PREMABASESiddhānta-kaumudī
Prakaraṇa 67 · SK 2895–3167

पूर्वकृदन्तप्रकरणम्

pūrvakṛdantaprakaraṇam · 273 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
uṇādayaḥ · opening
Siddhānta-kaumudī
<div class="text-left text-secondary default-english-font font-text">The entire उणादिपाठः can be seen <a href="/unaadi" class="href" data-nav="/unaadi">here. Kaumudi also includes one Ashtadhyayi sutra in this section (after <span class="default-sanskrit-font">उणादि- 2.13) which is given below.
SK 2895 · A 3.1.133V
ण्वुल्तृचौ ॥ २८९५ ॥
ṇvultṛcau
Siddhānta-kaumudī
धातोरेतौ स्तः । कर्तरि कृत् SK 2832 इति कर्त्रर्थे । युवोरनाकौ SK 1247 । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा - SK 2461 इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् SK 2536 । विजिता । हनस्तोऽचिण्णलोः SK 2574 । घातकः । आतो युक् SK 2761 । दायकः । नोदात्तोपदेशस्य SK 2763 इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च SK 2512 । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि SK 2302 । रन्धकः । जम्भकः । नेट्यलिटि रधेः SK 2516 । रधिता । रद्धा । मस्जिनशोः SK 2517 इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः SK 2581 । रम्भकः । रब्धा । लभेश्च SK 2582 । लम्भकः । लब्धा । तीषसह-SK 2340 इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट SK 2841 इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ।
vārttika
क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः
(वार्तिकम्) ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा SK 2716 इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-SK 2401इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः SK 2348 । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥
Tattvabodhinī
alignment inferredNSP p. 498
—अनन्यभावे विषयशब्द इति । तदन्याविषयत्वे सति तद्विषयलमनन्यभावः । तथा च विकल्पार्हस्य क्रमेः परस्मैपदात्मनेपदोभय-प्राप्तिविषयलान्निषेधो नेति भावः ॥—संजिगमिषितेति । संपूर्वाद्गमेः सन् ‘सन्यङ्गोः’ इति द्वित्वे हलादिःशेषे ‘सन्यतः’ इत्यभ्यासस्येलम् । ‘आर्धधातुकस्य—’ इति सन इट्, षत्वं, सनन्तात्तृच् पुनरिट् ॥—अल्लोपस्येति । प्राचा तु ‘न धातुलोप—’ इति सूत्रे इक इत्यनुवृत्तेर्वृद्धेरनिषेधः पापाचक इत्युक्तं, तन्न । यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धेः प्राप्त्यभावात् । ननु यङ्लुकि पापाचकरूपाभिप्रायेण तथोक्तम् । तत्र हि आकारविशिष्टस्यैव यङो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाभावादिति चेत् । मैवम् । एवं तर्हि आर्धधातुकस्य धालवयवलोपनिमित्तलाभावेन यङ्लुगन्ते ‘न धातुलोप—’ इति निषेधस्य प्रसक्त्यभावात्
Bālamanoramā
ण्वुल्तृचौ - अथ कृदन्तप्रकरणं । ण्वुल्तृचौ । अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् । वोढुमर्ह इति ।अर्हे कृत्यतृचश्चे॑त्युक्तेरिति भावः । वोढेति । वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषुसहिवहो॑रित्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्क्याह — गाङिति । तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह — अञ्णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्क्याह — विज इडिति ।इति ङित्त्व॑मिति शेषः । विजितेति । ङित्त्वान्न गुणः अनिट्स्त्विति । तस्यानुदात्तोपदेशत्वादिति भावः । 'जनक' इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत — जनिवध्योश्चेति । वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात् । नत्वयं हन्तेर्वधादेशः । तथा सतिजनिवध्योश्चे॑ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः । वधक इति ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति — रधिजभोरचीति । रधितेत्यत्ररधिजभो॑रिति नुममाशङ्क्याह — नेटलिटीति । रधिता रद्धेति ।रधादिभ्यश्चे॑ति वेट् । मस्ज् तृ इति स्थिते आह — मस्जिनशोरिति । नुम्विधिरयम् । मङ्क्तेति । मस्ज् तृ इति स्थितेमस्जेरन्त्यात् पूर्वो नुम् वाच्यः॑ इतिसकारादुपरि जकारात् प्राङ्नुम् । मस्न्ज् तृ इति स्थितेस्को॑रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः । नंष्टा नशितेति । रधादित्वाद्वेट् । इडभावपक्षेमस्जिनशो॑रिति नुमि, नन्श् तृ इति स्थितेव्रश्चे॑ति शस्य षः । नस्याऽनुस्वारः । ष्टुत्वम् । रमेरशब्लिटोरिति नुम्विधिरयम् । लब्धेति ।झषस्तथो॑रिति तस्य धः, जश्त्वेन भस्य बः । तीषसहेति । इड्विकल्पोऽयम् । सोढेति । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहो॑रित्योत्त्वम् । दरिद्रातेरालोप इति ।दरिद्रातेरालोपो वक्तव्यः॑ इत्यनेनेति भावः । ण्वुलि नेति । दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः । 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः । दरिद्रायक इति ।अतो यु॑गिति युगिति भावः । पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह — कृत्यल्युट इत्येवेति । 'कृत्यल्युटः' त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं — कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती॑ति । एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः ।कृतो बहुल॑मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः । क्रमेरिति । आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।स्नुक्रमो॑रिति सूत्रस्थमिदं वार्तिकम् । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मित्यात्मनेपदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह — अनन्यभावे विषयशब्द इति । 'वर्तते' इति शेषः । आत्मनेपदाऽविनाभाव इति यावत् ।क्रमेः कर्तर्यात्मनेपदिन॑ इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः । तथा च नित्यमात्मनेपदिन इति फलितम् । तेनेति ।क्रमिते॑त्यत्र क्रमेः 'अनुपसर्गाद्वे' त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः । मतान्तरमाह — तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेनगमेरिट् परस्मैपदेषु॑ इत्यस्याऽप्रवृत्तेरित्यत आह — गमेरिडित्यत्रेति । एवमिति ।न वृद्ध्यश्चतुभ्र्यः॑ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति । वृतेः सनि रूपम् ।हलन्ताच्चे॑ति कित्त्वान्न गुणः । यङन्तादिति । पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः । तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह — स्थानिवत्त्वान्न वृद्धिरिति । यङ्लुगन्तात्त्विति । यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा । 'न धातुलोपे' इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च ।
SK 2896 · A 3.1.134V
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ २८९६ ॥
nandigrahipacādibhyo lyuṇinyacaḥ
Siddhānta-kaumudī
नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे SK 3489 कर्मणि घटोऽठच् SK 1836 इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध - SK 2897 इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च SK 2650 इति लुक् । न धातुलोप - SK 2656 इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ।
vārttika
चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्
(वार्तिकम्) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः SK 2179 च न । चराचरः । चलाचलः । पतापतः । वदावदः ।
vārttika
हन्तेर्घत्वं च
(वार्तिकम्) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च SK 2430 इति कुत्वम् । घनाघनः ।
vārttika
पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य
(वार्तिकम्) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति - SK 1008 इति वा मुम् । रात्रिंचरः । रात्रचरः ॥
Tattvabodhinī
NSP p. 498–499
—नन्दिग्रहि—। द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं संवध्यते तदाह—नन्द्यादे’ ल्युरित्यादि ॥—मधुसूदन इति । मधुं दैत्यं सूदयतीति विग्रहः । पूद क्षरणे । इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठात् ल्युः ॥—विभीषण इति । ‘भियो हेतुभये पुक्’ ॥—ग्राहीति । णिनेर्णित्त्वादुपधावृद्धिः ॥—स्थायीति । आतो युक् ॥—मन्त्रीति । मत्रीति चुरादाविदित्पाठान्नुम्, ‘णेरनिटि’ इति लोपः ॥—विषयीति । पिन् वन्धने ‘धालादेः—’ इति षस्य षत्वे ‘आदेशप्रत्यययोः’ इति प्राप्तस्य षलस्य ‘सात्पदायोः’ इति निषेधादाह—इह पत्वमपीति । निपातनादित्यनुषज्यते । ‘परिनिविभ्यः—’ इति सूत्रे सितसयेति क्तान्ताजन्तसिनोतेर्प्रहणाणिन्यन्तसिनोतेर्निपातनं विना षत्वं दुर्लभमिति भावः ॥—जारभरेत्यादि । जारं विभर्ति, श्वानं पचतीति विग्रहः ॥—श्रवपाकोऽपीति । कर्मण्यणपि पक्षे भवतीति भावः ॥—चेक्रिय इति । संयोगपूर्वलात् ‘एरनेकाचः—’ इति न यण् ॥—लोलुव इति । इह सुवभावात् ‘ओः सुपि’ इति यण्नेति ‘अचि श्रुधातु—’ इत्युवङ् ॥—मरीमृज इति । ‘रीण्डुप’ धस्य च’ इति रीगागमः हलादिःशेषे नेति । सति तु हलादिःशेषे आगमस्य आदेशस्य वा विशेषो नास्तीत्यचा चाभ्यां सस्येत्येव ब्रूयादिति भावः ॥—पाटेर्णिलुगिति । ‘णेरनिटि’ इति लोपे हि प्रत्ययलक्षणन्यायेन पाट्टुपट् इत्यत्रोपधावृद्धिः स्यादिति भावः । इहापि पूर्ववद्भस्वहलादिःशेषयोरभावः
Bālamanoramā
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः - नन्दिग्रहि । नन्दि,ग्रहि, पच एषां द्वन्द्वः । नन्दिग्रहिपचा आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु , ण्नि, अच् - एषां द्वन्द्वात्प्रथमा । यथासङ्ख्यमन्वयः । तदाह — न्द्यादेरित्यादि । नन्दीति ण्यन्तग्रहणम् । तदाह — नन्दयतीत्यादि । ल्योरनादेशः,णेरनिटी॑ति णिलोपः । मधुं सूदयतीति । मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः । सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वात् 'ग्रहिज्ये' ति संप्रसारणं न । ग्राहीति । ग्रहधातोरदुपधाण्णिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशयीति । विपूर्वात् 'शीङ् स्वप्ने' इति धातोर्णिनिः । गुणाऽयादेशौ ।अचोऽञ्णिती॑ति वृद्धिमाशङ्क्याऽऽह — वृद्ध्यभाव इति । विषयीति । 'षिञ् बन्धने' अस्मात्कृतषत्वाण्णिनिः । गुणाऽयादेशौ । नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह — षत्वमपीति । निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः । परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह — पाक्षिक इति । ग्रह्रादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह — शिवशमिति । सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, 'कर्मणि घट' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादच्प्रत्यये परेयङोऽचि चे॑ति यहो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह - केषांचिदिति । टकारानुन्धासञ्जानार्थ इत्यर्थः । नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह — केषांचित्प्रपञ्चार्थ इत । बाधकेति । 'जारभर'आपचे॑त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौइगुपधज्ञाप्रीकिरः कः॑ इति विशिष्य विहितस्य कस्य बाधनार्थं च । तदेतदुपपादयति — नदडित्यादि । ननु पचादिगणे आपचशब्दस्य बाधकबाधनार्थत्वे आपाक इति कथमित्यत आह — न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति । कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः । चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति — यङोऽचि चेति । क्रीञादिधातोरचि यङो लुगित्यर्थ- । द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह — न धातुलोप इति । चेक्रिय इति । गुणाऽभावे संयोगपर्वत्वान्न यण् । नेन्य इति । 'एरनेकाचः' इति यण् । लोलुव इति । उवङ् । यण्तु न,ओः सुपी॑त्युवक्तेः । मरीमृज इति । अत्र 'न धातुलोपे' इति निषेधान्न मृजेर्वृद्धिः । चरिचलीति । एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः । ननु 'चराचर' इत्यत्राऽभ्यासे रेफादाकारस्य ह्रस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह — आगागमस्येति । ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्तौ ह्रस्वत्वेऽपि सवर्णदीर्घेण 'चाचर' इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः । हन्तेरितति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः । ननूत्तरखण्डेअभ्यासाच्चे॑ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह — घत्वमभ्यासस्येति ।इह विधीयतेट इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य ह्रस्वे तसय् दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लुग्विधिः । आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः ।
SK 2897 · A 3.1.135V
इगुपधज्ञाप्रीकिरः कः ॥ २८९७ ॥
igupadhajñāprīkiraḥ kaḥ
Siddhānta-kaumudī
एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥
Tattvabodhinī
NSP p. 499
—इगुपध-। इह उपधा यस्य सः । ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ विक्षेपे । एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कृशब्दस्य धालनुकरणत्वेन प्रकृतिवदनुकरणमितिदेशात् ‘ऋत इद्धातोः’ इति इत्यम् । समाहारद्वन्द्वे तु नपुंसकहस्त्वे सति इत्वं न स्यात् ॥—ज्ञ इति । जानातीति ज्ञः, ‘आतो लोप इटि च’ इत्यालोपः
Bālamanoramā
इगुपधज्ञाप्रीकिरः कः - इगुपधज्ञा । 'कृ विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम् । इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी । कित्त्वं गुणनिषेधार्थम् । ज्ञ इति । आतो लोपः । प्रिय इति । प्रीञ् के इयङ् । किर इति । कृधातोः कप्रत्यये इत्त्वे रपरत्वम् ।
SK 2898 · A 3.1.136V
आतश्चोपसर्गे ॥ २८९८ ॥
ātaścopasarge
Siddhānta-kaumudī
कः स्यात् ।श्याद्व्यधा - SK 2903 इति णस्यापवादः । सुग्लः । प्रज्ञः ॥
Bālamanoramā
आतश्चोपसर्गे - आतश्चोपसर्गे । कः स्यादिति । शेषपूरणम् । उपसर्गे उपपदे आदन्ताद्धातोः कः स्यादिति फलति । णस्यापवाद इति । तस्य उपसर्गेऽनुपसर्गे च आदन्तसामान्यविहितत्वादिति भावः । सुग्ल इति । ग्लैधातोः 'आदेचः' इत्यात्वे कृते कप्रत्यये आतो लोप इति भावः । प्रज्ञ इति । ज्ञाधातोरातो लोपः ।
SK 2899 · A 3.1.137V
पाघ्राध्माधेट्दृशः शः ॥ २८९९ ॥
pāghrādhmādheṭdṛśaḥ śaḥ
Siddhānta-kaumudī
पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥
vārttika
घ्रः संज्ञायां न
(वार्तिकम्) ॥ व्याघ्रादिभिः - SK 735 इति निर्देशात् ॥
Tattvabodhinī
NSP p. 499
—पाघ्राध्मा-। पा पाने । पा रक्षणे इत्ययं तु न गृह्यते लुग्विकरणत्वात् । इह सूत्रे उपसर्गं इति केचिदनुवर्तयन्ति तद्वद्वनामसंमतम् । तथा च श्रीहर्षः ‘फलानि धूमस्य धयानधोमुखान्’ इति । श्रूयते च ‘यदा पश्यः पश्यते रुक्मवर्णम्’ इति
Bālamanoramā
पाघ्राध्माधेट्दृशः शः - प्राघ्रा । अत्रलुग्विकरणाऽलुग्विकरणयोरलुगविकरणस्ये ग्रहण॑ मिति मत्वाऽऽह — पिबतीति पिब इति । पाधातोः शप्रत्यये तस्य शित्त्वेन सार्वदातुकत्वात्पाघ्राध्मे॑ति पिबादेशः । स चाऽदन्त इत्युक्तम् । शप् । पररूपम् । जिघ्र इति ।प्राघ्रे॑ति घ्राधातोर्जिघ्रादेशः । धम इति । ध्माधातोर्धमार्देशः । धय इति । धेटः शः, शप्, अयादेशः, पररूपमिति भावः । धया कन्येति । अत्र धेट्धातुष्टित् । स अदन्तो न भवति, यस्त्वदन्तो धयशब्दः, स न टित्, अतोऽत्रटिड्ढाण॑ञिति न ङीबिति भावः । धेटष्टित्त्वादित्यारभ्य हरदत्तमतम् । स्तनन्धयीतीति । स्तनशब्दे उपपदे धेट्धातोःनासिकास्तनयो॑रिति खशि कृतेखत्यनव्ययस्ये॑ति मुमि स्तनन्धयशब्दः । तत्र खशि कृते धेटष्टित्त्वमाश्रित्य यथाटिड्ढाम॑ञिति ङीप्, तथा धया कन्येत्यत्रापि ङीप् प्राप्तः, स ङीप् खशोऽन्यत्र नेष्यते इति हरदत्त आहेत्यर्थः । वस्तुतस्तुडिड्ढाण॑ञिति सूत्रे टिदाद्यवयवाऽकारस्यैव ग्रहणमिति भाष्यविरोधादिदं चिन्त्यम् । नच टित्त्वसामर्थ्यादेव स्तनन्धयीशब्दान्ङीबिति वाच्यं, धया कन्येत्यत्रापि ङीप्प्रसङ्गात्, खशोऽन्यत्र नेष्यते इत्यत्र प्रमाणाऽभावात् । त्समात्स्तनन्धयीत्यप्रामाणिकमेव । तस्य प्रामाणिकत्वे गौरादित्वं कल्प्यम्, ङीप्यप्युदात्तनिवृत्तिस्वरप्राप्त्या स्वरे विशेषाऽभावादिति शब्देन्दुशेखरे स्थितम् । दृश उदाहरति — पश्य इति ।पाघ्रे॑ति पश्यादेशः । घ्रः संज्ञायां नेति । घ्राधातोः संज्ञायां शो नेत्यर्थः । कुत इत्यत आह — व्याघ्रादिभिरिति । अन्यथाव्याजिघ्रादिभि॑रिति निर्दिशेदिति भावः ।
SK 2900 · A 3.1.138V
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ २९०० ॥
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca
Siddhānta-kaumudī
शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूपन्यायेन क्विपि । सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः ।
vārttika
नौ लिम्पेर्वाच्यः
(वार्तिकम्) ॥ निलिम्पा देवाः ।
vārttika
गवादिषु विदेः संज्ञायाम्
(वार्तिकम्) ॥ गोविन्दः । अरविन्दम् ॥
Tattvabodhinī
NSP p. 499
—अनुपसर्गाल्लिम्पविन्द-। इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिष्टौ । तेन लाभार्थस्यैव विन्देर्प्रहणं न तु सत्ताद्यर्थकानाम् ॥—धारय इति । धृञ् धारणे, धृङ् अवस्थाने । ण्यन्तयोर्द्वयोरपि प्रहणम् । अथ कथं ‘न मह्यमत्रोत्तरधारयस्य ते’ इति श्रीहर्षः । परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम् । तथाच वार्तिकम् ‘अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन’ इति । सत्यम् । कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेषपक्ष्यन्तेन समासो भविष्यति । एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः ॥—पारय इति । पार कर्मसमाप्तौ चुरादिण्यन्तः । पृ पालनपूरणयोरिति वा हेतुमण्यन्तः ॥—वेदय इति । विद चेतनाख्यानादिषु चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्यन्तः । इहोदाहरणेषु लिपिविदिभ्यां ‘तुदादिभ्यः शः’ ‘शे मुचादीनाम्’ इति नुम् । धार्यादिभ्यस्तु शच्युणायादेशाः ॥—अरविन्दमिति । चकस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अराः तदाकाराणि दलानि तत्सादश्यादरास्तान् विन्दति लभते इत्ययं कर्मण्यणो वाधनायेदम्
Bālamanoramā
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च - अनुपसर्गात् । शः स्यादिति । शेषपूरणम् । लिम्पः विन्द इति ।लिप उपदेहे 'विद्लृ लाभे' इति तुदादौ, ताभ्यां शः ।शे मुचादीना॑मिति नुम् । सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ, अतस्तौदादकयोरेव ग्रहणम् । धारय इति । 'धृञ् धारणे' 'धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः शप्, गुणाऽयादेशौ । पारय इति । पृधातोण्र्यन्ताच्छः, शप्, गुणाऽयादेशौ । विद वेदनाख्यादिषु, चुरादिण्यन्ताच्छः, शप् गुणाऽयादेशौ । उदेजय इति । उत्पूर्वादेजधातोण्र्यन्ताच्छः, शप् गुणाऽयादेशौ । चेतय इति । 'चिती संज्ञाने' ण्यन्ताच्छः, शप्,गुणाऽयादेशौ । एवं सातयः । सादिति रूपं साधयितुमाह — वासरूपनयायेन क्विबिति । सातयति सुखयतीत्यर्थे क्विप् । णिलोपः । यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः, तथापि वासरूपविधिना क्विबपि भवतीत्यर्थः । सात्परमात्मेति ।एष ह्रेवानन्दयती॑ति श्रूतेः तस्यसुखयितृत्वावगमादिति भावः । सात्वन्त इति । सात् = परमात् मा भजनीय एषामित्यर्थे मतुप् । 'मादुपधायाः' इति मस्य वः । 'तसौ मत्वर्थे' इति बत्वात्पदत्वाऽभावान्न जश्त्वम् । साहय इति । साहेः शः । शप् । गुणाऽयादेशौ । प्रलिप इति । इगुपधलक्षणः कः । नौ लिम्पेरिति । वार्तिकमिदम् ।नी॑त्युपसर्गे उपपदे लिम्पेः शो वाच्य #इत्यर्थ- । 'अनुपसर्गा' दित्युक्तेः पूर्वेणाऽप्राप्तौ वचनम् । गवादिष्विति । वार्तिकमिदम् । गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः ।संज्ञायामेवे॑ति नियमार्थमिदम् । गोविन्द इति । गाः = उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः । अरविन्दिमिति । चक्रे नाभिनेम्योरन्तरालप्रोतानि काष्ठानि अराणि, तत्सदृशानि दलानि विन्दतीत्यर्थः । कर्मण्यणोऽपवादः शः ।
SK 2901 · A 3.1.139V
ददातिदधात्योर्विभाषा ॥ २९०१ ॥
dadātidadhātyorvibhāṣā
Siddhānta-kaumudī
शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥
Tattvabodhinī
NSP p. 499
—ददातिदधात्योर्विभाषा ॥—ददः दधः इति । शे परे ‘जुहोत्यादिभ्यः’ इति श्लः ‘श्लौ’ इति द्वित्वम् अपित्सार्वधातुकस्य शस्य ङित्वात् ‘आतो लोपः-’ इत्यालोपः ॥—वक्ष्यमाणो ण इति । ‘श्याद्यधा-’ इति णप्रत्यये आतो युकि दायः धायः ॥—प्रदः प्रधः इति । ‘आतश्चोपसर्गे’ इति कः । स्यादेतत् । दद दाने, दध धारणे आभ्यामचि ददो दधः इति सिद्धम् । दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत् । सत्यम् । स्वरार्थमिदं सूत्रम् । अददः अदधः । इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते । अजन्तत्वे तु अजकावशक्तावित्यन्तोदात्तत्वं स्यात्
Bālamanoramā
ददातिदधात्योर्विभाषा - ददातिदधात्योर्विभाषा । दाञ्, धाञ्, आभ्यां शो वा स्यात् । ददः दध इति । शः, शप्, श्लुः । 'श्लौ' इति द्वित्वम् । आतो लोपः । वक्ष्यमाण इति । 'स्याद्व्यदे' त्यनेनेति भावः । प्रदः प्रध इति । 'आतश्चोपसर्गे' इति कः ।
SK 2902 · A 3.1.140V
ज्वलितिकसन्तेभ्यो णः ॥ २९०२ ॥
jvalitikasantebhyo ṇaḥ
Siddhānta-kaumudī
इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः ।
vārttika
तनोतेरुपसंख्यानम्
(वार्तिकम्) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥
Tattvabodhinī
alignment inferredNSP p. 499–500
—इतिशब्द आद्यर्थ इति । निपातानामनेकार्थलादिति भावः ॥—श्याद्यधा-। अनुपसर्गादिति निवृत्तम् । उत्तरसूत्रे पुनरनुपसर्गप्रहणात् । एवं च तत्संबद्धं विभाषाप्रहणमपि निवृत्तं तदाह—नित्यमिति । इह सूत्रे श्यैङ् गतावित्यस्य आत्वे श्या आत् इति प्रश्लेषो न तु शीक्षो यणादेशेन, नाप्यततेः अच्छब्दान्तानां वायतिप्रभृतीनां नाप्यकारान्तानां वा प्रश्लेषेण प्रहणं व्याख्यानादिति भावः ॥—कं वाधितुमिति । अन्यथा ‘आतश्चोपसर्गे’ इति विशेषविहितः कः सामान्यविहितस्य णस्य वाधकः स्यादित्यर्थः । सु गतौ । प्राचा तु सूत्रे आश्रु संश्रु इति तालव्यं पठित्वा भृणोतिरुदाहतस्तदनाकरम् । तथा च प्रयुक्तते—‘अनाश्रवावः किमहं कदापि वक्तुं विशेषा परमस्ति शेषः’ इति नैषधादौ । अमरोऽप्याह ‘वचने स्थित आश्रवः’ इति । यदि तु सूत्रे अस्मिन् शृणोतेग्रहणं स्यात्तर्हि ‘ऋदोरप्’ इति सामान्यविहितमपं वाधित्वा आङ्पूर्वकाच्छृणोतेर्विशेषविहितोण एव स्यात्, तथा च आश्रव इति रूपं न स्यात्कलाश्राव इति स्यादिति दिक् ॥—लेहः । शृणो इति । ‘इगुपधज्ञा—’ इति कप्रत्यये गुणो न स्यादिति भावः ॥—दुनोतेरिति । दुदु उपतापे इत्यस्मात् ॥—दवतेरिति । दु गतावित्यस्मात् ॥—दव इति । ‘दवदावौ वनारण्यवही’ इत्यमरः ॥—काशिकेति । भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यत आह—भाष्यमते त्विति
Bālamanoramā
ज्वलितिकसन्तेभ्यो णः - ज्वलिति । आद्यर्थ इति । तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः । तदाह — ज्वलादिभ्य इति ।ज्वल दीप्तौ इत्यारभ्य 'कस गतौ' इत्येवमन्तेभ्य इत्यर्थः । वा णः स्यादिति.विभाषेत्यनुवर्तते इति भावः । पक्षेऽजिति । 'इगुपधेभ्यः कः' इत्यपि बोध्यम् । उपसङ्ख्यानमिति ।णस्ये॑ति शेषः । न संबध्यते इति । 'अवतानः' इत्येव भाष्ये उदाहरणादिति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 500 इति पृ. ॥ — छंदपत इति । भूयः सहचरिद् या हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते तेन सकृदपि यः सुष्ठु करोति तत्र बुन् । यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः ॥ — आशिषि च । अप्राप्तप्रार्थनमाशीः । सा च प्रयोक्तृधर्मो न प्रत्ययार्थः । ‘कर्तरि कृत्’ इति कर्त्रर्थं विधानादित्याशयेनाह—आशीर्विपयार्थेत्यादिना ॥—जीवतादिति । जीवनं तव भूयादित्यर्थः ॥—जीवक इति । व्रियां तु टापि ‘आशिषि बुनश्च न’ इति निषेधात् ‘प्रत्ययस्थात्’ इति इत्याभावः । जीवका ॥—कर्मण्यण् ॥—उपपदसमास इति । ‘तत्रोपपदम्’ इति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम् ‘उपपदमतिङ्’ इति समास इत्यर्थः ॥—कुम्भकार इति । अणि कृते ‘कर्तृकर्मणोः
SK 2903 · A 3.1.141V
श्याद्व्यधास्रुसंस्व्रतीणवसावहृलिहश्लिषश्वसश्च ॥ २९०३ ॥
śyādvyadhāsrusaṃsvratīṇavasāvahṛlihaśliṣaśvasaśca
Siddhānta-kaumudī
श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥
Bālamanoramā
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च - श्याद्व्यधारुआउ । श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते । तदाह — नित्यमिति । श्यैङ इति । श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ आत्त्वे कृते णः । आतो युक् । आदिति । आदन्तस्योदाहरणसूचनम् । दायः धाय इति । णे आतो युक् । व्याध इति । अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ । अवसाय इति । अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्माण्णे आतो युक् । लेहः श्लेष इति । णे लघूपधगुणः । आआस इति । णे उपधावृद्धिः ।
SK 2904 · A 3.1.142V
दुन्योरनुपसर्गे ॥ २९०४ ॥
dunyoranupasarge
Siddhānta-kaumudī
णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥
Bālamanoramā
दुन्योरनुपसर्गे - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । 'दु द्रु गतौ' इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः ।
SK 2905 · A 3.1.143V
विभाषा ग्रहः ॥ २९०५ ॥
vibhāṣā grahaḥ
Siddhānta-kaumudī
णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥
Bālamanoramā
विभाषा ग्रहेः - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ 'ग्राह' इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये 'ग्रह' इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे 'भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः ।
SK 2906 · A 3.1.144V
गेहे कः ॥ २९०६ ॥
gehe kaḥ
Siddhānta-kaumudī
गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥
Tattvabodhinī
NSP p. 500
—गेहे कः । गेह इति प्रत्ययार्थस्य कर्तुर्विशेषणं नोपपदम् । ‘गृहपतिना संयुक्ते व्यः’ इति निर्देशादित्यभिप्रेत्याह—गेहे कर्तरीति । एतत्सूत्रं तु शक्यमकर्तुम् । गृह् ग्रहणे इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृते गृहशब्दस्य सिद्धेः ॥—तात्स्थ्यादिति । भवति हि तात्स्थ्यात्ताच्छब्दम् । मन्त्राः कोशन्तीत्यादौ मन्त्रशब्देन पुरुषा अपि व्यपदिश्यन्ते, एवं च गृहशब्दो वेश्मनि मुख्यो दारेषु त्वौपचारिक इत्यर्थः । अत्रेदमवधेयम् । गृहशब्दोऽयमर्थर्चादित्वादुभयलिङ्गः । तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुंलिङ्गस्तु बहुवचनान्त एव । ‘गृहाः पुंसि च भूयेव’ इत्यमरोक्तेरिति
Bālamanoramā
गेहे कः - गेहे कः । 'विभाषा ग्रहः' इत्यस्यापवादः । गृहमिति ।ग्रहिज्ये॑ति संप्रसारणं, पूर्वरूपं च॥ ननु 'गृहा दारा' इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह — तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । 'दारेष्वपि गृहाः' इत्यमरः ।
SK 2907 · A 3.1.145V
शिल्पिनि ष्वुन् ॥ २९०७ ॥
śilpini ṣvun
Siddhānta-kaumudī
क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् ।
vārttika
नृतिखनिरञ्जिभ्य एव
(वार्तिकम्) ॥ नर्तकः । नर्तकी । खनकः । खनकी ।
vārttika
असि अकेऽने च रञ्जेर्नलोपो वाच्यः
(वार्तिकम्) ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु क्वुन्शिल्पिसंज्ञयोः <{उ190}> इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥
Tattvabodhinī
NSP p. 500
—शिल्पिनि ष्वुन् । पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह—तद्वति कर्तरीति ॥—भाष्यमते त्विति । तथा च षष्ठे ‘रजकरजनरजःसूपसंख्यानम्’ इति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तम् । रजकरजनरजःसु कित्वात् सिद्धं कित् एवैते औणादिका इति तत्र कैयटआह—रजक इति । ‘शिल्पिनि ष्वुन्’ इति ष्वुन् ॥—रजनमिति । ‘रजेः क्युन्’ इति क्युन् । रज इति ‘भूरजिभ्यां कित्’ इत्यस्तुन् प्रत्यय इत्यादि
Bālamanoramā
शिल्पिनि ष्वुन् - शिल्पिनि ष्वुन् । नृतिखनिरञ्जिभ्य एवेति । वार्तिकमिदम् । नर्तकीति । षित्त्वान्ङीषिति भावः ।दंशसञ्जस्वञ्जां शपी॑ति सूत्रेरजकरजनरजः सूपसङ्ख्यान॑मिति वार्तिकम् । तदर्थतः सङ्गृह्णाति — असि अके अने चेति । रजक इति । रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः । रजकीति । षित्त्वान्ङीष् ।नृतिखनिरञ्जिभ्य एवे॑ति परिगणनात्वेञ् तन्तुसन्ताने ॑ इत्यस्मात् कृतात्त्वात्श्याद्व्यधे॑ति णप्रत्यये आतो युकिवाय॑इति सिध्यति । भाष्यमते तु नृतिखनिभ्यामेवेति । इदं चदंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम् । ननु भाष्यमते क्वुनिरजकी॑ति कथमित्यत आह — पुंयोगे तु रजकीति ।
SK 2908 · A 3.1.146V
गस्थकन् ॥ २९०८ ॥
gasthakan
Siddhānta-kaumudī
गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥
Tattvabodhinī
NSP p. 500
—गस्थकन् । गामादाग्रहणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्यते न तु गाङ् गताविति । थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थ इत्याशयेनाह—गायतेरिति
Bālamanoramā
गस्थकन् - गस्थकन् ।गः - थक्न्निति च्छेदः । गैधातोः कृतात्वस्य 'ग' इति पञ्चम्यन्तम् । तदाह — गायतेरिति ।
SK 2909 · A 3.1.147V
ण्युट् च ॥ २९०९ ॥
ṇyuṭ ca
Siddhānta-kaumudī
गायनः । टित्त्वाद्गायनी ॥
Tattvabodhinī
NSP p. 500
—ण्युद् च । योगविभाग उत्तरत्र अस्यैवानुवृत्त्यर्थः ॥—गायन इति । आतो युक्
Bālamanoramā
ण्युट् च - ण्युट् च । चकार उक्तसमुच्चये । गायतेर्ण्युट्, थकन् च शिल्पिनि कर्तरि । गायन इति । आत्वे युक् । 'आदेचः' इत्यात्वस्य अनैमित्तिकत्वेन वृद्ध्यपेक्षया अन्तरङ्गत्वात् । यद्यपिगस्थकन्- ण्युट् चे॑त्येकमेव सूत्रमुचितम्, तथापि ण्युट एवोत्तरसूत्रे अनुवृत्त्यर्थो योगविभागः ।
SK 2910 · A 3.1.148V
हश्च व्रीहिकालयोः ॥ २९१० ॥
haśca vrīhikālayoḥ
Siddhānta-kaumudī
हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥
Tattvabodhinī
alignment inferredNSP p. 500–501
—जहात्युदकमिति । उदकादधिकं वर्धनात् ॥—भावानिति । भावाः पदार्थाः तान् जिहीते इति ओहाङ् गतौ ‘भृवामित्’ इत्यभ्यासस्येत्यम् ॥—पुस्त्वः—। पञ्चमीस्थाने व्यत्ययेन जस् । ‘ओः सुपि’ इति यण् ॥—लक्ष्यत इति । भूयः सहचाराद् यो हि यां कियां एवः एवम् प्रत्ययेन जस् । ‘ओः सुपि’ कृति’ इति षष्ट्यन्तस्य कुम्भशब्दस्य कारशब्देन समासः
Bālamanoramā
हश्च व्रीहिकालयोः - हश्च । 'ओ हाक् त्यागे' इत्यस्य 'ओ हाङ् गतौ' इत्यस्य च 'ह' इति पञ्चम्यन्तम् । तदाह — हाको हाङश्चेति ।
SK 2911 · A 3.1.149V
प्रुसृल्वः समभिहारे वुन् ॥ २९११ ॥
prusṛlvaḥ samabhihāre vun
Siddhānta-kaumudī
समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥
Bālamanoramā
प्रुसृल्वः समभिहारे वुन् - प्रुसृल्वः । लक्ष्यते इति । एतच्च भाष्ये स्पषमट् । प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी ।
SK 2912 · A 3.1.150V
आशिषि च ॥ २९१२ ॥
āśiṣi ca
Siddhānta-kaumudī
आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात् - नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥
Bālamanoramā
आशिषि च - आशिषि च । जीवक इत । आशास्यमानजीवनक्रियाश्रय इत्यर्थः । एवं नन्दकः । आशीरिति । आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं = नन्दकशब्दप्रयोगः । औचित्यादिति भावः । [इति तृतीयाध्यायस्य प्रथमः पादः] । अथ तृतीयाध्यायस्य द्वितीयः पादः ।
SK 2913 · A 3.2.1V
कर्मण्यण् ॥ २९१३ ॥
karmaṇyaṇ
Siddhānta-kaumudī
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ।
vārttika
शीलिकामिभक्ष्याचरिभ्यो णः
(वार्तिकम्) ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥
vārttika
ईक्षिक्षमिभ्यां च
(वार्तिकम्) ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥
Tattvabodhinī
alignment inferredNSP p. 501
—शेषत्वविवक्षायामिति। पदसंस्कारपक्षे तु धरतीति धरः गङ्गाया धर इति कर्मणि या षष्टी तदन्तेन समास इति सुवचम् । स्यादेतत् । धातोर्विधीयमानस्याणादेः पदविधिलाभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमिलादावसमर्थादपि धातोरणादयः स्युरिति चेत् । अत्राहुः । कुम्भाद्युपपदे विधीयमानस्याणादेरपि पदाश्रितविधिलात्समर्थपरिभाषोपस्थानान्नोक्तदोषः । उपोच्चारितं पदं ह्युपपदं पदं च सुप्तिङन्तमिति प्रागेवोक्तलादिति
Bālamanoramā
कर्मण्यण् - कर्मण्यण् । कर्मण्युपपदे इति ।तत्रोपपदं सप्तमीस्थ॑मित्यत्रतत्रे॑त्यनेनदं लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ।उपपदमति॑ङित्यनेनेति भावः । कुम्भं करोतीति । अस्वपदो लौकिकविग्रहोऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह — आदित्यं पश्यतीत्यादावनभिधानान्नेति । एतच्च भाष्ये स्पष्टम् । शालीति । शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु 'कर्मण्य' णित्यणैव सिद्धे किमर्थमिदत्यत आह — अणोऽपवादार्थमिति । अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः । तदाह — मांसशीलेति । 'शील समाधौ' इति भ्वादिः । इह तु स्वभावतः सेवने वर्तते । मांसं स्वभावतः सेवमानेत्यर्थः । मांसकामेति । मांसकामेति । मांसं कामयते इति विग्रहः । मांसभक्षेति । मांसं भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टाप् । ईक्षिक्षमिभ्यामिति । वार्तिकमिदम् । 'ण' इति शेषः । कथमिति । कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः ।कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावान्नाऽणिति भावः ।
SK 2914 · A 3.2.2V
ह्वावामश्च ॥ २९१४ ॥
hvāvāmaśca
Siddhānta-kaumudī
अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥
Tattvabodhinī
NSP p. 501
—ह्वावामश्च ॥—कापवाद इति । ‘आतोऽनुपसर्गं—’इति प्राप्तिर्वोध्या ॥—स्वर्गह्वाय इत्यादि। ह्वेन्वेन्वोः ‘आदेच—इत्यात्वे ‘आतो युक्—’ इति युक् । माङ् माने । भेड् प्रणिदाने अनंयोरिह ग्रहणं न तु मा माने इत्यस्य अकर्मकलात् । कविधानस्य फलमाह—आतो लोप इति ॥—पार्विणत्रमिति । पार्विण त्रायत इति त्रैङ् पालने ॥—गोसंदाय इति । अण् युक्
Bālamanoramā
ह्वावामश्च - ह्वावामश्च ।ह्वेञ् स्पर्धायाम् 'वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देशः, 'माङ् माने' एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति । कर्मण्युपपदे एभ्योऽण् स्यादित्यर्थः । ननुकर्मण्य॑णित्येव सिद्धे किमर्थमिदमित्यत आह — कापवाद इति । 'आतोऽनुपसर्गे कः' इत्यस्याऽणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेङोरिह ग्रहणं, नतु 'मा माने' इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवेच्छायां स्पद्र्धायां परिभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्ग्रहादकर्मक इत्युक्तम्, तथापि इहाऽभिभवेच्छा धात्वर्थः । स्वर्गमभिभवितुं वाञ्छतीत्यर्थः । अन्तरङ्गत्वादात्वे कृते आतो युक् । एवमग्रेऽपि ।
SK 2915 · A 3.2.3V
आतोऽनुपसर्गे कः ॥ २९१५ ॥
āto'nupasarge kaḥ
Siddhānta-kaumudī
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ।
vārttika
कविधौ सर्वत्र संप्रसारणिभ्यो डः
(वार्तिकम्) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे SK 2898 । आह्वः । प्रह्वः ॥
Tattvabodhinī
alignment inferredNSP p. 501
—प्रसारणिभ्य इति । प्रसारणमिति संप्रसारणपर्यायः ॥—जिनातीति । ज्या वयोहानौ ॥ क्रयादिभ्य इति श्राप्रत्यये ‘ग्रहिज्या—’ इति संप्रसारणे पूर्वरूपे ‘हलः’ इति दीर्घे च कृते ‘प्वादीनाम्—’ इति हस्वः ॥—ब्रह्मज्य इति । डित्त्वसामर्थ्यादभस्यापि टेलीपः । पूर्वेण के हि सति कित्वात्संप्रसारणादौ च ब्रह्मजिय इति स्यात् ॥—आह्वः प्रह्व इति । के हि सति ‘वचिखपि—’ इत्यादिना ह्वेनः संप्रसारणे सति आहुवः प्रहुव इति स्यादिति वोध्यम्
Bālamanoramā
आतोऽनुपसर्गे कः - आतोऽनुपसर्गे कः । पाष्णत्रमिति । पाष्णः — पादमूलभागः । तं त्रायते विग्रहः । 'त्रैङ् पालने' आत्वे कृते कः । गोसंदाय इति । अणि - आतो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्राहृज्य इति । 'ज्या वयोहानौ' अस्माड्डः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अत्र कप्रत्यये सति कित्त्वात् 'ग्रहिज्ये' ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव, नतु 'आतश्चोपसर्गे' इति कः,॒सर्वत्र॑ ग्रहणादित्यन्वयः । अन्यथाअनन्तरस्य विधि॑रिति न्यायात्आतोऽनुपसर्गे॑इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न । सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्रसुपी॑त्यंशं व्याचष्टे — सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, 'आतश्चोपसर्गे' इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, 'आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति — द्वाभ्यामिति । तत इति ।सुपी॑त्यंशस्य व्याख्यानान्तरं 'स्थ' इत्यंशो व्याख्यायत इत्यर्थः । ननुसुपी॑त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह — आरम्भसामर्थ्यादिति । कर्तरि 'सुपि' इति पूर्वेण स्दधेकर्तरि कृ॑दिति नानुवर्तते । अनिर्दिष्टार्थत्वात्गुप्तिज्किद्भ्यः स॑ नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् । न च एवं सतिघञर्थे कविधान॑मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह - आखूनामुत्थानमाखूत्थ इति ।
SK 2916 · A 3.2.4V
सुपि स्थः ॥ २९१६ ॥
supi sthaḥ
Siddhānta-kaumudī
सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थः । ततः - स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥
Tattvabodhinī
NSP p. 501
—सुपि स्थः । सुविति प्रत्याहारो गृह्यते न तु सप्तमीवहुवचनम् । कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् ॥—आरम्भसामर्थ्यादिति । कर्तरि पूर्वेणैव सिद्धलादिह ‘कर्तरि कृत्’ इति न संवध्यते, अनिर्दिष्टार्थश्च स्वार्थे धातोः स्वार्थे भाव एव । नन्वेवं ‘घञर्थे कविधानम्’ इत्यनेन गतार्थतेति चेत् । न । वांतिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेः । किंच ‘षष्ठी’ इति सूत्रेण पाक्षिकसमासे प्रसक्ते ‘उपपदमतिङ्’ इति नित्यसमासार्थमिदम् । अत एव ल्युडन्तेनाखपदविप्रहमाह—आखूनामुत्थानमिति । नन्वेवं घञर्थे कविधाने ‘स्थान्नापाव्यधिहनियुग्यर्थम्’ इति वार्तिके स्थाप्रहणं व्यर्थमिति चेत् । अत्राहुः । अकर्तरि कारके विधानार्थं तत्र स्थाप्रहणमिति ॥—आखूत्थ इति । स्था इत्यस्य के परे ‘आतो लोपः’ इत्यालोपः, ‘उदः स्थास्तम्भो—’इति उदः परस्य सस्य थः, उदो दस्य चत्वर्यम् । अत्र प्राचा आखूत्थं वर्तते इति नपुंसके पठितं तदुपेक्ष्यमिति मनोरमायामुक्तम् । भाष्यादौ सर्वत्र पुंलिङ्गस्यैवोदाहृतत्वात् । ‘ल्युः कर्तरीमनिज् भावे कोघोः किः प्रादितोऽन्यतः’ इत्यमरकोशे भावे कस्य पुंस्त्वविधानात् ‘भावे नणकचिन्त्योन्यः’ इति नपुंसकविधाने कस्य पर्युदासाचेति नणकचिन्त्य इत्यत्र चकार इत्यस्य स चेत् नश्च णश्च कश्च चिच्च नणकचितस्तेभ्योऽन्य इति विप्रहः ॥ अम्बाम्ब—
SK 2917 · A 8.3.92V
प्रष्ठोऽग्रगामिनि ॥ २९१७ ॥
praṣṭho'gragāmini
Siddhānta-kaumudī
प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥
Bālamanoramā
प्रष्ठोऽग्रगामिनि - प्रष्ठोऽग्रगामिनि । प्रपूर्वात्स्थाधातोः 'आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः । स च अग्रगामिनि वाच्ये कृतषत्वो निपात्यते । इण्कवर्गाभ्यां परत्वाऽभावात्षत्वस्य न प्राप्तिः । प्रतिष्ठत इति । अग्रे गच्छतीत्यर्थः, उपसर्गवशात् । प्रष्ठो गौरिति । अग्रगामीत्यर्थः । एवं प्रष्ठोऽआ इत्यादि ।
SK 2918 · A 8.3.97V
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ॥ २९१८ ॥
ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ
Siddhānta-kaumudī
स्थ इति कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥
Tattvabodhinī
alignment inferredNSP p. 501
—कप्रत्ययान्तस्येति । तेन भूमिस्थितं गोस्थानमित्यादौ नेति भावः । प्राचा तु स्थस्य सस्येति व्याख्यातन्ये स्थः सस्येति व्याख्यातं तदाकरविरोधेन कप्रत्ययान्तस्येत्यध्याहृत्य व्याख्येयम् ॥—द्विष्टः । त्रिष्ट इति । द्वयोस्तिष्टतीत्यादि विप्रहः । एवमम्बष्टः आम्बष्टः गोष्ठः भूमिष्ठः सब्यष्ठः अपष्ठ कुशेष्ठः कुष्ठः शङ्कुष्ठः अङ्गुष्ठः मञ्जिष्ठः पुञ्जिष्ठः परमेष्ठः वर्हिष्ठः दिविष्ठः अभिष्ठः ॥—आभ्यामिति । परिमृजापत्तुदोरित्यत्र पञ्चम्यर्थे षष्ठीति भावः
Bālamanoramā
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जि- पुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः - अम्बाम्ब । अम्ब, आम्ब, गो, भूमि, सव्ये, अप, द्वि, त्रि, कुशे, कु , शङ्कु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि — एषामष्टादशानां द्वन्द्वः । अम्बष्ठः, आम्बष्ठः, गोष्ठः,भूमिष्ठः । सव्येष्ठः । निपातनादलुक् । 'हलन्तात्सप्तम्याः' इति वा । अपष्ठः । एषु कतिपयेषुसात्पदाद्यो॑रिति निषेधः प्राप्तः । एवमग्रेऽपि । द्विष्ठ इति । द्वाभ्यां तिष्ठतीति विग्रहः । एवं त्रिष्ठः, कुशेष्ठः, कुष्ठः, शङ्कुष्ठ अङ्गुष्ठः मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक्,हलदन्ता॑दिति वा । वर्षिष्ठः । दिविष्ठः । पूर्ववदलुक् । अग्निष्ठः । कप्रत्ययान्तस्येति । भूमिस्थितम् । इत ऊध्र्वमिति ।तुन्दशोकयो॑रित्यारभ्येत्यर्थः । सुपीत्यस्येति । नतु कर्मणीत्यस्य , असंभवादिति भावः ।
SK 2919 · A 3.2.5V
तुन्दशोकयोः परिमृजापनुदोः ॥ २९१९ ॥
tundaśokayoḥ parimṛjāpanudoḥ
Siddhānta-kaumudī
तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ।
vārttika
आलस्यसुखाहरणयोरिति वक्तव्यम्
(वार्तिकम्) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः ।
vārttika
कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्
(वार्तिकम्) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥
Tattvabodhinī
alignment inferredNSP p. 501–502
—तुन्दपरिमृज इति । अत्र मृजेरजादाविति वैकल्पिकी वृद्धिर्व्यवस्थितविभाषया नेत्येके । स्यादेवेत्यन्ये ॥—मूलविभुजादिभ्य इति । तादध्ये एषा चण्डर्थः - मूलविमुक्तादिसिन्धुर्ध्वमित्यर्थः । - मे द्वाह्वः । - गामादामृदणेत्रविशेषादाह - दमरूपादिति । पथिप्रश्न इति । पन्थानं प्रकर्षेण जानातीत्यर्थः ॥—प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सति ‘आतोऽनुपसर्गः’ इत्यनेनापि न भवतीति भावः ॥—गोसंख्य इति । गाः संचष्टे इति विग्रहः । चक्षिङः ख्यान् । ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रयोगो नास्तीति न्यासकारः । सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम्
Bālamanoramā
तुन्दशोकयोः परिमृजापनुदोः - तुन्दशोकयोः । तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह — उपपदयोराभ्यामिति । तुन्दपरिमृज इति । तुन्दम् = उदरम् । अत्र 'मृजेरजादौ' इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः । मूलानि विभुजतीति । विमर्दयतीत्यर्थः । 'भुजो कौटिल्ये' तुदादिः । इहोपसर्गबलादन्मर्दने वृत्तिः । महीध्र इति । महीं धरतीति विग्रहः । कित्त्वान्न गुणः । ऋकारस्य यण् रेफः । अणि तु 'महीधार' इति स्यात् । कुध्र इति । कुः = पृथ्वी, तां धरतीति विग्रहः । गिल इति । 'गृ निगरणे' अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम् ।अचि विभाषे॑ति लत्वम् ।
Footnotes (NSP 1915 ed.)
