PREMABASESiddhānta-kaumudī
Prakaraṇa 62 · SK 2745–2755

तिङन्तपरस्मैपदप्रकरणम्

tiṅantaparasmaipadaprakaraṇam · 11 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2745 · A 1.3.79V
अनुपराभ्यां कृञः ॥ २७४५ ॥
anuparābhyāṃ kṛñaḥ
Siddhānta-kaumudī
कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा SK 2766 इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् SK 2167 इत्यतः शेषात् SK 2159 इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥
Bālamanoramā
अनुपराभ्यां कृञः - अनुपराभ्यां कृञः ।परस्मैपदमिति शेषः । ननु 'स्वरितञितः' इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फलेशेषात्कर्तरी॑ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह — कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः । ननु कर्तरीत्यस्यानुवृत्तावपिअनुक्रियते शब्दः स्वयमेवे॑त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति — नचेति । एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह — कार्यातिदेशेति । तत्र कर्मकर्तरिकर्मवत्कर्मणा तुल्यक्रियः॑ इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः । नु कर्मणि यच्छास्त्रं तत्कर्मवत्कर्मणे॑ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरिभावकर्मणो॑रित्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाऽभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह — कार्यातिदेशपक्षस्य मुख्यतयेति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्चकर्मवत् कर्मणे॑त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेनअनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः ।कर्मवत्कर्मणे॑त्यत्र शास्त्रातिदेशमभ्युपगम्याअह — - शास्त्रातिदेशपक्षे त्विति । 'अनुपराभ्यां कृञः' इत्यत्रकर्तरि कर्मव्यतिहारे॑ इत्यस्मादेकं कर्तृघणमनुवर्तते । तथाशेषात्कर्तरि परस्मैपद॑मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते । तथा चस्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद॑मिति लभ्यते । एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः ।
SK 2746 · A 1.3.80V
अभिप्रत्यतिभ्यः क्षिपः ॥ २७४६ ॥
abhipratyatibhyaḥ kṣipaḥ
Siddhānta-kaumudī
क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥
Bālamanoramā
अभिप्रत्यतिभ्यः क्षिपः - अभिप्रति ।परस्मैपद॑मिति शेषः । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति । प्रतिक्षपति अतिक्,िपतीत्यप्युदाहार्यम् ।
SK 2747 · A 1.3.81V
प्राद्वहः ॥ २७४७ ॥
prādvahaḥ
Siddhānta-kaumudī
प्रवहति ॥
Bālamanoramā
प्राद्वहः - प्रद्वहः । प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहेः स्वरितेत्त्वात्कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् ।
SK 2748 · A 1.3.82V
परेर्मृषः ॥ २७४८ ॥
parermṛṣaḥ
Siddhānta-kaumudī
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥
Tattvabodhinī
NSP p. 472
—परेर्भूषः । स्वरितलात्पदद्वये प्राप्तेऽयमारम्भः ॥—परिमर्षतीति । ‘आ धृषाद्वा’ इति वैकल्पिकलाणिजभावः
Bālamanoramā
परेर्मृषः - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । 'परे' रिति योगो विभज्यते । 'वह' इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । 'मृष' इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् ।
SK 2749 · A 1.3.83V
व्याङ्परिभ्यो रमः ॥ २७४९ ॥
vyāṅparibhyo ramaḥ
Siddhānta-kaumudī
विरमति ॥
SK 2750 · A 1.3.84V
उपाच्च ॥ २७५० ॥
upācca
Siddhānta-kaumudī
