PREMABASESiddhānta-kaumudī
Prakaraṇa 54 · SK 2575–2607

तिङन्तणिच्प्रकरणम्

tiṅantaṇicprakaraṇam · 33 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2575 · A 1.4.55कारकसंज्ञा
तत्प्रयोजको हेतुश्च ॥ २५७५ ॥
tatprayojako hetuśca
Siddhānta-kaumudī
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥
Bālamanoramā
तत्प्रयोजको हेतुश्च - अथहेतुमति चे॑ति णिज्विधिं वक्ष्यन् हेतुसंज्ञामाह — तत्प्रयोजको हेतुश्च ।स्वतन्त्रः कर्ते॑ति पूर्वसूत्रोपात्तः कर्ता तच्छब्देन परामृश्यते । तस्य कर्तुः प्रयोजकः प्रवर्तयिता - तत्प्रयोजकः । तदाह — कर्तुः प्रयोजको हेतुसंज्ञ इति । चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति । तदाह — कर्तृसंज्ञश्चेति.देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपक्रतृत्वसत्त्वात्प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः । प्रयोजकस्य प्रयोज्यकत्र्रा अन्यथासिद्धत्वाद्धेतुत्वाऽप्राप्तौ हेतुसंज्ञाविधिः ।
SK 2576 · A 3.1.26V
हेतुमति च ॥ २५७६ ॥
hetumati ca
Siddhānta-kaumudī
प्रयोजकव्यापारेप्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्च - SK 2564 इति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥
Tattvabodhinī
NSP p. 438
—हेतुमति च । खनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमान्व्यापारः तस्मिन्वाच्ये णिजित्याहुः ॥—प्रयोजकव्यापार इति । प्रयोजकश्चेतनाचेतनसाधारण्येन विवक्षितः स च क्रचित्सिद्धः क्रचित्फलरूपः । देवदत्तः पाचयति गमयतीत्यादौ सिद्धः । भिक्षा वासयति संग्रामो वासयतीत्यादौ तु फलरूपः ॥—प्रेषणादाविति । भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणा । आज्ञेत्यर्थः । आदिशब्देनाध्येषणानुमत्यादीनामुपादानम् । समानस्याधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना अध्येषणम् । प्रार्थनेत्यर्थः । अनुमतिस्तु राजादेः संमतिः, तां विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः । अनुमत्यादीत्यादिशब्देनात्रोपदेशानुप्रहयोरुपादानम् । ज्वरितः कपायं पिबेदित्युपदेशमात्रेण वैद्यादिः प्रयोजकः । यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणाद्धि सोऽपि हन्तुरनुग्राहकत्वेन प्रयोजकः । सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत् । अत्राहुः । सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति । नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्च इदानीं पृच्छतु भवानिति वक्तव्ये प्रच्छयतीति णिजपि प्रयुज्येतेति चेत् । भैवम् । कर्तुः प्रयोजको हि हेतुः प्रैषविषयो यः संबोध्यो देवदत्तादिः स तु नाद्यापि प्रश्नकर्तृत्वेनावधारितः । तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थस्तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः । उक्तं च—‘द्रव्यमात्रस्य तु प्रैषे पृच्छादेलोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः’ इति । अस्यार्थः—कर्तृत्वेनानवधारितस्य देवदत्तादेस्तु प्रैषे प्रच्छ झीप्सायामित्यादेलोड् भवति । प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा स्याणिचो विषय इति । किं च प्रयोक्तृनिष्ठा प्रयुक्तिलोडर्थः प्रयोज्यप्रयोक्तृकर्तृका तु णिजर्थः । पच देवदत्तेत्यत्र हि वक्तव्ये प्रेरकः । पाचयतीत्यादौ वक्तृभिन्नः पाचयामीत्यादौ तु वक्तेति दिक्
Bālamanoramā
हेतुमति च - हेतुमति च ।सत्यापपाशे॑त्यतो णिजित्यनुवर्तते ।हेतुः प्रयोजकः = आधारतया अस्यास्तीति हेतुमान् = प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः ।धातोरेकाचो हलादे॑रिति धातोरित्यनुवर्तते । तदाह - प्रयोजकव्यापार #इति । प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् । आज्ञेत्यर्थः । समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा । अनुमति — राजादेः समंतिः । ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना — उपदेशः । हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः । प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम् । एते तु विशेषाः प्रकरमादिना अवगम्यन्ते । 'कुलालो घटं करोती' त्यत्र तु न णिच्, प्रयोज्यप्रयोजकोभयसमभिव्याहार एव तत्प्रवृत्तेरित्यन्यत्र विस्तरः । भवन्तमिति । देवदत्तो यज्वा भवति । तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्यभवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रवर्तयिता याजकादिः प्रयोजकः, तन्निष्ठआं प्रेरणायां भूधातोर्णिच् । वृद्ध्यावादेशौ । भावीति णिजन्तम् । तस्माद्भवनानुकूलव्यापारार्थकाल्लटिभावयती॑ति रूपम् । भवन्तं प्रेरयतीति फलितोऽर्थः । भावयांबभूवेति । कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदित्वादनुप्रयुज्यमानादपि नात्मनेपदमिति भावः ।
SK 2577 · A 7.4.80V
ओः पुयण्ज्यपरे ॥ २५७७ ॥
oḥ puyaṇjyapare
Siddhānta-kaumudī
सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥
Tattvabodhinī
alignment inferredNSP p. 438–440
—ओः पुयणजि—। पुयणजीनि समाहारक्रान्तिस्तत्त्वेकवच्छवम् । अपरं इति वहुन्नीहिः । ‘अत्र लोपोऽभ्यासस्य’ इत्यतः अभ्यासस्येत्यनुवर्तते । ‘भृत्यामित्’ इत्यत इद्वहणं ‘सन्यतः’ इत्यतः सनीति च । अङ्गस्येति तु अधिक्रियत एव तदेतदभिप्रेत्याह—सनि परे यदङ्गमित्यादि । अपरे किम् । बुभूषति । पवर्गयण्जीति किम् । ऊर्णनविषति ॥—अवीभवदित्यादि । भू सत्तायाम् । पूङ् पवने । मूङ् वन्धने । यु मिथ्रणादौ । रु शब्दे । द्वन् छेदने । जु गतौ । सौत्रोऽयं धातुः ‘जुचंकम्य’—इत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशौ भवतस्ततः कृतस्य ‘णौ चङि’—इति ह्रस्वस्य स्थानिवद्भावेन लघुपरलाभावात्सन्वद्भावाप्रवृत्त्याऽवीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत् । अत्राहुः । आरम्भसामर्थ्यादेव न स्थानिवत्त्वमिति ॥—स्रवतिशृणोति—अपर इत्यनुवर्तते नतु पुयण्जीति, पवर्गजकारयोरसंभवाद्यणः संभवेऽप्यव्यभिचारात्तदाह—अवर्णपरे धात्वक्षरे इति । अक्षरशब्दोऽत्र वर्णपरः । अवर्णपरे किम् । शुश्रूषति । शृणोत्यादेरुदाहरणं तु । अशिथ्रवत् । अशुथ्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत् । अपुप्रवत् । अचिच्यवत् । अचुच्यवत् ॥—अङुढौकादिति । ढौकृ गतौ । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति पक्षाश्रयेणाह—अचीचकासदिति ॥—मतान्तर इति । ‘अङ्गं यत्र द्विरुच्यते’ इति मते चङ्परे णौ यल्लघु तत्परो योऽङ्गस्याभ्यास इति मते चेत्यर्थः ॥—सुब्ध्यातुप्रकरण इति । अतितिरायत् । अससध्रायत् । अविविष्वद्रायत् । अदिदेवद्रायत् । इत्याद्युदाहरिष्यत इत्यर्थः ॥—वृद्धिं वाधित्वेति । ‘ण्यल्लोपावियङ्’—इत्यादिवचनाणिलोपांशप्रत्याख्यानपक्षेऽपवादलाद्वेत्यर्थः ॥—असंभव इति । तथा च अचुचोरदित्येव रूपमिति भावः ॥—ण्याकृतिनिर्देशादिति । चङ्परे णावित्यत्र चङ्परे णित्वे इत्यर्थः । तेन णिद्वये सत्यपि णित्वं चङ्परमस्तीति ह्रस्वदीर्घयोरस्ति संभव इति भावः । एतेन अवीवदद्वीणां परिवादकेनेत्यादौ सन्वद्भावो व्याख्यातस्तत्रापीत्थमेव, पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात् ॥