NSP p. 502 परतः — शनि उपदे वातुमात्रत्संज्ञायामच् स्यात् ॥—पुनर्धातुग्रहणमिति । असति धातुग्रहणे शनि संज्ञायामित्यस्यावकाशः । शंभवः । शंबदः । ‘कृष्णो हेतुताच्छीत्ये’ इत्यस्यावकाशः । श्राद्धकरः शंकर इत्यत्रोभयप्रसङ्गे परलाट्ट एव स्यात् । धातुग्रहणे कृते तु तत्सामर्थ्यादजेव भवति तदाह—शंकरा नामेत्यादि ॥—अनधिकरणार्थमुपसंख्यानमिति दर्शयति—पार्श्वाभ्यामित्यादिना ॥—कुरुचर इति । कुरुषु देशेषु चरत्यटतीत्यर्थः ॥—मिक्षासेना—अनधिकरणार्थ आरम्भः ॥—मिक्षां चरतीति । चरतिरत्र चरणपूर्वके अर्जने वर्तते । चरणेन मिक्षामर्जयतीत्यर्थः ॥ —सेनाचर इति । सेनां चरति प्रविशतीत्यर्थः ॥—पचादिविति । टविधानं तु ‘उपपदमतिङ्’ इति नित्यसमासार्थम् । सहचरः । सहचरीत्यत्र तु सुप्सुपेनि हैकनिकः समासानाम् । —कृष्णो—हेतुरिह लौकिको न तु ‘तत्प्रयोजको हेतुश्च’
SK 2920 · A 3.2.6V
प्रे दाज्ञः ॥ २९२० ॥
pre dājñaḥ
Siddhānta-kaumudī
दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥
Bālamanoramā
प्रे दाज्ञः - प्रे दाज्ञः । 'प्रे' इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः ।
SK 2921 · A 3.2.7V
समि ख्यः ॥ २९२१ ॥
sami khyaḥ
Siddhānta-kaumudī
गोसंख्यः ॥
Bālamanoramā
समि ख्यः - समि ख्यः ।समी॑ति पञ्चम्यर्थे सप्तमी । गोसङ्ख्य इति । गाः संचष्ट इति विग्रहः । संपूर्वाच्चक्षिङः ख्याञि रूपम् । 'ख्या प्रकथने' इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते ।
SK 2922 · A 3.2.8V
गापोष्टक् ॥ २९२२ ॥
gāpoṣṭak
Siddhānta-kaumudī
अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसंगायः ॥
vārttika
पिबतेः सुराशीध्वोरिति वाच्यम्
(वार्तिकम्) ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥
Tattvabodhinī
NSP p. 502
—गापोष्टक् । इह गामादाग्रहणेष्वविशेषेऽपि गायतेरेव ग्रहणं न तु गाङ् गतौ गा स्तुतौ इत्यनयोः, अनभिधानात् ॥—सामगः । सामगीति । एतेन टकः कित्वमालोपार्थं टित्त्वं तु ङीवर्थमिति ध्वनितम् । प्रत्ययाधिकाराद्दकः प्रत्ययत्वेन ‘प्रत्ययः’ ‘परश्व’ इति धातोः पर एव स्यादिति ‘आद्यन्तौ टकितौ’ इत्यस्यात्र आशङ्कैव नास्तीति बोध्यम् ॥—सामसंगाय इति । कर्मण्यणि सति ‘आतो युक्’ इति युक्—॥पिबतेरिति । ‘छुरिवकरणाछुरिवकरणयोः’ इति परिभाषालब्धार्थकथनमुपपदपरिगणनं तु वाचनिकमेव ॥—क्षीरपेति । क्षीरं पिबतीत्यातोऽनुपसर्गं कः ॥—शक्तीति । घटप्रहणेनैव सिद्धे घटीग्रहणं लिङ्गविशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थं, तेन मद्रराज्ञीत्यत्र टच्, द्विषतीताप इत्यत्र ‘द्विषत्परयोः’—इति खच् नेति दिक् ॥—कवचहर इति । कवचोद्यमनं क्रियमाणं संभाव्यमानं वा वयो गमयति । तेनासत्यपि कवचग्रहणे कवचहर इति भवत्येव
Bālamanoramā
गापोष्टक् - गापोष्टक् । 'गै शब्दे' 'पा पाने' इत्यनयोः टक् स्यात्कर्मण्युपपदे । आतो युकि रूपम् । पिबतेरिति । वार्तिकमिदम् । पाधातोः सुराशीध्वोरुपपदयोः टक् स्यादित्यर्थः । क्षीरपेति । क्षीरं पिबतीत्यर्थे सुराशीध्वोर्नयतरत्वाऽभावात् 'आतोऽनुपसर्गे कः' इति कप्रत्यये टाप् । पाति रक्षतीति । अजित्यर्थः । उद्यमनम् - उद्ग्रहणम् । अंशहर इति । अंशस्य स्वीकर्तेत्यर्थ- । भारहार इति । भारमुद्गृह्णातीत्यर्थः । ग्रहेरुपसङ्ख्यानमिति ।अच्प्रत्ययस्ये॑ति शेषः । 'ग्रह उपादाने' अदुपधऋ ।गृहे॑रिति पाठे तु कृतसंप्रसारणस्य इका निर्देशो बोध्यः । शक्तिग्रह इति । अकित्त्वान्न संप्रसारणम् । लाङ्गलग्रह इति । एवम् — 'अङ्कुशग्रह' इत्याद्यप्युदाहार्यम् । सूत्रे चेति । वार्तिकमिदम् । सूत्रे कर्मण्युपपदे धारणार्थकाद्ग्रहधातोजित्यर्थः ।
SK 2923 · A 3.2.9V
हरतेरनुद्यमनेऽच् ॥ २९२३ ॥
harateranudyamane'c
Siddhānta-kaumudī
अंशहरः । अनुद्यमने किम् । भारहारः ।
vārttika
शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम्
(वार्तिकम्) ॥ शक्तिग्रहः । लाङ्गलग्रहः । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव । सूत्रग्राहः ॥
SK 2924 · A 3.2.10V
वयसि च ॥ २९२४ ॥
vayasi ca
Siddhānta-kaumudī
उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥
Bālamanoramā
वयसि च - वयसि च । कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः । ननुहरतेरनुद्यमनेऽ॑जित्येव सिद्धे किमर्थमिदमित्यत आह — उद्यमनार्थमिति ।
SK 2925 · A 3.2.11V
आङि ताच्छील्ये ॥ २९२५ ॥
āṅi tācchīlye
Siddhānta-kaumudī
पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥
Bālamanoramā
आङि ताच्छील्ये - आङि ताच्छील्ये । आङ्पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये । ताच्छील्यं - तत्स्वभावता । पुष्पाहर इति । पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः ।
SK 2926 · A 3.2.12V
अर्हः ॥ २९२६ ॥
arhaḥ
Siddhānta-kaumudī
अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥
Bālamanoramā
अर्हः - अर्हः । अणोऽपवाद इति । यद्यपि अणि अचि च पूजार्हरूपे न विशेषः, अदुपधत्वाऽभावेन वृद्धेरप्रसक्तेः, तथापि स्त्रियामण्णन्तत्वे ङीप्स्यात्, तन्निवृत्तये अज्विधिः । तदाह — पूजार्हेति ।
SK 2927 · A 3.2.13V
स्तम्बकर्णयो रमिजपोः ॥ २९२७ ॥
stambakarṇayo ramijapoḥ
Siddhānta-kaumudī
।
vārttika
हस्तिसूचकयोरिति वक्तव्यम्
(वार्तिकम्) ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति - SK 972 इति, 'हलदन्तात्' SK 966 इति वा ङेरलुक् । कर्णेजपः सूचकः ॥
Tattvabodhinī
alignment inferredNSP p. 502
—हस्तिसूचकयोरिति । अन्यत्र तु स्तम्बे रन्ता कर्णे जपिता
Bālamanoramā
स्तम्बकर्णयो रमिजपोः - स्तम्बकर्णयोः । रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते । जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम् । दर्भादितृणनिचयः - स्तम्बः । सूचकः - पिशुनिः । हस्तिसूचकयोः किम् । स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा ।
SK 2928 · A 3.2.14V
शमि धातोः संज्ञायाम् ॥ २९२८ ॥
śami dhātoḥ saṃjñāyām
Siddhānta-kaumudī
शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥
Tattvabodhinī
NSP p. 502–503
—शमिधातोः—। शमि उपपदे धातुमात्रात्संज्ञायामच स्यात् ॥— इति कृत्रिमः, केवले कृत्रि तदसंभवात् ॥—द्योत्येष्विति । न तु वाच्ये ‘कर्तरि कृत्’ इत्यस्य वाधापत्तेरिति भावः । हेलादिषु कमेणोदाहरति—यशस्करीत्यादि । एषु किम् । कुम्भकारः । इह प्रसिद्धतरलाद् ब्रह्मवन्धोऽपि करोतिरेव गृह्यते न तु कृत्र् हिंसायामिति । हेतुः कारणम् । आनुलोम्यमाराध्यचित्तानुवर्तनम्
Bālamanoramā
शमि धातोः संज्ञायाम् - शिमि दातोः ।शमी॑ति सप्तम्यन्तम् । 'श' मिति सुखार्थकमव्ययम् । तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम् । ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह — पुनर्धातुग्रहणमिति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः ।
SK 2929 · A 3.2.15V
अधिकरणे शेतेः ॥ २९२९ ॥
adhikaraṇe śeteḥ
Siddhānta-kaumudī
खे शेते खशयः ।
vārttika
पार्श्वादिषूपसंख्यानम्
(वार्तिकम्) ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरेण शेते उदरशयः । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ।
vārttika
गिरौ डश्छन्दसि
(वार्तिकम्) ॥ गिरौ शेते गिरिशः । लोके गिरिशयः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥
Bālamanoramā
अधिकरणे शेतेः - हरतेर्दृतिनाथयोः । दृतिः चर्मभस्त्रिका । दृतिहरिः आआ इति वृत्तिः । 'नाथ' शब्दस्य विवरणम् — नासारज्जुमिति । नासिकाप्रोतरज्जुमित्यर्थः । नाथहरिरिति । नासिकाप्रोतरज्जुके पशुविशेषे रूढोऽयम् ।
SK 2930 · A 3.2.16V
चरेष्टः ॥ २९३० ॥
careṣṭaḥ
Siddhānta-kaumudī
अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥
Bālamanoramā
चरेष्टः - चरेष्टः । ट इति च्छेदः । 'अधिकरणे उपपदे' इति शेषः । 'अधिकरणे शेते' रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।
SK 2931 · A 3.2.17V
भिक्षासेनादायेषु च ॥ २९३१ ॥
bhikṣāsenādāyeṣu ca
Siddhānta-kaumudī
भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥
Bālamanoramā
भिक्षासेनाऽऽदायेषु च - भिक्षासेना । भिक्षा, सेना, आदाय- एषु चोपदेषु चरेष्टः स्यादित्यर्थः । भिक्षां चरतीति । चरतिरत्र चरणपूर्वके आर्जने वर्तते । चरणेन भिक्षा मार्जयतीत्यर्थ- । सेनाचर इति । सेनां प्रापयतीत्यर्थः । ल्यबन्तमिति । अत्र व्याख्यानमेव शरणम् । आदाय चरतीति । लब्धं द्रव्यं गृहीत्वा चरतीत्यर्थः । कथमिति । अधिकरणे भिक्षासेनाऽऽदायेषु उपपदेषु च विहितस्य टप्रत्ययस्य सहपूर्वाच्चरेसंभवादिति भावः । समाधत्ते — पचादिष्विति । यद्यपि 'भिक्षाचर' इत्यादौ पचाद्यचि रूपसिद्धिः, तथापि नित्योपपदसमासार्थमज्विधानमित्याहुः ।
SK 2932 · A 3.2.18V
पुरोऽग्रतोऽग्रेषु सर्तेः ॥ २९३२ ॥
puro'grato'greṣu sarteḥ
Siddhānta-kaumudī
पुरस्सरः । अग्रतसरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥
Bālamanoramā
पुरोऽग्रतोऽग्रेषु सर्तेः - पुरोऽग्रतः । पुरस्, अग्रतस्, अग्रे — एषूपपदेषु सर्तेः टः स्यादित्यर्थः । अग्रेसर इति । ननु समासाऽवयवत्वात्सुपो लुकि अग्रसर इति स्यादित्यत आह — सूत्र इति । कथमिति । एदन्तत्वनिपातनात्कथमग्रसरशब्द इत्यर्थः । समाधत्ते — बाहुलकादिति । पूर्वे कर्तरि । कर्तृशब्दः कर्तृवाचिनि गौणः । तदाह — कर्तृवाचिनीति ।
SK 2933 · A 3.2.19V
पूर्वे कर्तरि ॥ २९३३ ॥
pūrve kartari
Siddhānta-kaumudī
कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥
SK 2934 · A 3.2.20V
कृञो हेतुताच्छील्यानुलोम्येषु ॥ २९३४ ॥
kṛño hetutācchīlyānulomyeṣu
Siddhānta-kaumudī
एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि SK 160 इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥
Bālamanoramā
कृञो हेतुताच्छील्यानुलोम्येषु - नाडीमुष्टओश्च । यथासङ्ख्यं नेष्यते इति । इदं तु भाष्ये स्पष्टम् । घटीखारीत्यादि स्पष्टम् ।
SK 2935 · A 3.2.21V
दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वयत्तद्धनुररुष्षु ॥ २९३५ ॥
divāvibhāniśāprabhābhāskārāntānantādibahunāndīkimlipilibibalibhaktikartṛcitrakṣetrasaṃkhyājaṅghābāhvayattaddhanuraruṣṣu
Siddhānta-kaumudī
एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य SK 159 इति षत्वम् । धनुष्करः । अरुष्करः ।
vārttika
किंयत्तद्बहुषु कृञोऽज्विधानम्
(वार्तिकम्) ॥ इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीष् । किंकरी ॥
Tattvabodhinī
NSP p. 503
—दिवाविभा—। ननु अन्तशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे लन्तशब्दात्पृथगनन्तग्रहणं व्यर्थमिति चेत् । अत्राहुः । सरे तु विशेषोऽस्ति । नञ्समासे हि अव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तः स्यात्, अनन्तशब्दस्योपपदत्वे तु ‘गतिकारकोपपदात्कृत्’ इति क्रुदुत्तरपदप्रकृतिस्वरेणान्तोदात्तलमिति ॥—दिवाकर इति । दिवा दिवसं करोतीति विग्रहः । दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परलात् । मूलेऽनुक्तान्यपि कानिचिदुदाहरणानि । ऊह्यानि कर एव कारः । प्रज्ञादिलादण् कारं करोतीति कारकरः आदिकरः नान्दीकरः किंकरः वलिकरः भक्तिकरः कर्तृकरः चित्रकरः क्षेत्रकरः जङ्घाकरः वाहुकरः इति ॥—वार्तिकमिति । कैयटहरदत्तादिरीत्योक्तम् । माधवस्तु इष्टिरियमित्याह ॥—पुंयोगे ङीषिति । यत्तु न्यासकृतोक्तं हेलादिषु पूर्वसूत्रेण ट एव भवति तेन किंकरणशीला किंकरीत्युपपन्नं भवतीति तन्नादर्तव्यम् । परलादचा टचो वाधित-लात्पूर्वविप्रतिषेधस्य निर्मूललाचेति भावः । वृत्तौ तु पक्षान्तरमप्युक्तम्, अथवा पचादिषु पाठः करिष्यत इति ‘दिवाविभा—इत्यस्मिन् सूत्रे किमादिग्रहणमपनीय पचादिष्वेव ‘किंयत्तद्वहुषु कृत्रः’ इति पठितव्यं वार्तिकमपीत्थमेव नेयमिति तस्यायमाशयः । अस्मिन्पक्षे कर्मण्यणं वाधित्वा चरितार्थमिदं वचनं हेलादिविवक्षायां परलाद्वेन वाध्यते तेन पुंयोगं विनापि किंकरी स्यादे-व, पुंयोगविवक्षायां तु निर्विवादो ङीष्, किंयत्तद्वहुष्वज्वेति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धलात्कर्मण्यणोऽपि पक्षे प्रसङ्गा-च्चायुक्तैव । न चाजभावे ‘दिवाविभा—’ इति टः स्यादिति वाच्यम् । सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुक्तलात् । अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रगृह्य इति स्वीक्रियते । तथा च हेलाद्यविवक्षायां किं-यत्तदिति वार्तिकेनाच्, तद्विवक्षायां तु परलाद्व इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया
Bālamanoramā
दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु - दिवाविभा । दिवा, विभाष निशा, प्रभा, भास्, कार, अन्त,अनन्त, आदि, बहु, नानदी, किम् लिपि लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र , सङ्ख्या, जङ्घा, बाहु, अहर्, यद् , तद्, धनुस्रुस् — एषां सप्तमविंशतेद्र्वन्द्वात्सप्तमी । एष्विति ।उपपदेष्वि॑ति शेषः । अहेत्यादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः । एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति । अत्र कर्मणीति सुपति चानुवृत्तं यथायोगमन्वेति । दिवाकर इति । दिवेत्याकारान्तमव्ययमह्नीत्यर्थे । तस्याऽधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् । दिवा = अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभाकर इति । विभां करोतीति विग्रहः । निशाकर इति । निशां करोतीति विग्रहः । एवं प्रभाकरः । भाः करोतीति विग्रहेअतः कृकमी॑त्यत्राऽत इति तपरकरणात्सत्वस्याऽप्राप्तेःकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः, आदिकर इति सिद्धवत्कृत्य आह — बहुकर इति । ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह — बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमितबहुगमवतुडति सङ्ख्ये॑त्यत्रोक्तम् । नान्दीकरः किह्कर इति सिद्धवत्कृत्य आह — लिपिलिशब्दाविति । तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह — सङ्ख्येति । 'उदाह्यियते' इति शेषः । जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्देकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । नञि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वात्अतः कृकमी॑त्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह — नित्यं समास इति । प्रत्ययवयवत्वात्इदुदुपधस्य चे॑त्यस्य न प्राप्तिरिति भावः । कृञोऽज्विधानमिति । टस्याऽपवादः । किङ्करेति । टप्रत्यये तु टित्त्वान्ङीपस्यादिति भावः । हेत्वादिषु पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह — पुंयोगे ङीषिति । कर्मणि भृतौ । कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणाऽर्थम् । कर्मकरो भृतक इति । वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इत्युच्यते ।
SK 2936 · A 3.2.22V
कर्मणि भृतौ ॥ २९३६ ॥
karmaṇi bhṛtau
Siddhānta-kaumudī
कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥
Tattvabodhinī
NSP p. 503
—कर्मणि भृतौ । भृतिर्वेतनम् । कर्मानुवृत्तौ पुनः कर्मग्रहणात्स्वरूपपरते-त्याह—कर्मशब्द इति ॥—स्तम्बकरिरित्यादि । इनो नित्त्वात् क्रुदुत्तरपदप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम् ॥—कुक्षिम्भरिरिति । एवं च ‘गिरिस्तु कनकाचलः कति न सन्ति चाश्मब्रजाः किटिस्तु धरणीधरः कति न सन्ति भूदार-काः । मरत्तु मलयानिलः कति न सन्ति झञ्झानिलाः प्रभुस्तु विदुधाश्रयः कति न सन्ति कुक्षिम्भराः ॥’ इति केषांचित्प्र-योगः प्रामादिक एवं
SK 2937 · A 3.2.23V
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ २९३७ ॥
na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu
Siddhānta-kaumudī
एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥
Bālamanoramā
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु - न शब्दश्लोक । शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद- एषां नवानां द्वन्द्वः । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः ।
SK 2938 · A 3.2.24V
स्तम्बशकृतोरिन् ॥ २९३८ ॥
stambaśakṛtorin
Siddhānta-kaumudī
।
vārttika
व्रीहिवत्सयोरिति वक्तव्यम्
(वार्तिकम्) ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥
Bālamanoramā
स्तम्बशकृतोरिन् - स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात् । नकार इत् । व्रीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतोर्यथासङ्ख्यमन्वयः । स्तम्बकरिव्र्रीहिरिति.स्तम्बं तृणनिचयं करोतीति विग्रहः ।
SK 2939 · A 3.2.25V
हरतेर्दृतिनाथयोः पशौ ॥ २९३९ ॥
haraterdṛtināthayoḥ paśau
Siddhānta-kaumudī
दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥
SK 2940 · A 3.2.26V
फलेग्रहिरात्मम्भरिश्च ॥ २९४० ॥
phalegrahirātmambhariśca
Siddhānta-kaumudī
फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥
Bālamanoramā
फलेग्रहिरात्मम्भरिश्च - फलेघिः । ग्रहेरिन्निति । नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह — चात्कुक्षम्भरिरिति । भाष्ये तुभृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य॑मिति स्थितम् ।स्यादवन्ध्यः फलेग्रहिः॑ इति वृक्षपर्याये अमरः ।उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॑ इति विशेष्यनिघ्नवर्गे । उदरम्भरिशब्दं समर्थयितुमाह — चान्द्रास्त्विति ।
SK 2941 · A 3.2.28V
एजेः खश् ॥ २९४१ ॥
ejeḥ khaś
Siddhānta-kaumudī
ण्यन्तादेजेः खश् स्यात् ॥
Tattvabodhinī
NSP p. 503
—एजेः खश्न् । एजृ कम्पने । एजेरिति ण्यन्तस्य निर्देशो न तु शुद्धस्येका निर्देशः, खशः शित्कर-णाल्लिङ्गात् । तद्धि सार्वधातुकत्वे सति शप् यथा स्यादिति । न च शुद्धस्य शब्दस्य शपि सत्यसति वा विशेषोऽस्ति । न चो-त्तरार्थं शित्त्वमिति वाच्यम् । इहार्थवत्त्वे संभवति केवलोत्तरार्थलस्यान्याय्यलात्तदेतदाह—ण्यन्तादेजेरिति
Bālamanoramā
एजेः खश् - #एजेः खश् । एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः । खकारशकारावितौ । कर्मण्युपपदे इत्यपि ज्ञेयम् ।
SK 2942 · A 6.3.67V
अरुर्द्विषदजन्तस्य मुम् ॥ २९४२ ॥
arurdviṣadajantasya mum
Siddhānta-kaumudī
अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः ।
vārttika
वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम्
(वार्तिकम्) ॥ वातमजा मृगाः ॥
Tattvabodhinī
alignment inferredNSP p. 503–504
—अरु-द्विषत्—। वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिधय इत्यादौ हस्वे कृते मुम्प्रवृत्त्यर्थम् । तथा हि अन्तःशब्दः समीपपरः अच्चासावन्तश्चेति विग्रहः । निपातनाद्विशेषणस्य परनिपातः । समीपः । ‘खिलनव्ययस्य’ इति सूत्रेण विहितो योऽच्च तदन्तस्य मुमिति व्याख्यायते । एवं च जनमेजय इत्यादौ स्वतो हस्तेऽपि मुमसिद्धये प्रथमं खितीति हस्वः प्रवर्तनीय इत्यवधेयम् ॥—शर्धजहा इति । शर्धनं शर्धः शुधु कुत्सायाम् । घञ् तं जहति इति ॥ ननु माषाः शर्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह—अन्तर्भावितपर्यर्थ इति । यथासंख्यं वारयितुमाह—अत्रेति—धेटष्टित्वादिति । अवयवे अचरितार्थत्वादिति भावः । खश्प्रत्ययान्तादेव धेटो कीविष्टो नान्यत इति वर्धमानक्षीरस्वामिहरदत्तादयः । तेन ‘पाघ्राध्माधेड्’ इति शप्रत्यये ‘आतोऽनुपसर्गे कः’ इति कप्रत्यये च टावेव । धया कन्या । गांधयतीति गोधा । अत्र च संप्रदाय एव शरणम् ॥—नासिकंधम इति । ‘प्राघ्राध्मा’ इति धमादेशः
Bālamanoramā
अरुर्द्विषदजन्तस्य मुम् - अरुर्द्विषत् । अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी । 'अलुगुत्तरपदे' इत्यधिकारादुत्तरपदे इति लभ्यते । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । कितः प्रत्ययत्वात्तदन्तविधिः । तदाह — खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं ।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी । अज, धेट्, तुद्, जहाति एषां द्वन्द्वात्पञ्चमी । यथासङ्ख्यमन्वयः । वातमजा इति । वातमजन्तीति विग्रहः । सुपो लुकि मुम् । अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह —
SK 2943 · A 6.3.66V
खित्यनव्ययस्य ॥ २९४३ ॥
khityanavyayasya
Siddhānta-kaumudī
खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥
Bālamanoramā
खित्यनव्ययस्य - खित्यनव्ययस्य । ह्रस्वः स्यादिति ।इको ह्रस्वोऽङ्यो गालवस्य॑ इत्यतस्तदनुवृत्तेरिति भावः । अत्र ह्रस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् । ततो मुमिति । पूर्वं ह्रस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति । भाष्ये तु 'मृगा' इति पाठः । शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः । अन्तर्भावितेति । तथा च शद्र्ध हापयन्तीति विग्रहः फलितः । भाष्ये तुवातशुनी॑इति वार्तिके गर्धे॑ष्विति पठितम् ।
SK 2944 · A 3.2.29V
नासिकास्तनयोर्ध्माधेटोः ॥ २९४४ ॥
nāsikāstanayordhmādheṭoḥ
Siddhānta-kaumudī
अत्र वार्तिकम् ।
vārttika
स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्
(वार्तिकम्) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥
Bālamanoramā
नासिकास्तनयोर्ध्माधेटोः - नासिका । नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी । ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।ख॑शिति शेषः । यथासङ्ख्यमन्वये प्राप्ते आह — अत्र वार्तिकमिति । धेटष्टित्त्वादिति । यद्यपिटिड्ढे॑त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः । अत्र यद्वक्तव्यं तत्प्राघ्राध्माधेट्दृशः शः॑ इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकाया ध्मश्चेति । चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति — नासिकन्धय इति ।
SK 2945 · A 3.2.30V
नाडीमुष्ट्योश्च ॥ २९४५ ॥
nāḍīmuṣṭyośca
Siddhānta-kaumudī
एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् ॥ यथासंख्यंनेष्यते ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ।
vārttika
घटीखारीखरीषूपसंख्यानम्
(वार्तिकम्) ॥ घटिन्धमः । घटिन्धय इत्यादि ॥ खारी परिमाणविशेषः । खरी गर्दभी ॥
Tattvabodhinī
NSP p. 504
—नाडीमुष्टयोश्च । यथासंख्यं नेति । एतच्चेदैव सूत्रे भाष्ये वृत्तौ च स्थितम् । यत्तु ‘यथासंख्यम्’ इति सूत्रे नाडीमुष्टयोरित्युदाहतं भाष्ये तत्प्राप्तिमात्राभिप्रायेणेत्येके । शब्दकौस्तुभे तु मतभेदेन तद्बोध्यमिति स्थितम् ॥—घटीखारीखरीष्विति । जयादित्यस्तु वातशब्दमप्युदाजहार । वातंधमः वातंधयः इति, यत्तु भाष्यादौ न दृश्यत इति मूले एवोपेक्षितम्
SK 2946 · A 3.2.31V
उदि कूले रुजिवहोः ॥ २९४६ ॥
udi kūle rujivahoḥ
Siddhānta-kaumudī
उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥
Tattvabodhinī
NSP p. 504
—उदिकूले—। ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्तलादुपपदत्वं स्यात्ततश्च रजिवहिम्यां सह यथासंख्यं स्यादिति चेत् । अत्राहुः । नाडीमुष्टयोरितिवल्लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तो बारणाश्रोपपदम् । एवं चोदीति पञ्चम्याः स्थाने सप्तमी रजिवहोरिति तु पञ्चम्याः स्थाने षष्ठीति । एतच्च यथासंख्यसूत्रे कैयटे स्पष्टम् । किं च रुजेः सकर्मकलात्कर्मणीत्युपतिष्ठते तेन कूलं विशेष्यते नोच्छब्दः, असलवाचित्वेनासंभवात् तदेतदाह—उत्पूर्वाभ्यामित्यादिना ॥—विधुन्तुद इति । ‘अरुद्विषदजन्तस्य’ इत्युकारात्परो मुम् । ‘तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः’ इत्यमरः ॥—अरुन्तुद इति । ‘अरुन्तुदस्तु मर्मस्पृक्’ इत्यमरः । ‘त्रणोऽल्लियामीमरुः’ इति च ॥—असूर्यपश्या इति । ‘पाघ्राध्मा’ इति पश्यादेशः । गुप्तिपरं चेदम् । एवं नाम राजदारा गुप्ताः यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति किं पुनः परपुरुषमिति । तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते । यदा तु सूर्याभावदर्शनमात्रं सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश्च न भवत्यनभिधानादिति न्यासकारादयः
Bālamanoramā
उदि कूले रुजिवहोः - उदि कूले । उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । 'रुजो भङ्गे' तुदादिः । अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात् । तदाह — उत्पूर्वाभ्यामित्यादि । कूलमुद्रुज इति । सुपो लुकि मुमिति भावः ।
SK 2947 · A 3.2.32V
वहाभ्रे लिहः ॥ २९४७ ॥
vahābhre lihaḥ
Siddhānta-kaumudī
वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुणः । अभ्रंलिहो वायुः ॥
Bālamanoramā
वहाभ्रे लिहः - वहाभ्रे लिहः । वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् — स्कन्ध इति । शपो लुगिति । खशः शित्त्वेन सार्वधातुकत्वात्कृतस्य शपो लुगित्यर्थः ।
SK 2948 · A 3.2.33V
परिमाणे पचः ॥ २९४८ ॥
parimāṇe pacaḥ
Siddhānta-kaumudī
प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥
Bālamanoramā
परिमाणे पचः - परिमाणे पचः । परिमाणं प्रस्थादि । तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पचेति । 'खित्यनव्ययस्य' इति ह्रस्वः । मुम् ।
SK 2949 · A 3.2.34V
मितनखे च ॥ २९४९ ॥
mitanakhe ca
Siddhānta-kaumudī
मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥
Bālamanoramā
मितनखे च - मितनखे च । मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः । नखानां विक्लित्त्यसंभवादाह — पचिरत्रेति ।
SK 2950 · A 3.2.35V
विध्वरुषोस्तुदः ॥ २९५० ॥
vidhvaruṣostudaḥ
Siddhānta-kaumudī
विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥
Bālamanoramā
विध्वरुषोः तुदः - विध्वरुषोस्तुदः । विधु, अरुस् अनयोः कर्मणोरुपपदयोस्तुदः खशित्यर्थः । विधुंतुद इति । विधुश्चन्द्रः, तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुस्शब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः । अरुन्तुद इति । अरुर्मर्म, तत्तुदन्तीति विग्रहः ।
SK 2951 · A 3.2.36V
असूर्यललाटयोर्दृशितपोः ॥ २९५१ ॥
asūryalalāṭayordṛśitapoḥ
Siddhānta-kaumudī
असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥
Bālamanoramā
असूर्यललाटयोर्दृशितपोः - असूर्यललाट । दृशितपोरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः । असूर्यमितीति ।असूर्यपश्या॑इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः । कुतोऽसामर्थ्यमित्यत आह — दृशिनेति । सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः । ललाटन्तपःसूर्य इति । ललाटं तपतीति विग्रहः । सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः ।
SK 2952 · A 3.2.37V
उग्रम्पश्येरम्मदपाणिन्धमाश्च ॥ २९५२ ॥
ugrampaśyerammadapāṇindhamāśca
Siddhānta-kaumudī
एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् न श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥
Bālamanoramā
उग्रम्पश्येरम्मदपाणिन्धमाश्च - उग्रम्पश्य इति । खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् — उदकमिति । इरम्मद इति ।खित्यनव्ययस्ये॑ति ह्रस्वः । मदेर्दैवादिकत्वच्छ्यनमाशङ्क्य आह — निपातनाच्छ्यन्नेति । पाणिन्धम इति । शपिपाघ्रे॑ति धमादेशः ।
SK 2953 · A 3.2.38V
प्रियवशे वदः खच् ॥ २९५३ ॥
priyavaśe vadaḥ khac
Siddhānta-kaumudī
प्रियंवदः । वशंवदः ॥
vārttika
गमेः सुपि वाच्यः
(वार्तिकम्) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ।
vārttika
विहायसो विह इति वाच्यम्
(वार्तिकम्) ।
vārttika
खच्च डिद्वा वाच्यः
(वार्तिकम्) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥
Tattvabodhinī
NSP p. 504–505
—प्रियवशे वदः खच्च् । खकारो मुमर्थश्चकारस्तु ‘खचि हस्वः’ इति विशेषणार्थ इति वृत्तिः । खे हस्व इत्युच्यमाने एजेः खश्च जनमेजय इत्यत्रापि स्यादिति तदाशयः । ‘एकानुवन्धप्रहणे ब्रह्मवन्धस्य न प्रहणम्’ इति खशि न भविष्यतीत्यादिना वृत्तिप्रन्थस्यायुक्तलमाहुः । खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम् । द्विषन्तप इत्यत्र हस्वणिष्ठोपो यथा खान्ना शाश्वताभाविति ॥ न म्येयं पुत्ररत्नैष प्रियतामिति चेत् । सत्यम् । इह करणमन्यतो ऽपि क्वचित् भवतीति ज्ञापनार्थं, तेन ‘गमेः सुपि—’ इति नापूर्वं वार्तिकं किं तु ज्ञापकसिद्धमेव ॥—असंज्ञार्थमिति । संज्ञायां तु वक्ष्यमाणेन ‘गमश्च’ इति सूत्रेणैव सिद्धमिति भावः ॥—विहंगम इति । विहायसा आकाशेन गच्छतीति विग्रहः ॥ पूर्ववार्तिकेनैक्यमकृत्वा ‘खच्च डिद्वा’ इति पृथक्करणसामर्थ्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति—भुजंगमः । भुजंग इति । इह ‘गमेः सुपि—’ इति खच् ॥—द्विपंतप इति । ‘अरुर्द्विपत्—’ इति मुमि कृते संयो-गान्तलोपः
Bālamanoramā
प्रियवशे वदः खच् - प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः । खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते । गमेः सुपि वाच्य इति । 'ख' जिति शेषः । ननु संज्ञायामित्यनुवृत्तौगमश्चे॑ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह - असंज्ञार्थमिदमिति । विहायस इति । विहायः शब्दः आकासे वर्तते । तस्मिन्नुपपदे गमेः खच् ।गमश्चे॑ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच्चे॑त्यनूद्यते । प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति । डित्त्वपक्षे तत्सामर्थ्यादभस्यापि टेर्लोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति । भुजैर्गच्छतीति विग्रहः । द्विषत्परयोः । 'तप दाहे' चुरादिः, 'तप सन्तापे' भ्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति । द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह —
SK 2954 · A 3.2.39V
द्विषत्परयोस्तापेः ॥ २९५४ ॥
dviṣatparayostāpeḥ
Siddhānta-kaumudī
खच्स्यात् ॥
Bālamanoramā
द्विषत्परयोस्तापेः - द्विषन्तप इति । 'अरुर्द्विष' दित तकारात्प्राक् मुम् । परन्तप इति । परः - शत्रुः । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि 'द्विषतीतप' इति स्यात् 'द्विषतीताप' इत्यण्णन्तं न स्यादित्यत आह — घटघटीति ।शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु ग्रहेरुपसङ्ख्यान॑मित्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धे पुनर्घटीग्रहणाल्लिङ्गविसिष्टपरिभाषा अनित्येति विज्ञायते इत्यर्थः ।उपपदविधौ लिङ्गविशिष्टपरिभाषा ने॑ति ङ्याप्पसूत्रे भाष्याच्चेत्यपि द्रष्टव्यम् ।
SK 2955 · A 6.4.94V
खचि ह्रस्वः ॥ २९५५ ॥
khaci hrasvaḥ
Siddhānta-kaumudī
खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥
Bālamanoramā
खचि ह्रस्वः - खचि ह्रस्वः । 'दोषो णौ' इत्यतो णाविति, 'उदुपधायाः' इत्यत 'उपधाया' इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्रस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः ।
SK 2956 · A 3.2.40V
वाचि यमो व्रते ॥ २९५६ ॥
vāci yamo vrate
Siddhānta-kaumudī
वाक् शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥
Tattvabodhinī
NSP p. 505
—वाचि यमो व्रते ॥—निपात्यत इति । न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यम् । व्रतादन्य-त्रापि प्रसङ्गात् । यदि तु निपातनवलादेव व्रतविपयता आश्रीयते तत्रैव वा व्रतग्रहणं क्रियते वाचंयमो व्रते पुरंदश्चेति तदा इह ‘वाचि यमो व्रते’ इति सूत्रं, ‘पूःसर्वयोः—’इत्यत्र पुरिदारेरित्यंशश्च शक्यमकर्तुम् ॥—पूःसर्वयोः—। दृ विदारणे अयमेव गृह्यते न तु दृ भये दृङ् आदर इत्येताविति संप्रदायः । असंज्ञार्थमिदम् । संज्ञायां तु ‘संज्ञायां भृतृवृजि—’ इति वक्ष्यमाणेन सिद्ध्यतीति भावः ॥—आशितंभव इति । यावता ओदनेन अतिभ्यादिभौजितो भवति स एवमुच्यते । इह वासरूपविधिना ल्युडपि । आशितभवनं, घन् तु वाध्यत एव सरूपत्वादित्याहुः । नचात्र कल्युट्तुमुन्खल्लर्थेषु वासरूपविधिनैति ल्युटो निपेधः शङ्कयः । यत्र हि घनादेर्वाधकत्वेन कल्युडादयः प्रसक्तास्तत्र नित्यं वाधो न तु विकल्पेनेति तस्यार्थः । इह तु ल्युटोऽप्यपवादः खच् । अत्र वासरूपन्यायो निर्वाध एव । एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक्
Bālamanoramā
वाचि यमो व्रते - वाचि यमो व्रते । इत्यादि व्यक्तम् ।
SK 2957 · A 6.3.69V
वाचंयमपुरंदरौ च ॥ २९५७ ॥
vācaṃyamapuraṃdarau ca
Siddhānta-kaumudī
वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥
Bālamanoramā
वाचंयमपुरंदरौ च - वाचं यमपुरन्दरौ च । वाक्पुरोरिति । वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच् । सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ- । 'अरुर्द्विषजन्तस्य' इति मुमस्तु न प्रसक्तिः ।
SK 2958 · A 3.2.41V
पूःसर्वयोर्दारिसहोः ॥ २९५८ ॥
pūḥsarvayordārisahoḥ
Siddhānta-kaumudī
पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥
vārttika
भगे च दारेरिति काशिका
(वार्तिकम्) ॥ बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥
Bālamanoramā
पूःसर्वयोर्दारिसहोः - पूः सर्वयोर्दारिसहोः । दारिसहोरिति पञ्चम्यर्थे षष्ठी । पुर्शब्दे सर्वशब्दे च कर्मवाचिन्युपपदे दारेः सहेश्च खजित्यर्थः । यथासङ्ख्यमन्वयः ।दारी॑ति ण्यन्तस्य ग्रहणम् । पुरन्दर इति । पुरं दारयतीति विग्रहे दारेः खचि णिलोपे 'खचि ह्रस्वः' इत्युपधाह्रस्वे सुपी लुकिवाचंयमपुरन्दरौ चे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहमं व्यर्थमित्यत आह — असंज्ञार्थमिति । भगे चेति । इत्यादि स्पष्टम् । ऋतिह्कर इति । ऋतिर्गमनम् । अभयह्करशब्दं साधयितुमाह — भयशब्देन तदन्तविधिरिति । इदं चयेन विधि॑रित्यत्र भाष्ये स्पष्टम् ।
SK 2959 · A 3.2.42V
सर्वकूलाभ्रकरीषेषु कषः ॥ २९५९ ॥
sarvakūlābhrakarīṣeṣu kaṣaḥ
Siddhānta-kaumudī
सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीङ्कषा वात्या ॥
SK 2960 · A 3.2.43V
मेघर्तिभयेषु कृञः ॥ २९६० ॥
meghartibhayeṣu kṛñaḥ
Siddhānta-kaumudī
मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥
SK 2961 · A 3.2.44V
क्षेमप्रियमद्रेऽण् च ॥ २९६१ ॥
kṣemapriyamadre'ṇ ca
Siddhānta-kaumudī
एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥
Bālamanoramā
क्षेमप्रियमद्रेऽण् च - क्षेमप्रिय । ननुक्षेमप्रियमद्रवे॑ति खचो विकल्पविधौ खजभावेकर्मण्य॑णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह — वेति वाच्ये इति । हेत्वादिष्विति ।कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः । कथं तर्हीति । 'कृञो हेतु' इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः । समाधत्ते — कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः । क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः ।
SK 2962 · A 3.2.45V
आशिते भुवः करणभावयोः ॥ २९६२ ॥
āśite bhuvaḥ karaṇabhāvayoḥ
Siddhānta-kaumudī
आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥
Bālamanoramā
आशिते भुवः करणभावयोः - #आशिते । करणे उदाहरति — आशितो भवत्यनेनेति । भावे उदाहरति — आशितस्य भवनमिति ।
SK 2963 · A 3.2.46V
संज्ञायां भृतॄवृजिधारिसहितपिदमः ॥ २९६३ ॥
saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ
Siddhānta-kaumudī
विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥
Tattvabodhinī
NSP p. 505