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥
Tattvabodhinī
NSP p. 472
—उपाच्च । व्याङ्पर्युपेभ्य इति नोक्तम् । उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति
Bālamanoramā
उपाच्च - उपाच्च । उपपूर्वादपि रमेः परस्मैपदमित्यर्थः । उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तयेव्याङ्पर्युपेभ्यो रमे॑रिति नोक्तम् । अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात् । अतः सकर्मकमुदाहरति — यज्ञदत्तमुपरमतीति । ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह — उपरमयतीत्यर्थ इति । ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह — अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः ।
SK 2751 · A 1.3.85V
विभाषाऽकर्मकात् ॥ २७५१ ॥
vibhāṣā'karmakāt
Siddhānta-kaumudī
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥
SK 2752 · A 1.3.86V
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ॥ २७५२ ॥
budhayudhanaśajaneṅprudrusrubhyo ṇeḥ
Siddhānta-kaumudī
एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च SK 2564 इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥
Bālamanoramā
बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः - बुधयुध । बुध युध नश जन इङ् प्रुद्रु रुआउ एषां द्वन्द्वः । बोधयति पद्ममिति ।सूर्य॑इति शेषः । बुधिर्विकसनार्थकः । विकसति पद्मम् । तद्विकासयति सूर्य इत्यर्थः ।अणावकर्मकाच्चित्तवत्कर्तृका॑दिति परस्मपैदं तु न सिध्यति, अणौ पद्मस्य कर्तृतया चित्तवत्करर्तृकत्वाऽभावत् । योधयति काष्ठानीति । काष्ठानि युध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अणावचित्तवत्कर्तृकत्वात्अणावकर्मका॑दित्यस्य न प्राप्तिः । अतएव योधयति देवदत्तमिति नोदाहृतम्,अणावकर्मकाच्चित्तवत्कर्तृका॑दित्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुखं नश्यति, तन्नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तज्जनयति हरिरित्यर्थः । अध्यापयतीति । अधीते वेदं विधिः, तमध्यापयतीत्यर्थः । 'प्रु गतौ' इत्यस्योदाहरति — प्रावयतीति । गत्यर्थकत्वं मत्वा आह — प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं, तद्द्रावयतीत्यर्थः । धातोद्र्रवीभावार्थकत्वं मत्वा आह — स्यान्दयतीत्यर्थ इति ।प्रीतिं भक्तजनस्य यो जनयते॑ इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनो हरौ प्रीतिं जनयत्यत्मविषये , तां हरिर्जनयते इति ण्यन्ताण्णौ रूपम् । प्रयोज्यकर्तुः शेषत्वविवक्षय#आ भक्तजनस्येति षष्ठीत्याहुः ।
SK 2753 · A 1.3.87V
निगरणचलनार्थेभ्यश्च ॥ २७५३ ॥
nigaraṇacalanārthebhyaśca
Siddhānta-kaumudī
निगारयति । आशयति । भोजयति । चलयति । कम्पयति ।
vārttika
अदेः प्रतिषेधः
(वार्तिकम्) ॥ आदयते देवदत्तेन । गतिबुद्धि SK 540 इति कर्मत्वम् ॥
vārttika
आदिखाद्योर्नेति प्रतिषिद्धम्
(वार्तिकम्) ॥ निगरणचलन SK 2753 इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् SK 2159 इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥
Tattvabodhinī
NSP p. 472–475