—णौ च—। विभाषा श्वेरित्यनुवर्तते । संश्वङोरिति णावित्यस्य विशेषणं ‘ह्रः संप्र’—इत्यतः संप्रसारणमनुवर्तत एवेत्याह—सन्परे चङ्परे इति ॥—वचनादिति । इयं च परिभाषा ‘लिब्यभ्यासस्योभयेषाम्’ इत्यत्र वच्यादीनां प्रह्लादीनामनुवृत्त्यैवेष्टसिद्धानुभयेषांग्रहणसामर्थ्याल्लभ्यते । अन्यथा वत्रश्वेत्यत्र हलादिः शेषे कृते वस्य संप्रसारणं स्यादित्याहुः ॥—स्तम्भुसिनु—। स्तम्भुः सौत्रः । षिनु तन्तुसंताने । षह मर्षणे । स्तम्भतेः ‘स्तम्भेः’ इत्यनेन प्राप्तिरन्ययोस्तु ‘परिनिविभ्यः’—इत्यनेनेति विवेकः ॥—आटिटत् । आशिशादिति । णिचा सह द्वित्वात्सन्वद्भावो नेति तद्विषये विहितो यो ‘दीर्घो लघोः’ इति दीर्घः स न प्रवर्तते ॥—ऋदित्करणाल्लिङ्गादिति । यदि पूर्वं द्विर्वचनं भवेत्तदा णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽर्थं ज्ञापकमेव ॥—एजादावेधताविति । ‘एत्येधत्यूठ्यु’ इति सूत्रे एजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः । न च मा भवान्प्रेदिधदित्यत्र ‘णौ चङि’—इति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषणेनेति वाच्यम् । एकदेशविकृतस्यानन्यत्वात् । न चैवमपि ‘अजादेाद्वंतीयस्य’ इति धिशब्दस्थाने धिधिशब्दादेशे सति वल्लसोरिव प्रकृतिप्रत्ययविभागसंमोह इति वाच्यम् । ‘द्विःप्रयोगो द्विर्वचनं पाष्ठम्’ इति भाष्ये सिद्धान्तितत्वात् । अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात् । जिघांसतीत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक् ॥—उद्ध आर्जव इति । अयमुपध्मानीयोपध इति वार्तिककृतोक्तम् । तस्य ‘झलां जंश् झशि’ इति जश्त्वेन वकारे कृते उज्जिता । उज्जितमिति रूपम् । एतच्चायोगवाहानां शर्षु पाठस्य फलम् । भाष्यकारादयस्तूपध्मानीयोपधपाठे उज्जिजिपतीति रूपं न सिध्येत् । यदि ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इत्याश्रित्य वकारोत्तरं द्वित्वं क्रियते, यदि वा अस्यानित्यतामाश्रित्य वकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभय- थापि इष्टरूपासिद्धिः, आद्ये उविञ्जिषति, द्वितीये तूपध्मानीयस्याच्छात्तदादेः ‘अजादेर्द्वितीयस्य’ इति द्वित्वे हलादिःशेषे द्वितीयोपध्मानीयस्य जश्त्वेन वकारे पश्चात्प्रथमस्यापि तथैव वकारे उव्ञिषतीत्यापत्तेः । ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः । भुजन्युञ्जाविति निपातनादुपधादकारस्य वोमवतीति वाक्यं कल्प्यते, तच्च ‘स्तोः श्रुना श्रुः’ इत्यस्याप्रे । तद्-यमर्थः । श्रुना योगे उद्जेदकारस्य वकार इति । अभ्युद्गः समुद्गः इत्यत्र तु उञ्जिता उञ्जितुमित्यत्रेव चवर्गयोगो ना-स्तीति न वकारः । दकारोपधे चास्मिन्स्वीकृते ‘न न्द्राः’ इति निषेधाज्जिशब्दस्य द्वित्वे ततो वकारे च उञ्जिजिषतीति सिध्यति रूपम् । न च ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इति वकारोत्तरं द्विर्वचने सति स्यादेवानिष्टमिति वाच्यम् । द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि । तथा च निषेधे त्रिपादीस्थस्यासिद्धत्वात् ‘न न्द्राः’ इति निषेधः प्रवर्तते । यद्वा तादृ-शवाक्यमिह न कल्प्यते किं तु ‘भुजन्युञ्जौ’— इति निपातनेन दस्य व इति । न चैवं वकारसहितस्य द्वित्वप्रसङ्गः । धातौ दकारोच्चारणसामर्थ्यात् । न चाभ्युद्ग इत्यादावपि वकारश्रवणप्रसङ्गः । अकुलविषय एव वकारनिपातनाभ्युपगमात् । यद्वा अभ्युद्ग इत्यादि रूपं द्वयुपसर्गाद्गमेर्डप्रत्यये ज्ञेयम् । उद्जेस्तु घनि अनभिधानात् प्रयोगाभाव इति वदन्ति । तदेत-द्भाष्यादिमतमभिप्रेत्याह—उपदेशे दकारोपध इत्यादि । अजादेरित्येवेति । ‘न न्द्राः’ इत्यत्र अजादेरित्यनुव-र्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः । ननु लावस्थायामेव अडिति भाष्यकारोक्तपक्षे आदिप्रपदित्यत्र अजादित्यमस्त्येव न्याय्यश्च प्रथममद्परत्वादन्तरङ्गलाच्चेति चेत् । अत्राहुः । द्वितीयस्येत्यप्यत्रानुवर्तते तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः । तेन लावस्थायामटि कृतेऽपि धातुसंज्ञाप्रवृत्तिकाले अजादित्याभावान्नोक्तदोषः । नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात् । न चैवं नित्यं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्यात्रानुवृ-त्तिमोस्त्विति वाच्यम् । इन्दिद्रीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः । अजादेरित्युक्तौ लादिभूतादचः परत्वं दकारस्य नेति सिद्धमिष्टम् । न च अजादेरित्युक्तावपि चन्दिद्रीयिषतीत्यत्र दोषः स्यादेव, आद्ययवस्य हल्लान्नकारस्य द्वित्वनिषे-धाप्रसङ्गादिति वाच्यम् । अजादेरिति कर्मधारयात् पञ्चमीत्युक्तत्वात् । इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवा-नुवर्त्यताम् । अथवा आदेरित्यस्याप्यनुवर्तनमस्तु तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं शब्दाधिकाराश्रयाणादिति ज्ञेयम् ॥ नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते द्वितीयस्येति न वक्तव्यमिति भाष्यं विरुध्येतेति चेत् । मैवम् । यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात् । न च अजादेरित्येतावत्युक्ते यस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम् । प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्
Bālamanoramā
ओः पुयण्ज्यपरे - ओः पुयण् । 'उ॑ इत्यस्यओ' रिति षष्ठी ।पुयण्जी॑ति छेदः । पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी । अः परो यस्मादिति बहुव्रीहिः । 'सन्यतः' इत्यस्मात्सनित्यनुवर्तते । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः' इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह — सनि परे इत्यादिना । अबीभवदिति । भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेवभू॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वेऽभ्यासेऽकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूङ्धातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । अरीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्रस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामर्थ्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम् ।
SK 2578 · A 7.4.81V
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ २५७८ ॥
sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ vā
Siddhānta-kaumudī
एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि - SK 2572 इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि - SK 2314 इति ह्रस्वः । दीर्घो लघोः SK 2318 । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥
Bālamanoramā
