PREMABASESiddhānta-kaumudī
Prakaraṇa 64 · SK 2766–2772

कर्मकर्तृतिङ्प्रकरणम्

karmakartṛtiṅprakaraṇam · 7 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2766 · A 3.1.87कर्तुः कर्मवदतिदेशः
कर्मवत् कर्मणा तुल्यक्रियः ॥ २७६६ ॥
karmavat karmaṇā tulyakriyaḥ
Siddhānta-kaumudī
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं SK 3433 लिङ्याशिष्यङ् SK 3434 इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ।
vārttika
सकर्मकाणां प्रतिषेथो वक्तव्यः
(वार्तिकम्) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति ।
vārttika
दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्
(वार्तिकम्) ॥
Tattvabodhinī
NSP p. 478–479
—कर्मवत्कर्मणा । वत्करणं किमर्थम् । यथा अब्रह्मदत्ते प्रयुज्यमानो ब्रह्मदत्तशब्दः ब्रह्मदत्तवदित्यर्थं वदति तथा कर्मेत्युच्यमानेऽपि कर्मवदित्यर्थलाभात् । सत्यम् । कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमाने कर्मसंज्ञक इत्यर्थः स्यात् । तथा हि सति अकर्मकव्यपदेशाभावाद्भावे लकारो न स्यात् । किं तु कर्मणि स्यात् ॥—पच्यते ओदनः भिद्यते काप्रमिति । यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापि पच्यते ओदनेन भिद्यते काष्ठेनेति भावे न स्यादिति वोध्यम् । कर्मशब्देनात्र कर्मस्थक्रिया लक्ष्यत इत्याह—कर्मस्थयेति । कर्मकारकस्थयेत्यर्थः । ‘कर्तरि शप्’ इत्यतः कर्तरीत्यनुवर्त्य प्रथमया विपरिणम्यते स च विशेष्यस्तदाह—तुल्यक्रियः कर्तेति ॥—कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाश्रितः ॥—भावे लकारे इति । तत्र कर्तुरनभिहितत्वादिति भावः ॥—द्विलकारकादिति । ‘व्यत्ययो वहुलं लिङ्याशिष्यङ्’ इति संहितया पाठेऽनुस्वारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः । तेन लकारवाच्यः कर्ता कर्मवदित्यर्थलाभाद्यगादिकमेव भवति न तु द्वितीयेत्यभिमतसिद्धिः ॥ यत्र लकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति व्युत्पादनस्य फलमाह—अत एवेति ॥—न भवन्तीति । लकारेणैव कर्मकर्तुरुपस्थानात्कृतादीनां प्रसक्तिर्नास्ति । उक्तार्थानामप्रयोगात् । लविधेः पूर्वं तु सुतरां नास्ति लकारोपस्थाप्यकर्तुरभावेन कर्मवत्त्वाभावादिति भावः । अत्रेदं वोध्यम् । कृत्यक्तखलर्था इत्यत्र क्तप्रहणं त्यक्तुमुचितं तस्य कर्मकर्तरि इष्टत्वात् भिन्नः कुसूलः स्वयमेवेति । वक्ष्यति च स्वयमपि ‘सिनोतेर्प्रासकर्मकर्तृकस्य’ इति वार्तिके सिनो प्रासः स्वयमेवेति । ननु ‘गत्यर्थाकर्मकर्म’ इत्यत्राविवक्षितकर्माणोऽकर्मका इति न गृह्यते, दत्तवान् पक्ववान् इत्यर्थे दत्तः पक्व इत्यापत्तेरिति चेत् । अत्राहुः । सिनोतेर्प्रासकर्मकर्तृकस्येति निष्ठातकारस्य नकारविधानसामर्थ्यादविवक्षितकर्माणोऽपि क्वचित् गृह्यन्ते । अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेन सिनो प्रासः स्वयमेवेत्यादि, भिन्नः कुसूलः स्वयमेवेत्यादि सङ्गच्छते इति । अत्र केचिद्वदन्ति । लकारवाच्यस्यैव कर्तुः कर्मवत्त्वे ‘कर्मवत्कर्मणा’ इत्यत्र वद्वहणं व्यर्थम् । न च कर्तुः कर्मसंज्ञायां भावे लकारो न स्यादित्युक्तमिति वाच्यम् । कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्वाधत्वात् । लकारवाच्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात् । न हि भावे लकारः कर्तारं वक्ति । न च वत्करणाभावे कर्तुः कर्मसंज्ञायां कर्तृव्यपदेशाभावात् नमते दण्ड इत्यत्र ‘न दुहस्तुनमाम्’ इति यको निषेधेऽपि शप् न स्याद्वत्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम् । एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टासिद्धेरिति ॥—न तु तत्तुल्येति । तुल्यत्वं हि सादृश्यम् । तच्च मेदनिवन्धनम् । न च प्रकृते मेदोऽस्ति । कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वात् । तथा च सूत्रमिदमसमजसमिति भावः । वास्तविकमेदाभावेऽप्यौपाधिकमेदोऽस्तीत्याह—कर्मत्वेति । कर्मलकर्तृत्वावस्थयोर्मेदस्तद्भेदौपाधिकमवस्थामेदसमानाधिकरणं क्रियामेदमाश्रित्येत्यर्थः । एवं चावस्थामेदेन क्रियामेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः ॥—करणाधिकरणाभ्यामिति । तुल्यक्रियः कर्तेत्येतावत्युच्यमाने कर्तृस्थ इत्यतिप्रसङ्गः स्यात् तन्माभूदित्यर्थः । न च कर्मत्वावस्थायां विकृत्यादिरिव करणत्वाद्यवस्थायामपि स्थात्या व्यापारो वस्तुतः सन्नपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यम् । सादृश्यप्रतियोगिक्रियाया धातूपादुत्प्रक्रियः कर्ता कर्मवद्भवतीत्युक्ते केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह—किं चेति । अधिगच्छतीत्यादिश्लोकस्योत्तरार्धं तु ‘यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा’ । ननु फलं व्यापारश्च धात्यर्थः स एव क्रियाशब्दवाच्यः । तत्र व्यापाराश्रयः कर्ता फलाश्रयस्तु कर्म । एवं च पुनिभिदिष्टभूतीनां गमिष्टभूतीनां च सकर्मकत्वे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं ज्ञातव्या इत्यत आह—यत्र कर्मणीति ॥