—निगरणचलनार्थेभ्यश्च । निगरणं भक्षणम् । शुद्धवृणां चलनार्थानाम- नेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे ग्रहणम् । अत एव तत्र निवृत्तं प्रापयतीत्यर्थं इत्यादिना । कथं तर्हि ‘इमां किमाचामयसे न चक्षुषी’ इति श्रीहर्षः । आङ्पूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत् । अत्राहुः । आचामयेति पृथक्पदम् । ई लक्ष्मीस्तया सहिता सेस्तयाः संबोधने हे से इति । केचित्तु सा लम् इने चक्षुषी इनचक्षुषी श्रेष्ठचक्षुषी आचामय किमिति व्याचक्षते ॥ अणाचकर्मकात्- । क्रियाफलस्य कर्तृगामिलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थ-मिदम् । अणाविति किम् । हेतुमण्यन्तादकर्मकात्परस्मैपदनियमो माभूत् । आरोह्यमाणं प्रयुङ्क्ते आरोहयते । न्यग्म-वन्तं प्रेरयतीत्यर्थः । ‘णेरणौ—’ इति सूत्रे उदाहरणत्वेन य आरोहयतिरकर्मको निर्णीतस्तस्माद्वितीये णिचि प्रत्युदाहरण-मिदम् । केचित्तु अणाविति किम् । चुरादिण्यन्तात्परस्मैपदनियमो माभूत् । तद्यथा पुट्ट चुट्ट अल्पीभावे । पुट्टयति । चुट्टयति । अल्पीभवतीत्यर्थः । अकर्मकाविमौ । ततो हेतुमण्णिचि । पुट्टयते । चुट्टयते । इति प्रत्युदाहरन्ति । तद्भाष्यादिविरुद्धम् । तथाहि । बुधादिसूत्रादिह णेरिति वर्तते बुधादिभ्यश्च हेतुमणिगरेव संभवतीति तदन्तादेवायं विधिः । अणाविति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः । तेन चुरादिण्यन्ताद्धेतुमण्णौ परस्मैपदं भवत्येवेति भाष्यादौ स्थितम् । तथा च हेतुमण्णेः प्राक् योऽकर्मको हेतुमण्यन्तभिन्नस्तस्माद्धेतुमण्णावात्मनेपदं नेति फलितोऽर्थः । अकर्मकात्किम् । कटं यः करोति तं प्रयुङ्क्ते कटं कारयति । चित्तवत्कर्तृकादिति किम् । शुष्यन्ति ब्रीहयस्ताञ्शोषयते ॥—न पाद ॥—चित्तवत्कर्तृकाऽकर्मका इति । दिवादौ दमिः सकर्मक इत्युक्तम्, इह लकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति तथापि कर्मणः कर्तृलविवक्षायां दमिरत्राकर्मक इत्याहुः ॥—पाययत इति । ‘शाच्छासा—’ इति युक् ॥ आयामयत इति । ‘यमोऽपरिवेषणे’ इति मित्तवनिषेधः ॥—वासयत इति । वस निवास इत्यस्य ग्रहणं, वस आच्छादने इत्यस्य तु न निषेधः । सकर्मकत्वेन तस्य प्राप्त्यभावात् । कर्मकर्तृलविवक्षायामकर्मकत्वेऽपि लुग्विकरणपरिभाषाया नात्र ग्रहणमित्याहुः ॥—समीची इति । प्रथमाद्विवचनम् । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः ॥—परस्मैपदं स्यादेवेति । अनन्तरस्य—’ इति न्यायेन योग-द्वयेन प्राप्तस्यैव परस्मैपदस्य प्रतिषेध इति भावः ॥ ॥ इति पदव्यवस्था समाप्ता ॥ इति परस्मैपदप्रक्रिया ॥ भावलापत्त्या तद्वाचकवाशब्दाल्लिद् स्यादेवेति केषांचिद्याख्यानं परास्तम् । भावनावाचकादेव भावे लिटः स्वीकारात् । विकल्पस्य तु भावनाभिन्नलात् । अन्यथा क्रियावाचिन इति विशेषणे दत्तेऽपि तद्दोषतादवस्थ्यात् । विकल्पवाचकाल्लिङभावेऽपि लङादयः स्युरिति तु न शङ्कनीयमेव । वर्तमानक्रियादिवृत्तेरेव लङादीनां विधानात् । किमर्थं तर्हि क्रियावाचिनो भ्वादय इति सर्वैरेव तत्र व्याख्यातम् । याः पश्यसीलत्रापि लक्षणप्रतिपदोक्तपरिभाषया याशब्दस्य धातुलासंभवात् ‘आतो धातोः’ इति तत्राल्लोपाग्रसक्तिरिति चेत् । अत्राहुः । ‘कार्यकालं संज्ञापरिभाषम्’ इति पक्षे ‘आतो धातोः’ इति कार्यप्रदेशे भ्वादयो धातव इत्युदतिष्ठते भ्वादिषु याशब्दमात्रपठनाद्द्रव्यवाचकोऽपि याशब्दस्तत्रोपतिष्ठते । वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अग्रवृत्तेः । ‘आतो धातोः’ इत्यत्र लात इति वर्णग्रहणात् । तस्माद्द्रव्यवाचकस्य याशब्दस्य धातुसंज्ञा माभूदिति क्रियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति । उत्पादना क्रियेत्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केषांचिदाक्षेपो निरस्तः । उत्पत्त्यनुकूलव्यापारस्य क्रियालात् । तदुक्तम्—‘व्यापारो भावना सैवोत्पादना सैव च क्रिया’ इति ॥ धातुत्वेनेति । सकलधातुषु धातुत्वं जातिरखण्डोपाधिवेत्यन्यदेतत् । तच्च वाचकतावच्छेदकम् । क्रियात्वं तु वाच्यतावच्छेदकमिति भावः ॥