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा - रुआवतिशृणोति । अपर इत्यनुवर्तते, न तु पुयण्जीति, पवर्गजकारयोरसंभवात्,रुआवत्यादौ यणः सत्त्वेऽप्यव्यभिचारात् । तदाह — अवर्णपरे धात्वक्षरे इति । अक्षरशब्दो वर्णपरः । असिरुआवत् असुरुआवदिति । द्विहल्व्यधानेन लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् अशुश्रवत् ।अदिद्रवत् अदुद्रवत् । अपिप्रवत् अपुप्रवत् । अपिप्लवत् अपुप्लवत् । अचिच्यवत् ।अचुच्यवत् । अथ सासुधतोरशशादित्यत्राह — नाग्लोपीति । अडुढौकदिति । ढौकृ गतावित्यस्य ऋदित्त्वादिति भावः । अचीचकासदिति । चकासृ दीप्तौ । ऋदित्त्वान्नोपधाह्रस्वः ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षे सन्वत्त्वम्, अभ्यासदीर्घश्चेति भावः । मतान्ते त्विति ।अङ्गं यत्र द्विरुच्यते॑ इति मते॑ चङ् परेणौ यल्लघु तत्परो योऽङगस्य अभ्यास॑ इति मते चेत्यर्थः । आग्लोपीतीति । अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहणान्तरं सुब्धातुरनिरूपणे वक्ष्यते इत्यर्थः । ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणेचोरि इति रूपम्,तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सतिचोरिट इत्येव हेतुण्ण्यन्तम् । तसमाल्लटि तिपि शपि गुणे अयादेशेचोरयती॑त्येव रूपम#इष्यते । तन्नोपपद्यते, हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धावायादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह — ण्यन्ताण्णिचीति । ण्यन्ताण्णिचि वृदिंध बाधित्वा णिलोपैत्यन्वयः । कुत इत्यत आह — पूर्वविप्रतिषेधादिति ।ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेने॑ति वार्तिकेनेति भावः । अपवादत्वाद्वेति । 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ ततो हेतुमण्णेर्लोपे चुरित्यस्य द्वित्वे सन्वद्भावविषयत्वाह — दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपदाह्रस्वोऽभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितं, तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाऽभावात् । नापि द्वितीयणिचमादायतदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमसंभवो न शङ्क्य इत्यर्थः । कुत इत्यत आह — ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र णावित्यस्य चङ्परकमित्वजात्याश्रयैकाऽनेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चङ्परकत्वाऽभावेऽपि णित्वस्य चङ्परकत्वमस्तीति ह्रस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिन#इर्देशोऽयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् ।टु ओ इआ गतिवृद्धयोः॑ अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः आआयीत्यस्माल्लडादौ आआययतीति रूपम् । लुङि चङि अइआ इ अ त् इति स्थिते विशेषमाह —
SK 2579 · A 6.1.31V
णौ च संश्चङोः ॥ २५७९ ॥
ṇau ca saṃścaṅoḥ
Siddhānta-kaumudī
सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥
Bālamanoramā
णौ च सँश्चङोः - णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते ।इङश्चे॑त्यत इङ इति,गाङ् लिटी॑त्यतो गाङिति,विभाषा लुङ्लृङो॑रित्यतो विभाषेति चानुवर्तते । तदाह — सन्परे चङ्परे चेत्यादि । सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः । अध्यजीगपदिति । णौ इङो गाङादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । नचद्वित्वे कार्ये णावजादेशो ने॑ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम्अजादेर्द्वितीयस्ये॑ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः । अध्यापिपदिति । गाङभावे 'क्रीङ्जीनां णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थितेपी॑त्यस्य द्वित्वे रूपमिति भावः । सिध्येतरपारलौकिके । 'आदेच उपदेशे' इत्यस्मादादेचेति,क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते । तदाह — ऐहलौकिके इत्यादि । अन्नमिति । तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति । आत्मस्वरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः ।
SK 2580 · A 8.3.116V
स्तम्भुसिवुसहां चङि ॥ २५८० ॥
stambhusivusahāṃ caṅi
Siddhānta-kaumudī
उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः - SK 2446 इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः SK 2877 इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः SK 2446 इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥
SK 2581 · A 7.1.63V
रभेरशब्लिटोः ॥ २५८१ ॥
rabheraśabliṭoḥ
Siddhānta-kaumudī
रभेर्नुम् स्यादचि न तु शब्लिटोः ॥
Tattvabodhinī
NSP p. 440
—रभेरशब्लिटोः । ‘रधि-जभोः—’ इत्यतोऽचीति ‘इदितः’ इत्यतो नुमिति चानुवर्तते । अचि किम् । आरब्धम् । अशब्लिटोः किम् । रभते । रेभे
Bālamanoramā
रभेरशब्लिटोः - रभेरशब्लिटोः ।इदितो नुम्धातोरित्यतो नुमिति ।रधिजभोरची॑त्यतोऽचीति चानुवर्तते । तदाह — रभेर्नुमित्यादि ।
SK 2582 · A 7.1.64V
लभेश्च ॥ २५८२ ॥
labheśca
Siddhānta-kaumudī
अररम्भत् । अललम्भत् । हेरचङि - SK 2531 इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् SK 2566 । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥
Tattvabodhinī
NSP p. 440
—लभेश्च । योगविभागः ‘आङो यि’ इत्यत्र लभेरेवानुवृत्तिर्यथा स्यादिति
Bālamanoramā
लभेश्च - लभेश्च । लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः । अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः ।हि गतौ वृद्धौ चे॑त्यस्माच्चङिअजीहय॑दित्यत्रहेरचङी॑ति हकारस्य कुत्वं नेत्याह — हेरचङीति ।अत्स्मृदृत्वरे॑ति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाऽभावान्नाऽभ्यासदीर्घः । अददरदिति । 'दृ विदारणे' इत्यस्य रूपम् । अत्रापि 'सन्यतः' इत्यस्यापवादोऽयम् । दीर्घमाशङ्क्याह — तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् ।
SK 2583 · A 7.4.96V
विभाषा वेष्टिचेष्ट्योः ॥ २५८३ ॥
vibhāṣā veṣṭiceṣṭyoḥ
Siddhānta-kaumudī
अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-SK 2565 इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् ।
vārttika
काण्यादीनां वेति वक्तव्यम्
(वार्तिकम्) ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥
Tattvabodhinī
alignment inferredNSP p. 440
—काण्यादीनामिति । कण निमीलने । रण शब्दे । भण शब्दे । श्रण दाने । लुप्लृ छेदने । हिठ विवाधायाम् । षट् । ह्वेश् स्पर्धायां शब्दे च । वण शब्दे । लुट प्रतिघाते । लुप्लृ छेदने । लोपीति णिजन्तनिर्देशः । लापय इति पाठान्तरे लप व्यक्तायां वाचि । केचित्तु लपहेठ इति पठन्ति । न्यासे चत्वारः । श्रण दाने । लुठ स्तेये । भ्वादिः । चुरादौ दण्डकपाठे भाषार्थकोऽपि । अरीर-णत् । अरराणत् । अवीभणत् । अवभाणत् । अशिश्रणत् । अशश्राणत् । अल्लुपत् । अल्लोपत् । अजीहिठत् । अजि-हेठत्
Bālamanoramā
विभाषा वेष्टिचेष्ट्योः - विभाषा वेष्टिचेष्ट्योः । 'अत्र लोपः' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'अत्स्मृदृत्वरे' त्यतोऽदिति,सन्वल्लघुनी॑इत्यतश्चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः । णावित्यार्थिकम् । तदाह — अभ्यासस्याऽत्त्वमिति । अबिभ्रजदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वादभ्यासस्य इत्त्वम् ।दीर्घो लघो॑रिति तु न, संयोगापरत्वादलघुत्वात् । काण्यादीनां वेति ।णौ चङ्युपधाया इति ह्रस्व॑ इति शेषः । ण्यन्ताः कणरणेति । 'कण निमीलने'रण शब्दे॑, 'भण शब्दे'श्रण दाने॑,लुप छेदने॑,हेठ विबाधाया॑मिति षट् धातवो ण्यन्ताः काण्यादयो भाष्ये पठिता इत्यर्थः । ह्वायीति ।ह्वेञ् स्पर्धायां शब्दे च॑ । आत्त्वे युकि च निर्देशः । 'वण शब्दे' दन्त्योष्ठआदिः,लुठ प्रतिघाते॑टवर्गद्वितीयोपधः,लप व्यक्तायां वाचि॑ति चत्वारो ण्यन्ता भाष्योक्तेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । 'चण दाने' तालव्यादिः । 'लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि ण्यन्तौ द्वौ भाष्यन्यासग्रन्थाभ्यामन्यत्र क्वचिद्ग्रन्थे पठितावित्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकणदिति । उपधाह्रस्वपक्षे लघुपरत्वात्सन्वत्त्वदीर्घौ च । अचकाणदिति । उपधाह्रस्वाऽभावपक्षे रूपम् । अरीरणत्- अरराणत् । अबीभणत्- अबभाणत् ।अशिश्रणत्- अशश्राणत् । अलूलुपत्-अलुलोपत् । अजीहिठत्-अजिहेठत् । अजूहवत्-अजुहावत् । अवीवणत्- अववाणत् । अलूलुठत् - अलुलोठत् । अलीलपत- अललापत् । अचीचमत्- अचचाणत् । अलूलुटत्- अलुलोटत् ।