— ग्रामेष्विति । आरूढानारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वैलक्षण्यं नोपलभ्यत इति वोध्यम्॥—कारिष्य ते इति । ‘स्यसिच्सीयुद्-’ इति वैकल्पिकश्चिण्वदिद् । पक्षे ‘ऋद्धनोः स्ये’ इतीद् । करिष्यते । एवं लृङ्गि अकारिष्यत अकरिष्यत । सिचश्चिण्वदिटि । अकारिष्ट । पक्षे अकृत । सीयुदश्चिण्वदिटि । कारिषीष्ट । पक्षे कृषीष्ट । तासि तु कारिता कर्ता । यक्षिणोस्तु क्रियते घटः स्वयमेव । अकारीत्यादि ॥—नैतत्सिच्छ्रयेदिति । ‘कर्मवत्कर्मणा-’ इति कर्मवत्त्वं न सिध्येदित्यर्थः । एतेन पचति पाकं करोतीति विवरणादाख्यातस्य यत्ने शक्तिरिति नैयायिकोक्तिः परास्ता । करोतेर्यत्नार्थत्वे तु यतते इतिवत्सकर्मकतापि न स्यादिति ॥—एतेनेति । ज्ञानस्य कर्तृस्थलाभ्युपगमेनेत्यर्थः ॥—यगभावादिति । सति तु यक्यतुव्यवसीयमान इति स्यादिति भावः ॥—ओलोप इति । ‘ओतः इयनि’ इत्यनेन । ननु कर्मवत्त्वाभावे कथमिह ज्ञानजित्यत आह—ताच्छील्यादाविति ॥—न त्विति । ज्ञानच् न भवतीत्यर्थः ॥ देवदत्तयज्ञदत्तावन्योन्यं स्पृशत इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थलात्कर्मवद्भावप्राप्तिमाशङ्क्याह—सकर्मकाणामिति । न चात्र देवदत्तो यज्ञदत्तं स्पृशति यज्ञदत्तस्तु देवदत्तमिति क्रियामेदोऽवश्यमाधयितव्यः । तथा च स्वनिष्ठां क्रियां प्रति कर्तृत्वम् इतरक्रियां प्रति तु कर्मत्वं भवति । अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्, इमौ गङ्गां स्पृशत इत्यत्र यथा । एवं च कर्मस्थक्रियायाः कर्तृस्थलाभावात्कर्मवद्भावो न प्राप्नोति । न च संयोगस्य द्विष्टलात्कर्मस्थफलस्य कर्तृस्थलाच्चास्त्येवेति शङ्क्यम् । तत्तन्निरूपितसंयोगस्य भिन्नत्वात् । अन्यथा फलव्यापारयोरेकाध्रयत्वे सकर्मकत्वमेव न लभ्येत । किंच रुहिगम्योः कर्तृस्थक्रियलादारोहते हस्ती गच्छति ग्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम् । तथा च संयोगरूपफलस्य सर्वत्र तुल्यतया रुहिगमिभ्यां स्पृशेर्वैषम्यं दुरुपपादमिति नात्र कर्मवत्त्वप्रसक्तिरित्युदाहरणान्तरमाह—अजा ग्रामं नयतीति । इह प्रतिषेधाभावे यक् स्यात् क्रियाफलस्याकर्तृगामित्वेऽप्यात्मनेपदं स्यादिति भावः । नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत् । अत्राहुः । क्रियाकृतविशेषोपलम्भानुपलम्भवदुद्देश्यतापि नियामिका । यत्र कर्मस्थांशस्योद्देश्यता सा कर्मस्थक्रिया, यत्र तु व्यापारांशस्य सा कर्तृस्थेति । तथा हि । दर्शनारोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थता । उद्देशानुरोधाच्च । अहं पश्येयमित्युद्देशो न लयं विषयो भवत्विति । एवमहमुपरि गच्छेयमित्युद्देशो न तु हस्तिनो न्यग्भावो भवत्विति । ऊर्ध्वदेशसंयोगानुकूलव्यापारविशेष उपरि गमनं तदेव रुहेरर्थो न तु न्यग्भावमात्रम् । वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुरुष आरोहतीत्यप्रयोगात् । अत एव हि ‘यद्धि तु परं छन्दसि’ इत्यत्र भाष्यं रुहिर्गत्यर्थं इति । अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात्र इत्यादिप्रयोगेष्वणौ कर्तुणौ कर्मत्वं संगच्छते । पञ्चिभिर्योस्तु विक्रितिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापारं इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव । अजा ग्रामं नयतीत्यत्रापि कर्मस्थांशस्य संयोगस्योद्देश्यता न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक् ॥—दुहिपच्योरिति । द्विकर्मकलादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायामपि सकर्मकत्वान्निषेधे प्राप्तेऽयमारम्भः
Bālamanoramā
कर्मवत् कर्मणा तुल्यक्रियः - कर्मवत्कर्मणा ।कर्तरि श॑बित्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता ।कर्मणे॑त्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात् । तदाह — कर्मस्थयेत्यादिना । कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाऽभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् ।तथा सति सकर्मकत्वात्पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः, तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वातन्मुख्यत्वात्कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति ।स्यु॑रित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणिसार्वधातुके य॑गिति यक्,भावकर्मणो॑रित्यात्मनेपदम्,चिण् भावकर्मणो॑रिति चिण्,स्यसिच्सीयुट्तासिषु॑ इति चिण्वत्त्वं, तत्संनियोगाशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्त्तृत्वविवक्षायां कर्तरि विहितानि शास्त्राण्येव न स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्विविक्षायां कर्तरि लकारे सति तदादेशतिङा कर्तुरभिहितत्वादित्यर्थः । पच्यते ओदन इति । फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विधा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वाऽतिदेशाद्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन , भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिङाऽनभिहितत्वाद्द्वितीया स्यात्, कर्मवत्त्वातदेशादित्याशङ्कते — नन्विति । परिहरति — नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह — लकार वाच्य एवेति । तच्च कुत इत्यत आह — लिङ्याशिषीति ।