PREMABASESiddhānta-kaumudī
Prakaraṇa 58 · SK 2657–2677

तिङन्तनामधातुप्रकरणम्

tiṅantanāmadhātuprakaraṇam · 21 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2657 · A 3.1.8V
सुप आत्मनः क्यच् ॥ २६५७ ॥
supa ātmanaḥ kyac
Siddhānta-kaumudī
इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥
Bālamanoramā
सुप आत्मनः क्यच् - अथ नमधातुप्रक्रिया निरूप्यन्ते । सुप आत्मनः । प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । सन्निधानादिच्छां प्रत्येव कर्मत्वं विवक्षितम् । आत्मन्शब्दः स्वपर्यायः । तादथ्र्यस्य शेषत्वविवक्षायां षष्ठी । स्वर्थात्कर्मण इति लभ्यते । स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः । तथा च स्वस्मै यदिष्यते कर्मकारकं तद्वृत्तेः सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । तदिदमभिप्रेत्य आह — इषिकर्मण एषितृसम्बन्धिन इत्यादिना । एषित्रर्थादिषिकर्मण इत्यर्थः । एषित्रा स्वार्थं यदिष्यते कर्मकारकं ।द्वाचकात्सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात्क्यचि कृते तदन्तस्य 'सनाद्यन्ता' इति धातुत्वादिति भावः ।
SK 2658 · A 7.4.33V
क्यचि च ॥ २६५८ ॥
kyaci ca
Siddhānta-kaumudī
अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये SK 63 । गव्यति । नाव्यति । लोपः शाकल्यस्य SK 67 इति तु न । अपदान्तत्वात् । तथा हि ॥
Bālamanoramā
क्यचि च - क्यचि च । 'अस्य च्वौ' इत्यतोऽस्येत्यनुवर्तते ।ई घ्राध्मो॑रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति — अस्येति । अकारस्येत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । नाव्यतीति । नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ।लोपः शाकल्यस्ये॑त्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह — तथा हीति । यथा पदत्वं न भवति तथोच्यते इत्यर्थः ।
SK 2659 · A 1.4.15पदसंज्ञा
नः क्ये ॥ २६५९ ॥
naḥ kye
Siddhānta-kaumudī
क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च SK 1373 । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च SK 354 । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः SK 1234 । कर्त्रीयति । क्यच्व्योश्च SK 2119 । गार्गीयति । वाच्यति । अकृत्सार्व - SK 2298 इति दीर्घः । कवीयति । समिध्यति ॥
Tattvabodhinī
NSP p. 455–456
—नः क्ये । ‘लोहितडाज्भ्यः क्यपूवचनं भृशादिष्वितराणि’ इति वक्ष्यमाण-तया हलन्तात्क्यप् दुर्लभ इत्यभिप्रेत्याह—क्यचि क्यङीति । एवं चेह क्यपीत्यपि कैश्चिदुक्तं तदुपेक्ष्यम् ॥ ‘यस्य हलः’ इति लोपमाशङ्क्याह—सन्निपातपरिभाषयेति । यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भावः ॥—गव्यतीति । अत्रान्तर्वर्तिविभक्त्या पदलाल्लोपो दुर्वारः स्यादित्याशङ्क्याह—अपदान्तत्वादिति । इदं च समाधानस्य समाधानान्तरादूषकलादिति न्यायेन समाधिसौकर्यादुक्तम् । वस्तुतस्तु उक्तरीत्या शङ्कैव नेति बोध्यम् । अन्ये तु वार्तिक एव प्रश्लेप इति द्वितीयपक्षमाश्रित्येदं सूत्रं वकारप्रश्लेषे लोपासंभवात् न हि कार्याति न्यायात् । न च वलीति निमित्तत्वेनाश्रयणात् तत्रापि लोपो भवत्येव । अन्यथा वलीत्येव कुर्यादिति वाच्यम् । वकारे परतो यकारलोपा-पत्तेश्च निमित्तत्वेनाश्रयणावश्यकलादिति द्वितीयकल्प एव युक्त इत्याहुः ॥—राजीयतीति । ‘क्यचि च’ इत्यवर्णस्य इत्वे कर्तव्ये ‘पूर्वत्रासिद्धम्’ इति नलोपोऽसिद्धो न भवति, ‘नलोपः सुप्स्वर—’ इति नियमात् । यद्यपि नियमसूत्राणां निषेध-मुखेन प्रवृत्तिरिति ‘नलोपः सुप्स्वर’ इति सूत्रं राजीयतीत्यादिषु पठनीयम् । राजभ्यामित्यादौ तु ‘पूर्वत्रासिद्धम्’ इति नलो-पस्यासिद्धत्वेन दीर्घाद्यभावसिद्धेस्तथापि विधिमुखेन प्रवृत्तिरिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्यत्रैव पठित-मिति ज्ञेयम् । न च विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम् । ‘अनुपराभ्यां कृञः’ इति सूत्रस्थभाष्यप्रन्थपर्या-लोचनया तत्पक्षावगमात् । यत्तु ‘नलोपः सुप्स्वर—’ इति सूत्रे मनोरमायामुक्तं ‘नियमसूत्राणां विधिमुखेन प्रवृत्तिः सामान्यशास्त्रतात्पर्यसङ्कोचकता च’ इति पक्षस्य ‘द्युच्यो लुङि’ इति सूत्रे भाष्यकृता ध्वनितलादिति । तच्चिन्त्यम् । तत्पूजस्य भाष्यकारैरस्पृष्टलात् । केचित्तु ‘द्युच्यो लुङि’ इत्यत्र ध्वनितलादिति वक्तव्ये सूत्रग्रहणं बहुब्रीहिलाभार्थम् ‘द्युच्यो लुङि’ इति सूत्रं यस्मिन्प्रकरणे तद् ‘द्युच्यो लुङि’ इति सूत्रम् । परस्मैपदप्रकरणमित्यर्थः । तत्र हि ‘अनुपराभ्याम्’ इति सूत्रं वर्तत इति तत्सूत्रे यद् ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितं भवति । यद्वा ‘अनुपराभ्यां कृञः’ इत्यत्र हि भाष्यकृता ‘द्युच्यो लुङि’ इति परामृष्टम् । तथा च ‘द्युच्यो लुङि’ इति सूत्रं यस्मिन्स्तत् द्युच्योलुङीतिसूत्रम् । ‘अनुपराभ्यां कृञः’ इति सूत्रमित्यर्थं इत्येवं कुकविकृतिवत् कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः ॥—पूर्विरोः साम्यादिति । गृह्य शब्दे । पृ पालनपूर-णयोरित्येताभ्यां क्रिपि ‘ऋत इद्धातोः’ ‘उदोष्ट्यपूर्वस्य’ इति प्रवृत्तेरिति भावः ॥—प्रामादिक एवेति । दिवुधातोः क्रिपि तु द्यूरिति स्यात् । ततः क्यचि तु द्यूयतीति भवति । क्रिपं विहाय विचि कृते तूपधागुणो वलोपश्च स्यात् । ततः क्यचि तु देवयतीति भवति । तथा च ‘हलि च’ इति सूत्रे वृत्तावपि ‘धातोरित्येव नेह । दिवमिच्छति दिव्यति’ इत्येवोक्तमिति भावः ॥ आपत्ययकारस्य लोपं स्मारयति—क्यञ्च्योश्चेति । ‘नः क्ये’ इति नियमेन पदलाभावात्कृत्वं नेत्याह—वाच्यतीति । एवं समिभ्यतीत्यत्र जन्त्वं नेति बोध्यम् ॥ ‘मान्ताव्ययेभ्यः प्रतिषेधः’ इति वार्तिकस्य यथाश्रुतव्याख्याने पुत्रमिच्छतीलापि न स्यात् । पुत्रौ पुत्रान् वा इच्छतीलादावेव स्यात्, अतो व्याचष्टे—मान्तप्रकृतिकादिति
Bālamanoramā
नः क्ये - नः क्ये । नकारादकार उच्चारणार्थः ।सुप्तिङन्त॑मित्यतः सुबन्तं पदमित्यनुवर्तते । सुबन्तं नकारेण विशेष्यते । तदन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोग्र्रहणं न तु क्यषः,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्क्यषोऽभावात् । तदाह क्यचि क्यङि चेत्यादिना । ननु गव्यांचकारेत्यत्र आम आर्धधातुकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्वाऽसंभवादिति भावः । गव्यितेति । इटि अतो लोपः । राजीयतीत्यत्र आह — नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य तीतिस्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थः । कृते नलोपेक्यचि चे॑त्यकारस्य ईत्त्वमिति मत्वाह — राजीयतीति । न च ईत्त्वे कर्तव्ये नलोपस्याऽसिद्धत्वं शङ्क्यं,नलोपः सुप्स्वरे॑ति नियमादित्यलम् । ननु त्वामात्मन इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भ्यां क्यचि धात्ववयवत्वात्सुपो लुकि प्रत्ययलक्षणाऽभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्यातां, विभक्तौ परत एव तद्विधानादित्यत आह — प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि क्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन इच्छति- युष्मद्यति अस्मद्यतीत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह — एकार्थयोरित्येवेति । प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'त्वमावेकवचने' इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाऽभावान्न त्वमाविति भावः । गिरमात्मन इच्छति, पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह — हलि चेति । 'उपधादीर्घ' इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापिहलि चे॑ति दीर्घः स्यादित्यत आह — धातोरित्येवेति ।हलि चे॑ति सूत्रेसिपि धातो॑रित्यस्तदनुवृत्तेरिति भावः । दिव्यतीति । दिव्शब्दोऽव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ।हलि चे॑ति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह — पुर्गिरोः साम्यादिति । 'गृ शब्दे' 'पृ पालनपूरणयोः' इत्याभ्यां क्विपिऋत इद्धातोटरितिउदोष्ठपूर्वस्ये॑ति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य च निष्पत्तेरिति भावः । प्रामादिक एवेति । दिव्शब्दस्याऽव्युत्पन्नप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्तादूठि द्यूशब्दाच्च क्यचिद्यूयती॑त्येव उचितम् । विचि तु लघुपधगूणेलोपो व्यो॑रिति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात्क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाऽभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाऽभावान्न सस्य रूत्वमिति भावः । कर्तृशब्दात्क्यचि विशेषमाह — रीङृत इति । गाग्र्यशब्दात्क्यचि विशेषमाह — क्यच्व्योश्चेति । आपत्यस्य यञो यकारस्य लोप इति भावः । कृते यलोपेक्यचि चे॑त्यकारस्य ईत्त्वं मत्वाह — गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात्क्यचि पूर्ववत् । कविशब्दात्क्यचि विशेषमाह — अकृत्सार्वेति । वाच्यतीति । वाच्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न कुत्वम् ।वचिस्वपी॑ति संप्रसारणं तु न,धातोः कार्यमुच्यमानं धातुविहितप्रत्यये एवे॑ति नियमात् । समिध्यतीति । समिध्शब्दात्क्यचि 'नः क्ये' इति नियमेन पदत्वाऽभावान्न जश्त्वम् । लुटस्तासि इटिसमिध्य इता इति स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते —
SK 2660 · A 6.4.50V
क्यस्य विभाषा ॥ २६६० ॥
kyasya vibhāṣā
Siddhānta-kaumudī
हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य SK 44 । अतो लोपः SK 2308 । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥
vārttika
मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न
(वार्तिकम्) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥
Bālamanoramā
क्यस्य विभाषा - क्यस्य विभाषा । 'यस्य हलः' इत्यतो हल इति पञ्चम्य्नतमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह — हलः परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्रते,लोहितडाज्भ्यः क्यष्वचन॑मिति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्याह — आदेः परस्येति । तथा च मिध् अ इता इति स्थिते आह — अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह — तस्य स्थानिवत्त्वादिति । क्यच्सूत्रेमान्ताव्ययेभ्यः प्रतिषेधः॑ इति वार्तिकम् । मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिकं विवृण्वन्नाह — मान्तप्रकृतिकेति ।
SK 2661 · A 7.4.34V
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु ॥ २६६१ ॥
aśanāyodanyadhanāyā bubhukṣāpipāsāgarddheṣu
Siddhānta-kaumudī
क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥
Tattvabodhinī
NSP p. 456
— अशनायोदन्य—कजन्ता इति । उदकशब्दस्योदनभावोऽन्ययोर्दार्घं इत्यपि हैयम् । इह यः सद्य एव भोकुमशनमिच्छति, यथा पातुमुदकं, यथा धने सलपि पुनर्धनं तत्रोदाहरणानि । यस्तु कालान्तरोपयोगार्थमशनमिच्छति, यथा क्षातुमुदकं, यथा दरिद्रः सन् धनमिच्छति तत्र प्रत्युदाहरणानि । ननु ‘उदन्या तु पिपासा तृट्’ इति निघण्टौ परस्परसामानाधिकरण्यं न स्याद् उदन्यशब्दस्य उदकेच्छावाचिलादिति चेत् । अत्राहुः । अशनायतीलादिषु अविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः, तथा च नोक्तदोष इति
Bālamanoramā
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु - अशनायोदन्य । अशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाङ्क्षा । अशनायतीति । अश्यते यत्तदशनम् = अन्नं, तद्भोक्तुमिच्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते ।अकृत्सार्वे॑ति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते, नलोपाऽबावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते । अशनीयतीति । अशनम् = अन्नं, तत्सङ्ग्रहीतुमिच्छति वैआदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्रः सन् जीवनाय धनमिच्छतीत्यर्थः ।
