PREMABASESiddhānta-kaumudī
Prakaraṇa 46 · SK 2489–2504

तिङन्तजुहोत्यादिप्रकरणम्

tiṅantajuhotyādiprakaraṇam · 16 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2489 · A 2.4.75V
जुहोत्यादिभ्यः श्लुः ॥ २४८९ ॥
juhotyādibhyaḥ śluḥ
Siddhānta-kaumudī
{$ {!1083 हु!} दानादनयोः $}। आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥ शपः श्लुः स्यात् ॥
Bālamanoramā
जुहोत्यादिभ्यः श्लुः - जुहोत्यादिभ्यः श्लुः । शप इति । 'अदिप्रभृतिभ्यः' इत्यस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु तीति स्थिते श्लुः । शप इत ।अदिप्रभृतिभ्यः॑इत्यतस्दनुवृत्तेरिति भावः । हु अ स्थिते शपः श्लौ कृते हु तीति स्थिते —
SK 2490 · A 6.1.10V
श्लौ ॥ २४९० ॥
ślau
Siddhānta-kaumudī
धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् SK 2479 इत्यत् । हुश्नुवोः - SK 2387 इति यण् । जुह्वति ॥
SK 2491 · A 3.1.39V
भीह्रीभृहुवां श्लुवच्च ॥ २४९१ ॥
bhīhrībhṛhuvāṃ śluvacca
Siddhānta-kaumudī
एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च SK 2481 इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् ।{$ {!1084 ञिभी!} भये$} । बिभेति ॥
Bālamanoramā
भीह्रीभृहुवां श्लुवच्च - भीहि । भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।कास्प्रत्यया॑दित्यत आम् लिटीत्यनुवर्तते । तदाह — एतेभ्य इति ।श्लुव॑दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह — आमि श्लाविव कार्यं चेति । जुहवामनिति । आमि श्लाविव द्वित्वे गुण इति भावः । जुहावेति । जुहुवतुः । जुहविथ जुहोथ । जुहुधि । हेर्धिरिति ।हुझल्भ्यो हेर्धि॑रित्यनेनेति भावः ।जुहवानी॑त्यत्र आटः पित्त्वेन अङित्तवाद्गुणे प्राप्ते तं बाधित्वाहुश्नुवो॑रिति यणि प्राप्ते आह — आटि परत्वादिति ।हुश्नुवो॑रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि — अजुहोत् अजुहुतामिति सिद्धवत्कृत्यसिजभ्यस्ते॑ति जुसिहुश्नुवो॑रिति यणमाशङ्क्याह — परत्वाज्जुसि चेति गुण इति अजुहवुरिति । अजुहोः अजुहुतमजुहुत अजुहवमजुहुव अजुहुम । अहौषीदिति । सिचि वृद्धिः । अहौष्टामित्यादि । अहोष्यत् । ञि भी भये इति । अनिट् । ईदन्तः । शपः स्लौ द्वित्वादि मत्वाह — बिभेतीति ।
SK 2492 · A 6.4.115V
भियोऽन्यतरस्याम् ॥ २४९२ ॥
bhiyo'nyatarasyām
Siddhānta-kaumudī
इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता ।{$ {!1085 ह्री!} लज्जायाम्$} । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय ।{$ {!1086 पॄ!} पालनपूरणयोः$} ॥
Tattvabodhinī
NSP p. 410
—भियोऽन्यतरस्याम् । सार्वधातुके किम् । वेभीयते । विभिये । हलादौ किम् । विभ्यति । क्रिति किम् । विभेति । केचिदत्र हलादौ क्रितीत्येतन्नातीवोपयुज्यते । इत्यविधानस्य विभित इत्यादौ चरितार्थलात् । विभ्यति विभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः
Bālamanoramā