व्यत्ययो बहुलँल्लिडआशिष्य॑ङ्ङिति संहितया पाठे लकारात् पूर्वं लकारान्तरंहलो यमा॑मिति लुप्तं प्रश्लिष्यते । ततस्च ल् ल् इति द्विलकारात्सूत्रात् ल् इति षष्ठन्तं 'कर्मवत्कर्मणा' इत्यत्रानुवर्तते । तथाच लः कर्ता कर्मवदिति लभ्यते । वाच्यत्वं षष्ठर्थः । तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवं, प्रकृते किमायातमित्यत आह — भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति । तत्र भावस्यैव तद्वाच्यत्वादिति भावः । अत एवेति । लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्वविधानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्यत्वऽबावेन कर्मवत्त्वस्य तत्राऽप्रवृत्त्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननुसिनोतेग्र्रासकर्मकर्तृकस्ये॑ति निष्ठानत्ववार्तिकेसिनो ग्रासः स्वयमेवे॑ति भाष्येकथमुदाहृतं, क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेदुच्यते - अत एव भाष्यात्निष्ठे॑ति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते ।सिनो ग्रासः स्वयमेवे॑त्यत्र तुगत्यर्थाऽकर्मके॑त्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । भेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते — नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । नतु तत्तुल्येति । तुल्यत्वस्य भेदघटित्त्वादिति भावः । अद्र्धाङ्गोकारेण परिहरति — सत्यमिति । विक्लित्तिर्द्विधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तं तथापि तयोस्तुल्यत्वाऽभावस्तु नेत्यर्थः । कर्मत्वेपि । कर्मत्वकर्तृत्वे अवस्थे = धर्मविशेषौ तयोर्भेदः स एव उपाधिः = निमित्तं यस्य तताविधं कर्मत्वकर्तृत्वसमानाधिकरणक्रियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेद#आऽभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तृरिति भावः । करणाधिकरणाभ्यामिति । 'असिना छिनत्ति' स्थाल्यां पचती॑त्यत्र करणाऽधिकरणयोर्यो व्यापारः स एव 'असिश्छिनत्ति' स्थाली पचती॑ त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात्, तन्निवृत्त्यर्थं कर्मणेति पदमित्यर्थः । ननुकर्मवत्कर्मणे॑त्यत्र 'धातोरेकाच' इत्यतो धातोरित्यनुवर्तते । धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योव्र्यापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह — किंचेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङ्कुशाऽऽघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः । अधिगच्छतीति । पूर्वाद्र्धमिदम् ।यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा॑ इत्युत्तराद्र्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थोऽधिगच्छति = निश्चयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुग्र्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाऽभावान्न कर्मवत्त्वम् । अतो न कर्मकार्यम् यगादि.किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुग्र्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह — यत्रेति । यत्रक्रियाकृतो विशेषो = वैलक्षण्यं दृश्यते = प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः । तदुदाहृत्य दर्शयति - यथा पक्वेषु तण्डुलेष्विति ।तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते॑ इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति — यथा वा छिन्नेषु काष्ठेष्विति ।अच्छिन्नापेक्षया वैलक्षण्यं दृश्यते॑ इति शेषः । 'गच्छति ग्राम' इत्यादौ तु नैवमित्याह — न हीति । ग्रामेष्विति । उपलक्षणमिदम् । पक्वाऽपक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गताऽगतग्रामे आरूढाऽनारूढहस्तिनि अधिगताऽधिगते स्मृताऽस्मृते श्रद्धिताऽश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः । ग्राममनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्याऽपि कर्तृस्थत्वात्तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्चक्रियते घटः स्वयमेवे॑ति यगादिर्न सिद्ध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह — करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति — उत्पत्तिश्च कर्मस्थेति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्ष्टवादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनैत्यर्थः । तथा चक्रियते घटः स्वयमेवे॑त्यत्र यक् । तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्तेति सिद्धवत्कृत्याह — करिष्यते घट इत्यादीति । चिण्वदिट्पक्षे 'कारिष्यते' इति रूपं, तदभावपक्षे तु 'ऋद्धनोः स्ये' इतीट् — करिष्यते । सीयुटश्चिण्वदिटि — कारिषीष्ट । तदभावे तु — कृषीष्ट । लुङि — अकारि अकृत । नैतदिति । कर्मवत्वं न सिद्ध्येदित्यर्थः ।यततेट इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अर्ते स्वयमेव निश्चयविषयतां संपद्यमाने इत्यर्थः । व्याख्यातमिति । समर्थितमित्यर्थः । कथं समर्थितमित्यत आह — कर्तृस्थत्वेन यगभावादिति । अनुव्यवसायः = निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्षण्याऽभावात्, किंतु कर्तृस्थक्रिय एव, अनुव्यसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्चकर्मवत्त्वाऽभावान्न यक् ।