SK 2584 · A 6.1.18V
स्वापेश्चङि ॥ २५८४ ॥
svāpeścaṅi
Siddhānta-kaumudī
ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥
Tattvabodhinī
NSP p. 440–441
—स्वापेश्चाङ्कि । चडि किम् । स्वापयति ॥—असूषुपदिति । इह संप्रसारणोत्तरं द्वित्वम् ॥—शाच्छास्ता-—। शो तनूकरणे । छो छेदने । षोऽन्तकर्मणि । ह्वेश् स्पर्धायाम् । ब्येश् संवरणे । वेश् तन्तुसंताने । पा पाने । ‘लुवि-करणालुविकरण—’ इति परिभाषया पा रक्षणे इति नेह गृह्यते । तस्य तु पालयतीति रूपमनुपदं वक्ष्यति । शाययति । अशीशयत् । छाययति । अचिच्छयत् । साययति । असीषयत् । ह्याययति । अविह्ययत् । अविव्ययत् । वाययति । अवीवयत् । पाययति । अपीपयत् । इह शाच्छासादीनां कृतालानां निर्देशः पुकः प्राप्तिं ध्वनयितुम् । तत्प्रयोजनं लस्मिन्प्रकरणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः । तेन ध्यापयति, कापयतीत्यादि सिद्धम्
Bālamanoramā
स्वापेश्चङि - स्वापेश्चङि । संप्रसारणमिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । असू षुपदिति । संप्रसारणं तदाश्रयं चकार्यं बलव॑दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः ।
SK 2585 · A 7.3.37V
शाच्छासाह्वाव्यावेपां युक् ॥ २५८५ ॥
śācchāsāhvāvyāvepāṃ yuk
Siddhānta-kaumudī
णौ परे । पुकोऽपवादः । शाययति । ह्वाययति ॥
Bālamanoramā
शाच्छासाह्वाव्यावेपां युक् - शाच्छासा ।शो तनूकरणे,छो छेदने॑,षो अन्तकर्मणिट,ह्वेञ् स्पर्धायां शब्दे च॑,व्येञ् संवरणे॑, एषां कृतात्त्वनिर्देशः । 'वेञ् तन्तुसंताने'पा पाने भ्वादिः । एषां द्वन्द्वात्षष्ठीबहुवचनात् । णौ परे इति । शे,फूरणमिदम् । आदन्तलक्षणपुकोऽपवादः । युकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तागमः । अत्रलुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण॑मिति वचनात् 'पा रक्षणे' इति न गृह्रते । तस्यतु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति । लुङि अशीशयत् । छाययतीति । अचिच्छयत् । साययतीति । असीषयत् । ह्वाययतीति । लुङि तु विशेषो वक्ष्यते । व्याययतीति । अविव्ययत् । वाययति । अवीवयत् । पाययति । लुङि तु विशेषो वक्ष्यते ।
SK 2586 · A 6.1.32V
ह्वः सम्प्रसारणम् ॥ २५८६ ॥
hvaḥ samprasāraṇam
Siddhānta-kaumudī
सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥
Tattvabodhinī
NSP p. 441
—ह्वः संप्र—। ‘णौ च संश्वङोः’ इति वर्तते तदाह—सन्पर इत्यादि ॥—अजूहवत् । अजुहावदिति । ‘काण्यादीनां वा’ इति ह्रस्वविकल्पः ॥—अपीप्यदिति । उपधालोपस्य द्वित्वे कर्तव्ये प्रतिषेधात् कृते लोपे स्थानिवद्भावाद्वा पायशब्दस्य द्वित्वे हलादिःशेषे ईकारः । स च अनभ्यासविकार इति निषेधादन्त्यस्यादेशः । इहाग्लोपिलादलघूपधलाच्च सन्वदिलदी-धैर्योरप्राप्तावित्वं विधीयते ।—व्लेपयतीत्यादि । ब्ली वरणे । रीङ् क्षये । क्लूयी शब्दे उन्दे च । क्ष्मायी विधूनने
Bālamanoramā
ह्वः सम्प्रसारणमभ्यस्तस्य च - अभ्यस्त स्य च ।ह्वः संप्रसारण॑मित्यनुवर्तते । 'ह्व' इति कृतात्त्वस्य 'हवे' इत्यस्य षष्ठन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्यन संप्रसारणे संप्रसारण॑मिति निषेधः स्यादित्यत आह-अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सतिविप्रतिषेधे यद्बाधितं तद्बाधित॑मिति न्यायाद्द्वित्वं न स्यादित्यत आह — ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः । तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे 'हु' इत्यस्य द्वित्वेकुहोश्चु॑रिति चुत्वे तस्य जश्त्वेअचो ञ्णिती॑ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह — जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात्अभ्यस्तस्य चे॑त्यनेन संप्रसारणेवार्णादाङ्गं बलीयः॑ इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः । यद्यपि कितिवचिस्वपी॑ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — जुहोथ जुहविथेति । जुहुवथुः जुहुव । जुहाव जुहव जुहुविव जुहुविम । क्रादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । ह्वातेति । तासि आत्त्वम् । ह्वास्यति ह्वास्यते । ह्वयतु ह्वयताम् । अह्वयत् अह्वयत । ह्वयेत् ह्वयेत । हूयादिति । आशीर्लिङि आत्त्वे यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ह्वासीष्टेति । आशीर्लिङि सीयुटि रूपम् । लुङि विशेषमाह —
SK 2587 · A 7.4.4V
लोपः पिबतेरीच्चाभ्यासस्य ॥ २५८७ ॥
lopaḥ pibaterīccābhyāsasya
Siddhānta-kaumudī
पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री - SK 2570 इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥
Bālamanoramā
लोपः पिबतेरीच्चाभ्यासस्य - लोपः पिबतेः । चङ्परे णाविति । 'णौ चङ्युपधायाः' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ।नानर्थकेऽलोऽन्त्यविधि॑रित्स्य अनभ्यासविकार इति निषेधादभ्यासाऽन्त्यस्य ईत्त्वम् । इह उपधालोपे कृतेऽग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः । अर्तिहीति पुगिति । 'क्रमेणोदाह्यियते' इति शेषः । अर्पयतीति । ऋधातोरुदाहरणम् । वृदिंध बाधित्वा नित्यत्वात् पुक् । गुणः । ह्येपयतीति ।ह्यी लज्जाया॑मित्यस्य रूपम् । व्लेपयतीति । 'व्ली विशरणे' इत्यस्य रूपम् । रेपयतीति । 'री क्षये' इत्यस्योदाहरणम् । 'क्नूयी शब्दे' इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह — यलोप इति । क्नूयीधातोर्णौ पुकिलोपो व्यो॑रिति यलोप इत्यर्थः । ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः । क्ष्मापयतीति । 'क्ष्मायी विधूनने' अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति — स्थापयतीति । लुङि चङि अतिष्ठप् अ त् इति स्थिते —
SK 2588 · A 7.4.5V
तिष्ठतेरित् ॥ २५८८ ॥
tiṣṭhaterit
Siddhānta-kaumudī
उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥
Tattvabodhinī
NSP p. 441
—तिष्ठतेरित् । तकारो मन्दप्रयोजनः । श्तिपा निर्देशो यङ्छुङ्गिवृत्त्यर्थः । अतास्थापत् । लटि तास्थापयतीति तास्थापेति । उर्ऋत् । चुरादौ व्याख्यातम् ॥—अचिकीर्तदिति । ऋदादेशाभावपक्षे ‘उपधायाश्च’ इतीत्वे रपरलम् ‘उपधायां च’ इति दीर्घः
Bālamanoramā
तिष्ठतेरित् - तिष्ठतेरित् । 'णौ चङ्युपधायाः' इत्यनुवर्तते । तदाह — उपधाया इति ।
SK 2589 · A 7.4.6V
जिघ्रतेर्वा ॥ २५८९ ॥
jighratervā
Siddhānta-kaumudī
अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् SK 2567 । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ।
vārttika
पातेर्णौ लुग्वक्तव्यः
(वार्तिकम्) ॥ पुकोऽपवादः । पालयति ॥