भियोऽन्यतरस्याम् - भियोऽन्यतरस्याम् ।इद्दरिद्रस्ये॑त्यत इदिति,गमहने॑त्यतः क्ङितीति,ई हल्यघो॑रित्यतो हलीति,अत उ॑दित्यतः सार्वधातुके इति चानवर्तते इत्यभिप्रेत्य शेषं पूरयति — इकारः स्यादित्यादिना । बिभ्यतीति ।अदभ्यस्ता॑दित्यत् । बिभयामिति ।भीह्यीभृहुवां स्लुवच्चे॑ति श्लुवत्त्वाद्द्वित्वादीति भावः । बिभायेति । बिभ्यतुः । बिभयिथ — बिभेथ । बिभ्यिव बिभ्यिम । बेतति । भेष्यति । बिभेतु — बिभितात् — बिभीतात् बिभिताम् बिभीताम् — बिभ्यतु । बिभिहि — बिभीहि — बिभितात् — बिभीतात्, बिभीतम् — बिभीतम्, बिभित — बिभीत । बिभयानि बिभयाव बिभयाम । अबिभेत्, अबिभिताम् — अबिभीताम्, अबिभयुः । अबिभेः, अबिभितम् — अबिभीतम्, अबिभित-अबिभीत । अबिभयमबिभिव — अबिभीव अबिभम — अबिभीम । बिभियात् — बिभीयादित्यादि । आशीर्लिङ [भीयात्] भीयास्ताम् । अभैषीत् । अभेष्यत् । हृी लज्जायामिति । अनिट् । जिहियतीति ।अदभ्यस्ता॑दित्यत् । इयङ् । जिह्ययामिति । जिह्ययामिति । ह्येता । ह्येष्यति । जिह्येतु — जिह्यीतात् । जिह्यीहि । जिह्ययाणि । अजिह्येत् । जिह्यीयात् । ह्यीयात् । अह्रैषीत् । अह्येष्यत् । पृधातुः सेट् । लटस्तिपि शपः स्लौ द्वित्वे पृ पृ इति स्थिते —
SK 2493 · A 7.4.77V
अर्तिपिपर्त्योश्च ॥ २४९३ ॥
artipipartyośca
Siddhānta-kaumudī
अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥
Tattvabodhinī
NSP p. 410
—अर्तिपिपत्योश्च । अर्तेरुदाहरणमियतीति वक्ष्यति
Bālamanoramā
अर्तिपिपर्त्योश्च - अर्तिपिपत्र्योश्च । 'अत्र लोपः' इत्यस्मादभ्यासस्येति,भृञामि॑दित्यस्मात् इदिति,निजां त्रयाणा॑मित्यतः श्लाविति चानुवर्ततते इत्यभिप्रेत्य शेषं पूरयति - अभ्यासस्येत्यादिना । तथाच अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह —
SK 2494 · A 7.1.102V
उदोष्ठ्यपूर्वस्य ॥ २४९४ ॥
udoṣṭhyapūrvasya
Siddhānta-kaumudī
अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च SK 354 इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् SK 2383ल इति गुणे प्राप्ते ॥
Tattvabodhinī
NSP p. 410
— उदोष्ट्य- । अङ्गावयवेति किम् । ऋ गतौ त्रयादिस्तस्मात् कप्रत्यये ‘ध्युकः किति’ इति इण्निषेधात् समीर्ण इति भवति । अन्यथा तु समूर्ण इति स्यात्
Bālamanoramā
उदोष्ठ्यपूर्वस्य - उदोष्ठ ।ऋत इद्धातो॑रित्त ऋत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठन्तमोष्टयस्य विशेषणम् । अपरं तु ऋता विशेष्यते । तदन्तविधिः । तदाह — अङ्गावयववौष्ठएत्यादिना । अङ्गावयवेति किम् । समीर्णः । 'ऋ गतौ' क्र्यादिः । तस्मात्संपूर्वात् क्तप्रत्यये श्र्युकः किती॑तीण्निषेधेऋत इद्धातो॑रिति इत्त्वे रपरत्वेहलि चे॑ति दीर्घेरदाभ्या॑मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम् । तत्र मकारात्मकौष्टपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् ।अङ्गावयवे॑त्युक्तौ तु मकारस्य ओष्ठस्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति — गुणवृद्धी इति । इममिति । उत्त्वविधिमित्यर्थः । पिपर्तीति । उत्त्वात्परकत्वाद्गुण इति भावः । पिपृ तस् इति स्थिते आह -उत्त्वमिति । ङित्त्वेन गुणाऽभावादुदोष्ठएत्युत्त्वमिति भावः । पिपुरतीति । अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः । पिपर्षि पिपूर्थ । पिपर्मि पिपूर्वः । पिपूर्मः । लिटि णल्याह — पपारेति । उत्त्वात्परत्वाद्वृद्धिरिति भावः ।अर्तिपिपत्र्योश्चे॑त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः । प्राप्ते इति । गुणे नित्यं प्राप्ते इत्यर्थः ।