SK 2662 · A 7.1.51V
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ २६६२ ॥
aśvakṣīravṛṣalavaṇānāmātmaprītau kyaci
Siddhānta-kaumudī
एषां क्यचि असुगागमः स्यात् ।
vārttika
अश्ववृषयोर्मैथुनेच्छायाम्
(वार्तिकम्) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥
vārttika
क्षीरलवणयोर्लालसायाम्
(वार्तिकम्) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ।
vārttika
सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ
(वार्तिकम्) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥
Tattvabodhinī
NSP p. 456
—अश्वक्षीर—। ‘आज्ञसैः’—इत्यतोऽसुगिति वर्तते ॥— अश्वस्यतीति । मैथुनार्थमश्वमिच्छतीलयः । एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननु ‘इति रामो वृषस्यन्तीम्’ इति प्रयोगो मनुष्यविषये कथं संगच्छत इति चेत् । अत्राहुः । अश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अत एव ‘वृषस्यन्ती तु कामुकी’ इति कोशोऽपि खरसतः संगच्छते इति ॥—लालसायामिति । उत्कटेच्छायामित्यर्थः
Bālamanoramā
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि - अआक्षीर क्यचि ।परे असु॑गिति शेषपूरणम्,आज्जसेरसु॑गित्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत्ुकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अआवृषयोरिति - वार्तिकम् । अआस्यति वडवेति । मैथुनार्थमआमिच्छतीत्यर्थः । वृषस्यति गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः ।वृषस्यन्ती तु कामुकी॑ति कोशस्तु अआवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः । क्षीरलवणयोरिति - वार्तिकम् । 'असु ' गिति शेषः । लालसा - उत्कटेच्छा । सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । नचानेनैव वार्तिकेन सिद्धेक्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयो॑रिति वार्तिकं कात्यायनीयं,सर्वप्रातिपदिकाना॑मिति तु मतान्तरमित्यदोषात् । एतच्च भाष्येअपर आहे॑त्यनेन ध्वनितम् ।
SK 2663 · A 3.1.9V
काम्यच्च ॥ २६६३ ॥
kāmyacca
Siddhānta-kaumudī
उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः SK 2631इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥
Tattvabodhinī
NSP p. 456
— काम्यञ्च । उच्चारणसामर्थ्यान्न कस्यैत्सङ्गा । ‘मान्तव्ययेभ्यः प्रतिषेधः’ इत्यस्यानुवृत्त्यभावं सूचयति—अयं स्यादेवेति । आचरतीति । व्यवहरतीलयः ॥—अधिकरणाञ्चेति । सप्तम्यन्तरूपात्सुवन्तादित्यर्थः
Bālamanoramā
काम्यच्च - ॒सुप आत्मनः क्य॑जित्युत्तरमिदं सूत्रम् । तदाह — उक्तविषये इति । पुत्रकाम्यतीति । कस्येत्संज्ञा तु न, फलाऽभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः । ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह — यस्येतीति । 'यस्य हलःर' इत्यत्रयस्ये॑त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः । तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् मान्ताव्ययानां ने॑त्यनुवृत्तेरित्यत आह — मान्ताव्ययेभ्योऽप्ययमिति ।
SK 2664 · A 3.1.10V
उपमानादाचारे ॥ २६६४ ॥
upamānādācāre
Siddhānta-kaumudī
उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ।
vārttika
अधिकरणाच्चेति वक्तव्यम्
(वार्तिकम्) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥
Bālamanoramā
उपमानादाचारे - उपमानादाचारे ।सुप आत्मनः क्य॑जित्यतः सुप इत्यनुवर्तते ।धातोः कर्मणः समानक्रतृका॑दित्यतः कर्मण इति । तदाह - उपमानात्कर्मण इत्यादिना । उपमां यत्कर्मकारकं तद्वृत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मणः' इत्यतो वेत्यनुवृत्तिरनेन सूचिता । छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उपमानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति कुटआमिति । प्रासादे इव कुठआं ह्मष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुटआमिव प्रासादे क्लिष्टो वर्तते इत्यर्थः ।
SK 2665 · A 3.1.11V
कर्तुः क्यङ् सलोपश्च ॥ २६६५ ॥
kartuḥ kyaṅ salopaśca
Siddhānta-kaumudī
उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः ।
vārttika
ओजसोऽप्सरसो नित्यमितरेषां विभाषया
(वार्तिकम्) ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च SK 837 । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः SK 838 । पाचिकायते ।
vārttika
आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः
(वार्तिकम्) ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ।
vārttika
सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः
(वार्तिकम्) ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे SK 191 इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे SK 191 । अत आदेः SK 2248 इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च SK 2372 इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः - SK 2297 इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था SK 2223 इति, भुवो वुक् SK 2174 इति, भवतेरः SK 2181 इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि - SK 2312 इति चङ् न । अद्रावीत् ॥
Tattvabodhinī
NSP p. 456–458
—कर्तुः क्यङ्गः सलोपश्च । ‘धातोः कर्मणः’—इति सूत्राद्वैत्यनुवर्तत इत्याह—क्यङ्गा स्यादिति । सेति छत्तषष्ठीकं कर्तृविशेषणमित्याह—सान्तस्येति । चकारस्तु अन्वाचये बोध्यः ॥—तद्भतीति । तथा च ओजायत इत्यत्र ओजखीवाचरतीति विप्रहो बोध्यः ॥—विद्वस्यत इति । नान्तस्यैव पदलात्सस्य रूपं न । पुंवद्ग्रावं स्मारयति—क्यङ्गमानिनोश्चेति ॥—सपत्नीवेति । त्रितयसाधारणं विग्रहवाक्यम् ॥—सपत्नायत इति । शत्रुपर्यायात्सपत्नशब्दाच्छाङ्गः रवादिडीनन्तात्क्यङि पुंवद्भावे ‘अकृत्सार्व’—इति दीर्घै च रूपमिदम् ॥—सपतीयत इति । समानखामिकाभिधायिनो भाषितपुंस्कस्य ‘नित्यं सपढ्यादिषु’ इति नादेशे नान्तलान् डीप्, ततः क्यङि पुंवद्ग्रावे च दीर्घैः ॥—सपत्नीयत इति । विवाहजन्यसंस्कारविशेषनिमित्तकेन पतिशब्देन समासे सति नित्यछीलान्न पुंवत् ॥—युवायत इति । न च डथापसूत्रे भाष्ये युवतितरैः युदाहरणाद् यौवनं जातिरिति ‘जातेश्व’ इति निषेधे युवतीयत इत्युदाहरणमिहोचितमिति वाच्यम् । वयसोऽनिलत्वेनाजातिलात् । अन्यथा युवजातिरिति ‘अचः परस्मिन्—’ इति सूत्रस्थभाष्यग्रन्थो विरुध्येत । युवतितरेति भाष्यस्य तु का गतिरिति चेत् । अत्राहुः । ‘तसिलादिषु’—इति पुंवद्ग्रावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति । युवतीशब्दस्य तु तरपि ‘धरूप’—इति हस्ते युवतितरेति भवत्येव ॥—पट्कीमृदूयत इति । पूर्वपदस्य . क्यङ्गपरलाभावान्न पुंवत् ॥—पाचिकायत इति । पुंवद्ग्रावे सति कात्पूर्वस्येत्वं न श्रूयेतेति भावः । एवं पञ्चमीयते । छौघ्रीयते । सुकेषीयते । ब्राह्मणीयत इत्यादि ॥—आचारेऽवगल्भ—। गल्भ धार्म्यै अज्ञातृष्टै G)aaहोडशनादरे ॥— क्यङपीति । अपिशब्दाद्वाक्यम् । तत्तु ‘सर्वप्रातिपदिकेभ्यः’ इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः ॥—किप्सन्नियोगेनेत्यादि । तेन क्यङ्सन्नियोगेनानुदात्तलानुनासिकलयोरभावादित्संज्ञालोपौ न स्त इति ‘अकृत्सार्व’ इति दीर्घे सति अवगल्भायते क्लीयायत इत्यादि भवति ॥—तेन तङ्किति । आत्मनेपदमित्यर्थः । तथा च अवगल्भमानः क्लीवमान इत्यादि सिध्यति ॥—माधवादय इति । केचित्तेषामाशयमाहुः । ‘आचारेऽवगल्भ’ इत्यत्र सुप इत्यनुवर्तते । तथा च केवलादुपसर्गान्तरविशिष्टादवगल्भप्रगल्भादिसुवन्तात्क्यङेव न तु किप् ॥—तङ्क नेति तूचितमिति । उत्तरवार्तिकेन प्रातिपदिकमात्रात्किप् विधीयत इति एतेभ्योऽपि त्रिभ्यः किपि सिद्धे तत्सन्नियोगेनानुदात्तलानुनासिकलमात्रमच्प्रत्ययस्य ‘आचारेऽवगल्भ’ इत्यवगल्भादिषु प्रतिज्ञायते । लघवादन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु किपि परस्मैपदमेव भवति न तु तङ्किति भावः । नन्वेवम् ‘आचारेऽवगल्भ’ इत्यत्र वाग्रहणात् क्यङ्मनुवर्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यङ्विधानेऽप्यन्यत्र सुवन्तादेव क्यङ्किति क्यङो विषय एव नास्ति । तथा च केवलादुपसर्गान्तरविशिष्टाच्च क्यङप्ययुक्त इति चेत् । अत्र वदन्ति । प्रातिपदिकेभ्यः किप् सुवन्तेभ्यः क्यङ्किति विषयमेदेनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति । स्यादेतत् । गल्भ धाष्ट्यं इत्यादीनामनुदात्तलादवगल्भते इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन किपि सत्यवगल्भतीत्याद्यनिष्टप्रयोगः स्यात्तद्वारणार्थमाचारेऽवगल्भ इति वार्तिकारम्भस्यावश्यकतया सामर्थ्यस्योपक्षीणत्वात् ‘भूतपूर्वादप्यनेकाच आम्’ इत्येतदप्ययुक्तमिति चेत् । सत्यम् । अत्र ह्ययमाशयः । ‘सर्वप्रातिपदिकेभ्यः’ इति वार्तिके वाग्रहणेन व्यवस्थितविभाषाश्रीयते । तथा च अवगल्भक्लीवहोडेभ्यः किपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामर्थ्यं नोपक्षीणमिति दिक् ॥—पदकार्यं नेति । सवर्णदीर्घौ यद्यपि पदमात्रकार्यं न भवति तथापि पदस्य जायमानं कार्यं नेत्यत्र तात्पर्यं बोध्यम् । तनोतीति तत् स इव आचरति ततति । अत्र जश्त्वं न । त्वगिव आचरति त्वचति । अत्र. कुत्वं नेत्याद्यपि बोध्यम् ॥—द्वित्वमिति । अ णल् इति स्थिते ‘द्विर्वचनेचि’ इति निषेधादतो लोपो न भवतीति भावः । ‘अतो गुणे’ इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तरङ्गेणानेन वाधितत्वादिति भावः । यद्यप्यत्र फले विशेषो नास्ति तथापि शास्त्रप्राप्तिकममनुरुध्योक्तम् । यद्यप्येवं ‘वार्णादाङ्गं बलीयः’ इति परिभाषयाऽतो लोप एवोचित इति चेत् । मैवम् । तस्याः समानाश्रये कारश्चकारेत्यादौ प्रवृत्तिस्वीकारान्न तु व्याश्रयेऽपि । नच परत्वान्नित्यत्वाच्च ‘अत आदेः’ इत्यनेनैव प्रथमं भाव्यमिति वाच्यम् । तस्य बहिरङ्गत्वेनासिद्धत्वात् । न चापवादत्वात् ‘अत आदेः’ इत्यनेन भाव्यमिति वाच्यम् । अपवादो यद्यन्यत्र चरितार्थस्तार्हि अन्तरङ्गेण वाध्यत इत्युक्तत्वात् । आनर्देत्यादौ तस्य चरितार्थत्वात् । तत्र हलादिशेषात्प्रागेव परत्वात् ‘अत आदेः’ इत्यस्य प्रवृत्तेः । न च नित्यत्वाद्धलादिः शेष एव प्रथमं स्यादिति वाच्यम्, नित्यत्वस्य ‘अत आदेः’ इत्यत्रापि तुल्यत्वात् । एतच्च मनोरमानुसारेणोक्तम् । केचिदत्र वदन्ति । ‘अतो गुणे’ इति पररूपापवादस्य ‘अत आदेः’ इत्यस्य आनर्देत्यादौ चरितार्थत्वादन्तरङ्गमेव भवतीति मनोरमोक्तं चिन्त्यम् । स्वविषयमध्ये एकत्रोदाहरणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात् । न हि गोद इत्यत्र ‘आतोऽनुपसर्गे कः’ इति चरितार्थमिति गोप इत्यादौ न प्रवर्तते । तस्मादणं वाधित्वा कप्रत्ययो यथा स्वविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तते इति । तदपरे न क्षमन्ते । गोदगोपादौ सर्वत्राणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं वाधित्वा कप्रत्यय एव भवति । प्रकृते त्वानर्देत्यादौ हलादिःशेषात्प्राक् ‘अतो गुणे’ इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति । ननु ‘अत आदेः’ इत्यस्य पररूपापवादत्वमेधामासेत्यत्र यदुक्तं तत्कथं संगच्छते । आनुधतुरित्यादौ ‘आद्भुणः’ इति गुणस्यापि प्राप्तेः । न च यथा सवर्णदीर्घौ यण्गुणयोरपवादस्तथायमप्युभयोरपवाद इति वाच्यम् । एवमप्यानर्देत्यत्रेव हलादिःशेषात्प्रागेवासेत्यत्रापि ‘अत आदेः’ इत्यस्य प्रवृत्तौ किं तेन पररूपापवादत्वकथनेनेति चेत् । अत्र केचिदाहुः । द्वन्द्वापवाद एकशेष इति केषांचित्प्रवादे यथाऽपवादशब्दो बाधकपरः, ‘सरूपाणाम्’ इत्येकशेषानारम्भे हि स्वाद्युत्पत्तौ द्वन्द्वस्य प्रवृत्तेरेकशेषमूत्रारम्भे तु पदान्तराभावेन तदप्रवृत्तेस्तथाऽत्रत्यापवादशब्दोऽपि बाधपरः । ‘अत आदेः’ इत्यनारम्भे हि हलादिःशेषे पररूपप्रवृत्तावेधामासेति स्यादारुधे तु तत्सूत्रे परलादलादिःशेषात्प्रागेव दीर्घप्रवृत्त्या पररूपस्याप्रसक्तेरिति । यद्यप्यासेत्यादौ प्रथमतः ‘अत आदेः’ इति दीर्घाकरणेऽपि हलादिः शेषे पररूपे च कृते तस्य पूर्वान्तवद्भावे सति अभ्यासग्रहणेन ग्रहणात् ‘अत आदेः’ इति दीर्घप्रवृत्त्या समीहितरूपसिद्धिस्तथाप्यानदेत्यादि न सिध्यत्येव । तत्र हि ‘तस्मानुइ द्विहलः’ इति दीर्घाभूतादकारानुदि नकारोपर्यकारप्रवणाभावप्रसङ्गादिति दिक् ॥ प्रत्ययान्तत्वेनाप्रातिपदिकलात्किपोऽनुत्पत्तिमाशङ्क्याह—लिङ्गविशिष्टेत्यादि ॥—सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपात् ‘ऋत इद्धातोः’ इत्यतो धातोरित्यनुवर्तनाच्च धातुरेव यो धातुरिति व्याख्या लभ्यत इति ज्ञेयम् ॥—विरिवेति । विः पक्षी