Tattvabodhinī
alignment inferredNSP p. 441
—पुकोऽपवाद इति । आदन्तलात्पुकः प्राप्तिः । एवं च लुगागमस्य पुङ्निवृत्तिरेव फलम् । पालयतीति रूपस्य पाल रक्षणे इति धातुनापि सिद्धेरिति भावः
Bālamanoramā
जिघ्रतेर्वा - जिघ्रतेर्वा । घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः । उरृदिति । धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ । अचीकृतदिति.कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उरृ' दित्युपधाया ऋत्वाऽभावपक्षेउपधायाश्चे॑ति इत्त्वे रपरत्वे 'किर्न्' इत्यस्य द्वित्वे उत्तरखण्डेउपधायां चे॑ति दीर्घे रूपम् । अवीवृतदिति ।वृतु वर्तने॑ । णिचि लघूपधगुणं बाधित्वाउरृत् । चङिवृत्इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जिदिति । उपधाया ऋत्तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डेमृजेर्वृद्धि॑रिति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाऽभावान्न सन्वत्त्वम् । पातर्णौ लुगिति । लुगागम इत्यर्थः । पुकोऽपवाद इति । आदन्तलक्षणपुकोऽपवादैत्यर्थः ।यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम् ।
SK 2590 · A 7.3.38V
वो विधूनने जुक् ॥ २५९० ॥
vo vidhūnane juk
Siddhānta-kaumudī
वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः SK 2509 ॥
Tattvabodhinī
NSP p. 441
—वो विधू—। लुग्विकरणाऽलुग्विकरणपरिभाषया ओवै शोषण इत्यस्यैव ग्रहणं न तु वा गतिगन्धनयोरित्यस्य । लक्षणप्रतिपदोक्तपरिभाषा लस्मिन्प्रकरणे न प्रवर्तते इत्युक्तं प्राक् । ओवै शोषणे इत्यस्य रूपमिति वदन् वामनोऽन्यत्रानुकूलः । वज गताविति धातुना वाजयतीति रूपे सिद्धे जुगागमस्य पुङ्निवृत्तिरेवेहापि फलम् ॥—वातेरिति । वायतेरिति वक्तुं युक्तम् । आलविधायकसूत्रं स्मारयति—विभाषा लीयतेरिति । लीयतेरिति यका निर्देशो नतु श्यना । अन्यथा विभाषा लीङ इत्येवावक्ष्यत् । तेन लीलीङोरुभयोरप्यात्वं भवति ॥—लीलोः—। लीङ् श्लेषणे दिवादिः । ली श्लेषणे क्र्यादिः । लाग्रहणेन ला आदाने अदादिः कृतात्वौ लीलीङौ च त्रयोऽपि गृह्यन्ते । लीयतेरिति औचित्यादिहापि यका निर्देश इत्युभयोरपि ग्रहणम् । न च ‘निरनुबन्धग्रहणे न सानुबन्धकस्य ग्रहणम्’ इति परिभाषया सूत्रेऽपि लीङो न ग्रहणमिति वाच्यम् । इयं हि परिभाषा ‘वामदेवाङ्ब्यङ्ब्यौ’ इत्यत्र ङित्त्वेन ज्ञापिता । ज्ञापनं च उत्सर्गतः सजातीयापेक्षमिति प्रत्ययग्रहणविषयलमस्याः कल्प्यते । यथा सदव्ययतव्यसमानाधिकरणेनेत्यत्र तव्यस्यैव ग्रहणं न तु तव्यतः, अत एव ‘जृवश्योः क्लि’ इति सूत्रे जृणातिजीर्यत्योरुभयोर्ग्रहणमिति न्यासकृतोक्तम् । अतोऽत्र लीलीङोर्ग्रहणमिति सम्यगेव । न चैवं ‘दिव ओत्’ इत्यत्र निरनुबन्धपरिभाषया दिविति प्रातिपदिकस्यैव ग्रहणं न तु धातोरिति ग्रन्थः कथं संगच्छत इति वाच्यम् । उत्सर्गतः प्रत्ययग्रहणविषयत्वेन कचिदन्यत्रापि प्रवृत्तौ वाधकाभावादिति वदन्ति ॥—विलीनयतीति । लीलीङोरिकारान्तयोर्नुकि रूपम् ॥—विलाययतीति । जुगभावपक्षे तयोरेव रूपम् ॥—विलालयतीति । लातेः कृतालयोर्लीलीङोश्च लुकि रूपम् ॥—विलापयतीति । लुगभावपक्षे अदन्तानां तेषामेव रूपम्
Bālamanoramā
वो विधूनने जुक् - वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य 'व' इति षष्ठन्तम् । 'अर्तह्यी' त्यतो णावित्यनुवर्तते । तदाह — वातेरित्यादि । पुकोऽपवादो जुक् ।केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणं, लुगविकरणत्वात् । केचित्तु वातेरेवाऽत्र ग्रहणं, न तु वेञो, नापि वै इत्यस्य, लाक्षणिकत्वात्, सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्रं स्मारयति - विभाषा लीयतेरिति । लीलीङोरात्त्वं वा स्यादेज्वि,ये ल्यि चेति व्याख्यातं प्राक् श्यन्विकरणे । तत्र लीयतेरिति यका निर्देशो, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य, 'लीङ्श्लेषणे' इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् ।
SK 2591 · A 7.3.39V
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ २५९१ ॥
līlornuglukāvanyatarasyāṃ snehavipātane
Siddhānta-kaumudī
लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ।
vārttika
प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम्
(वार्तिकम्) ॥
Tattvabodhinī
alignment inferredNSP p. 441
—लोहं विलापयतीति । नुग्लकोरभावादालपक्षे युक् । आलाभावे तु वृद्ध्यायादेशौ ॥—प्रलम्भनेति । प्रलम्भनं वज्रनम् । अशिति किम् । लीयते । लिनाति
Bālamanoramā
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने - लीलोः । ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति । अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम् । तदाह — स्नेहद्रवे इति । आत्त्वाऽभावपक्षे आह — विलीनयतीति । लीलीङोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीङोरात्त्वनुगभावपक्षे आह — विलाययतीति । लुगागमाऽभावे रूपम् । नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह — ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः ।
SK 2592 · A 1.3.70V
लियः सम्माननशालीनीकरणयोश्च ॥ २५९२ ॥
liyaḥ sammānanaśālīnīkaraṇayośca
Siddhānta-kaumudī
लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥
Tattvabodhinī
NSP p. 441
—लियः संमानन—। चात्प्रलम्भने
Bālamanoramā
लियः सम्माननशालीनीकरणयोश्च - लियः संमानन । 'लिय' इतिलीलीङोग्र्रहणम् । 'अनुदात्तङितः' इत्यत् आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते ।णिचश्चे॑ति सिद्देऽकत्र्रभिप्रायार्थमिदम् । संमाननं - पूजालाभः । शालिनीकरणम् - अभिनवः । चकारात्गृधिवच्च्यो॑रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते । तदाह — लीङ्लियोरित्यादिना ।
SK 2593 · A 6.1.56V
बिभेतेर्हेतुभये ॥ २५९३ ॥
bibheterhetubhaye
Siddhānta-kaumudī
बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥
Tattvabodhinī
NSP p. 441
—विभेतेर्हेतुभये । हेतुः प्रयोजकः । इह ‘आदेच उपदेशे—’ इत्यत एच आदित्यनुवर्तते ‘विभाषा लीयतेः’ इत्यतो विभाषा, ‘चित्फुरोः—’ इत्यतो णाविति च तदाह—विभेतेरेच इत्यादि
Bālamanoramā
बिभेतेर्हेतुभये - बिभेतेर्हेतुभये । 'आदेच उपदेशे' इत्यत एचेति,आदिति चानुवर्तते । 'वभाषा लीयते' रित्यतो विभाषेति,चिस्फुरो॑रित्यतो णाविति च । हेतुभयं - प्रयोजकाद्भयम् । तदाह — बिभेतेरेच इत्यादिना ।
SK 2594 · A 1.3.68V
भीस्म्योर्हेतुभये ॥ २५९४ ॥
bhīsmyorhetubhaye
Siddhānta-kaumudī
ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥
Tattvabodhinī
alignment inferredNSP p. 441–442
—भीस्म्योः—॥ व्यत्ययेन षष्ठी- लाह—आभ्यामिति । ‘णेरणौ—’ इत्यतो णेरित्यनुवृत्तेर्ण्यन्ताभ्यामेव विधिरकर्त्रभिप्रायार्थः
Bālamanoramā
भीस्म्योर्हेतुभये - भीस्म्योर्हेतुभये ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः- प्रयोजकः । तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम् । ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह — सूत्रे भयेति । सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक्, आत्मनेपदं च । भिय आत्त्वाऽभावपक्षे विशेषमाह —
Footnotes (NSP 1915 ed.)
