरिति विशिष्टरूपग्रहणात् । कपस्तत्रानन्तर्भावादुपात्तयोरेव स्वरः
SK 3897 · A 6.2.163V
संख्यायाः स्तनः ॥ ३८९७ ॥
saṃkhyāyāḥ stanaḥ
Siddhānta-kaumudī
बहुव्रीहावन्तोदात्तः । द्विस्तनी । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥
Subodhinī
NSP p. 663
—संख्यायाः—। संख्यायाः परः स्तनशब्दोऽन्तोदात्तः स्यात् ॥—दर्शनीयस्तनेति । पूर्वपदप्रकृतिस्वरः । दर्शनीयशब्दोऽनीयर्प्रत्ययान्तः रित्स्वरः
SK 3898 · A 6.2.164V
विभाषा छन्दसि ॥ ३८९८ ॥
vibhāṣā chandasi
Siddhānta-kaumudī
द्विस्तनां करोति ॥
Subodhinī
NSP p. 663
—विभाषा—। पूर्वसूत्रोक्तं छन्दसि वा स्यात् ॥—द्विस्तनीमिति । अन्तोदात्तलम् । ‘स्वाङ्गाम्बोपसर्जनात्’— इति क्षीण् ॥—चतुःस्तनेति । पूर्वपदप्रकृतिस्वरेण ‘चतेरुरन्’ इति चतुर्शब्दस्य नित्वादाद्युदात्तलम् । अत्रान्तोदात्तलाभावात् ‘स्वाङ्गात्’— इति क्षीण् न
SK 3899 · A 6.2.165V
संज्ञायां मित्राजिनयोः ॥ ३८९९ ॥
saṃjñāyāṃ mitrājinayoḥ
Siddhānta-kaumudī
देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ।
vārttika
ऋषिप्रतिषेधो मित्रे
(वार्तिकम्) ॥ विश्वामित्र ऋषिः ॥
Subodhinī
NSP p. 663
—संज्ञायां मित्रा—। एतयोरुत्तरपदयोरन्त उदात्तः स्याद् बहुत्रीहौ संज्ञायाम् ॥—विश्वामित्र इति । ‘मित्रे चणै’ इति दीर्घः । अत्र ‘बहुत्रीहौ विश्वं संज्ञायाम्’ इति वाधित्वा परलादनेनान्तो-दात्तत्वं प्राप्तं प्रतिषिध्यते । अतो ‘बहुत्रीहौ विश्वं संज्ञायाम्’ इत्यन्तोदात्तत्वं भवति
SK 3900 · A 6.2.166V
व्यवायिनोऽन्तरम् ॥ ३९०० ॥
vyavāyino'ntaram
Siddhānta-kaumudī
व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ॥
Subodhinī
NSP p. 663
—व्यवायि—। उदाहरणे व्यवधानवाचिनोऽन्तरशब्दात् ‘तत्करोति’— इति णिचि पचाद्यच् । प्रत्युदाहरणे लन्यवाच्यन्तरशब्दः
SK 3901 · A 6.2.167V
मुखं स्वाङ्गम् ॥ ३९०१ ॥
mukhaṃ svāṅgam
Siddhānta-kaumudī
गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ॥
Subodhinī
NSP p. 663
—मुखं—स्वाङ्गं मुखमुत्तरपदमन्तोदात्तं बहुत्रीहौ ॥—दीर्घमुखा शालेति । मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते । स्वाङ्गमद्रववाचिलक्षणमिह गृह्यते न तु स्वमङ्गं स्वाङ्गमिति व्युत्पत्तिलभ्यम् । अन्यथात्रापि स्यादिति भावः
SK 3902 · A 6.2.168V
नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ ३९०२ ॥
nāvyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ
Siddhānta-kaumudī
उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥
Subodhinī
NSP p. 663
—नाऽव्यय—। एभ्यः परो मुखशब्दोऽन्तोदात्तो न स्यात् ॥—पूर्वपदप्रकृतिस्वरोऽत्रेति । एषूदाहरणेषु ‘बहुत्रीहौ प्रकृत्या पूर्वपदम्’ इति पूर्वपदप्रकृतिस्वरेणान्तोदात्तं पूर्वपदम् । तथाहि ‘उदि चेङ्गैसिः’ । उच्चैः । ‘अनिगन्तोऽब्रताव-प्रत्यये’ इति प्रशब्द उदात्तः । तत एकादेशस्वरेण प्राङ्शब्द उदात्तः । ‘गमेङ्गैसिः’ । गौः । ‘वर्तमाने पृषत्’— इत्यादिना महच्छब्दः उदात्तो निपातितः । स्थूलशब्दः ‘ऋज्जेन्द्र’— इत्यादावन्तोदात्तो निपातितः । मुषेः किञ्च मुष्टिः । ‘प्रथिप्रदिभ्रस्ञां संप्रसारणं सलोपश्च’ इति कुः । पृथुः । ‘कृतृवदि’— इत्यादिना सः । वत्सः ॥—उपमानलक्षणो विकल्प इति । निष्ठोपमानादिति प्राप्तः ॥—वाध्यत इति । अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न भवति । गौर्मुखमिव यस्य सः । वत्सो मुखमिव यस्येति । सर्वत्रात्र गवाद्युपमेयं नोपमानम् । उत्तरस्य विकल्पस्यावकाशः यत्र गवादिपूर्वपदं न भवति । सिंहमुखः । गवादावुपमाने उभयप्रसङ्गेऽयमेव भवति पूर्वविप्रतिषेधेन ॥—सिंहमुख इति । पक्षे पूर्वपदप्रकृतिस्वरः । हिंसेः पचाद्यचि सिंहः । पृषोदरादिलादाद्यन्तविपर्ययः
SK 3903 · A 6.2.169V
निष्ठोपमानादन्यतरस्याम् ॥ ३९०३ ॥
niṣṭhopamānādanyatarasyām
Siddhānta-kaumudī
निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-SK 3844 इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ॥
SK 3904 · A 6.2.170V
जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ॥ ३९०४ ॥
jātikālasukhādibhyo'nācchādanāt kto'kṛtamitapratipannāḥ
Siddhānta-kaumudī
सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ॥
Subodhinī
NSP p. 663–664
—जातिकाल—। जात्यादिभ्यः परं कान्तमन्तोदात्तं स्याद् बहुत्रीहौ कृतादीन्वर्जयित्वा आच्छादनवाचकात्परं चेन्न ॥—सारङ्गजग्ध इति । सारङ्गः पक्षिविशेषः स जग्धो भक्षितो येनेति विग्रहः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वरः । तत्र पुत्रशब्दोऽन्तोदात्तः । वसेः पून् । वल्लभशब्द आद्युदात्तः । कुण्डशब्दो ‘ननुविषयस्यानिसन्तस्य’ इत्याद्युदात्तः । ननुदाहरणेषु प्रत्युदाहरणेषु च ‘निष्ठा’ इति निष्ठा- न्तस्य पूर्वनिपातः प्राप्नोति । तत्रास्माज्ज्ञापकादिति । इदमेव मनसि विभाव्योक्तं ‘जातिकालमुखादिभ्यः परा निष्ठा वाच्या’ इति ॥—दन्तजात इति । पक्षे पूर्वपदप्रकृतिखरः । दन्तशब्दः ‘खाङ्गशिटामदन्तानाम्’ इत्याद्युदात्तः । मासशब्दो ‘प्रामादीनां च’ इत्याद्युदात्तः
SK 3905 · A 6.2.171V
वा जाते ॥ ३९०५ ॥
vā jāte
Siddhānta-kaumudī
जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ॥
SK 3906 · A 6.2.172V
नञ्सुभ्याम् ॥ ३९०६ ॥
nañsubhyām
Siddhānta-kaumudī
बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ॥
Subodhinī
NSP p. 664
—नञ्चसु— नञ्चसुभ्यां परमुत्तरपदमन्तोदात्तं स्यात् । समासान्ता उत्तरपदावयवाः । तेनानुच इत्यत्र ‘ऋक्पूर्—’ इत्यप्यकारस्योदात्तत्वं भवति । समासावयवाः समासान्ता इति पक्षे तु अस्मिन् सूत्रे समासस्यैव कार्यित्वमाश्रीयते नोत्तरपदस्य ‘कपि पूर्व’मिति ज्ञापकात् । यद्यनेनोत्तरपदस्यान्तोदात्तः स्यात् ततोऽङ्कमारीक इत्यादावन्नैव सिद्धत्वात्कपिपूर्वमित्यवाच्यं स्यात् । कपि पूर्वं पूर्वेण कप एवोदात्तत्वे प्राप्ते ततः पूर्वस्योदात्तत्वं विधीयते ‘हस्वान्तेन्त्यात्पूर्वम्’ इति वचनादिह वीर्धान्ता एवोदाहृताः । उदाहरणे ‘नवृत्तश्च’ इति कप् ॥—हस्वान्ते । हस्वः अन्तो यस्य तदिदं हस्वान्तमिति बहुबीहेरन्यपदार्थमुत्तरपदं समासो वा गृह्यत इत्याशयेनाह—उत्तरपदे समासे वेति । अत्र कपि पर इति सामान्यवाचनात्तद्वितिमुत्तरपदं समासो वा गृह्यते । ननु पूर्वग्रहणमनर्थकं कपि पूर्वमित्यनुवृत्तेरत आह—पूर्वमित्यनुवर्तमान इति । प्रवृत्तिमेदेन वाक्यमेदेन तत्रैकेन वाक्येन हस्वान्तेन्त्यात्पूर्वस्योदात्तत्वं विधीयते । द्वितीयेन तु नियम्यते । हस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति
SK 3907 · A 6.2.173V
कपि पूर्वम् ॥ ३९०७ ॥
kapi pūrvam
Siddhānta-kaumudī
नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ॥
Subodhinī
NSP p. 664
—न कपि पूर्वमिति । तेन किं सिद्धमत आह—कवन्तस्यैवान्तोदात्तत्वमिति । नास्ति ज्ञा यस्य अज्ञकः । अत्र यद्येष नियमो न स्यात्तर्हि एतस्याभावे कपि पूर्वमित्ययमेव खरः स्यात् । अस्मिन्नु नियमे सति न भवति । ‘नञ्छुभ्याम्’ इति कवन्तस्यैव भवति ॥—वहोर्नञ् । नञ् इव नञ्वत् । अस्मादेव निपातनात्पञ्चमीसमर्थाद्वतिः । वहूनां भावो भूमा ‘वहोर्लोपो भू च वहोः’ उत्तरपदशब्देन तदर्थो गृह्यते स्वरूपेणोत्तरपदस्य बहुलासंभवात् । तदाह—उत्तरपदार्थवहुत्वेति ॥—वहुत्रीहिक इत्यादि । ‘ह्रस्वान्तेऽन्यात्पूर्वम्’ इति स्वरः ॥—वहुमान इति । पूर्वपदप्रकृतिस्वरः । वहुशब्दस्तु ‘लघियंहोर्नलोपश्च’ इति कुप्रलयान्तोऽन्तोदात्तः
SK 3908 · A 6.2.174V
ह्रस्वान्तेऽन्त्यात् पूर्वम् ॥ ३९०८ ॥
hrasvānte'ntyāt pūrvam
Siddhānta-kaumudī
ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ॥
SK 3909 · A 6.2.175V
बहोर्नञ्वदुत्तरपदभूम्नि ॥ ३९०९ ॥
bahornañvaduttarapadabhūmni
Siddhānta-kaumudī
उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ॥
SK 3910 · A 6.2.176V
न गुणादयोऽवयवाः ॥ ३९१० ॥
na guṇādayo'vayavāḥ
Siddhānta-kaumudī
अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ॥
Subodhinī
NSP p. 664
—न गुणा—अवयववा चिनो वहोः परे इति । अवयवाचिन इति गुणादीनां विशेषणम् ॥—उपस—स्वाङ्गं प्रति क्रियायोगाभावादुपसर्गग्रहणं प्राद्युपलक्षणम् । प्रादेरुत्तरं ध्रुवं स्वाङ्गवाचि पश्चैवर्जितमन्तोदात्तं स्यात् । वहुत्रीहौ प्रत्युदाहरणे पूर्वपदप्रकृतिस्वरः । दर्शनीयशब्दोऽनीयरूपलयान्तः रित्स्वरः ॥—उद्वाहुरिति । कोशतीति शेषः । अत्र कोशनसमय एवोद्वाहुत्वं न सर्वदैवेल्यध्रुवम्
SK 3911 · A 6.2.177V
उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ ३९११ ॥
upasargāt svāṅgaṃ dhruvamaparśu
Siddhānta-kaumudī
प्रपृष्टः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । स्वाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उद्बाहुः । अपर्शु किम् । विपर्शुः ॥
SK 3912 · A 6.2.178V
वनं समासे ॥ ३९१२ ॥
vanaṃ samāse
Siddhānta-kaumudī
समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ॥
Subodhinī
NSP p. 664
—चनं समासे । वहुत्रीहाविल्यस्य निवृत्त्यर्थं समासग्रहणम् ॥—प्रवण इति । वहुत्रीहौ तत्पुरुषे चपूर्वपदप्रकृतिस्वरे प्राप्ते । ‘प्रनिरन्तः—’ इति णलम्
SK 3913 · A 6.2.179V
अन्तः ॥ ३९१३ ॥
antaḥ
Siddhānta-kaumudī
अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ॥
Subodhinī
NSP p. 664
—अन्तः । अन्तःशब्दात्पञ्चम्याद्ग्रहणान्दसो लुक् तदाह—अस्मात्परमिति । अन्तःशब्दात्परमिल्यर्थः ॥—अन्तर्वेण इति । अत्रापि तेनैव णलम् ॥—अनुपसर्गार्थमिति । उपसर्गे तु पूर्वेनैव सिद्धम्
SK 3914 · A 6.2.180V
अन्तश्च ॥ ३९१४ ॥
antaśca
Siddhānta-kaumudī
।उपसर्गादन्तः शब्दोऽन्तोदात्तः । पर्यन्तः समन्तः ॥
SK 3915 · A 6.2.181V
न निविभ्याम् ॥ ३९१५ ॥
na nivibhyām
Siddhānta-kaumudī
न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यणः-SK 3657 इति स्वरितः ॥
Subodhinī
NSP p. 664
—न निविभ्याम् । निविभ्यामुत्तरोऽन्तःशब्दो नान्तोदात्तः स्यात् ॥—पूर्वपदप्रकृतिस्वर इति । वहुत्रीहिसमासे ‘वहुत्रीहौ प्रकृत्या’ इति तत्पुरुषे ‘तत्पुरुषे तुल्यार्थ—’ इत्यनेन
SK 3916 · A 6.2.182V
परेरभितोभाविमण्डलम् ॥ ३९१६ ॥
parerabhitobhāvimaṇḍalam
Siddhānta-kaumudī
परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ॥
Subodhinī
NSP p. 664–665
—परेरभितः—परेरुत्तरोऽभिशब्दो भाववाची मण्डलं चान्तोदात्तं स्यात् । अभिताभावीत्यस्यार्थमाह—अभितो भावोऽस्यास्तीति । अथवा अभितः उभयतो भवति नद्यादौ कूलादिकमित्यभितोभावि । ‘सुप्यजातौ’- इति णिनिः ॥—परिकूलमिति । बहुव्रीहिः प्रादिसमासोऽव्ययीभावो वा । तत्र बहुव्रीहौ तत्पुरुषे च पूर्वपदप्रकृतिस्वरे प्राप्ते, अव्ययीभावे तु ‘परिप्रत्युपापा’- इति, ‘कूलतीर’- इति च प्राप्ते परितः कूलमस्य, परिगतं कूलमिति वा कूलात्कूलं वर्जयित्वेत्यर्थं इति । उदकस्याभाव इव विप्रहः ॥—प्राद्-। प्रादुत्तरमस्वाङ्गवाचि संज्ञायामन्तोदात्तं स्यात् ॥—प्रगृहमिति । प्रादिसमासः, बहुव्रीहिर्वा ॥—प्रपदमिति । पूर्वपदप्रकृतिस्वरः ॥—निरुदकमित्यादि । निर्गतमुदकं यस्मादिति बहुव्रीहिः । निर्गतमुदकमिति प्रादिसमासो वा । उदकस्याभाव इत्यव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् ॥—अभे-। अभेरुत्तरपदं मुखमन्तोदात्तं स्यात् ॥—उपसर्गात्स्वाङ्गमितीति । मुखं स्वाङ्गमिति तु न भवति ‘नाव्ययदिक्शब्द’- इति निषेधात्