Bālamanoramā
कर्तुः क्यङ् सलोपश्च - कर्तुः क्यङ् ।कर्तु॑रित्यावर्तते ।कर्तुः क्य॑ङित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्यन्तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वेति च । तदाह — उपमानादिति । उपमानं यत्कर्तृकारकं तद्वृत्तेः सुबन्तादित्यर्थः ।कर्तुः सलोपश्चे॑ति द्वितीयं वाक्यम् । चकारःतु॑पर्यायो भिन्नक्रमः । 'स' इति लुप्तषष्ठीकं पृथक्पदं ।कर्तु॑रिति षष्ठन्तस्य विशेषणम् । तदन्तविधिः । तदाह — सान्तस्य त्विति । पक्षे इति । क्यङभावपक्षे इत्यर्थः । क्यङभावपक्षे सकारलोप इति भ्रमं वारयति — सान्तस्य लोपस्त्विति । एतच्च महाभाष्ये स्पष्टम् । क्यङि सलोपविकल्पः सर्वत्र स्यादित्यत आह — स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति — ओजसोऽप्सरस इति । इदं वार्तिकम् । ओजश्शब्द इति । क्यङन्तोऽयम् । 'सनाद्यन्ता' इति धातुत्वाद्वृत्तिः । तत्र ओजश्शब्द ओजस्विनि वर्तत इत्यर्थः । ओजायते इति । अप्सरश्शब्दात्क्यङि सलोपदीर्घौ । क्यङो ङित्त्वादात्मनेपदम् ।इतरेषां विभाषये॑त्यस्योदाहरति — यशायते यशस्यते इति । यशस्वीवाचरतीत्यर्थः । विद्वायते विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात्क्यङि सलोपविकल्पः । त्वद्यते मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात्क्यङिप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तस्य त्वमौ । युष्मद्यते अस्मद्यते इति । यूयमिव वयमिव आचरतीत्यर्थः । 'त्वमावेकवचने' इत्यस्मात्प्रत्ययोत्तरपदयोश्चे॑ति सूत्रे 'एकवचने' इत्नुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मादोस्त्वमाविति भावः । कुमार्यादिशब्दात्क्यङि पुंवत्त्वं स्मारयति — क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन ङीषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेनवर्णादनुदात्ता॑दिति नत्वस्य ङीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात्क्यङि ङीषो निवृत्तौ दीर्घः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दाच्छाङ्र्गरवादित्वेन ङीनन्तात्पुंवत्त्वेन ङीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात्सपत्नीशब्दात्क्यङि पुंवत्त्वेन ङीब्नत्वयोर्निवृत्तौ दीर्घ इति भावः । सपत्नीयते इति । युवायते इति । युवतिशब्दात्क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ नलोपे दीर्घ इति भावः । वयोवाचिनां जातिकार्यं वैकल्पिकमितिजातेरस्त्रीविषया॑दित्यत्र भाष्ये स्पष्टम् । एतेनजातेश्चे॑ति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पट्वीमृदूयते इति ।आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वे॑ति वार्तिकम् । उपमानादित्यनुवर्तते । 'धातोः कर्मणः' इत्यतो वाग्रहणस्याऽस्मिन्प्रकरणे अनुवृत्त्यैव सिद्दे वागरहणं व्यर्थमित्यत आह — वाग्रहणात्क्यङपीति । अन्यथा विशेषविहितत्वात्क्विपा क्यङो बाधः स्यादिति भावः । तथाचाऽत्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात्समुच्चीयते इति केचित् । अवगल्भादयत इति ।गल्भ अवगल्भ इति इवाचरति, क्लीब इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः क्विप्क्यङाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह — क्विप्संनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चाऽत्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मनेपदं लभ्यते । तदाह — तेन तङिति अवगल्भते इति । क्विपि भकारादकारस्य लोपे हल्नताल्लडादौ तङि शविति भावः । ननु अवगल्भांचक्रे, क्लीबाञ्चक्रे, होडांचक्रे इत्यतर् कथमाम् अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेनकास्यनेका॑जित्यस्याऽप्रवृत्तेः । न चअवगल्भे॑त्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम्,उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते॑ इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह — भूतपूर्वादपीति । क्विबुत्पत्तेः प्राक्तनमनेकाच्त्वं भूतपूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह — एतद्वार्तिकेति ।सर्वप्रातिपदिकेभ्यः क्विब्वे॑ति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः क्विब्विधां तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनपदसिद्धावुपक्षीणत्वात्कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति — नचेत्यादि । कुत इत्यत आह — केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात् । तच्च कुत इत्यत आह — धातूनामनेकार्थत्वादिति । एवं चआचारेऽवगल्भे॑ति क्विब्विधानमनुबन्धासञ्जनार्थं सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयणं ज्ञापयतीति सिद्धम् । न चसर्वप्रतापिदकेभ्यः॑ इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथं तस्य उक्तज्ञापकतेति वाच्यं,सर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्तेः, भूतपूर्वाश्रयणपरभाष्यप्रामाण्येनसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकस्य अवगल्भादिभ्योऽप्रवृत्तिविज्ञानाद्वेत्यास्तां तावत् । आचारेऽवगल्भे॑त्यत्र अवेत्यस्य प्रयोजनमाह — अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भाऽनुगल्बादिशब्दादित्यर्थः । क्यङेवेति । न तु क्विबित्यर्थः । माधवादय इत्यस्वरसोद्भावनम् । तद्बीजमाह — तङ् नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच्च गल्भशब्दात्, प्रगल्भादिशब्दाच्च अनेन क्विबभावेऽपिसर्वप्रातिपदिकेभ्यः॑ इति वार्तिकेन क्विब्निर्बाधः । परन्तु अवपूर्वत्व एवानुबन्धासञ्जनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्यः इति । 'आचारे' इति शेषः । नन्वनेनैव वार्तिकेन सिद्धेआचारेऽवगल्भे॑ति वार्तिकं व्यर्थमित्यत आह — पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इत्संज्ञासिद्ध्यर्थमित्यर्थः । तर्हि तत्र क्विब्ग्रहणं व्यर्थमित्यत आह — तत्र क्विबनूद्यते इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः । पदकार्यं नेति ।राजानती॑त्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वर्तिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् क्विबन्ताल्लडादौ शप 'अतो गुणे' इति पररूपमित्यर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्णायात् । अतो लोपात्परत्वात्अकृत्सार्वे॑ति दीर्घः । पूर्वविप्रतिषेधस्य विहितत्वादतो लोप इत्यन्ये । अ इवेति । अः = विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । आमि आवः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रत्ययात्' इत्याम्प्रत्ययमाशङ्क्य आह — प्रत्ययग्रहणमपनीयेति । औ अतुः उरिति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति — द्वित्वमिति । णलिद्विर्वचनेऽची॑ति लोपस्य निषेध इति भावः । अतोगुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं बाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच्च 'अतो गुणे' इत्यस्मात्प्राक्अत आदे॑रित्यस्य प्रवृत्तिरिति वाच्यं, तस्य बहिरङ्गत्वात्अत आदे॑रित्स्यापवादत्वेऽपि आनर्देत्यत्र हलादिशेषात्प्रागेव परत्वात्अत आदे॑रित्यस्य चरितार्थत्वेन बाधकत्वाऽसंभवात् ,अपवादोऽपि यद्यन्यत्र चरितार्थस्तह्र्रन्तरङ्गेण बाध्यते॑ इत्युक्तेरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्तितथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घे च आ अ इति स्थितेआत औ णलः इत्यौत्वमिति भावः । वृद्धिरिति । आ औ इति स्थितेवृद्धिरेची॑ति वृद्धिरित्यर्थः । तथा च 'औ' इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अ अतुस्, अ उस्, इति स्थिते द्वित्वे पररूपे 'अत आदेः' इति दीर्घे आतो लोप इत्यर्थः । अतुः उरिति प्रत्ययमात्रं शिष्यते । थलि इटि द्वित्वे दीर्घे आल्लोपे, - इथ अथुः अ । औ इव इम । वस्तुतस्तुकास्यनकाज्ग्रहण॑मिति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च, प्रत्ययान्ताच्च आमिति लभ्यते । अत एवआचारेऽवगल्भक्लीबहोडेभ्यः॑ इति वार्तिके 'अवगल्भांचक्रे' इत्यादौ अन्त्यवर्णस्यानुबन्धत्वेन एकाच्त्वेऽपिकास्प्रत्यया॑दित्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे प्रपञ्चितम् । इता । इष्यति । अतु- अतात् अतामन्तु अ-अतात् अतमत । आनि आव आम । आत् आतामान् । आः आतमात । आमाव आम । विधिलिङि एत् एताम् एयुः । एः एतम् एत । एयम् एव एम । यात् यास्ताम् यासुः । लुङि 'इट ईटि' इति सिज्लोपेआटश्चे॑ति वृदिंध बाधित्वा परत्वादतो लोपे इटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुरित्यादीति केचित् । आर्धधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याऽभावादाण्नेत्यन्ये । ईत् इष्टामित्यादि । ऐष्यत् । ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्राप्तिपदिकत्वाऽभावात्ततः कथं क्विबित्यत आह — लिङ्गविशिष्टेति । वस्तुतस्तु आबन्तेभ्य आचारे क्विब्नास्त्येवेति विआपाशब्दनिरूपणे प्रपञ्चितम् । ङीप्साहचर्यादिति । ङ्यन्तादाचारक्विबन्ताद्गौरीशब्दाल्लुङि अगौरयदित्यादौ तिस्योडर्न्तात्परत्वाऽसंभवात्तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति । शपि गुणाऽयादेशौ । कवीयादिति ।अकृत्सार्वे॑ति दीर्घः । लुङि अकवि ईत् स्थिते सिचि वृद्धिमाशङ्क्य आह — सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपतो लाभेऽपिऋत इद्धातो॑रित्यतस्तदनुवृत्तेर्धातुरेव यो धातुरिति लभ्यते इति भावः । कैयटादय इति ।इको गुणवृद्धी॑ति सूत्रे गोशब्दादाचारक्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः । माधवस्त्विति ।सिचि वृद्धि॑रित्यत्रऋत इद्धातो॑रित्यतो धातुग्रहणानुवृत्तौ मानाऽभावेन धातुरेव यो धातुरित्युक्तार्थाऽलाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी'वदव्रजहलन्तस्याऽचःर॑ इत्यादिसूत्रस्थभाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्विब्नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति । विः = पक्षी, स इवेत्यर्थः । अभिव्यक्तत्वेनेति ।अभिव्यक्तपदार्था ये॑इति न्यायेनेति भावः । बुभावेति । इह न वुक् । अभ्यासस्य अत्त्वं च न । अभावीदिति । इहगातिस्थे॑ति सिचो न लुक् । चङ् नेति ।णिश्री॑ति सूत्रे द्रुग्रहणेन धातुपठास्थस्यैव ग्रहणादिति भावः ।
SK 2666 · A 6.4.15V
अनुनासिकस्य क्विझलोः क्ङिति ॥ २६६६ ॥
anunāsikasya kvijhaloḥ kṅiti
Siddhānta-kaumudī
अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥
Tattvabodhinī
NSP p. 458–459