NSP p. 442 रपि प्रयोजनोऽर्थं इति ॥—दोषो णौ । दुष वैकृत्ये दिवादिः । णौ किम् । दोषः ॥—चित्तमिति । चिती संज्ञान इत्यस्मात् कः ॥—दुषयति दोषयति वेति । चित्तं दुष्यति स्नानसंध्यादौ विरक्तं भवति । तत्प्रयुङ्क्तं इत्यर्थः ॥—जृणातेस्त्विति । अपित्वादस्य मित्वं नेति भावः ॥—आखेटकमिति । मृगयेत्यर्थः ॥—रजयतीति । रजन्ति मृगाः, प्रहणमरणाद्यनुकूलव्यापारविषया भवन्ति, तान्मृगांस्ताद्द्रव्यापारविषयान्करोतीत्यर्थः ॥ ज्ञापादिश्चिन्त्य इति । तेन मित्वाद्रस्त्व इति भावः । स्वादिगणस्थस्य तु मित्वं नेत्युदाहरति—त्वाप्रयतीत्यादि ॥ अष्टुक्पुरुषविति । द्वित्वे
SK 2595 · A 7.3.40V
भियो हेतुभये षुक् ॥ २५९५ ॥
bhiyo hetubhaye ṣuk
Siddhānta-kaumudī
भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥
Tattvabodhinī
alignment inferredNSP p. 442
—ईकारान्तस्येति । तेन आलपक्षे भाययते इत्येव न लत्र पुगित्यर्थः
Bālamanoramā
भियो हेतुभये षुक् - भियो हेतुभये षुक् । भी ई ति । द्वयोः सवर्णदीर्घे भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकारप्रश्लेषलब्धमाह — ईकारान्तस्येति । तेन आत्त्वपक्षे न षुगिति फलितम् । णाविति । 'अर्तिह्यी' त्यतस्तदनुवृत्तेरिति भावः ।
SK 2596 · A 6.1.57V
नित्यं स्मयतेः ॥ २५९६ ॥
nityaṃ smayateḥ
Siddhānta-kaumudī
स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥
Tattvabodhinī
alignment inferredNSP p. 442
—करणादेव हीति । तथा च करणात् स्मये आलाभावेन पुरदुर्लभ इति भावः ॥—प्रयोज्यकर्त्रीति । यद्यपि प्रथमणिजर्थं प्रति मनुष्यवागेव प्रयोजिका । अत एव आत्वं प्रवृत्तं तथापि द्वितीयणिजर्थाभिप्रायेणेदमुक्तमिति मनोरमायाम् । केचित्तु प्रयोज्यस्य कर्त्री प्रयोजककर्त्रीति यावदिति प्रथमणिजर्थमित्यादेवेदं मुयोजमित्याहुः ॥—ण्यन्ताण्णाविति । राजा विस्मयते तं मनुष्यवाग्विस्मापयते तथा सिंहो विस्मापयन्नित्यर्थः । एवं च प्रथमणिचि हेतुमनुष्यवागिति आलपकावुपपन्नौ
Bālamanoramā
नित्यं स्मयतेः - नित्यं स्मयतेः । 'आदेच उपदेशे' इत्यत एचेति, आदिति चानुवर्तते । चित्फुरो॑रित्यतो णाविति, 'बिभेतेर्हेतुभये' इत्यतो हेतुभये इति च । तत्र च भयग्रहणं स्मयस्याप्युपलक्षणम्, अत्र तु स्मय एव विवक्षितः, स्मयतेर्भीत्यर्थकत्वाऽसंभवात् । तदाह — स्मयतेरेच इत्यादि । 'विभाषा लीयते' रित्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'बिभेतेर्हेतुभये' इति,नित्यं स्मयते॑रिति च आत्त्वविधौ,भीस्म्योर्हेतुभये॑इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह — हेतोश्चेद्भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशएषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाऽभावादात्त्वं षुक् च नेति भावः । आक्षिपति — कथमिति । रघुवंशकारव्ये — तमार्यगृह्रं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भ्याऽभावेन आत्त्वपुगनुपपत्तेरिति भावः । ननु मनुष्यवागेव तत्र प्रयोजिककेत्यत आह — मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणान्मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूताऽपि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह — अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव, किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यद्र्धाङ्गीकरेण परिहरति - सत्यमिति । विस्माययन्नित्येति । णौ आयादेशे स्मायीत्यस्माल्लटः शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव कालिदासो महाकविः प्रायुङ्क्त । 'विस्मापय' न्निति पकारपाठस्तु लेखप्रमादकृत इति भावः । यद्वेति । राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति — विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककत्र्री । राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूलकत्वादात्त्वे पुक् । मूलेप्रयोज्यकत्र्री॑त्येव पाठः सुगमः । तां विस्मापयमानां प्रयोजककत्र्री मनुष्यवाचं प्रयोजयति सिंहः विस्मापयति । स्मापीति ण्यन्ताण्णौ प्रथमणेर्लोपे स्मापि इत्यस्माच्चतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यप्रेत्य आह — तया सिंह इति । प्रयोजककर्तरि तृतीया । आत्मनेपदं भीस्मिप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः ।
SK 2597 · A 7.3.41V
स्फायो वः ॥ २५९७ ॥
sphāyo vaḥ
Siddhānta-kaumudī
णौ । स्फावयति ॥
Bālamanoramā
स्फायो वः - स्फायो वः । णाविति शेषपूरणम् ।अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः ।
SK 2598 · A 7.3.42V
शदेरगतौ तः ॥ २५९८ ॥
śaderagatau taḥ
Siddhānta-kaumudī
शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥
Bālamanoramā
शदेरगतौ तः - शदेरगतौ तः ।अर्तिह्यी॑त्यतो णावित्यनुवृतिंत मत्वाह — शदेर्णाविति । तोऽन्तादेश इति । तकार इत्यर्थः । अकार उच्चारणार्थः ।
SK 2599 · A 7.3.43V
रुहः पोऽन्यतरस्याम् ॥ २५९९ ॥
ruhaḥ po'nyatarasyām
Siddhānta-kaumudī
णौ । रोपयति । रोहयति ॥
Bālamanoramā
रुहः पोऽन्यतरस्याम् - रुहः पो । णावितिशेषपूरणम् ।
SK 2600 · A 6.1.48V
क्रीङ्जीनां णौ ॥ २६०० ॥
krīṅjīnāṃ ṇau
Siddhānta-kaumudī
एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥
Tattvabodhinī
NSP p. 442
—क्रीङ्जीनाम् । डुक्रीञ् द्रव्यविनिमये । इङ् अध्ययने । जि जये । अचिक्रपत् । अजीजपत् ॥—अध्यजीगपदिति । नात्र णिज्जिमित्तस्य गाडो द्वित्वे कर्तव्ये स्थानिवद्भावो निषेधो वा शङ्काः । यत्राभ्यासोत्तरखण्डे आद्योऽजवर्णोऽस्ति तत्रैव स्थानिवद्भावो निषेधो वेत्युक्तलात् । इह तु गाडः पूर्वं सति हि द्वित्वे ‘अजादेर्द्वितीयस्य’ इति णिच एव द्वित्वं भवेत्ततश्च इपरणिज्जिमित्तो गाड् ततश्च प्रक्रियायां परिनिष्ठितरूपे वा अवर्णवदुत्तरखण्डं दुर्लभं कीर्तयति साम्यादिति नोक्तशङ्कावकाशः ॥—अध्यापिपदिति । पिशव्दस्यात्र द्वित्वम्
Bālamanoramā
क्रीङ्जीनां णौ - क्रीङ्जीनां णौ ।डु क्रीञ् द्रव्यविनिमये,इङ् अध्ययने॑, 'जि जये' एषां द्वन्द्वः । एच आत्त्वमिति । 'आदेच उपदेशे' इत्तस्तदनुवृत्तेरिति भावः । क्रापयति जापयतीति । आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत् । अध्यापयतीति । इङ आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते ।
SK 2601 · A 2.4.51V
णौ च संश्चङोः ॥ २६०१ ॥
ṇau ca saṃścaṅoḥ
Siddhānta-kaumudī
सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । [(परिभाषा - ) संप्रसारणं तदाश्रयं च कार्यं बलवद्] इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥
Bālamanoramā