SK 3917 · A 6.2.183V
प्रादस्वाङ्गं संज्ञायाम् ॥ ३९१७ ॥
prādasvāṅgaṃ saṃjñāyām
Siddhānta-kaumudī
प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ॥
SK 3918 · A 6.2.184V
निरुदकादीनि च ॥ ३९१८ ॥
nirudakādīni ca
Siddhānta-kaumudī
अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥
SK 3919 · A 6.2.185V
अभेर्मुखम् ॥ ३९१९ ॥
abhermukham
Siddhānta-kaumudī
अभिमुखम् । उपसर्गात्स्वाङ्गम्-SK 3911 इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ॥
SK 3920 · A 6.2.186V
अपाच्च ॥ ३९२० ॥
apācca
Siddhānta-kaumudī
अपमुखम् । योगविभाग उत्तरार्थः ॥
Subodhinī
NSP p. 665
—अपाच्च । अपादुत्तरं मुखमन्तोदात्तं स्यात्समासे ॥—अपमुखमिति । प्रादिसमासे बहुव्रीहौ च पूर्वपदप्रकृतिस्वरे प्राप्ते मुखं वर्जयित्वेत्यव्ययीभावेऽपि ‘परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु’ इति प्राप्तेऽयमारम्भः ॥—उत्तरार्थ इति । उत्तरत्र अपादित्यस्यैवानुवृत्तिर्यथा स्यात् अभेर्मा भूत्
SK 3921 · A 6.2.187V
स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च ॥ ३९२१ ॥
sphigapūtavīṇā'ñjo'dhvakukṣisīranāmanāma ca
Siddhānta-kaumudī
अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-SK 953 इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ॥
Subodhinī
NSP p. 665
—स्फिगपूत-। नामग्रहणं सीरेणैव संबध्यते न स्फिगादिभिः । स्फिगपूतकुक्षीणां पृथग्ग्रहणादिति हरदत्तः । तेन स्फिगपूतकुक्षयः पर्याया इति निश्चीयते ॥—उपसर्गादध्वन इत्य- स्याभाव इति । ‘उपसर्गादध्वनः’ इदं समासान्ताच्प्रत्ययविधायकं तदभावे । तस्मिन् सति अच्प्रत्ययस्य चित्त्वादेव सिद्धम् । ननु ‘उपसर्गादध्वनः’ इत्यनेन नित्योऽज् विधीयते तत्कथमुक्तमित्यस्याभाव इतीत्यत आह—एतदेव च ज्ञापकमिति । यदि हि नित्यः समासान्तः स्यात् अध्वग्रहणमिहानर्थकं स्यात्, अच्प्रत्ययस्य चित्त्वादन्तोदात्तस्य सिद्धत्वात् । कृतं तु अध्वग्रहणं ज्ञापयति समासान्ता अनित्या इति ॥—स्फिगपूतकुक्षिग्रहणमिति । यदा हेतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति बहुत्रीहिश्च समासस्तदा ‘उपसर्गात्स्वाङ्गम्’ इत्येव सिद्धम् ॥—अधेः—। अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं स्यात् । उपरि तिष्ठतीत्युपरिस्थम् । ‘मुपि स्थः’ इति कः । तदेतदर्शयति—दन्तस्योपरीति ।—अधिकरणमिति । अधिक्रियतेऽस्मिन्नित्यधिकरणं नैतदुपरिस्थवाचि किं त्वधःस्थवाचि । अत्र कृदुत्तरपदग्रकृतिस्वरेणाकार उदात्तः ॥—अनुज्येष्ठ इति । उत्तरपदार्थस्याप्राधान्यं दर्शयति—पूर्वपदार्थग्रधानः प्रादिसमासोऽयमिति ॥—ग्रधानार्थं च कनीयोग्रहणमिति । अन्यत्राप्रधानग्रहणेनैव सिद्धत्वात् । अनुगतो ज्येष्ठ इति विग्रहविशेषेण ग्रधानवाचित्वं ज्येष्ठशब्दस्य दर्शयति—पुरुष—।—अन्वादिष्ट इति । अनु पश्चादादिष्टः कथितः । कस्मिंश्चित्कथिते योऽन्यः कथ्यते स अन्वादिष्ट इत्यर्थः
SK 3922 · A 6.2.188V
अधेरुपरिस्थम् ॥ ३९२२ ॥
adheruparistham
Siddhānta-kaumudī
अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥
SK 3923 · A 6.2.189V
अनोरप्रधानकनीयसी ॥ ३९२३ ॥
anorapradhānakanīyasī
Siddhānta-kaumudī
अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥
SK 3924 · A 6.2.190V
पुरुषश्चान्वादिष्टः ॥ ३९२४ ॥
puruṣaścānvādiṣṭaḥ
Siddhānta-kaumudī
अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥
SK 3925 · A 6.2.191V
अतेरकृत्पदे ॥ ३९२५ ॥
aterakṛtpade
Siddhānta-kaumudī
अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ।
vārttika
अतेर्धातुलोप इति वाच्यम्
(वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥
Subodhinī
NSP p. 665–666
—अतेरकृत्पदे । अकृच्च पदं च अकृत्पदे तदाह—अकृदन्तं पदशब्दश्चेति ॥—अत्यङ्कुश इति । अङ्कुशमतिक्रान्त इति विग्रहः ॥—अतिकारक इति । शोभनः कारकः । पूजार्थोऽयमतिः ॥—अतेर्धातुलोप इति । अत्यङ्कुशादौ वृत्तिविषयेऽतिशब्दोऽतिक्रान्तार्थवृत्तिरिति क्रमेरप्रयोग एव धातुलोपः ॥—अतिगार्य इति । यथान्यासे त्वत्रापि प्राप्नोति गार्यशब्दस्याकृदन्तत्वात् । तस्मादव्याप्यतिव्याप्तिपरिहारार्थमकृत्पदे इत्येतदपनीय धातुलोप इति वक्तव्यमित्यर्थः
SK 3926 · A 6.2.192V
नेरनिधाने ॥ ३९२६ ॥
neranidhāne
Siddhānta-kaumudī
निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥
Subodhinī
NSP p. 666
—नेरनि—नीशब्दादुत्तरपदमन्तोदात्तं स्यादनिधानेऽर्थं ॥—निमूलमिति । निर्गतं मूलमस्य निर्गतं वा मूलं निर्मूलम् ॥—निदण्ड इति । निशब्दो निधानार्थं वर्तते कथं पुनर्निशब्दस्यायमर्थं इति चेच्छृणु । प्रादयो हि वृत्तिविषये सक्रियं साधनमाहुः ॥—समासान्तस्यानित्यत्वादिति । इह राजनशब्दस्य पाठ एव ज्ञापयति समासान्ता अनित्या इति । अन्यथा ‘राजाहःसखिभ्यष्टच्’ इति टचश्चित्त्वादेव सिद्धं स्यात्
SK 3927 · A 6.2.193V
प्रतेरंश्वादयस्तत्पुरुषे ॥ ३९२७ ॥
prateraṃśvādayastatpuruṣe
Siddhānta-kaumudī
प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥
SK 3928 · A 6.2.194V
उपाद् द्व्यजजिनमगौरादयः ॥ ३९२८ ॥
upād dvyajajinamagaurādayaḥ
Siddhānta-kaumudī
उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥
SK 3929 · A 6.2.195V
सोरवक्षेपणे ॥ ३९२९ ॥
soravakṣepaṇe
Siddhānta-kaumudī
सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥
Subodhinī
NSP p. 666
—सोरव—सोरुत्तरपदं निन्दायामन्तोदात्तं स्यात्तत्पुरुषे ॥—सुप्रत्यवसित इति । ‘सुः पूजायाम्’ इति कर्मप्रवचनीयस्य सोः ‘स्वती पूजायाम्’ इति समासः । तेन सुप्रत्यवसिते थाथादिविधिर्न शङ्कनीयः । ननु यदि सुशब्दोऽत्र पूजायां वर्तते कथं तर्हि क्षेपो गम्यत इत्याह—वाक्यार्थस्त्विति । कथमित्याह—असूययेति । यः स्त्वनर्थे उपस्थिते सुखायमान आस्ते तं प्रत्येवमुक्ते क्षेपो गम्यते
SK 3930 · A 6.2.196V
विभाषोत्पुच्छे ॥ ३९३० ॥
vibhāṣotpucche
Siddhānta-kaumudī
तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-SK 3231 उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ॥
Subodhinī
NSP p. 666
—विभाषोत्—उच्छब्दात्परः पुच्छशब्दः अन्तोदात्तो वा स्यात्तत्पुरुषे ॥—सेयमुभयत्र विभाषेति । आवायां तु व्युत्पत्तौ अव्ययपूर्वपदप्रकृतिखरेण वाधितत्वात्समासस्यान्तोदात्तत्वमप्राप्तम् । द्वितीयायां तु व्युत्पत्तौ थाथादिखरेण नित्यमन्तोदात्तत्वं प्राप्तमिति कृत्वोभयत्र विभाषा
SK 3931 · A 6.2.197V
द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ ३९३१ ॥
dvitribhyāṃ pāddanmūrdhasu bahuvrīhau
Siddhānta-kaumudī
आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥
Subodhinī
NSP p. 666–667
—द्वित्रिभ्याम्—पादिति कृताकारलोपो गृह्यते ददिति कृतददादेशो दन्तशब्दः ॥—आभ्यामिति । द्वित्रिभ्याम् ॥—द्विपादिति । द्वौ पादौ यस्येति द्विपात् । ‘संख्यासुपूर्वस्’ इति पादशब्दस्याकारलोपः ॥—द्विदन्ति । ‘वयसि दन्तस्य दत्’ ॥—मूर्धन्नित्यकृतसमासान्त एव मूर्धन्शब्द इति । एतच्च मूर्धन्निति निर्देशादेवावसीयते । अन्यथा मूर्धन्निति निर्देशं स्यात् । किमर्थं पुनरकृतसमासान्त एव निर्दिष्ट इत्यत आह—तस्येति । यद्यकृतसमासान्तस्योपादानं तर्हि यदा समासान्तः क्रियते तदा न प्राप्नोति तस्याशब्दान्तरलादित्यत आह—यदापीति । इह हि बहुव्रीहिः कार्यित्वेनोपात्तो न मूर्धन्शब्दः ॥—तदेकदेशत्वाच्चेति । तस्य बहुव्रीहेरेकदेशः समासान्तस्तस्य भावस्तत्त्वं तस्मादिति स एवार्थः । तदेकदेशिलादिति पाठे तु स बहुव्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी समासान्तस्तद्भावस्तत्त्वं तस्मादिति स एवार्थः । तदेवं बहुव्रीहेः कार्यलात्तदेकदेशलाच्च समासान्तस्येति । यदा समासान्तः क्रियते तदाप्ययं विधिर्भवत्येव ॥—द्विमूर्ध इति । ‘द्वित्रिभ्यां षमूर्धः’ इति षः ॥—कल्याणमूर्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दो ‘लघावन्ते’ इत्यादिना मध्योदात्तः ॥—सकथं च । ‘बहुव्रीहौ सकथ्यक्षणोः’ इति यजन्तः सकथशब्दः उत्तरपदमन्तोदात्तं वा स्यात् स चेत् क्रशब्दान्तात्परो न भवति । चित्त्वान्नित्यमन्तोदात्तत्वे प्राप्तेऽयं विकल्पः ॥—गौरसकथ इति । पक्षे पूर्वपदप्रकृतिस्वरः । ‘शुक्लगौरयोरादिः’ इति गौरस्याबन्तावुदात्तौ । तेनात्र त्रैस्वर्यम् ॥—ऋक्षणसकथ इति । ‘कृत्यशूभ्यां क्लः’ ‘छिषेरच्चोपधायाः’ इति ऋक्षणशब्दोऽन्तोदात्तः ॥—षच्चश्चित्त्वादिति । एतेन चित्स्वरस्यापवादः । प्राप्तविभाषेयमिति दर्शयति—परादिश्छन्दसि—। परशब्देनात्र सकथशब्द एव । तस्यैव पूर्वमुने सन्निहितलात्तदाह—परस्य सकथशब्दस्येति । ननु तर्हि परश्रद्धणमनयक् प्रकृतो हि सकथशब्दोऽनुवर्तते । नेतदस्ति । बहुव्रीहेरपि प्रकृतलात्तस्याद्युदात्तत्वं शङ्क्येत । ‘विभाषोत्पुच्छ’—इत्यतो विभाषेति वर्तमाने बहुलग्रहणं बह्वर्थप्रदर्शनार्थम् । बहुलग्रहणस्यार्थं श्लोकेन दर्शयति —परादिश्चेति । उरुक्षयेति । उरुणां क्षयो निवास इति विग्रहः । ‘क्षयो निवासे’ इति क्षयशब्द आद्युदात्तः । ‘समासस्य’ इत्यन्तोदात्तं बाधित्वा क्रुदुत्तरपदग्रकृतिस्वरेणोत्तरपदाद्युदात्तत्वं प्राप्तं तत्थाथादिस्वरेण बाधितम् । अतो बाहुल-केनोत्तरपदाद्युदात्तत्वम् । एतच्च ‘क्षि निवासगत्योः’ इति धातोर्बाहुलकादधिकरणे ‘एरच्’ इति माधवेनोक्तम् । बस्तुतस्तु धप्रत्ययान्तः क्षयशब्द इति हरदत्तोक्तरीत्या थाथादिस्वरस्येहाप्राप्त्या क्रुदुत्तरपदग्रकृतिस्वरेणैव सिद्धम् । ‘परादिश्च’ इत्यस्यो-दाहरणं तु ‘चोदयित्रीं सूत्रतानाम्’ इति बोध्यम् । ऊन परिहाणे । चुरादिष्वदन्तः णिच् क्विप् सुतरामूनयत्यप्रियमिति सूत्र तद्दतं च सूत्रतम् । ‘अयस्मयादीनि’—इति भलानलोपो न ॥—मुष्टिहत्ययेति । मुष्ट्या हननं मुष्टिहत्या ‘हनस्त च’ इति सुवन्ते उपपदे क्यप् । क्रुदुत्तरपदग्रकृतिस्वरोऽत्र प्राप्तः ॥—त्रिचक्र इति । बहुत्रीहिलात्पूर्वपदग्रकृतिस्वरः प्राप्तः ॥—विश्वायुरिति । विश्वमायुर्यस्मिन्निति बहुत्रीहिः । विश्वशब्दः कन्प्रत्ययान्तः पूर्वपदग्रकृतिस्वरेणाद्युदात्तः प्राप्तः ॥ इति स्वरसुबोधिन्यां समासस्वरप्रकरणम् ॥ तिङो—॥पचति गोत्रमिति । गोत्रं स्वकुलं पीडयतीत्यर्थः । एवं हि कुत्सा भवति । आमीक्ष्ये उदाहरणमाह—पचतिपचति गोत्रमिति । अनेकार्थलात्पत्रिः करोत्यर्थे वर्तते । विवाहादौ गोत्रं पुनः पुनः सुखीकरोतित्यर्थः । ‘नित्यवीप्सयोः’ इति द्वित्वम् । ननु किं कुत्सनामीक्ष्णग्रहणं गोत्रादीनां पाठविशेषणम्, एतयोरर्थयोगोत्रादीनि भवन्ति । तानि च तिङः पराण्यनुदात्तानि भवन्ति, आहोस्विदनुदात्तविशेषणं तिङः पराणि गोत्रादीन्यनुदात्तानि भवन्त्येतयोरर्थयो-रिति । अस्मिन्विचारे निर्णयमाह—कुत्सनामीक्ष्णग्रहणमिति । अयं चार्थो योगविभागाल्लभ्यते । तिङो गोत्रादीनी-त्येको योगोऽनुदात्तविधानार्थः । कुत्सनामीक्ष्णयोरिति द्वितीयो-योगः गोत्रादीनीत्येव । परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सनामीक्ष्णविषयाण्येव ग्राह्याणि । तेन किं सिद्धं भवतीत्यत आह—तेनेति ॥—अन्यत्रापीति । ‘चनचिदिवगोत्रा-दितदिताम्रेडितेष्वगतेः’ इत्यत्र ॥—पचति पापमिति । पापमिति क्रियाविशेषणम् ॥—खनति गोत्रं समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः ॥—तिङः—। अनुदात्तं सर्वमिति वर्तते तदाह—निहन्यत इति । सर्वानुदात्तो निधातं इति वैयाकरणानां व्यवहारः । अतिङ इति किम् । पचति भवति । एककर्तृका पचिक्रिया भवतीत्यर्थः । नन्वतिङ्ग्रहणं व्यर्थं ‘समानवाक्ये निधातयुष्मदस्मदादेशाः’ इत्युक्त्वात् । एकस्मिन्न वाक्ये तिङन्तद्वया-भावादिति चेत्सत्यम् । सूत्रकारेण समानवाक्याधिकारो न कृत इत्यतिङ्ग्रहणमकारि । भाष्ये तु अतिङ्ग्रहणं प्रत्याख्या-तम्