—संज्ञायां भृतृ—। ‘विश्वंभरः कैटभजित्’ । ‘रसा विश्वंभरा स्थिरा’ इत्यमरः ॥—द्व्युत्पत्तिमात्रमिति । तत्फलं तु स्वरावग्रहौ ‘रथंतरमाजभारा वसिष्ठः’ इत्यत्र हि रथमित्यवगृह्णन्ति । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वं चाधीयते । अखण्डत्वे त्ववग्रहो न स्यान्नच्चिपयस्येत्याद्यु-दातश्च स्यात् ॥—इत्युक्तमिति । माधवाद्यनुरोधेनेत्यर्थः ॥—मतान्तरे त्विति । हरदत्तादिमत इत्यर्थः । चित्तव्यापारोपरमः शमः, इन्द्रियव्यापारोपरमस्तु दम इत्यादि वेदान्तग्रन्थाश्चेहानुकूलाः । संज्ञायां किम् । कुटुम्बं विभर्तीति कुटुम्बंभारः
Bālamanoramā
संज्ञायां भृतॄवृजिधारिसहितपिदमः - संज्ञायाम् ।ख॑जिति शेषः । भृ, तृ , वृ ,जि, धारि, सहि, तपि, दमि- एषामष्टानं समाहारद्वन्द्वात्पञ्चमी । विआम्भर इति । विष्णोरियं संज्ञा । विआम्भरेति । पृथिव्याः संज्ञा इयम् । रथन्तरमिति । तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असंभवादाह — इहेति । वृधातोरुदाहरति — पतिंवरेति । शत्रुञ्जय इति । जिधातोः खच् ।धारी॑ति ण्यन्तग्रहण, तस्योदाहरति — युगन्धर इति । युगं धारयतीति विग्रहः । 'खचि ह्रस्वः' इत्युपधाह्रस्वः । णिलोपः । शत्रुंसह इति । शत्रून् सहते विग्रहः । ह्रस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति । शत्रून् तपतीति विग्रहः । अरिन्दम इति । अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति । 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमेण्र्यन्ताद्धञ् । तथा च दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात्सकर्मकत्वमिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति । 'दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वमिति हरदत्तादिभिरुक्तमित्यर्थः ।
SK 2964 · A 3.2.47V
गमश्च ॥ २९६४ ॥
gamaśca
Siddhānta-kaumudī
सुतंगमः ॥
Tattvabodhinī
NSP p. 505–506
—गमश्च । पूर्वसूत्र एव गमिनौकः उत्तरसूत्रे गमेरेवानुशत्तिर्यथा स्यात् । भृतृप्रभृतीनां माभूदिति ॥—सुदुरोरिति । कर्मणि तु ‘ईषहुःसुषु’ इति खलेव । सुखेन गम्यत इति सुगमः पन्थाः । दुर्गमः ॥—दाराविति । शब्दापेक्षया पुंलिङ्गता तदाह—दारुशब्दे इति । ‘काष्ठं दार्विन्धनं त्वेधः’ इत्यमरः । टविधानार्थमिदम् । अण तु ‘कर्मण्यण्’ इत्येव सिद्धः ‘अलो-ऽन्त्यस्य’ इत्येव सिद्धेऽन्तप्रहणं स्पष्टार्थम् । अन्यथा हि टप्रत्ययः संभाव्येत ॥ दार्वाहन्तीति दार्वाधाटः । गोधाकालकादार्वाधा-टस्ते वनस्पतीनाम्
Bālamanoramā
गमश्च - गमश्च ।संज्ञायां ख॑जिति शेषः ।
SK 2965 · A 3.2.48V
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ॥ २९६५ ॥
antātyantādhvadūrapārasarvānanteṣu ḍaḥ
Siddhānta-kaumudī
संज्ञयामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्त्वासामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ।
vārttika
सर्वत्रपन्नयोरुपसंख्यानम्
(वार्तिकम्) ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम् । उरसो लोपश्च ॥ उरसा गच्छतीत्युरगः ।
vārttika
सुदूरोरधिकरणे
(वार्तिकम्) ॥ सुखेन गच्छत्यत्र सुगः । दुर्गः ।
vārttika
अन्यत्रापि दृश्यत इति वक्तव्यम्
(वार्तिकम्) ॥ ग्रामगः ॥
vārttika
डे च विहायसो विहादेशो वक्तव्यः
(वार्तिकम्) ॥ विहगः ॥
Bālamanoramā
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः - अन्तात्यन्त । इत्यादि व्यक्तम् । सर्वत्रपन्नयोरिति । सर्वत्रशब्दे, पन्नशब्दे चोपपदे गमेर्डस्योपसङ्ख्यानमित्यर्थः उरस इति । उरसि उपपदे गमेर्डः, उरः शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः । सुदूरोरिति । सु, दूर् — अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः । अन्यत्रापि दृश्यत इति । अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः । अनेनैव सिद्देसर्वत्रपन्नयो॑रित्यादि प्रपञ्चार्थमेव । एवं च 'सप्तम्यां जनेर्डः' इत्यत्रापिअन्येष्वपि दृश्यते॑ इति प्रपञ्चार्थमेव । डे चेति ।विहायसो विहे॑त्युक्तस्य खज्विषयत्वादिदं वचनम् । विहग इति । खचि तु मुमि विहङ्गम इति रूपम् ।
SK 2966 · A 3.2.49V
आशिषि हनः ॥ २९६६ ॥
āśiṣi hanaḥ
Siddhānta-kaumudī
शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ।
vārttika
दारावाहनोऽणन्तस्य च टः संज्ञायाम्
(वार्तिकम्) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ।
vārttika
चारौ वा
(वार्तिकम्) ॥ चार्वाघाटः ।
vārttika
कर्मणि समि च
(वार्तिकम्) ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । पदसङ्घातः ॥
Bālamanoramā
आशिषि हनः - आशिषि हनः । कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः । शत्रुघात इति । आसीरभावाड्डाऽभावे अण् । 'हनस्त' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः, अण्, अन्तस्येति च्छेदः । अण्संनियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः । कर्मणणि समि चेति । वार्तिकमिदम् । उक्तं वेति । अण्, अन्तस्य ट इत्यर्थः । चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः ।
SK 2967 · A 3.2.50V
अपे क्लेशतमसोः ॥ २९६७ ॥
ape kleśatamasoḥ
Siddhānta-kaumudī
अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥
Bālamanoramā
अपे क्लेशतमसोः - अपे क्लेशतमसोः । 'आशिषि हनः' इत्येव सिद्धे किमर्तमिदमित्यत आह — अनाशीरर्थमिति ।
SK 2968 · A 3.2.51V
कुमारशीर्षयोर्णिनिः ॥ २९६८ ॥
kumāraśīrṣayorṇiniḥ
Siddhānta-kaumudī
कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥
Tattvabodhinī
NSP p. 506
—कुमारशीर्षयोर्णिनिः । एतयोः कर्मणोरुपपदयोर्हन्तेर्णिनिः स्यात् । ‘सुप्यजातौ’—इत्यादिभिः सिद्धे ताच्छील्यावश्यकाधमर्ण्यविरहेऽपि णिन्यर्थं शिरसः शीर्षभावार्थं वचनम् ॥—लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शा-वजन्त इति भावः ॥—जायाम्र इति । जायामरणसूत्रकं पाणिरेखाविशेषादिकं यस्यास्ति सः तां हन्तीति गौणो व्यवहारः । एवं पतिघ्नीत्यत्रापि वोध्यम्
Bālamanoramā
कुमारशीर्षयोर्णिनिः - कुमारशीर्षयोर्णिनिः । अनयोरुपपदयोर्हन्तेर्णिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः ।
SK 2969 · A 3.2.52V
लक्षणे जायापत्योष्टक् ॥ २९६९ ॥
lakṣaṇe jāyāpatyoṣṭak
Siddhānta-kaumudī
हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥
Bālamanoramā
लक्षणे जायापत्योष्टक् - लक्षणे । लक्षणवतीति । सूत्रे लक्षणशब्दोऽर्शाअद्यजन्त इति भावः । जायाघ्नो नति । जायाहननसूचकलक्षणवान् पुरुष इत्यर्थः ।गमहने॑त्युपधालोपः । पतिघ्नी स्त्रीति । पतिहननसूचनलक्षणवतीत्यर्थः । टित्त्वान्ङीप् ।
SK 2970 · A 3.2.53V
अमनुष्यकर्तृके च ॥ २९७० ॥
amanuṣyakartṛke ca
Siddhānta-kaumudī
जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः । शत्रुघ्नः । कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् ॥ चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥
Tattvabodhinī
NSP p. 506
—अमनुष्यकर्तृके च । मनुष्यभिन्नकर्तृकेऽर्थं वर्तमानाद्धन्तेः कर्मण्युपपदे ठक् स्यात् । यद्य-प्यमनुष्यशब्दो रुढ्या रक्षःपिशाचादीनाहेति प्रागुक्तं तथापीह लक्ष्यानुरोधेन व्याख्यातव्यमित्याशयेनाह—तिलकालक इत्यादि । नानुवन्धकृतमसारूप्यमिति ठगणोः सारूप्याद्वासरूपविध्यप्रवृत्तेराह—वाहुलकादिति ।
Bālamanoramā
अमनुष्यकर्तृके च - अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्नस्तिलकालक इति । तिलाकृतकृष्णबिन्दुरित्यर्थः । पूर्वसूत्रस्य लक्षणवति कर्तरि प्रवृत्तिरिति भावः । अथ कथमिति । प्रलम्बघ्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसंभवादित्याक्षेपः । समाधत्ते — मूलविभुजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननुचोरघातो हस्ती॑त्यादि कथम्, अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह — चोरघात इत्यादीति । बाहुलकादणीति ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणादणि समाधेयमिति भावः ।
SK 2971 · A 3.2.54V
शक्तौ हस्तिकपाटयोः ॥ २९७१ ॥
śaktau hastikapāṭayoḥ
Siddhānta-kaumudī
हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥
Tattvabodhinī
NSP p. 506
—शक्तौ हस्ति—शक्तौ किम् । विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शक्तिरस्ति अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिप्रह-णसामर्थ्यात्प्रकर्षो विज्ञायते तेन खवलेनैव हन्तुं या शक्तिः सा गृह्यते ॥—कपाटम्र इति । कं शिरः पाटयति प्रविशत इति कपाटम् । पाठान्तरे तु अटतेः पचाद्यच् । ‘कवं चोष्णे’ इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः
Bālamanoramā
शक्तौ हस्तिकपाटयोः - शक्तौ हस्तिकवाटयोः । हस्तिघ्न इति । हस्तिनं हन्तुं शक्त इत्यर्थः । एवं कवाटघ्नः ।
SK 2972 · A 3.2.55V
पाणिघताडघौ शिल्पिनि ॥ २९७२ ॥
pāṇighatāḍaghau śilpini
Siddhānta-kaumudī
हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ।
vārttika
राजघ उपसंख्यानम्
(वार्तिकम्) ॥ राजनं हन्ति राजघः ॥
Bālamanoramā
पाणिघताडघौ शिल्पिनि - पाणिघताडघौ । पाणिना हन्तीति पाणिघः । ताडः = ताडनं, तेन हन्तीति ताडघः = मल्लादिः । राजघ उपसङ्ख्यानमिति । राजघशब्दे उक्तनिपातनस्य उपसङ्ख्यानमित्यर्थः ।
SK 2973 · A 3.2.56V
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ २९७३ ॥
āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣvacvau kṛñaḥ karaṇe khyun
Siddhānta-kaumudī
एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । आढ्यामाढ्यं कुर्वन्त्यनेन आढ्यकरणम् । अच्वौ किम् । आढ्यीकुर्वन्त्यनेन । प्रतिषेधसामर्थ्यात् इह ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥
Tattvabodhinī
NSP p. 506
—आढ्यसुभग—॥—च्च्यर्थेष्विति । अभूततद्भावविषयेष्वित्यर्थः ॥—आढ्यंकरणमिति । लिङ्गविशिष्टपरिमाषया आढ्यशब्देऽप्युपपदे यदा ख्युन् तदापि ‘खित्यनव्ययस्य’ इति हस्वेन एतदेव रूपम् ॥—आढ्यीकुर्वन्त्यनेनेति । नन्विह ख्युनोऽभावेऽपि ‘करणाधिकरणयोश्च’ इति ल्युटा भवितव्यमित्यत आह—प्रतिषेधसामर्थ्यादिति । तथाहि आढ्यीकर-णमिति रूपं ल्युट्ख्युनोस्तुल्यम् । न च ख्युनि मुमहस्त्रौ स्यातामिति वाच्यम् । अनव्ययस्येति पर्युदासात् । ‘ऊर्यादिच्चिडा-चश्च’ इति निपातसंज्ञकत्वेन च्च्यन्तस्य अव्ययत्वात् । न च ख्युनि सति ‘उपपदमतिङ्’ इति नित्यसमासो लभ्यते, ल्युटि तु नेति वाच्यम् । ल्युट्यपि गतिसमासस्य संभवात् । तस्यापि नित्यसमासत्वात् । न च स्त्रीप्रत्यये विशेषः, ल्युटि ‘टिङ्गा’—इति सूत्रेण ख्युनि तत्रत्येन ख्युन उपसंख्यानेन च ङीपस्तुल्यत्वात् । नापि खरे विशेषः, ल्युटि लित्स्वरेण ख्युनि नित्स्व-रेण कृत्र उदात्तत्वाविशेषात् । न चोत्तरार्थमच्चावित्युक्तमिति वाच्यम् । केवलोत्तरार्थत्वे हि तत्रैव व्रूयात् । तदेतदुक्तम्—इह ल्युडपि नेति ॥—भाष्यमते त्विति । भाष्यवार्तिकखरसेन ल्युडिष्ट इति केवलोत्तरार्थत्वं लभ्यते । अतस्तद्वि-रोधात् वृत्तिकृन्मतमयुक्तमिति कैयटः
Bālamanoramā
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् -
SK 2974 · A 3.2.57V
कर्तरि भुवः खिष्णुच्खुकञौ ॥ २९७४ ॥
kartari bhuvaḥ khiṣṇuckhukañau
Siddhānta-kaumudī
आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आढ्यंभावुकः । स्पृशोऽनुदके क्विन् SK 432 । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च SK 373 । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च SK 429 ।
vārttika
समानान्ययोश्चेति वाच्यम्
(वार्तिकम्) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः ।
vārttika
क्सोऽपि वाच्यः
(वार्तिकम्) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥
Tattvabodhinī
NSP p. 506–507
—कर्तरि भुवः ॥—अच्च्यन्तेष्विति । अच्चावित्यनुवर्तते अन्यथा आ-ढ्यीभविष्णुः आढ्यीभावुक इति स्यादिति भावः । कर्तृप्रहणं करणानुवृत्तिभ्रमनिरासार्थमुत्तरार्थं चेति प्राश्चः । वस्तुतस्तु व्यर्थमेव अस्मुरितलाद्वेषमुत्तरार्थमिति सिद्धेन उक्तं अन्युपयोगो नेति स्पष्टीकरिष्यमाणत्वाच्च । खकारो मुमर्थः । चकारः ‘चितः’ इत्यन्तोदात्तार्थः । अकारो वृद्ध्यर्थः । स्यादेतत् । खिष्णुच इकारो मास्तु ख्ष्णुरित्येवोच्यताम्, एवं चकारोऽपि न कर्तव्यः प्रत्ययस्वरेणैवाभिमतसिद्धेः, इकारादिलसिद्धये इङागमे कृतेऽपि ‘आगमा अनुदात्ताः’ इति तस्यानुदात्तलात् । न च ‘कृत्योके-ष्णुचार्वादयश्च’ इति स्वरसूत्रे अस्य ग्रहणं न स्यात् । चकारानुबन्धाभावादिकारस्य लाक्षणिकलात्पलणलयोरसिद्धत्वेनेष्णु इति रूपभावाचेति वाच्यम् । कृतेपि इकारे ‘तदनुबन्धकग्रहणे नातदनुबन्धकस्ये’ ति परिभाषया अलंकृतादीष्णुच एव ग्रहणं स्यात् त्वेतस्य । इकारोच्चारणसामर्थ्यादस्यापि ग्रहणमिति चेदन्तैवं ख्ष्णुजयमस्तु तत्रेदि कृते चकारानुबन्धसामर्थ्यादस्यापि ग्रहणमस्तिति किमिकारेणेति चिन्त्यमेतत् । न चेह लाघवाभावादिकारोऽस्तु चकार एव मास्त्विति शङ्काम् । एकमात्रो हस्वः व्यञ्जनं लर्धमात्रकमिति सर्वसंमतलात् । यत्तु हरदत्तेनोक्तं पलणलयोः सामर्थ्यादस्य ग्रहणमिति तदापा-ततः सुजपेक्षया ष्णुजुक्तौ प्रत्युत प्रक्रियालाघवेन पलनलयोः करणस्योचिततया सामर्थ्यायोगादिति दिक् ॥—निवृत्त-मिति । ननु स्पृशेः सकर्मकलात्कर्मण्युपपद इत्येव प्राप्येत इति चेत् । अत्र प्राच्चः । पूर्वसूत्रात्कर्तरि इत्यनुवर्तते सा चानुवृत्तिः ‘कर्तरि कृत्’ इत्यनेनैव कर्तरि किनः सिद्धलाघ्यर्था सती कर्तृप्रचयार्था, कर्मण्युपपदे एकः कर्ता करणादौ चापर इत्येवं कर्तृप्रचयस्तथा च सुवन्ते उपपदे इति फलितं भवतीति मन्त्रस्पृगित्याद्यपि सिद्धमिति । वस्तुतस्तु कर्तृग्रहणं व्यर्थ-मिति पूर्वसूत्र एवोक्तम् । न चेह कर्तृप्रचयार्थं तदावश्यकमिति शङ्काम् । मन्त्रस्पृगित्यादेः क्विपापि सिद्धेः । न च क्विपि कृत्वं न स्यादिति वाच्यम् । किन्प्रत्ययो यस्मादिति वहुव्रीहिवलादेव कुलसंभवादिति दिक् ॥—सद्यगिति । तमिवेमं पश्यन्ति जनाः स इवायं पश्यति ज्ञानविषयो भवतीति व्युत्पत्त्या कर्मकर्तरि प्रत्ययः रूढ्यर्थानुगुणलात्
Bālamanoramā
कर्तरि भुवः खिष्णुच्खुकञौ - कर्तरि भुवः । खिष्णुचि खचावितौ । खुकञि खञावितौ । आढम्भविष्णुरिति । अनाढ आढओ भवतीति विग्रहः । आढम्भावुक इति । ञित्त्वाद्वृद्धिः । करणग्रहणाऽनुवृत्तिनिवृत्तये कर्तृग्रहणमम् । खिष्णुचि इकारस्तु व्यर्थ एव, इटा सिद्धेः । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके क्विन्निति — व्याक्यातं हलन्ताधिकारे । निवृत्तिमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययोश्चेति । अनयोरुपपदयोर्दृशः क्विन्कञावित्यर्थः । सदृक् सदृश इति । समानो दृश्यते इति न विग्रहः, कर्तर्येव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन्कञौ॥ समानः पश्यतीति विग्रहः । समानत्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । 'दृग्दृशवतुषु' इति समानस्य सभावविकल्पऋ । तत्र 'विभाषोदरे' इत्यतो विभाषानुवृत्तेः,समानदृक् सदृक् । समानसदृशः सदृश॑ इति भाषाच्च । अन्यादृगिति । 'आ सर्वनाम्नः' इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः ।
SK 2975 · A 3.2.61V
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥ २९७५ ॥
satsūdviṣadruhaduhayujavidabhidacchidajinīrājāmupasarge'pi kvip
Siddhānta-kaumudī
एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ।
vārttika
अग्रग्रामाभ्यां नयतेर्णो वाच्यः
(वार्तिकम्) ॥ अग्रणीः । ग्रामणीः ॥
Tattvabodhinī
NSP p. 507
—सत्सूद्रिष-। पद्लृ विशरणादौ । सू इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न तु सुवतिसूयत्योः । युजिर् योगे, युज समाधौ द्वयो-रपि ग्रहणम् । विद ज्ञाने, विद विचारणे, विद सत्तायां, त्रयाणामपि ग्रहणम् । विद्लृ लाभे इत्यस्य तु न ग्रहणम् । विदे-त्यकारस्य विवक्षितलात् ॥—द्युसदिति । ‘पूर्वपदात्’—इति पत्वं तु न भवति छन्दसीत्यनुवृत्तेः । तथा च माघः—‘मनस्सु येन द्युसदां न्यधीयत’ इति । ‘आदितेया दिविपदः’ इत्यत्र तु सुपामादिलात्पलमिति माधवादयः । उपनिपदि-त्यत्र तु ‘सदिरप्रतेः’ इति पः ॥—अग्रग्रामाभ्यामिति । ‘स एपां ग्रामणीः’ इति निर्देशेन ज्ञापितमेतत् । नीरूपप्रत्य-यविषयत्वे चेदं, तेन कर्मण्यणि णत्वं न भवति । ग्रामनायः । ज्ञापकस्य सामान्यविषयलात् अग्रशब्दोपपदादपि णत्वं तेनाग्रणीरित्यपि सिद्धमित्याहुः
Bālamanoramā
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजामुपसर्गेऽपि क्विप् - सत्सूद्विष । सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'अनुपसर्गे' इत्यस्य निवृत्त्यैव सिद्धेउपसर्गेऽपी॑ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम् । तेन 'वदः सुपि क्यप् चे' ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति । दिवि सीदतीति विग्रहः ।सात्पदाद्यो॑रिति न षत्वम् ।पूर्वपदा॑दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात् ।॒आदितेया दिविषदः॑ इत्यत्र सुषामादित्वात्वमित्याहुः । उपनिषदिति ।सदिरप्रते॑रिति षत्वम् । इत्यादीति । काष्ठभित्, रज्जुच्छित् । शत्रुजित् । अत्रह्रस्वस्य पिती॑ति तुक् । सेनानीः । विराट् । अंशभागीति । णित्त्वादुपधावृद्धिः ।
SK 2976 · A 3.2.62V
भजो ण्विः ॥ २९७६ ॥
bhajo ṇviḥ
Siddhānta-kaumudī
सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥
SK 2977 · A 3.2.68V
अदोऽनन्ने ॥ २९७७ ॥
ado'nanne
Siddhānta-kaumudī
विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥
Tattvabodhinī
NSP p. 507
—अदोऽनन्ने ॥—विद्रूप्यादिति । ‘जनसनखनकमगमो विद्’ इति पूर्वसूत्रानुवृत्तेः । पूर्व-सूत्रं त्विह नोपन्यस्तम् । तत्र हि ‘छन्दसि सहः’ इत्यतः छन्दसीत्यनुवर्तनात् ॥—कामदुवेति । धेनुरिति शेषः । कामं दोग्धीति विग्रहः
Bālamanoramā
अदोऽनन्ने - अदोऽनन्ने । विट् स्यादिति । शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् ।जनसनखनक्रमगमो वि॑जिति छान्दससूत्राद्विडित्यनुवर्तते । सस्यादिति । सस्यमत्तीति विग्रहः । अन्नाद इति । कर्मण्यण् ।
SK 2978 · A 3.2.69V
क्रव्ये च ॥ २९७८ ॥
kravye ca
Siddhānta-kaumudī
अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥
Bālamanoramā
क्रव्ये च - क्रव्ये च । अदेर्विडिति । शेषपूरणमिदम् । अण्बाधनार्थमिति । क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः । कथं तर्हीति ।क्रव्ये उपपदे अदेर्विडेवे॑ति नियमादणोऽसंभवादित्याक्षेपः । समाधत्ते — पक्वमांसशब्ददिति । तर्हि 'पक्वमांसाद' इति स्यादित्यत आह — उपपस्य क्रव्यादेश इति । कुत इत्येत आह — पृषोदरादित्वादिति ।
SK 2979 · A 3.2.70V
दुहः कब् घश्च ॥ २९७९ ॥
duhaḥ kab ghaśca
Siddhānta-kaumudī
कामदुघा ॥
Bālamanoramā
दुहः कब् घश्च - दुहः कुब्धश्च । सुप्युपपदे दुहेः कप्स्यात्, प्रकृतेर्घश्चान्तादेश इत्यर्थ- । कामदुघेति ।धेनु॑रिति शेषः । कामम् = अपेक्षितं दुग्धे इति विग्रहः ।
SK 2980 · A 3.2.75V
अन्येभ्योऽपि दृश्यन्ते ॥ २९८० ॥
anyebhyo'pi dṛśyante
Siddhānta-kaumudī
छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥
Tattvabodhinī
NSP p. 507
—अन्येभ्योऽपि दृश्यन्ते । इह ‘विजुपे छन्दसि’ इत्यतो विच् प्रत्ययः । ‘आतो मनिन्’—इति सूत्रान्मनिनादयश्चानुवर्तन्ते तदाह—मनिन्कनिवित्यादि ॥—सुशमेति । सुष्टु शृणातीति विग्रहः । प्रातः एतीति प्रा-तरित्वा । इणः कनिपि ‘हस्वस्य पिति’—इति तुक् ॥—अवावेति । अनुनासिकस्य आत्वे अवादेशः । सौ दीर्घनलोपौ ॥—रोट् रेडिति । रुप रिष हिंसायाम् । उपधागुणः जश्लचत्वे । वाहभ्रङिति पाठः । वाहादश्वात् भ्रश्यतीति विग्रहः । वृत्तौ तु वहाभ्रङिति पाठः । वहः स्कन्धः ‘अन्येपामपि दृश्यते’ इति पूर्वपदान्तस्य दीर्घं इति हरदत्तः
Bālamanoramā
अन्येभ्योऽपि दृश्यन्ते - अन्येभ्योऽपि दृस्यन्ते । 'विजुपे छन्दसि'आतोमिन्क्वनिब्वनिपश्चे॑त्यधिकारे इदं इत्, इकार उच्चारणार्थः । विचि चकार इत् इकार उच्चारणार्थः ।
SK 2981 · A 7.2.8V
नेड् वशि कृति ॥ २९८१ ॥
neḍ vaśi kṛti
Siddhānta-kaumudī
वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥
Bālamanoramā
नेड् वशि कृति - नेड्वशि कृति । षष्ठर्थे सप्तम्यौ । वशा कृद्विशेष्यते । तदादिविधिः । तदा — वशादेरिति । सुशर्मेति । शृधातोर्मनिन् । प्रातरित्वेति । इण्धातोः क्वनिप् ।
SK 2982 · A 6.4.41V
विड्वनोरनुनासिकस्यात् ॥ २९८२ ॥
viḍvanoranunāsikasyāt
Siddhānta-kaumudī
अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥
Bālamanoramā
विड्वनोरनुनासिकस्यात् - विड्वनोरनुनासिकस्याऽऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । 'उदाह्यियते' इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।
SK 2983 · A 3.2.76V
क्विप् च ॥ २९८३ ॥
kvip ca
Siddhānta-kaumudī
अयमपि दृश्यते । सत्सूद्विष - SK 2975 इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥
Bālamanoramā
क्विप् च - क्विप् च । अयमपीति । सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धेसत्सूद्विषे॑ति सूत्रं व्यर्थमित्यत आह — सत्सूद्विषेति ।सत्सूद्विषे॑ति सूत्रं तुक्विप् चे॑त्यस्यैव प्रपञ्च इत्यर्थः । उखारुआदिति । उखायाः रुआंसत इति विग्रहः । रुआंसेः क्विप्,अनिदिता॑मिति नलोपः, 'वसुरुआंसु' इति दत्वम् । एवं पर्णध्वत् । पर्णात् द्वंसत इति विग्रहः । वाहभ्रडिति । वाहात् भ्रश्यतीति विग्रहः । व्रश्चादिना षः ।
SK 2984 · A 8.4.20V
अन्तः ॥ २९८४ ॥
antaḥ
Siddhānta-kaumudī
पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत् - SK 2486 इतीत्वम् । मित्राणि शास्ति मित्रशीः ।
vārttika
आशासः क्वावुपाधाया इत्वं वाच्यम्
(वार्तिकम्) ॥ आशीः इत्वोत्वे । गीः । पूः ॥
Tattvabodhinī
NSP p. 507–508
—अन्तः । अनि- वेरिति वर्तते अन्तश्चोत्तरपदापेक्षो गृह्यते नानितेरपेक्षयाऽव्यभिचारादत आह—पदान्तस्येति ॥—हे प्राणिति । अत्र प्राणने क्रिप् ‘अनुनासिकस्य’—इति दीर्घः । ‘न हि संबुद्ध्योः’ इति नलोपनिषेधः । अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम् ॥—मित्रशीरिति । छत्तेऽपि क्रिप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, वर्णाश्रये नास्ति प्रत्ययलक्षणमित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः ॥—आशास इति । शासु अनुशिष्टौ, आहः शासु इच्छायाम्, आत्मनेपदे ‘शास इत्’—इत्यादिना सिद्धे क्रावेव उपधाया इत्यमिति नियमार्थमिदम् । तेन आशास्ते इति सिद्धमित्येके । अन्ये तु विष्यर्थमेवेदं न नियमार्थं प्राप्त्यभावात् । न च ‘शास इदङ् हलोः’ इति इत्यस्य प्राप्तिरस्तीति वाच्यम् । तत्राङ्-साहचर्यात्परस्मैपदिन एव शासेर्ग्रहणात् । यद्यपि ‘सर्तिशास्ति’ इति सूत्रे पृथक् योगकरणादर्तेर्लुङि आरत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदम्रहणानुष्ठत्तेरप्याकरे स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याङिति निष्कर्षः । तथा चाऽशास्ते इत्यत्र इत्यप्रसक्तिरेव नास्तीत्याहुः । वस्तुतस्तु ‘आशिषि लिङ्लोटौ’ ‘क्षियाशीःप्रैषेषु’ इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम् । ततश्च इत्वं वाच्यमित्यस्य इत्वं व्याख्येयमित्यर्थः । आशिषीत्याद्युक्तनिर्देशादिति दिक् ॥—सुम्बाविति । ‘ओः सुपि’ इति यण्
SK 2985 · A 6.4.97V
इस्मन्त्रन्क्विषु च ॥ २९८५ ॥
ismantrankviṣu ca
Siddhānta-kaumudī
एषु छादेर्ह्रस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि -SK 2666 इति दीर्घः । मो नो धातोः SK 341 । प्रतान् । प्रशान् । च्छ्वोः -SK 2561 इत्यूठ् । अक्षद्यूः । ज्वरत्वरः -SK 2654 इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः SK 2655 । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥
Bālamanoramā
इस्मन्त्रन्क्विषु च - इस्मन्त्रन् । इस्, मन्, त्रन्, क्वि एषां चतुर्णां द्वन्द्वः ।छादेर्घेद्व्युपसर्गेस्य॑त्यतश्छादेरिति, 'खचि ह्रस्वः' इत्यतो ह्रस्व इति चानुवर्तते । तदाह — एषु छादेरिति । अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविदौ प्रयोजनाऽभावात् । एवं च 'ऊदुपधायाः' इत्यत उपधाया इति नानुवर्तनीयम्, ण्यन्तस्य छादेर्दकारोपधत्वात् ।इस्- छदिः । मन्- छद्म । त्रन् - छत्रम् । क्वौ उदाहरति — तनुच्छदिति । तनुं छादयतीति विग्रहः । अथ तनेः शमेश्च क्विपि विशेषमाह — अनुनासिकस्येति ।अक्षद्यू॑रित्यत्र आह — च्छ्वोरिति । योरेकस्मिन् ऊठिजूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । रिउआवेः क्विपि इकारवकारयोरूठि रुआऊरिति रूपम् । अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति । जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि , जन ऊ इति स्थिते आद्गुणं बाधित्वा 'एत्येध्त्यूठ्सु' इति वृद्धिरौकारादेश इत्यर्थः । मूरिति । मवेः क्विपि, अकारवकारयोरूठ् । सुम्बो सुम्व इति । अनेकाच्त्वाद्गतिपूर्वत्वाच्च यणिति भावः । रादिति । मुर्छाधातोः क्विपि 'राल्लोपः' इति चकारस्य लोपे सुलोपेर्वो॑रिति दीर्घे सुलोपेर्वो॑रिति दीर्घे धूरिति रूपमिति भावः ।
SK 2986 · A 6.4.40V
गमः क्वौ ॥ २९८६ ॥
gamaḥ kvau
Siddhānta-kaumudī
अनुनासिकलोपः स्यात् । अङ्गत् ।
vārttika
गमादीनामिति वक्तव्यम्
(वार्तिकम्) ॥ परीतत् । संयत् । सुनुत् ।
vārttika
ऊङ् च गमादीनामिति वक्तव्यम्
(वार्तिकम्) ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥
Bālamanoramā
गमः क्वौ - अनुनासिकलोपः स्यादिति शेषपूरणमिदम् ।अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम् । अङ्गगमदिति । अङ्गाख्यं देशं गच्छतीति विग्रहः । क्विपि मकारलोपे तुक् । एवं वह्गगत् । कलिङ्गगदित्यादि । गमादीनामिति । 'क्वावनुनासिकलोप' इति शेषः । पुरीतदिति । पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः । ह्मदयकमलाच्छादको मेदोविशेषः ।पुरीतता हि ह्मदयमाच्छाद्यते॑ इति श्रुति॑रिति कर्किभाष्यम् । तनेः क्विपि नकालोपे तुक् ।नहि वृत्तिवृषी॑ति पूर्वपदस्य दीर्घः । संयदिति । यमेः क्विप् । मलोपे तुक् । सुनदिति । नमेः क्विपि मलोपे तुक् । ऊ चेति । गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति.चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अग्रे गच्छतीति विग्रहः । गमेरकास्य ऊभावः, मलोपश्च ।तत्पुरुषे कृति बहुल॑मित्यलुक् । अग्रेभ्रूरिति । भ्रमेरकारस्य ऊभावः, मलोपश्च ।
SK 2987 · A 3.2.77V
स्थः क च ॥ २९८७ ॥
sthaḥ ka ca
Siddhānta-kaumudī
चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः - SK 2928 इत्यचं बाधितुं सूत्रम् ॥
Tattvabodhinī
NSP p. 508–509
—स्थः क च ॥—शंस्था इति । क्रिपि छत्ते ‘घुमास्था’—इति इत्वं न, स्थानिवद्भावस्य अनल्विधाविति निषेधात् । प्रत्ययलक्षणसूत्रं तु प्रत्ययस्यासाधारणरूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात् । यत्तु कैयटेनोक्तम् । इत्यमवकारादाविति वचनाद्भाव्यकारीयोदाहरणप्रामाण्याद्वा प्रत्ययलक्षणेन इत्वं नेति । तत् अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्रमिति पक्षमभिप्रेत्य तत्राप्यवकारादाविति वचनस्वीकारे सुधीवेति न सिद्धेदित्यपरितोषेण पक्षान्तरस्वीकार इति वोध्यम् । ननु नियमार्थमिति निष्कर्षपक्षे तु प्रागुक्तमित्रशीरित्यत्र कथमित्वं भवेदिति चेत् । अत्राहुः । शासः इदिति । ततः अङि नियमार्थमिदम् । अजादौ चेदित्वं स्यादङ्येव नान्यत्रेति हल्प्रहणं मास्त्विति ज्ञेयमिति । न चैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादितु नियमपक्षे न सिद्ध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकार्य इति वाच्यम् । ‘उतो वृद्धिः—’ इति सूत्रादल्प्रहणमनुवर्त्य तृणहानीत्यत्रानिष्ठवारणाय ‘नाभ्यस्तस्याचि—’ इति सूत्रादचि नेत्यनुवर्त्य व्याख्यानात् । एतच्च रुधादिगण एव व्याख्यातम् । स्यादेतत् । ‘सुपि स्थः’ ‘क्रिप् च’ इति सूत्राभ्यां कक्रिपौ सिद्धौ तत्राह—शमीत्यादि । धातुग्रहणसामर्थ्याद्धि धातुमात्राद्भवन्न प्रत्ययो हेत्वादिषु कृत्रष्टं यथा वाधते तथा तिष्ठतेः कक्रिपावपि वाधेतेति ‘स्थः क च’ इत्यारम्भ इति भावः । नन्वेवं ‘शमि धातोः—’ इत्यस्यानन्तरं ‘स्थः क च’ इति सूत्र्यतां चकारेणाचि समुच्चिते सवर्णदीर्घे शंस्था इति भविष्यति । एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुद्धिरपि लभ्यते इत्याभावार्थं च न यतनीयमिति महाशयवमिति चेत् । अत्राहुः । अशंस्था इत्यत्र ‘अच्कावशकौ’ इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात् । ‘कृद्धहणे गतिकारकपूर्वस्यापि’ इति शंस्थाशब्दस्याजन्तत्वात् । क्रिवन्तेन नश्समासे तु नश्पूर्वपदप्रकृतिस्वरः सिध्यतीति ॥—उप्णभोजीति । उष्णं भोजुं शीलमस्य ॥—आमन्त्रयितेति । मत्रि गुप्तपरिभाषणे चुरादिराङ्पूर्वः । इदित्वानुम् ताच्छिल्यस्य विवक्षितत्वात्तृन् । अत एव ‘न लोक—’ इति निषेधात् त्राह्मणानित्यत्र कर्मणि षष्ठी न कृता ॥—उपसर्गभिन्न एवेति । ‘सत्सूद्रिष—’ इति सूत्रे उपसर्गेऽपीत्युक्तत्वादुपसर्गभिन्नस्यैव सुपो लाभायास्मिन्सूत्रे पुनः सुप्रहणं कृतमिति भावः ॥—भाष्यविरोधादिति । उक्तं च भाष्ये सुविति वर्तमाने पुनः सुव्यवहणं किमर्थमनुपसर्ग इत्येव तदभूत् इदं तु सुप्रात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य इति । अस्यायमाशयः—‘सत्सूद्रिष—’ इति सूत्रे ‘सुपि स्थः’ इत्यतः मुपीत्यनुवर्तते । उपसर्गेऽपीति पृथक्कृते तदिह नियमार्थाधिकारादुपसर्गतरपरमेव स्यादिति निष्कर्षे तु मा भूदिह सुव्यवहणम् । उपसर्गं पीतं शस्याप्यनुवृत्त्या निर्वाहात् । सर्वथापि सुव्यात्रे उपपदे णिनिः न लनुपसर्गं एवेति सिद्धान्तः । एतच्च शब्दकौस्तुभे स्पष्टम्
Bālamanoramā
स्थः क च - स्थः क च ।के॑त्यविभक्तिकम् । स्थ इति पञ्यम्यन्तम् ।चात् क्विबिति । उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम् । शंस्थ इति । शमित्यव्ययं सुखे । तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः । शंस्था इति, - क्विपि रूपम् ।सुखं स्थापयतीत्यर्थः । तिष्टितरन्तर्भावितण्यर्थः ।शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्चघुमास्थे॑ति ईत्त्वं न । केचित्तुक चे॑ति चकाराद्विजेवानुकृष्यते इत्याहुः । ननु 'सुपि स्थः' इति कप्रत्ययेक्विप् चे॑ति क्विपि च सिद्धे किमर्थमिदमित्यत आह — शमिधातोरित्यचमिति । अन्यथा धातुग्रहणसामर्थ्यात्कृञो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं क्विपं च अच्प्रत्ययो बाधेतेति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 509 एकेन अम् विधीयते परेण प्रलयो विशेष्यते तदाह—स्वाद्यैः स्वादिति । एवं च न विशेष्यतु ॥ रस्य नेत्सङ्गा, अतएव परश्व भवति । ‘आतोऽमृशसोः’ इत्यत्र शसा साहचर्यात् सुबेवाम् गृह्णात् इत्युक्तलादोत आकारश्च भवतीत्याशयेनोदाहरति—गांमन्य इति ॥—नरंमन्य इति । ‘ऋतोऽङि’- इत्यादिना गुणः ॥—भाष्यकारेति । अयं भावः । यथा प्रष्टादयः शब्दाः पुंयोगात्स्निधीयां वर्तन्ते प्रष्टौ गणिकेति तथैह श्रीशब्दः परित्यक्तखलिङ्गः झीवः सन् कुले वर्तते, तत्र ‘हृस्वो नपुंसके’- इति ह्रस्वः । मुम् तु न । अपवादेन अमा वाधात् । ‘स्वमोर्नपुंसकात्’ इत्यमो छक् । न चैवं गांमन्य इत्यादावपि ‘सुपो धातुप्रातिपदिकयोः’- इति छक् स्यादिति वाच्यम् । अमूबिधिसामर्थ्यादेव तद्वाधादित्याहुः । अमूप्रलयस्तु ‘भृघ्यैऽपवादा’- इति न्यायेन ‘सुपो धातुप्रातिपदिकयोः’- इति छक्मेव वाधते न तु ‘स्वमोर्नपुंसकात्’ इति छक्मिति भाष्यादौ स्थितम् । स्यादेतत् । नपुंसकहृस्वे कृते मुमः प्राप्तिरेव नास्ति कथमत्रापवादेन अमा वाधादित्युक्तिः सङ्गच्छेत, ‘अर्झीपत’- इति सूत्रे हि अन्तग्रहणस्य समीपवाचित्वेन ‘खिल्यनव्ययस्य’ इति हृस्वे कृते पश्चान्मुमिति व्याख्यातत्वात् । सत्यम् । जनरोज्जय इत्यत्र स्वदः भिद्धेऽपि हृस्वे यथा ‘स्विल्यनव्ययस्य’ इति पुनर्हृस्वो मुमर्थं स्वीक्रियते तथात्रापि भवेदि-
SK 2988 · A 3.2.78V
सुप्यजातौ णिनिस्ताच्छील्ये ॥ २९८८ ॥
supyajātau ṇinistācchīlye
Siddhānta-kaumudī
अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानाममन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ।
vārttika
साधुकारिण्युपसंख्यानम्
(वार्तिकम्) ।
vārttika
ब्रह्मणि वदः
(वार्तिकम्) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥
Tattvabodhinī
alignment inferredNSP p. 509
—प्रसिद्धश्चेति । एवं च पाणिनीयानुसारिणीमिति प्रक्रियाकारप्रयोगोऽपि निर्वाध एव । अमरश्च प्रायुङ्क्त—‘लिङ्गशेषविधिर्व्यापी विशेषैर्यथवाधितः’ इति दिक् ॥—साधुकारिणीति । एतच्च ज्ञापकसिद्धम् । ‘आ क्वेः—’ इति सूत्रे हि तच्छीलात्पृथक् साधुकारी गृह्यते तच्च ताच्छील्यं विनापि णिनौ सत्येव संगच्छते ॥—ब्रह्मणि वदः । इदं तु वाचनिकमेव ॥—अताच्छील्यार्थमिति । एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम् । यत्तु भट्टवार्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम् । आ क्वेरित्यधिकारे तु ब्रह्मणि वदेर्णिनिविधायकं वचनं नास्त्येवेति कथमिदं संगच्छेतेति चेत् । अत्राहुः—भट्टपादानामयमाशयः ‘सुप्यजातौ’—इति सूत्रेण ताच्छील्ये णिनिः । उपसंख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः । ‘आवश्यकाधमर्ण्ययोर्णिनिः’ इत्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न लिह ‘आ क्वेः—’ इति सूत्रस्य व्यापारोऽस्तीति । ननु ब्रह्मवादिनो वदन्ति इत्यत्र ब्रह्म वेद इति ब्रह्मशब्दस्यापि जातिवाचकलात्कथमिह ताच्छील्ये णिनिरिति समर्थनमिति चेत् । अत्र नव्याः । ‘सुप्यजातौ’—इत्यत्र प्राणिजातिरेव पर्युदस्यते ताच्छील्यसमभिव्याहारात् । ब्राह्मणानामच्रयितेति प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति
Bālamanoramā
सुप्यजातौ णिनिस्ताच्छिल्ये - सुप्यजातौ । 'सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम् । अन्यथा 'आतोऽनुपसर्गे' इत्यतोऽनुपसर्गे इत्यनुवर्तेत । तद्ध्वनयन्नुदाहरति — उष्णभोजीति । उष्णभोजनशील इत्यर्थः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः । उपसर्गभिन्न एवेति । अनुपसर्ग इत्यनुवर्तते । सुब्ग्रहणं तुसत्सूद्विषे॑ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः । उत्प्रतिभ्यामिति । उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः । उदासारिणी प्रत्यासारिणीत्युदाहरणम् । भाष्यविरोधादिति । सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाहृतत्वादिति भावः । तथा चउत्प्रतिभ्यामाङि सर्ते॑रिति वचं नादर्तव्यम् । भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः । अत एव 'अनुगादिनष्ठ' गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम् ।उपसर्गभिन्न एव सुपि णिनि॑रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु — — प्रसिद्धश्चोपसर्गेऽपि णिनिरिति ।इत्यादा॑वित्यत्रान्वयः । साधुकारिणीति । कृञ्ग्रहणं सर्वधातूपलक्षणम् । साधुकारीत्यात्युदाहरणात् । ब्राहृणि वद इति ।णिनेरुपसङ्ख्यान॑मिति शेषः ।णिनेरुपसङ्ख्यान॑मिति शेषः । ननु 'सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह — अताच्छील्यार्थमिति । साधुदायीति । आतो युक् । ब्राहृवादीति । ब्राहृ - वेदः ।
SK 2989 · A 3.2.79V
कर्तर्युपमाने ॥ २९८९ ॥
kartaryupamāne
Siddhānta-kaumudī
णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥
Bālamanoramā
कर्तर्युपमाने - कर्तर्युपमाने । कर्तुरुपमानमिति ।चे॑दित्यध्याहार्यम् । ननु 'सुप्यजातौ' इति सिद्धे किमर्थमिदमित्यत आह — अताच्छील्यार्थमिति ।
SK 2990 · A 3.2.80V