SK 2495 · A 7.4.12V
शॄदॄप्रां ह्रस्वो वा ॥ २४९५ ॥
śṝdṝprāṃ hrasvo vā
Siddhānta-kaumudī
एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् ।{$ {!1087 डुभृञ्!} धारणपोषणयोः$} ॥
Tattvabodhinī
NSP p. 410
—शुद्धप्रां- । शु हिंसायाम् । दृ विदारणे । इमौ त्रयादी ॥—पक्षे गुण इति । ‘ऋच्छत्यूताम्’ इत्यनेन ॥—पप्रतुरिति । हस्वपक्षे यण् । ननु हस्वप्रहणमिह मास्तु गुणानुवृत्त्या तस्यैव विकल्पोस्तु । तथाच यणादेशेन पप्रतुः शश्वतुरित्यादि सिध्यत्येव । गुणपक्षे तु पपरतुः शशरतुरित्याद्यपि सिध्यतीति चेत् । मैवम् । गुणाभावपक्षे ‘ऋत इद्धातोः’ इतीत्यप्रसङ्गात् । न चान्तरङ्गलावणेव स्यादिति वाच्यम् । वार्णादाङ्गस्य वलीयस्त्वात् । डुभृञ् । ‘द्वितः किः’ । भृत्रिमम्
Bālamanoramā
शृदॄप्रां ह्रस्वो वा - शृदृप्राम् । शृ दृ पृ एषां द्वन्द्वः । लिटीति ।दयतेर्दिगि लिटीटत्यतस्तदनुवृत्तेरिति भावः । यद्यपि पूर्वसूत्रेषु क्वापि कितीति न दृष्टं तथापि अस्यऋच्छत्यृता॑मिति गुणाऽपवादत्वाद्गुणस्य च तस्य किदर्थत्वात्कितीत्युक्तम् । पप्रतुरिति । पपृ अतुस् इति स्थिते ऋकारस्य ह्रस्वे तस्य यणिति भावः । गुणपक्षे आह -पपरतुरिति । गुण एव तु न विकल्पितः, गुणाऽभावेवार्णादाङ्गं बलीयः॑ इति यणं बाधित्वाउदोष्ठए॑त्युत्त्वप्रसङ्गात् । पपरिथ पप्रथुः — पपरथुः पप्रपपर । पपार पपर पप्रिव पपरिव । 'वृतो वा' इति दीर्घविकल्पं मत्वा आह -परिता परितेति । परिष्यति — परीष्यति । पिपर्तु — पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि — पिपूर्तात् पिपूर्तम् पिपूर्त । पिपराणि पिपराव पिपराम । लङ्याह — अपिपरिति । अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ङ्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति । अभ्यस्तत्वात् जुस् । कृतेजुसि चे॑ति गुणे रपरत्वम् । अपिपः अपिपूर्तमपिपूर्त । अपिपरमपिपूर्व अपिपूर्म । केचिदिति । अन्ये आचार्या इत्यर्थः । ह्रस्वान्तत्वपक्षेउदोष्ठए॑त्युत्त्वं नेति मत्वा आह -पिपृत इति । ह्रस्वान्तस्य अनिट्त्वाल्लुडादौ पर्तेत्यादि । पिपृहि । अपार्षीदिति । ह्रस्वान्तस्य अनिट्त्वान्न सिज्लोप इति भावः । नन्वाचार्यान्तरसंमतं ह्रस्वान्तत्वं कुतोऽस्माभिरादर्तव्यमित्यत आह — पाणिनीयेति । पाणिनिसंमतदीर्घान्तत्वस्यैवाश्रयणेतं रोदसी पिपृत॑मित्यादौउदोष्ठ॑त्युत्त्वापत्त्या॑ऋकारस्य ह्रस्वस्य श्रवणाऽनापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादत्यर्थः । डुभृञिति । अनिडयम् । ञित्त्वादुभयपदी । श्लौ सति द्वित्वनादौ बिभर्तीत्यादि स्थितम् ।
SK 2496 · A 7.4.76V
भृञामित् ॥ २४९६ ॥
bhṛñāmit
Siddhānta-kaumudī
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत ।{$ {!1088 माङ्!} माने शब्दे च$} ॥
Tattvabodhinī
NSP p. 410
—भृञामित् । णिजां त्रयाणामित्यतोऽनुवर्तनादाह—एषां त्रयाणामिति । केचित्तु कपिजलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः । त्रयाणां किम् । जहाति । श्लौ किम् । वभार
Bālamanoramā