SK 3932 · A 6.2.198V
सक्थं चाक्रान्तात् ॥ ३९३२ ॥
sakthaṃ cākrāntāt
Siddhānta-kaumudī
गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥
SK 3933 · A 6.2.199V
परादिश्छन्दसि बहुलम् ॥ ३९३३ ॥
parādiśchandasi bahulam
Siddhānta-kaumudī
छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ।
vārttika
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते
(वार्तिकम्) ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥
SK 3934 · A 8.1.27V
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ ३९३४ ॥
tiṅo gotrādīni kutsanābhīkṣṇyayoḥ
Siddhānta-kaumudī
तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ॥
SK 3935 · A 8.1.28V
तिङ्ङतिङः ॥ ३९३५ ॥
tiṅṅatiṅaḥ
Siddhānta-kaumudī
अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ॥
SK 3936 · A 8.1.29V
न लुट् ॥ ३९३६ ॥
na luṭ
Siddhānta-kaumudī
लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ॥
Subodhinī
NSP p. 667–668
—न लुट् । इत आरभ्य निषेधसूत्राणि ॥—श्वःकर्ता । श्वःकर्ताराबिति । तासेः परस्य लसार्वधातुकस्यानु-दात्तत्वे कृते तासिरुदात्तः । एकवचने टिलोपे कृते उदात्तनिवृत्तिस्वरेण डा उदात्तः ॥—निपातैः—। यदित्यादीनां यत्रेत्यन्तानां द्वन्द्वे तृतीयायाः सौत्रो लुक्, न तु युक्तशब्देन समासः । निपातैरिति विशेषणस्यानन्वयापत्तेस्तदाह—एतैर्निपातैरिति । यद् यदि हन्त कुवित् नेत् चेत् चण् कचित् यत्र एतैरित्यर्थः । ‘यद्यदार्थे च हेतौ च विचारे यदि चेचणः । हन्त हर्षेऽनुकम्पायां वाक्यारभविषादयोः । कचित्प्रश्ने नेत् निषेधे प्रशंसायां कुवित्स्मृतम् । यत्रेत्याधारे तत्र मूले कुविदुदाहतः’ । अन्येप्यूह्याः । तत्रप्रहणं साक्षात्संबन्धप्रतिपादनार्थम् ॥—यद्ग्रे स्यामिति । अस्तेर्लिङि अम् ॥—चक्रमा कचिदिति । चक्रमेति लिट् । प्रत्ययस्वरेणान्तोदात्तम् । कचिदयं निपातसमुदायः । पदकाले कत् चिदिति विच्छिन्न पाठात् । निपातैः किम् । यत्कूजति शकटम् । एतीति यत् । इणः शतरि रूपम् ‘इणो यण्’ इति यण् । ननु प्रतिपदोक्त्वात् यदादिभिः साहचर्याच्च निपातस्यैव यच्छब्दस्य ग्रहणं स्यादिति चेत्सत्यम् । एतदेव ज्ञापयति अस्मिन्प्रक-रणे नेदमुभयं व्यवस्थापकमिति । तेन ‘यावद्यथाभ्याम्’ इत्यत्र ‘यत्तदेतेभ्यः परिमाणे बनुप्’ इति व्युत्पादितस्यापि लाक्ष८३ णिकसंनिपातस्यापि ग्रहणं भवति । ‘यावत् स्तोतृभ्योऽरदो गृणानाः’ इति । अत्रारद इत्यदस्वरेणाद्युदात्तम् । युक्तग्रहणं किम् । अन्यान्विते मा भूत् । ‘यत्र क्व च ते मनो दक्षं दधत उत्तरम्’ इह यत्रेत्यस्योत्तरमित्यनेन साक्षात्संवन्धः । दध धारणे । अनुदात्तेत्
SK 3937 · A 8.1.30V
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ॥ ३९३७ ॥
nipātairyadyadihantakuvinnecceccaṇkaccidyatrayuktam
Siddhānta-kaumudī
एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् (यद॑ग्ने॒ स्याम॒हं त्वम्) । युवा यदीकृथः (युवा॒ यदी॑कृ॒थः) । कुविदङ्ग आसन् (कु॒विद॒ङ्ग आस॑न्) । अचित्तिभिश्चकृमा कच्चित् (अचि॑त्तिभिश्चकृ॒मा कच्चि॑त्) । पुत्रासो यत्र पितरो भवन्ति (पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति) ॥
SK 3938 · A 8.1.31V
नह प्रत्यारम्भे ॥ ३९३८ ॥
naha pratyārambhe
Siddhānta-kaumudī
नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ॥
Subodhinī
NSP p. 668
—नह प्रत्या— नहशब्दो निपातसमुदायो निषेधे वर्तते ॥—नह भोक्ष्यस इति । अदुपदेशात्परलात्स इत्यस्य निघातः । स्यप्रत्ययस्वरेण मध्योदात्तं पदम् । पूर्वं भुङ्क्ष्वेत्युक्ते पुनः क्रोधेनापहासेन वा पुनः पुनः प्रतिषेध उक्ते पृच्छति भोजनं करिष्यति स एवमुच्यते ॥—नह वैतस्मिन्निन्नि— तस्मिन्शब्दः फिद्भवरेणाद्युदात्तः । लोकशब्दः पचायजन्तलादन्तोदात्तः । दक्षिणशब्दः ‘स्वाङ्गशिटामदन्तानाम्’ पाठ शिद्लादाद्युदात्तः
SK 3939 · A 8.1.32V
सत्यं प्रश्ने ॥ ३९३९ ॥
satyaṃ praśne
Siddhānta-kaumudī
सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ॥
Subodhinī
alignment inferredNSP p. 668
—सत्यं भोक्ष्यस इति । इदं मध्योदात्तम्
SK 3940 · A 8.1.33V
अङ्गाप्रातिलोम्ये ॥ ३९४० ॥
aṅgāprātilomye
Siddhānta-kaumudī
अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ॥
Subodhinī
NSP p. 668
—अङ्गा—। प्रातिलोभ्यं प्रतिकूलकारित्वं ततोऽन्यदभिमतकारित्वमप्रातिलोभ्यम् । एवं चानुलोभ्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायां प्रत्युदाहरणे त्वमर्षे ॥—अङ्ग कुर्विति । करोतेलोण्मध्यमपुरुषैकवचनं सिप् तस्य ‘सेह्यंपिच्च’ इति हिरादेशः । ‘तनादिकृन्भ्यः सार्वधानुके’ इति करोतेर्गुणः । ‘अत उत्सार्वधानुके’ ‘उतश्च प्रत्ययादसंयोगपूर्वात्’ इति हेर्लुक् । कुर्वित्युप्रत्ययस्वरेणान्तोदात्तम्
SK 3941 · A 8.1.34V
हि च ॥ ३९४१ ॥
hi ca
Siddhānta-kaumudī
हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ॥
Subodhinī
NSP p. 668
—हि च । अत्राप्यप्रातिलोभ्य इति संवध्यते ॥—आ हि प्मेति । सशब्दो निपातोऽपि चादिलादनुदात्ते । दीर्घत्वं च छान्दसम् । प्रातिलोभ्ये तु हि कूज वृषल । उदाहरणे हिशब्दोऽवधारणे हेतौ वा । स च प्रत्युदाहरणे त्वमर्षे
SK 3942 · A 8.1.35V
छन्दस्यनेकमपि साकाङ्क्षम् ॥ ३९४२ ॥
chandasyanekamapi sākāṅkṣam
Siddhānta-kaumudī
हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ॥
Subodhinī
NSP p. 668
—छन्दस्य—॥—अनेकमपीति । अपिशब्दादेकम् । तत्रानेकमुदाहरति—अनृतं हीति । हिर्यंत इत्यर्थे । यस्मादयं मत्तोऽनृतं वदति ततः पाप्मा । पापमेनं पुनाति अनृतवदनदोषेण युज्यत इति तात्पर्यार्थः । एकस्योदाहरणम् । अग्निर्हि पूर्वमुदजयत् मिन्द्रोनुदजयत् । अत्र एकमजयदित्याद्युदात्तम् । परं निहतम् । अत्र हेतुहेतुमङ्गावस्य द्योतको हिरित्यनेकमपि तिङ्न्तं हियुक्तं भवति । अत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वचनम् । तत्र छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था
SK 3943 · A 8.1.36V
यावद्यथाभ्याम् ॥ ३९४३ ॥
yāvadyathābhyām
Siddhānta-kaumudī
आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ॥
Subodhinī
NSP p. 668
—यावद्यथा— इयं तृतीया न पञ्चमीत्याह—आभ्यां युक्तमिति । तेन परभूतयोरपि भवति । देवदत्तः पचति यावदिति यावच्छब्दो निपातश्चानिपातश्च गृह्यते ‘निपातैर्यदादि’ इत्यत्र ज्ञापितलात् । आद्यसाकल्ये, द्वितीयः परिमाणोपाधिको वनुप्रत्ययान्तः । यथाशब्दो योग्यतादिषु ॥—आवतमिति । अवतेलोण्मध्यमपुरुषद्विवचनम् । यावच्छब्दोदाहरणं तु यावद् भुङ्क्ते देवदत्तः । पचति यावदिति । ‘यावत्स्तोतृभ्योऽरदो गृणानाः’ इति रद विलेखने लङ्कि सिपि अद अदस्वरेणाद्युदात्तः
SK 3944 · A 8.1.37V
पूजायां नानन्तरम् ॥ ३९४४ ॥
pūjāyāṃ nānantaram
Siddhānta-kaumudī
यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥
Subodhinī
NSP p. 668
—पूजायां—॥—नानुदात्तमिति । अनुदात्त एव भवतीत्यर्थः ॥ यावद्देवदत्त इति । पूर्वेणात्र निघातप्रतिषेधो व्यवाये यदि भवति उपसर्गेणेवेति नियमादत्रातिप्रसङ्गाभावेऽनन्तरग्रहणं शक्यमकर्तुम्
SK 3945 · A 8.1.38V
उपसर्गव्यपेतं च ॥ ३९४५ ॥
upasargavyapetaṃ ca
Siddhānta-kaumudī
पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥
Subodhinī
NSP p. 668–669
—उपसर्ग—। यावद्यथाभ्यां युक्तमनन्तरमुपसर्गेण व्यवहितम् । तिङ्न्तं पूजायां विषये नानुदात्तं स्यात् ॥—अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य न तिङन्तमात्रस्य ॥—प्रपचतीति । प्रशब्द आद्युदात्तः ॥—तुपदय—। तुप्रभृतीनि पूजाविषयाणि । उदाहरणानि तु माणवको भुङ्क्ते पश्य माणवको भुङ्क्ते । माणवकस्तु भुङ्क्त इति आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते । एवमन्यत्रापि । पूजायां किम् । पश्य मृगो धावति । तत्त्वकथनमेतत् । ननु ‘पूजायां नानन्तरम्’ इत्यतः पूजायामिति वर्तमाने पूजाग्रहणं व्यर्थमिति चेन्मैवम् । पूजाग्रहणं निघातप्रतिषेधार्थम् । तद्वि पूजाग्रहणं प्रतिषेधस्य प्रतिषेधेन संवद्धम् । ततश्च तदनुवृत्ताविहापि न लुङिलादिके विषये प्रतिषेधस्य प्रतिषेधः स्यात्, मा भूदेवं निघातस्यैव यथा स्यादित्येतदर्थं पूजाग्रहणम् । किं चानन्तरमित्येवं तदभूत् इह लविशेषेणेष्यते
SK 3946 · A 8.1.39V
तुपश्यपश्यताहैः पूजायाम् ॥ ३९४६ ॥
tupaśyapaśyatāhaiḥ pūjāyām
Siddhānta-kaumudī
एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ॥
SK 3947 · A 8.1.40V
अहो च ॥ ३९४७ ॥
aho ca
Siddhānta-kaumudī
एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ॥
Subodhinī
NSP p. 669
—अहो च ॥ अहो देवदत्तः पचति शोभनमित्युदाहरणम् । पृथग्योगकरणमुत्तरार्थम् । उत्तरो अहोयोग एव यथा स्यात्तुप्रगृहितिभिर्योगे मा भूदिति
SK 3948 · A 8.1.41V
शेषे विभाषा ॥ ३९४८ ॥
śeṣe vibhāṣā
Siddhānta-kaumudī
अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ॥
Subodhinī
NSP p. 669
—शेषे—पूर्वं पूजायामित्युक्तलात्ततोऽन्यः शेष इत्याह—पूजायामिति ॥—अहो कटं करिष्यतीति । पक्षेऽस्य प्रत्ययस्वरः । अनाश्चर्यभूतमेव वस्तु असूयया आश्चर्यवत्प्रतिपाद्यते न पूजा । शेषग्रहणं स्पष्टार्थम् । योगविभागसामर्थ्यादिति । तत्र ‘यावत्पुरा—’ इति भविष्यति लट् । विद्योतनादावध्ययनं धर्मशास्त्रप्रतिषिद्धम् । अतस्तदुपन्यासेन लरितमधीष्वेति गम्यते । पक्षे द्योतत इति धातुस्वरेणाद्युदात्तम् । ‘तास्यनुदात्त—’ इति लसार्वधातुकनिघातः
SK 3949 · A 8.1.42V
पुरा च परीप्सायाम् ॥ ३९४९ ॥
purā ca parīpsāyām
Siddhānta-kaumudī
पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुराविद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः परीप्सायां किम् । न तेनस्म पुराधीयते । चिरातीतेऽत्र पुरा ॥