णौ च संश्चङोः - णौ च संश्चङोः । 'विभाषा ओ' रिति सूत्रमनुवर्तते ।ष्यङ संप्रसारण॑मिति चातदाह — सन्तपर इत्यादिना । नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह — संप्रसारण तदाश्रयं चेति । इदं वचनंलिटभ्यासस्ये॑ति सूत्रभाष्ये स्थितम् । एवं च अइआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह — अशूशवदिति । संप्रसारणाऽभावपक्षे अशिआयदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह — अलघुत्वादिति । संयोगापरकत्वादिति भावः । अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि ।अवाच्चालम्बनादविदूर्ययो॑रिति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते —
SK 2602 · A 6.1.49V
सिध्यतेरपारलौकिके ॥ २६०२ ॥
sidhyaterapāralaukike
Siddhānta-kaumudī
ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥
Tattvabodhinī
NSP p. 442
—सिध्यतेरपार—। श्यना निर्देशाद्भौवादिकस्याग्रहणम् ॥—तत्त्वं निश्चिनोतीति । तत्त्वनिश्चयश्चात्मविषयः स च परलोके उपयुज्यते
SK 2603 · A 6.1.55V
प्रजने वीयतेः ॥ २६०३ ॥
prajane vīyateḥ
Siddhānta-kaumudī
अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः SK 2364 । गूहयति ॥
Tattvabodhinī
NSP p. 442–443
—प्रजने । वीयतेरिति वी गतिप्रजनादावादादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति । वीतेरिति वक्तव्ये यका निर्देशाद्येनोऽपि ग्रहणम् । तस्यापि यकि संप्रसारणे वीधातुना समानरूपलात् । अतो द्वयोरपि प्रजनेऽयं आत्वं वा स्यात् । तत्र आत्वे तदभावे च यद्यपि व्येनः व्याययतीति रूपं तुल्यं ‘शाच्छासा—’ इति पुकोऽपवादतया युग्मिधानात् तथापि णिजन्तात्किपि व्याः व्यौ व्याः । आलाभावपक्षे व्यैः व्यायौ व्यायः इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपि ‘आदेच उपदेशेऽभिति’ इति न प्रवर्तने । उपे ॥ कर्तव्ये अजादेशस्य स्थानिवत्त्वान्निषेधाद्वा स्फुरित्युकारवतो द्वित्वं, ततः ‘चिस्फुरोणां’ इति वा आलम्
Bālamanoramā
प्रजने वीयतेः - प्रजन वीयतेः । 'आदेच उपदेशे' इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः ।
SK 2604 · A 6.4.90V
दोषो णौ ॥ २६०४ ॥
doṣo ṇau
Siddhānta-kaumudī
दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥
Bālamanoramā
दोषो णौ - दोषो णौ । 'ऊदुपधाया' इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।
SK 2605 · A 6.4.91V
वा चित्तविरागे ॥ २६०५ ॥
vā cittavirāge
Siddhānta-kaumudī
विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति ।
vārttika
रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः
(वार्तिकम्) ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ SK 2569 चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥
Bālamanoramā
वा चित्तविरागे - वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याण्णाविति फलितम् । विरागपदस्य विवरणम् - अप्रीततेति । इच्छाविरह इत्यर्थः । चित्तमिति । चित्तं दुष्यति । स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रस्व इति प्राग्व्याख्यातमपि स्मारयति । जनीजषिति । इदमपि व्याख्यातं स्मार्यते । जृणातेस्त्विति । श्नाविकरणस्य अषित्त्वान्न मित्त्वमिति भावः । रञ्जेर्णाविति । णेः कित्त्वाऽभावानिदितामित्यप्राप्तौ वचनम् ।मृगरमणटपदस्य विवरणम् — आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति ।रञ्ज रागेट शब्विकरणः ।रञ्जेश्चे॑ति शपि नलोपः । 'रजन्ति मृगाः' ग्राह्रा भवन्ति । तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति मृगांस्तृमदानेनेति । घातको मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति.तस्मात्स्वार्थणिचि कृतेचिस्फुरो॑रित्यात्वपक्षे पुकि मित्तवादुपधाह्रस्वे चपयतीति रूपम् । आत्त्वाऽभावे तु वृद्धावायादेशे मित्त्वाद्ध्रस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । श्नुविकरणस्य चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो' रित्यात्त्वे पुकि मित्त्वाऽभावाद्ध्रस्वाऽभावे चाययतीति रूपमित्यर्थः । स्फारयति — स्फोरयतीति ।चिस्फुरोरित्यात्त्वविकल्पः । अपुस्फरत् — अपुस्फुरदिति । स्फुर् इ अ त् इति द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतयास्फु॑रित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णावित्युत्तरखण्डे आत्त्वविकल्पः । आत्त्वपक्षे उपधाह्रस्व इति भावः ।
SK 2606 · A 8.4.21V
उभौ साभ्यासस्य ॥ २६०६ ॥
ubhau sābhyāsasya
Siddhānta-kaumudī
साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥
Tattvabodhinī
NSP p. 443
—उभौ सा—। ‘रपाभ्याम्—’ इति सूत्रे न इति षष्ठ्यन्तं प्रथमाद्वित्रचनान्ततया विपरिणम्यत इत्याह—उभौ नकाराविति । ननु साभ्यासस्येत्युत्तया उभयोरपि भविष्यतीत्युभौग्रहणं व्यर्थमिति चेत् । अत्राहुः । साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपत्र सिद्ध्येदित्युभौग्रहणम् । न च तुल्ययोगविवक्षायां ‘तेन सहेति तुल्ययोगे’ इति समासोऽत्र न स्यादिति शङ्क्यम् । तुल्ययोगग्रहणं प्रायिकं सकर्मकः सलोमक इत्युक्तलादिति । कैयटे तु उभावित्यस्मिन्नसति साभ्यास-स्यानितेणां भवतीत्युच्यमाने वचनसामर्थ्याच्च ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इत्यनाश्रीयमाणे अकृतणत्वस्य द्विर्वचने कृते अनन्तरस्यानितेरिति पूर्वेणैव णत्वस्य सिद्धलाद् व्यवहितनकारार्थमिदं णत्वं स्यात् । अनन्तरस्य तु तक्रकौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यत इति स्थितम् । साभ्यासस्येति किम् । प्राण् नमति । असत्यस्मिन् ‘अनितेः’ इति षष्ठी संवन्ध-सामान्ये स्यात्ततश्चानन्तर्यादिसंवन्धोऽपि गृह्येत । सति लस्मिन्नवयवावयविभावसंवन्धो लभ्यते । अतोऽर्थवत्साभ्यास-ग्रहणम् । यदि लिष्टानुरोधेनानितेरिति षष्ठी अवयवसंवन्धे व्याख्यायते अनितेश्च नकारद्वयाभावात्सामर्थ्याद्विर्वचनं प्राप्त एवानितिर्गृह्येत तदा साभ्यासस्येति मन्दप्रयोजनम् । इह पूर्वं णत्वं कृत्वा द्वित्वे कृते प्राणिणदित्यादिसिद्धावयमारम्भः ‘पूर्वत्रासिद्धीयमद्विर्वचने’ इत्यस्यानित्यलज्ञापनार्थः । तेन ऊर्णनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाभावः सिद्धः
Bālamanoramā