—धातुवाच्येति । नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्रत्ययार्थं प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ कृतस्त्वात् । तथा च भावना तिङ्प्रत्ययवाच्येति मीमांसकमतमेव रमणीयमिति चेत् । अत्राहुः । प्रत्ययार्थः प्रधानमिति उत्सर्गः स चेह त्यज्यते ‘क्रियाप्रधानमाख्यातम्’ इति स्मरणात् । टावाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्यस्य पाचिकादौ विशेषणत्वाभ्युपगमात्प्रत्ययार्थः प्रधानमिति नियमस्य प्रत्युक्तत्वाच्च । किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते कारकापेक्षा च दृश्यते अस्ति च करोतिसामानाधिकरण्यम् । किं कर्तव्यं भोक्तव्यम्, किं कृतवान् भुक्तवान् इति न च कृतमपि तव्यदादीनां भावनावाचकत्वमस्त्विति शङ्क्यम् । नामार्थयोरभेदान्वयानुरोधेन ‘कर्तरि कृत्’ इति तव्यदादयः कर्मादाविति परैरप्यभ्युपगमात् । अन्यथा पाचको देवदत्तः पक्तव्य ओदन इत्यत्रामेदवोधो न स्यात् तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति । लकारस्य सामानाधिकरण्यं कर्तृकर्माभिधायिन एव संभवति न भावाभिधायिन इत्याशयेन व्याचष्टे—सामानाधिकरण्याभावादिति । न चैवं युष्मदसद्भिशोपपदे समानाधिकरणे देवदत्तः पचतीत्यादाविव प्रथमपुरुषेण भाव्यमिति प्रथमपुरुषोऽप्यत्र न स्यादिति वाच्यम् । ‘शेषे प्रथमः’ इत्यत्र मध्यमोत्तमयोरविषये प्रथमः स्यादिति व्याख्यानात् ॥—तिङ्वाच्येति । घनादिवाच्यायास्तु सत्त्वरूपत्वमिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते । अत एव भाष्यकृतोक्तं ‘कृदभिहितो भावो द्रव्यवत्प्रकाशते’ इति । द्रव्यधर्माल्लिङ्गसंख्याकारकादीन् गृह्णातीत्यर्थः ॥—एकवचनमेवेति । प्रायोवादोऽयम् । अन्यथा ‘उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते’ इति माष्ये धात्वर्थनिर्देशे ण्युलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिकाः इत्यत्र वहुवचनसिद्धावपि आस्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत् । न च कर्मण्येवात्र लकारोऽस्त्विति शङ्क्यम् । धातुद्वयस्याप्यकर्मकत्वेन तदसंभवात् अर्थासङ्गतेश्च । तत्र ह्युष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादिकर्तृकान्यासनादीनीत्यर्थः । सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य मेदावभासाद्वहुवचनम् । न चैवं संख्यान्वयित्वे असत्वरूपता न स्यादिति वाच्यम् । लिङ्गक्रियानाधारकारकयोगाभावमात्रेणासत्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात् । केचिदिह उष्ट्रासिकाहतशायिकाशब्दयोस्तत्सदृशे लक्षणां स्त्रीकृत्य आस्यन्त इत्यादिना अभेदान्वयमाहुः । मनोरमायां तु आसिकाः शायिका इति च द्वितीयावहुवचनं क्रियाविशेषणत्वेन कर्मत्वात् । न चैवं ल्लीवत्यमेकवचनान्तत्वं च स्यादिति वाच्यम् । ‘स्त्रियां क्तिन्’ इत्यधिकारात्स्त्रीत्यावधारणेन ‘सामन्ये नपुंसकम्’ इत्यस्यानवधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम् ॥—स्यसिच्रसीयुद्धतासिषु—यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यत्र एव विशेषणं न हनादीनामव्यभिचारात्तदाह—उपदेशो योऽजिति । उपदेशे अजन्तानामिति न व्याख्यातम् । तथाहि सति णिजन्तस्य न स्यात्तस्योपदेशाभावात् । उपदेशो हि साक्षादुच्चारणम् । न च ण्यन्तस्य तदस्ति ॥ चिण्वदिति सप्तम्यन्ताद्वतिः, ‘स्यसिच्रसीयुद्धतासिषु’ इति प्रतियोगिनि सप्तमीनिदेशादतो व्याचष्टे—चिणीवेति । ननु चिणि दृष्टमात्रस्य वृद्ध्यादिकार्यस्यातिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनो वधादेशः इणो गादेशः इङो गाङ्गादेशोऽपि स्यादिति चेत् । मैवम् । अङ्गाधिकारवलेन आङ्गस्यैव कार्यस्यातिदेशात् । न चैते हनिणिङ्गादेशा आङ्गास्तदेतदाह—अङ्गकार्यं वा स्यादिति ॥