व्रते ॥ २९९० ॥
vrate
Siddhānta-kaumudī
णिनिः स्यात् । स्थण्डिलशायी ॥
SK 2991 · A 3.2.81V
बहुलमाभीक्ष्ण्ये ॥ २९९१ ॥
bahulamābhīkṣṇye
Siddhānta-kaumudī
पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥
Bālamanoramā
बहुलमाभीक्ष्ण्ये - बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद्ध्वनयन्नुदाहरति — क्षीरपायिण इति ।
SK 2992 · A 3.2.82V
मनः ॥ २९९२ ॥
manaḥ
Siddhānta-kaumudī
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
Tattvabodhinī
NSP p. 509
—मनः । वहुलप्रहणानुवृत्तेरिह मनज्ञान इति दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य । तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययस्तदाह—मन्यतेरिति
Bālamanoramā
मनः - मनः । दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः । तदाह — मन्यतेरिति । मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते ।
SK 2993 · A 3.2.83V
आत्ममाने खश्च ॥ २९९३ ॥
ātmamāne khaśca
Siddhānta-kaumudī
स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य SK 2943 । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥
Tattvabodhinī
NSP p. 509–510
—आत्ममाने—। मननं मानः, भावे घन्, आत्मनो मान इति कर्मणि षष्ठ्या समासः । खपर्याय आत्मशब्दः प्रत्ययार्थत्वेन सन्निहितकर्ता खपदार्थस्तदाह—स्वकर्मक इत्यादि ॥—चादिति । ननु वासरूपविधिना लभ्यत एव णिनिरिति किमर्थश्चकार इति चेत् । अत्राहुः । चकारेणाविच्छेदाय णिनिः समुच्चीयते । तेन ‘करणे यजः’ इत्यादौ णिनिरेवानुवर्तते न तु खश्, एवं चोक्तप्रयोजनानुरोधेन चानुकृष्टं नोत्तरत्रेतीह न प्रवर्तेत इति ॥—पण्डितमात्मानमिति । एकस्याप्यात्मनः खरूपेण कर्तृत्वं पण्डितलविशिष्टरूपेण च कर्मत्वं बोध्यम् । आत्ममाने किम् । दर्शनीयमानी देवदत्तो यज्ञदत्तस्य ॥—कालिमन्येति । ‘स्त्रियाः पुंवत्’—इति प्राप्तं पुंवद्भावं वाधित्वा परलात् ह्रस्वः । यत्त्वत्र ‘क्यङ्मानिनोः’—इति प्राप्तः पुंवद्भाव इति प्रसादकृतोक्तं तद्रभसोक्तमेव, मानिन् रूपाभावस्य स्पष्टलात् ॥— दिवामन्येति । अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिस्वभावात्कर्मलम् ॥—इच्च एकाचः—। अमग्रहणमिहावर्तते, तत वेदान्तस्यापि निर्वाहे स्वेत् मन्यते निर्वाहते तदाह—स्वाद्यस्वदिति । एवं च ‘न विभक्तौ तुस्माः’ इति निषेधान्मका- खस्त्येव मुमः प्राप्तिरिति
Bālamanoramā
आत्ममाने खश्च - आत्मामने खश्च । आत्मनः = स्वस्य, मानः = मननम् - आत्ममानः । तदाह — स्वकर्मके मनने इति । पण्डितम्भन्य इति । खशः शित्त्वेन सार्वधातुकत्वाच्छ्यन् । खित्त्वात्अरुर्द्विषटदिति मुम् । तानादिकस्य मनेग्र्रहणे तु उविकरणः स्यात् । कालीमात्मानं मन्यते इत्यर्थे खशि श्यनि कृते आह — खित्यनव्यवयस्येति ।स्त्रियाः पुंव॑दिति पुंवत्त्वं बाधित्वा परत्वाद्ध्रस्व इत्यर्थः । दिवामन्येति । अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्वं बोध्यम् ।
SK 2994 · A 6.3.68अम्प्रत्ययवदतिदेशः
इच एकाचोऽम्प्रत्ययवच्च ॥ २९९४ ॥
ica ekāco'mpratyayavacca
Siddhānta-kaumudī
इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः SK 285 । गांमन्यः । वाम्शसोः SK 302 । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥
Bālamanoramā
इच एकाचोऽम्प्रत्ययवच्च - इच एकाचः । एकाच अमिति छेदः । अम् च अम् चेत्येकशेषः । एकं विदेयसमर्पकम् ।इच एकाचो॑ऽमिति प्रथमं वाक्यम् । इच इत्येकाचेति च पञ्चमी । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते । तदन्तविधिः । तदाह — इज्नतादेकाचोऽम्स्यादिति । मुमोऽपवादः । द्वितीयमम्पदंप्रत्ययव॑दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते । असामत्र्येऽपि वतिप्रत्यय आर्षः ।अम्प्रत्ययव॑दिति द्वितीयं वाक्यं संपद्यते । स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात् । तदाह — स च स्वाद्यम्वदिति । एतत्सर्वं भाष्ये स्पष्टम् । खिदन्ते पर इति । खिदन्ते उत्तरपदे परत इत्यर्थः ।खित्यनव्ययस्ये॑त्यतः खितीत्यनुवर्तते इति भावः ।अम्प्रत्ययव॑दित्यतिदेशसय् प्रयोजनमाह — औतोम्शसोरिति । गाम्मन्य इति । गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्,अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — वाऽम्शसोरिति । स्त्रियम्मन्य इति । स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् । सुपो लुक् । स्त्रीशब्दात् 'वाऽम्शसोः' इति इयङ्विकल्पः । अत्र यकारादकारस्य श्रवणार्थमम्विधिः । मुमि तु अकारो न श्रुयेत । स्तरीम्मन्य इति । इयङभावपक्षेअमि पूर्वः॑ ।अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — नृ - नरम्मन्य इति ।नृ॑इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम् ।अम्प्रत्ययव॑दित्यतिदेशात्ऋतोऽङी॑ति गुणः । अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः । मुमि त्वकारो न श्रूयेत ।अम्प्रत्यव॑दित्यस्य प्रोजनान्तरमाह — भुवम्मन्य इति । भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक् । भूशब्दादम्,अम्प्रत्ययव॑दित्यतिदेशात् 'अचि श्नुधातु' इत्युवङ् । अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात् । श्रिमन्यमिति । मनेः खश् । श्यन् । अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः । एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् । यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः । यथा प्रकृते श्रीशब्दः । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथागङ्गायां घोष॑इत्यादावितिपुंयोगादाख्याया॑मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता । एवं चकालिम्मन्यं कुल॑मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् ।श्रिमन्यं कुल॑मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात्खित्यनव्ययस्ये॑ति बहिरङ्गं ह्रस्वं बाधित्वाह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्व एव न्याय्यः । मुमपवादे 'इच एकाचः' इत्यमि कृते तस्यस्वमोर्नपुंसका॑दित लुक् । तथा चश्रिमन्यं कुल॑मिति सिद्धम् । नच गाम्मन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्, 'इच एकाचः' इत्यमः 'सुपो धातु' इति लुगपवादत्वात् ।स्वमोर्नपुंसका॑दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह — भाष्यकारेत्यादि । 'ह्रस्वो नपुंसके' इत्यनेने॑ति शेषः । मुममोरभावश्चेति । मुमपवादस्य अमःस्वमोर्नपुंसका॑दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः ।
SK 2995 · A 3.2.84भूताधिकारः
भूते ॥ २९९५ ॥
bhūte
Siddhānta-kaumudī
अधिकारोऽयम् । वर्तमाने लट् SK 2151 । इति यावत् ॥
Tattvabodhinī
NSP p. 510
—भूते । धातोरित्यधिकाराद्धालयस्य विशेषणमिदम् । भूतेऽर्थं विद्यमानाद्धातोरित्यर्थः
Bālamanoramā
भूते - भूते । अधिकारोऽयमिति । धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्राऽनुवर्तते इति फलति । वर्तमाने इति ।वर्तमाने ल॑डित्यतः प्रागित्यर्थः । अत्र व्याख्यानमेव शरणम् ।
SK 2996 · A 3.2.85V
करणे यजः ॥ २९९६ ॥
karaṇe yajaḥ
Siddhānta-kaumudī
करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥
Tattvabodhinī
NSP p. 510
— करणे—खरितलाणिनिरेवानुवर्तते न तु खश् इत्याह—णिनिः स्यादिति । सोमेन लताविशेषेण यागं कृतवानि त्यर्थः ॥—अग्निष्टोमेति । अग्निष्टोमस्तोत्रेण समाप्यमानो यो यागः स लक्षणयाऽग्निष्टोमस्तेनापूर्वं भावितवानित्यर्थः । उक्तं च काशिकायाम् अग्निष्टोमः फलभावनायां करणमिति
Bālamanoramā
करणे यजः - करणे यजः । सोमेनेति । सोमाख्यलताविशेषरसेन यागं कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः । एतच्च द्वितीयस्य द्वितीयेद्रव्यसंयोगाच्चोदना पशुसोमयो॑रित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । अग्निष्टोमयाजीति । अग्निष्टोमाख्ययागेन अपूर्वं भावितवानित्यर्थः ।
SK 2997 · A 3.2.86V
कर्मणि हनः ॥ २९९७ ॥
karmaṇi hanaḥ
Siddhānta-kaumudī
पितृव्यघाती । कर्मणीत्येतत् सहे च SK 3006 इति यावदधिक्रियते ॥
Tattvabodhinī
NSP p. 510
—कर्मणि हनः ॥—पितृव्यधातीति । अत्र काशिका कुत्सितप्रहणं कर्तव्यमिह माभूत् चोरं हतवानिति । यद्यपीदं भाष्ये नास्ति तथापि शब्दशक्तिसाभाव्यादिदं लभ्यत इत्याहुः ॥ —चतुर्विध इति । अयमाशयः । इह सूत्रे श्रुतलात्पूर्वं ब्रह्मादय उद्देश्यास्ततोऽनन्तरं प्रकृतिलाद्धन्तिस्ततः परिशेषाद्भूत इति । क्रिप् तु सर्वान्ते निर्देष्टव्यः । विधेयलात् । तदेवं वचनव्यक्तिः । ब्रह्मादिषूपपदेषु हन्तेर्भूते क्रिविति । एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽत्र भवन्ननन्तरे भवति । ततश्च ब्रह्मादिष्वेवेत्यवधारणे हन्तेस्तदनन्तरं निर्दिष्टलादुपपदान्तरसंवन्धनिवृत्तिफलो नियमो भवति । ब्रह्मादिषु हन्तेरेव भूते इत्यवधारणे लनन्तरलाद्विशेषेऽपि प्राधान्यादुपपदनियमो धालन्तरनिवृत्तिफलकः, ब्रह्मादिषु हन्तेर्भूते एव क्रिवित्यवधारणे तु क्रिप्हन्त्योरानन्तर्येऽविशिष्टेऽपि प्राधान्यात्कालान्तरसंवन्धनिवृत्तिफलकः प्रत्ययनियमः । ब्रह्मादिषु हन्तेर्भूते क्रिवेवेति वचनव्यक्तौ प्रत्ययान्तरसंवन्धनिवृत्तिफलकः कालनियमः । सोऽयं प्रकृत्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्यमाणविशेषात्तु चतुर्विधस्यापीह प्रहणम् । तत्र ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे भूत इत्याश्रयणाद्वर्तमानकाले भविष्यत्काले चोपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा । 'अरिहयोरिहयोगविचक्षणः' । अरीन् हन्तीति अरिहा स चासौ योगश्च अरिहयोगस्तत्र विचक्षण इत्यर्थः । प्रकृतिनियमफलं तु पुरुषं हतवान् पुरुषह इति भूतार्थं प्रयोगाभावः । ब्रह्मादिषु हन्तेरेवेत्युपपदनियमेऽपि भूत इत्याश्रयणाद्वर्तमानभविष्यत्कालयोर्धालन्तरादपि भवत्येव । वृत्रं जयति जेष्यति वा वृत्रजिदिति । उपपदनियमफलं तु वृत्रं जितवान् वृत्रजिदिति प्रयोगाभावः । भूत एव क्रिविति प्रत्ययनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे वर्तमानभविष्यत्कालयोर्हन्तेः क्रिप् भवत्येव । पुरुषं हन्ति हनिष्यति वा पुरुषहा अरिहेति प्राग्वत् । प्रत्ययनियमफलं तु ब्रह्माणं हन्ति ब्रह्महेत्यादिप्रयोगाभावः । भूते क्रिवेवेति कालनियमेऽपि ब्रह्मादिष्वित्युक्तेरुपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव । पितृव्यं हतवान् पितृव्यधाती । इह 'कर्मणि हनः' इति भूते णिनिः । कालनियमफलं तु ब्रह्माणं व्यकारस्तु प्रकृतिकालनियमावेवाशिभ्रियत् । तस्यायमाशयः । धातुकालौ हि नेह सूत्रे श्रुतौ किं तु प्रकरणलक्षणजवन्यप्रमाणेनोपस्थितौ । अतस्तयोरेवोपरोधो न्याय्यो न तूपपदप्रत्यययोः श्रुत्युपस्थापितलात् । एवं न्यायोपष्टव्येन भाष्येण सह विरोधात् वृत्तिमतमुपेक्ष्यमेवेति कैयटे स्थितम् । यत्त्विह हरदत्तेनोक्तं धातूपपदविषयं नियमद्वयं भाष्ये प्रदर्शितमिति तत्र धातुकालविषयमिति वक्तव्ये उपपदप्रहणं प्रामादिकमित्यवधेयम्
Bālamanoramā
कर्मणि हनः - कर्मणि हनः । कर्मण्युपपदे भूतार्थाद्धनेर्णिनिः स्यात् । पितृव्यघातीति । पितृव्यं हतवानित्यर्थः । 'हनस्तः' इति तः,हो हन्ते॑रिति हस्य घः ।
SK 2998 · A 3.2.87V
ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ २९९८ ॥
brahmabhrūṇavṛtreṣu kvip
Siddhānta-kaumudī
एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च SK 2983 इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥
Bālamanoramā
ब्रह्मभ्रूणवृत्रेषु क्विप् - ब्राहृभ्रूण । पूर्वसूत्रात्कर्मग्रहमाऽनुवृत्तेराह — कर्मस्विति । हन्तेभूते इति । भूतार्थवृत्तेर्हन्तेरित्यर्थ- । चतुर्विध इति । पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाच्चतुष्र्वपि निवेश इति भावः । तत्रब्राहृआदिष्वेव हन्ते॑रिति नियमात् पुरुषं हतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेरेवे॑ति नियमाद्ब्राहृ अधीतवानित्यत्र न क्विप् ।ब्राहृआदिषु हन्तेर्भूतकाले एवे॑ति नियमाद्ब्राहृ हन्ति हनिष्यति वेत्यत्र न क्विप् ।क्विबेवे॑ति नियमाद्ब्राहृ हतवानित्यतर् अण् न भवति, किंतुब्राहृभ्रूणे॑ति क्विबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेः । द्विविध इति । 'उभयतो नियमोऽयम्' - ब्राहृआदिष्वेव॑क्विबेवे॑ति च भाष्यमित्यर्थः । एवं चहन्तेरेव॑,भूत एवे॑ति नियमद्वयमुपेक्ष्यमिति भावः ।
SK 2999 · A 3.2.89V
सुकर्मपापमन्त्रपुण्येषु कृञः ॥ २९९९ ॥
sukarmapāpamantrapuṇyeṣu kṛñaḥ
Siddhānta-kaumudī
सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥
Tattvabodhinī
NSP p. 510
—सुकर्म—॥—त्रिविध इति । धातुनियमस्त्विह नेष्यत इति भावः ॥—क्रिवेवेतीति । भूते क्रिवेवेति प्रत्ययान्तरसंवन्धनिवृत्तिफलककालनियमादित्यर्थः ॥— कृञ एवेतीति । सुकर्मादिषु कृञ एवेति धालन्तरसंवन्धनिवृत्तिफलकोपपदनियमादित्यर्थः ॥—भूत एवेतीति । भूत एव क्रिविति कालान्तरसंवन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः ॥—स्यादिष्वेवेतीति । स्यादिष्वेव कृञ इत्युपपदान्तरसंवन्धनिवृत्तिफलकधातुनियमाभावादित्यर्थः
Bālamanoramā
सुकर्मपापमन्त्रपुण्येषु कृञः - सुकर्म.सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः । त्रिविध इति ।सुकर्मादिषु भूते कृञः क्विबेवे॑ति,सुकर्मादिषु भूते कृञ एव क्विबिति,सुकर्मादिषु भूते कृञ एव क्वि॑बितिसुकर्मादिषु भूत एव कृञ॑ इति त्रिविध इत्यर्थः । अण् नेति । क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः । स्वादिष्वेवेति । सुकर्मादिषु पञ्चस्वित्यर्थः ।
SK 3000 · A 3.2.90V
सोमे सुञः ॥ ३००० ॥
some suñaḥ
Siddhānta-kaumudī
सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥
Tattvabodhinī
NSP p. 510–511
—सोमे सुञः । इहापि चतुर्विधो नियम इति वृत्तिः । एवमुत्तनोतेः सोम इव उपपदे नियतलाचिनोतेस्त्वप्रावेवोपपदे नियतत्वात् । सुरां सुतवान् सुरासुल् इत्यकालितवानिष्टकाचिदिति न भवति किं तु सुरासुलवती इत्यकाचित्य इत्येव भवति, सोमस्य सुनोतावेव धातोर्नियतत्वात् । अग्नेस्तु चिनोतावेव । नियतलात् । सोमं कीतवान् सोमकीः अग्निं भूतवान् अग्निभूत् इति क्विप् न भवति किं तु सोमकायः अग्निभार इत्यणेव भवति । भूत एव क्विपो नियतलात्सोमं सुनोति सोम्यति वेत्यर्थं क्विप् न भवति । तथा अग्निं चिनोति चेष्यति वेत्यर्थं क्विवभावः किंलणेव
Bālamanoramā
सोमे सुञः - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः ।
SK 3001 · A 3.2.91V
अग्नौ चेः ॥ ३००१ ॥
agnau ceḥ
Siddhānta-kaumudī
अग्निचित् ॥
Bālamanoramā
अग्नौ चेः - अग्नौ चेः । ग्नौ कर्मण्युपपदे भूतार्थवृत्तेश्चिनोतेः क्विप् स्यादित्यर्थ- । अग्निचिदिति । अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः ।
SK 3002 · A 3.2.92V
कर्मण्यग्न्याख्यायाम् ॥ ३००२ ॥
karmaṇyagnyākhyāyām
Siddhānta-kaumudī
कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥
Tattvabodhinī
NSP p. 511
—कर्मण्यग्न्याख्यायाम् ॥—इयेनचिदिति । समुदायोऽयं आहवनीयधारणार्थं इष्टकानिर्मितस्थलविशेषे निरूढः
Bālamanoramā
कर्मण्यग्न्याख्यायाम् - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् ।
SK 3003 · A 3.2.93V
कर्मणीनिविक्रियः ॥ ३००३ ॥
karmaṇīnivikriyaḥ
Siddhānta-kaumudī
कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ।
vārttika
कुत्सितग्रहणं कर्तव्यम्
(वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥
Tattvabodhinī
NSP p. 511
—कर्मणीनि—कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामर्थ्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृ कुत्सामावहति तत्रेत्यर्थः । सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः । कुत्सितग्रहणान्नेह । धान्यविक्रायः
Bālamanoramā
कर्मणीनिविक्रियः - कर्मणीनि विक्रियः । 'इनि' इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः ।
SK 3004 · A 3.2.94V
दृशेः क्वनिप् ॥ ३००४ ॥
dṛśeḥ kvanip
Siddhānta-kaumudī
कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥
Tattvabodhinī
NSP p. 511
—दृशेः क्वनिप् । ‘अन्येभ्योऽपि दृश्यन्ते’ इति सिद्धे नियमार्थमिदं क्वनिवेव यथा स्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां न वा अणादय इति । सोपपदप्रत्ययस्यैव नियमेन निवर्तनाग्निष्ठा तु भवत्येव ॥ —पारं दृष्टवानिति । एवं स्थिते ‘विश्वदृश्यनयना वयमेव’ इत्यादौ विश्वं पश्यन्ति विश्वदृश्यानि तानि नयनानि येषां ते विश्वदृश्यनयना इत्येवं क्वनिवन्तस्य लटा विग्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिर्व्याख्यातत्वात् । कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तलादिति दिक्
Bālamanoramā
दृशेः क्वनिप् - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् ।
SK 3005 · A 3.2.95V
राजनि युधिकृञः ॥ ३००५ ॥
rājani yudhikṛñaḥ
Siddhānta-kaumudī
क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥
Tattvabodhinī
NSP p. 511
—राजनि युधि कृजः । सहे च । इदमपि सूत्रद्वयं ‘दृशेः क्वनिप्’ इतिवन्नियमार्थमिति न्याय्यम् । वस्तुतस्तु दृशिग्रहणेन निर्वाहस्यागतिकलादियं त्रिसूत्रौ विधात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विहोदासीना एवेति शब्दकौस्तुभे स्थितम् ॥—मन्दुरायामिति । ‘वाजिशाला तु मन्दुरा’ इत्यमरः॥ —पुमनुजेति । इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तिलात्
Bālamanoramā
राजनि युधिकृञः - राजनि युधि कृञः । युधि, कृञ् अनयोः समाहारद्वन्द्वात्पञ्चमी । क्वनिप् स्यादिति । राजनि कर्मण्युपपदे भूतार्ताद्युधेः कृञश्च क्वनिबित्यर्थः । ननु युधेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आह — युधिरन्तर्भावितेति । राजकृत्वेति.राजानं कृतवानित्यर्थः ।
SK 3006 · A 3.2.96V
सहे च ॥ ३००६ ॥
sahe ca
Siddhānta-kaumudī
कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥
Bālamanoramā
सहे च - सहे च । सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः ।
SK 3007 · A 3.2.97V
सप्तम्यां जनेर्डः ॥ ३००७ ॥
saptamyāṃ janerḍaḥ
Siddhānta-kaumudī
सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः - SK 1001 इति ह्रस्वः ॥
Bālamanoramā
सप्तम्यां जनेर्डः - सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । `हलदन्तात्` इति `तत्पुरुषे कृति` इति वा अलुक् । मन्दुरज इति । वाजिशाला तु मन्दुरेत्यमरः ।
SK 3008 · A 3.2.98V
पञ्चम्यामजातौ ॥ ३००८ ॥
pañcamyāmajātau
Siddhānta-kaumudī
जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥
Bālamanoramā
पञ्चम्यामजातौ - पञ्चम्यामजातौ । जनेरिति ।भूतार्था॑दिति शेषः । संस्कारज[म] इति । संस्काराज्जात्[म] इत्यर्थः ।
SK 3009 · A 3.2.99V
उपसर्गे च संज्ञायाम् ॥ ३००९ ॥
upasarge ca saṃjñāyām
Siddhānta-kaumudī
प्रजा स्यात्सन्ततौ जने ॥
Bālamanoramā
उपसर्गे च संज्ञायाम् - उपसर्गे च । 'जनेर्ड' इति शेषः । संज्ञायामिति समुदायोपाधिः ।
SK 3010 · A 3.2.100V
अनौ कर्मणि ॥ ३०१० ॥
anau karmaṇi
Siddhānta-kaumudī
अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥
Bālamanoramā
अनौ कर्मणि - अनौ कर्मणि । ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह — पुमांसमनुरुध्येति । अनुरुध्य जननं धात्वर्थ इति भावः । पुमनुजेति । पुंसिति पूर्वपदे संयोगान्तलोप इति भावः ।
SK 3011 · A 3.2.101V
अन्येष्वपि दृश्यते ॥ ३०११ ॥
anyeṣvapi dṛśyate
Siddhānta-kaumudī
अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥
Tattvabodhinī
NSP p. 511
—अन्येष्वपि दृश्यते । ‘सप्तम्यां जनेः—’ इत्युक्तमसप्तम्यामपि दृश्यत इत्याह—अजः । द्विज इति । न जायत इत्यजः, द्विजांतो द्विजः, ‘जन्मना जायते शूद्रः कर्मणा जायते द्विजः’ इत्यभियुक्तोक्तेः । ‘पञ्चम्यामजातौ’ इत्युक्तं जातावपि दृश्यत इत्याह—ब्राह्मणज इति ॥—अपिशब्द इति । यत्तु ‘अन्तात्यन्ताध्व—’ इति प्रकरणे ‘अन्यत्रापि दृश्यते’ इत्युपसंख्यानं, तद्भूतकालं विनापि यथा स्यादित्येवमर्थम् । वस्तुतस्तु प्रकृतसूत्रस्थस्यापिग्रहणस्य सर्वोपाधिव्यभिचारार्थलात्तद्वार्तिकमनेनैव गतार्थम् । विभावितं चेदं ‘इको गुणवृद्धौ’ इति सूत्रे जनेर्डं प्रक्रम्य ‘गमेरप्ययं डो वक्तव्यः’ इति वदता भाष्यकारेण । एवं च प्रकृतसूत्रस्थं ‘अन्येभ्योऽपि दृश्यते’ इति वार्तिकमपि गतार्थमिति बोध्यम्
Bālamanoramā
अन्येष्वपि दृश्यते - अन्येष्वपि दृश्यते । अज इति । न जात इत्यर्थः । द्विजो ब्राआहृण इति । द्विर्जात इत्यर्थ- ।मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धना॑दित्यादिस्मृतेरिति भावः । अपि शब्द इति । 'सप्तम्यां जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि प्रकृतिविशेषरूपाणि, भूते कर्तरीति प्रत्ययार्थविशेषणं च तदतिक्रमार्थ इत्यर्थः ।
SK 3012 · A 1.1.26निष्ठासंज्ञा
क्तक्तवतू निष्ठा ॥ ३०१२ ॥
ktaktavatū niṣṭhā
Siddhānta-kaumudī
एतौ निष्ठासंज्ञौ स्तः ॥
Tattvabodhinī
NSP p. 511
—कक्तवत् निष्ठा । ननु कक्तवत्वोः सिद्धयोर्निष्ठेति संज्ञासिद्धिः, सिद्धायां निष्ठासंज्ञायां कक्तवत्वोर्विधानमित्यन्योन्याश्रय इति चेत् । अत्राहुः । भाविनी संज्ञाऽत्र विज्ञायते स भूते भवति यस्योत्पन्नस्य निष्ठेति संज्ञा भवति इत्याश्रयणे सामर्थ्यात् कक्तवत्वोर्विधानमेतदिति नास्त्युक्तदोष इति
Bālamanoramā
क्तक्तवतू निष्ठा - क्तक्तवतू निष्ठा । क्त, क्तवतु अनयोद्र्वन्द्वः । निष्ठेति प्रत्येकाभिप्रायमेकवचनम् ।
SK 3013 · A 3.2.102V
निष्ठा ॥ ३०१३ ॥
niṣṭhā
Siddhānta-kaumudī
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव - SK 2833 इति भावकर्मणोः क्तः कर्तरि कृत् SK 2832 इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥
Bālamanoramā
निष्ठा - निष्ठा । भूते इति धातोरिति चाधिकृतम् । तदाह — भूतार्थेत्यादि । भावकर्मणोः क्त इति । तथा च क्तप्रत्ययविषये कर्तरीति न संबध्यते इति भावः । कर्तरि क्तवतुरिति । कृत्यक्तखलर्थानामेव भाव कर्मणोर्विधानादिति भावः ।तयोरेव कृत्युक्ते॑त्यत्रलः कर्मणी॑त्यस्मात्सकर्मकेभ्यः कर्णि कर्तरि च अकर्मकेभ्यो भावे कर्तरि चेत्यनुवर्तते । ततश्च अकर्मकेभ्यो भावे क्तः, सकर्मकेभ्यस्तु कर्मणीति व्यवस्था लभ्यते इति मत्वोदाहरति — स्नातं मयेति । अकर्मकत्वाद्भाव क्तः । स्तुतस्त्वया विष्णुरिति । सकर्मकत्वात्कर्मणि क्तः । कर्तरि क्तवतुमुदाहरति — विष्णुर्विआमिति ।
SK 3014 · A 6.4.60V
निष्ठायामण्यदर्थे ॥ ३०१४ ॥
niṣṭhāyāmaṇyadarthe
Siddhānta-kaumudī
ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥
Tattvabodhinī
alignment inferredNSP p. 511
—ण्यदर्थो भावकर्मणी इति । यद्यपि याज्या ऋगित्यादौ करणादावपि वाहुलकाण्ण्यद्भवति, तथापि ‘तयोरेव—’ इति वचनाद्भावकर्मणी एव साक्षादुपात्तोऽर्थ इति स एवेह विवक्षित इति भावः
Bālamanoramā
निष्ठायामण्यदर्थे - निष्ठायामण्यदर्थे । ण्यदर्तो भावकर्मणी इति ।ऋहलो॑रिति ण्यतः कृत्यसंज्ञकस्यतयोरेवे॑ति भावकर्मणोरेव प्रवृत्तेरिति भावः । ततोऽन्यत्रेति । कर्तरीत्यर्थः । क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते,युप्लुवोर्दीर्घश्छन्दसी॑त्यतो दीर्घ इति चेति भावः ।
SK 3015 · A 8.2.46V
क्षियो दीर्घात् ॥ ३०१५ ॥
kṣiyo dīrghāt
Siddhānta-kaumudī
दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति SK 2381 । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ।
vārttika
ऊर्णोतेर्णुवद्भावो वाच्यः
(वार्तिकम्) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥
Tattvabodhinī
NSP p. 511–512
—क्षियो—। क्षि क्षये, क्षि निवासगत्योः, द्वयोरपि ग्रहणम् ॥—क्षितः काम इति । अन्तर्भावितण्यर्थत्वेन सकर्मकलादकर्मणि क्तम् । अक्षितोतिः सनोदिमम्’ इति मन्त्रव्याख्यायां भाधवग्रन्थे स्पष्टम् । भावे तु क्षितं कामेनेत्याद्युदाहरणीयम् । इण्निषेधसूत्रं स्मारयति—अयुकः कितीति ॥—श्रुत इति । दुश्च शब्दे ॥—नुत इति । णु स्तुतौ ॥—वृत इति । वृङ् संभकौ, वृञ् वरणे ॥—रदाभ्याम्—इह रदाभ्यामित्यनेन तकारो विशेष्यते न निष्ठा, तेन चरितमुदितमित्यत्र न, तकारस्येदा व्यवहितलातदेतदाह—परस्य निष्ठातस्येति ॥—वहिरङ्गत्वेनेति । निष्ठातकाराद्वहिर्भूततद्धितचित्रस्यमाश्रित्याङ्गस्यादेरचो विधीयमानलाद्वद्विर्वहिरङ्गेति भावः ॥—द्राण इति । द्रा कुत्सायां गतौ ॥ ग्लानः । म्लान इति । ग्लै म्लै हर्षक्षये ॥—एकविंशतेरिति । क्यादिषु प्वादयो द्वाविंशतिः पठ्यन्ते, तत्र पूञ्वं विहाय ल्वादयो ज्ञेयाः ॥—जीन इति । हल इति दीर्घः । सिद्धलात्रित्यलाच्च ‘प्रहिज्या—’ इति संप्रसारणे कृते ‘संयोगादेरातः—’ इत्यस्याप्राप्तिः ॥—गून इति । णु पुरीषोत्सर्गे ॥—विनष्टा इति । धातूनामनेकार्थलात्पूञ् पवन इत्यस्य विनाशेऽपि वृत्तिः ॥—सिनोतेरिति । षिञ् वन्धने । प्रासरूपं कर्म प्रासकर्म तत्कर्तृ यस्य सिनोतेस्ततः परस्य निष्ठातस्य नः स्यादित्यर्थः ॥—सिनो प्रास इति । पिण्डीक्रियमाणो प्रासो यदा दध्यादिव्यजनवशाद् वन्धनेऽनुकूलो भवति तदा कर्मण एव कर्तृत्वमिति वोध्यम् ॥—प्रासेति किमिति । प्रासकर्मकर्तृकस्येति किमर्थमित्यर्थः
Bālamanoramā
क्षियो दीर्घात् - क्षियो दीर्घात् । दीर्घादितिक्षियो विशेषमं । तदाह — दीर्घात्क्षिय इति । दीर्घान्तादित्यर्थः । निष्ठातस्य न इति ।रदाभ्या॑मित्यतस्तदनुवृत्तेरिति भावः । क्षीणवानिति । क्षिधातोः कर्तरि क्तवतुः, 'निष्ठायामण्यदर्थे' इति दीर्घः, तकारस्य नत्वम्, षात्परत्वाण्णः । क्षितः कामो मयेति । क्षपित इत्यर्थः । 'क्षि क्षये' इत्यस्मादन्तर्भावितण्यर्थात्कर्मणि क्तः । भावे तु क्षितं कामेनेत्युदाहार्यम् । अत्र ण्यदर्थयोर्भावकर्मणोर्विहिते क्ते दीर्घो न भवति, अण्यदर्थ इत्युक्तेः । दीर्घान्तत्वाऽभावात्क्षियो दीर्घा॑दिति नत्वं न । श्र्युकः कितीति । 'श्रित' इत्यादौ इण्निषेधस्मारकमिदम् । क्षुतैति । 'टु क्षु शब्दे' अस्मात्क्तः । ननु ऊर्णुत इति कथम्, अनेकाच्कत्वेनश्र्युक॑इति निषेधस्याऽप्रवृत्तेरित्यत आह — ऊर्णोतेर्नुवदिति । वार्तिकमिदम् ।
SK 3016 · A 8.2.42V
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ३०१६ ॥
radābhyāṃ niṣṭhāto naḥ pūrvasya ca daḥ
Siddhānta-kaumudī
रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् SK 2390 । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥
Bālamanoramā
रदाभ्यां निष्ठातो नः पूर्वस्य च दः - रदाभ्यां । रदाभ्यामित्यकारावुच्चारणाऽर्थौ । तदाह — रेफदकाराभ्यामिति । निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः । तदाह — निष्ठातस्येति । निष्ठातकारस्येत्यर्थः । नः स्यादिति । नकारः स्यादित्यर्थः । सूत्रे 'न' इति प्रथमान्तम् । अकार उच्चारणार्थः । दकारसय्चेतिनकार॑इत्यनुषज्यते । सूत्रे 'द' इति षष्ठन्तमिति भावः । चरितमुदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात् । रेफात्परस्योदाहरति — श इति । शृ धातोः क्तप्रत्ययसूचनमिदम् ।ननु कृतस्यापत्यं कार्तिः । अत इञ् , आदिवृद्धिः, रपरत्वम् । अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह — बहिरङ्गत्वेनेति । दात्परस्योदाहरति — छिन्नः भिन्न इति । अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः ।
SK 3017 · A 8.2.43V
संयोगादेरातो धातोर्यण्वतः ॥ ३०१७ ॥
saṃyogāderāto dhātoryaṇvataḥ
Siddhānta-kaumudī
निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥
Bālamanoramā
संयोगादेरातो धातोर्यण्वतः - संयोगादेः । निष्टातस्य नः स्यादति । शेषपूरणमिदम् । द्राण इति ।द्रा कुत्सायां गतौ॑अस्मात् क्तः, तनत्वम्, णत्वम् । ग्लान इति । 'ग्लै हर्षक्षये' 'आदेचः' इत्यात्त्वे नत्वम् । ल्वादिभ्य एकविंशतेरिति । क्र्यादिषु प्वादयो द्वाविंशति, तेषु आद्यं पूञं विहाय ल्वादिभ्य एकविंशतेरित्यर्थः । ज्येति । धातुसूचनम् । ग्रहिज्येति । संप्रसारणसूचनम् । जीन इति । ज्या- त इति स्थितेसंयोगादे॑रिति निष्टानत्वस्याऽसिद्धत्वात्ततः प्रागेव संप्रसारणे पूर्वरूपे च कृते आतः परत्वाऽभावात् 'संयोगादेरातः' इति नत्वस्याऽप्राप्तावनेन नत्वम् । दुग्वार्दीर्घश्चेति । वार्तिकमिदम् । दु गु आभ्यां परस्य निष्ठातस्य नत्वं प्रकृतेर्दीर्घश्च इत्यर्थः । 'मृदुतया दुतया' इति माघकाव्ये दुतशब्दं साधयितुमाह — टु दु उपतापे इत्यादि । गून इति । गुधातोः क्ते दीर्घः । पूञो विनाशे इति । वार्तिकमिदम् । विनाशार्थात् पूञः परस्य निष्ठातस्य नत्वमित्यर्थः । सिनोतेरिति । वार्तिकमिदम् । कर्मैव कर्ता कर्मकर्ता, ग्रासः कर्म कर्ता यस्यस ग्रासकर्मकर्तृकः, तस्मात् 'षिञ् बन्धने' इत्यस्मात्परस्य निष्ठातस्य नत्वमित्यर्थः ।
SK 3018 · A 8.2.44V
ल्वादिभ्यः ॥ ३०१८ ॥
lvādibhyaḥ
Siddhānta-kaumudī
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या -SK 2412 । जीनः ॥
vārttika
दुग्वोर्दीर्घश्च
(वार्तिकम्) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ।
vārttika
पूञो विनाशे
(वार्तिकम्) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ।
vārttika
सिनोतेर्ग्रासकर्मकर्तृकस्य
(वार्तिकम्) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥
Tattvabodhinī
alignment inferredNSP p. 512
—कर्मकर्तृकेति किमिति । प्रासकर्मकस्येत्येवास्तु कर्तृपदं किमर्थमित्यर्थः । कर्मपदं विहाय प्रासकर्तृकस्येत्युक्तौ तु प्रासेन कण्ठः सित इत्यत्रापि स्यादिति वोध्यम् ॥—भुग्न इति । भुजो कौटिल्ये । नलस्यासिद्धलात् झलि परतः कुलम् ॥—उच्छृन् इति । श्वयतेर्यजादिलात् संप्रसारणे पूर्वरूपे च ‘हलः’ इति दीर्घः ॥—प्रहीण इति । ‘धुमास्था—’ इति इलम् ॥—सून इति । पूङ् प्राणिप्रसवे ॥—दून इति । दूङ् परितापे
SK 3019 · A 8.2.45V
ओदितश्च ॥ ३०१९ ॥
oditaśca
Siddhānta-kaumudī
भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥
Tattvabodhinī
alignment inferredNSP p. 512
—ओदिन्मध्ये इति । यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नलार्थः पाठोऽनर्थकः स्यादिति भावः । न च ओदिन्मध्ये पाठसामर्थ्यादिदा व्यवधाने नत्वं भवेदिति वैपरीत्यं किं न स्यादिति शङ्काम् । लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यलात् । अन्ये तु सत्यपि इडागमे सर्वार्थादीर्घे चैकादेशस्य पूर्वान्तत्वेन प्रहणादिदा व्यवधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः ॥—संशयान इति । श्यैङ् गतावित्यस्य ‘आदेच—’ इत्यात्वे ‘संयोगादेरातः—’ इति निष्ठातस्य नः
Bālamanoramā
ओदितश्च - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् 'टु ओ इआ' इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, 'श्वीदितः' इति नेट्, 'हल' इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, 'कृत्यचः' इति णत्वम् । स्वादय इति । 'षूङ् प्राणिप्रसवे' इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । 'दूङ् परितापे' अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु 'डीङ् विहायसा गतौ' इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामर्थ्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।
SK 3020 · A 6.1.24V
द्रवमूर्तिस्पर्शयोः श्यः ॥ ३०२० ॥
dravamūrtisparśayoḥ śyaḥ
Siddhānta-kaumudī
द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥
Bālamanoramā
द्रवमूर्तिस्पर्शयोः श्यः - द्रवमूर्ति । 'श्यैङ् गतौ' इत्यस्य कृतात्वस्य 'श्य' इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते —
SK 3021 · A 8.2.47V
श्योऽस्पर्शे ॥ ३०२१ ॥
śyo'sparśe
Siddhānta-kaumudī
श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः - SK 2559 इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥
Bālamanoramā
श्योऽस्पर्शे - श्योऽस्पर्शे । श्यः- अस्पर्शे इति छेदः । दीर्घ इति । नत्वात्प्रागेव 'हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात् । शीनं घृतमिति । घनीभूतमित्यर्थः । धातूनामनेकार्थत्वात् । यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः । अस्पर्शे किमिति । श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः । शीतं जलमिति । शीतस्पर्शवदित्यर्थः । अत्रद्रवमूर्ती॑ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः । एवं चद्रवमूर्तिस्पर्शयो॑रित्स्य स्पर्शे इदमुदाहरणम् । 'श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम् । सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते । तत्र गुणभूते विशेष्यनिघ्नः । शीता आपः, शीतं जलमित्यादि । यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव ।शीतं गुणे॑इत्यमरः । #एसंप्रसारणविधौ पृच्छति — द्रमूर्तिस्पर्शयोः किमिति । संश्यान इति । अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम् । नत्वं तु भवत्येवेति भावः ।
SK 3022 · A 6.1.25V
प्रतेश्च ॥ ३०२२ ॥
prateśca
Siddhānta-kaumudī
प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥
Bālamanoramā
प्रतेश्च - प्रतेश्च । द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थः । अत्र 'श्योऽस्पर्शे' इति नत्वम् ।
SK 3023 · A 6.1.26V
विभाषाऽभ्यवपूर्वस्य ॥ ३०२३ ॥
vibhāṣā'bhyavapūrvasya
Siddhānta-kaumudī
श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥
Bālamanoramā
विभाषाऽभ्यवपूर्वस्य - विभाषा । 'श्यैङ' इति शेषः । संप्रसारणं वा स्यादिति । शेषपूरणमिदम् । द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम् । अभिश्यानं घृतमिति । अत्र द्रवमूर्तौ संप्रसारणविकल्पः । अवश्यानः अवशीनो वृश्चिक इति । अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः । समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽऽह - व्यवस्थितेति ।
SK 3024 · A 8.2.48V
अञ्चोऽनपादाने ॥ ३०२४ ॥
añco'napādāne
Siddhānta-kaumudī
अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने ॥
Bālamanoramā
अञ्चोऽनपादाने - अञ्चोऽनपादाने । न त्वपादाने इति । अपादानसमभिहव्याहारे असतीत्यर्थः ।
SK 3025 · A 7.2.15V
यस्य विभाषा ॥ ३०२५ ॥
yasya vibhāṣā
Siddhānta-kaumudī
यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा SK 3328 इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च - SK 294 इति षत्वे प्राप्ते ।
vārttika
निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः
(वार्तिकम्) ॥ वृक्णः । वृक्णवान् ॥
Tattvabodhinī
NSP p. 512–513
—यस्य विभाषा । यस्येत्यार्धधातुकापेक्षया षष्ठी । यदीयस्यार्धधातुकस्येत्यर्थः ॥ समक्त इति । अङ्गु गतिपूजनयोः संपूर्वः, नलस्यासिद्धलात् झलि परतः कुलम् ॥—उदकमिति । उद्धृतमित्यर्थः । व्यक्तमित्येतत्तु अङ्गु व्यक्तीत्यस्य न लब्धेः । तेनात्र नलाभावः ॥—वृक्षण इति । ओत्रधू छेदने, ‘प्रहिज्या—’ इति संप्रसारणम् । नलस्यासिद्धलात् ‘स्कोः—’ इति सलोपः ‘चोः कुः’ इति कुत्वं च । ऊदित्वेन वेद्भलात् ‘यस्य विभाषा’ इति निष्ठाया इडभावः । उद्धित्विलादेशविनामेषु । कर्मकदेशस्यापि वर्णत्वेन प्रहणादिकारकदेशो रफो निमित्तमिति ‘अट्कुप्वाङ्—’ इति नस्य णलम् । णलस्य विनाम इति प्राचां संज्ञा । ऋवर्णान्नस्य णलमिति यथाश्रुतपक्षेऽपि णलनिषेधार्थं श्रुभ्रादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्यापि ‘अद्रुक्प्वाङ्’ इति णत्वं भवत्येवेति दिक्