उभौ साभ्यासस्य - उभौ साभ्यासस्य । अनितेरित्यनुवर्तते । 'अन प्राणने' इति धातोरित्यर्थः । 'रषाभ्यां नो णः' इत्यधिकृतम् ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — साभ्यासस्येत्यादिना । निमित्ते सतीति । उपसर्गस्थे रेफे सतीत्यर्थः । प्राणिणदिति । प्र अन् इ अ त् इति स्थिते 'अनिते' रिति णत्वस्याऽसिद्धत्वान्नीत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवदानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः । न चपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इति निषेधाद्द्वित्वे कर्तव्ये णत्वस्याऽसिद्धत्वविरहेण परत्वात्कृते णत्वे ततः पश्चाद्द्वित्वेप्राणिण॑दिति सिद्धमिति वाच्यम्, अत एवपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यत्वविज्ञानात् ।तेनऊर्णुनावे॑त्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृतेऽभ्यासोत्तरखण्डे णत्वाऽबावसिद्धिरित्यन्यत्र विस्तरः ।
SK 2607 · A 2.4.46V
णौ गमिरबोधने ॥ २६०७ ॥
ṇau gamirabodhane
Siddhānta-kaumudī
इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥
vārttika
इण्वदिकः
(वार्तिकम्) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः SK 2574 । हो हन्तेः - SK 358 इति कुत्वम् । घातयति । ईर्ष्ययति ।
vārttika
ईर्ष्यतेस्तृतीयस्येति वक्तव्यम्
(वार्तिकम्) ॥ तृतीयव्यञ्जनस्य तृतीयैकाचेति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य SK 2176 इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥
Tattvabodhinī
alignment inferredNSP p. 443–444
—प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि प्रत्यायियत् । इह इणो णिचि कृते ‘इणो यण्’ इति यणं वाधित्वा परलाद्बुद्धिः । न च ‘ओः पुयण्जि—’ इति ज्ञापकात्पूर्वं द्वित्वं पश्चाद्बुद्धिरिति शङ्क्यम् । ‘अजादे-द्वितीयस्य’ इति णिचो द्वित्वेऽभ्यासोत्तरखण्डस्यावर्णपरलाभावात् ॥—इति वार्थ इति । व्याख्यानद्वयमभ्याकरारूढ-मिति भावः ॥—षकारस्येति । रेफस्य तु ‘न न्द्राः’ इत्यनेन निषेधादिति भावः ॥—द्वितीये त्विति । तृतीयस्यै-काच इति पक्षे ॥—सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः ॥—ऐर्ष्यियदिति । तृतीयव्यजनस्येति पक्षे इदमुदाहरणम् । ऐर्षिष्यदिति रूपस्यासाधुलमाशङ्क्योपपादयति—द्वितीयव्याख्यायामित्यादिना ।—द्वितीयस्यै-वेति । एकाच इति शेषः ॥—अप्रवृत्तेरिति । किं तु सन्नन्त एव प्रवर्तते । तत्र ह्यनुपदम् ईर्ष्यियिषति इत्युदाहरिष्यति । अर्थं उपयाञ्चायामित्यस्य आगर्वायलादात्मनेपदेन भाव्यमिति प्रार्थयन्तीति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्क्य तत्समर्थनायाह—निवृत्तप्रेषणादिति । उक्तं च—‘निवृत्तप्रेषणाद्धातोः प्राकृतेऽऽर्थे णिजुच्यते’ इति ॥—तेनेत्यादि । प्रार्थनां कुर्वन्तीति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थं प्रार्थनं प्रार्थः तं कुर्वन्ति प्रार्थयन्तीति व्याचक्षते तदसत् । धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करणस्य वक्ष्यमाणतया ‘अर्थवेद—’ इत्यापुगाग-मस्य दुर्वारलात् ॥ इति ण्यन्तप्रक्रिया ॥ क्लः कित्वेऽपि सनः कित्वस्याप्राप्तौ वचनम् । रुदिला । विदिला सुषिला । एतेषु गुणाभावः कित्वस्य फलम् । गृहीला । सुस्वा । पृष्ठा । एतेषु संप्रसारणमपि फलम्
Bālamanoramā
णौ गमिरबोधने - णौ गमिरबोधने ।इणो गा लुङी॑त्यत इण इत्यनुवर्तते । तदाह — इणो गमिरिति । मकारादिकार उच्चारणार्थः । गमयतीति । प्रापयतीत्यर्थः । प्रत्याययतीति । बोधयतीत्यर्थः । लुङि- प्रत्यायियत् । इणो णिचिइणो य॑णिति यणं बाधित्वा परत्वाद्वृद्धावायादेशो आय् इ अ त् इति स्थितेयी॑त्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद्वृद्धेर्निषेधः शङ्क्यः, 'अजादेर्द्वितीयस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाऽभावात् । 'इक स्मरणे' इत्यस्य इण्वत्त्वमुक्तं स्मारयति — इण्वदिक इति.अधिगमयतीति । स्मारयतीत्यर्थः । हन्तेर्ञिति णिति च तकारादेशमुक्तं णौ स्मारयति — हनस्तोऽतचिण्णलोरिति । कुत्वमिति ।हस्ये॑ति शेषः । उपधावृदिंध मत्वाह — घातयतीति । लुङि अजीघतत् । ईष्र्ययतीति । ईष्र्यतेर्णौ रूपम् । वक्तव्यमिति ।द्वित्व॑मिति शेषः । इति वाऽर्थ इति । 'न न्द्राः' इति सूत्रभाष्ये स्पष्टमिदम् । आद्ये इति ।तृतीयस्य व्यञ्जनस्ये॑ति पक्षे इत्यर्थः । षकारस्येति । अन्यथा इर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति रेफं वर्जयित्वा षकारसहितस्य 'ष्यि' इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐर्षिष्यदिति स्यात् । ऐर्ष्य्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारद्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः । द्वितीये इति ।तृतीयैकाच॑इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ।उक्तवार्तिक॑मिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईर्ष्य् इति प्रथमैकाच्, 'ष्यिस्' इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचः संभवात्तस्य द्वित्वविधिः । अन्यथाअजादेर्द्वितीयस्ये॑ति स्यादिति भाव) । ऐर्ष्य्यदिति । यकारमात्रस्य द्वत्वे णिलोपे संयुक्ताद्वियकारकं रूपम्ऽथ द्वितीयव्याख्यायां रूपमाह — ऐर्षिष्यदिति । तदुपपादयति — द्वितीयव्याख्यायामिति । ण्यन्ताच्चङि ईर्ष्य् इ अ त् इति स्थिते 'न न्द्राः' इति निषेधाद्रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति 'ष्यि' इत्यस्य द्वित्वं न तु यकारमात्रस्य, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र 'ष्यि' इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकारएव हल् इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह — हलादिशेषादिति । नतु तृतीयस्यैकाच द्वितीयव्याख्यायामिह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह — द्वित्वं तु द्वितीयस्यैवेति । 'एकाच' इति शेषः । कुत इत्यत आह — तृतीयाभावेनेति । ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, र्ष्यि इति द्वितीयैकाच् , न तु चङि परे तृतीयैकाजस्ति । अतोऽत्र 'तृतीयैकाच' इति वार्तिकं न प्रवर्तते । तस्माद्द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च 'तृतीयस्यैकाच' इति वार्तिकं सन्नन्त एव प्रवर्तते । ईष्र्यतेरामः सत्त्वेन ततः परस्यलिटोऽभावादिति बोध्यम् । ननुप्रार्थयन्ति शयनोत्थितं प्रियाः॑ इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिकणिजन्तं, तस्याऽऽगर्वीयतया आत्मनेपदप्रसङ्गात् । नापिहेतुमण्ण्यन्तं ,स्वाभीष्टं याचते इत्यर्थे तदसंभवात् । नहि प्रयोजकव्यापाराऽभावे तत्प्रवृत्तिरस्तीत्यत आह — निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषमः । संप्रति अविवक्षितप्रेषण इत्यर्थः । त्समाद्धातोर्भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तं — ॒निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते॑इति । इदं च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥ इति बालमनोरमायाम् हेतुमण्णिच्प्रक्रिया॥अथ पाञ्चमिकास्तत्र छयद्विधिः । — — — — — — — — — — —