PREMABASESiddhānta-kaumudī
Prakaraṇa 59 · SK 2678–2678

तिङन्तकण्ड्वादिप्रकरणम्

tiṅantakaṇḍvādiprakaraṇam · 1 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2678 · A 3.1.27V
कण्ड्वादिभ्यो यक् ॥ २६७८ ॥
kaṇḍvādibhyo yak
Siddhānta-kaumudī
एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च ।{$ {!1944 कण्डूञ्!} गात्रविघर्षणे$} । कण्डूयति । कण्डूयते ।{$ {!1945 मन्तु!} अपराधे$} । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते ।{$ {!1946 वल्गु!} पूजामाधुर्ययोः$} । वल्गूयति ।{$ {!1947 असु!} उपतापे$} । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते ।{$ {!1948 लेट्!} {!1949 लोट्!} धौर्त्ये पूर्वभावे स्वप्ने च$} । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ।{$ {!1950 लेला!} दीप्तौ$} ।{$ {!1951 इरस्!} {!1952 इरज्!} {!1953 इरञ्!} ईर्ष्यायाम्$} ॥ इरस्यति । इरज्यति । हलि च SK 354 इति दीर्घः । ईर्यति । ईर्यते ।{$ {!1954 उषस्!} प्रभातीभावे$} ।{$ {!1955 वेद!} धौर्त्ये स्वप्ने च$} ।{$ {!1956 मेधा!} आशुग्रहणे$} ॥ मेधायति ।{$ {!1957 कुषुभ!} क्षेपे$} ॥ कुषुभ्यति ।{$ {!1958 मगध!} परिवेष्टने$} । नीचदास्य इत्यन्ये ॥{$ {!1959 तन्तस्!} {!1960 पम्पस्!} दुःखे$} ।{$ {!1961 सुख!} {!1962 दुःख!} तत्क्रियायाम्$} । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ।{$ {!1963 सपर!} पूजायाम्$} ।{$ {!1964 अरर!} आराकर्मणि {!1965 भिषजू!} चिकित्सायाम्$} ।{$ {!1966 भिष्णज्!} उपसेवायाम्$} ।{$ {!1967 इषुध!} शरधारणे$} ।{$ {!1968 चरण!} {!1969 वरण!} गतौ$} ।{$ {!1970 चुरण!} चौर्ये$} ।{$ {!1971 तुरण!} त्वरायाम्$} ।{$ {!1972 भुरण!} धारणपोपणयोः$} ।{$ {!1973 गद्गद!} वाक्स्खलने$} ।{$ {!1974 एला!} {!1975 केला!} {!1976 खेला!} विलासे$} ।{$ {!1977 इला!} इत्यन्ये$} ।{$ {!1978 लेखा!} स्खलने च$} । अदन्तोऽयमित्यन्ये । लेख्यति ।{$ {!1979 लिट!} अल्पकुत्सनयोः$} । लिट्यति ।{$ {!1980 लाट!} जीवने$} ।{$ {!1981 हृणीङ्!} रोषणे लज्जायां च$} ।{$ {!1982 महीङ्!} पूजायाम्$} । महीयते । पूजां लभत इत्यर्थः ।{$ {!1983 रेखा!} श्लाघासादनयोः$} ।{$ {!1984 द्रवस्!} परितापपरिचरणयोः$} ।{$ {!1985 तिरस्!} अन्तर्धौ$} ।{$ {!1986 अगद!} नीरोगत्वे$} ।{$ {!1987 उरस्!} बलार्थः$} । उरस्यति । बलवान् भवतीत्यर्थः ।{$ {!1988 तरण!} गतौ$} ।{$ {!1989 पयस्!} प्रसृतौ$} ।{$ {!1990 संभूयस्!} प्रभूतभावे$} ।{$ {!1991 अंबर!} {!1992 संवर!} संभरणे$} । आकृतिगणोऽयम् ॥
Tattvabodhinī
alignment inferredNSP p. 463–464
—स्वार्थे इति । कण्ड्वादिभ्यो यक् स्यात् कृष्यर्थे इति प्राचोक्तमयुक्तमिति भावः ॥—द्विधा इति । यकः किंचेन धातव इति ज्ञायते । कण्ड्वञ् इति दीर्घपाठेन प्रातिपदिकान्यपीति । यदि तु धातव एव स्युस्तर्हि हस्वान्ते पठितेऽपि यकि परे ‘अकृत्सार्व’ इति दीर्घेण कण्ड्वयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन । द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन किंचं सार्थकम् । कण्ड्वरित्यादियग्रहितरूपसिद्ध्या दीर्घपाठोऽपि सार्थकः । अत एवोक्तं भाष्ये—‘धातुप्रकरणाद्धातुर्जस्य चासज्जनादपि । आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः’ इति । एतेन कण्ड्वं करोति कण्ड्वयति इति प्राचोक्तविग्रहोऽपि परास्तः । कण्ड्वादयः प्रातिपदिकान्येवेत्यनभ्युपगमात् । न च द्वैविध्याभ्युपगमेऽपि प्रातिपदिकादेव यक् स्यादिति वाच्यम् । तथाहि सति धातोर्लडादौ कण्ड्वयतीत्याद्यनिष्टप्रसङ्गात् । सुखदुःखादिप्रातिपदिकेभ्यो यकि अल्लोपासंभवेन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च । यत्तु कैश्चित् ‘शब्दवैरकलह’इति सूत्रात्करणे इत्यनुवर्तनात् कृष्यर्थे यगिति प्राचोक्तव्याख्यायां न किंचिद्वाधकमित्युक्तं तच्चिन्त्यम् । अनुवृत्तौ मानाभावात् । अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक् ॥—पूर्वभाव इति । पूर्वत्वमित्यर्थः ॥— लेटितेति । ‘यस्य हलः’ इति यलोपः ॥—सुख्यतीति । चुरादौ तु सुख दुःख तत्क्रियायां सुखयतीत्याद्युदाहतम् ॥ —सपर-। यगन्तात् ‘अप्रत्ययात्’ ‘गुरोश्च हलः’ इत्यनेन वा अप्रत्यये टाप् । सपर्या । अरर । आरा प्रतोदः ॥ तत्करणकं कर्म आराकर्म ॥—अदन्तोऽयमिति । लेख्यति । आदन्तपक्षे तु लेखायति । महीङ् । ‘प्रेत्य खर्गे महीयते’ इति रामायणम् ॥—प्रसृताविति । प्रसृतिः परिमाणविशेषः ॥—प्रभूतभावे इति । वाहुल्य इत्यर्थः । ‘प्रभूतं प्रचुरं प्राज्यमदभ्रं वहुलं वहु’ इत्यमरः ॥ संभूयस्यति । असंभूयसीत् । नेह संशब्दस्य पृथक्कृतिर्यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः ॥—आकृतिगण इति । तेन दुवत्सन्दीपन इत्यादि सिद्धम् । प्रयुज्यते च ‘समिधामि दुवस्यते’ इत्यादि ॥ इति कण्ड्वादिप्रक्रिया ॥ प्रथमस्येति ॥ अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तु ‘यथेष्टं नामधातुषु’ इति प्राप्ते ‘कण्ड्वादेस्तुतीयस्य’ इत्युक्तमित्यवतारितं, तदयुक्तम् । नामधातुलस्य निराकृतत्वात् । अत एव मूले नामधातून् समाप्य कण्ड्वादयः पृथगेवोक्ताः ॥—द्रीशब्दयिशब्दयोरिति । नकारस्य लचः परत्वात् द्वित्वं नेति भावः ॥—पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्य ‘प्रियस्थिर-’ इत्यादिना प्रादेशस्ततो द्वित्वादि ॥—सिसाधयिषतीति । इष्टवद्भावादिह ‘अन्तिकवाढयोः-’ इति साधादेशः । सादिधयिषति ॥—पत्वं तु नास्तीति । आदेशावयवत्वादिति भावः ॥—बोभूयिषयिषतीति । इह यङ्निमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वित्ववारणाय ‘लिटि धातोः-’ इति सूत्रे अनभ्यासस्येत्येतदवदं कर्तव्यम् । एवं च ‘लक्ष्ये लक्षणं सकृदेव प्रवर्तते’ इति अनभ्यासग्रहणं तत्र मास्तिति भाष्यस्थं प्रत्याख्यानं प्रौढिवादमात्रमिति भावः ॥ इति प्रत्ययमाला ॥ भावकर्मणोः ॥ भावे कर्मणि यो लकारस्तस्यात्मनेपदमित्यर्थः
Bālamanoramā
कण्ड्वादिभ्यो यक् - अथ कण्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति । आशुग्रहणँ त्वरया बोधः । 'सुग्रहणे' इति पाठान्तरम् । सुख्यतीति । यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति । आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म । भिषज् चिकित्सायाम् । जान्तोयऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति.लेख्यतीति । अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति । कण्ड्वादिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसङ्ग्रहः ।समिधाऽग्न दुवस्यते॑ । इति कण्ड्वादयः ।अथ कारकप्रकरणम् । — — — — — — -