Bālamanoramā
यस्य विभाषा - यस्य विभाषा । यस्येति । यस्मादित्यर्थः । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तत इति भावः । नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह — उदितो वेति । समन्क इति । सङ्गत इत्यर्थः । संपूर्वादञ्चुधातोः क्तः ।आर्धधातुकस्ये॑डिति प्राप्तस्य इटो निषेधः ।अनिदिता॑मिति नलोप- । चस्य कुत्वम् । उदक्तमुदकं कूपादिति । उद्धृतमित्यर्थः । अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः । 'ओ व्रश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः,ग्रहिज्ये॑ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिहयस्य विभाषे॑ति नेट्, चस्य कुत्वेन कः,ओदिश्चे॑ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात्स्को॑रिति सलोपः णत्वम् । वृक्ण इति रूपमिति स्थितिः । तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात्व्रश्चे॑ति षत्वं स्यादित्यत आह — निष्ठादेशः षत्वेति । तथा च 'व्रश्चभ्रस्जे' ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः । स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि ।
SK 3026 · A 8.3.75V
परिस्कन्दः प्राच्यभरतेषु ॥ ३०२६ ॥
pariskandaḥ prācyabharateṣu
Siddhānta-kaumudī
पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च SK 2399 इति विकल्पः । स्तम्भेः SK 2272 इति षत्वे प्राप्ते ॥
Tattvabodhinī
NSP p. 513
—परिस्कन्दः । अचि निपातनम् । अथ वा निष्ठातकारस्य लोप इति काशिका ॥—द्यून इति । ‘च्छ्वोः शूङ्’ इत्यूद् । क्षीण इत्यर्थः ॥—द्यूतमिति । विजिगीषया हि तत्राक्षाः पात्यन्ते इति गम्यते विजिगीषा
Bālamanoramā
परिस्कन्दः प्राच्यभरतेषु - परिस्कन्दः प्राच्यभरतेषु ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकारे इदं सूत्रम् । पूर्वेणेति ।परेश्चे॑ति पूर्वसूत्रम् । परेः परस्य स्कन्देः सस्य षो वा स्यादिति तदर्थः । तेन षत्वविकल्पे प्राप्त प्राच्यभरतेषु षत्वाऽभावो निपात्यत इत्यर्थः । परिस्कन्द इति । परिपूर्वात् स्कन्देर्निष्ठायास्तकारलोपः ।
SK 3027 · A 8.3.114V
प्रतिस्तब्धनिस्तब्धौ च ॥ ३०२७ ॥
pratistabdhanistabdhau ca
Siddhānta-kaumudī
अत्र षत्वं न स्यात् ॥
SK 3028 · A 8.2.49V
दिवोऽविजिगीषायाम् ॥ ३०२८ ॥
divo'vijigīṣāyām
Siddhānta-kaumudī
दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ॥
Bālamanoramā
दिवोऽविजिगीषायाम् - दिवो ।अविजिगीषाया॑मिति च्छेदः । द्यून इति । स्तुत इत्यर्थः ।च्छ्वो॑रित्यूठ् । विजिगीषायां तु द्यूतमिति । द्यूतस्य विजिगीषया प्रवृत्तेरिति भाव- ।
SK 3029 · A 8.2.50V
निर्वाणोऽवाते ॥ ३०२९ ॥
nirvāṇo'vāte
Siddhānta-kaumudī
अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥
Tattvabodhinī
NSP p. 513
—निर्वाणोऽवाते । वा गतिगन्धनयोः, निर्पूर्वादसान्निष्ठातस्य नत्वे णलम् ॥—वातश्चेत्कर्ता नेति । एवं च वातेन हेतुना निर्वाणो दीप इत्यत्र निषेधो नेत्याहुः ॥—निर्वात इति । ‘गत्यर्थाकर्मक’ इति कर्तरि क्तः । नितरां वातो गत इत्यर्थः ॥—शुष्क इति । शुष शोषणे ॥—क्षाम इति । क्षै क्षये । ‘आदेचः’ इत्यालम् ॥—प्रस्तीमः । प्रस्तीत इति । स्त्यै ष्ट्यै शब्दसंघातयोः । आत्वे कृते ‘संयोगादेः’ इत्यस्यासिद्धलात्पूर्वं संप्रसारणे पूर्वरूपे च कृते ‘हलः’ इति दीर्घः पश्चाद्यण्वलादन्तलयोर्विरहान्न नलम् । संस्त्यान इत्यत्र तु भवत्येव ॥—क्षीवादिष्विति । क्षीवृ मदे, कृश तनुत्वे, लाघृ शक्ताद्युत्पूर्वः, एभ्यः क्तः ॥ ननु फुल्ल विकसन इत्यस्मादुल्लाघेश्व पचाद्यचि इतराभ्यामियुपधलक्षणे कप्रत्यये च फुल्लादयः सिद्ध्यन्ति तत्किं सूत्रेणेत्यत आह—सूत्रं त्विति । निवृत्त्यर्थमित्युपलक्षणम् । फुल्लवानिति रूपस्य ‘निष्ठा च द्यजनात्’ इत्याद्युदात्तस्य च सिद्ध्यन्ति वोध्यम् ॥—उत्फुल्लसंफुल्लयोरिति । यद्यपि प्रफुल्ल इति वत् फुल्लेः पचाद्यचा सिद्धं, तथापि उत्फुल्ल संफुल्ल इति प्रयोगनिवृत्त्यर्थं वचनम्
Bālamanoramā
निर्वाणोऽवाते - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन ।
SK 3030 · A 8.2.51V
शुषः कः ॥ ३०३० ॥
śuṣaḥ kaḥ
Siddhānta-kaumudī
निष्ठात इत्येव । शुष्कः ॥
Bālamanoramā
शुषः कः - शुषः कः । निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् ।
SK 3031 · A 8.2.52V
पचो वः ॥ ३०३१ ॥
paco vaḥ
Siddhānta-kaumudī
पक्वः ॥
Bālamanoramā
पचो वः - पचो वः । पचेः परस्य निष्टातस्य वः स्यादित्यर्थः । पक्व इति । वत्वस्याऽसिद्धत्वात्कुत्वम् ।
SK 3032 · A 8.2.53V
क्षायो मः ॥ ३०३२ ॥
kṣāyo maḥ
Siddhānta-kaumudī
क्षामः ॥
Bālamanoramā
क्षायो मः - क्षायो मः । 'क्षै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः । क्षाम इति । 'आदेचः' इत्यात्वम् ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । क्षीण इत्यर्थः । अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः ।
SK 3033 · A 6.1.23V
स्त्यः प्रपूर्वस्य ॥ ३०३३ ॥
styaḥ prapūrvasya
Siddhānta-kaumudī
प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥
Bālamanoramā
स्त्यः प्रपूर्वस्य - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य 'स्त्य' इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घे प्रस्ती- त इति स्थिते —
SK 3034 · A 8.2.54V
प्रस्त्योऽन्यतरस्याम् ॥ ३०३४ ॥
prastyo'nyatarasyām
Siddhānta-kaumudī
निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥
Bālamanoramā
प्रस्त्योऽन्यतरस्याम् - प्रस्त्योऽन्यतरस्याम् । 'प्रस्त्य' इति पञ्चमी । प्रपूर्वात्स्यैधातोरित्यर्थः । 'निष्ठातस्य म' इति शेषः । प्रस्तीम इति । सङ्गीभूत इत्यर्थः ।
SK 3035 · A 8.2.55V
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ॥ ३०३५ ॥
anupasargāt phullakṣībakṛśollāghāḥ
Siddhānta-kaumudī
ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥
Bālamanoramā
अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः - अनुपसर्गात् । एते निपात्यन्ते, उपसर्गात्परा न चेदित्यर्थः । लत्वमिति ।आदितश्चे॑ति इडभावः,ति चे॑त्युत्त्वं च सिद्धमिति भावः । 'फल निष्पत्तौ' इत्यस्य तु नाऽत्र ग्रहणम्, इडभावस्याऽपि निपात्यत्वापत्तेः । ननु क्तवतुप्रत्यये फुल्लवानिति कथं, क्तवतुप्रत्यये क्तस्याऽनर्थकत्वेन फुल्लशब्देनाऽग्रहणादित्यत आह — क्तवत्वेकदेशस्यापीति । क्षीबादिष्विति । क्षीबकृशोल्लाघेष्वित्यर्थः । क्तप्रत्ययस्यैवेति । नतु क्तवत्वेकदेशस्यापीत्यर्थः । अनर्थकत्वादित भावः । तस्येति । तलोपस्येत्यर्थः । क्षीबो मत्त इति । क्षीबेः क्तः, तलोपः, इडभावश्च । अत्र मत्तादिरेवार्थः, निपातनबलात् । अनुपसर्गात्किमिति । अत्र 'प्रफुल्त' इति प्रत्युदाहरणं विवक्षंस्तत्र विशेषमाह —
SK 3036 · A 7.2.16V
आदितश्च ॥ ३०३६ ॥
āditaśca
Siddhānta-kaumudī
आकारेतो निष्ठाया इण्न स्यात् ॥
Bālamanoramā
आदितश्च - आदितश्च । निष्ठाया इण्न स्यादिति । 'श्वीदितः' इत्यतो निष्ठायामिति,नेड्वशी॑त्यतो नेडिति चानुवर्तते इति भावः । ति च । 'चरफलोश्चे' ति सूत्रानुवृतिंत मत्वाह — चरलोरिति । अत उत्स्यादिति । 'उत्परस्याऽतः' इत्यतस्तदनुवृत्तेरिति भावः । कितीति ।दीर्घ इणः किती॑त्यतो मण्डूकप्लुप्त्या तदनुवर्तते इति भावः । वस्तुतस्तु कितीत्यनुवृत्तिर्निर्मूला, निष्पला च, तयोः सेट्कत्वेन निष्ठां विना तकारादिप्रत्ययाऽभावात् । कथं तर्हीति । प्रफुल्लमित्यस्य सोपसर्गत्वेन निष्ठातस्य लत्वाऽसंभवादिति भावः । समाधत्ते — फुल्लेति । ननु फुल्लेः पचाद्यचैव फुल्ल इत्यस्य सिद्धेः फुल्ल इत्यस्य निपातनं व्यर्थमित्यताअह — सूत्रं त्विति । उत्फुल्लसंफुल्ल्योरिति ।निष्ठातस्य लत्वनिपातन॑मिति शेषः । सोपसर्गार्थं वचनम् ।
SK 3037 · A 7.4.89V
ति च ॥ ३०३७ ॥
ti ca
Siddhānta-kaumudī
चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥
SK 3038 · A 8.2.56V
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ॥ ३०३८ ॥
nudavidondatrāghrāhrībhyo'nyatarasyām
Siddhānta-kaumudī
एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥
Tattvabodhinī
NSP p. 513
— नुद विदो— ‘रदाभ्यां’ ‘संयोगादेरातः’ इति नित्ये प्राप्ते हीत्यस्याप्राप्ते उभयत्र विभाषेयम् ॥—वेत्तेस्त्विति । तथा च भाष्यम् । ‘वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । वेत्तेर्विन्नश्च वित्तश्च भोगे वित्तश्च विन्दते’ इति ॥—नुन्नः नुत्त इति । ‘अनिदिताम्’ इति नलोपः
Bālamanoramā
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् - नुदविदोन्द । ह्यीधातोरप्राप्ते, इतरेभ्यो नित्यं प्राप्ते न्तवविकल्पोऽयम् । रौधादिक इति । 'विद विचारणे' इत्ययमित्यर्थः । वेत्तेस्त्विति । 'विद ज्ञाने' इत्यस्येत्यर्थः । अयं सेट्, अनिट्केष्वनन्तर्भावात् । तदाह — विदित इति । अत्र निष्ठातस्य इटा व्यवहितत्वान्नत्वं नेति भावः । विद्यतेर्विन्न इति ।विद सत्ताया॑मित्ययमनिट् ।रदाभ्या॑मिति नित्यं नत्वमिति भावः । उन्दीति । उदाहरणसूचनम् ।
SK 3039 · A 7.2.14V
श्वीदितो निष्ठायाम् ॥ ३०३९ ॥
śvīdito niṣṭhāyām
Siddhānta-kaumudī
श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः । उत्तः । त्राणः । त्रातः । घ्राणः । घ्रातः । ह्रीणः । ह्रीतः ॥
Bālamanoramā
श्वीदितो निष्ठायाम् - श्वीदितो निष्ठायाम् । इआ, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी ।नेड्वशी॑त्यतो नेडित्यनिवर्तते । तदाह -आयतेरिति ।
SK 3040 · A 8.2.57V
न ध्याख्यापॄमूर्छिमदाम् ॥ ३०४० ॥
na dhyākhyāpṝmūrchimadām
Siddhānta-kaumudī
एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः SK 2655 । मूर्तः । मत्तः ॥
Tattvabodhinī
NSP p. 513–514
—न ध्या— ध्यै चिन्तायाम् । ख्या प्रकथने । पृ पालनपूरणयोः । मूच्छां मोहसमुच्छ्राययोः । मदी हर्षं ॥—पूर्त इति । ‘श्रुकः किति’ इति इण् नेषेधः । लोपविधिं स्मारयति—राल्लोप इति ॥—मूर्त इति । ‘आदितश्च’ इति नेद् ॥—मत्त इति । ‘श्वीदितः’ इति नेद् ॥ वित्तेर्ज्ञानार्थकाद्विदेरिटा भाव्यं सत्तार्थकविदेर्विचारणार्थकविदेश्च भोगप्रत्यययोर्वर्जितं संभवतीत्याशयेनाह—विन्दतेरिति । विद् लाभ इत्यस्येत्यर्थः । भुज्यत इति भोगः । प्रतीयत इति प्रत्यय इति कर्मसाधनावेताविति व्याचष्टे—भोग्ये प्रतीते चार्थ इति
Bālamanoramā
न ध्याख्यापॄमूर्छिमदाम् - न ध्याख्या । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । ध्यात इति । ध्यैधातोः क्तः । 'आदेचः' इत्यात्वम् । अत्र 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यात इति । ख्याञादेशपक्षे यण्वत्त्वात् 'संयोगादेरातः' इति प्राप्तं नत्वं न । ख्यादेशस्य शस्य यत्वे तु यस् णत्वप्रकरणगतस्याऽसिद्धत्वाद्यण्वत्त्वाऽभावात् 'संयोगादेरातः' इति नत्वस्य न प्रसक्तिः । स्वतः सिद्धख्याधातोस्तु आर्धधातुके प्रयोगो नाऽस्त्येवेति ख्याग्रहणं व्यर्थमेव । पूर्त इति । पृधातोः क्तः ।श्र्युकः किती॑ति नेट् ।उदोष्ठपूर्वस्ये॑ति उत्त्वं,रपरत्वम् । इहरदाभ्या॑मिति प्राप्तं नत्वं न । मुर्छाधातोः क्ते आह — राल्लोप इति । छस्य लोप इति भावः । मूर्त इति ।आदितश्चे॑ति नेट् । छलोपेरदाभ्या॑मिति प्राप्तं नत्वं न ।हलि चे॑ति दीर्घः । मत्त इति । 'मदी हर्षग्लेपनयोः' अस्मात् क्तः । 'श्वीदितः' इति नेट् । अत्ररदाभ्या॑मिति प्राप्तं नत्वं न ।
SK 3041 · A 8.2.58V
वित्तो भोगप्रत्यययोः ॥ ३०४१ ॥
vitto bhogapratyayayoḥ
Siddhānta-kaumudī
विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन -SK 3099 इति क्वसौ वेट्त्वादिह नेट् ॥
Bālamanoramā
वित्तो भोगप्रत्यययोः - वित्तो भोग । भुज्यत इति भोगः — भोग्यम् । प्रतीयते इति प्रत्ययः — प्रख्यातः । अत्र विन्दतेरेव ग्रहणमिति भाष्ये स्पष्टम् । तदाह — विदन्तेरिति । निपातोयमिति । 'नुदविदोन्दे' ति प्राप्तस्य पाक्षिकनत्वस्य अभावनिपातनमित्यर्थः । तस्य भोगप्रत्यययोः कदाऽपि नत्वं नेत्यर्थः । प्रतीते इति । प्रख्याते इत्यर्थः । वित्तः पुरुष इति । प्रख्यात इत्यर्थः । विन्न इति । लब्धश्चोरादिरित्यर्थः । अत्रयस्य विभाषे॑ति इण्निषेदमुपपादयति — विभाषा गमेति । 'एकाच' इति निषेधाच्चेत्यपि बोध्यम् ।
SK 3042 · A 8.2.59V
भित्तं शकलम् ॥ ३०४२ ॥
bhittaṃ śakalam
Siddhānta-kaumudī
भिन्नमन्यत् ॥
Tattvabodhinī
NSP p. 514
—भित्तं शकलम् । भिदेः के ‘रदाभ्याम्’ इति प्राप्तनलस्याभावो निपात्यते । ‘भित्तं शकलखण्डे वा’ इत्यमरः ॥—भिन्नमन्यादिति । विदीर्णमित्यर्थः
Bālamanoramā
भित्तं शकलम् - भित्तं शकलम् । शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते । शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम् । ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः । भिदिक्रियाविवक्षायां तुभित्तं भिन्न॑मिति भवतीति भाष्ये स्पष्टम् ।
SK 3043 · A 8.2.60V
ऋणमाधमर्ण्ये ॥ ३०४३ ॥
ṛṇamādhamarṇye
Siddhānta-kaumudī
ऋधातोः क्ते तकारस्य नत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥
Tattvabodhinī
NSP p. 514
—ऋण-माधमर्ण्ये । अधमं दुःखप्रदमृणमस्य सोऽधमर्णः तस्य भाव आधमर्ण्यं तेन व्यवहारविशेषो लक्ष्यते । ततश्च उत्तमर्णोऽपि सिध्यतीत्याशयेन व्याचष्टे—अधमर्णव्यवहार इति । स व्यवहारो दातृप्रहीन्नोः संबन्धो भवतीत्युत्तमर्णोऽपि प्रयोगो न विरुध्यते । लक्षणायां तु ‘धारेरुत्तमर्णः’ इति निर्देशो लिङ्गम्
Bālamanoramā
ऋणमाधमर्ण्ये - ऋणमाधमण्र्ये । अधमर्णस्य कर्म - आधमण्र्यम् । आधमण्र्यव्यवहारे इति । स च अन्यदीयं द्रवयं गृहीतमियता कालेन इयत्या वृद्ध्या प्रतिदीयते इति संविद्रूपः, तस्मिन्विषये इत्यर्थः । ऋतमन्यदिति । सत्यमित्यर्थः ।
SK 3044 · A 6.1.22V
स्फायः स्फी निष्ठायाम् ॥ ३०४४ ॥
sphāyaḥ sphī niṣṭhāyām
Siddhānta-kaumudī
स्फीतः ॥
Tattvabodhinī
NSP p. 514
—स्फायः स्फी—स्फायी वृद्धौ । कथं तर्हि स्फीतिकामं इति । स्फीतमाचष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ ॥—यस्येति । ‘निरः कुषः’ इति विकल्पिते द्लादिति भावः ॥—उषित इति । यजादिलात्संप्रसारणम् । ‘शासिवसि’—इति षः । वसतीति शपा निर्देशः स्पष्टार्थः । वस्तेः सेङ्गलाद्भवि-तव्यमेवेदा ॥—शुधित इति । एवं च ‘तस्यालमेषा शुधितस्य’ इति प्रयोगो निर्वाध एवेति शुधेर्धातोर्भावे किपि ‘तार-कादिलादितच्’ इति धातुवृत्तिषु यदुक्तं तन्नादर्तव्यम् । समानन्यायतया कुधितादायुपयोक्ष्यत इति वा कथंचिन्नेयम् ॥—अश्वेः—उदित्त्वात् क्लायां विकल्पे प्राप्ते निष्ठायां ‘यस्य विभाषा’ इति निषेधे प्राप्ते वचनम् ॥—अश्वित इति । ‘नाम्नेः पूजायाम्’ इति नलोपनिषेधः ॥—अक्त इति । ‘अनिदिताम्’—इति नलोपः
Bālamanoramā
स्फायः स्फी निष्ठायाम् - स्फायः स्फी । 'स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः ।
SK 3045 · A 7.2.47V
इण्निष्ठायाम् ॥ ३०४५ ॥
iṇniṣṭhāyām
Siddhānta-kaumudī
निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा SK 3025 इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥
Bālamanoramā
इण्निष्ठायाम् - इण्निष्ठायाम् । 'निरः कुषः' इति सूत्रमनुवर्तते । तदाह — निर इति । ननुआर्धधातुकस्ये॑डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — यस्येति । कुषधातोस्तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेट्कत्वात्यस्य विभाषे॑ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः । इडित्यनुवर्तमाने पुनरिड्ग्रहणं तुस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्तये ।
SK 3046 · A 7.2.52V
वसतिक्षुधोरिट् ॥ ३०४६ ॥
vasatikṣudhoriṭ
Siddhānta-kaumudī
आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥
Bālamanoramā
वसतिक्षुधोरिट् - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः ।
SK 3047 · A 7.2.53V
अञ्चेः पूजायाम् ॥ ३०४७ ॥
añceḥ pūjāyām
Siddhānta-kaumudī
पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥
Bālamanoramā
अञ्चेः पूजायाम् - अञ्चेः पूजायाम् ।उदितो वे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । अञ्चित इति ।नाऽञ्चेः पूजाया॑मिति नलोपनिषेधः ।
SK 3048 · A 7.2.54V
लुभो विमोहने ॥ ३०४८ ॥
lubho vimohane
Siddhānta-kaumudī
लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥
Tattvabodhinī
NSP p. 514
—लुभो—‘तीषसह’—इति क्लायां विकल्पे निष्ठायां निषेधे च प्राप्ते वचनम्
Bālamanoramā
लुभो विमोचने - लुभो विमोहने । 'लुभ' इति पञ्चमी । 'लुभ विमोहने' तुदादिः ।विमोहनं व्याकुलीकरण॑मिति वृत्तिः । 'लुभ गाध्र्ये' दिवादिः । अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात् । नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात् । तदाह — न तु गाध्र्ये इति ।तीषसहे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । लुभित इति । विमोहित इत्यर्थः । गाध्र्ये तु लुब्ध इति । अभिकाङ्क्षवानित्यर्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति कर्तरि क्तः ।
SK 3049 · A 7.2.50V
क्लिशः क्त्वानिष्ठयोः ॥ ३०४९ ॥
kliśaḥ ktvāniṣṭhayoḥ
Siddhānta-kaumudī
इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥
Bālamanoramā
क्लिशः क्त्वानिष्ठयोः - क्लिशः क्त्वानिष्ठयोः ।इड्वा स्या॑दिति शेषः ।स्वरति सूती॑त्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति ।आर्धधातुकस्येड्वलादे॑रित्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति ।यस्य विभाषे॑त्यनेनेति भावः ।
SK 3050 · A 7.2.51V
पूङश्च ॥ ३०५० ॥
pūṅaśca
Siddhānta-kaumudī
पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥
Tattvabodhinī
NSP p. 514
—पूङ्कश्च । ‘भ्रुकः किति’ इति निषेधे प्राप्ते वचनम्
Bālamanoramā
पूङश्च - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । 'श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम् ।
SK 3051 · A 1.2.22अकित्त्वातिदेशः
पूङः क्त्वा च ॥ ३०५१ ॥
pūṅaḥ ktvā ca
Siddhānta-kaumudī
पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात् - SK 3324 इत्यत्र हि क्त्वैव संबध्यते ॥
Tattvabodhinī
NSP p. 514–515
—पूङः क्त्वा च । ‘न क्ला सेद’ इत्यनेनैव सिद्धे क्लाग्रहणमिह व्यर्थमित्यत आह—उत्तरार्थमिति ॥—क्त्वैवेति । नतु निष्ठा चानुकृष्ट-लादिति भावः ॥—शेक्ष्यित इति । ‘एरनेकाचः’—इति यण् ॥—आदिकर्मणीति । आवेषु क्षणेषु भूतेषु सर्वस्याः न्यथा तक्रकौण्डिन्यन्यायेन भावकर्मणोर्न स्यादिति भावः ॥—प्रस्वेदित इति । प्रशब्द आदिकर्मयोतनार्थः, स्वेदितमि-त्यादि भावे ॥—भ्वादिरत्रेति । ‘जिष्विदा ल्लेहनमोचनयोः’ इति पठितः ॥—स्विद्यतेस्त्विति । ‘जिवदा गात्रप्रक्ष-रणे’ इति दिवादिषु पठितस्य स्विदित इत्येवेति कित्त्वनिषेधाभावादिति भावः । न च जिवेति दैवादिकोऽपि जीदिति वा-व्यक्तो शब्दे इति भ्वादिरपि, मिदिना साहचर्यादित्याह । तच्चिन्त्यम् । भ्वादिष्वापि मिदेः पठ्यमानत्वात् । तस्मादविशेषादु-त्यादिकर्मणि निष्ठोदाहृता ॥—अविस्पष्टमिति । यूपे धातोस्तितिक्षायामेव वृत्तिसत्त्वेऽपि सूत्रस्थतितिक्षाग्रहणमेव ज्ञा- पयलंनेकार्था धातव इति ॥—रुचितमिति । रुच दीप्तौ । ‘गल्यर्थाकर्मकं’ इति कर्तरि च्कः ॥—कुष्टमिति । कुश आह्वाने रोदने च । ब्रह्मादिना षत्वे पुलम् ॥—गुधितमिति । गुध परिवेष्टने दिवादिः ॥—संप्रसारणमिति । ‘वचिखपी’ल्यनेन ॥—शून् इति । दुओश्वि गतिवृद्ध्योः । ‘हलः’ इति दीर्घः ‘ओदितश्च’ इति निष्ठातस्य नः ॥—गूढ इति । ‘यस्य विभाषा’ इति नेद् ढलधलपुलढलोपदीर्घाः ॥—वतः ततः इति । ‘अनुदात्तोपदेश—इति नलोपः ॥—सनि वेङ्कत्वादिति । ‘तनिपतिदरिद्रातिभ्यः सनो वा इङ्गाच्यः’ इति वचनात् ॥—कृन्त-त्यादीनामिति । ‘श्वीदित—’ इति निष्ठायामनिदकार्यं कृती छेदने, तृती हिंसाग्रन्थनयोः, तृती गात्रविक्षेपे, इत्येतेषामी-दित्त्वकरणेन ‘यस्य विभाषा’ इत्यस्यानित्यलज्ञापनाद्वा पतित इति सिद्धमित्यर्थः ॥—श्रुढध—। श्रुभ संचलने ‘झषस्त-थोः—’ इति धलम् । स्वन ध्वन शब्दे । इडभावे ‘अनुनासिकस्य क्विझलोः—’ इति दीर्घः । लगे सङ्गे, म्लेच्छ अव्यक्ते शब्दे, ‘ब्रह्म—’ इति षत्वे पुलम् । रेम् शब्दे, फण गतौ । दीर्घः पुलम् । वाह प्रयत्ने । इडभावे ढलधलपुलधलोपाः । अनायास-शब्देन तत्साध्यो लक्ष्यत इत्याह—अनायाससाध्य इति । ‘श्रुण्णमौषधजातमुष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूला य-त्पीयते तत्फाण्टम्’ इत्याहुः ॥—वेदभाष्ये इति । ‘तद्वै नवनीतं भवति घृतं देवनां फाण्टं मनुष्याणाम्’ इति शतपथ-श्रुतेर्व्याख्यायामित्यर्थः ॥—अन्यत्र त्विति । मन्थादेरवाच्यत्वे त्वित्यर्थः ॥—धृषिशासी—। विधृषा प्रागल्भ्ये । शस्तु हिंसायाम् । अनयोः ‘आदितश्च’ ‘यस्य विभाषा’ इति सूत्राभ्यामिदप्रतिषेधे सिद्धेऽप्यनयोर्वैयात्य एवानिदत्तं नान्यत्रेति नियमार्थमित्याह—अविनये एवेति । विरुद्धं यातो वियातः अविनीतस्तस्य भावो वैयात्यम् । ननु धृषेः ‘विभाषा भा-वादिकर्मणोः’ इति विकल्पे प्राप्ते नित्यार्थं कस्मान्न भवतीत्याशङ्कायामाह—नास्तीति । अनभिधानादिति भावः । अत्र प्रमाणमाह—अत एवेति ॥—माधवस्त्विति । एवं च आदित्वस्य फलवत्त्वात् हरदत्तोक्तं यच्चिन्त्यं तेदेव चिन्त्य-मिति भावः
Bālamanoramā
पूङः क्त्वा च - पूङः क्त्वा च ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति,निष्ठा शीङित्यतो निष्टेति च । तदाह — पूङः क्त्वा निष्ठा चेत्यादि । ननुन क्त्वा से॑डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह — क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति — नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा ।पूङश्चे॑त्येवोक्तौ तु 'निष्ठा शी' ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः ।
SK 3052 · A 1.2.19अकित्त्वातिदेशः
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ ३०५२ ॥
niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ
Siddhānta-kaumudī
एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् ।
vārttika
आदिकर्मणि निष्ठा वक्तव्या
(वार्तिकम्) ॥
Bālamanoramā
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः - निष्ठा शीङ् ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति च । तदाह — एभ्यः सेडिति । शीङिति ङकारस्य फलमाह — अनुबन्धेति । यङ् लुकि॒श्तिपा शपे॑ति निषेधार्थ इत्यर्थः । सेश्यितवानिति । अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः । आदिकर्मणि निष्ठा वक्तव्येति । दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म । तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः । तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः ।
SK 3053 · A 3.4.71V
आदिकर्मणि क्तः कर्तरि च ॥ ३०५३ ॥
ādikarmaṇi ktaḥ kartari ca
Siddhānta-kaumudī
आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥
Bālamanoramā
अदिकर्मणि क्तः कर्तरि च - आदिकर्मणि क्तः कर्तरि च । चाद्भावकर्मणोरिति ।तयोरेव कृत्ये॑त्यतस्तदनुवृत्तेरिति भावः ।प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः॑ इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः ।
SK 3054 · A 7.2.17V
विभाषा भावादिकर्मणोः ॥ ३०५४ ॥
vibhāṣā bhāvādikarmaṇoḥ
Siddhānta-kaumudī
भावे आदिकर्मणि चादितो निष्ठाया इड्वा स्यात् । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञीद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा । ञिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥
Bālamanoramā
विभाषा भावादिकर्मणोः - विभाषा भावादिकर्मणोः । आदितो निष्ठाया इड्वेति ।आदितश्चे॑त्यत आदित इति, 'श्वीदितः' इत्यतो निष्ठाग्रहणं ,नेड्वशी॑त्यतो नेति चानुवर्तते इति भावः । निषेधस्य वैकल्पिकत्वात्पक्षे इडभ्यनुज्ञायते । प्रस्वेदितश्चैत्र इति । चैत्रकर्तृका आरभ्यमाणप्रस्वेदनक्रियेत्यर्थः । ञीद्भिरिति । ञिरिद्येषां ते ञीतः, तैर्मिदिप्रभृतिभिरिति तदर्थः । स विषयः कित्त्वप्रतिषेधस्येति बोध्यम् । स्विद्यतेस्त्विति ।ञि ष्विदा गात्रप्रक्षरणे॑ इति दैवादिकस्यैव कित्त्वनिषेधविधौ ग्रहणमित्यर्थः । स्विदित इति ।विभाषा भावे॑ति पक्षे इट् । कित्त्वनिषेधविधौ स्विद्यतेग्र्रहणाऽभावात्कित्त्वान्न गुण- । अत्र स्विदादीनाम्आदितश्चेति इट् प्रतिषिध्यते । भावादिकर्मणोस्तु पक्षे इट् ।
SK 3055 · A 1.2.20अकित्त्वातिदेशः
मृषस्तितिक्षायाम् ॥ ३०५५ ॥
mṛṣastitikṣāyām
Siddhānta-kaumudī
सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥
Bālamanoramā
मृषस्तितिक्षायाम् - मृषस्तितिक्षायाम् । तितिक्षा — क्षमा । सेण्निष्ठा किन्नेति — शेषपूरणमिदम् ।निष्ठा शी॑ङित्यतो निष्ठेति,न क्त्वा से॑डित्यतः सेण्नेति,असंयोगा॑दित्यतः किदिति चानुवर्तत इति भावः ।
SK 3056 · A 1.2.21अकित्त्वातिदेशः
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ ३०५६ ॥
udupadhādbhāvādikarmaṇoranyatarasyām
Siddhānta-kaumudī
उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् ।
vārttika
शब्विकरणेभ्य एवेष्यते
(वार्तिकम्) ॥ नेह । गुध्यतेर्गुधितम् ॥
Bālamanoramā
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् - उदुपधाद्भावादिकर्मणोः । भावे उदाहरति — मुदितमित्यादि । आदिकर्मण्युदाहरति — प्रद्युतितः प्रद्योतितः साधुरिति । आदिकर्मणि कर्तरि क्तः । उदुपधात्क , विदितमिति.॒विद ज्ञानेट इति वेत्तेः रूपम् । गुध्यतेर्गुधितमिति ।गुध परिवेष्टने॑दिवादिः सेट्कः ।
SK 3057 · A 6.4.52V
निष्ठायां सेटि ॥ ३०५७ ॥
niṣṭhāyāṃ seṭi
Siddhānta-kaumudī
णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः - SK 3039 इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित - SK 686 इति सूत्रे वेट्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा SK 3025 इत्यत्रैकाच इत्येव । दरिद्रतः ॥
Bālamanoramā
निष्ठायां सेटि - निष्ठायां सेटि । णेर्लोपः स्यादिति । सेषपूरणमिदम् ।णेरनिटी॑त्यतो णेरिति, 'आतो लोपः' इत्स्माल्लोप इति चानुवर्तते इति भावः । 'अनिटी' ति निषेधादप्राप्ते आरम्भः ।टु ओ इआ गतिवृद्ध्योः॑ अस्मात् क्ते आह श्वीदित इति नेडिति । संप्रसारणमिति । यजादित्वादिति भावः । संप्रासरणे सति पूर्वरूपे 'हलः' इति दीर्घेओदितश्चे॑ति निष्ठानत्वे रूपमाह — शून इति । यद्यपि मूलेओदितश्चे॑त्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः । अत्र अलविधित्वेऽपि 'हल' इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम् । न च नित्यत्वात्संप्रसारणपूर्वरूपयोःश्र्युकः कितीत॑त्येव निषेधसिद्धेः इआग्रहमं व्यर्थमिति वाच्यम्,श्र्युकः किती॑त्यत्र 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवृत्तेः । तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ इआग्रहणम् । अत एवस्तीर्त्वे॑त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति — दीप्तैति । 'दीपी दीप्तौ' दिवादिः । ईदित्त्वान्नेट् । गूढ इति । ऊदित्त्वेन वेट्कत्वात्यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वनु वतः । तनु तत इति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति नेट् ।अनुदात्तोपदेशे॑ति नकालोपः । पतेः सनीति । 'पत्लृ गतौ' अस्यतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति सनि वेटक्त्वात्यस्य विभाषे॑ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः । 'पतित' शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति । एषांसेऽसिचि कृतचृतछृदतृदनृतः॑ इति सकारादौ वेट्कतयायस्य विभाषे॑त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः । ततश्च एषामीदित्करणात्यस्य विभाषे॑ति इण्निषेधस्य अनित्यत्वं विज्ञायते । एवं च कृतादीनांयस्य विभाषे॑ति इण्निषेधस्याऽभावसंभावनायां 'श्वीदितः' इण्निषेधार्थमीदित्त्वमर्थवत् ।तथा च पतितशब्देयस्य विभाषे॑त्यनित्यत्वान्न भवतीत्यर्थः । तेनेति ।यस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । 'स्वरतिसूती' धूञो वेट्कत्वेऽपियस्य विभाषे॑ति निष्ठायामिण्निषेधः स्यादित्यत आह — यस्य विभाषेत्यत्रेति ।
SK 3058 · A 7.2.18V
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ॥ ३०५८ ॥
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu
Siddhānta-kaumudī
क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टमनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥
Bālamanoramā
क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु - क्षुब्धस्वान्त । क्षुब्ध, स्वान्त, ध्वान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ एषामष्टानां द्वन्द्वात्प्रथमाबहुवचनम् । मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास, भृश एषामष्टानां द्वन्द्वात्सप्तमी । यथासङ्ख्यमन्वयः । समुदायेनेति । मन्थादिष्वेते रूढाः । अवयवार्थाऽभिनिवेशो न कर्तव्य इत्याह- द्रव्यद्रव्येति । अत्र याज्ञिकप्रसिद्धिरेव शरणीकर्तव्या । मन्थनदण्डश्चेति ।वैशाखमन्थमन्थानमन्थानोमन्थदण्डके॑ इत्यमरः । क्षुब्ध इति । 'क्षुभ संचलने' अस्मात् क्तः, इडभावो निपात्यते ।झषस्तथो॑रिति धः , जश्त्वम् । स्वान्तमिति । स्वनधातोः क्तः,अनुनासिकस्य क्वी॑ति दीर्घः । निपातनान्नेट् ।स्वान्तं ह्मन्मानसं मनः॑ इत्यमरः । ध्वान्तं तम इति ध्वनेः क्तः ।अनुनासिकस्य क्वी॑ति दीर्घः ।अन्धकारोऽस्त्रियां ध्वान्तं तमिरुआं तिमिरं तमः॑ इत्यमरः । लग्नं सक्तमिति । संबद्धमित्यर्थः । लगेः क्तः, इडभावः । ततर् रदाभ्यां परतवाऽभावात्कतं निष्ठानत्वमित्यत आह — निपातनादिति । म्लिष्टमविस्पष्टमिति । इडभावेव्रश्चे॑त षः । तकारस्य ष्टुत्वेन टः ।अथ म्लिष्टमविस्पष्ट॑मित्यमरः । विरब्धः स्वर इति । स्वरविशेष इत्यर्थः । 'रेभृ शब्दे' अस्मात् क्तः, इडभावे 'झषस्तथोर्धोऽध' इति धः । उभयत्र धातुस्वरूपं प्रदर्शयन्नाह — म्लेछ रेभृ अनयोरिति । इत्त्वमपीति । इडभावश्चेत्यर्थः । फाण्टमिति । फणेः क्तः, इडभावः, निष्ठातस्य टत्वं च निपात्यते । तस्याऽसिद्धत्वात्अनुनासिकस्ये॑ति दीर्घः ।अनायासकृतं फाण्ट॑मित्यमरः । वृत्तिकृन्मतमाह — कषायविशेष इति.॒यदशृतमपिष्टं च कषायमुदकसंसर्गमात्राद्विभक्तरसमीपषदुष्णं तत्फाम्टमित्युच्यते॑ इति वृत्तौ स्थितम् । वेदभाष्ये आहेति ।तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टं मननुष्याणा॑मिति शतपथब्राआहृणव्याख्यावसरे आहेत्यर्थः । बाढं भृशमिति । 'बाह्म प्रयत्ने' अस्मात् क्तः, इडभावः, ढत्वधत्वष्टुत्वढलोपाः । अन्यत्र त्विति । मन्थादेर्वाच्यत्वाऽभाव इत्यर्थः ।
SK 3059 · A 7.2.19V
धृषिशसी वैयात्ये ॥ ३०५९ ॥
dhṛṣiśasī vaiyātye
Siddhānta-kaumudī
एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥
Bālamanoramā
धृषिशसी वैयात्ये - धृषिशसी । वियातः = अविनीतः, तस्य भावो वैयात्यम् । तत्रञि धृषा प्रागल्भ्ये॑ इत्यस्य आदित्तवादेवेण्निषेधः सिद्धः,शसु हिंसाया॑मित्यस्य तुउदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑तीण्निषेधः सिद्धः, अतो नियमार्थमित्याह — अविनय एवेति । धृष्टो विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयात्याऽभावे इत्यर्थः । धर्षित इति । बालात्कृत इत्यर्थः । विससित इति । हिंसित इत्यर्थः । अत्र वैयात्याऽभावादिण्निषेधो नेति भावः । ननु धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थोऽत्र विधिरस्तु, ततश्च भावादिकर्मभ्यामन्यत्र वैयात्याऽभावेऽपिआदितश्चे॑तीण्निषेद एव स्यादित्यत आह — भावादिकर्मणोस्त्विति । नास्तीति । अनभिधानादिति भावः । तत्र वृद्धसंमतिमाह — अत एवेति । भावकर्मणोर्धृषेरनभिधानादेवेत्यर्थः । अन्यथा धृषेरादित्त्वात्विभाषा भावादिकर्मणो॑रिति भावे आदिकर्मणि च इड्विकल्पे प्राप्ते तदंशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्त्वं हि नवैयात्ये आदित्त्वलक्षणेण्निषेधार्थं , 'धृषिशसी वैयात्ये' इत्येव सिद्धेः, नापि वैयात्यादन्यत्र आदित्त्वलक्षणेण्निषेधार्थम्, धृषेर्वैयात्य एव इष्निषेधनियमेन ततोऽन्यत्र आदित्त्वलक्षणनिषेधाऽभावात् । नापि धृषेर्वैयात्ये भावादिकर्मणोर्विषयेविभाषा भावादिकर्मणो॑रिति इड्विकल्पार्थं, भावादिकर्णोर्वैयात्ये धृषेरनभिधानात् । तस्माद्धृषेरादित्त्वं व्यर्थमिति हरदत्त आहेत्यर्थः । माध्वस्त्विति । अवैयात्ये भावादिकर्मणोरनभिधाने प्रमाणाऽभावादिति भावः । तत्र अवैयात्ये भावे उदाहरति — धृष्टं धर्षितमिति । आदिकर्मण्युदाहरति — प्रधृष्टओः प्रधर्षित इति ।
SK 3060 · A 7.2.20V
दृढः स्थूलबलयोः ॥ ३०६० ॥
dṛḍhaḥ sthūlabalayoḥ
Siddhānta-kaumudī
स्थूले बलवति न निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । दृंहितोऽन्यः ॥
Tattvabodhinī
NSP p. 515
—दृढः स्थूल—। वलमस्यास्तीति वलः ‘अर्श आदिभ्योऽच्’ तदाह—वलवतीति । स्थूलो मांसलः स च निर्वलोऽपि, वलवांस्तु कृशोऽपि दृढ इति फलितोऽर्थः ॥—तस्येति । तकारस्येत्यर्थः ॥—हस्येति । ननु ‘हो ढः’ इति ढत्वे ढोढे लोपेनैव सिद्धमिति तस्य ढत्वं हस्य लोपश्च न निपात्यतामिति चेन्मैवम् । तथाहि सति ढलोपस्यासिद्धत्वेन द्रढिमेत्यत्र ‘र ऋतो हलादेर्लघोः’ इति रभावो न स्यात्परिद्रढय्य गत इत्यत्र ‘त्यपि लघुपूर्वात्’ इत्ययादेशो न स्यात् परिदृढस्यापत्यं पारिदृढी कन्येत्यत्र गुरुपोत्तमलक्षणः व्यङ् स्यात् । अतोऽसिद्धलनिवृत्तये हलोपो निपात्यत इति भाष्यादौ स्थितम् । अत एव ‘ढलोपे—’ इति सूत्रे अणः किं दृढ इति प्राप्तो ग्रन्थस्य प्रामादिकतामभिप्रेत्य तृढो वृढ इति प्रत्युदा-हतम्
Bālamanoramā
दृढः स्थूलबलयोः - दृढः स्थूलबलयोः । बलशब्द अर्शाअद्यजन्तो बलवत्परः । तदाह — बलवति चेति । तस्येति । निष्ठातकारस्य ढत्वं निपात्यते इत्यर्थः । हस्य लोप इति । 'निपात्यते' इति शेषः । इदित इति । अनिदितस्तु नलोपः सिद्ध एवेति भावः । ननु हस्य ढत्वे कृते 'झषस्तथोर्धोऽधः' इति तकारस्य ध्तवे तस्य ष्टुत्वेन 'ढो ढे' इति ढलोपे दृढ इति सिद्धम्, ततश्च इडभाव एव नपात्यतां , न तु हकारलोपो ढत्वं चेति चेत् । मैवम् । तथाहि सति द्रढीयानित्यादौ ढलोपस्याऽसिद्धत्वेन ऋकारस्य संयोगपरकत्वम्, अस्य हलोपस्य साप्तमिकत्वेन असिद्धत्वाऽभावादिति भाष्ये स्पष्टम् ।
SK 3061 · A 7.2.21V
प्रभौ परिवृढः ॥ ३०६१ ॥
prabhau parivṛḍhaḥ
Siddhānta-kaumudī
वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः । परिवृंहितोऽन्यः ॥
Tattvabodhinī
NSP p. 515
—प्रभौ—॥ निपातनमिति । हलोपे प्रयोजनमपि द्रढिमा परिव्रढय्येत्यादिसिद्धिरिति प्राग्वदेव वोध्यम्
Bālamanoramā
प्रभौ परिवृढः - प्रभौ परिबृढः । प्राग्वदिति । तकारढत्वसय् हलोपस्य चेत्यर्थः ।
SK 3062 · A 7.2.22V
कृच्छ्रगहनयोः कषः ॥ ३०६२ ॥
kṛcchragahanayoḥ kaṣaḥ
Siddhānta-kaumudī
कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥
Tattvabodhinī
NSP p. 516
—कृच्छ्रगृहनयोः—। कृच्छ्रं दुःखं तत्कारणं च लक्षणया गृह्यते, कषतिर्हैसार्थः ॥ —कष्टो मोह इति । दुःखहेतुरित्यर्थः
Bālamanoramā
कृच्छ्रगहनयोः कषः - कृच्छ्रगहनयोः । कृच्छ्रशब्दो दुःखे, तत्कारणे च वर्तते । कष्टं दुःखं, तत्कारणं चेति ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरकोशवाक्यम् । दुःखकारणे उदाहरति — कष्टो मोह इति । गहने उदाहरति — कष्टं शास्त्रमिति । गहनशब्दं विवृणोति — दुरवगाहमिति ।
SK 3063 · A 7.2.23V
घुषिरविशब्दने ॥ ३०६३ ॥