भृञामित् - भृञामित् । भृञामिति बहवचनाद्भृञादीनामिति लभ्यते । 'अत्र लोपः' इत्यतोऽभ्यासस्येति,निजां त्रयाणां गुणः श्लौ॑ इत्यतस्त्रयाणां श्लाविति चानवर्तते । तदाह — भृञ् माङित्यादिना । बिभ्रतीति । अभ्यस्तत्वाददादेशे यण् । बिभर्षि बिभृथः बिभृथ । बिभर्मि बिभृवः बिभृमः । बिभृते बिभ्राते बिभ्रते । बिभृषे बिभ्राथे । इति सिद्धवत्कृत्य आह — बिभृध्वे इति । बिभ्रे बिभृवहे बिभृमहे । श्लुवद्भावादिति ।भीह्यीभृहुवा॑मित्यनेनेति भावः । बिभरामासेति । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो नेति भावः । बभारेति । श्लावित्यनुवृत्तेर्भृञामिदिति नेत्त्वम् । बभ्रतुः बभ्रुरित्यपि ज्ञेयम् ।कृसृभृवृ॑इति लिटि इण्निषेधः । थल्यपिअचस्तास्व॑दिति नित्यमिण्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् । तदाह - बभर्थेति । बभ्रथुः बभ्र । बभार — बभर इति सिद्धवत्कृत्य आह - बभृवेति । क्रादित्वादिण्निषेध इति भावः । बभ्रे बभ्राते बभ्रिरे । बभृषे बभ्राथे बभृढ्वे । बभ्रे बभृवहे बभृमहे । भर्ता । भरिष्यति । भरिष्यते । बिभर्तु — बिभृतात् बिभृताम् बिभ्रतु । इति सिद्धवत्कृत्य आह — बिभृहीति । हेरपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । बिभृतात् बिभृतम् बिभृतेति सिद्धवत्कृत्य आह - बिभराणीति । आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः । बिभराव बिभराम । लङ्याह — अबिभरिति । अबिभृ त् इति स्थिते गुणे रपरत्वे हलङ्यादिलोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति । अभ्यस्तत्वात् झेर्जुस् ।जुसि चे॑ति गुण- । अबिभः अबिभृतमबिभृत । अबिभरमबिभृव अबिभृम । अबभृत अबिभ्रातामबिभ्रत । अबिभृथाः अबिभ्राथामबिभृध्वम् । अबिभ्रि अबिभृवहि अबिभृमहि । आशीर्लिङ्याह - भ्रियादिति । 'रिङ्शयग्लिङ्क्षु' इति रिङ् । आत्मनेपदे आसीर्लिङ्याह - भृषीष्टेति ।उश्चे॑ति कित्त्वान्न गुणः । अभार्षीदिति । अनिट्त्त्वान्न सिज्लोपः । सिचि वृद्धिः । रपरत्वमिति भावः । अभार्ष्टामित्यादि । आत्मनेपदे लुङ्याह — अभृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । अभृषातामित्यादि । माङ् माने इति । अनिट् । ङित्त्वादात्मनेपदी । श्लौ द्वित्वेभृञामि॑दिति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते —
SK 2497 · A 6.4.113V
ई हल्यघोः ॥ २४९७ ॥
ī halyaghoḥ
Siddhānta-kaumudī
श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः - SK 2483 इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त ।{$ {!1089 ओहाङ्!} गतौ $}। जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते ।{$ {!1090 ओहाक्!} त्यागे$} । परस्मैपदी । जहाति ॥
Tattvabodhinī
NSP p. 410
—ई हल्यघोः ॥ भ्राभ्यस्तयोरिति । लुनीते पुनीते । क्रितीति किम् । लुनाति । अघोः किम् । धत्तः दत्तः ॥—मिमीते इति । ‘कुमास्था-’ इतीत्यमिह न प्रवर्तते तत्रार्धधातुक इत्यनुवृत्तेः । अन्यथा भातः । माथः । गाते । गासे इत्यादावतिप्रसङ्गात् । अत एव काशिकायामुक्तमार्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति
Bālamanoramā