—अनुनासिकस्य—। अङ्गस्येति विशेष्यसन्निधानात्तदन्तलाभः । ‘दूलोपे’—इत्यतो दीर्घप्रहणं, ‘नोपधायाः’ इत्यत उपधाग्रहणं चानुवर्तते तदाह—अनुनासिकान्तस्येत्यादि ॥—झलादाविति । एतच्च ‘यस्मिन्विधिस्तदादावल्पग्रहणे’ इति परिभाषया लभ्यते । झलादौ किति शान्तो दान्त इत्युदाहरणं किति तु यङ्लुकि तसि शंशान्तः दंदान्तः ॥—पथीनतीति । अन्तरङ्गलादीर्घस्ततो न गुण इत्याहुः । ‘इन्हन्’—इत्यनेन शावेवेति नियमादीर्घाभावे गुणे सति पथेनतीत्येव रूपमित्यन्ये । येषामिन्नादीनां शानुपधादीर्घः क्रियते परमदण्डीनीत्यादौ तेषामेव दण्डिन्दृश्यन्नहन्नादीनामिन्हन्निति नियमो न तु पथ्यादीनामेतेषां तु शौ परतः सुपन्थानीत्यादानुपधादीर्घप्रवृत्तावपि ‘इतोऽत्सर्वनामस्थाने’ इत्यत्वे कृते ‘इन्हन्’—इति नियमाप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत्तथा च पथीनतीत्याद्येव साध्वित्यपरे ॥—देवतीति माधव इति । अपदान्तलादिव उन्न ॥—अत्रेति । लघूपधगुणं वाधिलान्तरङ्गलादूठि यण् तस्मिन्कर्तव्ये वहिरङ्गस्याप्यूठो नासिद्धत्वं ‘नाजानन्तर्ये’ इति निषेधात् । न च वाणादाङ्गस्य वलीयस्लावणं वाधिला लघूपधगुणः स्यादिति वाच्यम् । व्याश्रयलात् । अत एव सिवेरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः ॥—क इवेति । को ब्रह्मा ॥—चक इतीति । नन्वेवमौ अतुरित्यत्रापि ‘अत आदेः’ इति दीर्घं वाधिला ‘अतो लोप’ एव स्यादिति चेत् । अत्राहुः । ‘ण्यल्लोपौ’—इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेव ‘अकृत्सार्व’—इति दीर्घं वाधते ‘अनन्तरस्य’ इति न्यायात्, न तु व्यवहितमपि ‘अत आदेः’ इति दीर्घमिति माधवाशयान्नानेन तद्बन्धस्य विरोध इति ॥—अनाकरमेवेति । अनेकाचलाभावादित्यर्थः । अन्ये तु भाष्ये प्रत्ययग्रहणमपनीयेत्यनुकलात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः ॥—भृशादिभ्यो—। भुवीत्येतद्व्याचष्टे—भवत्यर्थ इति । भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्, सुमनस्, उन्मनस्, इत्यादयो भृशादयः । क्व दिवेत्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे—ये रात्रावित्यादिना ॥—प्रातिपदिकमिति । न लयं धातुः ‘प्रसेरा च’ इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितलात् । एवं च वक्ष्यमाणज्ञापकं संगच्छत इति भावः ॥—अनुवन्ध इति । संग्रामेति मशब्दाकारात् भिन्नोऽकारोऽनुवन्ध इत्यर्थः । तथा च अत्र ‘अतो गुणे’ इति पररूपं ज्ञेयम् । यदि तु मकारादकारोऽनुवन्धः स्यात्तर्हि अससंग्रामतेत्यत्र ‘णौ चडि’—इत्युपधाहस्वः स्यात् । णिच्सन्नियोगेनानुवन्धकरणे तु अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्याप्रवृत्त्या ‘णिचक्ष’ इति कर्तुमामिति किमपि विवाहमेव स्यान्न तु परगामिनीति विवेकः ॥—सामर्थ्यादिति । केवलस्य प्रामशब्दस्य युद्धे प्रयोगाभावादिति भावः । क्रियायोगाभावादुपसर्गो नेलभिप्रेत्याह—समानाकारमिति ॥—पूर्वपदमिति । तच्च समास एव संभवति । तेन आन्दोलयित्वा प्रेङ्कोलयित्वेत्यादौ आप्रेत्यादीनां न पृथक्करणम् । अन्यथा तेषां क्लाप्रत्ययान्तेन समासे सति त्यप् स्यादिति भावः ॥ पृथक्करणस्य फलमाह—तेनेति । सुमिमनायिषति । उन्मिमनायिषतीत्यादौ मनशब्दस्य द्विवचनं पृथक्करणस्य फलमिति बोध्यम् ॥—अवागल्भतेति । ‘आचारेऽवगल्भ’—इति क्रिष्चिधौ अवेत्यस्य पृथक्करणात् गल्भशब्दात्प्रागद् । किं तत्साजात्यमित्यत आह—तेनेति ॥—उस्मामिति । ‘माहेयी सौरमेयी गौरुत्वा माता च शृङ्गिणी’ इत्यमरः ॥—औस्त्रीयदिति । क्यजन्तादुत्पाद्यशब्दाल्लङ्घि अङ्गस्यादि च कृते ‘उत्सपदान्तात्’ इति पररूपं प्राप्तम् । न चानर्थकोऽयमुस् न प्रहीष्यत इति वाच्यम् । छिन्द्युर्भिन्द्युरित्यादावप्युसोऽनर्थकत्वादागमसहितस्यैवार्थवत्वात् । तथा चायुरायुरित्यादावेव स्यात् । एवं चायमेवाडागमस्य उत्ति परे प्रतिषेधोऽर्थवद्वहणपरिभाषाया अत्राप्रवृत्तौ ज्ञापक इति स्थितम् । अत एव ‘उत्सपदान्तात्’ इत्यत्राऽपदान्तात् किं कोलेति भाष्ये प्रत्युदाहृतम् ॥—औङ्कारीयदिति । ‘ओमाक्षेश्व’ इति पररूपं प्राप्तम् । आडागमस्याङ्किपरे उदाहरणमाह—औढीयदिति । यत्रादेशेनापहतं तत्रापि यदि पृथक्कृतित्वदा आडः परत्राटा भाव्यमित्याडागमस्याङ्कि परे पररूपनिषेधो व्यर्थः स्यात् । तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः । चशब्दं प्रयुज्जानः सूत्रकारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह—चशब्देनेति ॥—षाष्टे स्थितमिति । भाष्यकारोऽन्युक्तार्थे प्रमाणभूत इति भावः । स्यादेतत् । अवधीरयतीत्यादाववशब्दस्य पृथक्करणमस्ति वा न वा । आये वोपदेवेनावशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि आववधीरदित्युदाहृतं तत्र संगच्छेत् । द्वितीये तु ‘इतीव धारामवधीर्यं मण्डलीक्रियाश्रियामण्डि तुरङ्गमैर्मही’ इति श्रीहर्षप्रयोगो न संगच्छेतेति चेत् । अत्राहुः । नायं धातुश्रुरादौ पठितः किं तु ‘बहुलमेतन्निदर्शनम्’ इति बाहुलकादहितः । ऊहश्च धीरेत्यस्यापि संभवति अवधीरेत्यस्यापि । प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाभावाच्च । यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति साधु । धीरेत्यस्यैव धातुत्वे तु अवधीर्येत्यस्य साधुत्वमिति ॥—तस्येति । आदिशब्दस्येत्यर्थः ॥—तस्यापीति । क्यषः ककारस्येत्यर्थः । एतेन ‘नः क्ये’ ‘क्यस्य विभाषा’ इति सूत्रद्वये क्यषोऽपि प्रहणं वदन्तः परास्ताः ॥—लोहिनीयतीति । क्यङि सति तङेव स्यात् । ‘क्यङ्मानिनोश्च’ इति पुंवद्भावश्चेति भावः
Bālamanoramā
अनुनासिकस्य क्विझलोः क्ङिति - अनुनासिकस्य । अङ्स्येत्यधिकृतमनुनासिकेन विशेष्यते । तदन्तविधिः ।नोपधायाःट इत्यत उपधाया इति, 'ढ्रलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह — अनुनासिकान्तस्येत्यादिना । इदामतीति ।हलन्तेभ्य आचारक्विप् नास्ती॑ति 'ह्रस्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात्क्विपिअनुनासिकस्ये॑ति इकारस्य दीर्घः । इदं तु माधवानुरोधेन । क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम्,इन्ह॑न्निति नियमेन दीर्घाऽप्राप्तेः । न च नियमस्य अन्तरङ्गत्वात्अनुनासिकस्येटत्युपधादीर्घापत्तेरित्याहुः । देवतीतीति । दिव्शब्दादाचारक्विबन्ताच्छपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वात्दिव उ॑दित्युत्त्वं नेति भावः । अत्र ऊठीति । दिव्शब्दात् क्विपिच्छ्वो॑रिति वकारस्य ऊठि कृते लघूपधगुणं बाधित्व परत्वादिकारस्य यणि द्यूशब्दाच्छपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात्क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वाद्वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः । माधवस्त्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृदिंध बादित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक अ इति रूपमित्यर्थः । नचैवं सति अ इवाचरति अति, औ, अतुरित्यत्रापि लिटिअत आदे॑रिति दीर्घं बाधित्वा अतो लोपः स्यादिति वच्यं,ण्यल्लोपा॑विति पूर्वविप्रतिषेधलभ्योऽतो लोपः संनिहितमेवअकृत्सार्वे॑ति दीर्घं बाधते, ननुअत आदे॑रिति दीर्घमपि,अनन्तरस्ये॑ति न्यायादिति माधवाशय इत्याहुः । तदनाकरमेवेति । अनेकाच्त्वाऽभावादिति भावः । वस्तुतस्तुप्रत्ययग्रहणमपनीये॑त्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् ।
SK 2667 · A 3.1.12V
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ २६६७ ॥
bhṛśādibhyo bhuvyacverlopaśca halaḥ
Siddhānta-kaumudī
अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च SK 269 इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥
Bālamanoramā
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः - भृशादिभ्यो । भवनं भूः, भावे क्विप् । तदाह — भवत्यर्थे इति । भवने इत्यर्थः । क्यङ् स्यादिति ।कर्तुः क्यङ् स लोपश्चे॑त्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः, क्यङ् चेत्यर्थः । ननु 'अभूततद्भावे' इतिकुतो लब्धमित्यत आह — अच्वेरिति पर्युदासबलादिति ।अभूततद्भावग्रहण॑मिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशाऽतिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति — सुमनसिति । सुमनायते इति । असुमनाःसुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारेअप्सुमनस्समासिकतावर्षाणां बहुत्वं चे॑ति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितं, तथापि तद्देवादिपर्यायरूढविषयम् । सु = शोभनं मनो यस्येति सुमना इति बहुव्रीहिर्यौगिक इति भावः । सुमनायते इति । क्यङि सलोपेअकृत्सार्वे॑ति दीर्घः । ननु लङि मनश्शब्दात्प्रागटिस्वमनायते॑ति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात्सुमनश्शब्दस्य समस्तस्यैव लङं प्रत्यङ्गत्वात्,प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहण॑मिति न्यायादित्याशङ्क्याह — चुरादौ सङ्ग्राम युद्धे इति पठते इति । ततश्च क्वचित्सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादौसङ्ग्रामे॑ति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः । एवं चास्य प्रातिपदिकत्वाऽभावात्सोपसर्गात्क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमकमित्यत आह — तत्र सङ्ग्रामेति प्रातिपदिकमिति ।ग्रसेरा॑चे॑त्यौणादिके मन्प्रत्ययेनिष्पन्नस्य ग्रामशब्दस्यकृत्तद्धिते॑ति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षेअर्थवदधातु॑रिति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादकणिजर्थः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह — तस्मादिति । तस्मात्सङ्ग्रामेति प्रातिपदिकाच्चौरादिकणिजसंभवेऽपितत्करोती॑त्यर्थे णिच् सिद्ध इत्यर्थः । ननुतत्करोती॑त्यनेनैव सङ्ग्रामशब्दात्प्रातिपदिकाण्णिच्सिद्धे किमर्थमिह चुरादौ तस्य पाठ इत्यत आह — तत्संनियोगेनेति । णिच्संनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाऽभावादससङ्ग्रामत्येत्यत्र 'णौ चङ्युपधायाः' इत्युपधाह्रस्वः स्यादिति वाच्यं, सङ्ग्रामेत्ययं हि कथादित्व#आददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोपे सति णावग्लोपित्वान्नोपधाह्रस्वः । कथादित्वलक्षणाऽदन्तत्वलाभायैवाऽस्य चुरादौ पाठ इति भावः । ननु चुरादौ सङ्ग्रामशब्दस्यतत्करोती॑ति णिचि परे अस्त्वनुबन्धाऽऽसङ्गः, तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यतर् कथमस्य ज्ञापतेत्यत आह — युद्धे इति । सामर्थ्यादिति । 'ग्राम युद्धे' इत्येतावतैव सङ्ग्रामशब्दो लभ्यते, केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाऽभावादित्यर्थः । विशिष्टपाठ इति । सङ्ग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह — सामानाकारमिति । सङ्ग्रामशब्दे युद्धवाचिनिस॑मित्यस्य क्रि#आययोगाऽभावात्समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति ।क्विबादा॑विति शेषः । पृथक्क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह — तेनेति ।स॑मित्यस्य धातुसंज्ञाप्रवेशाऽभावेनेत्यर्थः । तथा च सुमनश्शब्दादाचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्तः प्रागेव अट्, न तु सुमनसिति समुदायात्प्रागित्यर्थः । एतेनसङ्ग्रामयतेरेव सोपसर्गान्नाऽन्यास्मा॑दित्यादि भाष्यं 'भृषादिभ्य' इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्याआचारेऽवगल्भे॑ति क्विब्विधावपि अवेत्यस्य पृथक्करमाद्गल्भशब्दात्प्रागेव अडित्यर्थः । ननु आ ऊढः ओढः ।