ghuṣiraviśabdane
Siddhānta-kaumudī
घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥
Tattvabodhinī
alignment inferredNSP p. 516
—धुषिरवि—। धुषिरविशब्दार्थ इति भ्वादिः धुषिरविशब्देन इति चुरादिर्द्वयोरपि सामान्येन ग्रहणम् । ननु विशब्दनार्थाद्धुषेक्षुरादिणिचा भाव्यं ततश्च णिचा व्यवधानाद् धुषेः परा निष्ठा नास्तीति कथमिण्निषेधप्रसङ्गः, किं च विशब्दने लिण्निषेधाभावाणिच्युपधागुणे ‘निष्ठायां सेटि’ इति णिलोपे च घोषितं वाक्यमित्यपि स्यादिति चेत् । अत्राहुः । एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः विशब्दनार्थस्य चुरादिणिजनित्य इति नास्त्युक्तदोष इति दिक् ॥ —अभेः—। विशेषेण दूरं विदूरं ततोऽन्यदविदूरं तस्य भाव आविदूर्यम् । ब्राह्मणादिलात्प्यञ् । अस्मादेव निर्देशात् ‘न नञ्पूर्वात्तत्पुरुषात्—’ इति निषेधो न भवति । सामीप्य इत्येव तु नोक्तं नातिदूरस्यासंग्रहापत्तेः, तदेतच्छ्वनयन्व्याचष्टे—नातिदूरं नासन्नं वेति । एवं च सामीप्य इति प्राचो व्याख्यानमुपलक्षणतया नेयमित्याहुः ॥ —णेः—। अधीयत इति अध्ययनम् ‘कृत्यल्युटः—’ इति बहुलवचनात्कर्मणि ल्युट् ॥ —णिलुक् चेति । निपात्यत इति शेषः । लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः ॥ — शूतम्—॥ —श्रातिश्रपयत्योरिति । श्रा पाके इत्यदादौ पठ्यते चुरादावपि घटादिष्वपि पठ्यते मित्त्वार्थम् । श्रे पाक इति च भ्वादौ तस्यापि कृतालस्येह ग्रहणम् । निपातनसामर्थ्यालक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः ॥ — शूभावो निपात्यत इति । ‘ष्यङः संप्रसारणम्—’ इति प्रकृतमेव संप्रसारणं न विहितम् । श्रयतेरपि श्रितमेव यथा तु नैव भवतीत्याशयेनाह—क्षीरहविषोः पाक इति ॥ —अन्यत्विति । शाकादिः श्रपितमिति णौ मितां ह्रस्वः
Bālamanoramā
घुषिरविशब्दने - घुषिरविशब्दने । घुष्टा रज्जुरिति । उत्पादितेत्यर्थः । आयामितेति वा । शब्देन अभिप्रायप्रकाशनं विशब्दनम् । तदाह — शब्देनेति ।
SK 3064 · A 7.2.24V
अर्देः संनिविभ्यः ॥ ३०६४ ॥
ardeḥ saṃnivibhyaḥ
Siddhānta-kaumudī
एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥
SK 3065 · A 7.2.25V
अभेश्चाविदूर्ये ॥ ३०६५ ॥
abheścāvidūrye
Siddhānta-kaumudī
अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥
Bālamanoramā
अभेश्चाविदूर्ये - अभेश्चाविदूर्ये । अविदूरस्य भाव आविदूर्यम् । तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः । सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः । तत्सूचयन्नाह — नातिदूरमिति ।
SK 3066 · A 7.2.26V
णेरध्ययने वृत्तम् ॥ ३०६६ ॥
ṇeradhyayane vṛttam
Siddhānta-kaumudī
ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥
Bālamanoramā
णेरध्ययने वृत्तम् - णेरध्ययने । णिलुक् चेति । णिलोपे तु लघूपधगुणः स्यादिति भावः । अधीयमान इति । सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः ।
SK 3067 · A 6.1.27V
शृतं पाके ॥ ३०६७ ॥
śṛtaṃ pāke
Siddhānta-kaumudī
श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥
Bālamanoramā
शृतं पाके - शृतं पाके । 'श्रा पाके' घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति । अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः । क्षीरहविषोरिति । एतच्च वार्तिकाल्लभ्यते । अण्यन्तं व्याचष्टे -स्वयमेव विक्लिन्नमिति । श्राधातुरण्यन्तः पाके वर्तते । पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि । तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात्गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । तथा च क्षीरं विक्लित्त्याश्रय इत फलितम् । ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् 'श्रपी' त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह - पक्वमिति । एतच्च भाष्यकैयटयोः स्पष्टम् ।क्षीराज्यहविषां शृत॑मित्यमरस्य तु प्रमाद एव,क्षीरहविषो॑रिति वार्तिकविरोधात् ।
SK 3068 · A 7.2.27V
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥ ३०६८ ॥
vā dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ
Siddhānta-kaumudī
एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥
Tattvabodhinī
NSP p. 516
—वा दान्त—। शमु दमु उपशमे, पूरी आप्यायने दिवादिश्चुरादिश्च । दमु उपक्षये, स्पश वाधने, छद अपवारणे । ज्ञपिर्मित् । मित्संज्ञायां मारणतोषणनिशामनेष्वित्युक्तेः
Bālamanoramā
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः - वा दान्त ।णेरध्ययने वृत्त॑मित्यतो णेरित्यनुवर्तते । 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते ।अनुनासिकस्ये॑ति दीर्घः । णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः । शान्तः । 'पूरी आप्यायने' ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वं, णत्वं । पूर्णः । एतेनन ध्याख्यापृमूर्च्छी॑त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात् । 'दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । स्पष्टम् ।छद अपवारणे॑ । ण्यन्तात्क्तः । इडभावो वृद्ध्यभावश्च निपात्यते । णिलोपः ।रदाभ्या॑मिति नत्वं, — छन्नः ।ज्ञप मिच्चे॑ति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति । निपातनाऽभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्ध्रस्वः । ज्ञापत इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव ।
SK 3069 · A 7.2.28V
रुष्यमत्वरसंघुषास्वनाम् ॥ ३०६९ ॥
ruṣyamatvarasaṃghuṣāsvanām
Siddhānta-kaumudī
एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥
Tattvabodhinī
NSP p. 516
—रुष्य—। रुष रोषे ‘तीषसह—’ इति विकल्पितेदकलात् ‘यस्य विभाषा’ इति नित्ये निषेधे प्राप्ते विकल्पो विधीयते । अम गत्यादिषु । अम रोगे इति चौरादिकस्तु न गृह्यते ‘एकाचः—’ इत्यधिकारादित्याहुः ॥ —आन्त इति । ‘अनुनासिकस्य—’ इति दीर्घः ॥ —तूर्ण इति । ‘अलिरा संभ्रमे ‘उवरलर—’ इत्यूद् निष्ठानलम् । ‘आदितश्च’ इति निषेधे प्राप्ते विकल्पः । एवं च आदित्वस्य फलमात्मनेपदमात्रं तच्च एधत्यादिवज्रस्वानुबन्धत्वेऽपि सिध्यत्येवेत्याशयेनाह—फलं मन्दमिति ॥ —संधुष्ट इति । संपूर्वाद् धुषेर्विशब्दने इटि प्राप्ते विकल्पोऽयम् । अविशब्दनेऽपि संपूर्वस्य परलादयं विकल्प एव ॥ —आस्वान्त इति । आङ्पूर्वस्य स्वनेर्मनोभिधानेप्ययमेव विकल्पः परलात् । आस्वान्तं मनः । आस्वनितं मन इति
Bālamanoramā
रुष्यमत्वरसंघुषास्वनाम् - रुष्यमत्वर । रुषि, अम,त्वर, संघुष् , आस्वन् — एषां द्वन्द्वः । णेरिति निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । वा स्यादिति । 'वा दान्ते' त्यतस्तदनुवृत्तेरिति भावः । रुष्टः रुषित इति ।तीषसहे॑ति रुषो वेट्कत्वात्यस्य विभाषे॑ति निषेधे प्राप्ते विकल्पोऽयम् । आन्तः अमित इति । 'अम गत्यादिषु' क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः । तूर्णः त्वरित इति । 'ञि त्वरा संभ्रमे' क्तः, इडभावपक्षेज्वरत्वरे॑त्यूठ् ।रदाभ्या॑मिति नत्वम् । णत्वम् ।आदितश्चे॑ति नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आदित्त्वस्य तु फलमात्मनेपदमात्रं । तदाह — अस्य आदित्वे फलं मन्दमिति । तथा च 'एध वृद्धौ' इत्यादिवद्ध्रस्वानुबन्धत्वमेव न्याय्यमिति भावः । संघुष्टः संघुषित इति । 'घुषिरविशब्दने' इति घुषेः संपूर्वस्य नित्यमिण्निषेधे प्राप्ते विकल्पोऽयम् । आस्वान्तः आस्वनित इति । आङ्पूर्वात् स्वनेः क्तः । इडभावपक्षेअनुनासिकस्ये॑ति दीर्घः ।क्षुब्धस्वान्ते॑ति निपातनं तु आङ्पूर्वस्य स्वनेर्न भवति, परत्वादस्यैव विकल्पस्य प्राप्तेरित्याहुः ।न वे॑ति सूत्रभाष्ये तुसङ्घुषाऽऽस्वनोर्विषये उभयत्र विभाषे॑त्युक्तम् ।
SK 3070 · A 7.2.29V
हृषेर्लोमसु ॥ ३०७० ॥
hṛṣerlomasu
Siddhānta-kaumudī
हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ।
vārttika
विस्मितप्रतिघातयोश्च
(वार्तिकम्) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥
Tattvabodhinī
alignment inferredNSP p. 516–517
—हृषेः—। हृषु अलीके । उदित्त्वानिष्ठायामनिद्हृष तुष्टौ सेट उभयोरपि ग्रहणमित्युभयत्र विभाषेयम् ॥ —अन्यत्विति । आदित्त्वानिष्ठानलम् ॥ —प्यान इति । ‘श्वीदितो निष्ठायाम्’ इतीडभावे यलोपः । नत्वे व्यवस्थान्तरमाह—सोपसर्गस्य नेत्यादि । अन्युः कूपः ॥—प्रहस्त इति । हादी सुखे, ईदित्त्वादिडभावे ‘रदाभ्याम्’—इति नलम्
Bālamanoramā
हृषेर्लोमसु - ह्मषेर्लोमसु । लोमसु कर्तृष्विति बोध्यम् । इदं चअजर्य॑मिति सूत्रे भाष्ये स्पष्टम् । ह्मष्टं ह्मषितं लोमेति ।गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थः । विस्मितप्रतिघातयोश्चेति । वार्तिकमिदम् ।ह्मषेर्निष्ठाया इड्वे॑ति शेषः । उदित्त्वादिति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति निष्ठायां नेडित्यर्थः । तथा अलीकेऽर्थे ह्मष्ट इत्येव । मृषोक्तवानित्यर्थः । इडिति । 'ह्मष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः । ह्मषितः । तुष्ट इत्यर्थः । विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः । तत्र लोमसु, विस्मितप्रतिघातयोश्च 'ह्मषु अलीके' इत्यस्मात् ।यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम् । 'ह्मष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः ।
SK 3071 · A 7.2.30V
अपचितश्च ॥ ३०७१ ॥
apacitaśca
Siddhānta-kaumudī
चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥
Bālamanoramā
अपचितश्च - अपचितश्च ।अपपूर्वस्य चिञो ण्यन्तस्य निष्ठायां चिभावो निपात्यते॑ इति भाष्यं । तदाह — चायेर्निपातोऽयमिति ।
SK 3072 · A 6.1.28V
प्यायः पी ॥ ३०७२ ॥
pyāyaḥ pī
Siddhānta-kaumudī
वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः ॥
vārttika
सोपसर्गस्य न
(वार्तिकम्) ॥ प्रप्यानः ॥
vārttika
आङ्पूर्वस्यान्धूधसोः स्यादेव
(वार्तिकम्) ॥ आपीनोन्धुः । आपीनमूधः ॥
Bālamanoramā
प्यायः पी - प्यायः पी । वा स्यान्निष्ठायामिति । शेषपूरणमिदम् ।विभाषाऽभ्यवपूर्वस्ये॑त्यतो विभाषेति,स्फायः स्फी॑त्यतो निष्ठायामिति चानुवर्तते इति भाव- । व्यवस्थतविभाषेति । अत्र व्याख्यानमेव शरणम् ।सोपसर्गस्य ने॑त्यादि भाष्ये स्पष्टम् ।
SK 3073 · A 6.4.95V
ह्लादो निष्ठायाम् ॥ ३०७३ ॥
hlādo niṣṭhāyām
Siddhānta-kaumudī
ह्रस्वः स्यात् । प्रह्लन्नः ॥
Bālamanoramā
ह्लादो निष्ठायाम् - ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । सेषपूरणमिदम् । 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः । प्रह्लन्न इति ।ह्लादी सुखे॑ । क्तः । 'श्वीदितः' इति नेट् ।रदाभ्यांट मिति नत्वम् ।
SK 3074 · A 7.4.40V
द्यतिस्यतिमास्थामित्ति किति ॥ ३०७४ ॥
dyatisyatimāsthāmitti kiti
Siddhānta-kaumudī
एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥
Tattvabodhinī
NSP p. 517
—द्यतिस्यति । दोऽवखण्डने, षोऽन्तकर्मणि, मा माने, माङ् माने, मेङ् प्रणिदाने, ष्ठा गतिनिवृत्तौ । दितपा निर्देशो धातुविशेषणार्थः । न हि दितपं विना श्यन् सुलभः । यत्तु प्रसादकृतोक्तम् ‘दितपा निर्देशो यङ्लङ्निवृत्त्यर्थः ’ ‘दादत्तः सासत्तः’ इति । तन्न । यङ्लुकि हि इटा भाव्यं दादितः सासित इति । तत्र ति कितीति वचनानास्ति प्रसङ्गः । किं च ‘दो दद्धोः’ इति विधीयमान आदेशः अनेकाल्लात्सर्वस्येति निर्विवादम् । तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्ततेति दादत्त इति लदुदाहतरूपं कथमुक्तिसंभवं लभेतेत्याहुः
Bālamanoramā
द्यतिस्यतिमास्थामित्ति किति - द्यतिस्यति । एषां चतुर्णां द्वन्द्वात्षष्ठी । 'दो अवखण्डने' इत्यस्य द्यतीति निर्देशः ।षो अन्तकर्मणी॑त्यस्य तु स्यतीति निर्देशः । इत्-ति- कितीति च्छेदः । ईत्त्वेति ।घुमास्थे॑ति ईत्त्वस्य,दो दद्धो॑रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः । दोधातोरुदाहरति — दित इति । मा माङ् मेङिति ।गामादाग्रहणेष्वविशेषः॑ इति वचनादिति भावः ।
SK 3075 · A 7.4.41V
शाच्छोरन्यतरस्याम् ॥ ३०७५ ॥
śācchoranyatarasyām
Siddhānta-kaumudī
शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥
Tattvabodhinī
NSP p. 517
—शाच्छो—। शो तनूकरणे । छो छेदने
Bālamanoramā
शाछोरन्यतरस्याम् - शाच्छोः । शो तनूकरणे॑ 'छो छेदने' अनयोः कृतात्वयोर्निर्देशः । अनयोरिकारोऽन्तादेशो वा स्यात्तादौ कितीत्यर्थः । व्यवस्थितेति । एतच्च भाष्ये स्पष्टम् ।
SK 3076 · A 7.4.42V
दधातेर्हिः ॥ ३०७६ ॥
dadhāterhiḥ
Siddhānta-kaumudī
तादौ किति । अभिहितम् । निहितम् ॥
Tattvabodhinī
NSP p. 517
—दधातेर्हिः । दितपा निर्देशो धेटो निवृत्त्यर्थः ॥ तीलगुवृत्तेर्यङ्लुकि न । दाधितः । अत्रापि प्रसादकृता दितपा निर्देशस्य यङ्लङ्निवृत्त्यर्थलादाधीत इति ‘धुमास्था’—इतीलमुदाहतं तत्पूर्ववदेव हेयम्
Bālamanoramā
दधातेर्हिः - दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् ।द्यतीस्तयती॑त्यतस्तदनुवृत्तेरिति भावः । दो दद्धोः 'द' इति षष्ठन्तम् । तदाह — दा इत्स्येति । 'दथ्' इति च्छेदः । तदाह — दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति ।ति किती॑त्यनुवृत्तेरिति भावः । चर्त्वमि#इत ।खरि चे॑ति थकारस्य तकार इत्यर्थः । दात इति । दाप्दैपो रूपम् ।अदा॑वित्युक्तेर्घुत्वाऽभावान्न दद्भावः । तान्तो वेति । तवर्गप्रथमान्त इत्यर्थः । नन्वेवं सति 'विदत्त ' मित्यादौदस्ती॑त्युपसर्गस्य दीर्घत्वापत्तिः । तत्र हि 'द' इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति — न चैवमिति । आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः । तकारादाविति ।दस्ती॑त्यत्र द इति षष्ठी तीत्यत्रान्वेति । तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः । उत्तरपदाधिकारात् । ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः । दान्तो वा धान्तो वेति । तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति । दान्तत्वे निष्ठानत्वं, धान्तत्वेझषस्तथो॑रिति धत्वं च न शङ्क्यमित्यन्वयः । संनिपातेति । दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः ।
SK 3077 · A 7.4.46V
दो दद् घोः ॥ ३०७७ ॥
do dad ghoḥ
Siddhānta-kaumudī
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति SK 3079 इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः - SK 2280 इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥
Tattvabodhinī
NSP p. 517
—दो दद्धोः । इहादेशः थान्त एव न तु तदधान्तः जश्ले कृते संहितायास्तुल्यलेऽपि प्रक्रियायां दोषादिति प्राम्बः । तथा चाहुः । तान्ते दीर्घलाद्यो दोषो दान्ते दोषो निष्ठानलं धान्ते दोषो धलाद्यः स्यान्निर्दोषलात् थान्तो प्राह्य इति तदनुसारेणाह—दथ् स्यादिति ॥—दात इति । दाप् लवने । अदाविति निषेधान्न धुलम् । इह सर्वे पक्षाः सूपपादा इत्याह—तान्तो वेत्यादिना ॥—दीर्घापत्तिरिति । विदत्तमित्यादानुपसर्गस्येत्यर्थः । दस्तीत्यत्र द्वौ पक्षौ दा इत्यस्य य आदेशः स तकारान्तस्तकारादिवेति, तत्राये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति—तकारादाविति ॥—निष्ठानत्वमिति । ‘रदाभ्याम्’—इत्यनेन ॥—सन्निपातेति । तादि निमित्तीकृत्य विहितो यो दान्तावादेशः स तकारविधातकलादिविधेर्निमित्तं न भवतीति भावः
SK 3078 · A 7.4.47V
अच उपसर्गात्तः ॥ ३०७८ ॥
aca upasargāttaḥ
Siddhānta-kaumudī
अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥
Tattvabodhinī
NSP p. 517
—अच उपसर्गात्तः । तकारादकार उच्चारणार्थः । अच इत्यावर्तते तत्रैकं पञ्चम्यन्तमुपसर्गं विशिनष्टि । अपरं षष्ठ्यन्तं स्थानलाभायेति व्याचष्टे—अजन्तादित्यादिना । यद्वा अच इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकाल्लात्सर्वस्य घोर्मविष्यति एकतकारो हि ‘अलोऽन्त्यस्य’ इति वाधित्वा ‘आदेः परस्य’ इत्यादेरेव स्यादच इति पञ्चमीनिर्देशात् । यद्येवम् ‘अपो भि’ इत्युत्तरसूत्रेऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत् । अत्राहुः । पञ्चम्यन्तस्याच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यति तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्लेन सिद्धमिष्टमिति ॥—अचदत्तमित्यादि । आदिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं नेतरे-षामसंभवात् । दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्यैवार्थः ॥—इच्यते इति । तादेशवाधनार्थं निपातनमिष्यत इत्यर्थः । अन्ये तु अवादीनामुपसर्गप्रतिरूपकलाश्रयणे ह्यवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गलाश्रयणे तु पूर्वोक्तमवत्तमित्यादीति नापूर्वमिदं वचनमित्याहुः
Bālamanoramā
अच उपसर्गात्तः - अच उपसर्गात्तः । त इत्यत्राऽकार उच्चारणार्थः । 'अच' इत्यावर्तते, एकमुपसर्गविशेषणं, द्वितीयं तु स्थानिसमर्पकं । तदाह — अजन्तादिति । घोरिति । घोरवयवस्येत्यर्थः । तः स्यादिति । तकारः स्यादित्यर्थः । ददादेशापवादः । चत्त्र्वमिति । प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चर्त्वेन तकार इत्यर्थः । अवदत्तं विदत्तं चेति । भाष्यस्थश्लोकोऽयम् । अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते । नाऽयम् 'अच उपसर्गात्तः' इत्यस्याऽपवाद इति भ्रमितव्यमित्याह — चशब्दाद्यथाप्राप्तमिति । तथा चाऽवदत्तादिशब्देषु ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः । अत एव प्रकृतसूत्रभाष्ये 'अच उपसर्गात्तःर' इत्यस्यावकासः — प्रत्तमवत्तमिति सङ्गच्छते इति भावः ।
SK 3079 · A 6.3.124V
दस्ति ॥ ३०७९ ॥
dasti
Siddhānta-kaumudī
इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच SK 121 इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था SK 2462 इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन - SK 2504 इत्यात्वम् । जातम् । सातम् । खातम् ॥
Tattvabodhinī
NSP p. 517
—दस्ति । ‘इकः काशे’ इत्यत इक इति ‘उपसर्गस्य घञि’—इत्यत उपसर्गस्येति ‘दूलोपे पूर्वस्य’—इत्यतो दीर्घ इति चानुवर्तते ‘अलुगुत्तरपदे’ इत्यतोऽनुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषणं ‘यस्मिन्विधि’ रिति तदादिविधिस्तदेतत्सकलमभिप्रेत्य व्याचष्टे—इगन्तोपसर्गस्येत्यादिना । ननु चर्त्वस्यासिद्धलादादेशतकारो नास्तीत्यत आह—आश्रयात्सिद्धमिति । ‘अतो रोः’—इत्युत्वं प्रति रुलवदिति भावः ॥—धीतमिति । ‘दधातेर्हिः’ इत्यत्र लुग्विकरणस्य निर्देशात् धेद् पान इति भ्वादेर्हिर्न भवति, नापि दत् ‘दो दद्धोः’ इति द इत्युपादानादिति भावः
Bālamanoramā
दस्ति - दस्ति । 'इकः काशे' इत्यत इक इति,उपसर्गस्य घञ्यमनुष्ये॑ इत्यत उपसर्गस्येति , 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते । तदादिविधिः । द इति षष्ठी ति इत्यत्रान्वेति । तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते । तदाह — इगन्तत्यादि । ननु नि दात त इति स्थिते 'अच उपसर्गात्तःर' इति दकारादाकास्य तकारे दकारस्यखरि चे॑ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह — चत्त्र्वमाश्रयात्सिद्धमिति । दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चर्त्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ- । सूत्तमिति तु चिन्त्यम्,गतिश्चे॑ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र 'अच उपसर्गात्तः' इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम् । अथ धेङ्गापाधुतभ्यः क्ते आह — घुमास्थेति । धीतमिति । 'दधातेर्हिः' इत्यत्र श्लुविकरणग्रहणान्न हिभावः ।
SK 3080 · A 2.4.36V
अदो जग्धिर्ल्यप्ति किति ॥ ३०८० ॥
ado jagdhirlyapti kiti
Siddhānta-kaumudī
ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि SK 71 । जग्धः । आदिकर्मणि क्तः कर्तरि च SK 3053 । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे SK 3014 इति दीर्घः । क्षियो दीर्घात् SK 3015 इति णत्वम् । प्रक्षीणः सः ॥
Tattvabodhinī
alignment inferredNSP p. 517–518
—उच्चारणार्थ इति । इदित्त्वे तु नुम् स्यादिति भावः ॥—घत्वमिति । ‘क्षपस्तथोः’—इत्यनेन ‘क्षरो शरि-' इत्यनेन पाक्षिको धलोप इत्यर्थः । इदानीं कार्थान्प्रपञ्चयति—आदिकर्मणीति । व्याख्यातम् ॥—प्रकृतः कटमिति । कटं कर्तुमारब्धवानित्यर्थः । प्रशब्द आदिकर्मधोतनार्थः । कोनोक्तात्कर्तरि प्रथमा कर्मण्यनुक्तलाद् द्वितीया । प्रकृतः कटस्तेनेति कर्मणि प्रयोगे तु विपर्ययः ॥—नदीष्ण इति । नद्यां स्नातो मदीस्नानेन कुशल इत्यर्थः ॥—गत इति । 'अनुदात्तोपदेश-' इति मलोपः ॥—प्राप्त इति । प्रपूर्वः आप्लृ व्याप्तौ व्याप्तिरपीह सूत्रे गतिशब्देन विवक्षितेति भावः ॥—ग्लान इति । ग्लै हर्षक्षये अकर्मकोऽयम् । 'आदेच-' इत्यात्वे 'संयोगादेरातः-' इति नत्वम् ॥—शेषमिति । 'अधिशीङ्ख्यासां कर्म' इति कर्मत्वम् ॥—अधिष्ठित इति । 'धतित्यति-' इति इत्यम् ॥—उपोषित इति । 'वसतिक्षुधोः-' इतीद् 'शासिवसि-' इति षत्वम् ॥—अनुजीर्ण इति । जृष् वयोहानौ 'ऋत इद्धातोः' 'हलि च' इति दीर्घः । नत्वणत्वे ॥—मुकुन्दस्येति । आस्यतेऽस्मिन्नित्यासितमासनमित्यर्थः । यायतेऽस्मिन्निति यानं मार्गः । मुज्यतेऽस्मिन्निति भुक्तं भोजनमित्यर्थः । त्रिष्वपि 'अधिकरणवाचिनश्च' इति कर्तरि षष्ठी ॥—क्षिवण्ण इति । 'आदितश्च' इति नेद् ॥ इद्ध इति । 'श्वीदितः-' इति नेद् नलोपः ॥—राज्ञामिति । 'कस्य च वर्तमाने' इति षष्ठी ॥—इष्ट इति । 'तीषसह-' इति वेङ्कलात् 'यस्य विभाषा' इति नेद् ॥—शीलित इत्यादि । शील समाधौ, रक्ष पालने, क्षमूष् सहने, कुश आह्वाने, जुषी प्रीतिसेवनयोः
Bālamanoramā
अदो जग्धिर्ल्यप्ति किति - अदो जग्धिः । धत्वमिति । जघ्ध् त इति स्थितेझषस्तथो॑रिति तकारस्य धकार इत्यर्थः । झरो झरीति । अनेन पाक्षिको धकारलोप इत्यर्थः । आदिकर्मणि क्त इति । व्याख्यातं प्राक् । उदाहरणान्तरविवक्षया पुनरुपन्यासः । प्रकृतः कटं स इति.कर्तुमारब्धवानित्यर्थः । कटस्य कर्मणोऽनभिहितत्वाद्द्वितीया । कर्तुरभिहित्वात्तच्छब्दात्प्रथमा । चकाराद्भावे कर्णणि चेत्युक्तम् । तत्र कर्मण्युदाहरति — प्रकृतः कटस्तेनेति । प्रक्षीणः स इति । आदिकर्मणि क्तः ।
SK 3081 · A 6.4.61V
वाक्रोशदैन्ययोः ॥ ३०८१ ॥
vākrośadainyayoḥ
Siddhānta-kaumudī
क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥
Bālamanoramā
वाऽऽक्रोशदैन्ययोः - वाऽऽक्रोशदैन्ययो- । अण्यदर्थ इत्यनुवर्तते ।ण्यदर्थो भावकर्मणी॑इत्युक्तम् । आक्रोशे उदाहरति — क्षीणायुर्भवेति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । दैन्ये उदाहरति — क्षीणोऽयं तपस्वीति । कृश इत्यर्थः ।
SK 3082 · A 8.3.89V
निनदीभ्यां स्नातेः कौशले ॥ ३०८२ ॥
ninadībhyāṃ snāteḥ kauśale
Siddhānta-kaumudī
आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि SK 2916 इति कः ॥
Bālamanoramā
निनदीभ्यां स्नातेः कौशले - निनदीभ्यां । सस्य षः स्यादिति । 'सहे साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते,अपदान्तस्य मूद्र्धन्यः॑ इत्यप्यधिकृतमिति भावः । निष्णात इति । कुशल इत्यर्थः । नदीष्ण इति । नद्यां कुशलं स्नातीति विग्रहः । सुपीति क इति । 'सुपि स्थः' इत्यत्रसुपी॑ति योगविभागात्क इत्यर्थः ।
SK 3083 · A 8.3.90V
सूत्रं प्रतिष्णातम् ॥ ३०८३ ॥
sūtraṃ pratiṣṇātam
Siddhānta-kaumudī
प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥
SK 3084 · A 8.3.91V
कपिष्ठलो गोत्रे ॥ ३०८४ ॥
kapiṣṭhalo gotre
Siddhānta-kaumudī
कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥
SK 3085 · A 8.3.96V
विकुशमिपरिभ्यः स्थलम् ॥ ३०८५ ॥
vikuśamiparibhyaḥ sthalam
Siddhānta-kaumudī
एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥
SK 3086 · A 3.4.72V
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ॥ ३०८६ ॥
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca
Siddhānta-kaumudī
एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥
Bālamanoramā
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च - गत्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः ।लः कर्मणि च भावे चे॑त्यतो भावे कर्मणीतिआदिकर्मणि क्तः कर्तरि चे॑त्यतः कर्तरि इति चानुवर्तते । तदाह — एभ्य इत्यादिना । कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गां गत इति । कर्तरि क्तः । गङ्गां प्राप्त इति । 'आप्लृ व्याप्तौ' उपसर्गवशाद्गतौ वर्तते । अकर्मकादुदाहरति — म्लान इति । क्षीण इत्यर्थः । 'संयोगादेः' इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह — शेषमधिशयित इति । शेषे शयितवानित्यर्थः ।अधीशीङ्स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थिवानित्यर्थः ।अधिशीङ्स्थासा॑मिति वैकुण्ठः कर्म । अतो नाऽकर्मकत्वादिह प्राप्तिः । शिवमुपासित इति । शिवं परिचरितवानित्यर्थ- । उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः । हरिदिनमुपोषित इति ।वसतिक्षुधो॑रिति इट् । यजादित्वात्संप्रसारणम् ।शासी॑ति षः । हरिदिने न भुक्तवानित्यर्थः । 'उपान्वध्याङ्वसः' इति हरिदिनं कर्म । ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । राममनुजात इति । अनुकृतवानित्यर्थः । अनुसृत्य जातवानिति वा ।ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । गरुडमारूढ इति । उपर्याक्रान्तवानित्यर्थः । विआमनुजीर्ण इति । हतवानित्यर्थः । व्याप्तवानिति वा । अकर्मकत्वाऽभावादप्राप्तिः । जृधातोः कर्तरि क्तः । 'ऋतः' इतित इत्त्वं । रपरत्वं । 'हलि चे ' ति दीर्घः ।रदाभ्या॑मिति नत्वं । णत्वम् । पक्षे इति । कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः ।
SK 3087 · A 3.4.76V
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ३०८७ ॥
kto'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ
Siddhānta-kaumudī
एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥
Bālamanoramā
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः - क्तोऽधिकरणे च । ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ- । ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति । स्थिरीभवनम् । उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । आस्यते अस्मिन्नित्यासितम् । आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदाहरणम् । यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः । भुक्तमेतदनन्तरस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः ।अधिकरणवाचिनश्चे॑ति त्रिष्वपि कर्तरि षष्ठी । पक्षे इति । आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । आसितो मुकुन्द इति । आसितवानित्यर्थः । आसितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः,लः कर्मणि चे॑त्यत्राऽदर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्यलः कर्मणी॑त्यत्राऽदर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः । समाधत्ते — भुक्तमस्त्येषामिति । अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्,अजर्यं सङ्गत॑मिति सूत्रेअनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ।वर्तमाने ल॑डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः 'भूते' इति सूत्र भाष्ये उक्तत्वादित्याहुः ।
SK 3088 · A 3.2.187V
ञीतः क्तः ॥ ३०८८ ॥
ñītaḥ ktaḥ
Siddhānta-kaumudī
ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥
Bālamanoramā
ञीतः क्तः - ञीतः क्तः । ञि इद्यस्य तस्माद्वर्तमानाक्रियावृत्तेः क्त इत्यर्थः ।तयोरेव कृत्युक्ते॑ति भावकर्मणोरेव भूते विहितः क्तो वर्तमाने न प्राप्नोतीत्यारम्भः । क्ष्विण्ण इति ।आदिश्चे॑ति नेट् । इद्ध इति । श्वीदितः॑ इति नेट् ।
SK 3089 · A 3.2.188V
मतिबुद्धिपूजार्थेभ्यश्च ॥ ३०८९ ॥
matibuddhipūjārthebhyaśca
Siddhānta-kaumudī
मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥
Bālamanoramā
मतिबुद्धिपूजार्थेभ्यश्च - मतिबुद्धि । मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः । 'वर्तमाने क्त' इति शेष- ।तयोरेवे॑ति भावकर्मणोरेव । मतः इष्ट इति । इच्छार्थकान् मनेरिषेश्च क्तः ।तीषसहे॑ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलितो रक्षित इति । भाष्यस्थश्लोकोऽयम् । इत्यादीति । आदिनारुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि । ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः॑ । इति सङ्ग्रहः । कष्टशब्दो भविष्यति, अमृतशब्दो वर्तमाने इत्यर्थः ।
SK 3090 · A 3.3.114V
नपुंसके भावे क्तः ॥ ३०९० ॥
napuṃsake bhāve ktaḥ
Siddhānta-kaumudī
क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥
Bālamanoramā
नपुंसके भावे क्तः - नुपंसके भावे क्तः । कालसामान्ये इति । अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादितिणेरध्ययने वृत्त॑मिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति — जल्पितमित्यादि । गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम् । अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक् ।
SK 3091 · A 3.2.103V
सुयजोर्ङ्वनिप् ॥ ३०९१ ॥
suyajorṅvanip
Siddhānta-kaumudī
सुनोतेर्यजेश्चङ्वनिप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥
Tattvabodhinī
NSP p. 518–519
—सुयजोर्ङ्गनिप् । सुनोतेरिति । पुञ् अभिषवे । यद्यपीह सु गतौ, षु प्रसवैश्वर्ययोरिति निरनुवन्धकयोरेव प्रहणं न्याय्यं, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोर्प्रहणं न भवतीति भावः । इकारः सुनोतेर्गुणप्रतिषेधार्थः । पकारस्तु स्वरार्थस्तुगर्थश्च ॥—यज्वेत्यादि । क्वनिपि कृते त्वत्र 'वचिस्वपि-' इति संप्रसारणं स्यादिति ङ्गनिवुक्तः ॥—अनृनिति । नकारः स्वरार्थः, ऋत इत् ॥—जरन्निति । ऋकारस्य गुणे रपरोऽकारः 'अगिदचाम्-' इति नम् । संयोगान्तलोपस्यासिद्धत्वात् दीर्घः । इन्द्रसिलिङ्गिति । सूत्रस्यार्थमाह—भूतसामान्ये इति । न च ‘छन्दसि लुङ्लङ्लिटः’ इत्यनेन गतार्थता शङ्कया, धातुसंबन्धाधिकारे हि स विधिः । इदं तु धातुसंबन्धं विनापि भवतीति विशेषात् । अत्र व्याचख्युः । कानचः कित्करणं तिस्तिराण इत्यत्र ‘ऋच्छत्यृताम्’ इति गुणस्य निषे-धार्थं सति प्रतिषेधविषये आरभ्यते । चक्राण इत्यत्र तु ‘असंयोगाल्लिङ्कित्’ इत्येव सिद्धं कित्वमिति ॥—त्रिमुनिमत-मिति । सूत्रकृता छन्दसीति प्रक्रान्तलादुत्तरसूत्रे भाषाग्रहणाच्च भाष्यवार्तिकयोरपि क्रमुकानचोः ‘छन्दस्युभयश्चा’ इति वचनात्सार्वधातुकत्वेन ‘सार्वधातुकमपित्’ इति ङित्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमा-शङ्कय तितीर्वान् तिस्तिराण इत्यादौ ‘ऋच्छत्यृताम्’ इति प्राप्तस्य गुणस्य वाधनार्थं कित्करणमिति सिद्धान्तितलात् । अत एव कित्करणसामर्थ्याद्भाषायामपि क्रमुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिप्रन्थे स्पष्टमिति भावः ॥—कवयस्त्विति । गतानुगतिकतयेति भावः ॥—वस्त्रे—वस्त्रित्वविभक्तिको निर्देशस्तथा च व्याख्यास्यति—वसोरिति । नित्यलाद् द्वित्वे कृते एकाचलमेव नेति कथमिद् स्यादित्यत आह—कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्यन्ते तेषामित्यर्थः । ‘नेङ्गुशि कृति’ इति निषेधं वाधित्वा क्रादिनियमात्सर्वत्र प्राप्त-स्येदो नियमोऽयमित्याह—नान्येषामिति ॥—आदिवानिति । अद् भक्षणे द्विलहलादिशेषाभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्ययमेकाजेवेतीड् भवति ॥—आरिवानिति । ऋ गतौ ‘ऋच्छत्यृताम्’ इति गुणे कृते द्विलादिषु पूर्वव-त्कृतेष्वयमप्येकाच् ॥—द्दिवानिति । हुदाञ् दाने । कृते द्वित्वे नायमेकाच् इण्निमित्तश्चातो लोपो नासति तस्मिन्भव-तीत्यनेकाजर्थमाद्वहणम् ॥—जक्षिवानिति । ‘लिब्यन्यतरस्याम्’ इत्यादेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् । अत्र व्याचख्युः । द्विलात्पूर्वं परलात् ‘घसिभसोर्हलि—’ इत्युपधालोपः स्यात्तस्मिंश्च कृतेऽनच्कलात् द्वित्वमेव न स्यात् । न चास्य द्वित्वे कर्तव्ये ‘द्विर्वचनेऽचि’ इत्यनेन स्थानिवद्भावो निषेधो वा शङ्कयः, द्विलनिमित्तस्या-चोऽभावात् । ततश्च नायं कृतद्विर्वचन एकाज् भवतीति घसिग्रहणं, तत्सामर्थ्यात्तु परलादुपधालोपमिडागमो वाधते, कृते लिडागमे ‘गमहन—’ इत्युपधालोपस्तस्य चाज्निमित्तत्वेन स्थानिवत्वाद् द्विलम् । यद्वा ‘द्विर्वचनेऽचि’ इति निषेध-पक्षे तूपधालोपात्प्रागेव द्वित्वं पश्चादुपधालोपः ‘शासिवसिधसीनां च’ इति षत्वं चत्वै क्षः ‘अभ्यासे चर्च’ इत्यभ्यास-घकारस्य जश्लमिति ॥—निषेदुधीमिति—। षद्लृ विशरणादौ ‘लिटि धातोः—’ इति द्वित्वे ‘अत एकहल्मध्ये—’ इत्येत्याभ्यासलोपौ ‘उगितश्च’ इति ङीपि ‘वसोः—’ इति संप्रसारणे वलादित्वाभावान्नेद् । ‘सदिरप्रतेः’ इति पलम् । पुंसि तु निषेदिवान् ॥—अध्यूषुष इति । वस निवासे अधिपूर्वः ‘वचित्स्वि—’ इति संप्रसारणं द्विलहलादिशेषसवर्ण-दीर्घाः ङसि भलात्संप्रसारणम् प्रथमैकवचने तु अध्यूषिवान्
Bālamanoramā
सुयजोर्ङ्वनिप् - सुयजोर्ङ्वनिप् । पञ्चम्यर्थे षष्ठी । सुनोतेर्यजेश्च ङ्वनिबित्यर्थः । भूते इति । अस्य भूताधिकारस्थत्वादिति भावः । सुत्वा सुत्वानाविति । ङ्वनिपि ङपावितौ , इकार उच्चारणार्थः । ङित्त्वान्न गुणः ।
SK 3092 · A 3.2.104V
जीर्यतेरतृन् ॥ ३०९२ ॥
jīryateratṛn
Siddhānta-kaumudī
भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥
Bālamanoramā
जीर्यतेरतृन् - जीर्यतेरतृन् । भूते इत्येवेति । भूतार्थवृत्तेर्जृधातोरतृन् स्यादित्यर्थः । ऋकारनकारावितौ । अत्प्रत्ययः शिष्यते । जरन्निति.उगित्त्वान्नुम् । जीर्ण इति ।ऋत इत् । रपरत्वम् । ' हलि च' इति दीर्घः । निष्ठानत्वम् ।
SK 3093 · A 3.2.105V
छन्दसि लिट् ॥ ३०९३ ॥
chandasi liṭ
Bālamanoramā
छन्दसि लिट् - छन्दसि लिट् ।
SK 3094 · A 3.2.106V
लिटः कानज्वा ॥ ३०९४ ॥
liṭaḥ kānajvā
Bālamanoramā
लिटः कानज्वा - लिटः कानज्वा ।
SK 3095 · A 3.2.107V
क्वसुश्च ॥ ३०९५ ॥
kvasuśca
Siddhānta-kaumudī
इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥
Bālamanoramā
क्वसुश्च - क्वसुश्च । त्रीणीमानि सूत्राणि । अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे — भूतसामान्ये छन्दसि लिडिति । अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः ।लिटः कानज्वे॑ति द्वितीयं सूत्रम् । तत्र छन्दसीत्यनुवर्तते, भूते इति च । छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः । लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम् । तेन 'परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः । अन्यथाअनन्तरस्ये॑ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम् । वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा । तत्प्रयोजनं तुभाषायां सदवसे॑त्यत्र क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः । योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः । इमौ कानच्क्वसू आदेशौ छान्दसाविति — अत्रैव भाष्यकैटयोः स्पष्टम् । तदाह — तस्येत्यादि, त्रिमुनिमतमित्यन्तम् ।विभाषा पूर्वाह्णाऽपराह्णे॑ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम् । तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम् । तदाह - कवयस्त्विति । तस्थिवांसमिति । स्थाधातोर्लिटः क्वसुः । द्वितीयैकवचनेअत्वसन्तस्ये॑ति दीर्घः । उगित्त्वान्नुम् । अधिजग्मुष इति । अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने॑त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम् ।