Subodhinī
alignment inferredNSP p. 669
—न तेनस्म पुराधीयत इति । ‘लट् स्मे’ इति भूते लट् । अत्र भूतस्याध्ययनस्य चिरकालप्रवृत्तत्वं गम्यते न लरा
SK 3950 · A 8.1.43V
नन्वित्यनुज्ञैषणायाम् ॥ ३९५० ॥
nanvityanujñaiṣaṇāyām
Siddhānta-kaumudī
नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥
Subodhinī
NSP p. 669
—नन्वि—किञ्चित्कर्तुं स्वयमेवोद्यतस्य एवं क्रियतामित्यभ्युपगमोऽनुज्ञा । तस्याः एषणा प्रार्थनाऽनुज्ञैषणा । अनुज्ञाप्रार्थनेत्यर्थः । तदाह—अनुज्ञाप्रार्थनायामिति । उदाहरणे वर्तमानसामीप्ये लट् । प्रत्युदाहरणे ‘ननौ पृष्टप्रतिवचने’ इति भूते लट् ॥—अन्विति किमिति । अनुज्ञैषणायामिति किमित्यर्थः । ‘अज्ञाऽप्रातिलोम्ये’ इत्यादिवदितिकरणं विनापि सिद्धे एकनिपातोऽयमिति प्रदर्शनार्थमितिशब्दः । अन्यथा द्वयोर्निपातयोर्ग्रहणं संभाव्येत
SK 3951 · A 8.1.44V
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ॥ ३९५१ ॥
kiṃ kriyāpraśne'nupasargamapratiṣiddham
Siddhānta-kaumudī
क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ॥
Subodhinī
NSP p. 669
— किंक्रिया—॥—अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः ॥—किं द्विजः पचति आहोस्विद्रच्छतीति । आहोस्विदेको निपात आद्युदात्तः । अत्र केचित् पूर्वं किंयुक्तं तन्न निहन्यते उत्तरं तु न किंयुक्तमिति निहन्यत एवेति । अन्ये तु यद्यप्येकस्याख्यादात्तः । अत्र केचित् पूर्वं किंयुक्तं तन्न निहन्यते उत्तरं तु न किंयुक्तमिति निहन्यत एवेति । अन्ये तु यद्यप्येकस्याख्यादात्तः । अत्र केचित् पूर्वं किंयुक्तमिति ते मन्यन्ते । अस्तु द्वयोः संशयविषयत्वं किंशब्देन तु श्रुतक्रियाविषय एव प्रश्नो द्योत्यते । क्रियान्तरविषयस्तु प्रश्नः, आहोस्विदित्यनेन क्रियाप्रश्न इति चोच्यते । तस्मात्तस्यैव निघातप्रतिषेध इति । प्रश्ने किम् । किं देवदत्तः पठति । क्षेपे किंशब्दः । क्वचित्पुस्तके किमधीयत इति प्रत्युदाहरणं दृश्यते तन्नादर्तव्यं सोपसृष्टलात्
SK 3952 · A 8.1.45V
लोपे विभाषा ॥ ३९५२ ॥
lope vibhāṣā
Siddhānta-kaumudī
किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ॥
Subodhinī
alignment inferredNSP p. 669
—लोपे । ‘किंक्रियाप्रश्न—’ इति सूत्रमनुवर्तते । तथा चायमर्थः । क्रियाप्रश्ने यः किंशब्दः तस्य लोपे तदर्थेन युक्तमनुपसर्गमप्रतिषिद्धं च तिङन्तं वानुदात्तं स्यात् । सूत्रेण किमो लोपस्याविधानार्थप्रकरणादिना गम्यमानार्थलादप्रयोग एव लोपो विवक्षितः ॥—देवदत्तः पचति आहोस्वित्पठतीति । अत्र पक्षे निघातः । पक्षे धातुस्वरेणाद्युदात्तता । किंशब्दाप्रयोगादप्राप्तविभाषेयम् । यद्वा तस्याप्रयोगेऽपि अर्थेन योगात्प्राप्तविभाषा पूर्वसूत्रस्थाने प्रत्युदाहरणानि किंशब्दं त्यक्त्वात्र योजनीयानि ॥—एहि—॥—एहिमन्य इत्यनेन युक्तमिति । समुदायाभिप्रायमेकवचनम् । अन्यथा आख्याते द्वे आङ् चापर इति वहुवचनप्रसङ्गः
SK 3953 · A 8.1.46V
एहिमन्ये प्रहासे लृट् ॥ ३९५३ ॥
ehimanye prahāse lṛṭ
Siddhānta-kaumudī
एहि मन्ये इत्यनेन युक्तं लृडन्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्-SK 3958 इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥
Subodhinī
alignment inferredNSP p. 669–670
—एहि मन्ये भक्तं भोक्ष्यस इति । मन्यसे भोक्ष्ये इत्यर्थे ‘प्रहासे च मन्योपपदे—’ इत्यादिना मन्ये भोक्ष्यस इति पुरुषव्यत्ययः । इदं च वृत्तिकारमतरीत्या प्रत्युदाहरणम् । तन्मते उत्तमोपादानं स्यात्तत्रलात् । भाष्ये तु एहि मन्ये रथेन यास्यसीति प्रत्युदाहृतम् । तत्रायमर्थः । त्वं रथेन यास्यसीत्यहं मन्य एहीति ॥—गत्यर्थलोटा एहीत्यनेनैव सिद्ध इति । आङ्पूर्वादिणो लोट् सिपो हिः । अत्र एहीत्यस्य गत्यर्थलाद् गत्यर्थलोटेति सिद्धमित्यर्थः । एहीत्यत्र आङः परलादिहीत्यत्र निघातः ॥—मन्य इति । मन ज्ञाने अनुदात्तेत् । श्यन्नन्तलादाद्युदात्तलम् ‘तास्यनुदात्तेत्—’ इति अदुपदेशात्परलादिडनुदात्तः
SK 3954 · A 8.1.47V
जात्वपूर्वम् ॥ ३९५४ ॥
jātvapūrvam
Siddhānta-kaumudī
अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ॥
Subodhinī
NSP p. 670
—जात्व—। अपूर्वमित्येतज्ञानुशब्दस्यैव विशेषणं न तिङ्कन्तस्य । ‘आहो उताहो’ इति सूत्रे अनन्तरग्रहणाज्झापकात् । अन्यथा तत्राप्यपूर्वमिल्यनुवृत्तेरेव केवलतिङ्कन्तस्यानन्तर्यं लभ्यते इति किं तेन । ननु शेषे विभाषा बध्यति । तत्र शेषग्रहस्यर्थं तत्स्यात् शेषे विभाषा कश्च शेषः सान्तरं शेष इति अन्तरेणाप्यनन्तरग्रहणं ग्रहृत्तः शेषः कथम् । अपूर्वमिति प्रकृतं सपूर्वः शेषः इति तदेतत्सकलमभिप्रेलाह—अविद्यमानपूर्वं यज्ञात्विति ॥ —जातु भोक्ष्यस इति । अदुपदेशात्परलात्से इत्यस्य निघातः । मध्योदात्तं पदम् । जातुशब्दो निपातलादाद्युदात्तः । कटं जातु करिष्यसीति कटशब्दः फिट्लादन्तोदात्तः
SK 3955 · A 8.1.48V
किम्वृत्तं च चिदुत्तरम् ॥ ३९५५ ॥
kimvṛttaṃ ca ciduttaram
Siddhānta-kaumudī
अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ॥
Subodhinī
alignment inferredNSP p. 670
—किञ्चृत्तम्—वृत्तमित्यधिकरणे क्तः । किमो वृत्तं किञ्चृत्तम् । ‘अधिकरणवाचिनश्च’ इति कर्तारे षष्ठी । ‘अधिकरणवाचिना च’ इति समासनिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । इह ‘जालपूर्वम्’ इत्यतोऽपूर्वमिति वर्तते तब्घाचष्टे—अविद्यमानपूर्वमिति । यदि अत्र किञ्चृत्तं वर्तते तत्सर्वं गृह्यते तर्हि किमो यः किंतरामिलादेरपि प्रसङ्गः स्यादिति मला परिसंचष्टे—विभक्त्यन्तमित्यादि
SK 3956 · A 8.1.49V
आहो उताहो चानन्तरम् ॥ ३९५६ ॥
āho utāho cānantaram
Siddhānta-kaumudī
आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ॥
SK 3957 · A 8.1.50V
शेषे विभाषा ॥ ३९५७ ॥
śeṣe vibhāṣā
Siddhānta-kaumudī
आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥
Subodhinī
NSP p. 670
—शेषे वि-। अनन्तरापेक्षं शेषलमिलाह—व्यवहितमिति ॥—पञ्चतीति । पक्षे धातुखरेणाद्युदात्तम्
SK 3958 · A 8.1.51V
गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत् ॥ ३९५८ ॥
gatyarthaloṭā lṛṇna cet kārakaṃ sarvānyat
Siddhānta-kaumudī
गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ॥
Subodhinī
NSP p. 670
—गत्यर्थः—गतिरर्थो येषामिति विग्रहः । गत्यर्थलोटा युक्तमिति योगः पुनरर्थद्वारको निमित्तनिमित्तीभावः । लोडन्तवाच्यं हि निमित्तं लङ्घन्तवाच्यस्य न चेत्कारकम् । सर्वान्यदित्यस्य व्याख्यानमाह—यत्रैव कारके लोडित्यादि । कर्तारे कर्मणि वा ॥—आगच्छ देवदत्त ग्रामं द्रश्यस्येनमिति । आङ्पसर्गः । गच्छदेवदत्तशब्दयोः पदात्परलाभिघातः । ग्रामशब्दो ‘असेरा च’ इति मन्त्रन्त आद्युदात्तः ॥ —द्रश्यसीति । प्रत्ययखरेण मध्योदात्तम् ॥—उह्यन्तां देवदत्तेन शालयो रामेण भोक्ष्यन्त इति । बहेः प्रापणार्थत्वेऽपि गतिर्गम्यत इति गत्यर्थलम् । उह्यन्तामित्यत्र देवदत्तरामयोः कर्त्रोर्भेदेऽपि लकारवाच्यस्य शालेः कर्मणः अभेदात् ॥—आगच्छेरिति । लिङ्यं न लोट् ॥—द्रश्यसीति । वर्तमानसामीप्ये लट् ॥—आगच्छ देव ग्रामं पित्रा ते ओदनं भोक्ष्यत इति । कारकशब्दो न सूत्रे कारकव्यक्तिरेवाधीयते तेन कर्तृलाभेदेऽपि व्यक्तिभेदात्कारकभेदः ॥— त्वं चाहं च द्रश्याव एनमिति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यमिह च भिद्यते वाच्यम् । एकत्रैकमन्यत्र द्वयमिति निघातप्रतिषेधो न स्यात्, क्रियमाणे तु सर्वग्रहणे लोड्वाच्यकारकापेक्षया लङ्घ्वाच्यकारकाधिक्येऽपि निघातप्रतिषेधः सिद्धः
SK 3959 · A 8.1.52V
लोट् च ॥ ३९५९ ॥
loṭ ca
Siddhānta-kaumudī
लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ॥
Subodhinī
NSP p. 670–671
—लोट् च । लृढप्रहणं बिहाय ‘गत्यर्थलोटा’-इति संपूर्ण सूत्रमनुवर्तते तदाह— गत्यर्थैत्यादि ॥—आगच्छेति । गत्यर्थलोटा युक्तं पश्येति तु निहतमेव ॥—योगविभाग उत्तरार्थ इति । उत्तरो विकृत्यो लोट एव यथा स्यात्, लटो मा भूद् इति ॥—विभाषितम्-। पूर्वसूत्रं सर्वमनुवर्तते । प्राप्तविभाषा चैयम् । गत्यर्थलोटा युक्तं लोडन्तं सोपसर्गमुत्तमभिन्नं विभाषा नानुदात्तं स्यात् न चेत्कारकं सर्वान्यत् ॥—सोपसर्गमिति । उपसर्गेण सह । उपसर्गे विद्यमान इत्यर्थः । सहशब्दो विद्यमानार्थो न तुल्ययोगेन ह्युपसर्गस्य यदान्तोदात्तं तदा ‘तिङि चोदात्तवति—’ इति गतेर्निधातः ॥ पश्य । प्रविशानीति । उभयत्रापि पूर्वेण नित्यमेव निधातः । प्रत्युदाहरणानि पूर्वसूत्रोक्तान्येव प्रशब्दपूर्वाणि योज्यानि
SK 3960 · A 8.1.53V
विभाषितं सोपसर्गमनुत्तमम् ॥ ३९६० ॥
vibhāṣitaṃ sopasargamanuttamam
Siddhānta-kaumudī
लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ॥
SK 3961 · A 8.1.54V
हन्त च ॥ ३९६१ ॥
hanta ca
Siddhānta-kaumudī
हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि SK 3967 इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ॥
Subodhinī
NSP p. 671
—हन्त च । पूर्वसूत्रमनुवर्तते लोद्भहणं च तदाह—हन्ते-त्यनेनेत्यादि । प्राप्तविभाषेयम् । ‘निपातैर्यद्यदि—’ इति निधातनिषेधस्य सिद्धत्वात् ॥—प्रभुञ्जावहा इति । भुजेर्लोट् ‘भुजोऽनवने’ इत्यात्मनेपदं च हिः टेरेत्वं श्रम् । ‘आडुत्तमस्य पिच्च’ ‘एत ऐ’ अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । विकरणस्वरः ॥—आमः । अन्तरयतीत्यन्तरं व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम् । उदाहरणे निधाते प्रतिषिद्धे षाष्टमाद्युदात्तत्वम् ॥—अनन्तिक इति किमिति । अत्र केचिदनन्तिकं दूरं तस्यैव सामर्थ्यादेकश्रुतेर्निधातस्य च प्रतिषेधः । यदि निधातमात्रनिषेधोऽयं तदा निधातस्यैकश्रुत्या वाधितत्वादिदं सूत्रं व्यर्थं स्यादिति सामर्थ्यादेव चैतन्निषेधं प्रति एकश्रुतेरसिद्धत्वाभावः । भुतोदात्तस्तु न प्रतिषिध्यत इत्याहुः । अपरे तु अनन्तिक इत्यनेन यत्र दूरं न च संनिकृष्टं तदुच्यते न दूरमेव । अन्यथा दूरमित्येव वदेत् । तेनास्मिन्नेकश्रुतेः प्राप्तिरेव नास्ति अदूरत्वात्भुतोदात्तोऽपि नोदाहर्तव्य इति ॥—यद्भितु—॥—उदसृज इति । तुदादेः सृजेर्लङ्कि सिध्यद् ॥—उशन्ति हीति । वश कान्तौ । अदादिः । लटि ‘झोन्तः’ । प्रह्लादित्वात्संप्रसारणम् ॥—नान्यैरिति । यदिहन्तेत्यादिभिरित्यर्थः
SK 3962 · A 8.1.55V
आम एकान्तरमामन्त्रितमनन्तिके ॥ ३९६२ ॥
āma ekāntaramāmantritamanantike
Siddhānta-kaumudī
आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ॥
SK 3963 · A 8.1.56V
यद्धितुपरं छन्दसि ॥ ३९६३ ॥
yaddhituparaṃ chandasi
Siddhānta-kaumudī
तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-SK 3937इति हिच SK 3941 इति तुपश्य-SK 3946 इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ॥
Subodhinī
alignment inferredNSP p. 671