कुगती॑ति समासः । अस्माद्भृशादित्वात्क्यङि 'ओढायते' इत्यादि रूपम् । अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात्, तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्रागाटि न रूपे विशेषः, उभयथापि औढायतेत्येव रूपं सिद्धमेव । तथापि ओढायेति क्यङन्तात्क्वाप्रत्ययेअतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वाप्रत्ययान्तेन अतो लोपे ओढायित्वेत्येवेष्यते । अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्य आङः 'कुगतिप्रादयः' इति क्त्वापत्र्ययान्तेन समासे सतिसमासेऽनञ्पूर्वे क्त्वो ल्य॑बिति ल्यप् स्यादित्यत आह — ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति — तेनेति । चुरादौसङ्ग्राम युद्धेट इति सङ्ग्रहणस्य उक्तार्थे पृथक्कृतिरिति ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपमविकृतं श्रूयते नत्वेकादेशेनापह्मतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, सङ्ग्रामे सङ्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत आह — एवं चेति । ओढायित्वेति । ओढशब्दाद्भृशादित्वात् क्यङि ओढायेत्यस्मात्क्यङ्नतात्क्वाप्रत्यये अतो लोपे रूपम् । अत्रेति । अत्र न ल्यबित्यन्वयः । क्यङि विवक्षिते आङ एकादेशेनापह्मत्वेन पृथक्करणाऽभावे सति तस्य आङः क्त्वाप्रत्ययान्तेन समासाऽभावान्न ल्यबिति भावः । उन्मनाय्य, अवगल्भ्येतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद्भृशादित्वादाचारे क्यङि सकारलोपेअकृत्सार्वे॑ति दीर्घे उन्मनायेत्यस्मात्क्त्वोल्यपि, अतो लोपे, उन्मनाय्येति रूपम् । अवगल्भशब्दादाचारेऽवगल्भेति क्विबन्तात्क्वो ल्यपि रूपम् । अत्रउ॑दित्यस्यअवे॑त्यस्य च उपसर्गस्वरूपस्य अनपगृतत्वेन क्यङि क्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु ओढायित्वेत्यत्र न ततेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति — ज्ञापकस्येति । षाष्ठं वार्तिकं दर्शयति — उस्योमाङ्क्ष्विति । उसि, ओम्, आङ् एषां द्वन्द्वः । षष्ठ्स्य प्रथमे पादेओमाङोश्चे॑ति सूत्रे इदं वार्तिकं पठतिम् । तद्व्याचष्टे — उस्योमाङोश्च परयोरिति ।एङि पररूप॑मित्यत#ः पररूपग्रहणानुवृतिंत मत्वा आह — पररूपं नेति । उसि तावदुदाहरति — औरुआईयदिति । उरुआआमात्मन ऐच्छदित्यर्थे 'सुप आत्मनः' इति क्यजन्ताल्लङि उरुआईयशब्दादङ्गात्प्रागटि कृतेउस्यपदान्ता॑दिति पररूपं प्राप्तमनेन निषिध्यते । अर्थवद्गर्हणपरिभाषा त्वनित्या, अस्मादेव भाष्योदाहरणात् । अन्यथा भिन्द्युरित्यादौ पररूपं न स्यात्, क्यजन्ताल्लङि अङ्गस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । आङि उदाहरति — औढीयदिति । आ ऊढः ओढः, तस्मात् क्यजन्ताल्लङि अङ्गस्य ओढशब्दस्य आटि कृतेओमाङोश्चे॑ति पररूपं प्राप्तमनेन निषिध्यते । उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात्तर्हि क्यचि विवक्षिते आङः पृथक्कृतौ सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र आटि सति पररूपस्याऽप्रसक्कतेराङि पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आङ एकादेशेनापहारात्पृथक्करणाऽभावादोढशब्दात् प्रागाडागमे सति आङि पररूपप्राप्तेस्तन्निषेधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमाङ्क्षु' इत्याङ्ग्रहणम्, औढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह — आटश्चेति चशब्देनेति ।आटश्चे॑ति सचकारः पुनर्वृद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यता स्यान्नाऽन्यत्पररूपमितिलभ्यते इत्यपि षष्ठाध्यायेओमाङोश्चे॑ति सूत्रे,आटश्चे॑ति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चाऽत्र ज्ञापकमित्युक्तं भवति ।
SK 2668 · A 3.1.13V
लोहितादिडाज्भ्यः क्यष् ॥ २६६८ ॥
lohitādiḍājbhyaḥ kyaṣ
Siddhānta-kaumudī
लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥
Bālamanoramā
लोहितादिडाज्भ्यः क्यष् - लोहितादि । भवत्यर्थे इति ।भृशादिभ्यो भुवी॑त्यतो भुवीत्यनुवृत्तेरिति भावः ।
SK 2669 · A 1.3.90V
वा क्यषः ॥ २६६९ ॥
vā kyaṣaḥ
Siddhānta-kaumudī
क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ।
vārttika
लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति
(वार्तिकम्) ॥ न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तुलोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ 1 ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥
Bālamanoramā
वा क्यषः - वा क्यषः । परस्मैपदमिति ।शेषात्कर्तरी॑त्यस्तदनुवृत्तेरिति भावः । लोहितायतीति । अलोहितो लोहितो भवतीत्यर्थः । अत्रेति ।लोहितादी॑ति सूत्रे इत्यर्थः । तच्चेति । अभूततद्भाविषयत्वमित्यर्थः । असंभवादिति । अव्यक्तानुकरणड्डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्वस्य भङ्गापत्तेरिति भावः । नाप्यादिशब्दग्राह्राणामिति ।श्यामादिशब्दाना॑मिति शेषः । तस्येति । आदिग्रहणस्येत्यर्थः । आदिगर्हणप्रख्याने प्रमाणं दर्शयति — तथा चेति । आदिग्रहणमपनीय लोहितशब्दाड्डाजन्तेभ्यश्च क्यष्वचनं कर्तव्यम् । इतराणि = लोहितादिगणपठितानि श्यामादीनि प्रतिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः । एवं च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम् । तस्यापीति । आदिग्रहणस्येव क्यषः ककारस्यापि विवक्षिते सतिडाचि विवक्षिते द्वे बहुल॑मिति द्वित्वे नित्यमाम्रेडितेडाची॑ति पूर्वखण्डान्तस्य तकारस्य , उत्तरखण्डादेः पकारस्यच पररूपे एकस्मिन् पकारे, डित्त्वाट्टिलोपे, पटपटाशब्दाड्डाजन्तात् क्यषि तदन्ताल्लडादीति भावः । 'अभूततद्भावे' इति तु नात्र संबध्यते इत्युक्तम् । न ह्रपटच्छब्दः पटच्छब्दो भवतीति युज्यते । ननु कृभ्वस्तियोगाऽभावादिह कथं डाजित्यत आह — कृभ्वस्तियोगं विनापीति । भवत्यर्थसत्तामात्रेणेत्यर्थः । कुत इत्यत आह — डाजन्तादिति । तद्भाष्येति ।भृशादिष्वितराणी॑त्युक्तवार्तिकतद्भाष्यविरुद्धमित्यर्थः । तस्मादिति । उक्तवार्तिकभाष्यविरोधात्तेभ्यः श्यामादिभ्यो भृशादित्वलक्षणः क्यङेव नतु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याऽप्रवृत्तेर्ङित्त्वादात्मनेपदमेवेति मत्वाऽऽह — श्यामायते इति । श्यामो भवतीत्यर्थः । ननु देवदत्तः सुखायते इति कथम्, देवदत्तस्य सुखत्वाऽभावादित्यत आह — सुखादय इति । श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनास्ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवंच 'सुखायते' इत्यस् सुखवान् भवतीत्यर्थः । एवं 'दुखायते' इत्यादावपि । ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात्स्यादित्यत आह - लिङ्गविशिष्टेति ।
SK 2670 · A 3.1.14V
कष्टाय क्रमणे ॥ २६७० ॥
kaṣṭāya kramaṇe
Siddhānta-kaumudī
चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ।
vārttika
सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्
(वार्तिकम्) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते । कक्षायते इत्यादि ॥
Tattvabodhinī
NSP p. 459–460
—कष्टाय क्रमणे । क्यङेवानुवर्तते स्वरितत्वात् न तु क्यष् । कष्टायेति निर्देशादेव चतुर्थ्यन्तं लभ्यते । क्रमणमुत्साहः । ‘वृत्तिसर्गतायनेषु’—इति क्रमेरात्मनेपदविधायकसूत्रे सर्गं उत्साह इति सर्वैर्व्याख्यातत्वात् । कष्टं कृच्छ्रम् । ‘कृच्छ्रगहनयोः कषः’ इति इडभावः । न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्यते इत्याह—पापं कर्तुमिति ॥—द्वितीयान्तेभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम्
Bālamanoramā
कष्टाय क्रमणे - कष्टाय क्रमणे ।क्रमण॑शब्दं विवृणोति उत्साहे इति । अस्वरितत्वात् क्यषिति नानुवर्तते इति भावः ।क्रियार्थोपपदस्ये॑ति चतुर्तीति मत्वा आह — पापं कर्तुमिति । क्रमते इत्यत्रवृत्तिसर्गतायनेषु क्रमः॑ इति तङ् ।कण्वचिकीर्षाया॑मित्यत्र कण्वपदं व्याचष्टे — कण्वं पापमिति । सत्रादिशब्दान्विवृणोति — सत्रादय इति । द्वितीयान्तेभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवाऽन्वययोग्यत्वादिति भावः । कण्वशब्दस्तु सत्रादिशब्दानां कण्वपरत्वे तात्पर्यग्राहकः । केचित्तुकण्वे॑त्यविभक्तिकम् । कण्वर्तिभ्य इति व्याचक्षते । अस्वपदविग्रह इति । वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कष्टं शब्दाद्नयत्रैव । 'कष्टाय क्रमते' इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एवं विग्रहं प्रदश्र्य सत्रादिषु विग्रहाऽप्रदर्शनादित्याहः ।
SK 2671 · A 3.1.15V
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ २६७१ ॥
karmaṇo romanthatapobhyāṃ varticaroḥ
Siddhānta-kaumudī
रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ।
vārttika
हनुचलन इति वक्तव्यम्
(वार्तिकम्) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ ।
vārttika
तपसः परस्मैपदं च
(वार्तिकम्) ॥ तपश्चरति तपस्यति ॥
Tattvabodhinī
NSP p. 460
—कर्मणो— रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी । प्रत्येकं संवन्धादेकवचनमित्याह—कर्मभ्यामिति ॥—वर्तनायां चरण इति । सूत्रे वर्तीति ण्यन्तात् वृत्तेः ‘ण्यासश्रन्थ—’ इति युचं वाधित्वा अस्मादेव निपातनात् किन् । चतुर्वे संपदादित्वात् भावे क्रियिति भावः । केचित्तु वर्तिशब्दो वर्तयतेः ‘इक्षितपौ’ इति इकि रूपम् । लक्षणया चार्थलाभ इत्याहुः
Bālamanoramā
कर्मणः रोमन्थतपोभ्यां वर्तिचरोः - कर्मणो रोमन्थ । वृतुधातोण्र्यन्तात्धात्वर्थनिर्देशे इग्वक्तव्यः॑ इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्वाद्भावे क्विप् । वर्ति चर अनयोद्र्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । तपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः । तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम् । तदाह — चर्वितस्येति । हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाऽभावान्न क्यङिति भावः । तदेवोपपादयति — अपानेति । तपसः परस्मैपदं चेति — वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् 'नः क्ये' इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः ।
SK 2672 · A 3.1.16V
बाष्पोष्मभ्यामुद्वमने ॥ २६७२ ॥
bāṣpoṣmabhyāmudvamane
Siddhānta-kaumudī
आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ।
vārttika
फेनाच्चेति वाच्यम्
(वार्तिकम्) ॥ फेनायते ॥
Bālamanoramā
बाष्पोष्माभ्यां उद्वमने - बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति ।कर्मणो रोमन्थे॑त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्वमतीत्यर्थः ।
SK 2673 · A 3.1.17V
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ २६७३ ॥
śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe
Siddhānta-kaumudī
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥
vārttika
सुदिनदुर्दिननीहारेभ्यश्च
(वार्तिकम्) ॥ सुदिनायते ॥
Tattvabodhinī
NSP p. 460
—शब्दवैर—। कर्मण इत्यनुवर्तत इत्याह—पभ्यः कर्मभ्य इति
Bālamanoramā
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे - शब्दवैर । करणं - क्रिया । तदाह — करोत्यर्थे इति ।तत्करोती॑ति णिचोऽपवादः । पक्षे इति । कदाचिदित्यर्थः । न्यास इति । भाष्याऽनारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति- वार्तिकम् ।करोत्यर्थे क्य॑हिति शेषः ।
SK 2674 · A 3.1.18V
सुखादिभ्यः कर्तृवेदनायाम् ॥ २६७४ ॥
sukhādibhyaḥ kartṛvedanāyām
Siddhānta-kaumudī
सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥
Tattvabodhinī
NSP p. 460
—सुखादिभ्यः—। कर्तृ इति पृथक्पदं लुप्तपृष्ठीकम् । विद चेतनाख्याननिवासेष्विति चौरादिकाशुचि वेदनाशब्दो ज्ञानवाची तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति । तदेतदाह—वेदनाकर्तुरेवेति ॥—परस्य सुखमिति । इह यन्निष्ठं सुखं तद्भिन्नो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः
Bālamanoramā
सुखादिभ्यः कर्तृवेदनायाम् - सुखादिभ्यः ।कर्मणो रोमन्थे॑त्यतः कर्मग्रहणाऽनुवृतिंत मत्वा आह — एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात् । वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते । फलितमाह — वेदनाकर्तुरेव चेदिति । सुखं वेदयते इति । जानातीत्यर्थः ।विद चेतनाया॑मिति चुरादौ ।
SK 2675 · A 3.1.19V
नमोवरिवश्चित्रङः क्यच् ॥ २६७५ ॥
namovarivaścitraṅaḥ kyac
Siddhānta-kaumudī
करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥
Tattvabodhinī
alignment inferredNSP p. 460
—नमोवरिवः—। चित्रदुःखः क्यज्विधानमीत्यार्थं दित्करणं तु तदर्थम् ॥—विस्मापयत इत्यन्य इति । तथा च भट्टिः—‘ततश्चित्रीयमाणोऽसौ’ इति । असौ मायामृगश्चित्रीयमाणो विस्मयमुत्पादयन्नित्यर्थः