यकि तु कित्त्वात्घुमास्थागापाजहातिसा॑मिति ईत्वे 'अनुव्यवसीयमान' इति स्यादित्यर्थः । ननु यगभावे कथं यकारश्रवणमित्यत आह — श्यनीति । 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेराने कृते श्यनि 'ओतः श्यनी' त्योकारलोपे 'अनुव्यवस्यमान' इति रूपसिद्धेरित्यर्थः । ननु कर्मवत्त्वाऽभावे 'भावकर्मणो' रित्यात्मनेपदाऽभावात्कथमिह लटः शानच्, तस्यात्मनेपदत्वादित्यत आह — ताच्छील्यादाविति ।ताच्छील्यवयोवचनशक्तिषु चान॑शित्यनेन चानशित्यर्थः । तस्य च लादेशत्वाऽभावेन आत्मनेपदत्वाऽभावात् करमवत्त्वाऽभावेऽपि कर्मकर्तरि प्रवृत्तिर्निर्बाधा । तदाह — न त्वात्मनेपदमिति । ननुअन्योन्यं स्पृशतः स्वयमेव यज्ञदत्त देवदत्ता॑वित्यत्रापि कर्मत्वाद्यगादि स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारौ, कर्मभूतौ च । स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् ।एवं कर्तृत्वप्युभयोज्र्ञेयम् । एवंच उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात्, आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टाऽस्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावर्सनाचच्चेत्यत आह — सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवस्तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मवत्त्वे तु यकि तङि च 'स्पृश्येते' इति स्यादिति भावः ।सकर्मकाणां प्रतिषेधः इत्यस्योदाहरणान्तरमाह — अजा ग्रामं नयतीति । अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविववक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भाव- । वस्तुतस्तु गते अगते चग्रामे वैलक्षण्याऽभावादेवाऽत्र क्मवत्त्वस्याऽप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं सङ्गृहीत इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति ।कर्मवत्त्व॑मिति शेषः । अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रवसोऽयम् ।
SK 2767 · A 3.1.89V
न दुहस्नुनमां यक्चिणौ ॥ २७६७ ॥
na duhasnunamāṃ yakciṇau
Siddhānta-kaumudī
एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥
Tattvabodhinī
alignment inferredNSP p. 479
—गौः पयो दुग्धे इति । अत्र कर्मवद्भावेनात्मनेपदं नित्यं ‘गौणे कर्मणि दुह्यादेः’ इत्युक्तत्वात् मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाहृतमित्याहुः । एवं च ‘प्रधाने नीहकृष्वहाम्’ इत्युक्तत्वात् तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम्
Bālamanoramā
न दुहस्नुनमां यक्चिणौ - न दुह । दुह स्नु नम् एषां द्वन्द्वः । कर्मकर्तरीति । एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात् । किंतुकर्मवत्कर्मणा तुल्यक्रियः॑ इति समभिव्याहारलभ्यमेव ।अचः कर्मकर्तरी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा । दुहेरनेनेति ।न दुहस्नुनमा॑मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः । चिण्तुदुहश्चे॑ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः ।चिण्तु विकल्पेनेष्यते॑ इति क्वचित्पाठः । दुग्धे इत्यत्र प्रक्रियां दर्शयति — शप् लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य 'अदिप्रभतिभ्यः' इति लुगित्यर्थः ।गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितेत्त्वेऽपिभावकर्मणो॑रित्यात्मनेदमेव ।न दुहेति न यक् । गांपयो दुग्धे इति तु नोदाहृतम्,गौणे कर्मणि दुह्रादेर्लादयो मताः॑इत्युक्तेः । अचः कर्मकर्तरि ।च्लेः सि॑जित्यतश्च्लेरिति,चिण् ते पदः॑इत्यतश्चिण्ते इति,दीपजने॑त्यतोऽन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः । तदाह — अजन्तादित्यादिना । अकारीति ।कटः स्वयमेवे॑ति शेषः । कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् ।चिणो लु॑गिति तशब्दस्य लुक् । अकृतेति । चिणभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः ।
SK 2768 · A 3.1.62V
अचः कर्मकर्तरि ॥ २७६८ ॥
acaḥ karmakartari
Siddhānta-kaumudī
अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥
Tattvabodhinī
NSP p. 479
—अचः कर्म-। ‘चिण् ते पदः’ इत्यतश्चिण्तेशब्दावनुवर्तेते ‘दीपजन-’ इत्यतोऽन्यतरस्यामिति च तदाह—अजन्तादित्यादि । अचः किम् । अमेदि काष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् । अकारि घटः कुलालेन । अत्रापि नित्यमेव
SK 2769 · A 3.1.63V
दुहश्च ॥ २७६९ ॥
duhaśca
Siddhānta-kaumudī
अदोहि । पक्षे क्सः । लुग्वा - SK 365 इति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ।
vārttika
सृजियुज्योः श्यंस्तु
(वार्तिकम्) ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्य श्यन्वाच्य इत्यर्थः ।
vārttika
सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्
(वार्तिकम्) ॥ सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः ॥ असर्जि । युज्यते ब्रह्मचारी योगम् ।