—जाये स्वारोहावैहीति । रुहेर्लोट् । वस् शप् । ‘आडुत्तमस्य पिच्च’ ‘लोटो लङ्कृत्’ इति लङ्क्वद्भावात् ‘नित्यं ङितः’ इति सलोपः । अङ्पूर्वादिणो लोट् । सिपो हिः । एहि । तेन परभूतेन युक्तस्य रोहावेत्यस्य ‘लोट् च’ इति प्राप्तो निधातप्रतिषेधो नियमान्निवर्त्यते । तेन स्वशब्दाश्रयो निधातो बोध्यः । स्वाशब्दे ‘रो रि’ इति लोपः । ‘दूलोपे—’ इति दीर्घः । स्वो रोहावेति पाठे तु छान्द-सत्वादुत्तमम् ॥—चनचि ॥—एष्विति । चन चिदिव गोत्रादि तद्धित आम्नेडित एष्वित्यर्थः । यद्यपि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्त इति तिङो गोत्रादीत्यत्रैवोक्तम्
SK 3964 · A 8.1.57V
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ ३९६४ ॥
canacidivagotrāditaddhitāmreḍiteṣvagateḥ
Siddhānta-kaumudī
एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ॥
Subodhinī
alignment inferredNSP p. 671
—पचतिकल्पमिति । अत्रानुदात्त एव तद्धितो प्राह्यः । अन्यत्र तद्धितस्वरेण तिङन्तस्वरो वाध्यते । अयं पचतिदेश्यः
SK 3965 · A 8.1.58V
चादिषु च ॥ ३९६५ ॥
cādiṣu ca
Siddhānta-kaumudī
चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे SK 3966 इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ॥
Subodhinī
NSP p. 671–672
—चादिषु च । ‘न चवाहाहैवयुक्ते’ इति सूत्रे निर्दिष्टा-श्वादयोऽत्र गृह्यन्ते संनिकृष्टत्वात् न तु ‘चादयोऽसत्त्वे’ इति सूत्रनिर्दिष्टाः विप्रकृष्टत्वात् । तदेतदाह—चवाहाहैवेषु परेष्विति ॥—पचति च स्वादति चेति । उभयत्र स्वादतीत्यस्य निधातप्रसङ्ग एव नास्ति नानावाक्यत्वात् । चवा-योगो हि समुच्चये विकल्पे वा सति भवति स चानेकस्य धर्म इति कृत्वोदाहतम् ॥—चवा—प्रथमेति । ब्रीलिङ्गस्य निर्वाहमाह—प्रथमातिङ्किभक्तिरिति । प्रथममुच्चारिता तिङ्किभक्तिरित्यर्थः । अगतेरिति प्रथमसूत्रे चानुकृष्टत्वादिह नानुवर्तते ॥—उत्तरवाक्ययोरिति । ‘दिवो वा पार्थिवादधि’ । ‘इन्द्रं महो वा रजसः’ इत्येतयोरित्यर्थः । ननु श्रुत-स्यैव तिङन्तस्योत्तरत्रानुपङ्गः तत्कथं प्राथम्यमिति चेत्, अनुषक्तस्याप्यौपाधिकं भेदं पुरस्कृत्य प्राथम्याश्रयणेन निधातनि-षेधस्य छन्दसि बहुशो दृष्टत्वात् । एतन्नेहैव मन्त्रे नियमेन मुष्टिहत्ययेति च मन्त्रे वेदभाष्ये स्पष्टम् ॥—हेति—॥ स्वयं ह रथेन यातीति । उपाध्याये पदातौ गच्छति सति शिष्यस्य रथेन गमनं प्रतिषिद्धमित्याचारभेदः
SK 3966 · A 8.1.59V
चवायोगे प्रथमा ॥ ३९६६ ॥
cavāyoge prathamā
Siddhānta-kaumudī
चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥
SK 3967 · A 8.1.60V
हेति क्षियायाम् ॥ ३९६७ ॥
heti kṣiyāyām
Siddhānta-kaumudī
हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-SK 3623 इति प्लुतः ॥
SK 3968 · A 8.1.61V
अहेति विनियोगे च ॥ ३९६८ ॥
aheti viniyoge ca
Siddhānta-kaumudī
अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ॥
Subodhinī
NSP p. 672
—अहेति । अनेकस्मिन्प्रयोजने प्रेषणं विनियोगस्तदाह—नानाप्रयोजने नियोगे इति । अनेकप्रयोजनो नियोगः प्रेषणम् । उदाहरणे पूर्वत्र प्रैषे कुत उत्तरत्र क्षियायाम्
SK 3969 · A 8.1.62V
चाहलोप एवेत्यवधारणम् ॥ ३९६९ ॥
cāhalopa evetyavadhāraṇam
Siddhānta-kaumudī
च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवकॢप्तावेव ॥
Subodhinī
NSP p. 672
—चाहलोप— अवधारणार्थैवशब्दप्रयोगे सति प्रथमं तिङन्तं नानुदात्तम् । सूत्रेण चाहलोपस्याविधानाद् अर्थप्रकरणादिना गम्यमानार्थलादप्रयोग एव लोपो विवक्षितः । चशब्दः समुच्चयार्थः । अहशब्दः केवलार्थः । समानकर्तृके चलोपः । नानाकर्तृकेऽहलोपः । उदाहरणे चलोपं दर्शयति—प्राममरण्यं चेति ॥—केव भोक्ष्यस इति । अनवक्तृसावयमेवशब्दः । ‘एवे चानियोगे’ इति पररूपम् ॥—चादि—॥—वाजेष्विति । अवेति तिङन्तस्येह निघातः । निघाताभावस्य तदाहरणान्तरं मृग्यम् । ननु पूर्वसूत्रे समानकर्तृके चलोप इत्युक्तम् । इह तु कर्तृमेदात् कथं चलोप इति चेत् । अवधारणार्थे एवशब्दप्रयोगे समानकर्तृके चलोप इति नियमो न तु सर्वत्रेत्यस्त्र चलोपः
SK 3970 · A 8.1.63V
चादिलोपे विभाषा ॥ ३९७० ॥
cādilope vibhāṣā
Siddhānta-kaumudī
चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ॥
Subodhinī
alignment inferredNSP p. 672
—व्रीहिभिर्यजेतेति । पक्षे आद्युदात्तम् । द्वितीयं तु निहतमेव । एवं शेषेष्वपि यथादर्शनमुदाहरणम्
SK 3971 · A 8.1.64V
वैवावेति च च्छन्दसि ॥ ३९७१ ॥
vaivāveti ca cchandasi
Siddhānta-kaumudī
अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ॥
Subodhinī
NSP p. 672
—वैवाव— आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्यात् छन्दसि । वै स्फुटार्थे क्षमार्थे च । वाव प्रसिद्धौ स्फुटार्थे च
SK 3972 · A 8.1.65V
एकान्याभ्यां समर्थाभ्याम् ॥ ३९७२ ॥
ekānyābhyāṃ samarthābhyām
Siddhānta-kaumudī
आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥
Subodhinī
NSP p. 672
—एकान्या— समौ तुल्यावर्थौ ययोस्तौ समर्थौ । शकन्ध्वादिलात्पररूपम् ॥—जिन्वतीति । जिविः प्रीणनार्थः । इदित्वान्नुम् । लद् तिप् शप् ॥—अजामेकां रक्षतीति । अन्यां प्रीणयति अन्यां रक्षतीत्यर्थः ॥—एक इति संख्यापरमिति । एकशब्दस्यानेकार्थलात् । तथा चोक्तम् । ‘एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते’ इति । ननु साहचर्यादन्यार्थक एवैकशब्दो ग्रहीष्यत इति चेत्सत्यम् । न साहचर्यमत्र प्रकरणे व्यवस्थापकमिति ‘निपातैर्यद्यदिहन्ते’त्यत्रैवावोचाम
SK 3973 · A 8.1.66V
यद्वृत्तान्नित्यम् ॥ ३९७३ ॥
yadvṛttānnityam
Siddhānta-kaumudī
यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुङ्क्ते यदद्यङ्वायुर्वाति । अत्र व्यवहिते कार्यमिष्यते ॥
Subodhinī
NSP p. 672
—यद्वृ—॥—यद्व्यङ्किति । यद् अब्धतीति किन् । ‘विष्वग्देवयोश्च—’ इति टेरय्यादेशः ॥ कथं पुनः पञ्चमीनिर्देशे सति यद्व्यङ् वायुर्वाति इत्यादौ व्यवधाने भवत्यत आह—अत्र व्यवहिते कार्यमिष्यत इति । अत्र च ज्ञापकमुत्तरसूत्रे मूल एव स्फुटीभविष्यति ॥—पूजनात्— ‘काष्ठादिभ्यः—’ इति वार्तिकं दृष्टं तदनुरोधेन पूजनादिति बहुवचनस्थान एकवचनमिति व्याचष्टे—पूजनेभ्यः काष्ठादिभ्य इति । उत्तरसूत्रे तिङ्ग्रहणादिदं सुवन्तविषयकम्
SK 3974 · A 8.1.67V
पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः ॥ ३९७४ ॥
pūjanāt pūjitamanudāttaṃ kāṣṭhādibhyaḥ
Siddhānta-kaumudī
पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः ।
vārttika
मलोपश्च वक्तव्यः
(वार्तिकम्) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ॥
Subodhinī
alignment inferredNSP p. 672–673
—काष्ठाध्यापक इति । काष्ठादयोऽद्भुतपर्यायाः सन्तः पूजनवचना भवन्ति । समासविषयकं सूत्रमिदम् । उदाहरणे मयूरव्यंसकादिलात्समासः ॥—मलोपश्च वक्तव्य इति ॥—दारुणमध्यापक इति । समासे कृते विभक्तेर्छुकि स्वाभाविकी मकारनिवृत्तिरित्यनेन वचनेनान्वाख्यायते इति वृत्तिन्यासकारयोमेतं तदेतदाह—इति वृत्तिमतमिति । भाष्यवार्तिककैयटासु असमास एव क्रियाविशेषणीभूतानां दारुणमित्यादीनामसमास एवास्य सूत्रस्य प्रवृत्तिमिच्छन्ति । मयूरव्यंसकादित्वे नास्ति प्रमाणम् । हरदत्तोऽप्याह । यदि समासे एवेदमभिमतमभविष्यत्तदा समास इत्येवावक्ष्यत् । युक्तं चैतत् न ह्यत्र समासाधिकारोऽस्ति येन समासः स्यात् । अस्मिन् पक्षे मलोपवचने च सार्थकम् ॥—पूजनादित्येव पूजितपरिग्रहणे सिद्ध इति । पूजनस्य पूजितापेक्षलादिति भावः ॥—अनन्तरपूजितलाभार्थमिति । ‘पूजनात्पूजितम्’ इति सूत्रे सामान्यगतमानन्तर्यविशेषणं विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्ग इत्याह—एतदेवेति । ज्ञापक- फलं तु ‘यद्वृत्तान्नित्यम्’ इत्युक्तम्
SK 3975 · A 8.1.68V
सगतिरपि तिङ् ॥ ३९७५ ॥
sagatirapi tiṅ
Siddhānta-kaumudī
पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः SK 3935 इति निघातस्य निपातैर्यत्-SK 3937 इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ।
vārttika
गतिग्रहणे उपसर्गग्रहणमिष्यते
(वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥
Subodhinī
NSP p. 673
—सगति—यत्काष्ठां पचतीति । ये मलोपश्चेत्यनेन वाक्ये मलोपमाहुस्तेऽपि तिङन्ते परतो नैव लोपमिच्छन्ति ॥—सगतिग्रहणाद्गतिरपि निहन्यत इति । तुल्ययोगे अत्र सहशब्दः । यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति । तथा सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते । अपिग्रहणं यत्र गतिर्न युज्यते तत्र केवलस्यापि तिङन्तस्य यथा स्यात् गतिप्रयोगे तु द्वयोः सहैव भवति तिङ्ग्रहणं पूर्वयोगस्यातिङ्ग्रिषयलङ्गापनार्थम्
SK 3976 · A 8.1.69V
कुत्सने च सुप्यगोत्रादौ ॥ ३९७६ ॥
kutsane ca supyagotrādau
Siddhānta-kaumudī
कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः ।
vārttika
पूतिश्चानुबन्ध इति वाच्यम्
(वार्तिकम्) ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ।
vārttika
वा बह्वर्थमनुदात्तमिति वाच्यम्
(वार्तिकम्) ॥ पचन्ति पूति ॥
Subodhinī
NSP p. 673
—कुत्सने—पदादिति निवृत्तम् ॥—पचति क्लिश्नातीति । कथमत्र समानवाक्यत्यस्य सामर्थ्यस्य वा भावादेवाप्राप्तेः । सुपीति स्पष्टार्थम् । कर्तुः कुत्सने मा भूत् ॥—पचति पूतिर्देवदत्त इति । कर्तृत्वमात्रं कुत्स्यते अस्येदमयुक्तमिति । क्रिया तु शोभनैव पूतिश्चानुवन्ध इत्यर्थः । तिवन्तपूतिशब्द आद्युदात्तः । वशेस्तिविति तिप् वाहुलकात्पूर्वो भवति तस्मादेव गुणाभावः । तस्य निघातनिमित्तस्यान्तोदात्तत्वं यथा स्यादिति चित्त्वमुपसंख्यायते ॥—वा बह्वर्थमिति । वहुवचनान्तं तिङन्तं वानुदात्तं स्यात् । यदा तिङन्तस्य निघातस्तदा पूतिरन्तोदात्तः । अन्यदा लाद्युदात्तः ॥—आमन्द्रैरिति । अत्र याहीत्येतत्प्रति क्रियायोगादाङ्क्त्येष गतिः
SK 3977 · A 8.1.70V
गतिर्गतौ ॥ ३९७७ ॥
gatirgatau
Siddhānta-kaumudī
अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ॥
SK 3978 · A 8.1.71V
तिङि चोदात्तवति ॥ ३९७८ ॥
tiṅi codāttavati
Siddhānta-kaumudī
गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥ अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क् । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट् १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः SK 194 इत्येकादेशस्तु एकादेश उदात्तेन SK 3658 इत्युदात्तः । ईळे । तिङ्ङततिङः SK 3135 इति निघातः । संहितायां तु उदात्तादनुदात्तस्य SK 3660 इतीकारः स्वरितः । स्वरितात्संहितायाम् SK 3668 इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्-' SK 1975 इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाञो निष्ठायाम् दधातेर्हिः SK 3076 इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम् SK 768 इति गतिसंज्ञायां कुगति- SK 761 इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- SK 3736 इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत् SK 3873 इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः SK 3783 इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः SK 3669 इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट् २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम् । । इति स्वरप्रकरणम् । इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम् । तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥
Subodhinī
NSP p. 673–674
—तिङि—उदात्तवति तिङन्ते परे गतिर्निहन्यते । ‘निपाता आद्युदात्ताः’ इत्यस्यापवादः ॥—यत्प्रपचतीति । ‘निपातैर्यथादि—’ इति निघातप्रतिषेधात्तिङन्तमुदात्तवत् । ननु तिङ्ग्रहणं व्यर्थम् । न च तिङन्ते यथा स्यात् मन्द्रशब्दे मा भूत् ‘आमन्द्रैरिन्द्र हरिभिर्याहि’ इति मन्द्रशब्दो रक्प्रत्ययान्तोन्तोदात्त इति वाच्यम् । ‘यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः’ इति वचनात् स्वसंबन्धिनमाक्षिपतीति क्रियावाचिन्येवोदात्तवति भविष्यति । न च कृदन्तेऽतिप्रसङ्गः । तत्र कृत्स्वरथादिस्वरगतिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तस्मान्नार्थस्तिङ्ग्रहणेनेत्याशङ्क्याह—तिङ्ग्रहणमिति । परिमाणमियत्ता । परिमाणार्थत्वमेव स्पष्टयति—अन्यथाहीति । अक्रियमाणे तिङ्ग्रहणे धातुरेव क्रियावाचित्वाद्गतिसंज्ञानिमित्तमिति तत्रैवोदात्तवति निघातः स्यात् न प्रत्यये, तिङ्ग्रहणे कृते तु यं धातुं प्रति गतित्वं तद्धटके तिङन्ते उदात्तवति परे इत्यर्थो जायते, तेन यत्प्रकरोतीत्यादौ धातोः शेषनिघातेनानुदात्तत्वेऽपि तिङन्तस्य उप्रत्ययस्वरेण मध्योदात्तत्वाद्गतेर्निघातः सिद्ध इत्याहुः ॥—प्रपचतीति । ‘तिङ्गतिङः’ इति निघातः ॥ इति सुबोधिन्यां स्वरप्रक्रिया ॥ ‘यज्याच्च—’ इति यजेनंड् विभक्तेः सुप्लादसुदात्तत्वे स्वरितलमिति ॥—स्यरितत्वमिति । स्वरितो वासुदात्त इत्यनेन ऋत्विगिति । कृतासुपपदे यजेः किन् कृत्विगित्यनेन ‘वचित्यपि—’ इति संप्रसारणम् ॥—नध्विषयस्येति । इमन्त-वर्जितस्य नित्यनपुंसकस्यादिरुदात्त इति सूत्रार्थः ॥ इति स्वरसंचारः
फि1 · Phiṭ 10.1.1
फिषोऽन्त उदात्तः ॥ फि१ ॥
phiṣo'nta udāttaḥ
Siddhānta-kaumudī
प्रातिपदिकं फिट्‌ । तस्यान्त उदात्तः स्यात्‌ । उच्चैः ॥
Subodhinī
NSP p. 634
—फिषोऽन्त उदात्तः । फिडिति पूर्वाचार्यप्रसिद्ध्या प्रातिपदिकमुच्यते तदाह—प्रातिपदिकं फिडिति । ननु कथमपाणिनीयानि सूत्राण्युपन्यस्यन्ते पाणिनीयसूत्रैर्यः खर आयाति स एव प्रमाणं, तथा च ‘शताच्च ठन्यतावशते’ इति सूत्रे कैयटः । ‘नियतकालाश्च स्मृतयो व्यवस्थाहेतवः’ इति मुनित्रयमतेनाद्यत्वे ‘साध्वसाधुप्रविभागः’ इति । नैतत् । अपाणिनीयान्यपि फिद्सूत्राणि पाणिनीयैराश्रीयन्ते भाष्यात् ज्ञापकात् । तथाच ‘आद्युदात्तश्च’ इति सूत्रे भाष्यं ‘प्रातिपदिकस्य चान्त इति प्रकृतेरन्तोदात्तत्वं शास्ति’ इति । तथा तस्मिन्नेव सूत्रे प्रत्ययाद्युदात्तलस्यावकाशः । यत्रानुदात्ता प्रकृतिः समत्वं सिमलमिति । नहि फिषोऽन्त उदात्तः त्वत्लसमसिमेत्यादिफिद्सूत्राश्रयणं विना प्रकृतेरन्तोदात्तत्वं सर्वानुदात्तत्वं च संभवतीति दिक् ॥—पाट—। पाटलेत्यादय ओषधिविशेषस्य वाचकाः ॥—लघावन्त इति प्राप्त इति । इदं पूर्वेण परेण च संवध्यते ॥—पर्याया इति । वृक्षविशेषस्य वाचकाः । सागरसमुद्रयोः ‘लघावन्ते’ इति प्राप्ते ॥—गेहा—। गेहार्थानामन्त उदात्तः स्यात्क्रियां न ॥—गुद—। अगेहार्थमिदम्
फि2 · Phiṭ 10.1.2
पाटलापालङ्काम्बासागरार्थानाम्‌ ॥ फि२ ॥
pāṭalāpālaṅkāmbāsāgarārthānām‌
Siddhānta-kaumudī
एतदर्थानामन्त उदात्तः । 'पाटला' 'फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः । लघावन्ते-- {SK फि42} इति प्राप्ते । 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध' इति पर्यायाः । अम्बार्थः । माता । 'उनर्वन्नन्तानाम्‌' {SK फि32} इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥
फि3 · Phiṭ 10.1.3
गेहार्थानामस्त्रियाम्‌ ॥ फि३ ॥
gehārthānāmastriyām‌
Siddhānta-kaumudī
गेहम्‌ । 'नब्विषयस्य--' {SK फि26} इति प्राप्ते । 'अस्त्रियाम्‌' किम्‌ । शाला । आद्युदात्तोऽयम्‌ । इहैव पर्युदासाज्ज्ञापकात्‌ ॥
फि4 · Phiṭ 10.1.4
गुदस्य च ॥ फि४ ॥
gudasya ca
Siddhānta-kaumudī
अन्त उदात्तः स्यान्न तु स्त्रियाम्‌ । गुदम्‌ । 'अस्त्रियाम्‌' किम्‌ 'आमन्त्रेभ्य॑स्ते॒ गुदा॑भ्यः' ॥
फि5 · Phiṭ 10.1.5
ध्यपूर्वस्य स्त्रीविषयस्य ॥ फि५ ॥
dhyapūrvasya strīviṣayasya
Siddhānta-kaumudī
धकारयकारपूर्वो योऽन्त्योच्स उदात्तः । अन्तर्धा । 'स्त्रीविषयवर्ण--' {SK फि43} इति प्राप्ते । छा॒या । मा॒या । जा॒या । 'यान्तस्यान्त्यात्पूर्वम्‌' {SK फि62} इत्याद्युदात्तत्वे प्राप्ते । 'स्त्री' इति किम्‌ । बाह्यम्‌ । यञन्तत्वादाद्युदात्तत्वम्‌ । 'विषयग्रहणम्‌' किम्‌ । इभ्या । क्षत्रिया । 'यतोऽनावः' {SK 3701} इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु 'यान्तस्यान्त्यात्पूर्वम्‌' {SK फि62} इति मध्योदात्तः ।
Subodhinī
NSP p. 634
— ध्यपूर्व—॥—धकारेति । नित्यल्लीलिङ्गस्येति शेषः ॥—प्राप्ते इति । आद्युदात्तत्वे प्राप्ते इत्यर्थः ॥—यञ्नन्तत्वादिति । ‘वहिषष्टिलोपो यच्च’ इति वचनात् ॥—यतो नाव इति । इभमर्हतीति दण्डादित्याद्यत्
फि6 · Phiṭ 10.1.6
खान्तस्याश्मादेः ॥ फि६ ॥
khāntasyāśmādeḥ
Siddhānta-kaumudī
नखम्‌ । उखा । सुखम्‌ । दुःखम्‌ । नखस्य 'स्वाङ्गशिटाम्‌--' {SK फि29} इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात्‌ 'खय्युवर्णं कृत्रिमाख्या चेत्‌' {SK फि31} इत्युवर्णस्योदत्तत्वे प्राप्ते । सुखदुःखयोः 'नब्विषयस्य--' {SK फि26} इति प्राप्ते । 'अश्मादेः किम्‌ । शिखा । मुखम्‌ । मुखस्य 'स्वाङ्गशिटाम्‌--' {SK फि29} इति वा आद्युदात्तत्वम्‌ । शिखायास्तु 'शीङः खो निद्ध्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव 'स्वाङ्गशिटाम्‌--' {SK फि29} इति वा बोध्यम्‌ ॥
Subodhinī
alignment inferredNSP p. 634
—यान्तस्यान्त्यादिति । ‘क्षत्राद् घः’ इति प्रत्ययस्वरेणापीति वा वोध्यम् ॥—खान्तस्या—। श् च म् च श्मौ तौ आदी यस्य स श्मादिर्न श्मादिरश्मादिः । तस्य शकारमकारादिभिन्नस्य खशब्दस्यान्तोदात्तः स्यात् ॥—शीङः खो निच्चस्वश्चेत्यादि । ननु वहुपूणादिपुस्तकेषु शीङो हस्वश्चेत्येव पठ्यते । ‘मुहेः खो मूर्च’ इत्यतः खोऽनुवर्तते हस्वविधानसामर्थ्याद्भुणाभाव इति स्वयमप्युणादिष्वेवमेवोक्तम् । तस्मात्पूर्वापरविरुद्धोऽयं ग्रन्थ इत्यस्वरसादाह—अन्तरङ्गत्वादित्यादि
फि7 · Phiṭ 10.1.7
बंहिष्ठवत्सर्तिशत्थानाम्‌ ॥ फि७ ॥
baṃhiṣṭhavatsartiśatthānām‌
Siddhānta-kaumudī
एषामन्त उदात्तः स्यात्‌ । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । 'बंहिष्ठै॑रश्वै॑ः सु॒वृता॒ रथे॒न । 'यद्बंहिष्ठं नाति॒विधे॑ इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । 'लघावन्ते--' {SK फि42} इति प्राप्ते । चत्वारिंशत्‌ । इहापि प्राग्वत्‌ । 'अभ्यू॑र्ण्वाना प्र॑भृ॒थस्या॒योः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत्‌ ॥
Subodhinī
NSP p. 634
—हिष्ट—॥— एपामिति । हिष्ट वत्सर ति शत् थ एतदन्तानामित्यर्थः ॥—बंहिष्ट इति । वहुलशब्दात् ‘अतिशायने तमविष्टनौ’ इतीष्टन् । ‘प्रियस्थिरस्फिर—’ इत्यनेन वहुलस्य बंहिरादेशः ॥—परिवत्सर इति । क्वचित्तु संवत्सर इति पाठस्तत्र ‘वसेश्व संपूर्वाच्चित्’ इति सरप्रत्ययस्य चित्त्वादपि सिद्धेः ॥—सप्ततिरित्यादि । ‘पङ्क्तिर्विशतित्रिंशत्—’ इत्यत्र व्युत्पादिता एते ॥—प्राग्वदिति । ‘लघावन्ते’ इति प्राप्त इत्यर्थः
फि8 · Phiṭ 10.1.8
दक्षिणस्य साधौ ॥ फि८ ॥
dakṣiṇasya sādhau
Siddhānta-kaumudī
अन्त उदात्तः स्यात्‌ । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया 'स्वाङ्गशिटाम्‌--' {SK फि29} इत्याद्युदातः । अर्थान्तरे तु 'लघावन्ते--' {SK फि42} इति गुरुरुदात्तः ।
Subodhinī
NSP p. 634
—दक्षिणस्य—। अस्यान्त उदात्तः स्यात्प्रावीण्येऽर्थे । वीणायां दक्षिणः । प्रवीण इत्यर्थः ॥—च्रन्दसि । दक्षिणस्याद्यन्तैः प्रवीण्येणोदात्तैः ॥—स्यात् । प्रवीण इत्यर्थः
फि9 · Phiṭ 10.1.9
स्वाङ्गाख्यायामादिर्वा ॥ फि९ ॥
svāṅgākhyāyāmādirvā
Siddhānta-kaumudī
इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । 'आख्याग्रहणम्‌' किम्‌ । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ।
फि10 · Phiṭ 10.1.10
छन्दसि च ॥ फि१० ॥
chandasi ca
Siddhānta-kaumudī
अस्वाङ्गार्थमिदम्‌ । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ।
फि11 · Phiṭ 10.1.11
कृष्णस्यामृगाख्या चेत् ॥ फि११ ॥
kṛṣṇasyāmṛgākhyā cet
Siddhānta-kaumudī
अन्त उदात्तः । 'वर्णानां तण--' {SK फि33} इत्याद्युदात्तत्वे प्राप्ते अन्तोदत्तो विधीयते । कृष्णानां व्रीहीणां । 'कृ॒ष्णो॑ नोनाव वृष॒भः' । मृगाख्यायां तु । कृष्णो रात्र्यै ॥
Subodhinī
NSP p. 634–635
—कृष्णस्य—। अस्यान्त उदात्तश्छन्दसि न तु मृगाख्यायाम् ॥—एके इति । तन्मतेऽस्मिन्सूत्रे नामधेयस्येत्युवतीते वचनविपरिणामेनान्वयः नामधेययोः । शुक्लगौरयोरादिरुदात्त इत्यर्थः । तेन ‘सरो गौरो यथा पिव’ इत्यत्रान्तोदात्तलमेव नामधेयलाभावात्
फि12 · Phiṭ 10.1.12
वा नामधेयस्य ॥ फि१२ ॥
vā nāmadheyasya
Siddhānta-kaumudī
कृष्णस्येत्येव । 'अ॒यं वा॑ कृ॒ष्णो अ॑श्विना' । कृष्णर्षिः ॥
फि13 · Phiṭ 10.1.13
शुक्लगौरयोरादिः ॥ फि१३ ॥
śuklagaurayorādiḥ
Siddhānta-kaumudī
नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम्‌ । 'सरो॑ गौ॒रो य॒था॒ वा' इत्यत्रान्तोदात्तत्वदर्शनात्‌ ॥
फि14 · Phiṭ 10.1.14
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः ॥ फि१४ ॥
aṅguṣṭhodakabakavaśānāṃ chandasyantaḥ
Siddhānta-kaumudī
अङ्गुष्ठस्य 'स्वाङ्गानामकुर्वादीनाम्‌' {SK फि52} इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तर्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः ।
Subodhinī
NSP p. 635
—अङ्गुष्ठो— एषामन्तोदात्तश्छन्दसि ॥—अङ्गुष्ठस्येति । उपलक्षणमिदम् । वक्रशब्देऽपि प्राणिनां कुपूर्वमित्याद्युदात्ते प्राप्ते इति वोध्यम्
फि15 · Phiṭ 10.1.15
पृष्ठस्य च ॥ फि१५ ॥
pṛṣṭhasya ca
Siddhānta-kaumudī
छन्दस्यन्त उदात्तः स्याद्वा भाषायाम्‌ । पृष्ठम्‌ ॥
Subodhinī
alignment inferredNSP p. 635
—वा भाषायाम्—पृष्ठमिति । पक्षे ‘स्वाङ्गशिटाम्—’ इत्याद्युदात्तलम्
फि16 · Phiṭ 10.1.16
अर्जुनस्य तृणाख्या चेत्‌ ॥ फि१६ ॥
arjunasya tṛṇākhyā cet‌
Siddhānta-kaumudī
'उनर्वन्नन्तानाम्‌' {SK फि32} इत्याद्युदात्तस्यापवादः ॥
Subodhinī
NSP p. 635
— अर्जुनस्य—। अन्त उदात्तस्तृणाख्यायाम् । तृणाख्यायां किम् । अर्जुनो वृक्षः । ‘उनर्वन्नन्तानाम्—’ इत्याद्युदात्तः
फि17 · Phiṭ 10.1.17
आर्यस्य स्वाम्याख्या चेत्‌ ॥ फि१७ ॥
āryasya svāmyākhyā cet‌
Siddhānta-kaumudī
'यान्तस्यान्त्यात्पूर्वम्‌' {SK फि62} इति 'यतोऽनावः' {SK 3701} इति वाद्युदात्ते प्राप्ते वचनम्‌ ॥
Subodhinī
NSP p. 635
— अर्यस्य—। अन्त उदात्तः स्वाम्याख्यायाम् । ‘अर्यः स्वामिवैश्ययोः’ इति निपातितोऽयमर्यशब्दः