Bālamanoramā
नमोवरिवश्चित्रङः क्यच् - नमोवरिवस् । नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी । आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः ।शब्दवैरे॑त्यतः करणे इत्यनुवर्तते । करणं - क्रिया । सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता,नमसः पूजायां॑वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया । परिचर्या शुश्रूषेति मत्वाह — शुश्रूषते इत्यर्थ इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति । विस्मापयते इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः ।ततश्चित्रीयमाणोऽसा॑विति भट्टिः । असौ — मायामृगो विस्मयमुत्पादयन्नित्यर्थः ।
SK 2676 · A 3.1.20V
पुच्छभाण्डचीवराण्णिङ् ॥ २६७६ ॥
pucchabhāṇḍacīvarāṇṇiṅ
Siddhānta-kaumudī
।
vārttika
पुच्छादुदसने व्यसने पर्यसने च
(वार्तिकम्) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ।
vārttika
भाण्डात्समाचयने
(वार्तिकम्) ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत ।
vārttika
चीवरादर्जने परिधाने च
(वार्तिकम्) ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥
Tattvabodhinī
NSP p. 460
—पुच्छभाण्ड—॥ करणे इत्यनुवृत्तेरत्रापि क्रियाविशेष एव णिङ् । तमेव विशेषं दर्शयति—पुच्छादित्यादिना । ङकारोऽत्र ‘णेरनिटि’ इति णिङ्णिचोः सामान्यग्रहणार्थो नित्यात्मनेपदार्थश्च । उदपुच्छत
Bālamanoramā
पुच्छभाण्डचीवराण्णिङ् - पुच्छभाण्ड । पुच्छादुदसने इति वार्तिकम् । उत्पुच्छयते इति । विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः । भाण्डात्समाचयने - इत्यपि वार्तिकम् । समबभाण्डतेति । उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः । एवमुदपुपुच्छतेत्यादावपि । चीवरादर्जने इत्यपि वार्तिकम् ।
SK 2677 · A 3.1.21V
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ २६७७ ॥
muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo ṇic
Siddhānta-kaumudī
कॄञर्थे । मुण्डं करोति मुण्डयति ।
vārttika
व्रताद्भोजनतन्निवृत्त्योः
(वार्तिकम्) ॥ पयः शूद्रान्नं वा व्रतयति ।
vārttika
वस्त्रात्समाच्छादने
(वार्तिकम्) ॥ संवस्त्रयति ।
vārttika
हल्यादिभ्यो ग्रहणे
(वार्तिकम्) ।
vārttika
हलिकल्योरदन्तत्वं च निपात्यते
(वार्तिकम्) ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश - SK 2563 इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ।
vārttika
अर्थवेदयोरप्यापुग्वक्तव्यः
(वार्तिकम्) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोति - SK 2270 इति षः । अभ्यषेणयत् । प्राक्सितात् - SK 2276 इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च - SK 2277 इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि - SK 2577 इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् SK 2010 । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् SK 2010 इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते SK 679 इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः SK 1786 इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते SK 679 इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः SK 1786 इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे - SK 91 इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र - SK 2183 इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवमबुभ्रवत् । श्रियमशिश्रयत् । गामजूगवत् । रायमरीरयत् । नावमनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः ॥
vārttika
अव्ययानां भमात्रे टिलोपः
(वार्तिकम्) ॥ स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयस्यति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः - SK 2019 इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥
Tattvabodhinī
NSP p. 460–463
—मुण्डमिश्र—॥—कृञ्धं इति । क्वचित्क्रियासामान्ये, प्राचुर्येण तु क्रियाविशेषे ॥—व्रतादिति । पयो व्रतयति । अश्रातीत्यर्थः । शूद्रान्नं व्रतयति । वर्जयतीत्यर्थः ॥—वस्त्रादिति । समाच्छादने यो वस्त्रशब्दस्तस्मात्करोत्यर्थे णिञित्यर्थः ॥—संवस्त्रयतीति । वस्त्राच्छादनं करोतीत्यर्थः ॥—अदन्तत्वमिति । अयमेव निपातो वृद्धौ सत्यां टिलोप इत्यत्र ज्ञापकः । यदि पूर्वं लोपो भवेत्तदाऽग्लोपकार्यसिद्धौ किमनेन निपातनेन । तथा च । अपपटदिति सिध्यतीत्यादि चुरादिष्वेवोपपादितम् ॥—कृतयतीति । उपकारं स्वीकरोतीत्यर्थः ॥ पठितुं युक्ता इति । एकसूत्रकरणे लाघवमिति भावः ॥—सापेक्षेभ्योऽपीति । विधानसामर्थ्यादिति भावः । अन्यत्र तु रमणीयं पटुमाचष्टे इत्येव न तु पटयतीति वृत्तिः । सापेक्षत्वमेव दर्शयति—माणवकमित्यादिना । अयं भावः । द्वितीयान्ताद्विधीयमानस्य णिचः पदविधित्वात्सापेक्षेभ्यो न भवेत् किं तु यदा प्रकरणादिना माणवकस्येति ज्ञायते तदैव मुण्डयतीति वृत्तिः स्यात् न तु माणवकादिप्रयोगे । णिजन्तस्य सनाद्यन्तवृत्तिलात्सविशेषणानां वृत्त्यभावाच्चेति ॥— घट्टति । ‘पुंसि संज्ञायाम्—’ इत्यनेन ॥—पुंवद्भावादय इति । आदिशब्देन रभावटिलोपादयः । टिलोपेनैवैतयतीत्यादिरूपसिद्धौ पुंवद्भावप्रहणं दारदयतीति सिध्यर्थमिति चुरादिष्वेवास्माभिरुक्तम् । दरदोऽपत्यं दारदः । ‘ब्रह्मगध—’ इत्यण् । तस्य स्त्रियाम् ‘अतश्च’ इति लुकि दरद् तामाचष्टे दारदयति । इह पुंवद्भावाभावे टिलोपे सति दरयतीति स्यात् ॥ —प्रथयतीति । ‘र ऋतो हलादेः—’ इति रभावः ॥—अपिप्रथयति । वृद्धौ सत्यां टिलोपेनाग्लोपिलात्सन्वद्भावे सति ‘सन्यतः’ इतीत्यम् । वृद्धेः पूर्वं टिलोपे तु अपप्रथत् ॥—औजढदिति । इह टिलोपे सति णिच्सहितस्य द्वित्वे पश्चादभ्यासेकारो दुर्लभ इत्यत आह—ओः पुयण्जीत्यादि ॥—त्वमाविति । ‘प्रत्ययोत्तरपदयोश्च’ इत्यनेन ॥— अन्तरङ्गत्वादिति । न च ‘वार्णादाङ्गम्’ इति टिलोपस्यैव प्रवृत्तिरुचितेति वाच्यम् । व्याश्रयत्वात् ॥—भाष्यस्येति । वृत्तिकारैर्हि ‘प्रकृत्यैकाच्’ इति सूत्रे प्रेयान् प्रेष्ट इत्यादय उदाहृताः । ते च प्रस्थादादेशविधायकस्य ‘प्रियस्थिर—’ इत्यादिशास्त्रस्य ‘असिद्धवदत्राभात्’ इत्यसिद्धवद्भावेन प्रस्थादावकारोच्चारणसामर्थ्याद्वा भाष्ये प्रकृतिभावं विनैव साधिताः । सरिवन् । सजिष्ठ इत्यादावपि टिलोपो न भविष्यति लोपापवादस्य विन्मतोर्लुकस्तत्र प्रवर्तनात् । एषैवानेकाश्च पयस्वान् पयसिष्ठः चम्पकसजिष्ठ इत्यादिषु गतिः । न चैतावता ‘प्रकृत्यैकाच्’ इति सूत्रं प्रत्याख्यातमिति मन्तव्यम् । स्वापयतीत्यादौ तस्यावश्यकत्वादिति भावः ॥—युवामावामिति । युष्मानस्मानिति विग्रहेऽपि युष्मयति अस्मयतीत्येव रूपम् । न च द्वयोरुक्तौ युवावौ भवत इति रूपे विशेषः शङ्काः । विभक्तिपरत्वाभावात् । न च प्रत्ययलक्षणम् । लुका लुप्तत्वात् । न च प्रागेवादेशोऽस्त्विति वाच्यम् । ‘अन्तरङ्गानपि विधीन्वहिरङ्गो लुक् वाधते’ इति न्यायात् । अकृतव्यूहपरिभाषाया जागरूकत्वाच्च ॥—येन नाप्राप्तीति । यत्र यत्र ‘प्रकृत्यैकाच्’ इत्यस्य प्रवृत्तिस्तत्र टेरित्यस्य प्रवृत्तिर्न तु ‘नस्तद्धिते’ इत्यस्य । सजिष्ठ इत्यादौ तस्याप्रवृत्तेरिति भावः । ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ इति न्यायेनेत्यन्ये ॥—संप्रसारणमिति । न च टिलोपे सत्यन्नन्तत्वाभावात् ‘श्वयुवमघोनाम्—’ इति कथमिह संप्रसारणप्रवृत्तिरिति शङ्काम् । स्थानिवत्त्वादसिद्धवदत्रेत्यसिद्धत्वाद्वा टिलोपेऽप्यन्नन्तत्वलाभात् । अतद्धित इति हि तत्र पर्युदासो न तु प्रतिषेधः । तेन तद्धिते न विधिर्न निषेधः । किं तु तद्धितभिन्ने परे विधिः । तद्धितभिन्नत्वं तु णिचोऽस्त्येवेति न संप्रसारणप्रतिवन्धः, नापि दविष्ठ इत्यादाविष्टनि ओर्गुणो दृष्ट इतीहापि वृद्धिं वाधित्वा गुणः स्यादिति वाच्यम् । जातेऽपि गुणे पुनर्वृद्धौ रूपसिद्धेः । अथवा टिलोपसंप्रसारणयोर्गुणं प्रति ‘असिद्धवदत्र—’ इत्यसिद्धत्वादिष्टवद्भावेन नास्ति गुणप्रसङ्गः ॥—शुनयतीति । इष्टवद्भावेन भत्यात्संप्रसारणम् । ‘प्रकृत्यैकाच्’ इति प्रकृतिभावः ॥—नित्यत्वादिति । शब्दान्तरप्राप्त्या तु टिलोपस्यानित्यत्वमिति भावः ॥—उदीचयतीति । उपसर्गं पृथक्कृत्याच्चशब्दादेव णिजिति ‘प्रकृत्यैकाच्’ इति प्रवृत्तेः टिलोपो न । ‘उद इत्’ इतीलम् । ‘अनिदिताम्’- इति किनिमित्तो नलोपः ॥—उदैचिचदिति । लुङि ‘द्विर्वचनेऽचि’ इति णिलोपस्य निषेधा- चिशब्दस्य द्विलम् ॥—प्रतीचयतीति । ‘अच इत्यल्लोपे ‘वौ’ इति पूर्वस्य दीर्घः ॥—प्रत्यचिचदिति । इह धालकार- स्याच इति लोपे चिशब्दात्प्रागटि पूर्वस्य यण् । न चास्तामासन् इत्यादिवदलोपस्यासिद्धलादाद् स्यादिति वाच्यम् । व्याध- यत्नात् । णिनिमित्तो हि लोपो लुङ्निमित्तश्चाद् । आसन्नित्यादौ तु न तथेति वैषम्यम् ॥—तिराययतीति । उपसर्गस- मानाकारलाभावादिह तिरसः पृथक्करणं नास्ति तेन ‘प्रकृत्यैकाच्’ इत्यप्रवृत्तेष्टिलोपस्तदाह—अश्वेरिति ॥—चिणोलुङ्- न्यायेनेति । यथाऽपाचितरामित्यत्र चिणः परस्य तशब्दस्य लुकि पुनस्तरप्रत्ययस्य लुङ् न भवति, प्रथमलुकोऽसिद्धत्वेन व्यवधानात् तथेत्यर्थः ॥—पुनष्टिलोपो नेति । तिर्यादेशस्येकारस्य लोपो नेत्यर्थः ॥—अग्लोपित्वादिति । अनंग्लो- पिनोऽप्यग्लोपित्वस्तीकारादिति भावः ॥—देवद्र्यञ्चमिति । ननु ‘आख्यानात्कृतस्तदाचष्टे’- इति कारकस्य पृथक्करणाद्दे- वानश्चयतीति प्रसज्येत, वलिवन्धनमाचष्टे वलिं वन्धयतीतिवत् । इष्यते तु देवद्राययतीत्येव रूपम् । किंच कारकस्य पृथक्करणेऽदिदेवद्रायदित्याद्यपि न सिध्येत् । न च पुराणप्रसिद्धाख्यान एव कारकस्य पृथक्करणादिकमिति वाच्यम् । राजा- नमागमयतीत्यत्राव्याप्तेरिति चेत् । अत्राहुः । यत्राख्याने कृच्छ्रयते तत्रैवेदं प्रवर्तते, कृल्लुगिति संनियोगशिष्टविधानात् । किंच । आख्यानप्रहणसामर्थ्यान्महाजनप्रवादविषयीभूतार्थविषयकमेव तत् । भाष्यादौ तादृशानामेवोदाहृतत्वात् । यदि तु देवाश्चनमाचष्टे इत्यादौ महाजनप्रसिद्धिरस्ति तदा देवानश्चतीति भवत्येवेति ॥—अमुमुआययदिति । ‘पूर्वत्रासि- द्वीयमद्विर्वचने’ इत्यसिद्धलनिषेधान्मुशब्दस्य द्विलम् ॥—अवीभवदिति । ‘ओः पुयण्जि’- इत्यभ्यासोवर्णस्येत्यम् । ‘दीर्घो लघोः’ इति दीर्घः । ननु परलात्प्रथमं दीर्घे कृते पश्चादित्वं स्यात् । न चैवं ‘दीर्घो लघोः’ इत्यस्य वैयर्थ्यमिति वाच्यम् । अज्ञहवदित्यादौ तस्य सावकाशलादिति चेत् । अत्राहुः ‘विप्रतिषेधे परम्’- इत्यत्र परशब्दस्येष्टवाचित्वाल्लक्ष्या- नुरोधेन दीर्घात्प्रागित्यमेव भवति । लक्ष्यमेदात्पुनरिकारस्य दीर्घो वा भवतीति ॥—अयुभ्रवदिति । ‘इहाभ्यासात्परो यः पवर्गः स लवणंपरो न, यस्त्ववर्णपरो यण् नासावभ्यासात्पर इत्यभ्यासोकारस्येत्वं न । गां गावयति ॥—स्वश्व- मिति । शोभनोऽश्वः स्वश्वः । शोभनोऽश्वो यस्येति वहुव्रीहिर्वा ॥—स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणाद् अजादेरिति द्वितीयस्य द्विलमाडागमश्च ॥—स्वयतीति । ‘प्रकृत्यैकाच्’ इति प्रकृतिभावस्तु येन नाप्राप्तिन्यायाद्देरित्यस्यैव वाधको न तु ‘अव्ययानां भमात्रे टिलोपः’ इत्यस्येति भावः ॥—असस्वदिति । ‘ओः पुयण्जि’- इति ज्ञापकेन द्वित्वे कार्येऽजादेशस्य स्थानिवत्त्वान्निषेधाद्वा स्वरशब्दस्य द्विलमिति मतेनेदम् । अगनग्लोपिन्यग्लोपित्वाभ्युपगमेऽप्यलादेशेऽजादे- शलव्यवहारो नास्तीति मते तु णिच्सहितस्यैव द्वित्वं तदाह—असिस्वदिति ॥—भावयतीति । ‘वहोलोपो भू च वहोः’ ‘इष्टस्य यिद् च’ इति भूभावः । न चैवं यिडागमोऽपि णेरस्त्विति वाच्यम् । णावित्युपमेये सप्तमीनिर्देशादिष्ठवदित्यत्र सप्त- म्यन्ताद्वतिरित्यभ्युपगमात् । एवं चेष्टनि परे पूर्वस्य यत्कार्यं तदेवातिदिश्यते न त्विष्टनोऽपि कार्यमिति स्थितम् ॥