SK 3096 · A 7.2.67V
वस्वेकाजाद्घसाम् ॥ ३०९६ ॥
vasvekājādghasām
Siddhānta-kaumudī
कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥
Bālamanoramā
वस्वेकाजाद्घसाम् - वस्वे । 'वसु' इत्यविभक्तिको निर्देशः । तथा च व्याख्यास्यति — वसोरिति । नित्यत्वाद्द्वित्वे कृते एकाच्त्वमेव नेति कथमिट् स्यादित्यत आह — कृतद्विर्वचनानामेकाचामिति । कृतेऽपि द्वित्वे एकाच एव ये अवशिष्य्नते तेषामित्यर्थः ।नेड्वशि कृती॑ति निषेधं बाधित्वा क्रादिनियमात्सर्वत्र प्राप्तस्य इटो नियमोऽयमित्याह — नान्येषामिति । आदिवानिति । अद भक्षणे । द्वित्वहलादिसेषाऽभ्यासदीर्घसवर्णदीर्घेषु कृतेषु कृतद्वित्वोऽप्यमेकाजेवेति इट् । आरिवानिति । 'ऋ गतौ'ऋच्छत्यृता॑मिति गुणे कृते पूर्वत्कृतेषु अयमेकाच् । दादिवानिति । डु दाञ् दाने । कृते द्वित्वे नाऽयमेकाच् । इण्निमित्तश्चाऽऽतो लोपो नाऽसति तस्मिन् भवतीति अनेकाजर्थमाद्ग्रहणम् । जक्षिवानिति ।लिटन्यतरस्या॑मित्यदेर्घस्लादेशः । द्वित्वे कृते नायमेकाजिति घसिग्रहणम् ।
SK 3097 · A 3.2.108V
भाषायां सदवसश्रुवः ॥ ३०९७ ॥
bhāṣāyāṃ sadavasaśruvaḥ
Siddhānta-kaumudī
सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥
Bālamanoramā
भाषायां सदवसश्रुवः - भाषायाम् । सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी । पुंस्त्वमेकवचनं चार्षम् । तस्य च नित्यं क्वसुरिति । वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम् । पक्षे लुङ्, तस्य भूतसामान्ये विहितत्वात् । वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात् । सरूपत्वात् । अस्य च भूतसामान्ये लिटो न तिङ् । अस्य क्वसोस्तदपवादत्वात् । वासरूपविधिस्तु लादेशेषु नेति 'लिटः कानेज्वा' इत्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः । निषेदुषीमिति । निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, 'अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ,वसास्सम्प्रसारणं, पूर्वरूपं, षत्वम् । अध्यूषुष इति । अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम् । पूर्वरूपम् । उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः । शसि वसोः संप्रसारणं, पूर्वरूपम् । शुश्रुवानिति । श्रुधातोर्लिटः क्वसुः । द्वित्वम् ॥
SK 3098 · A 3.2.109V
उपेयिवाननाश्वाननूचानश्च ॥ ३०९८ ॥
upeyivānanāśvānanūcānaśca
Siddhānta-kaumudī
एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥
Tattvabodhinī
NSP p. 519
—उपेयिवानना—। इडिति । वलादिलक्षण एवेद् ‘नेङ्गुशि कृति’ इति निषिद्धः व्यादिनियमात्पुनः प्राप्तः ‘वस्वेकाजाद्वसाम्’ इति सूत्रेण कृतद्विलानामेकाचामादन्तानां घसेश्च वसोरिद् स्यानान्येषामिति नियच्छता प्रतिषिद्धो नित्यलात् द्वित्वे कृतेऽनेकाच्लात् । न च सवर्णदीर्घेणैकाच्लम् । ‘दीर्घं इणः किति’ इत्यभ्यासदीर्घं कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव इति पक्षाश्रयणात् । स एव वलादिलक्षण इद् इह प्रतिप्रसूयते नापूर्वो विधीयते तेन संप्रसारणविषये न भवति । अत एवोदाहरति—उपेयुष इति । सति लिटि तस्य यणादेशे उपेयुष इति स्यादिति भावः ॥—अविवक्षितमिति । व्याख्यानमेवात्र शरणम् ॥—ईयिवानिति । इणो द्वित्वे सवर्णदीर्घं वाधित्वा आङ्गलात् ‘इणो यण्’ इति यण् भवति, वसोरिडागमे हि परत्राजादिप्रत्ययस्य सत्त्वात् ॥—वचेरिति । वच परिभाषण इत्यस्माद्ब्रुवो वचेर्वा कर्तरि न तु भावकर्मणोः । एतच्च निपातनाल्लब्धम्
Bālamanoramā
उपेयिवाननाश्वाननूचानश्च - उपेयिवान । इडिति । उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम् । वलादिलक्षण इट्नेड्वशि कृती॑ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः । पुनश्चवस्वेकाजाद्धसा॑मितिसूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य॑ इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् । इटि कृते उत्तरखण्डस्य इकारस्य यण् । अभ्यासस्य दीर्घस्तु न निपात्यते । नन्वत्र अपूर्व इट् निपात्यतामित्यत आह — उपेयुषीति । उगित्त्वान्ङीपि वसोः संप्रसारणम् । प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् । अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः । उपेत्यविवक्षितमिति । अत्र व्याख्यानमेव शरणम् । अश्नातेरिति । 'अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्,अत आदे॑रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट् ।अश्नोतेश्चे॑त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात् । नञ उपपदसमासः । 'नलोपो नञः'तस्मान्नुडची॑ति भावः । वचेः कर्तरीति । न तु भावकर्मणोरिति भावः । कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः ।विभाषा गमहने॑त्यादि स्पष्टम् ।
SK 3099 · A 7.2.68V
विभाषा गमहनविदविशाम् ॥ ३०९९ ॥
vibhāṣā gamahanavidaviśām
Siddhānta-kaumudī
एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति SK 2981 इतीण्निषेधः ॥
vārttika
दृशेश्च
(वार्तिकम्) ॥ ददृशिवान् । ददृश्वान् ॥
Tattvabodhinī
alignment inferredNSP p. 519–520
—जग्मि- वानित्यादि । इदपक्षे ‘गमहन-’ इत्युपधालोपः
SK 3100 · A 3.2.124V
लटः शतृशानचावप्रथमासमानाधिकरणे ॥ ३१०० ॥
laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe
Siddhānta-kaumudī
अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥
Tattvabodhinī
NSP p. 520
—लटः शतृ—सामानाधिकरण्ये सतीति । यथाप्यादेशरहितस्य लटः प्रयोगाभावात्सामानाधिकरण्यं दुर्लभं तथापि शतृशानचोस्तद् दृष्ट्वा स्थानिन्यपि सामानाधिकरण्यं कल्प्यते ॥ —शवादीति । शित्वेन सार्वधातुकलादिति भावः ॥—पचन्तमिति । शतुरुगित्त्वानुम् । विक्रित्यनुकूलवर्तमानव्यापाराश्रयमित्यर्थः
Bālamanoramā
लटः शतृशनचावप्रथमासमानाधिकरणे - लटः शतृशानचौ ।वर्तमाने ल॑डिति पूर्वसूत्रविहितस्यैव एतौ शतृशानचौ, अनन्तरस्येति न्यायादिति 'वर्तमानसामीप्ये' इत्यादिभाष्ये स्पष्टम् । शतृप्रत्यये शकारऋकारावितौ । पचन्तमिति । पाकानुकूलव्यापाराश्रयमित्यर्थः,क्रियाप्रधानमाख्यातं, सत्त्वप्रधानानि नामानि॑ति सिद्धान्तात् । शतुः शित्त्वेन सार्वधातुकच्छपि 'अतो गुणे' इति पररूपम् । शानचि शाचवितौ ।
SK 3101 · A 7.2.82V
आने मुक् ॥ ३१०१ ॥
āne muk
Siddhānta-kaumudī
अङ्गस्यातो मुगागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् ब्राह्मणः ।
vārttika
माड्याक्रोशे इति वाच्यम्
(वार्तिकम्) ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङ् SK 2219 इति प्राप्ते एतद्वचनसामर्थ्यालुक् ॥
Tattvabodhinī
NSP p. 520
—आने मुक् । ‘अतो येयः’ इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ठ्या विपरिणम्यते, आन इति सप्तमीबलात् । न चात इति पञ्चमीबलादान इति सप्तम्यन्तं पदं षष्ठ्या विपरिणाम्यतामिति शङ्क्यम् । पञ्चम्याः पूर्वसूत्रे चरितार्थलात्सप्तम्याश्चाचरितार्थलात्तदेतदाह—अङ्गस्यात इति । प्राचालदन्ताङ्गस्येति व्याख्यातम् । तदयुक्तम् । पचमान इत्यादौ ‘अदुपदेशाल्लसार्वधातुकमनुदात्तम्’ इति शानचः स्वरस्यासिद्धिप्रसङ्गात् । अदन्ताङ्गस्येति पक्षे हि अङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात्’ तदवयवमकारं तु व्यवदध्यादेव अकारमात्रभक्तत्वे तु तदवयलान्नास्ति व्यवधानमित्यदोषः । ननु ‘स्वरविधौ व्यजनमविद्यमानवदि’ ति परिभाषया मुकोऽविद्यमानत्वेन व्यवधानाभावात्स्यादेवानुदात्तलमिति चेत् । अत्राहुः । हलः स्वरप्राप्तौ व्यजनमविद्यमानवन्नान्यत्रेत्याकरारूढम् । न चात्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते । अन्यथा मरुलानित्यादावपि ‘हस्तमुद्ध्यां मनुप्’ इति मनुप उदात्तत्वं स्यादिति दिक् ॥—लडिति । यद्यपि प्रथमान्तं प्रकृतं, तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठ्या विपरिणम्यत इति भावः । न च ‘वर्तमाने लट्’ इत्यत्रैवोक्तरीत्या विपरिणामोऽस्ति शङ्क्यम् । प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीति ‘गुप्तिज्किन्न्यः सन्’ इत्यत्र भाष्यकारैः स्वीकृतत्वात् ॥—प्रथमासामानाधिकरण्येऽपीति । उपलक्षणमिदम् । अप्रथमान्तेन सामानाधिकरण्याभावेऽपीत्यर्थः । तेन कुर्वतोऽपत्यं कौर्वतः कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिद्ध्यति । अन्यथा कुर्वतोऽपत्यमित्यादौ तद्धितसमासौ न स्याताम्
Bālamanoramā
आने मुक् - आने मुक् ।अङ्गस्ये॑त्यधिकृतम् 'अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठआ विपरिणतेन अता विशेष्यते । तदन्तविधिः । तदाह — अदन्तस्येति । मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः । अनुवर्तमाने इति ।वर्तमाने ल॑डिति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठआ विपरिमाणेन उक्तार्थलाभे सतीत्यर्थः । अधिकेति । सूत्राक्षराऽनारूढस्यापि अर्थस्य लाभार्थमित्यर्थः । सन् ब्राआहृण इति । 'अस भुवि' शतृप्रत्यये शपो लुक्, श्नसोरल्लोपः । माङीति । माङि प्रयुज्यमाने आक्रोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः । मा जीवन्निति । न जीवत्ययम् । अनुपकारित्वान्मृतप्राय इत्यर्थः । 'मा पचमान' इत्यप्युदाहार्यम् । 'लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह — माङि लुङितीति ।
SK 3102 · A 3.2.125V
सम्बोधने च ॥ ३१०२ ॥
sambodhane ca
Siddhānta-kaumudī
हे पचन् । हे पचमान ॥
Bālamanoramā
सम्बोधने च - संबोधने च ।शतृशानचा॑विति शेषः । प्रथमासमानाधिकरणार्थ आरम्भः । पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम् ।
SK 3103 · A 3.2.126V
लक्षणहेत्वोः क्रियायाः ॥ ३१०३ ॥
lakṣaṇahetvoḥ kriyāyāḥ
Siddhānta-kaumudī
क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः SK 2835 । प्रपीयमाणः सोमः ॥
Tattvabodhinī
NSP p. 520
—लक्षणहेत्वोः—। लक्ष्यतेऽनेनेति लक्षणं परिचायकम् ॥—शयाना इति । शीर् आत्मनेपदित्यात्परस्य लटः शानच् । अत्र शयनं लक्षणं चिह्नं पचनकर्तृकभोजनस्य न तु फलं नापि करणमिति हेलपेक्षया लक्षणस्य पृथङ्निर्देशः ॥—अर्जयन्निति । अर्जं प्रतियन्ने चुरादिः, अर्जनार्थो वास इत्यर्थः ॥—हरिमिति । हरिदर्शनं मुक्तौ कारणमित्यर्थः
Bālamanoramā
लक्षणहेत्वोः क्रियायाः - लक्षणहेत्वोः । लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं = ज्ञापकम् । तदाह — क्रियायाः परिचायके इति । धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत् । कर्तैव प्रत्ययार्थः । शयाना भुञ्जते यवना इति । अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम् । हेतावुदाहरति — अर्जयन्वसतीति । अर्जनाय वसतीत्यर्थः ।हेतावुदाहरणान्तरमाह — हरिं पश्यन्निति । हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः । ननु धनाद्यार्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह — हेतुः फलं कारणं चेति । इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुमिति भावः । प्रपीयमाण इति । अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह — कृत्यचेति ।
SK 3104 · A 7.2.83V
ईदासः ॥ ३१०४ ॥
īdāsaḥ
Siddhānta-kaumudī
आसः परस्यानस्य ईत्स्यात् । आदेः परस्य SK 44 । आसीनः ॥
Bālamanoramā
ईदासः - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।
SK 3105 · A 7.1.36V
विदेः शतुर्वसुः ॥ ३१०५ ॥
videḥ śaturvasuḥ
Siddhānta-kaumudī
वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥
Tattvabodhinī
NSP p. 520–521
—विदेः—। स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम् । तत्सामर्थ्याच्च ‘एकानुवन्धग्रहणे न बनुबन्धकस्य’ इत्येतदपि न प्रवर्तते ॥— पूर्व्यजोः—। शाननः शकारः सार्वधातुकलार्थः, नकारः स्वरार्थः । ण्वुलादिवत्स्वतन्त्रोऽयं न तु शत्रादिवल्लादेशस्तथाहि सति वेति वाच्यं स्यात्पवते यजते इति तिङोऽपि यथा स्युरिति । न च वासरूपन्यायेन निर्वाहः । लादेशेषु वासरूपविधिर्नास्तीत्याकरे स्थितत्वात् । किंच लादेशत्वे ‘लः कर्मणि च’ इति भावकर्मणोर्विहितस्य सस्यापि स्यादिति भावकर्मणोरपि प्रयुज्येत इष्यते तु कर्तर्येव । एवं चानशः ‘इङ्धार्योः—’ इति शतुश्च स्वातन्त्र्यं वोध्यम् । अत्र केचित् । शाननो लादेशत्वे लसार्वधातुकानुदात्तत्वं स्यादित्याहुस्तच्चिन्त्यम् । परलान्नित्स्वरप्रवृत्त्या पवमान इत्यादेरायुदात्तत्वे शाननोऽनुदात्तलस्येष्टत्वात् । नन्वेषां लादेशलानङ्गीकारे सोमं पवमान इत्यादौ कर्मणि षष्ठी स्यादिति चेन्मैवम् । ‘न लोका—’ इति सूत्रे तन्निति प्रत्याहारनिर्देश इत्युक्तत्वात् ॥—लक्षणेऽपि च चानशो लादेशलाभावेनात्मनेपदलाभावात्परस्यै- पदिभ्योऽपि विधानमिति ध्वनयनुदाहरति—निम्नान इति । ‘गमहन—’ इत्युपधालोपः
Bālamanoramā
विदेः शतुर्वसुः - विदेः शतुर्वसुः । वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् ।
SK 3106 · A 3.2.127सत्संज्ञा
तौ सत् ॥ ३१०६ ॥
tau sat
Siddhānta-kaumudī
तौ शतृशानचौ सत्संज्ञौ स्तः ॥
Bālamanoramā
तौ सत् - तौ सत् । 'लटः शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति । तदाह — तौ शतृशानचाविति ।
SK 3107 · A 3.3.14V
लृटः सद् वा ॥ ३१०७ ॥
lṛṭaḥ sad vā
Siddhānta-kaumudī
व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासमानाधिकरणेऽपि क्वचित् । करिष्यतीति करिष्यन् ॥
Bālamanoramā
लृटः सद् वा - लृटः सद्वा । लृटः शतृशानचौ वा स्त इत्यर्थः । व्यवस्थितेति । व्याख्यानादिति भावः । नित्यमिति । तेन तिङां निवृत्तिः । अप्रथमासामानाधिकरण्ये उदाहरति — करिष्यन्तमिति । प्रत्ययये परत उदाहरति — कारिष्यत इति । उत्तपदे उदाहरति — करिष्यद्भक्तिरिति । करिष्यन्ती भक्तिरिति । कर्मधारयः । सम्बोधने उदाहरति — हे करिष्यन्निति ।शयिष्यमाणाभोक्ष्यन्ते यवना॑ इति लक्षणे उदाहार्यम् । हेतावुदाहरति — अर्जयिष्यन्वसतीति । प्रथमासामानाधिकरण्येऽपि क्वचिदिति । अप्रथमासामानादिकरण्याऽभावेऽपि क्वचिदित्यर्थः । कदाचिदित्यपि द्रष्टव्यम् । इदं चलृट् शेषे चे॑ति भविष्यदधिकारविहिते लृटएव प्रवर्तते इतिअनवकॢप्त्यमर्षे॑त्यत्र भाष्ये स्पष्टम् ।
SK 3108 · A 3.2.128V
पूङ्यजोः शानन् ॥ ३१०८ ॥
pūṅyajoḥ śānan
Siddhānta-kaumudī
वर्तमाने । पवमानः । यजमानः ॥
Bālamanoramā
पूङ्यजोः शानन् - पूङ्यजोः शानन् । पञ्चम्यर्थे षष्ठी । वर्तमाने इति । शेषपूरणमिदम् ।वर्तमाने ल॑डित्यतस्तदनुवृत्तेरिति भावः । लड्ग्रहणं तु निवृत्तम् । ततश्च ण्वुलादिवत्स्वतन्त्रोऽयं , न तु शत्रादिवल्लादेशः । तथा च कर्तर्येवायं, न तु भावकर्मणोः । न च लादेशत्वाऽबावेसोमं पवमानट इत्यत्र कर्मणि षष्ठी स्यादिति वाच्यं,न लोके॑ति सूत्रे 'तृन्' इति प्रत्याहार इत्युक्तत्वात् ।
SK 3109 · A 3.2.129V
ताच्छील्यवयोवचनशक्तिषु चानश् ॥ ३१०९ ॥
tācchīlyavayovacanaśaktiṣu cānaś
Siddhānta-kaumudī
एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥
Bālamanoramā
ताच्छील्यवयोवचनशक्तिषु चानश् - ताच्छील्य । चानशि शचावितौ । भोगं भुञ्जान इति । भोगशील इत्यर्थः । कवचं विभ्राण इति । यौवनबालदिति भावः । शत्रुं निघ्ना इति । निहन्तुं शक्त इत्यर्थः । अतः परत्वाऽभावान्न मुक् । चानशो लादेशत्वाऽभावादनामत्मनेपदत्वात् परस्मैपदिभ्योऽपि प्रवृत्तिः ।
SK 3110 · A 3.2.130V
इङ्धार्योः शत्रकृच्छ्रिणि ॥ ३११० ॥
iṅdhāryoḥ śatrakṛcchriṇi
Siddhānta-kaumudī
आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥
Tattvabodhinī
NSP p. 521
— इङ्धार्योः—। इङ् आत्मनेपदिलात् शता न सिध्यति धारयतेरपि कर्तृगामिनि क्रियाफले न सिध्यति लसार्वधातुकानुदात्तत्वं च आप्नोतीत्ययमारम्भः
Bālamanoramā
इङ्धार्योः शत्रकृच्छ्रिणि - इङ्धार्योः । शतृ- अकृच्छ्रिणीति छेदः । अकृच्छ्रम् = अदुःखम्, तदास्यास्तीति अकृच्छ्री । इङ्, धारि अनयोद्र्वन्द्वात् पञ्चम्यर्थे षष्ठी । अधीयन्निति । सुखमध्येतेत्यर्थः । धारयन्निति । सुखेन धारयितेत्यर्थः ।
SK 3111 · A 3.2.131V
द्विषोऽमित्रे ॥ ३१११ ॥
dviṣo'mitre
Siddhānta-kaumudī
द्विषन् शत्रुः ॥
Bālamanoramā
द्विषोऽमित्रे - द्विषोऽमित्रे । द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः ।
SK 3112 · A 3.2.132V
सुञो यज्ञसंयोगे ॥ ३११२ ॥
suño yajñasaṃyoge
Siddhānta-kaumudī
सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥
Tattvabodhinī
NSP p. 521
—सुओ यज्ञसंयोगे । सुनोतेः शतृप्रत्ययः स्यात् यज्ञेन संयुज्यमाने वृत्तिश्चेत् । नन्विह सुओ यज्ञे इत्येवासु यज्ञविषयकश्चेत्सुनोत्यर्थं इति व्याख्यायां सुरां सुनोतीत्यादेर्व्यावर्तयितुं शक्यतात् । अत्राहुः । संयोगप्रहणं प्रधानकर्तृसंप्रत्ययार्थं तेन यजमानादन्यत्र न भवतीति । एवं चाप्रधाने कर्तरि ‘लटः शतृशानचौ’ इत्यनेनापि न भवति संयोगप्रहणसामर्थ्यादिति हरदत्तः । यः सुन्वन्तमवतीत्यादीनामेकवचनान्तानां यजमानपरत्वसंभवेऽपि बहुवचनान्तानां तु न संभवति । एकस्मिन्यागे एकस्यैव यजमानलादित्याशङ्कय यागविशेषे तु संभवतीति दर्शयितुमुदाहरति—सर्वे सुन्वन्त इत्यादि । सत्रयागे हि वह्वो यजमानास्त एव ऋत्विजां कर्म सोमाभिषवनं कुर्वन्तीति सुन्वन्त इत्यादिबहुवचनान्तस्यापि यजमानपरत्वं संभवतीति भावः
Bālamanoramā
सुञो यज्ञसंयोगे - सुञो यज्ञ । यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः । संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम् । तेन याजकेषु न भवति । तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात् । बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह — सर्वे सुन्वन्त इति ।
SK 3113 · A 3.2.133V
अर्हः प्रशंसायाम् ॥ ३११३ ॥
arhaḥ praśaṃsāyām
Siddhānta-kaumudī
अर्हन् ॥
Tattvabodhinī
NSP p. 521
—अर्हः—। प्रशंसायां किम् । अर्हति चौरो वधम् ॥—आ क्वेः—। शीलादीनां त्रयाणां विशेषणं समर्थयितुं निर्दिष्टैल्लिभिस्तच्छब्दैः प्रकृतिभूतधात्वयों निर्दिश्यते ॥—किपममिव्याप्येति । ‘भ्राजभासधुर्विद्युतोर्जि—’ इति वक्ष्यमाणमिति शेषः ॥—कर्ता कटानिति । ‘न लोकाव्यय—’ इति षष्ठीनिषेधः
Bālamanoramā
अर्हः पूजायाम् - अर्हः प्रशंसायाम् । अर्ह इति पञ्चमी । 'शतृप्रत्यय' इति शेषः । अर्हन्निति । पूजां प्राप्तुं योग्य इत्यर्थः । अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते ।
SK 3114 · A 3.2.134ताच्छील्याधिकारः
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥ ३११४ ॥
ākvestacchīlataddharmatatsādhukāriṣu
Siddhānta-kaumudī
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥
Bālamanoramā
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु - आ क्वेः । आङभिविधौ । तदाह — क्विपमभिव्याप्तेति ।भ्राजभासधुर्विद्युतोर्जिपृजुग्रावस्तुवः क्वि॑ बिति सूत्रमभिव्याप्येति यावत् । तत्र ताच्छीलिकाः प्रत्ययाः प्रायेण सोपसर्गेभ्यो नेति 'आढसुभगे' ति सूत्रे भाष्ये स्पष्टम् । तच्छीलः = तत्स्वभावः । फलमनपेक्ष्य स्वभावादेव प्रवर्तमान इति यावत् । स धर्मो यस्य स तद्धर्मा । स्वधर्मोऽयमिति प्रवर्तमानः । तस्या = धात्वर्थस्य साधुकर्ता तत्साधुकारी ।
SK 3115 · A 3.2.135V
तृन् ॥ ३११५ ॥
tṛn
Siddhānta-kaumudī
कर्ता कटान् ॥
Bālamanoramā
तृन् - तृन् । धातोस्तृन्प्रत्ययः स्यात्तच्छीलादिषु कर्तृषु । तच्छीले उदाहरति — कर्ता कटमिति । कटकरणक्रियाशील इत्यर्थः ।न लोके॑ति षष्ठीनिषेधः,न लोके॑ति सूत्रेतृ॑न्नित्यनेन 'लटः शत' इत्यारभ्य एतत्सूत्रस्थनकारेण प्रत्याहारश्रयणात् । तद्धर्मणि यथा — मुण्डयितारः श्राविष्ठायना भवन्ति ऊढां वधूम् । श्राविष्ठायना नाम देशविशेषीया वधूमुण्डनं स्वधर्म इत्यनुष्ठातार इत्यर्थः । तत्साधुकारिणिकर्ता कट॑मित्येवोदाहरणम् ।कटं साधु करोतीत्यर्थः ।
SK 3116 · A 3.2.136V
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ ३११६ ॥
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc
Siddhānta-kaumudī
अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥
Tattvabodhinī
NSP p. 521
—अलंकृञ्—। कृञिति डुकृञ् करण इत्यस्यैव प्रहणं न तु कृञ् हिंसायामित्यस्य ‘प्रसिद्धाप्रसिद्धयोः प्रसिद्धस्यैव प्रहणम्’ इति न्यायात् । निराङ्पूर्वोऽपि कृञ्, स एव प्रपूर्वो जनी प्रादुर्भावे । इह डुपचप् पाके, पत्तल्ल गतौ, मदी हर्षे, त्रयोऽपि उत्पूर्वाः पञ्चन्ते । तत्र उदः पचपतमद इत्येव वक्तव्ये प्रत्येकमुत्पूर्वस्य पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णीत्यादि न भवतीत्याहुः । रुच दीतौ अपपूर्वः, त्रपूष लज्जायाम्, वृत्तु वर्तने, वृषु वृद्धौ, षह मर्षणे, चर गतावित्यादीति । आदिशब्दमाह्यास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पन्निष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, इति । उत्पतिष्णुः ‘उत्पतिष्णु’ च चेरतुः खरदूषणौ इति भटिः । कालिदासोऽप्याह ‘एलानामुत्पतिष्णवः’ इति । केचित्तु पत इति स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्ययमाहुः । उन्मदिष्णुः रोचिष्णुः अपत्रपिष्णुः वर्तिष्णुः वर्धिष्णुः सहिष्णुः चरिष्णुः
Bālamanoramā
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मद- रुच्यपत्रपवृतुवृधुसहचर इष्णुच् - अलङ्कृढञ् । अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात् । इत्यादीति । निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्णुः, सहिष्णुः, चरिष्णुः ।
SK 3117 · A 3.2.137V
णेश्छन्दसि ॥ ३११७ ॥
ṇeśchandasi
Siddhānta-kaumudī
वीरुधः पारयिष्णवः ॥
Tattvabodhinī
alignment inferredNSP p. 521
—पारयिष्णव इति । ‘अयामन्ता—’ इति णेरय ॥—नैतदिति । चकारस्यानुक्तसमुच्चयार्थलमित्यर्थः ॥—ईत्वं नेति । ‘घुमास्या—’ इत्यादिनोगित्वादिति ‘क्रिति च’ इत्यत्र गकारं प्रश्निष्य गिति किति दितीति व्याख्यानादिति भावः ॥—गकारप्रश्नेषादिति । नन्वेवं गकारे चत्वरैस्यासिद्धत्वात् ‘हशि च’ इत्युत्त्वं स्यादिति चेत् । सत्यम् । सौत्रोऽयं निर्देशः । तथा च वार्तिकम्—‘रक्षोर्गित्वान्न स्थ ईकारः क्रितोरीत्यप्रशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रुत्युकोऽनिदत्तं कगोरिति’ ॥—दङ्क्षणव इति । दंश दशने ‘त्रश्च—’ इत्यादिना पत्वे ‘षढोः कः सि’ इति कलम् ‘आदेशप्रत्यययोः’ इति षलम् । ‘अनिदितां—’ इति नलोपो न, रक्षोर्मित्वेन प्राप्त्यमावात् ॥—त्रस्तुरिति । ‘नेङ्गशि—’ इति नेद्र
Bālamanoramā
णेश्छन्दसि - णेश्छन्दसि । ण्यन्ताद्धातोरिष्णुच् स्याच्छन्दसीत्यर्थ- । पारयिष्णव इति । पृधातोण्र्यनतादिष्णुचि णेर्लोपं बाधित्वाअयमन्ताल्वाय्ये॑त्यय् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् ।
SK 3118 · A 3.2.138V
भुवश्च ॥ ३११८ ॥
bhuvaśca
Siddhānta-kaumudī
छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥
Bālamanoramā
भुवश्च - भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ- । अण्यन्तार्थ आरम्भः ।
SK 3119 · A 3.2.139V
ग्लाजिस्थश्च ग्स्नुः ॥ ३११९ ॥
glājisthaśca gsnuḥ
Siddhānta-kaumudī
छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति SK 2381 इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥
vārttika
दंशेश्छन्दस्युपसंख्यानम्
(वार्तिकम्) ॥ दङ्क्ष्णवः पशवः ॥
Bālamanoramā
ग्लाजिस्थश्च क्स्नुः - ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद्भुव इत्यनुवकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः । ककार इत् । 'स्थास्नु' इत्यत्र कित्त्वलक्षणं 'घुमास्थे' तीत्त्वमाशङ्क्याह — गिदयमिति । सूत्रे चर्त्वेन ककारनिर्देश इति भावः । गित्त्वान्न गुण इति ।क्क्ङिति चे॑त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्,श्र्युकः किती॑ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह — श्र्युक इति । प्रश्लेषादिति । चर्त्वेनेति भावः ।
SK 3120 · A 3.2.140V
त्रसिगृधिधृषिक्षिपेः क्नुः ॥ ३१२० ॥
trasigṛdhidhṛṣikṣipeḥ knuḥ
Siddhānta-kaumudī
त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥
Bālamanoramā
त्रसिगृधिधृषिक्षिपेः क्नुः - त्रसिगृधि ।तच्छीलादिषु कर्तृष्वि॑ति शेषः । त्रस्नुरिति ।नेड्वशी॑ति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः ।
SK 3121 · A 3.2.141V
शमित्यष्टाभ्यो घिनुण् ॥ ३१२१ ॥
śamityaṣṭābhyo ghinuṇ
Siddhānta-kaumudī
उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च SK 987 इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य - SK 2763 इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥
Tattvabodhinī
NSP p. 521–522
—शमित्यष्टाभ्यो—। इतिशब्द आर्थः ॥—शमिनीतरेत्यत्रेति । अत्र नव्याः । विद्वत्तरेति वृत्तसिलादिविति पुंवद्भावेन शमितरेति भाव्यम् । न च उगित्वाभ्युपगमस्य फलाभावान्नस्त्वविकल्प एव भवतीति वाच्यम् । पाक्षिकहस्वेन उगित्करणस्य चरितार्थलाद्रस्वाभावपक्षे तु पुंवङ्गावस्य दुर्वारलादित्याहुः ॥—संपृच्छा—॥—संपर्कीति । पृची संपर्के ‘चजोः—’ इति कुत्वं गुणः॥—परिदेवीति । देव्यु देवने भ्वादिः, प्यन्तस्य दीव्यतेस्तु नेह ग्रहणं लक्षणिकलात् । अप्यन्तैः साहचर्याच्च ॥—अभ्याघातीति । अभ्याङ्पूर्वाद्धन्तेर्हस्य कुत्वेन घः । ‘हनस्तोऽचिण्णलोः’ इति नस्य तः ‘अत उपधायाः’ इति वृद्धिः ॥—वौ कष—। कष हिंसार्थः । लस श्लेषणक्रीडनयोः, कत्थ श्लाघायाम्, स्तम्भु विश्वासे
Bālamanoramā
शमित्यष्टाभ्यो घिनुण् - शमित्यष्टाभ्यः । इति शब्द आदिपर्यायः । शमादयो दिवादौ स्थिताः । तेभ्योऽष्टाभ्यो घिनुण् स्यात्तच्छीलादिष्वित्यर्थः । घित्त्वमुत्तरसूत्रार्थम् ।अकर्मकेभ्य एव घिनु॑णिति भाष्यम् । शमिनितरा शमिनीतरेति । शमिन्शब्दात्स्त्रियां नान्तलक्षणङीबन्तात्तरबन्ताट्टाप् । ह्रस्वविकल्प इति । भाष्यमते उगित्त्वाद्ध्रस्वः । काशिकामते तु उगित्त्वाऽभावन्न ह्रस्वः । न च ह्रस्वाऽभावे 'तसिलादिषु' इति पुंवत्त्वं शङ्क्यं,संज्ञापूरण्योश्चे॑ति निषेधात् । ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौउगिदचा॑मिति नुम् स्यादित्याशङ्क्य निराकरोति — न चैवमपि । झल्ग्रहणमपकृष्येति । 'नपुंसकस्य झलचः' इति उत्तरसूत्रादिति भावः । एतच्च प्रकृतसूत्रे, 'युवोरनाकौ' इति सूत्रे च भाष्ये स्पष्टम् । शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्क्याह — नोदात्तेति । प्रमादीति । प्रमादीति । मान्तत्वाऽभावान्न वृद्धिनिषेधः । ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण्, अलङ्कृञादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यताअह — उत्पूर्वादित्यादिना । ननु कथमत्र ताच्छीलिके घिनुणि वाऽसरूपविधिप्रवृत्तिः,ताच्छीलिकेषु वाऽसरूपविधिर्नास्ती॑ति निषेधादित्यत आह — ताच्छीलिकेष्विति । इयं परिभाषानन्दहिंसे॑त्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम् । प्रायिकमिति । एतच्चसूददीपदीक्षश्चे॑ति दीपग्रहणादितिजुचङ्क्रम्यदन्द्रम्ये॑ति सूत्रे भाष्ये स्पष्टम् ।
SK 3122 · A 3.2.142V
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ ३१२२ ॥
saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaśca
Siddhānta-kaumudī
घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥
Bālamanoramā
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह- दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज- भजातिचरापचरामुषाभ्याहनश्च - संपृचानु । संपृच, अनुरुध, आडम, आडस, परिसृ, संसृज, परिदेवि, संज्वर, परिक्षिप, परिरट, परिवद, परिदह, परिमुह, दुष, द्विष, द्रुह, दुह, युज, आक्रीड, विविच, त्यज, रज, भज, तिचर, अपचर, आमुष , अभ्याहन्, एषां सप्तविंशतेद्र्वन्द्वात्पञ्चमी । संपर्कीति ।चजो॑रिति कुत्वम् । अनुरोधीत्यादौ लघूपधगुणः । अदुपधेषु उपधावृद्धिः । परिदेवीति । 'देवृ देवने' भ्वादिः । दीव्यतेस्तु ण्यन्तस्य ग्रहणं , लाक्षणिकत्वात्, अण्यन्तैः साहचर्याच्च । अभ्याघातीति ।हनस्तोऽचिण्णलो॑रिति तत्वम् । 'हो हन्ते' रिति कुत्वम् ।
SK 3123 · A 3.2.143V
वौ कषलसकत्थस्रम्भः ॥ ३१२३ ॥
vau kaṣalasakatthasrambhaḥ
Siddhānta-kaumudī
विकाषी । विलासी । विकत्थी । विस्रम्भी ॥
Bālamanoramā
वौ कषलसकत्थस्रम्भः - वौ कषलस । कष, लस, कत्थ, रुआम्भ् एषां द्वन्द्वात्पञ्चमी । एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।
SK 3124 · A 3.2.144V
अपे च लषः ॥ ३१२४ ॥
ape ca laṣaḥ
Siddhānta-kaumudī
चाद्वौ । अपलाषी । विलाषी ॥
Tattvabodhinī
NSP p. 522
—अपे च लषः । लष कान्तौ
Bālamanoramā
अपे च लषः - अपे च लषः । चाद्वाविति । वौ उपपदेऽपीत्यर्थः । अपे वौ च उपपदे लषोर्घिनुणित्यर्थः । ताच्छील्यादिष्वेव ।
SK 3125 · A 3.2.145V
प्रे लपसृद्रुमथवदवसः ॥ ३१२५ ॥
pre lapasṛdrumathavadavasaḥ
Siddhānta-kaumudī
प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥
Tattvabodhinī
NSP p. 522
—प्रे लप—। रप लप व्यक्तायां वाचि ॥— प्रमाशीति । मथे विलोडने ॥—निन्दाहिंस—। इह सूत्रे विनाशेति विपूर्वस्य नशेर्ण्यन्तस्य भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः । केचित्तु विनाशीति प्यन्तमेव पठन्ति, परिवादीति तु वदेर्ण्यन्तस्य पाठो निर्विवाद एव । असूयतिः कण्ड्वादिर्यगन्तः, निन्दादीनामसूयान्तानां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । स्यादेतत् । असूयतेरेव बुज् विधेयो नेतरेभ्यः, निन्दादीनां ण्वुलैव सिद्धेः । न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति उभयथाप्याद्युदात्तलात् । असूयतेस्तु ण्वुलि ‘लिति’ इति प्रत्ययात्पूर्वमुदात्तं बुजि तु ‘ठिनलादिर्नित्यम्’ इत्यादिरुदात्त इति विशेषस्तदाह—ण्वुलेति
Bālamanoramā
प्रे लपसृद्रुमथवदवसः - प्रे लप । लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी । प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः ।
SK 3126 · A 3.2.146V
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ॥ ३१२६ ॥
nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsūyo vuñ
Siddhānta-kaumudī
पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥
Tattvabodhinī
alignment inferredNSP p. 522
—तृजादयो नेति । नेदं ण्वुलिवषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः
Bālamanoramā
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ् - निन्दहिंस । निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः । पञ्चम्यर्थे प्रथमेति । सौत्रं पुंस्त्वमेकवचनं वेति भावः । विनाशेति — विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः । शकारादकार उच्चारणार्तः । केचित्तुविनाशी॑ति ण्यन्तमेव पठन्ति । परिवादीति — तु ण्यन्तमेव । असूयेति — कण्ड्वदियगन्तः । इत्यादीति । क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः । ननुअसूयो वु॑ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः । लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात् । असूयतेस्तु ण्वुलिलिती॑ति प्रत्ययात्पूर्वं उकार उदात्तः । वुञि तुञ्नित्यादिर्नित्य॑मिति धातोरकार उदात्त इति विशेषः । तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह — ण्वुला सिद्धे इति । तृजादयो नेतीति । तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान् । अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः । इदं च प्रायिकम् । तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम् ।
SK 3127 · A 3.2.147V
देविक्रुशोश्चोपसर्गे ॥ ३१२७ ॥
devikruśoścopasarge
Siddhānta-kaumudī
आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥
Tattvabodhinī
alignment inferredNSP p. 522
—देविकुशोः—। दीव्यतेर्हेतुमण्यन्तस्य दिवु कूजने इति चुरादिप्यन्तस्य च ग्रहणम्
Bālamanoramā
देविक्रुशोश्चोपसर्गे - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः ।
SK 3128 · A 3.2.148V
चलनशब्दार्थादकर्मकाद्युच् ॥ ३१२८ ॥
calanaśabdārthādakarmakādyuc
Siddhānta-kaumudī
चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥
Tattvabodhinī
NSP p. 522
—चलनशब्दार्था—। चल कम्पने, चुप मन्दायां गतौ, कपि चलने, शब्द शब्दने चुरादिः, रु शब्दे । चलन इत्यादि ‘युवोः’ इत्यनादेशः
Bālamanoramā
चलनशब्दार्थादकर्मकाद्युच् - चलन । शब्दन इति । 'शब्द शब्दने' चुरादिः । शब्दनं - शब्दोच्चारणम् । धात्वर्थोपसङ्ग्रहादकर्मकः ।
SK 3129 · A 3.2.149V
अनुदात्तेतश्च हलादेः ॥ ३१२९ ॥
anudāttetaśca halādeḥ
Siddhānta-kaumudī
अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥
Tattvabodhinī
NSP p. 522
—अनुदात्तेतश्च हलादेः । ननु सर्वोप्यनुदात्तेत हलन्त एवेति तदन्तविधिं वाधित्वा सामर्थ्याद्धलादिरेव ग्रहीष्यते तत्किमादिग्रहणेनेति चेत् । अत्राहुः । आदिग्रहणामावे हलन्तादित्यर्थः स्यात्तथाहि सत्येधितेत्यादावतिप्रसङ्गः स्यात्, जुगुप्सत इत्यादि च न सिध्येत् । अस्ति चेहानुदात्तेत्त्वं गुपादिष्वचरितार्थस्यानुवन्धस्य समुदायविशेषकलादिति दिक्
Bālamanoramā
अनुदात्तेतश्च हलादेः - अनुदात्तेतश्च । आदिग्रहणाऽभावे हलन्तादित्यर्थः स्यात्, ततश्च जुगुप्सन इति न स्यात्, सन्नन्तस्य हलन्तत्वाऽभावात् । अस्ति चाऽनुदात्तेत्वं सन्नन्तस्य, 'गुप' इत्यनुदात्तेत्त्वस्य केवले प्रयोजनाऽभावेन सन्नन्तार्थत्वात् ।
SK 3130 · A 3.2.150V
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ३१३० ॥
jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ
Siddhānta-kaumudī
जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत SK 3134 इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥
Tattvabodhinī
NSP p. 522–523
—जुचङ्क्रम्य—। कमिद्रमी यङन्तौ, क्रमु पादविक्षेपे, द्रम हम्म मीमृ गतौ ॥—पूर्वेणेति । ‘अनुदात्तेतश्च—’ इत्यनेन । इह पदिग्रहणं सकर्मकार्थमिति वृत्तिकृतोक्तम् । भाष्ये तु अनभिधानादेव सकर्मकान्न भविष्यतीत्युक्तलात् । ज्ञापनार्थमेव तदित्याशयेनाह—बाधा माभूदित्यादि ॥— परस्परमिति । निन्दादिसूत्रे हि तच्छीलादिषु वासरूपविधानात् तृजादयो नेति ज्ञापितमिह तु ताच्छीलिकेषु परस्परं नेति ज्ञापितमिति । विदेक इति भावः ॥—कुध—। कुध क्रीधि, रुष रोषि, मङ्गि भूषायाम्, भूष अलंकारे ॥—त यः । अथ पय नय तय जय गताविति पठितस्य नयतेर्नायं निर्देशः अनुदात्तेत्वादेव युचः सिद्धलात्किंतु नेति पृथक् पदमिति मलाह—यकारान्तादिति ॥—कूयिता । क्ष्मायितेति । कूयी शब्दे उन्दे च, क्ष्मायी विधूनने ॥ सूददीप—सूद क्षरणे, दीपी दीतौ, दीक्ष मौण्येज्यादौ ॥—ताच्छीलिकेष्विति । परस्परमिति शेषः ॥—प्रायिकमिति । न केवलं यथाश्रुतभाष्यमवलम्ब्य युज्ञयोरेव समावेश इति मन्तव्यं किंतु प्रायिकल एव भाष्यस्य तात्पर्यम् । तेन गमेः ‘लवपतपद’—इत्युक्तविषये तृप्तपि । गन्ता गामुकः । तथा ‘वौ क्वलस’—इति धिनुण्विषये युजपि । विक्तथी विक्त्थन् इत्यादि सिध्यतीति भावः ॥—जल्प—जप जल्प व्यक्तायां वाचि, भिक्ष भिक्षायां अलामे लामे च, कुट्ट छेदने, लुण्ठ स्तेये, चौरादिकाविमौ । अत्र व्याचल्युः । जल्पेः ‘चलनशब्दार्थात्’ इति भिक्षेः ‘अनुदात्तेतश्च’ इति युचि प्राप्ते कुट्टलुण्ठजोः ‘णेश्छन्दसि’ इति इष्णुजि प्राप्ते वृद्धस्तु ‘आद्यगमहनजन’—इति किकिनोः प्राप्तयोरयं विधिरिति । षो डीषयं इत्याह—वराकीति ।—प्रजवीति । जु इति सौत्रो गलयः ॥—जिद्दक्षि—जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिज् सेवायाम् विपूर्वः, व्यथ भयसंचलनयोर्नवपूर्वः । निपातनान्नयो धातुना समासे नलोपे ततः प्रत्ययः । अम गल्यादिषु अभिपूर्वः ॥—प्रसवीति । पू प्रेरणे । अस्मादिनिः । पूङ् प्राणिगर्भविमोचने, पूङ् प्राणिप्रसवे, इमौ न गृह्येते सानुवन्धलात् । ‘जिद्दक्षि’—इत्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम् । एवं हि पृथग्वि-भक्तिश्चकारश्च मास्त्विति सुवचम्