vārttika
भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्
(वार्तिकम्) ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते । आदृत । किरीदिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥
Tattvabodhinī
NSP p. 479–480
—दुहश्च । कर्मकर्तरीत्येव । अदोहि गौगोपेनेत्यत्र तु नित्यम् ॥—उदुम्बरः फलमिति । कालः उदुम्बरं फलं पचतीति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेरप्रामाणिकः पाठ इति ये वदन्ति तेषामयं ग्रन्थः कथं संगच्छत इति चेत् । अत्राहुः । उदुम्बरः फलं पचतीत्यत्र ‘कर्मवत्कर्मणा-’ इत्यस्याप्राप्तौ दुहिपच्योरित्यनेन कर्मवद्भावो वहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तिरिति । सृजियुज्योः इयंस्तु । इयनो नित्वमाद्युदात्तार्थम् । यकि तु ‘तास्यनुदात्तेत्’ इत्यादिना लसार्वधातुकानुदात्तत्वे कृते यक उदात्तत्वं श्रूयते ॥— श्रद्धोपपन्न इति । अश्रद्धायुक्ते कर्तरि तु यगेव ॥—भूषाकर्मैति । कर्मशब्दः क्रियावाचीत्याह—भूषावाचिनामिति ॥—अन्यत्रेति । आत्मनेपदादन्यस्य निषेधः आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह—यक्विचणाविति ॥—अवाकीर्ष्टेति । ‘लिङ्सिचौ—’ इति वेद ॥—आद्रियत इति । तुदादिलाच्छे ‘रिङ् शयगिलङ्धु’ इति रिङि इयङ् ॥—आद्यतेति । ‘उश्च’ इति कित्वम् । ‘हस्तादङ्गात्’ इति सिचो लोपः
Bālamanoramā
दुहश्च - दुहश्च । 'अच' इतिवर्जं पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिहानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् । अदोहीति । दुहेः कर्मकर्तरि लुङ् । 'स्वयमेव गौः पय' इति शेषः । चिण्पक्षे लघूपधगुणः । चिणभावपक्षे आह — पक्षे क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । लुग्वेति ।लुग्वा दुहदिहलिहगुहा॑मिति क्सस्यपाक्षिको लुगित्यर्थः । अथदुहपच्यो॑रित्यत्र पचेरुदाहरति — उदुम्बरः फलं पच्यतेइति ।उदुम्बरवृक्षं फलं पचति कालविशेष॑ इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्वाश्रयं करोतीत्यर्थः । अत्र उदुम्बरस्यगौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात्सकर्मकाणां प्रतषेधः॑ इति कर्मवत्त्वस्य प्रतिषेधे प्राप्तेदुहिपच्यो॑रिति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान्न द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि 'फलं पच्यते' इत्यत्र फलस्यैव कर्मतया तस्यकर्तृत्वविवक्षायां पचेरकर्मकत्वात्सकर्मकाणा॑मिति प्रतिषेधस्याऽप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थं इति यद्यपि, तथाप्यत्र मतेउदुम्बरः फलं पचती॑त्यत्र कर्तृलकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाऽभावादुदुम्बरः फलं पच्यतिति कर्मकर्तरिकर्मवत्कर्मणेति कर्मवत्त्वस्याऽप्राप्तौदुहिपच्यो॑रिति कर्मवत्त्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः ।सृजियुज्योः श्यस्तु॑ इति वार्तिकम् ।अनयोः सकर्मकयो॑रित्यादि तद्भाष्यम् । अत्र सृजियुज्योर्दैवादिकयोर्न ग्रहणं,तयोरकर्मकताया उक्तत्वात्, किंतु 'सृज विसर्गे' इति तौदादिकस्य, 'युजिर्योगे' इति रौधादिकस्य च ग्रहणं, तत्र विसर्गः = उत्पादनम् । यथा प्रजाः सृजतीति.योगः — संयोजनम् । यता अआं युनक्तीति । रथादिना संयोजयतीति गम्यते । सृजेः श्रद्धोपपन्ने इति । श्रद्धायुक्ते मुख्यकर्तर्येव उक्तो विधिरित्यर्थः । तत्र मुख्यकर्तरि अत्यन्ताऽप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते ।यजेस्तु कर्मकर्तर्येव उक्तविधि॑ रिति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याऽभावादप्राप्तं कर्मत्वमिह बहुलं विधीयते । कर्मत्वे सति यकि प्राप्ते तदपवादः श्यन्विधीयते । तेनञ्नित्यादिर्नित्य॑मित्याद्युदात्तत्वं सिध्यति । यकि तुतास्यनुदात्तेदित्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यक उदात्तत्वं स्यात् । सृज्यते रुआजं भक्त इति । अत्र मुख्यकर्तरि लकारः । कर्मवत्त्वादात्मनेपदम् । यगपवादः श्यन् । श्रद्धया निष्पादयतीत्यर्थ इति । धातूनामनेकार्थत्वादित भावः ।सृज्यते रुआजं भक्त॑ इत्यत्र यदा तु निष्पादयतीत्येवाऽर्थः, नतु श्रद्धयेति दा सृजति रुआजमित्येव भवति.अथ युजेरुदाहरति — युज्यते ब्राहृचारी योगमिति । अत्रकर्मकर्तरि यगपवादः श्यन्नि॑ति भाष्यम् । योगश्चित्तवृत्तिनिरोधः योगशास्त्रप्रसिद्धः । ब्राहृचर्यं — स्त्रीसङ्गराहित्यम् । तद्योगाङ्गमिति च योगशास्त्रप्रसिद्धम् । स योगः ब्राहृचारिणं युनक्ति = आत्मदर्शनेन संयोजयतीति कर्तृलकारे संयोजनक्रियायां योगो मुख्यकर्ता, ब्राहृचारी तु कर्मेति स्थितिः । तत्र कर्मणो ब्राहृचारिणः कर्तृत्वविवक्षायांयुज्यते ब्राहृचारी योग॑मिति कर्मकर्तरि ब्राहृचारिणि लकारः, कर्मवत्त्वात्तदैव यगपवादः श्यन् । ब्राहृचारी प्राणायामाभ्यासादिश्रमबाहुल्यं विना स्वयमेव योगेन संबध्यते इत्यर्थः । तत्र ब्राहृचारिणि कर्मकर्तरि धात्वर्थसंबन्धोऽनुयोगितया वर्तते, योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् 'सहयुक्तेऽप्रधाने' इति तृतीयया भवितव्यं, तथापि युजेः प्रतियोगित्वावच्छिन्नसंबन्धोऽर्थः । तत्र प्रतियोगित्वं फलं, संबन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वाद्द्वितीयेति समाहितं शब्देन्दुशेखरे । अत्र भाष्यप्रयोगादेव योगाद्द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म, किरादि, सन् एषां द्वन्द्वः । अन्यत्रेति । प्रथमान्तात्स्वार्थे त्रल् । आत्मनेपदादन्यत्कर्मकार्यमिति लभ्यते । भूषा कर्म क्रिया येषां वाच्यतया ते भूषाकर्माणो धातवः । भूषणक्रियावाचिनामिति यावत् । तदाह — भूषावाचिनामित्यादिना । अलङ्कुरुते कन्येति । स्वयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः । अत्र भूषार्थकत्वात्कर्मकर्तरि तङेव, न तु यक् । अलमकृतेति । अत्र तङेव नतु चिण् । लुटि तु अलङ्कर्तेत्येव, नतु चिण्वदिटौ । अवकिरते हस्तीति । हस्तिनमवकिरति कुसुमादिरित्यत्र मुख्यकर्तरि लकारः । तत्र हस्ती कर्म । तस्यकर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिरवकीर्णवान् भवतीत्यर्थः । अत्रापि तङेव, नतु यगादि । अवाकीर्ष्टेति ।लिङ्सिचोरात्मनेपदेषु॑ इति वेट् । गिरते इति ।ओदनं स्वयमेव#ए॑ति शेषः । 'गृ निगरणे' अयं किरादिः । शप्रत्यये 'रिङ् शयग्लिङ्क्षु' इति रिङ् । अतिथिमाद्रियते इति मुख्यकर्तरि । आद्रियतेऽतिथिरिति कर्मकर्तरि । स्वयमेव आदरणाश्रय इत्यर्थः । अत्र यद्यपि शे यकि च न विशेषस्तथापि न्याय्यः श एव, यको निषिद्धत्वात् । स्वरे वा विशेषः । तङ् तु ङित्त्वादेव सिद्धः । अतिथेरभिहितत्वात् प्रथमेति विशेषः । आदृतेति । चिणोऽनेन निषेधेह्रस्वादङ्गा॑दिति सिचो लोपः ।उश्चे॑ति कित्त्वम् । अथ सन्नन्तस्योदाहरति — चिकीर्षते कट इति । स्वयमेव कर्तुमिच्छाविषय इत्यर्थः । नन्विच्छायाः पुरुषरूपकर्तृनिष्ठत्वात्कृटरूपकर्मनिष्ठत्वाऽभावादित्छायां सत्यामसत्यां च कटे कर्मणि वैलक्षण्याऽदर्शनाच्च कर्मस्थक्रियत्वाऽभावादिह कर्मवत्त्वस्याऽप्रसक्तेस्तन्निषेधो व्यर्थ इत्यत आह — इच्छाया इति ।
SK 2770 · A 3.1.64V
न रुधः ॥ २७७० ॥
na rudhaḥ
Siddhānta-kaumudī
अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥
Tattvabodhinī
NSP p. 480
—न रुधः । ‘चिण् ते पदः’ इत्यतश्चिणनुवर्तते । ‘अचः कर्मकर्तरि’ इत्यतोऽनुवर्तनादाह— कर्मकर्तरीत्येवेति ॥—अतसेति । तपस्तापस इत्यनुषज्यते । न दुहस्तु—। ननु दोग्धिपर्यायत्वेन स्रौतेरपि द्विकर्मकलाद्वोरूपकर्मणः कर्तृत्वविवक्षायामपि पयोरूपकर्मणो विद्यमानत्वात्सकर्मकाणां प्रतिषेधेन यक्विणोः प्राप्तिरेव नास्तीति चेत् । अत्राहुः । वत्सादियोगेन क्षीरप्रस्रवणानुकूला उत्कण्ठा स्तुधातोरर्थः । सा च गोनिष्ठा । स्तु प्रस्रवणे इत्यत्रापि करणे ल्युट् । प्रस्रूयतेऽनेति प्रस्रवणं सा चोत्कण्ठा । ‘स्वयं प्रदुग्धेऽस्य गुणैरुपस्तुता वसूपमानस्य वसूनि मेदिनी’ इति प्रयोगे उपस्तुता उत्कण्ठितेत्यर्थः । वत्सो गां प्रस्रौति उत्कण्ठयति । अन्तर्भावितण्यर्थोऽत्र स्रौतिः । गोः कर्तृत्वविवक्षायां प्रस्तुते गौरिति
Bālamanoramā
न रुधः - न रुधः । अस्माच्चेश्चिण्नेति । अवारुद्ध गौरिति ।स्वयमेवे॑ति शेषः । कर्मकर्तरीत्येवेति ।अचः कर्मकर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । अवारोधि गौर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः ।
SK 2771 · A 3.1.88V
तपस्तपःकर्मकस्यैव ॥ २७७१ ॥
tapastapaḥkarmakasyaiva
Siddhānta-kaumudī
कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च SK 2760 इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ SK 2767 । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यक्चिणोः प्रतिषेधे - ।
vārttika
हेतुमण्णिश्रिब्रूञामुपसंख्यानम्
(वार्तिकम्) ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ।
vārttika
णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्
(वार्तिकम्) ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः SK 2707 , अकर्मकाच्च SK 2708 इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥
Tattvabodhinī
alignment inferredNSP p. 480–481
—प्रास्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्धे चिण्वदिडपि न स्यादिति शङ्काम् । चिण्वदित्यनेन हि चिणीव कार्यमतिदिदयते । न च चिण् नेत्युत्तया सोऽतिदेशो निषेद्धुं शक्यते येन चिण्वदिटो निषेधः स्यात् ॥—प्रास्नोष्टेति । ‘स्नुकमोरनात्मनेपदनिमित्ते’ इति नियमाद्वलादिलक्षण इङ् न ॥—नमते दण्ड इति । इह नमितानमितयोर्विशेषदर्शनाभावः ॥—अचीकरतेति । चिणि प्रतिषिद्धे ‘णिश्रि—’ इति चङ् ॥—णिश्रन्थीति । णेः सामान्यप्रहणस्य फलमाह—पुच्छमुदस्यतीत्यादि । ‘पुच्छभाण्ड—’ इति णिङ् । आत्मनेपदविधौ योऽकर्मकस्तमुदाहरति—विकुर्वते सैन्धवा इति । कुपिरजोः—। ‘न दुहस्तुनमाम्—’ इत्यतो नेति वर्तते तदाह—न यक् किं तु इयञ्चिति । तस्मिन्नेव विषय इति भावः । ‘न गिरा गिरेति त्रूयात्’ इत्यादौ ऐरं कृत्वा गेयमित्यत्र गिरापदं प्रतिषिध्य इरापदं विधीयमानं गिरापदस्थान स्येति । इयना सन्नियोगशिष्टं परस्मैपदं इयन्नभावे न भवतीत्यात्मनेपदमेवोदाहरति—कोषिषीष्टेति । कोषिष्यते । चुकुणे । अकोषि । अकोषिष्यत । रङ्क्ष्यते । ररञ्जे । अरञ्जि । अरङ्क्ष्यत । इत्याद्यपि ज्ञेयम् । इयन्पक्षे कुष्यन्तीत्यत्र नित्यं नुम् । यक्पक्षे तु ‘आच्छीनशोः—’ इति विकल्पः । स्वरे विशेषोऽप्यस्त्येव । इह प्रकरणे भिद्यते काष्ठं स्वयमेवेति वृत्त्यादौ प्रयुज्यते तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कर्त्रर्थत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ ॥ इति कर्मकर्तृप्रक्रिया ॥ अभिज्ञा-॥ भूते इत्यधिक्रियते । ‘अनद्यतने लङ्’ इत्यतः अनद्यतन इति वर्तते । अभिज्ञा स्मृतिः सा उच्यते बोध्यते ऽनेनेति विग्रहस्तदाह—स्मृतिवोधिनीत्यादि ॥—वत्स्याम इति । अवसामेत्यर्थः । पश्य मृगो धावतीत्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसीत्यत्र गोकुलाधिकरणकास्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म । कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम् । तथा च पूर्वोक्तनिवासकर्मकं कृष्णसंबन्धकं स्मरणमिति फलितोऽर्थः
Bālamanoramā
तपस्तपःकर्मकस्यैव - तपस्तपः कर्मकस्यैव । आद्यं तप इति षष्ठन्तम् । तपः कर्मकस्यैव तपधतोरिति लभ्यते ।कर्तरिश॑बित्यतःकर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।कर्मवत्कर्मणे॑त्यतः कर्मवदित्यनुवर्तते इति मत्वा सूत्रशेषं पूरयति — कर्ताकर्मवदिति । विध्यर्थमिदमिति । एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्वे एवकारो व्यर्थ इत्यत आह — एवकारस्त्विति । तप्यते तपस्तापस इति । अत्र तपिरर्जनार्थक इत्याह — अर्जयतीत्यर्थ इति । प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकं तपः संपादयतीत्यर्थः । मुख्यकर्तरि लः । मुख्यकर्तरि लः । संपादनस्य तापसात्मककर्तृस्थत्वात्तपोरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यप्राप्तं कर्मवत्त्वमनेन सूत्रेण विधीयते । तेन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके संतापे वर्तते तदातापसं तपस्तपती॑त्येव भवति । दुःखयतीत्यर्थः । अत्र मुख्यकर्तृ तपः । तापसस्तु कर्म । अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यनेन कर्मवत्त्वं न भवति । तपः कर्मकत्वाऽभावादनेनापि न कर्मवत्त्वम् । अतो यगादि कर्मकार्यम् । अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्क्य आह — तोपऽनुतापे चेति चिण्निषेधात्सिजिति । तस्यझलो झली॑ति लोपे परिनिष्ठितमाह — अतप्तेति । उत्तपति सुवर्णं सुवर्णकार इति । अत्र तपः कर्मकत्वाऽभावान्न कर्मवत्त्वमपि भावः । भाष्ये तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् ।दुहिपच्योर्बहुल॑मिति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात्न दुहस्नुनमामिति सूत्रमुपन्स्तं प्राक् । इदानां सिंहावलोकनन्यायेन स्नु धातुः क्षीरप्ररुआवणसूत्रमुपन्यस्यति- न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति — प्रस्नुते इति । स्नुधातुः क्षीरप्ररुआवणविषये उत्कण्ठीकरणे वर्तते । वत्सो गां प्रस्नौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्ररुआवणविषये उत्कष्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु — प्रकृते गौः । स्वयमेव क्षीरप्ररुआवणविषये उत्कण्ठावतीत्यर्थः । तत्र उत्कण्ठा पूर्वं कर्मप्राप्तेऽनेन निषेधः । प्रास्नाविष्टेति । अत्र कर्मवत्त्वात्प्राप्तश्चिण् न । किंतु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु 'स्नुक्रमो' रिति निमाद्वलादिलक्षण इण्न । तदाह — प्रास्नोष्टेति । णम उदाहरति — नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः । कर्मणः कर्तृत्वविक्षायां तुनमते दण्डः॑ । अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण् । ननु णमधातोः प्रह्वीभावार्थकस्याऽकर्मकत्वात्कर्यवत्त्वाऽप्रसक्तेर्यक्चिणोर्न प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यक्चिणोरिति ।न दुहस्नुनमा॑मिति यक्चिणोः प्रतिषेधसूत्रे दुहस्नुनमां, हेतुमण्णिश्रिब्राऊञामिति च वाच्यमित्यर्थः । कारयते इति । 'स्वयं देवदत्त' इति शेषः । करोति देवदत्तः, तं प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि तङेव, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण्,णिश्रीति चङेव । उच्छ्रयते दण्ड इति ।स्वयमेवे॑ति शेषः ।दण्डमुच्छ्यति कश्चि॑दिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि न यक्, तङेव । उदशिश्रियतेति । कर्मवत्त्वेऽपि चिणभावात्णिश्री॑ति चङ् । ननु 'कारिष्यते' इत्यत्र कथं चिण्वदिटौ, ण्यन्तस्याऽजन्तस्य उपदेशाऽभावादित्यत आह — चिण्वदिट् तु स्यादेवेति ।स्यसिच्सीयुट्तासिषुट इत्यत्र हि उपदेशे अजन्तस्येति नाऽर्थः, किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाऽभावेऽपि णेरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिञ उपदेशे योऽच् तदन्तत्वाच्चिण्वदिटौ । ब्रूते कथेति ।