—सीयुद्ध इति । तथा च सीयुद्धशब्देन तद्विशिष्टं लक्ष्यत इति भावः । आर्धधातुक इत्यनेन व्यावर्त्यस्तु विधिलिङ् । तेन भूयेतेत्यत्र न भवति । न चात्र ‘लिङः सलोपः—इति सलोपाद्वलादित्वं नास्तीति वाच्यम् । तस्येहानपेक्षणात् । यदाहुः । ‘चिण्वद् वृद्धिर्युक् च हन्तेश्च धत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । इद् चासिद्धस्तेन मे लुप्यते णिनित्यश्चायं वल्निमित्तो विधाती ॥’इति । अस्यार्थः । चिण्वदित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम् । तथा हि । भाविता भाविष्यते इत्यादौ वृद्धिः । दायिता दायिपीष्टेत्यादौ युक् । घानिता घानिष्यते इत्यादौ घलम् । हेतुमण्यन्तात्कर्मणि लकारे शामिता शामिता शामिष्यते शामिष्यते इत्यादौ चिण्णमुलोरिति मितामुपधाया वा दीर्घः । अत्रैव शामितेत्यादौ ‘स्यसिच्सीयुट्—इत्यनेन कृत इङ् आभीयत्वेनासिद्धस्तेनानिटीति निषेधो न प्रवर्तत इति णेलोपो भवति । भाविष्यते इत्यादौ भू स्य इति स्थिते परमपि वलादिलक्षणमिटं वाधित्वा चिण्वदिडेव भवति । यतोऽयं नित्यः । वल्निमित्तो विधाती लनित्यः । साप्तमिके तस्मिन्कृतेऽयं चिण्वदिट् भवति । अस्मिन्कृते तु स न भवति । वलादिनिमित्तस्य विहितत्वात् । एवं च नित्यत्वात् सेङ्भ्योऽप्ययमेवेट् भवति । एतदभावपक्षे तु सेङ्भ्यो वलादिलक्षण इद् भवतीति बोध्यम् ॥ चिण् भावकर्मणोः । ‘च्लेः सिच्’ इत्यतः च्लेरिति ‘चिण् ते पदः’ इत्यतस्ते इति चानुवर्तते । तत्रत्यं तु चिण्प्रहृणं ‘न रुधः’ इति निषेधेन तिरोहितमिति पुनरत्र चिण्प्रहृणं कृतम् । तशब्दे किम् । अभाविषाताम् ॥—चिण्वदिट् इति । ण्यन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाचिण्वदिडिह प्रवर्तत एवेति भावः—परत्वादिति । चिण्वदिडपेक्षया ॥—नित्यत्वादिति । न च कृते चिण्वदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्काम् । ‘अचोञ्णिति’ इति वृद्धिं वाधित्वा परत्वाद् गुणे रपरत्वे च पश्चात् ‘अत उपधायाः’ इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वानपायात् ॥—उपदेशप्रहृणादिति । तत्सामर्थ्यादुपदेशे योऽच् तदन्तत्वम् । ऋधातोर्व्यपदेशिवद्भावेन यत्स्थितं तदादाय ण्यन्तादप्यारितेत्यादौ चिण्वदिट् प्रवर्तत इति भावः । न चैवं स्मारितेत्यादि न सिध्येत्, स्मृ इत्यस्य उपदेशे योऽच् तदन्तत्वाभावात् । उपदेशेऽजन्तानामिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत् । सत्यम् । अत एवापरितोषान्मनोरमायामुक्तमस्तु वा उपदेशे यदजन्तं तस्येति व्याख्यानम् । अङ्गस्येति व्यधिकरणषष्ठी । अङ्गावयवस्याजन्तस्येत्यर्थं इति । एवं च णिजन्तेऽपि शामितेत्यादौ चिण्वदिट् सिध्यति व्यपदेशिवद्भावेन णिजेव णिजन्तस्तदवयवकं शामीत्यङ्गमित्याश्रयणात् । आरिता स्मारितेत्यादपि सिध्यति । ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक् ॥—नित्यग्रहणानुवृत्तेरिति । ‘नित्यं छन्दसि’ इति सूत्रात् । काशिकायां तु मुटो वहिरङ्गलक्षणस्यासिद्धत्वादभक्ताद्वा संयोगादित्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम् । ‘मुट् कात्पूर्व’ इति विधीयमानः कभक्तो न लङ्गभक्तस्तेनासंयोगाद्येव अङ्गमित्यभक्तत्वादित्यस्याशयः
Bālamanoramā
निगरणचलनार्थेभ्यश्च - निगरण । निगरणं भक्षणम् । चलनं — कम्पनम् । एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव । अत एव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी॑ । इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः । तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम् । 