फि18 · Phiṭ 10.1.18
आशाया अदिगाख्या चेत्‌ ॥ फि१८ ॥
āśāyā adigākhyā cet‌
Siddhānta-kaumudī
दिगाख्याव्यावृत्त्यर्थमिदम्‌ । अत एव ज्ञापकाद्दिकपर्यायस्याद्युदात्तता । 'इन्द्र॒ आशा॑भ्य॒स्परि॒' ॥
Subodhinī
NSP p. 635
—आशाया— अदिगाख्यायामाशाशब्द आद्युदात्तः स्यात् ॥—ज्येष्ठेत्यादि । ‘प्रशस्यस्य श्रः’ ‘ज्य च’ इति प्रशस्यशब्दादिष्ठनि धनवती । ज्यादेशः । श्रवणं श्रवः सोऽस्त्यस्याः सा श्रववती । धनं विद्यते अस्याः सा धनवती । अतिशयिता श्रववती श्रविष्ठा । धनिष्ठा । इष्टनि ‘विन्मतोर्लुक्’ इति मतुपो लुक् ॥—आद्युदात्ते प्राप्त इति । ‘ठिन्लादिः—’ इत्यनेन ॥—कृत्तिकेति । ‘लघावन्ते—’ इति आद्युदात्तलम् ॥—घृतमिति । नवविषयस्येति प्राप्ते ॥—ज्येष्ठ इति । उदाहरणे वृद्धशब्दस्य ‘वृद्धस्य च’ इतीष्टनि ज्यादेशः । ‘युवाल्पयोः कनन्यतरस्याम्’ इति ‘युवनशब्दस्य कनादेशः । प्रत्युदाहरणे ‘प्रशस्यस्य श्रः’ ‘ज्य च’ इति प्रशस्यशब्दस्य ज्यादेशः । अल्पस्य कन् ॥—नित्वादिति । तथा च नित्स्वरापवादोऽयं योगः ॥—पक्षे उदात्त इति । उदात्त इत्यनुवृत्तेः ॥ इति प्रथमः पादः ॥ नब्विषयस्य । इसन्तवर्जितस्य नित्यनपुंसकस्यादिरुदात्तः स्यात् ॥—सर्पिरिति । ‘अर्चिशुचि—’ इत्यादिना इतिः ॥ —तृण—। तृणवाचिनां धान्यवाचिनां च द्याचामादिरुदात्तः स्यात् ॥ अषिति अचः प्राचां संज्ञा तदाह—द्याचामित्यर्थ इति ॥—गोधूमा इति । ‘लघावन्ते—’ इति मध्योदात्तता ॥—ब्रः संख्या—। नकाररेफान्तायाः संख्याया आदिरुदात्तः ॥—चतुष्कपाल इति । चत्वार इत्यत्रामस्वरेण भाव्यम् । चतुर इत्यत्र ‘चतुरः शसि’ इति चतुर्भिरित्यत्र ‘इत्युपोत्तमम्’ इति चतुर्णामित्यत्र ‘षद्त्रिचतुर्भ्यः’ इत्यनेनेति समास उदाहृतः । ‘इगन्तकालकपालभगाल—’ इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तोऽयम्
फि19 · Phiṭ 10.1.19
नक्षात्राणामब्विषयाणाम्‌ ॥ फि१९ ॥
nakṣātrāṇāmabviṣayāṇām‌
Siddhānta-kaumudī
अन्त उदात्तः स्यात्‌ । आश्लेषानुराधादीनां 'लघावन्ते--' {SK फि42} इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम्‌ ॥
फि20 · Phiṭ 10.1.20
न कुपूर्वस्य कृत्तिकाख्या चेत्‌ ॥ फि२० ॥
na kupūrvasya kṛttikākhyā cet‌
Siddhānta-kaumudī
अन्त उदात्तो न । कृत्तिका नक्षत्रम्‌ । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय 'आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥
फि21 · Phiṭ 10.1.21
घृतादीनां च ॥ फि२१ ॥
ghṛtādīnāṃ ca
Siddhānta-kaumudī
अन्त उदात्तः । 'घृ॒तं मि॑मिक्षे' । आकृतिगणोऽयम्‌ ॥
फि22 · Phiṭ 10.1.22
ज्येष्ठकनिष्ठयोर्वयसि ॥ फि२२ ॥
jyeṣṭhakaniṣṭhayorvayasi
Siddhānta-kaumudī
अन्त उदात्तः स्यात्‌ । 'ज्ये॒ष्ठ आ॑ह चमसा' । 'कनिष्ठ आह चतुरः' । 'वयसि' किम्‌ । ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥
फि23 · Phiṭ 10.1.23
बिल्वतिष्ययोः स्वरितो वा ॥ फि२३ ॥
bilvatiṣyayoḥ svarito vā
Siddhānta-kaumudī
अनयोरन्तः स्वरितो वा स्यात्‌ । पक्ष उदात्तः ॥
फि24 · Phiṭ 10.2.24
अथादिः प्राक्‌ शकटेः ॥ फि२४ ॥
athādiḥ prāk‌ śakaṭeḥ
Siddhānta-kaumudī
अधिकारोऽयम्‌ । 'शकटिशकट्योः--' {SK फि69} इति यावत्‌ ॥
फि25 · Phiṭ 10.2.25
ह्रस्वान्तस्य स्त्रीविषयस्य ॥ फि२५ ॥
hrasvāntasya strīviṣayasya
Siddhānta-kaumudī
आदिरुदात्तः स्यात्‌ । बलिः । तनुः ॥
फि26 · Phiṭ 10.2.26
नब्विषयस्यानिसन्तस्य ॥ फि२६ ॥
nabviṣayasyānisantasya
Siddhānta-kaumudī
'व॒ने न वा॒ यः' । इसन्तस्य तु सर्पिः । नब्नपुंसकम्‌ ॥
फि27 · Phiṭ 10.2.27
तृणधान्यानां च द्व्यषाम्‌ ॥ फि२७ ॥
tṛṇadhānyānāṃ ca dvyaṣām‌
Siddhānta-kaumudī
द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः ॥
फि28 · Phiṭ 10.2.28
न्रः सङ्ख्यायाः ॥ फि२८ ॥
nraḥ saṅkhyāyāḥ
Siddhānta-kaumudī
पञ्च । चत्वारः ॥
फि29 · Phiṭ 10.2.29
स्वाङ्गशिटामदन्तानाम्‌ ॥ फि२९ ॥
svāṅgaśiṭāmadantānām‌
Siddhānta-kaumudī
शिट्‌ सर्वनाम । 'कर्णा॑भ्या॒ं चुबु॑का॒दधि॑' । 'विश्वो॒ विहा॑य ॥
Subodhinī
NSP p. 635
—स्वाङ्गशिटाम्—। स्वाङ्गवाचिनामदन्तानां सर्वनाम्नामादिरुदात्तः स्यात् ॥—उदकमिति । छन्दसि ‘अङ्गुष्ठोदकवकवशानाम्’ इत्यन्तोदात्तः । भाषायां तु कर्दमादिलादादिर्द्वितीयं चोदात्तम्
फि30 · Phiṭ 10.2.30
प्राणिनां कुपूर्वम्‌ ॥ फि३० ॥
prāṇināṃ kupūrvam‌
Siddhānta-kaumudī
कवर्गात्पूर्व आदिरुदात्तः । काकः । वृकः । 'शुके॑षु मे' । 'प्राणिनाम्‌' किम्‌ । 'क्षीरं सर्पिर्मधूदकम्‌' । कुपूर्वङ्किम् धनुः ॥
फि31 · Phiṭ 10.2.31
खय्युवर्णं कृत्रिमाख्या चेत्‌ ॥ फि३१ ॥
khayyuvarṇaṃ kṛtrimākhyā cet‌
Siddhānta-kaumudī
खयि पर उवर्णमुदात्तं स्यात्‌ । कन्दुकः ॥
फि32 · Phiṭ 10.2.31
उनर्वन्नन्तानाम्‌ ॥ फि३२ ॥
unarvannantānām‌
Siddhānta-kaumudī
उन । 'वरु॑णं वो रि॒शाद॑सम्‌' । ऋ । 'स्वसा॑रं त्वा कृणवै॒ । वन्‌ । 'पीवा॑नं मेषम्‌' ॥
Subodhinī
NSP p. 635–636
—उनर्वन्— उन ऋ वन् एतदन्तानामादिरुदात्तः स्यात् ॥—हस्यान्तस्य—। अनृत्किम् । नृशंसः
फि33 · Phiṭ 10.2.33
वर्णानां तणतिनितान्तानाम्‌ ॥ फि३३ ॥
varṇānāṃ taṇatinitāntānām‌
Siddhānta-kaumudī
आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित्‌ ॥
फि34 · Phiṭ 10.2.34
ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये ॥ फि३४ ॥
hrasvāntasya hrasvamanṛtācchīlye
Siddhānta-kaumudī
ऋद्वर्जं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात्‌ । मुनिः ॥
फि35 · Phiṭ 10.2.35
अक्षस्यादेवनस्य ॥ फि३५ ॥
akṣasyādevanasya
Siddhānta-kaumudī
आदिरुदात्तः । 'तस्य॒ नाक्ष॑ः' । देवने तु 'अ॒क्षैर्मा दी॑व्यः' ॥
Subodhinī
NSP p. 636
—अक्षस्य—। अदेवनस्याक्षस्यादिरुदात्तः
फि36 · Phiṭ 10.2.36
अर्धस्यासमद्योतने ॥ फि३६ ॥
ardhasyāsamadyotane
Siddhānta-kaumudī
अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः ॥
Subodhinī
NSP p. 636
—अर्धस्य—। असमद्योतनेऽर्धशब्दस्यादिरुदात्तः
फि37 · Phiṭ 10.2.37
पीतद्र्वर्थानाम्‌ ॥ फि३७ ॥
pītadrvarthānām‌
Siddhānta-kaumudī
आदिरुदात्तः । पीतद्रुः सरलः ॥
फि38 · Phiṭ 10.2.38
ग्रामादीनां च ॥ फि३८ ॥
grāmādīnāṃ ca
Siddhānta-kaumudī
ग्रामः । सोमः । यामः ॥
Subodhinī
NSP p. 636
—प्रामादीनां च । आदिरुदात्तः
फि39 · Phiṭ 10.2.39
लुबन्तस्योपमेयनामधेयस्य ॥ फि३९ ॥
lubantasyopameyanāmadheyasya
Siddhānta-kaumudī
चञ्चेव चञ्चा । 'स्फिगन्तस्य' इति पाठान्तरम्‌ । स्फिगिति लुपः प्राचां संज्ञा ॥
Subodhinī
NSP p. 636
—लुवन्तस्य। उपमेयवाचिनो लुवन्तस्यादिरुदात्तः ॥—चञ्चेवेति । 'इवे प्रतिकृतौ' इति विहितस्य 'लुम्मनुष्ये' इति कनो लुप्। लुवन्तस्य किम् । अभिर्माणवकः
फि40 · Phiṭ 10.2.40
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्‌ ॥ फि४० ॥
na vṛkṣaparvataviśeṣavyāghrasiṃhamahiṣāṇām‌
Siddhānta-kaumudī
एषामुपमेयनाम्नामादिरुदात्तोअ न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥
Subodhinī
NSP p. 636
—न वृक्ष—। पूर्वेण प्राप्तमा द्युदा तत्त्वं निषिध्यते । अत्र वृक्षपर्वतविशेषग्रहणात् वृक्ष इवायं वृक्षः पर्वतः । अत्र पूर्वेणाद्युदात्तत्वं भवत्येव
फि41 · Phiṭ 10.2.41
राजविशेषस्य यमन्वा चेत्‌ ॥ फि४१ ॥
rājaviśeṣasya yamanvā cet‌
Siddhānta-kaumudī
यमन्वा वृद्धः । आङ्गमुदाहरणम्‌ । आङ्गाः प्रत्युदाहरणम्‌ ॥
Subodhinī
NSP p. 636
—राजविशेषस्य—। लुवन्तस्योपमेयनामधेयस्य राजविशेषस्याद्युदात्तः यमन्वा चेन्नामधेयं भवति । पूर्वेणैव सिद्धे नियमार्थमिदम् । राजविशेषस्य चेद्बुद्धस्यैवेत्याहुः । फिद्वृत्तौ तु वृद्धस्य चेद्राजविशेषस्यैवेति नियमो दर्शितः ॥—आङ्ग इति । आङ्ग इवायमाङ्गः
फि42 · Phiṭ 10.2.42
लघावन्ते द्वयोश्च बह्वषो गुरुः ॥ फि४२ ॥
laghāvante dvayośca bahvaṣo guruḥ
Siddhānta-kaumudī
अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥
Subodhinī
NSP p. 636
—लघावन्ते—। इह आदिरिति न संवध्यते तेन नादेरपि गुरोरुदात्तः । अत एव वृषाकपिशब्दस्य गुरुरुदात्त इति 'वृषाकप्यभि' इति सूत्रे वृत्त्यादिग्रन्थेषु विभावितम् । न च गुरूणां मध्ये य आदिरित्यर्थोऽस्त्विति वाच्यम् । 'अन्यतो डीष्' इति सूत्रे सारङ्गकल्माषशब्दौ 'लघावन्ते' इत्यादिना मध्योदात्ताविति हरदत्तग्रन्थविरोधादित्याहुः ॥—कल्याण इति । पर्यायेणादिमध्याद्युदात्तौ ॥—शकुनीनाम् । पक्षिवाचिनाम् ॥—पूर्वमिति । अन्त्यात्पूर्वमित्यर्थः । अत्राप्यादिरिति न संवध्यते पूर्वग्रहणात् ॥—कुक्कुटेत्यादि । मध्योदात्तावेतौ
फि43 · Phiṭ 10.2.43
स्त्रीविषयवर्णाक्षुपूर्वाणाम्‌ ॥ फि४३ ॥
strīviṣayavarṇākṣupūrvāṇām‌
Siddhānta-kaumudī
एषां त्रयाणामाद्युदात्तः । स्त्रीविषयम्‌ । मल्लिका । वर्णः । श्येनी । हरिणी । अक्षुशब्दात्पूरोऽस्त्येषां त अक्षुपूर्वाः । तरक्षुः ॥
फि44 · Phiṭ 10.2.44
शकुनीनां च लघु पूर्वम्‌ ॥ फि४४ ॥
śakunīnāṃ ca laghu pūrvam‌
Siddhānta-kaumudī
पूर्वं लघु उदात्तं स्यात्‌ । कुक्कुटः । तित्तिरिः ॥
फि45 · Phiṭ 10.2.45
नर्तुप्राणाख्यायाम्‌ ॥ फि४५ ॥
nartuprāṇākhyāyām‌
Siddhānta-kaumudī
यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥
Subodhinī
NSP p. 636
—नर्तु—। ऋतुवाचिनां प्राणिवाचिनां च यथालक्षणप्राप्तमुदात्तत्वं न ॥—धान्यानाम्—। धान्यवाचिनां वृद्धकशब्दान्तानां षशब्दान्तानां चादिरुदात्तः ॥—इयामाकाः । माषा इति । अत्रोशीनरेत्यनेन तृणधान्यानामित्यनेन चाद्युदात्तत्वस्य सिद्धत्वात् नैषादका राजमाषा इत्युदाहर्तव्यम् । फिद्वृत्तौ तु सूत्रे चशब्दो न पठितः । वृत्तौ गुरुरुदात्त इति व्याख्यातं न त्वादिरुदात्त इति नैषादकाः कालाक्षा इत्युदाहर्तं च । यत्तु धान्यानामिति किं इयामाका इत्युदाहर्तं तत्र । इयामाके धान्यत्वाभावश्चिन्त्यः ॥—जनपदा—। जनपदवाचिनामजन्तानामादिरुदात्तः स्यात् ॥—केकय इति । अत्र परत्वाद्यान्तस्यान्त्यात्पूर्वमिति स्वरेण भाव्यमत अङ्गा वङ्गा इत्युदाहर्तव्यमिति वदन्ति ॥—हयादीनाम् । हयादीनामसंयोगपूर्वो यो लशब्दस्तदन्तानामादिरुदात्तः । अन्त्यात्पूर्वं वा । केचित्तु अत्र जनपदानामित्यनुवर्तयन्ति । पञ्चालाः कोशला इत्युदाहृत्य पलालमिति प्रत्युदाहरन्ति च ।—इग—। अत्रापि जनपदानामित्यलात् ॥ इति द्वितीयः पादः ॥ कपोल इति । 'लघावन्ते' इति मध्योदात्तम् ॥—रसना वदनमिति । 'स्वाङ्गशिठाम्' इत्याद्युदात्तत्वम् ॥—मादी ॥—मलयः मकर इति । अनयोर्मकरवरूढेति यान्तस्यान्त्यात्पूर्वमिति विशिष्यस्वरविधानान्महेन्द्र इत्युदाहर्तव्यम्
फि46 · Phiṭ 10.2.46
धान्यायां च वृद्धक्षान्तानाम्‌ ॥ फि४६ ॥
dhānyāyāṃ ca vṛddhakṣāntānām‌
Siddhānta-kaumudī
आदिरुदात्तः । कान्तानाम्‌ । श्यामाकाः । षान्तानाम्‌ । राजमाषाः ॥
फि47 · Phiṭ 10.2.47
जनपदशब्दानामषान्तानाम्‌ ॥ फि४७ ॥
janapadaśabdānāmaṣāntānām‌
Siddhānta-kaumudī
आदिरुदात्तः । केकयः । यान्तस्यान्त्यात्‌ पूर्वमिति प्राप्ते ॥
फि48 · Phiṭ 10.2.48
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा ॥ फि४८ ॥