—वह- यतीत्यन्य इति । यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभाव इति भावः । नन्वेवमन्यमतत्वेन किमर्थमिदमुपन्य- स्तमिति चेत् । अत्राहुः । प्राधान्यादिष्ठवदिति कार्यातिदेशो न त्वयं शास्त्रातिदेशः । तथा चेष्टनि दृष्टं भूभावं स एवाति- देशो विधत्त इति नात्र सन्नियोगशिष्टपरिभाषायाः प्रवृत्तिः । इत्थं च भावयतीत्येव रूपं सम्यगिति ॥—स्रजयतीति । इष्टवद्भावेन ‘विन्मतोः’- इति लुक् । ननु ‘अजादी गुणवचनादेव’ इत्युक्तलाद् इष्टन्प्रत्ययः स्रग्विन्शब्दाहुर्लभ इति इष्ट- वद्भावोऽत्रायुक्त इति वाच्यम् । अस्मादेव लुग्वचनाज्ज्ञापकाद्विनन्तान्मनुवन्ताच्च अजादी भवत इत्यभ्युपगमात् ॥—श्रीमतीमिति । मनुपो लुक् ॥—श्रययति । अशिश्रयदिति । द्वित्वे णिनिमित्तगुणे सत्यादेशः । एतेन ‘स संचरि- ण्युर्भुवनान्तरेषु यदच्छयाशिश्रयदाश्रयः श्रियाम्’ इति माघश्लोके अशिश्रयदिति प्रचुरः पाठो व्याख्यातः । श्रीमतीमकरो- दित्यर्थादिति मनोरमायां स्थितम् । अत्र केचित् । सापेक्षाणां वृत्त्यभावान्मनोरमोक्तं यत्तदयुक्तम् । नहि कश्चित् यं घटं करोति तमानयेत्यर्थं यं घटयति तमानयेति प्रयुक्ते । अत एव ‘तत्करोति’ इत्यनेनैव सिद्धे मुण्डादिप्रहणं सापेक्षेभ्योऽपि णिजर्थमिति पूर्वोक्तं संगच्छते । यद्यन्यत्रापि सापेक्षेभ्यो णिच् स्यात्तर्हि तन्न संगच्छेत । न चात्र सापेक्षत्वं नेति विवदितव्यम् । यां दिशं श्रीमतीमकरोदिति स्वयमेव व्याख्यातत्वात् । नापि सविशेषणानां वृत्त्यभावेऽपि विशेष्ययोगे स्यादेव वृत्तिरिति नात्रानुपपत्तिरिति श्रीमतीमित्यर्थं प्रति दिशो विशेष्यत्वादिति वाच्यम् । विशेष्ये हि वहिर्भूते विशेषणानां वृत्तिनाङ्गीक्रियते । न हि कश्चित् श्रीमतो राज्ञ इदमित्यर्थे राज्ञः श्रैमतमिति वृत्तिमभ्युपैति । किं च माघश्लोके अशिश्रियदित्येव पाठो वहुषु पुस्तकेषु दृश्यते न लशिश्रियदित्यलं शुद्धे ग्रन्थसमर्थनाभिनिवेशेनेत्याहुः ॥—पयस्यतीति । इह विन्मतोलुकि अग्लोपात्सन्वदित्वादिकं च न । अनग्लोपेऽपि सन्वद्भावाभावात् ‘णौ चङ्’ इति सूत्रे अत्यरराजदिति भाष्यमिह प्रमाणम् । लुङि अपपयसत् । एवं म्नग्विणमाख्यत् असस्रजदित्यत्रापि सन्वदित्वं न । गोमन्तं गवयति । लुङि । अजुगवत् । इहाग्लोपात् ‘दीर्घो लघोः’ इति दीर्घो न । गां स्रजं पय इति विग्रहे तु अजूगवत् । असिस्रजत् । पययति । अपपयत् । टेलोपस्य वहिरङ्गत्वेन असिद्धत्वादिह वृद्धिर्न । अग्लोपित्वात्तु सन्वद्भावदीर्घो न ॥—तदपवादस्येति । येन नाप्राप्तिन्यायेन टिलोपापवादो लुक् ॥—स्थवयतीति । ‘स्थूलदूर’ इति यणादिलोपो गुणश्च । न च गुणस्य ‘अचोऽञ्णिति’ इति वृद्धिः स्यादिति वाच्यम् । अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । ‘प्रातिपदिकाद्धात्यर्थे’ इति वहुलग्रहणाद्वा लुङि । अतुस्थवत् ॥—दवयति । यवयतीत्यादि । इहापि पूर्ववद्भावाभावः । लुङि अदूरवत् । अयूयवत् । अचीकनत् ॥ —नेदयतीति । ‘अन्तिकवाढयोर्नेदसाधौ’ टिलोपः । लुङि । अनिनेदत् । अससाधत् । प्रशस्यम् प्राशशस्यत् ॥— पृथ्वीर्भूतेरिति । तेन विशिष्टस्य स्थानिनोऽभावात् नादेशाविमो भवत इत्यर्थः ॥—ज्यापयतीति । ‘वृद्धस्य च’ इति ज्यादेशः । स च ‘प्रियस्थिर’ इति वर्षादेशेन सह विकल्प्यत इत्याह—वर्षयतीति । लुङि । अजिज्यपत् । अववर्षत् । प्रियम् । अपिप्रयत् । स्थिरम् । अतिस्थपत् । सस्यादेशावयवत्वात्वत्वं न । स्फिरम् । अपिस्फरत् ॥—उरुमिति । वरादेशे कृते संज्ञापूर्वकविधेरनित्यत्वाद्वाहुलकाद्वा माधवेन विकल्पेन उपधावृद्धिरुदाहतेति स्वयमपि तथैवाह—वरयति । वारयतीति । अवीवरत् ॥—वंहयतीति । अग्लोपित्वादववंहत् ॥—गरयतीति । अजीगरत् ॥—त्रापयतीति । अतित्रपत् ॥—द्राघयतीति । अदद्राघत् ॥—वृन्दयतीति । अववृन्दत् ॥ ॥ इति नामधातुप्रक्रिया ॥ कण्ड्वादिभ्यो यक् ॥ ‘धातोरेकाच’ इत्यस्माद्धातोरिति वर्तते । वेति निवृत्तम् । अन्यथा कण्ड्वयतीति स्यात्तदाह— धातोर्नित्यमिति । केचित्तु ‘नित्यं कौटिल्ये गतौ’ इत्यतो नित्यमित्यनुवर्तत इत्याहुः । तच्चिन्त्यम् । तत्र हि नित्यप्रहणमेवकारार्थे वर्तते तक्रकौण्डिन्यन्यायस्यानित्यतां ज्ञापयितुमिति प्राग्व्याख्यातत्वात् । किंच ‘नित्यं कौटिल्ये गतौ’ इत्यत्रापि वेत्यनुवर्तते । अन्यथा गत्यर्थेभ्यो नित्यं यङ् स्यादिति
Bālamanoramā
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् - मुण्डमिश्र । कृञर्थे इति । शेषपूरणमिदम्,शब्दवैरे॑त्तः करणे इत्यनुवृत्तेरिति भावः । व्रताद्भोजनेति वार्तिकम् । पयः शूद्रान्नं वा व्रतयतीति । पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः । वरुआआत्समाच्छादने — इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवरुआयतीति । वरुओण सम्यगाच्छादयतीत्यर्थः॥ वरुआं परिधत्ते इति वा । हल्यादिभ्यो घणे — इति वार्तिकम् । भाष्ये तु न दृश्यते । हलिकल्योरिति । हलिकली इदन्तौ । हलकलशब्दावदन्तौ, अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताब्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगोऽन्वेषणीयः । अचकलदित्यत्र सन्वत्त्वाऽप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम्, इकारलोपेऽप्यग्लोपित्वसिद्धेरित्यत आह — परत्वादिति । इकारस्य णौ इष्ठवत्त्वे टिलोपात्प्रागेव परत्वात्अचो ञ्णिती॑ति वृद्धौ कृतायामैकारस्य इष्ठवत्त्वाट्टिलोपेऽग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः । अत इति । अग्लोपित्वात्सन्वत्त्वम्,दीर्घो लघो॑रिति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति । उपकारं स्वीकरोतीत्यर्थः । पठितुं य#उक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽपीति । अन्यथा णिजन्तस्याऽस्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज्न भवेत्, सविशेषमानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनग्र्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थ मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः । 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः ।सुप आत्मनः इति सूत्रभाष्ये तुमुण्डयति माणवक॑मित्यत्र गमकत्वाण्णिच्,महान्तं पुत्रमिच्छती॑त्यादौ त्वगमकत्वान्न क्यजित्युक्तम् । तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वरुआमिति । निर्मलं करोतीत्यर्थः । लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षभ्यां न णिच्, तद्ग्रहणस्य अदन्तत्वनिपातनेन चरितार्थत्वादिति भावः । ननु सत्यशब्दा॒त्तत्करोती॑ त्यादिनैव णिच् सिद्धेःसत्यापे॑ति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह- सत्यस्यापुगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः । पाशं विमुञ्चतीत्यादौप्रातिपदिकाद्धात्वर्थे॑ इति णिच् । अभिषिषेमयिषतीति । अभिषेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम् । त्वच्छब्दाच्चकाराण्णिचि टिलोपे त्वयतीत्यापत्तेरित्यत आह — त्वचेति । 'त्वच संवरणे' इत्यस्मात्पुंसि संज्ञायां घः प्रायेणे॑ति घप्रत्ययय इत्यर्थः । पुंवद्भावादय इति.आदिना रभावटिलोपादिग्रहणम् । एतयतीति । 'भस्याऽढे' इति पुंवत्त्वस्य इष्ठनि प्रवृत्तेर्णावपि तस्याऽतिदेशात्वर्णादनुदात्तादिति स्त्रीप्रत्ययस्य, तत्संनियोगशिष्टनत्वस्याऽपि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात्पुंवद्भावे उदाहरणान्तरमाह - दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः ।द्व्यञ्मगधे॑त्यण् । स्त्र्यपत्ये तु दरदोऽपत्यं स्त्री दरत् ।अतश्चे॑त्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टवत्त्वात् पुंवत्त्वेन स्त्रियामित्यनुवृत्तौअतश्चे॑ति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दादयतीति रूपं सिध्यति । पुंवद्भावाऽभावे तु दरच्छब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि ।पृथुं मृदुं भृशं चैव, कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् । इति । क्रमेणोदाहरति — पृथुमिति । 'आचष्टे' इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति — वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद्वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक्टिलोपः । उभयथापिर ऋतः इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्त्वकृतायां वृद्धौ उकारस्य लोपः, कृतायां तु औकारस्य लोपः । तथा चशब्दान्तरस्य प्राप्नुवन् विधिरनित्यः॑ इति टिलोपोऽनित्यः । ततश्च परत्वाट्टिलोपात् प्राग्वृद्धिरेवेतिमुण्डमिश्रे॑ति सूत्रे भाष्ये स्थितम् ।वृद्धौ सत्यां पूर्वं वा टिलोप॑ इति मूलं तु कृताऽकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोप#ए अग्लोपित्वाऽभावात् सन्वत्त्वे 'सन्यतः' इति इत्त्वमिति भावः । अपप्रथदिति । वृद्धेः पूर्वं टिलोपेन उकारस्य निवृत्तावग्लोपित्वात्सन्वत्त्वान्वत्त्वाऽभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्वं पश्चाद्वा टिलोपेऽपि अग्लोपित्वान्न सन्वत्त्वमिति भावः । औजिढदिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माण्णौ टिलोपे ऊढि इतिण्यन्ताल्लुहि चङि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति- ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात्अजादेर्द्वितीयस्ये॑ति ह्तशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति ।लुग्विकरणप्रक्रियायां ऊर्णुञ्धाता॑विति शेषः । एवं च ह् तिशब्दस्य द्वित्वे हलादिशेषेकुहोश्चु॑रिति हस्य चुत्वमिति भावः । ढिशब्दस्येति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इत्स्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाऽभावादिति भावः । ऊढमाख्यदिति । वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाण्ण्यन्ताल्लुङि चङि ढत्वादीनामसिद्धत्वात्ह् ते॑त्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम् । औडढदिति ।पूर्वत्रासिद्धीयमद्वित्वे॑ इति ढत्वादीनामसिद्धत्वाऽभावपक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वाट्टिलोपे सति णिच्सहितस्य ह् तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह — ओः पुयणित्यादि । स्वशब्दाण्णिचि टिलोपमाशङ्क्याह — प्रकृत्यैकाजिति । प्रकृतिभावाट्टिलोपाऽभावे अकारस्य वृद्धौ आकारे पुगागमः । तदाह — वृद्धिपुकाविति । त्वापयति मापयतीत्यत्र प्रक्रियां दर्शयति — मपर्यन्तस्येति । युष्मदस्मद्भ्यां णौप्रत्ययोत्तरपदयोश्चे॑ति मपर्यन्तसय् त्वमौ । त्व अद् इ, म अद् इ, इति स्थिते आह — पररूपादिति । कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम् । त्व इ म इ इति स्तिते आह — वृद्धिरिति । अकारस्य आकारः । टिलोपस्य स्थानिवत्तवं तु न शङ्क्यम्, अजादेशत्वाऽभावात् । पुगिति ।अर्ती॑त्यनेनेति भावः । तदेवं प्राचीनमतमुपन्यस्यस्वमतमाह — त्वादयतीत्यादिना । तदेवोपपादयति — अन्तरङ्गत्वादिति । त्व अद् इ, म अद् इ, इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृतेप्रकृत्यैका॑जिति प्रकृतिभावे टिलोपस्याऽप्रवृत्तौ उपधावृद्धिरिति भावः । ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ट इत्युदाहरणानि प्रदश्र्य,नैतदस्ति प्रयोजनंप्रस्थस्फे॑ति विहित प्रादीनामाभीयत्वेनाऽसिद्धतया तत्र टिलोपाऽप्रसक्ते॑ रित्युक्त्वा, श्रेयान् श्रेष्ठ इत्यत्र 'प्रशस्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनाऽसिद्धत्वाऽभावाट्टिलोपे प्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदश्र्य॑श्रादेशे अकारोच्चारणसामर्थ्याट्टिलोपो न भविष्यती॑त्युक्त्वा, रुआग्वितमः रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति लुकि टिलोपनिवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा, प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यती॑ति 'प्रकृत्यैका' जित्यस्य् भाष्ये प्रत्याख्यातत्वात्त्वादयति मादयतीत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति — न चेत्यादि । कुत इत्यत आह — भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यं, न तु प्रकृततिभावप्रत्याख्यानमभिमतम्, स्वमाचष्टे स्वपायतीत्यादौ तदावश्यकत्वात् । अत एवप्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामर्थ्यादवचनात्पर्कृतिभावः॑ इति वार्तिकव्याख्यावसरेअन्तरेणापि वचनं प्रकृतिभावो भविष्यती॑ति भाष्ये उक्तम् । अन्यथा 'अन्तरेणैव वचन' मित्युच्येतेत्यास्तां तावत् ।