'एङ्ह्रस्वात्' इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् । वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम् । नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,ुषोःगतिबुद्धी॑ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्राचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते । सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम् । अदेः प्रतिषेध इति । अदेण्र्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः ।आदयते देवदत्तेने॑त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह — निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति । नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, 'अनन्तरस्य' इति न्यायादिति भावः ।
SK 2754 · A 1.3.88V
अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ २७५४ ॥
aṇāvakarmakāccittavatkartṛkāt
Siddhānta-kaumudī
ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥
Bālamanoramā
अणावकर्मकाच्चित्तवत्कर्तृकात् - अणावकर्मकात् । ण्यन्तादिति शेषपूरणम्, णेरित्यनुवृत्तेरिति भावः । अणौ यो दातुरकर्मकः, चित्तवत्कर्तृकश्च, तस्माण्ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहयः शुष्यन्ति, तान् शोषयते । अकर्मकात्किम् । कटं करोति तं प्रयुङ्क्ते ।कटं कारयति ।
SK 2755 · A 1.3.89V
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ २७५५ ॥
na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ
Siddhānta-kaumudī
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ।
vārttika
धेट उपसंख्यानम्
(वार्तिकम्) ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् SK 2159 इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः SK 2669 । लोहितायति । लोहितायते । द्युद्भ्यो लुङि SK 2345 अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः SK 2347 । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च कॢपः SK 2341 कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिकॢप्सति । चिकल्पिषते । चिकॢप्सते ॥ समाप्ता पदव्यवस्था ॥
Bālamanoramā
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः - न पादम्याङ्यम् । पा दमि आङ्यमाङ्यमाङ्यस परिमुहरुचि नृति वद वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति — पिबतिर्निगरणार्थ इति । ततश्च 'निगरणचलनर्थेभ्यः' इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वयनेनेति ।अणावकर्मका॑दिति,निगरणचलनार्थेभ्यश्च॑ इति च सूत्रद्वयेनेत्यर्थः । पाययते इति ।शाच्छासाह्वाव्यावेपां यु॑गिति पुकोऽपवादो युक् । दमयते इति ।जनीजृष्क्नसुरञ्जोऽमन्ताश्चे॑त मित्त्वाद्ध्रस्वः । ननु दिवादौ दमिः सकर्मक इत्युक्तम्, अतः कथमिहअणावकर्मका॑दिति प्राप्तिरिति चेद्दमेः परस्मैनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः । आयामयते इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः । वासयते इति । 'वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम्, नतु 'वस आच्छादने' इत्यादादिकस्याऽपि, तस्य सकर्मकत्वादेवाऽप्राप्तेः,लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहण॑मित्युक्तेश्च । धेट #उपसङ्ख्यानमिति ।परस्मैपदनिषेधस्ये॑ति शेषः । धापयेते शिशुमिति मन्त्रः । ननुवत्सान् पाययति पयः॑,दमयन्ती कमनीयतामदं॑,भिक्षा वासयती॑ति च कथम् ।न पादम्यडमेति परस्मैपदस्य निषेधादित्यत आह — अकत्र्रभिप्राये इति ।अनन्तरस्ये॑ति न्यायेननिगरणचलनार्थेभ्यश्च॑,॒अणावकर्मकाटदिति सूत्रद्वयप्राप्तस्यैवन पादम्याङ्यमाङ्यमसे॑ति निषेध इति भावः । 'वा क्यषः' इत्यादि प्राग्व्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इतिपरस्मैपदव्यवस्था । अथ परिभाषाप्रकरणम्॥