hayādīnāmasaṃyuktalāntānāmantaḥ pūrvaṃ vā
Siddhānta-kaumudī
हयिति हल्संज्ञा । पललम्‌ । शललम्‌ । 'हयादीनाम्‌' किम्‌ । एकलः । 'असंयुक्त--' इति किम्‌ । मल्लः ॥
फि49 · Phiṭ 10.2.49
इगन्तानां च द्व्यषाम्‌ ॥ फि४९ ॥
igantānāṃ ca dvyaṣām‌
Siddhānta-kaumudī
आदिरुदात्तः । कृषिः ॥
फि50 · Phiṭ 10.3.50
अथ द्वितीयं प्रागीषात्‌ ॥ फि५० ॥
atha dvitīyaṃ prāgīṣāt‌
Siddhānta-kaumudī
'ईषान्तस्य हलादेः--' {SK फि66} इत्यतः प्राग्द्वितीयाधिकारः ॥
फि51 · Phiṭ 10.3.51
त्र्यचां प्राङ्मकरात्‌ ॥ फि५१ ॥
tryacāṃ prāṅmakarāt‌
Siddhānta-kaumudī
'मकरवरूढ--' {SK फि57} इत्यतः प्राक्त्र्यचामित्यधिकारः ॥
फि52 · Phiṭ 10.3.52
स्वाङ्गानामकुर्वादीनाम्‌ ॥ फि५२ ॥
svāṅgānāmakurvādīnām‌
Siddhānta-kaumudī
कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम्‌ । ललाटम्‌ । कुर्वादीनां तु । कपोलः । रसना । वदनम्‌ ॥
फि53 · Phiṭ 10.3.53
मादीनां च ॥ फि५३ ॥
mādīnāṃ ca
Siddhānta-kaumudī
मलयः । मकरः ॥
फि54 · Phiṭ 10.3.54
शादीनां शाकानाम्‌ ॥ फि५४ ॥
śādīnāṃ śākānām‌
Siddhānta-kaumudī
शीतन्या । शतपुष्पा ॥
Subodhinī
NSP p. 636–637
—शादीनां शा—। शकारादीनां शाकवाचिनां श्यामां द्वितीयमुद्धात्तं स्यात् ॥ अत्र केचित्तु सादीनामिति पठित्वा सर्वपा इत्युदाहरन्ति
फि55 · Phiṭ 10.3.55
पान्तानां गुर्वादीनाम्‌ ॥ फि५५ ॥
pāntānāṃ gurvādīnām‌
Siddhānta-kaumudī
पादपः । आतपः । लघ्वादीनां तु । अनूपम्‌ । द्व्यचां तु । नीपम्‌ ॥
Subodhinī
NSP p. 637
—पान्तानाम्— पशब्दान्तानां गुर्वादीनां त्र्यचां द्वितीयमुदात्तं स्यात् । अनूपे अनोरप्रधानकनीयसीत्यनेनोदात्तत्वं नीपे नेरनिधाने इत्यनेनेत्याहुः
फि56 · Phiṭ 10.3.56
युतान्यण्यन्तानाम्‌ ॥ फि५६ ॥
yutānyaṇyantānām‌
Siddhānta-kaumudī
युत । अयुतम्‌ । अनि । धमनिः । अणि । विपणिः ॥
Subodhinī
NSP p. 637
—युता— युत अनि अणि एतदन्तानां त्र्यचां द्वितीयमुदात्तं स्यात् ॥—इत्यादीति । आदिशब्देन पारावत वितस्ता इष्टु आजिं द्राक्षा कला उमा काष्ठा पेष्टा । काशीनानामिति वक्तव्ये नुडभाव आर्षः
फि57 · Phiṭ 10.3.57
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा ॥ फि५७ ॥
makaravarūḍhapārevatavitastekṣvārjidrākṣākalomākāṣṭhāpeṣṭhākāśīnāmādirvā
Siddhānta-kaumudī
एषामादिर्द्वितीयो वोदात्तः । मकरः । वरूढ इत्यादि ॥
फि58 · Phiṭ 10.3.58
छन्दसि च ॥ फि५८ ॥
chandasi ca
Siddhānta-kaumudī
अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं ज्ञेयम्‌ ॥
Subodhinī
NSP p. 637
—छन्दसि— छन्दसि मकारादीनामन्येषां चादिर्द्वितीयं वोदात्तम् । काश्यपः । कर्दमः । कुलटा उदकं गान्धारिः
फि59 · Phiṭ 10.4.59
कर्दमादीनां च ॥ फि५९ ॥
kardamādīnāṃ ca
Siddhānta-kaumudī
आदिर्द्वितीयो वोदात्तः ॥
फि60 · Phiṭ 10.3.60
सुगन्धितेजनस्य ते वा ॥ फि६० ॥
sugandhitejanasya te vā
Siddhānta-kaumudī
आदिर्द्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥
Subodhinī
NSP p. 637
—सुगन्धि— ॥—आदिरिति । सुगन्धितेजनशब्दस्य
फि61 · Phiṭ 10.3.61
नपः फलान्तानाम्‌ ॥ फि६१ ॥
napaḥ phalāntānām‌
Siddhānta-kaumudī
आदिर्द्वितीयं वोदात्तम्‌ । राजादनफलम्‌ ॥
Subodhinī
NSP p. 637
—नपः फलान्तानाम्— नप् नपुंसकम् । नपः किम् । दासीफलो वृक्षः
फि62 · Phiṭ 10.3.62
यान्तस्यान्त्यात्पूर्वम्‌ ॥ फि६२ ॥
yāntasyāntyātpūrvam‌
Siddhānta-kaumudī
कुलायः । तलयः । वलयः ॥
Subodhinī
NSP p. 637
—यान्तस्य— यशब्दान्तस्यान्त्यात्पूर्वमुदात्तं स्यात् ॥—थान्तस्य— केचित्तु, ‘आन्तस्य च नालधुनी’ इति पठित्वा आकारान्तस्य नाशब्दस्य च लधुनी अन्त्यात्पूर्वं उदात्ते स्त इति व्याख्याय नाना दिवा मुधा इत्युदाजहुः
फि63 · Phiṭ 10.3.63
थान्तस्य च नालघुनी ॥ फि६३ ॥
thāntasya ca nālaghunī
Siddhānta-kaumudī
नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥
फि64 · Phiṭ 10.3.64
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च ॥ फि६४ ॥
śiśumārodumbarabalīvardoṣṭrārapurūravasāṃ ca
Siddhānta-kaumudī
अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥
Subodhinī
NSP p. 637
—शिशुमारो— शिशुमार इति पाठान्तरम् ॥—उष्ट्रार— उष्ट्रार इति पाठान्तरम्
फि65 · Phiṭ 10.3.65
साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्‌ ॥ फि६५ ॥
sāṅkāśyakāmpilyanāsikyadārvāghāṭānām‌
Siddhānta-kaumudī
द्वितीयमुदात्तं वा ॥
Subodhinī
NSP p. 637
— सांकाश्य— सांकाश्यकाम्पित्यशब्दौ ‘बुञ्छण्’— इति ण्यान्तौ । दार्वाधादशब्दो ‘दारावाहनोऽणन्तस्य च टः संज्ञायाम्’ इत्यण्प्रत्ययान्तः
फि66 · Phiṭ 10.3.66
ईषान्तस्य हयादेरादिर्वा ॥ फि६६ ॥
īṣāntasya hayāderādirvā
Siddhānta-kaumudī
हलीषा । लाङ्गलीषा ॥
Subodhinī
NSP p. 637
—ईषान्तस्य— ईषान्तस्य हलादेरादिरुदात्तो वा स्यात्
फि67 · Phiṭ 10.3.67
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्‌ ॥ फि६७ ॥
uśīradāśerakapālapalālaśaivālaśyāmākaśārīraśarāvahṛdayahiraṇyāraṇyāpatyadevarāṇām‌
Siddhānta-kaumudī
एषामादिरुदात्तः स्यात्‌ ॥
Subodhinī
NSP p. 637
—उशीर— अत्र श्यामाकप्रहणं चिन्त्यम् । ‘धान्यानां च वृद्धक्षान्तानाम्’ इत्यनेनैव सिद्धत्वात् । इदमेव ज्ञापयितुं मूले धान्यानामित्यत्र श्यामाक इत्युदाहतम् । देवरप्रहणमपि चिन्त्यम् । ‘लघावन्त—’ इत्यनेनैव सिद्धत्वात् । हृदयप्रहणं ‘खाङ्गानामकुर्वादीनाम्’ इति द्वितीयस्योदात्तत्वं वाधितुमन्येषां ‘लघावन्ते—’ इति प्राप्ते वचनम्
फि68 · Phiṭ 10.3.68
महिष्याषाढयोर्जायेष्टकाख्या चेत्‌ ॥ फि६८ ॥
mahiṣyāṣāḍhayorjāyeṣṭakākhyā cet‌
Siddhānta-kaumudī
आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति ॥
Subodhinī
NSP p. 637–638
—महिष्य— एतयोरादिरुदात्तः स्यात् यथासंख्यं जायाख्यायामिष्टकाख्यायां च ॥ इति तृतीयः पादः ॥ शब्दं वर्जयित्वा उपसर्गा आद्युदात्ताः स्युः
फि69 · Phiṭ 10.4.69
शकटिशकट्योरक्षरक्षरं पर्यायेण ॥ फि६९ ॥
śakaṭiśakaṭyorakṣarakṣaraṃ paryāyeṇa
Siddhānta-kaumudī
उदात्तम्‌ । शकटिः । शकटी ।
फि70 · Phiṭ 10.4.70
गोष्ठजस्य ब्राह्मणनामधेयस्य ॥ फि७० ॥
goṣṭhajasya brāhmaṇanāmadheyasya
Siddhānta-kaumudī
अक्षरमक्षरं पर्यायेणोदात्तम्‌ । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥
फि71 · Phiṭ 10.4.71
पारावतस्योपोत्तमवर्जम्‌ ॥ फि७१ ॥
pārāvatasyopottamavarjam‌
Siddhānta-kaumudī
शेषं क्रमेणोदात्तम्‌ । पारावतः ॥
फि72 · Phiṭ 10.4.72
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्‌ ॥ फि७२ ॥
dhūmrajānumuñjakeśakālavālasthālīpākānāmadhūjalasthānām‌
Siddhānta-kaumudī
एषां चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥
फि73 · Phiṭ 10.4.73
कपिकेशहरिकेशयोश्छन्दसि ॥ फि७३ ॥
kapikeśaharikeśayośchandasi
Siddhānta-kaumudī
कपिकेशः । हरिकेशः ॥
फि74 · Phiṭ 10.4.74
न्यङ्स्वरौ स्वरितौ ॥ फि७४ ॥
nyaṅsvarau svaritau
Siddhānta-kaumudī
स्पष्टम्‌ । न्यङुत्तानः । 'व्य॑चक्षय॒स्व॑ः ॥
फि75 · Phiṭ 10.4.75
न्यर्बुदव्यल्कशयोरादिः ॥ फि७५ ॥
nyarbudavyalkaśayorādiḥ
Siddhānta-kaumudī
स्वरितः स्यात्‌ । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥
फि76 · Phiṭ 10.4.76
तिल्यशिक्यमत्यकर्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः ॥ फि७६ ॥
tilyaśikyamatyakarṣmaryadhānyakanyārājanyamanuṣyāṇāmantaḥ
Siddhānta-kaumudī
स्वरितः स्यात्‌ । तिलानां भवनं क्षेत्रं तिल्यम्‌ । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः कार्ष्मर्योर्वज्रेण । 'यतोऽनावः' {SK 3701} इति प्राप्ते । कार्ष्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम्‌ । प्रतीचीं मनुष्याः ॥
फि77 · Phiṭ 10.4.77
बिल्वभक्ष्यवीर्याणि छन्दसि ॥ फि७७ ॥
bilvabhakṣyavīryāṇi chandasi
Siddhānta-kaumudī
अन्तस्वरितानि । ततो बिल्व उदतिष्ठत्‌ । बलं विरुजवीर्यम्‌ ॥
फि78 · Phiṭ 10.4.78
त्वत्त्वसमसिमेत्यनुच्चानि ॥ फि७८ ॥
tvattvasamasimetyanuccāni
Siddhānta-kaumudī
'स्त॒रीरु॑ त्व॒त्‌' । 'उत त्वं प॒श्यन्‌' । 'नभ॑न्तामन्य॒के स॑मे' । 'सिम॑स्मै' ॥
फि79 · Phiṭ 10.4.79
सिमस्याथर्वणेऽन्त उदात्तः ॥ फि७९ ॥
simasyātharvaṇe'nta udāttaḥ
Siddhānta-kaumudī
अथर्वण इति प्रायिकम्‌ । तत्र दृष्टस्येत्येवंपरं वा । तेन 'वासस्तनुते सिमस्मै' इत्यृग्वेदेऽपि भवत्येव ॥
फि80 · Phiṭ 10.4.80
निपाता आद्युदात्ताः ॥ फि८० ॥
nipātā ādyudāttāḥ
Siddhānta-kaumudī
स्वाहा ॥
फि81 · Phiṭ 10.4.81
उपसर्गाश्चाभिवर्जम्‌ ॥ फि८१ ॥
upasargāścābhivarjam‌
Siddhānta-kaumudī
॥
फि82 · Phiṭ 10.4.82
एवादीनामन्तः ॥ फि८२ ॥
evādīnāmantaḥ
Siddhānta-kaumudī
एवमादीनामिति पाठान्तरम्‌ । एव । एवम्‌ । नूनम्‌ । सह । 'सह ते पूत्र सूरिभिः' । षष्ठस्य तृतीये 'सहस्य सः-- {SK 1009} इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तच्चिन्त्यम्‌ ॥
फि83 · Phiṭ 10.4.83
वाचादीनामुभावुदात्तौ ॥ फि८३ ॥
vācādīnāmubhāvudāttau
Siddhānta-kaumudī
उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥
फि84 · Phiṭ 10.4.84
चादयोऽनुदात्ताः ॥ फि८४ ॥
cādayo'nudāttāḥ
Siddhānta-kaumudī
स्पष्टम्‌ ॥
फि85 · Phiṭ 10.4.85
यथेति पादान्ते ॥ फि८५ ॥
yatheti pādānte
Siddhānta-kaumudī
'तं ने॑मिमृ॒भवो॑ य॒था । 'पादान्ते' किम्‌ । 'यथा॑नो॒ अदि॑ति॒ः कर॑त्‌' ॥
Subodhinī
NSP p. 638
—यथेति । यथाशब्दः पादान्तेऽनुदात्तः स्यात्
फि86 · Phiṭ 10.4.86
प्रकारादिद्विरुक्तौ ॥ फि८६ ॥
prakārādidviruktau
Siddhānta-kaumudī
परस्यान्त उदात्तः । पटुपटुः ॥
Subodhinī
alignment inferredNSP p. 638
—प्रकारादि‘प्रकारे गुणवचनस्य’ इत्यादिद्वित्वे पदस्यान्तोदात्तः स्यात् ॥—पट्टपटुरिति । ननु ‘कर्मधारयवदुत्तरेषु’ इति कर्मधारयवद्भावादेव ‘समासस्य’ इत्यन्तोदात्तत्वे सिद्धे व्यर्थमिदमिति वाच्यम् । तस्य पाणिनीयात्पूर्वप्रवृत्तत्वेनादोषात् ॥ शेषं प्रकारादिद्वित्वादन्यस्मिन्द्वित्वे परं सर्वमनुदात्तं स्यात् ॥ इति चतुर्थः पादः ॥ अग्निरिति । ‘अङ्गेर्नलोपश्च’ इति निप्रत्ययः ॥—कर्तव्यमिति । तव्यप्रत्ययः । तव्यतस्तु तित्त्वात्स्वरितो वक्ष्यते । नच तव्यस्याप्याद्युदात्तत्वे ‘उदात्तादनुदात्तस्य’ इति स्वरितो भवत्येवेति चेत्सत्यम् । किं त्वयमसिद्धः तित्स्वरस्तु सिद्ध इति प्रवृत्त्यप्रवृत्तिभ्यां महान् विशेषः । तव्यतस्तित्त्वमेव शेषनिधातपरिभाषाया यथोदेशप्रवृत्तौ ज्ञापकमिति ध्येयम् ॥— युच्छतीति । युच्छ प्रमादे । ‘धातोः’ इत्यन्तोदात्तः । ततः परः शप् ‘उदात्तादनुदात्तस्य’ इति स्वरितः । ‘स्वरितात्संहितायामनुदात्तानाम्’ इति तिपः प्रचयः
फि87 · Phiṭ 10.4.87
शेषं सर्वमनुदात्तम्‌ ॥ फि८७ ॥
śeṣaṃ sarvamanudāttam‌
Siddhānta-kaumudī
शेषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रा॒यम्‌ । दि॒वेदि॑वे ॥