प्रत्ययोत्तरपदयोश्चे॑त्यत्र 'एकवचने' इत्यनुवृत्तम् । तच्च यौगिकमाश्रीयते । तेन एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वाऽऽह युवामावां वेति । न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ, विभक्तेर्लुका लुप्तत्वात् । न च लुकः प्रागेव युवावौ किं न स्यातामिति वाच्यम् ।अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑ इत्युक्तेरिति भावः । शावयतीति । आआनमाचष्टे इत्यर्थः । आन्शब्दाण्णौ आन् इ इति स्थिते आह — नस्तद्धिते इति ।प्रकृत्यैका॑जिति प्रकृतिभावमाशङ्क्याह — प्रकृतिभावस्तु नेति । कुत इत्यत आह — येनेति ।टे॑रिति टिलोपे प्राप्ते सत्येवप्रकृत्यैका॑जित्यारभ्यते, 'नस्तद्धिते' इत्यस्य रुआजिष्ठ इत्यादावप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्ठवत्त्वेन भत्वात्आयुवे॑त संप्रसारणमित्यर्थः । तथा च आन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनाऽसिद्धत्वादन्नन्तत्वाद्वस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धावावादेशः । अन्येत्विति । इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेशः । टेरित्येव टिलोप इष्ठनि दृष्टो, न तु॑ 'नस्तद्धिते' इति । अतो नाऽस्यातिदेश इत्यर्थः । नन्वतिशयेन ब्राहृआ ब्राहिऋष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह — ब्राहिऋष्ठ इत्यादाविति । तेनेति । 'नस्तद्धिते' इत्यस्याऽप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याऽभावे संप्रसारणे शुनयतीति रूपमित्यर्थः । आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु ब्राहृवच्छब्दादिष्ठानि टेरिति टिलोपापवादेविन्मतोर्लु॑गिति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्चइष्ठनि तस्याऽदृष्टत्वा॑ दित्यत्युक्तम् । किं चब्राहिऋष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्ति॑रित्ययुक्तम्, केवलस्य ब्राहृन्शब्दस् वेदादिवचनस्य गुणवचनत्वाऽभावेन इष्ठनो दुर्लभत्वात्,अजादी गुणवचनादेवे॑त्युक्तेः । मत्वन्तादिष्ठनि तु मतोर्लुकि तेनटे॑रित्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् । विद्वयतीति । विद्वस् शब्दाण्णौ टिलोपः । ननु इष्ठवत्त्वाद्भत्वेवसोः संप्रसारण्मित्याशङ्क्याह — अङ्गवृत्तेति ।अङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्रटे॑रित्यसो लोपे वस्वन्तत्वाऽभावात्संप्रसारणाऽप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरसं सूचयति — इत्येके इति । संप्रासरणे इति । विद्वच्छब्दाम्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्य्नते इत्यर्थः । अत्रापि पूर्ववदेवाऽस्वरसः, टिलोपे सति वस्वन्तत्वाऽभावात् । नित्यत्वादिति । टिलोपे कृते अकृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, अकृते तु अस इत्यनित्यः,शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायादिति भावः । ननु कृतेऽपि संप्रासरणे पररूपात्प्राक् अस एव टिलोप इति तस्यनित्यत्वमित्यत आह — अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनङ्क्ष्यत्त्वान्न संप्रसाणमित्यस्वरसं सूचयति — इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्तपिरभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादञ्चेः ऋत्विगित्यादिना क्विनिअनिदिता॑मिति नलोपे उदच्शब्दः । तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वाउद ई॑दिति ईत्त्वेउदीची॑ति ण्यन्ताल्लडादय इति भावः । उदैचिदिति । लुङिद्विर्वचनेऽची॑ति णिलोपनिषेधाच्चिशब्दस्य द्वित्वम् ।उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते॑ इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेनप्रकृत्यैकाजिति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । 'अच' इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नाऽसिद्धत्वम्, लोपस्य णिनिमित्तत्वात्, आटस्तु लुङ्निमित्तत्वात् । इकोऽसवर्णे इतीति । 'न समासे' इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । 'समःसमि' इति सम्यादेशः । 'अच' इति लोपे 'चा' विति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम्, पृथक्करणेन उत्तरपदपरत्वाऽभावेऽप्य्नतरङ्गत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति ।तिर॑सित्यव्ययम् । तत्पूर्वादञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ 'तिरसस्तिर्यलोपे' इति तिरिभावे इकारस्य वृद्धावायादेशे 'तिरायी' त्यस्माण्ण्य्नताल्लडादीति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । न च तिरसः पृथक्करणे सति धातोःप्रकृत्यैका॑जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह — अञ्चेष्टलोपेनेति । बहिरङ्गत्वेनेति । बहिर्भूतणिनिमित्तकत्वादिति भावः । नन्वस्तु तिरसस्तिरिः, तत्र रेफादकारस्य टेरिति लोपः स्यादित्यत आह — असिद्धवदवेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः । तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेर्लोपःतिरे टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये असिद्धत्वं, टिलोपशास्त्रस्य एकत्वादित्यत आह — चिणो लुङ्न्यायेनेति । पचधातोर्भावकर्मणोर्लुङस्तङि प्रथमपुरुषैकवचने तशब्दे परेचिण् भावकर्मणो॑रिति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात्तिङश्चे॑ति तरपि तदन्तात्किमेत्तिङव्ययघादा॑मित्याम्प्रत्यये अपाचिततरामिति स्थितेचिणो लु॑गिति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकोऽसिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । अत इति । प्रतमटिलोपस्याऽसिद्ध्त्वादित्यर्थः । अङ्गवृत्तपरिभाषया वेति ।पुनष्टिलोपे ने॑त्यनुषज्यते । न च तिरेरिकारस्याङ्गवृत्तपरिभाषयाटे॑रिति लोपाऽभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः । अग्लोपित्वादिति । तिरस् अच् इ इति स्थितेटे॑रित्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्चो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः । सध्राययतीति । सहस्य सध्रिः । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाऽभावान्न पृथक्करणम् । तदाह — अससध्रायदिति । विष्वद्रञ्चमिति । विष्वक् अच् इ इति स्थितेविष्वग्देवयोश्चे॑ति विष्वक्शब्दटेरद्रआदेशे टेरित्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवद्रञ्चमिति । देवशब्दस्य टेरद्रआदेशे देवद्राययतीति सिद्धवत्कृत्य लुङ्याह — अदिदेवद्रायदिति । अतितिरायदितिवद्रूपम् । आददद्रायदिति । सर्वनामत्वाददस्शब्दस्य टेरद्रआदेशः ।त्यदाद्यत्वे सत्येव उत्त्वमत्वे॑ इति पक्षे इदम्, अदस्शब्दाद्विभक्तेर्लुका लुप्तत्वेन विभक्तिपरकत्वाऽभावेन त्यदाद्यत्वाऽप्रवृत्तेः ।त्यदाद्यत्वाऽविषयत्वेऽपि उत्त्वमत्त्वे स्त॑ इति मतमाश्रित्य आह — अमुमुयञ्चमिति । अदस् अच् इ इति स्थिते टेरद्रआदेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थितेअदसोऽद्रेः पृथङ्मुत्व॑मिति मते दकाराऽकारयोर्दकाररेफयोश्च मत्वेत्त्वयोःकृतयोः अमुमु इ इति स्तिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयीति ण्यन्ताल्लडादीति भावः । मुत्वस्याऽसिद्धत्वान्न यण् । अदमुआययतीति ।केचिदन्त्यसदेशस्ये॑ति मते इदम् । भुवमिति । भुमाचष्टे इत्यर्थ भूशब्दाण्णिच् । वृद्ध्यावादेशौ, भावीत्यस्माल्लडादीति भावः । अबीभवदिति । ओः पुयण्जी॑ति इत्त्वम् । अबुभ्रवदिति । अवर्णपरकपवर्गादिपरत्वाऽभावात्ओः पुयण्जी॑ति न । स्वआमिति । सुशोभनः अआ इति विग्रहः । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणादआशब्दस्यअजादेर्द्वितीयस्ये॑ति द्वित्वमाडागमश्च । स्वरिति । स्वरित्यस्माण्णिचि 'अव्ययानां भमात्रे' इति टिलोपः, इष्ठवत्त्वेन भत्वात् ।प्रकृत्यैकाजिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायेनटे॑रित्यस्यैव बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम्, 'अ' रित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाऽभावाट्टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशात्बहोर्लोपो भू च बहो॑रिति बहोर्भूभावः ।इष्ठस्य यिट् चे॑ति यिडागमस्तु न, 'णाविष्ठव' दिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । रुआजयतीति । इष्ठवत्वात्विन्मतो॑रिति लुक् । नचाऽजादी गुणवचनादेवेति इष्ठन्प्रत्ययः रुआग्विन्शब्दाद्दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यं,विन्मतो॑रिति लुग्विधानेन रुआग्विन्शब्दादिष्ठवत्त्वसिद्धरिति भावः । उपधावृद्धिमाशङ्क्याह — संज्ञापूर्वकत्वान्न वृद्धिरिति ।णाविष्ठव॑दित्येनातिदेशेन विनो लुकः सत्त्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति । श्रीमतीशब्दाण्णिचिणाविष्ठव॑दित्यतिदेशेन 'भस्याऽढे' इति पुंवत्त्वे 'विन्मतोः' इति मतो लुकि रेफादिकारस्य वृद्ध्यादेशयोः 'श्रायी' त्यरमाल्लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाह्रस्वः इति माधवः । मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिति । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयस्यतीत्यत्र इष्ठवत्त्वाट्टिलोपमाशङ्क्य आह — इह टटिलोपो नेति.कुत इत्यत आह — तदपवादस्येति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोः कुतो न स्यादिति वाच्यं,सत्यपि संभवे बाधन॑मिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाण्णिचि इष्ठवत्त्वात्स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे #ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्याऽचो ञ्णितीति वृद्धिस्तु न शङ्क्या, अङ्गकार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः । दवयतीति.पूर्ववद्यणादिलोपो गुणश्च ।कथं तर्हीति ।स्थूलदूरे॑ति यणादिलोपस्य टिलोपाऽपवादत्वादिति भावः । दूरमततीति । 'अत सातत्यगमने' इति धातोःअन्येभ्योऽपि दृश्यते॑ इति क्विपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपिलोपो व्यो॑रिति यलोपेह्रस्वस्य पिती॑ति तुकि दूरादित्येव रूपम् । तस्माण्णौ टिलोपेदूरी॑ति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः । तदाह — दूरातं कुर्वतीत्यर्थ इति ।कुर्वती॑ति सप्तम्यन्तम् । यवयतीति । युवन्शब्दाण्णौ स्थूलदूरेति वनो यणादेर्लोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्माल्लडादि । कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् । तदाह — युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नेदादेशः,अन्तिकबाढयोर्नेदसाधा॑वित्युक्तेः । साधयतीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र 'प्रशस्यस्य श्रः'ज्य चे॑ति श्रज्यौ नत्यर्थः । कुत इत्यत आह — उपसर्गस्येति । तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं — ज्यापयतीति ।वृद्धस्य चे॑ति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः ।प्रियस्थिरे॑ति सूत्रक्रमेणोदाहरति — प्रियं — प्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ ।वरयति वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बंहयतीति । बहुलस्य बंहादेशः । गरयतीति । गुरोर्गुर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशःवृद्धस्य चे॑ति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः । संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् ।त्रापयती॑ति क्वचित्पाठः । द्राघयतीति । दीर्घस्य द्राघादेशः । वृन्दयतीति । बृन्दारकस्य बृन्दादेशः । इति नामधातुक्रिया ।अथ ण्यन्तप्रक्रिया ।