Bālamanoramā
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः - जुचङ्क्रम्य । जु, चङ्क्रम्य, दन्द्रस्य, सृ, गृधि, ज्वल, शुच, लष, पत, पद एषां दशानां द्वन्द्वात्पञ्चमी । एभ्यस्तच्छीलादिषु युच् स्यादित्यर्थः । धातुपाठे जुधातोरदर्शनादाह — सौत्र इति । चङ्क्रमण इति । यङन्ताद्युच् । 'यस्य हलः' इति यकारलोपः, अतो लोपः । एवं दन्द्रमणः, सरणः, गद्र्धनः, ज्वलनः, शोचनः, लषणः, पतनः, पदन इत्यप्युदाहार्यम् । पूर्वेणेति ।अनुदात्तेतश्च हलादे॑रित्यनेनेत्यर्थः । तेनेति । उकञ् ह्रयं तच्छीलाधिकारस्थः । तत्र वाऽसरूपविधिनैव उकञाअनुदात्तेतश्च हलादे॑रिति विहितस्य पदेर्युचो बाधो न भविष्यतीति 'जुचङ्क्रम्ये' ति युज्विधिरनर्थकः स्यादतस्तातच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति विज्ञायते इत्यर्थः ।निन्दहिंसे॑ति सूत्रेतच्छीलादिषु वासरूपविधिना तृजादयो ने॑ति ज्ञापितम् । इह तुताच्छीलिकेषु परस्परं वासरूपविधिर्नास्ती॑ति ज्ञाप्यते इति न पौनरुक्त्यम् । तृन्नेति । अलम्पूर्वात्कृञोऽलङ्कृञित्यादिसूत्रविहितेन तच्छीलाधिकारस्थेन इष्णुचातृ॑न्निति सामन्यविहितस्तच्चीलाधिकारस्थो बाध्यते इत्यर्थः ।
SK 3131 · A 3.2.151V
क्रुधमण्डार्थेभ्यश्च ॥ ३१३१ ॥
krudhamaṇḍārthebhyaśca
Siddhānta-kaumudī
क्रोधनः । रोषणः । मण्डनः । भूषणः ॥
Bālamanoramā
क्रुधमण्डार्थेभ्यश्च - क्रुधमण्डार्थेभ्यश्च । 'क्रुध कोपे' 'मडि भूषायाम्' एतदर्थेभ्यो धातुभ्यो युच् स्यात्तच्छीलादिष्वित्यर्थः ।
SK 3132 · A 3.2.152V
न यः ॥ ३१३२ ॥
na yaḥ
Siddhānta-kaumudī
यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥
Bālamanoramā
न यः - न यः । 'य' इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति ।
SK 3133 · A 3.2.153V
सूददीपदीक्षश्च ॥ ३१३३ ॥
sūdadīpadīkṣaśca
Siddhānta-kaumudī
युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि - SK 3147 इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥
Bālamanoramā
सूददीपदीक्षश्च - सूददीप । सूद, दीप, दीक्ष, एषां द्वन्द्वात्पञ्चमी । युज्नेति । शेषपूरणमिदम् ।अनुदात्तेतश्चे॑ति प्राप्तो युच् प्रतिषिध्यते । नन्विह दीपग्रहणं व्यर्थं,नमिकम्पिस्म्यजसकमहिंसदीपोरः॑ इति विशेषविहितेन रप्रत्ययेन युचो बाधसिद्धेः । नच वाऽसरूपविधिना तद्बाधः शङ्क्यः, ताच्छीलिकेषु वासरूपविधेः प्रतिषेधादित्यत आह — नमिकम्पीति । रेणेति । रप्रत्ययेनेत्यर्थः । प्रायिकमिति । तथा चाऽत्र वासरूपविधिना ताच्छीलिकेनापि रप्रत्ययेन युचो बाधासंभवादिह दीपेर्युचो निषेधोऽर्थवानिति भावः । तेनेति । ताच्छीलिकेऽपि क्वचिद्वासरूपविदेः सत्त्वादित्यर्थः । कम्ना कमनेति । इच्छाशीलेत्यर्थः । अत्रापिनमिकम्पी॑ति रेण युचः पक्षे बाध इति भावः । आक्षिपति — यदीति.यदिसूददीपदीक्षश्चे॑तिसूदेर्युच्प्रतिषिध्यते तदा 'मधुशूदन' इति कथमित्यन्वयः । समाधत्ते — नन्द्यादिरिति ।सूदि॑रिति सेषः । तथा चनन्दिग्रही॑ति ल्युप्रत्यय इति भावः ।
SK 3134 · A 3.2.154V
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ॥ ३१३४ ॥
laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya ukañ
Siddhānta-kaumudī
लाषुकः । पातुक इत्यादि ॥
Bālamanoramā
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् - लषपत । एभ्यो दशभ्य उकञ् स्यात्तच्छीलादिष्वर्थेषु । इत्यादीति । पादुकः । आतो युक् । स्थायुकः । भावुकः । वर्षुकः । घातुकः । 'हनस्तः' इति तत्वम् । 'हो हन्तेति' कुत्वम् । कामुकः । गामुकः । शारुकः ।
SK 3135 · A 3.2.155V
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ ३१३५ ॥
jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan
Siddhānta-kaumudī
जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥
Bālamanoramā
जल्पभिक्षकुट्टलुण्टवृङः षाकन् - पुवः संज्ञायाम् । 'इत्र' इति शेषः । करणे इत्येव । पवित्रमिति । पूयते अनेनाऽऽज्यामिति विग्रहः । तदाह — येनाज्यमिति । पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽऽह — यच्चानामिकेति । अनामिका — उपकनिष्ठिकाह्गुलिः ।
SK 3136 · A 3.2.156V
प्रजोरिनिः ॥ ३१३६ ॥
prajoriniḥ
Siddhānta-kaumudī
प्रजवी । प्रजविनौ । प्रजविनः ॥
Bālamanoramā
प्रजोरिनिः - प्रजोरिनिः । जुः सौत्रो धातुः । प्रपूर्वादस्मादिनिप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । नकारादिकार उच्चारणार्थः ।
SK 3137 · A 3.2.157V
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ ३१३७ ॥
jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaśca
Siddhānta-kaumudī
जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥
Bālamanoramā
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च - जिदृक्षि । जि, दृ, क्षि, विश्रि, इण्, वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः । जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः । इण् गतौ । वमु उद्गिरणे । व्यथ भयसंचलनयोः — नञ्पूर्वः । निपातनान्नञो धातुना समासे 'न लोपो नञः' इति नकारलोपः । अमु गत्यादिषु- अभिपूर्वः । भू सत्तायाम् — परिपूर्वः । षू प्रेरणे प्रपूर्वः । एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः । सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम् ।
SK 3138 · A 3.2.158V
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥ ३१३८ ॥
spṛhigṛhipatidayinidrātandrāśraddhābhya āluc
Siddhānta-kaumudī
आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः ।
vārttika
शीङो वाच्यः
(वार्तिकम्) ॥ शयालुः ॥
Tattvabodhinī
NSP p. 523
—स्पृहि—स्पृह ईप्सायाम्, गृह् प्रहणे, पत गतौ ॥—त्रयश्चुरादाविति । तेन णेरयादेशेन रूपसिद्धिरिति भावः । यथेवं णिचि उपधागुणवृद्धी स्यातामंत आह—अदन्ता इति । ततश्चाल्लोपस्य स्थानिव- स्वात्तदभाव इति भावः ॥—तत्पूर्व इति । तच्छब्दस्य समासोऽपि निपातनादिति बोध्यम् । डुधान् श्रत्पूर्वः । श्रद्धालुः । धेटस्तु नेदं रूपम् । श्रत्पूर्वस्य तस्य प्रयोगाभावादिति व्याचल्युः । कथं कृपालुः । स्पर्धालुः इति । कृपां स्पर्धां च लातीति विप्रहे मृगय्वादिलात्कुः
Bālamanoramā
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् - स्पृहिगृहि । स्पृहि, गृहि,पति, दयि, निद्रा, तन्द्रा, श्रद्धा, एभ्यः सप्तम्य आलुच् स्यात्तच्छीलादिष्वित्यर्थः । स्पृहयालुरिति । स्पृहधातोरदन्तादालुच् ।अयामन्ते॑ति णेरय् णिलोपापवादः । अल्लोपस्य स्थानिवत्त्वान्न लघूपधगुणः । एवं गृहयालुः । पतयालुरित्यत्र तु अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । निद्रालुरिति ।द्रा कुत्सायां गतौ॑ निपूर्वादालुच् । तत्पूर्वो द्रेति । तच्छब्दपूर्वो द्राधातुस्तन्द्रेत्यनेन गृह्रत इत्यर्थः । श्रद्धालुरिति ।श्र॑दित्यव्ययं, तत्पूर्वाद्धातोरालुच् । शीङो वाच्य इति । आलु॑जिति शेषः ।
SK 3139 · A 3.2.159V
दाधेट्सिशदसदो रुः ॥ ३१३९ ॥
dādheṭsiśadasado ruḥ
Siddhānta-kaumudī
दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥
Tattvabodhinī
NSP p. 523
—दाधेट्—। डुदान्दोदेडां त्रयाणामेव ग्रहणं न तु दाण्दापोरिलाहुः ॥—भङ्कुर इति । ‘चजोः—’ इति कुलम् । अभिधानस्वभावाद्भजेः कर्मकर्तर्येवेलाहुः
Bālamanoramā
दाधेट्सिशदसदो रुः - दाधेट् । दा, धेट्, सि, शद्, सद् एषां द्वन्द्वात्पञ्चमी । एभ्यो रुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।
SK 3140 · A 3.2.160V
सृघस्यदः क्मरच् ॥ ३१४० ॥
sṛghasyadaḥ kmarac
Siddhānta-kaumudī
सृमरः । घस्मरः । अद्मरः ॥
Bālamanoramā
सृघस्यदः क्मरच् - सृघस्यदः । सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् ।
SK 3141 · A 3.2.161V
भञ्जभासमिदो घुरच् ॥ ३१४१ ॥
bhañjabhāsamido ghurac
Siddhānta-kaumudī
भङ्गुरः । भासुरः । मेदुरः ॥
Bālamanoramā
भञ्जभासमिदो घुरच् - भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी । एभ्यो घुरच् स्ात्तच्छीलादिष्वित्यर्थः । घचावितौ । भङ्गुर इति ।चजो॑रिति कुत्वम् ।
SK 3142 · A 3.2.162V
विदिभिदिच्छिदेः कुरच् ॥ ३१४२ ॥
vidibhidicchideḥ kurac
Siddhānta-kaumudī
विदुरः । भिदुरम् । छिदुरम् ॥
Tattvabodhinī
NSP p. 523
—विदिभिदि—। विदेर्हानार्थस्यैव ग्रहणं न तु लाभार्थस्य व्याख्यानात् ॥—छिदुरमिति । कर्मकर्तरि प्रत्यय इति वृत्तिः, नेति तद्भाष्ये दृष्टम् । तथा च माघः मुख्ये कर्तरि प्रायुङ्क—‘प्रियतमाय वपुर्युरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना’ इति । इह अदुरिति च्छेदः ॥—इत्वरः । इत्वरीति । इण् गतौ ‘हस्वस्य पिति—’ इति तुक् कित्त्वाद्बुणाभावः । ‘टिड्डा—’ इत्यादिना स्त्रियां डीप्
Bālamanoramā
विदिभिदिच्छिदेः कुरच् - विदिभिदि । तच्छीलादिष्वित्येव । विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः ।
SK 3143 · A 3.2.163V
इण्नश्जिसर्तिभ्यः क्वरप् ॥ ३१४३ ॥
iṇnaśjisartibhyaḥ kvarap
Siddhānta-kaumudī
इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥
Bālamanoramā
इण्नश्जिसर्त्तिभ्यः क्वरप् - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् ।
SK 3144 · A 3.2.164V
गत्वरश्च ॥ ३१४४ ॥
gatvaraśca
Siddhānta-kaumudī
गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥
Bālamanoramā
गत्वरश्च - गत्वरश्च । गमेरिति.गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः । झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः । पित्त्वात्तुक् । गत्वरीति ।टिड्ढे॑ति ङीप् ।
SK 3145 · A 3.2.165V
जागुरूकः ॥ ३१४५ ॥
jāgurūkaḥ
Siddhānta-kaumudī
जागर्तेरूकः स्यात् । जागरूकः ॥
Tattvabodhinī
NSP p. 523–524
—जागरूकः । जागुरिति पञ्चम्यन्तं तद्याचष्टे—जागर्तेरिति । जागरूक इति सिद्धरूपमेव न तु निपातितम् । उत्तरसूत्रे ऊकस्याननुवृत्तिप्रसङ्गात् ॥—यजजप—॥—यायजूक इति । यजेर्यङि द्विलादि ‘दीर्घोऽकितः’ इत्यभ्यासदीर्घः । अतो लोपे ‘यस्य हलः’ इति यलोपः ॥—जञ्जपक इत्यादि । ‘जपजभदहदश—’ इत्यादिना नुक् । वावदकशब्दस्तु ‘उल्लकादयश्च’ इत्यत्र वक्ष्यते। माधवस्लाह कुर्वादिगणे बावदूक इति पाठादेव यङन्ताद्वैरूकप्रत्यय इति
Bālamanoramā
जागुरूकः - जागुरूकः । 'जागृ' इत्यस्य जागुरित पञ्चम्यन्तं पदम् । तदाह — जागर्तेरिति । तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, रपरत्वम् । सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् ।
SK 3146 · A 3.2.166V
यजजपदशां यङः ॥ ३१४६ ॥
yajajapadaśāṃ yaṅaḥ
Siddhānta-kaumudī
एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥
Bālamanoramā
यजजपदशां यङः - यजजपदशां यङः । यज, जप,दश एषां त्रयाणां द्वन्द्वः । पञ्चम्यर्थे षष्ठी । तदाह — एभ्य इति । तच्छीलादिष्वित्येव । ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह — भाविनेति । ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत् । यायजूक इति । 'यस्य हलः' इति यलोपः । 'अतो लोपः' 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । जञ्जपूक इति ।जपजभदहदशभञ्जपशां चे॑त्यभ्यासस्य नुक् । एवं दन्दशूकः ।
SK 3147 · A 3.2.167V
नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ ३१४७ ॥
namikampismyajasakamahiṃsadīpo raḥ
Siddhānta-kaumudī
नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥
Bālamanoramā
नमिकम्पिस्म्यजसकमहिंसदीपो रः - नमिकम्पि । नमि, कम्पि, स्मि, अजस, कम, हिंस, दीप् एषां द्वन्द्वात्पञ्चम्येकवचनम् । एभ्यः सप्तभ्यो रप्रत्ययः स्यात्तच्छीलदिष्वित्यर्थः । अजसधातोर्धातुपाठेऽदर्शनादाह — जसिर्नञ्पूर्व इति ।जसु मोक्षणे॑अयं नञ्पूर्वः शक्तिस्वभावात् क्रियासातत्ये वर्तते इत्यर्थः । निपातनाद्धातुना नञः समासे 'नलोपो नञः' इति नलोपः ।
SK 3148 · A 3.2.168V
सनाशंसभिक्ष उः ॥ ३१४८ ॥
sanāśaṃsabhikṣa uḥ
Siddhānta-kaumudī
चिकीर्षुः । आशंसुः । भिक्षुः ॥
Tattvabodhinī
NSP p. 524
—सनाशंस—। सनिति प्रत्ययः हृणात्तदन्तग्रहणम्। षणु दाने। षण संभक्ताविति धात्वोऽस्तु नेह ग्रहणम्। गर्गादिषु विजिगीपुशब्दस्य पाठात्। आशंसैल्याङः शंडु इच्छायामित्यर्थं गृह्यते न शंडु स्तुताविति आङा सह निर्देशात्
Bālamanoramā
सनाशंसभिक्ष उः - सनाशंस । सन्, आशंस, भिक्ष एषां त्रयाणां द्वन्द्वात्पञ्चम्येकवचनम् ।स॑निति सन्प्रत्ययान्तं गृह्रते ।षणु दाने॑, 'षण संभक्तौ' इत्यनयोस्तु न ग्रहणं , गर्गादिषु विजिगीषुशब्दापाठाल्लिङ्गात् । एभ्य उप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः । आशंसुरिति ।आङः शसि इच्छाया॑मित्यस्मादुः ।
SK 3149 · A 3.2.169V
विन्दुरिच्छुः ॥ ३१४९ ॥
vinduricchuḥ
Siddhānta-kaumudī
वेत्तेर्नुम् एषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दः । इच्छति इच्छुः ॥
Tattvabodhinī
NSP p. 524
—विन्दुरिच्छुः। । विद ज्ञाने इत्यस्यैव प्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं नत्विष गतौ, इष आभीकृष्ट्य इत्यनयोः । अनभिधानान्निपातनाद्वैतिभावः। विन्दुशब्दस्तु पवर्गायादिः विदि अवयवेऽस्मान्मृगय्वादिलात्कुप्रत्यये बोध्यः
Bālamanoramā
विन्दुरिच्छुः - विन्दुरिच्छुः । वेत्तेरिति । 'विद ज्ञाने' इत्यस्यादुप्रत्यये प्रकृतेर्नुमागमः । इषु इच्छायामित्यस्मादुप्रत्यये षकारस्य छत्वं च निपात्यते इत्यर्थः । वेत्तीति । धातुप्रदर्शनम् । तच्छील इति । वेदनशील इत्यर्थः । इच्छतीति ।इषु इच्छाया॑मिति धातुप्रदर्शनम् । एषणशील इत्यर्थः ।
SK 3150 · A 3.2.170V
क्याच्छन्दसि ॥ ३१५० ॥
kyācchandasi
Siddhānta-kaumudī
देवाञ्जिगाति सुम्नयुः ॥
Tattvabodhinī
NSP p. 524
—क्याच्छन्दसि। क्य इति क्यच्क्यज्वयङां सामान्यग्रहणम्। क्यान्ताद्भातोद्धन्दसि विषये तच्छीलादिषु उप्रत्ययो भवतीति काशिका, किथः क्य इति व्याख्यानात्कृष्टादियगपि गृह्यते। तेन 'तुरण्यवोऽङ्गिरसो नक्षन्त', 'समर्प्यैमसपर्यबः', 'यमस्य योनौ शकुनं भुरण्युम्' ईल्यादि सिद्धम्। तुरण लरायाम्, सपर पूजायाम्, भुरण धारणपोषणयोरित्येते कृष्टादिषु पठिताः। अथ कथं 'सन्तः प्रणयिवाक्यानि गृहन्ति ह्यनसूयबः' इति भट्टपादाः। मृगय्वादिषु असूयशब्दो द्रष्टव्य इति हरदत्तः ॥—सुम्नयुरिति। सुम्नशब्दात्क्यचि तदन्तादुः। 'न छन्दस्यपुत्रस्य' इति निषेधात् 'क्यचि च' इति ईलम् 'अकृत्सार्व-' इति दीर्घंश्च न भवति ॥—आट्ट—। 'ऋदोरप्' इतिबदादिति दकारो मुखमुखार्थो न लयं तकारस्तेन तात्परलाभावाह इत्यनेन दीधौऽपि गृह्यते। ततुरिजैगुरिः। तॄ अवनतरणयोरित्यस्य गृहनिगरण इत्यस्य च 'बहुलं छन्दसि—' इत्युत्त्वे रूपमिति प्राश्नः। वस्तुतस्तु आदित्यादिप्रकृतिविशेषणमुदाहरणं प्रपञ्चमात्रम्। किकिनौ लिङ्गचेत्येतावन्मात्रमेव विवक्षितम्। तथाच वार्तिकम् 'किकिनातुत्सर्गइछन्दसि सदादिभ्यो दर्शनात्' इति। उदाहृतं च भाष्ये सेहिनैमिरित्यादि। एवं स्थिते आदिति तंपरकरणेऽपि न क्षतिरिति ध्वनयन्नाह—आदन्ताद्बदन्तादिति ॥—वग्निर्वज्रमिति। 'न लोका—' इति षष्ठीनिषैधाद्भितीया। किकिनोः स्थाने तिवादयो लिङ्गदित्यतिदेशेन खरूपावाधेनैव कार्यातिदेशात्। छान्दससूत्रद्वयोपन्यसंनं भाषायां धाञ्जित्यादिवार्तिकविषयविवेचनार्थम्। इह च वार्तिके गमिर्यथपि न दृश्यते तथापि धातुबृत्तौ क्लिङ्गैः क्लिङ्गैः क्लिङ्गैः च दर्शनादुपन्यस्तः ॥—जग्मिरिति। 'गमहनजन-' इत्युपधालोपः ॥—जग्मिरिति। 'अभ्यासाढ्' इति कुलम् ॥ —दधिरिति। आतो लोपः ॥—नेमिरिति। एलाभ्यासलोपौ ॥—सासहीत्यादि। यङोऽतो लोपे यलोपः। अभ्यासदीर्घः ॥—नीगमावश्चेति। 'नीगवञ्छुः' इत्यादिना प्राप्तस्य नीगागमस्याभाव इत्यर्थः ॥—वृष्णगिति। हिन्द्वान्न गुणः नजिङ इकार उच्चारणार्थः ॥—कुकल्नपीति। अत एव 'मीरभीरुकभीलुकाः' इत्यमरः .॥—ईश्वर इति। 'नेङ्खो-' इतीडभावः ॥—पेस्वर इति। पिसृपेसृगतौ ॥—कस्वर इति। कस गतौ
Bālamanoramā
क्याच्छन्दसि - क्याच्छन्दसि । क्यप्रत्ययान्तादुप्रत्ययः स्यात्तच्छीलादिषु छन्दसीत्यर्थः । सुम्नयुरिति । सुम्नं - सुखम् ।तदात्मन इच्छतीत्यर्थे सुम्नशब्दात् क्यच् ।न च्छन्दस्यपुत्रस्ये॑ति निषेधात्क्यचि चे॑ति ईत्त्वम्,अकृत्सार्वे॑ति दीर्गश्च न ।सुम्नये॑ति क्यजन्तादुप्रत्ययः । अतो लोपः ।
SK 3151 · A 3.2.171V
आदृगमहनजनः किकिनौ लिट् च ॥ ३१५१ ॥
ādṛgamahanajanaḥ kikinau liṭ ca
Siddhānta-kaumudī
आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः ।
vārttika
भाषायां धाञ्कृसृगमिजनिनमिभ्यः
(वार्तिकम्) ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः ।
vārttika
सासहिवावहिचाचलिपापतीनामुपसंख्यानम्
(वार्तिकम्) ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥
Bālamanoramā
आदृगमहनजनः किकिनौ लिट् च - आदृगम । आत्, ऋ, गम, हन, जन्, एषां द्वन्द्वात्पञ्चमी ।कि किन् अनयोद्र्वन्द्वः । लिट् चेति व्याचष्टे — तौ च लिड्वदिति । तच्छीलादिष्वित्येव । पपिरिति । पाधातोः किः । द्वित्वादि, आल्लोपः । ददिरिति । दाधातोः किः । द्वित्वादि । बभ्रिर्वज्रमिति । भृञः किः, द्वित्वादि । जघ्निरित । हनः किः । द्वित्वादि ।गमहने॑त्युपधालोपः ।हो हन्ते॑रिति कुत्वम् । जज्ञिरिति । जनेः किः । द्वित्वादि । एवं किन्यपि बोध्यम् । स्वरे विशेषः । छान्दसमप्येतत्सूत्रद्वयं भाषायामित्यादिवक्ष्यमाणवरातिकविवेचनाय इहोपन्यस्तम् । भाषायामिति । वार्तिकमिदम् । धाञ्, कृ, सृ, गमि, जनि, नमि एभ्यः षड्भ्यः किकिनौ , तौ च लिड्वदिति वक्तव्यमित्यर्थः । दधिरित्यादि । किकिनोः कृतयोर्द्वित्वादि यथासंभवं ज्ञेयम् । नेमिरिति । नमेः किः । द्वित्वम् । एत्त्वाभ्यासलोपौ । सासहीति । सहेर्यङि द्वित्वादौ 'दीर्गोऽकितः' इति दीर्घे, किकिनोः कृतयोः 'यस्य हलः' इति यकारलोपे , अतो लोपेसासही॑ति निर्देशः । एवं वहेः चलेः पतेश्च यङन्तस्य किकिनन्तस्य निर्देशः । एषां निपातनस्य उपसङ्ख्यानमित्यर्थः । तदाह — यङन्तेभ्यः सहत्यादिभ्य इति । नीगभाव इति । 'नीग्वञ्चु' इति प्राप्तस्य नीगागमस्याऽभावन इत्यर्थः ।
SK 3152 · A 3.2.172V
स्वपितृषोर्नजिङ् ॥ ३१५२ ॥
svapitṛṣornajiṅ
Siddhānta-kaumudī
स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥
Bālamanoramā
स्वपितृषोर्नजिङ् - स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षष्ठी । स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थ- । स्वप्नजौ स्वप्नजः । एवं तृष्णक् । तर्षणशीलः इत्यर्थः । धृषेश्चेति ।नजि॑ङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः ।
SK 3153 · A 3.2.173V
शॄवन्द्योरारुः ॥ ३१५३ ॥
śṝvandyorāruḥ
Siddhānta-kaumudī
शरारुः । वन्दारुः ॥
Bālamanoramā
शॄवन्द्योरारुः - शृवन्द्योरारुः । पञ्चमर्थे षष्ठी । 'शृ हिंसायां'वदि अभिवादनस्तुत्योः॑ । आभ्यामारुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।
SK 3154 · A 3.2.174V
भियः क्रुक्लुकनौ ॥ ३१५४ ॥
bhiyaḥ kruklukanau
Siddhānta-kaumudī
भीरुः । भीलुकः ।
vārttika
क्रुकन्नपि वाच्यः
(वार्तिकम्) ॥ भीरुकः ॥
Bālamanoramā
भियः क्रुक्लुकनौ - भियः । भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः ।
SK 3155 · A 3.2.175V
स्थेशभासपिसकसो वरच् ॥ ३१५५ ॥
stheśabhāsapisakaso varac
Siddhānta-kaumudī
स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥
Bālamanoramā
स्थेशभासपिसकसो वरच् - स्थेश । ष्ठा गतिनिवृत्तौ, ईश ऐआर्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईआरीति तु पुंयोगे ङीष् ।
SK 3156 · A 3.2.176V
यश्च यङः ॥ ३१५६ ॥
yaśca yaṅaḥ
Siddhānta-kaumudī
यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः SK 2380 । तस्य अचः परस्मिन् SK 50 इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः - SK 873 इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥
Bālamanoramā
यश्च यङः - यश्च यङः । 'या प्रापणे' इत्यस्य धातोरनुकरणस्य या इत्यस्य 'यः' इति षष्ठन्तम् । तदाह - यातेरिति । याधतोर्यङ् । द्वित्वादि । 'दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः ।यायाये॑ति यङन्ताद्वरचिविशेषमाह — अतो लोप इति । हलः परत्वाऽभावात् 'यस्य हलः' इति यकारोलोप न । 'यायाय् - वर' इति स्थिते आह — लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्यअचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह — तस्येति । तस्य= अल्लोपस्य यलोपे कर्तव्येन पदान्ते॑ति स्थानिवत्त्वनिषेधादित्यर्थः । एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्रआतो लोप इटि चे॑त्याल्लोपमाशङ्क्य निराकरोति — अल्लोपस्येति । यङकारलोपस्यअचः परस्मि॑न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकार्धधातुकपरत्वादाकारस्यआतो लोप इटि चे॑त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः । परिहारमेवाह — वरे लुप्तं न स्थानिवदिति ।लुप्त॑मिति भावे क्तः । 'न पदान्ते' ति सूत्रे 'वरे' इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते । अल्लोपोऽयमार्धधातुके वरे परे विहितः । अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्यआतो लोप इटि चे॑त्यस्य प्रवृत्तिरित्यर्थः । एवंचन पदान्ते॑ति सूत्रे 'वरे' इत्यंशस्य , 'यलोपे' इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् ।
SK 3157 · A 3.2.177V
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ॥ ३१५७ ॥
bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip
Siddhānta-kaumudī
विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । उर्क् । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥
Tattvabodhinī
NSP p. 524–525
—भ्राज—। आ क्रैरित्युक्तलातच्छीलादिष्वंयं क्रिप्। भ्राज दीप्तौ, भाय दीप्तौ, धूर्वाह्निसाम्याम्याद्बुढाह्नीसेऽङ्गं जलप्रश्नमयोः, अण्डनिपूरणर्थोः, उद्भुगतौ सौत्रः। भ्रावपूर्वैः कुञ्छुतौ ॥—विभ्राडिति। 'व्रध्व-' इति षलम्। जशलचत्वं ॥—धूरिति। 'राह्येऽपः' इति बलोपः 'वीरुपधायाः—' इति दीर्घः ॥—ऊर्गिति । ‘वोः कुः’ । ‘रात्सस्य’ इति नियमान्न संयोगान्तलोपः ।—पूरिति । ‘उदोष्णपूर्वस्य’ इत्युत्तम् । ‘वोः’ इति दीर्घः ॥—वाक् । प्राडिति । इह दीर्घः संप्रसारणाभावश्च । संप्रसारणप्राप्तिस्तु ‘वचित्सपि—’ ‘प्रहित्यावयि—’ इत्यादिना । श्रयति हरिं श्रीरिति । प्राचा तु श्रयन्त्येतामिति कर्मणि क्विदुदाहतस्तत्र ‘कर्तरि कृत्’ इति सूत्रविरोधः स्पष्ट एव । वाहुलकं तु अगतिकगति ॥—द्युतीति—। ‘द्वे च’ इति कृतेऽपि द्वित्वे अभ्याससंज्ञेह दुर्लभा प्रत्यासत्त्या षाष्टद्वित्व एव प्रवृत्तेरत एव आष्टमिके सा नेत्याशङ्कायामाह—दशिग्रहणादिति ॥—दिद्युरिति । ‘द्युतिः स्वाप्योः—’ इत्यभ्यासस्य संप्रसारणम् ॥—जगदिति । ‘गमः कौ’ इति मलोपे तुक् । अत्र ‘द्वे च’ इति चकारेण दीर्घः समुच्चीयमानो द्युतिगम्योर्न भवति दीर्घश्रुत्या ‘अचश्च’ इति परिभाषोपस्थानादजन्तस्य जुहोतेरेव संभवतीत्याशयेनाह
Bālamanoramā
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - भ्राजभास । भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ।व्रश्चे॑ति षः । भा इति । भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ । धूरिति । धुर्वीधातोः क्विप् । 'राल्लोपः' इति वकारस्य लोपः ।धु॑रिति रेफान्तम् । सुलोपः । 'र्वोरुपधायाः' इति दीर्घः । पूरिति । पृधातोः क्विप् ।उदोष्ठए॑त्युत्त्वम्, रपरत्वम् ।पु॑रिति रेफान्तम्, सुलोपेर्वो॑रिति दीर्घः । जुधातोः क्विपि दीर्घं साधयितुमाह — दृशिग्रहणस्याप्यपकर्षादिति । उत्तरसूत्रादिति भाव- । अत्र व्याख्यानमेव शरणम् । ननु 'ग्रावस्तु' इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह — ग्रावशब्दस्येति । ग्रावस्तुदिति । पित्त्वात्तुक् ।
SK 3158 · A 3.2.178V
अन्येभ्योऽपि दृश्यते ॥ ३१५८ ॥
anyebhyo'pi dṛśyate
Siddhānta-kaumudī
क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् ।
vārttika
क्विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च
(वार्तिकम्) ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः ।
vārttika
द्युतिगमिजुहोतीनां द्वे च
(वार्तिकम्) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ।
vārttika
जुहोतेर्दीर्घश्च
(वार्तिकम्) ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् ।
vārttika
ध्यायतेः संप्रसारणं च
(वार्तिकम्) ॥ धीः ॥
Tattvabodhinī
alignment inferredNSP p. 525
—जुहोतेर्दीर्घश्चेति । जुहोतीति जुहूः । हस्तश्चेति चकारेण द्वित्वं समुच्चीयते ॥—धीरिति । ध्यायतीति धीः । ‘हलः’ इति दीर्घः । ननु ध्यायति पुरुषो न तु धीः, एवं जुहोत्यनया पुरुष इति सर्वसंमतत्वात् । कथं तर्हि भवदुक्तार्थः संगच्छत इति चेत् । अत्राह हरदत्तः । करणस्य कर्तृत्वविवक्षायां क्विप् भवति
Bālamanoramā
अन्येभ्योऽपि दृश्यते - अन्येभ्योऽपि । क्विबिति । शेषपूरणमिदम् ।भ्राजभासे॑त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः । विध्यन्तरेति । विधीयते इति विधिः = कार्यं । कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः । तदेव दर्शयति — क्वचिद्दीर्घ इत्यादि । कक्विब्वचीत्यादिनेति ।क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे॑त्यौणादिकसूत्रेणेत्यर्थः । तृना बाधा मा भूदिति । वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः । वागिति । वचधातोः क्विप्, वचनादुपधाया दीर्घः,वचिस्वपी॑ति संप्रसारणाऽभावश्च । एवं कटप्रूरित्यत्र दीर्घः । प्राडिति । वचनान्न संप्रसारणम् । जुरुक्त इति ।भ्राजभासेत्यत्रे॑ति शेषः । अतोऽत्र तद्ग्रहमं मासत्विति भावः । श्रीरिति । श्रिञः क्विपि दीर्घः । द्युतीति ।द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे॑ति वाच्यमित्यर्थः । 'पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह — दृशिग्रहणादिति ।अन्येब्योऽपि दृश्यते॑ इत्यत्रेत्यर्थः । ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः । दिद्युदिति ।द्युतिस्वाप्यो॑रिति संप्रसारणम् । जगदिति । गमेः क्विप् 'गमः क्वौ' इत#इ मलोपे तुक् । जुहोतेर्दीर्घश्चेति । वार्तिकमिदम् । चात्क्विब्द्वित्वे । ह्रस्वश्चेति । वार्तिकमिदम् । ददृदिति । ह्रस्वे कृते तुक् । ध्यायते । वार्तिकमिदम् । चात्क्विप् । धीरिति । ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे 'हलः' इति दीर्घ इति भावः । अत्रध्यायतेः संप्रसारमं चे॑त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः । वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का ।
SK 3159 · A 3.2.179V
भुवः संज्ञाऽन्तरयोः ॥ ३१५९ ॥
bhuvaḥ saṃjñā'ntarayoḥ
Siddhānta-kaumudī
मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥
Tattvabodhinī
NSP p. 525
—भुवः संज्ञा—॥—धनिकेत्यादि । तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः । एतच्च दशिग्रहणानुवृत्त्या लभ्यते । नन्वेवं प्रतिभूशब्दः संज्ञेति फलितं तत्र संज्ञायामित्येव सिद्धं किमन्तरग्रहणेन । अत्राहुः । यावद्व्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्मेद इति ॥ शं सुखं भावयतीति शंभुरित्यर्थाभ्युपगमेनाह—अन्तर्भावितेति । शं भवति सुखस्वरूपो भवतीति शंभुरित्यन्ये । शं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने दुःखत्याभावाच्चिन्त्येति माधवः
Bālamanoramā
भुवः संज्ञाऽन्तरयोः - भुवः संज्ञान्तरयोः ।क्वि॑बिति शेषः ।संज्ञान्तरयोरेवेति॑ नियमार्थं सूत्रम् । संज्ञायामुदाहरति — मित्रभूर्नामेति । अन्तरे उदाहरति — धनिकेत्यादि । यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः ।
SK 3160 · A 3.2.180V
विप्रसम्भ्यो ड्वसंज्ञायाम् ॥ ३१६० ॥
viprasambhyo ḍvasaṃjñāyām
Siddhānta-kaumudī
एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ।
vārttika
मितद्र्वादिभ्य उपसंख्यानम्
(वार्तिकम्) ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥
Bālamanoramā
विप्रसम्भ्यो ड्वसंज्ञायाम् - विप्रसंभ्यः ।डु- अ- संज्ञाया॑मिति छेदः । विभुरिति । डित्तवसमाथ्र्यादभस्यापि टेर्लोपः । सप्भुरिति । संभवति उत्पादयतीति सम्भुः । तदाह — जनितेति । मितद्व्रादिसिद्द्ध्यर्थं डुप्रत्ययस्य उपसङ्ख्यानमित्यर्थः । शम्भुरिति । शं = सुखं , भवति = उत्पादयतीत्यर्थः । तदेवोपपादयति - अन्तर्भावितेति ।
SK 3161 · A 3.2.181V
धः कर्मणि ष्ट्रन् ॥ ३१६१ ॥
dhaḥ karmaṇi ṣṭran
Siddhānta-kaumudī
धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥
Tattvabodhinī
NSP p. 525–526
—धः कर्मणि—। कर्मणीति नोपपदम् । ‘ह्वावामश्च’ इत्यनन्तरमेव धः । द्रुनिति वक्तव्ये पृथक्कर्मग्रहणाद्याद्यानाद्वेत्याशयेनाह—कर्मण्यर्थे इति । अत एव धीयते पीयत इति धात्री स्तनदायिनीत्यादि व्याचक्षते ॥—तितु—। मेद्रमिति । ‘हो ढः’ धलद्रुलढलोपाः ॥—दंष्ट्रेति । षित्त्वेऽपि डीष् इह न भवति अनित्यः षितां डीषित्युक्तलात् । अन्ये लजादिपाठाद्यपमाहुः ॥—नद्भीति । ‘नहो धः’ इति धलम् । ‘झषस्तथोर्धो धः’ इति जश्लम् । सूत्रे दशेति नलोपिनो निर्देशो ज्ञापकः क्वचिदकित्यपि दंशे-नलोपो भवतीति । तेन दंश दशन इत्यस्माल्लघुटि दशना दन्ता इति सिद्धम् । न च सन्निधानात् द्रुन्येव नलोपः स्यादिति वाच्यम् । ‘शुनो दन्तदंष्ट्रा—’ इति निर्देशात् ॥—तच्चेत्करणमित्यादि । एतेन हलसूकरयोरभिधेयलमुपपदत्वं च निरस्तम् ॥—मुखमित्यर्थे इति । तत्रैव रूढिरिति भावः ॥—अर्तिलूधूस्—। धू विधूनने इति कुटादिरेव गृह्यते निरनुवन्धकलात्—। अतः ॥ पूर्वाभवद्युक्ता—। इति प्रकृत्त्वा कुण्डनिर्मेधे । अथ इत्याह ॥ धवि अमिति ॥ अथ पूर्वाभवद्युक्ता— योग्रहणमविशेषात् । करण इत्यनुदृत्तैराह—येनाज्यमिति ॥—कर्तरि चर्वि-।—इत्रः स्यादिति । करणे कर्तरि चल्पथः । काशिकानुसारेण यथासंख्यं व्याचष्टे—ऋषौ करणे इति । ‘कर्तरि कृत्’ इति सूत्रस्थभाष्यकैयटयोसु यथासंख्यं नेति गम्यत इति शब्दकौस्तुभे स्थितम् ॥ ॥ इति पूर्वकृदन्तम् ॥ अधोणादयः ॥—कृचापा-। डुकृच् करणे, वा गतिगन्धनयोः, पा पाने, पा रक्षणे, जि अभिभवे, हुमिश् प्रक्षेपणे, खद आस्थादने, साध संसिद्धौ, अशू व्यासौ । ‘विश्वकर्मणि ना कारुल्लिषु-कारकशिल्पिनोः’ इति मेदिनीकोशः । ‘कारुशिल्पिनि कारके’ इति धरणिकोशस्तदेतदभिप्रैत्याह—कारुरित्यादि । आथे योगरूढिर्द्वितीये तु योगमात्रमिति विवेकः । अत एव द्वितीये धात्वर्थं प्रति कारकान्वयो भवत्येव । तथा च भट्टिः—‘राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः । सर्ववानरसेनानामाश्वागमनमादिशत्’ इति । पिबल्यनेन तैलादिकमिति पायुर्युदस्थानम् । ‘गुदं लपानं पायुर्ना’ इत्यमरः । पातिरक्षतीति विग्रहे रक्षकोऽपि । तथा च मन्त्रः ‘भुवस्तस्य खतर्वाः पायुरम्’ इति । ‘खतवान् पायौ’ इति नस्य रूलम् । ‘अगदो जायुरित्यपि’ इत्यमरः । पुंलिङ्गसाहचर्याज्जायुः पुंसि । ‘मायुः पित्तं कफः श्लेष्मा’ इत्यमरः । गोपूर्वाद्वां बाचं विकृतां मिनोतिप्रक्षिपतीति गोमायुः शृगाल इत्युञ्ज्वलदत्तः । वस्तुतस्तु मायुशब्दः ‘यत्पशुर्मायुमकृत’ ‘गोमायुरेकः’ इत्यादौ वेदभाष्यकारादिभिस्तथैव व्याख्यातलात् । खदत्ते रोचते इति खाडुः । विशेष्यनिघ्नोऽयम् । एवं साधुरपि । आशु शीघ्रमिति बिलम्बाभावमात्रे कृचं, तद्विशिष्टग्रन्थपरत्वे द्रव्ये तु त्रिलिङ्गम् । ‘अथ शीघ्रं लरितम्’ इत्युपकम्य ‘क्लीवे शीघ्राद्यसत्वे स्यात्रिब्षेषांभेद्यगामि यत्’ इत्यमरः । त्रीहौ पुंस्येव । ‘उणादयो बहुलम्’ इति बहुलवचनादन्यस्मादप्युण्ठमवति । रह त्यागे । शृहीत्वा चन्द्रं रहति त्यजतीति राहुः । वस निवासे । वसत्यस्मिन्सर्वमिति सर्वत्रासौ वसतीति वा बाधुः बाधुश्चासौ देवश्च बाधुदेवः । वसुदेवस्यापल्यमित्यस्मिन्नर्थं ‘ऋष्यन्धकवृण्डिकरूभ्यश्च’ इत्यणि कृते बाधुदेव इति व्युत्पत्त्यन्तरमिति दिक्
Bālamanoramā
धः कर्मणि ष्ट्रन् - धः कर्मणि ष्ट्रन् । धेटः कृतात्वस्य धाञश्च ध इति पञ्चम्यन्तम् । तदाह — धेट इत्यादि । षकारात्तकारस्य ष्टुत्वसंपन्नटकारेण निर्देशः, षस्य इत्संज्ञायां लोपे सति ष्टुत्वसंपन्नस्य टस्य निवृत्तिः । तदाह — धात्रीत्यादि ।
SK 3162 · A 3.2.182V
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥ ३१६२ ॥
dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe
Siddhānta-kaumudī
दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥
Bālamanoramā
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे - दाम्नी । दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः । 'दाप् लवने' इत्यस्य पकारस्य स्थाने 'यरोऽनु' इति कृतमकारस्य निर्देशः । अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽऽह —
SK 3163 · A 7.2.9V
तितुत्रतथसिसुसरकसेषु च ॥ ३१६३ ॥
titutratathasisusarakaseṣu ca
Siddhānta-kaumudī
एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥
Bālamanoramā
तितुत्रतथसिसुसरकसेषु च - तितुत्रत । ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः । अत्रसरे॑त्येकम् । ति, — तन्तिः ।स्त्रिया॑मिति क्तिन् । तु- सक्तुः ।तनिगमी॑त्यादिनातु॑प्रत्ययः । त्र, — शस्त्रम्, पत्रम् ।दाम्नी॑ति त्रप्रत्ययः । त, — हस्तः । औणादिकस्तप्रत्ययः । क्तप्रत्यये तु हसितमित्येव । थ — कुष्टम् । औणादिकः क्थप्रत्ययः । सि — कुक्षिः । कुषेरौणादिकः क्सिप्रत्ययः । सु — इक्षुः । इषेरौणादिकः क्सुप्रत्ययः । सर — अक्षरम् । अशेः सरन् । कृ शल्कः । शलेः कः । स — वत्सः ।वदेः सः॑ । मेढ्रमिति । 'मिह सेचने' त्रः । ढत्वध्तवष्टुत्वलोपाः । दंष्ट्रेति । दंशधातोस्त्रः । क्ङित्प्रत्ययाऽभावान्नलोपो न । सूत्रे दशेति शपा नर्देशात्दंशसञ्जे॑ति नलोपः । केचित्तु देशेत्यकार उच्चारणार्थः । नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति 'दशन दन्ताः' इत्याहुः । नद्ध्रीति । नह्रते अनयेति विग्रहः । चर्मरज्जुः । 'नह बन्धने' त्रः । 'नहो धः'झषस्तथो॑रिति तस्य धः । षित्त्वाङीष् ।
SK 3164 · A 3.2.183V
हलसूकरयोः पुवः ॥ ३१६४ ॥
halasūkarayoḥ puvaḥ
Siddhānta-kaumudī
पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥
Bālamanoramā
हलसूकरयोः पुवः - हलसूकरयोः पुवः । पोत्रमिति ।तितुत्रतथसिसुसरे॑ति नेट् ।
SK 3165 · A 3.2.184V
अर्तिलूधूसूखनसहचर इत्रः ॥ ३१६५ ॥
artilūdhūsūkhanasahacara itraḥ
Siddhānta-kaumudī
अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
Bālamanoramā
अर्तिलूधूसूखनसहचर इत्रः - अर्तिलूधू । अर्ति, लू, धू, सू , खन, सह , चर एषां सप्तानां द्वन्द्वात्पञ्चमी ।
SK 3166 · A 3.2.185V
पुवः संज्ञायाम् ॥ ३१६६ ॥
puvaḥ saṃjñāyām
Siddhānta-kaumudī
पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥
SK 3167 · A 3.2.186V
कर्तरि चर्षिदेवतयोः ॥ ३१६७ ॥
kartari carṣidevatayoḥ
Siddhānta-kaumudī
पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु ॥
Bālamanoramā
कर्तरि चर्षिदेवतयोः - कर्तरि च । पवित्रमिति । पावमान्यादिसूक्तम् । अग्निः पवित्रमिति । पुनातीत्यर्थः । सामान्याभिप्रायमेकवचनं, नपुंसकत्वं च । इति पूर्वकृदन्तम्॥॥ इति बालमनोरमायाम् पूर्वकृदन्तम्॥अथ रुधादयः ।अथ श्नम्विकरणा धातवो निरूप्यन्ते ।