स्वयमेवे॑ति शेषः । कथां ब्रावीति कश्चिदित मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां क्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न कथां ब्रावीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न यक् । अवोचतेति । कर्मवत्त्वेऽपि न चिण् किंतु 'ब्राऊवो वचिः'अस्यतिवक्तिख्यातिभ्योऽङ्ट 'वच उ' मिति भावः । उच्चारणएन शब्देषु प्राकटरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्ये श्रन्थेः ग्रन्थेः ब्राऊञ आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाऽभिमत इत्यर्थः । अत्र णीति सामान्यस्य ग्रहणं न तु हेतुमण्णिच एव । ततश्च णिङन्तस्यापि न यक्चिणाविति मत्वाऽऽह — पुच्छमुदस्यति उत्पुच्छयते गौरिति ।पुच्छादुदसने इति णिङ् । नन्वत्र उदसने पुच्छं कर्म, गौर्मुख्यकत्र्री, नतु कर्मकत्र्री ।ततश्च नाऽत्र यक्चिणोः प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थतायामिति ।उदस्यती॑त्यस्य उदासयतीत्यन्तर्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म, तस्यगोरूपकर्मणः प्रेयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यतिगौरिति बोधः ।उदपुपुच्छतेति । अत्र न चिण् । श्पचङाविति ।उत्पुच्छयते गौ॑रित्यत्र यकः प्रतिषेधाच्छप् । उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चङित्यर्थः । ननुश्रन्थ मोक्षणे, ग्र्नथ ग्रथने॑ इति श्रन्थिग्रन्थ्योश्चौरादिकतया । णिग्रहणेनैव सिद्धेः पुनग्र्रहणं वयर्थमित्यत आह — श्रन्थिग्रन्थ्योरिति । ग्रन्थति ग्रन्थमिति । रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्त इति । विरुआंसयतीत्यर्थः । 'देवदत्त' इत्युभयत्रान्वेति । अत्र कर्मणो ग्रन्थस्य, मेखलायाश्च कर्तृत्वविवक्षायं ग्रन्थते ग्रन्थः, श्रन्थते मेखलेति च भवति । स्वयमेव ग्रन्थरचनाश्रयः, रुआंसनाश्रयश्चेत्यर्थः । तत्र कर्मवत्त्वेऽपि न यगिति भावः । अग्रन्थिष्ट, अश्रन्थिष्टेत्यत्र च न चिण् । क्रैयादिकयोस्त्विति । कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः । आत्मनेपदविधावकर्मको यस्तमुदाहरति — विकुर्वते सैन्धवा इति । सैन्धवाः = अआआः । अत्र विपूर्वः कृञ् वल्गने वर्तते, उपसर्गवशात् । तदाह — वल्गन्तीति । शब्दं कुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् ।मुख्यकर्तरि लकारः । वेरिति । 'वेः शब्दकर्मणः' इत्यन्तरं पठितेनअकर्मकाच्चे॑ति सूत्रेण परगामिन्यपि फेल तङित्यर्थः । नन्वस्याऽकर्मकतया अआआनां कर्मकर्तृत्वाऽभावान्न यकः प्रसक्तिरित्यत आह — अन्र्तभावितेति.विपूर्वकः कृञ् शब्दं कुर्वाणस्य प्रेरणे यदा वर्तते तदा विकुर्वते सैन्धवानिति भवति । अआआन् शब्दायतीत्यर्थः । तत्र सैन्धवानां कर्मणां पुरुषप्रेरणाऽविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवा इति भवति । वल्गन्तीत्यर्थः । अत्र सैन्धवानां कर्मकर्तृणां कर्मवत्त्वेऽपि न यगित्यर्थः । व्यकारिष्टति । चिणि निषिद्धे ण्यन्तत्वाऽभावाच्चङभावे सिचश्चिण्वदिटि वृद्दिरिति भावः । चिण्वदिडभावपक्षे आह — व्यकृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः ।
SK 2772 · A 3.1.90V
कुषिरजोः प्राचां श्यन् परस्मैपदं च ॥ २७७२ ॥
kuṣirajoḥ prācāṃ śyan parasmaipadaṃ ca
Siddhānta-kaumudī
अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥
Bālamanoramā
कुषिरजोः प्राचां श्यन् परस्मैपदं च - कुषिरञ्जोः । अनयोरिति । 'कुष निष्कर्षे'रञ्ज रागे॑इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरी' त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः ।न दुहस्नुनमा॑मित्यतो नेति, यगिति चानुवर्तते । तदाह — न यगिति । किंतु श्यन्निति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यः प्रवृत्तिः ।न य॑गित्यनुक्ताव श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः ।प्राचां॑ग्रहणाद्विकल्पः । तदाह — कुष्यति कुष्यते वा पाद इति ।स्वयमेवे॑ति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाऽभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यक्श्यनोः स्वरे विशेषः । श्यनिकुष्यन्ती वधू॑रित्यत्रशप्श्यनोर्नित्य॑मिति नित्यं नुम् । यकि तुआच्छीनद्यो॑रिति विकल्पः स्यात् । रज्यति रज्यते वा वरुआमिति । अन्तर्भावितण्यर्थतायां दैवादिकत्वाच्छ्यनिरज्यति वरुआ॑मित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति रज्यते वा वरुआमिति भवतीत्यर्थः । यगवि,ये तु नास्त्येवेति ।श्य॑निति शेषः । यक#ं प्रतिषिध्य तत्स्थाने श्यनो विधिसामर्थ्यादित्यर्थः । कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान्न श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रङ्क्षीष्टेति । रञ्जेः सीयुटि जस्य कुत्वेन गः । तस्य चर्त्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्मना कत्र्रेति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ' इति सूत्रे कैयटे स्पष्टम् । इति कर्मकर्तृप्रक्रिया । अथ पूर्वकृदन्ते कृत्यप्रकरणम् ।अथ कृदन्तप्रक्रिया निरूप्यन्ते । तदेवंप्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः॑इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादेप्रत्ययः॑,परश्चे॑त्यारभ्यकुषिरञ्जोः प्राचां श्य॑न्नित्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः । अथतदुत्तरसूत्रविहितान्निरूपयितुमुपक्रमते —