ई हल्यघोः - ई हल्यघोः । 'ई' इति लुप्तप्रथमाकम् । 'श्नाब्यस्तयोरातः' इत्यनुवर्तते ।गमहने॑त्यतः क्ङितीति, 'अत उत्सार्वधातुके' इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते । तदाह — श्नाभ्यस्तयोरित्यादिना । आल्लोप इति ।अजादौ क्ङिति सार्वधातुके॑ इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिद्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मिमीताम् मिमाताम् मिमतात् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै । अमिमीत अमिमाताममिमत । अमिमीथाः अमिमाताममिमीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः । मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त अमासाताममासत । अमास्थाः अमासाथाममाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गातविति । अनिट् । ओकारः ककारश्च इत् । जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः । तसादौ 'श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते —
SK 2498 · A 6.4.116V
जहातेश्च ॥ २४९८ ॥
jahāteśca
Siddhānta-kaumudī
इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥
Tattvabodhinī
NSP p. 410
—जहातेश्च । क्रितीति किम् । जहाति । सार्वधातुके किम् । हीयते ॥—चादिदीताविति । अत एव भट्टिः प्रायुङ्क्ता । ‘जहिहि जहीहि जहाहि रामभार्याम्’ इति
Bālamanoramā
जहातेश्च - जहातेश्च ।इद्दरिद्रस्ये॑त्यत इदिति,भियोऽन्यतरस्या॑मित्यतो हलीति चत्यभिप्रेत्य शेषं पूरयति — इत्स्याद्वेति । जहतीति । अब्यस्तत्वाददादेशेश्नाब्यस्तयो॑रित्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ — जहाथ जहथुः दजह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम् — जहीताम् जहतु ।
SK 2499 · A 6.4.117V
आ च हौ ॥ २४९९ ॥
ā ca hau
Siddhānta-kaumudī
जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥
SK 2500 · A 6.4.118V
लोपो यि ॥ २५०० ॥
lopo yi
Siddhānta-kaumudī
जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एर्लिङि SK 2374 । हेयात् । अहासीत् ।{$ {!1091 डुदाञ्!} दाने$} । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । घ्वसोः -SK 2471 इत्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित ।{$ {!1092 डुधाञ्!} धारणपोषणयोः $}। दानेऽप्येके । प्रणिदधाति ॥
Tattvabodhinī
NSP p. 410
—लोपो यि । सार्वेति किम् । हेयात् ॥—प्रणिददातीति । ‘नेर्गद-’ इति णत्यम् ॥—दत्त इति । ‘भ्राभ्यस्तयोः’ इत्यालोपः । अघोरित्युक्तलादीत्वं तु न ॥—अदादिति । ‘गातिस्था-’ इति सिचो लुक
Bālamanoramā
लोपो यि - लोपो यि ।जहातेश्चे॑त्यतो जहातेरिति, 'श्नभ्यस्तयोरातःर' इत्यत आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते ।यी॑ति सप्तम्यन्तं सार्वधातुकविशेषणम् । तदादिविधिः । तदाह — जहातेरित्यादिना ।जहातेश्चे॑त्यस्यापवादः । आशीर्लिङ्याह — एर्लिङीति । अहासीदिति ।यमरमे॑ति सगिटौ । अहास्यत् । डु दाञ् । उभयपदी । अनिट् । प्रणिददातीति ।नेर्गदे॑ति णत्वम् । दत्त इति । ददा तस् इति स्थितेअघो॑रिति पर्युदासादीत्त्वाऽभावेश्नाभ्यस्तयो॑रित्याल्लोपः । ददतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोप इति भावः । ददासि दत्थः दत्थ । ददामि दद्वः दद्मः । दत्ते इति । ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । ददौ इति । ददतुः दधुः । ददिथ — दधाथ ददथुः दद । ददौ ददिव ददिम । ददे ददाते ददिरे । ददिषे ददाथे ददिध्वे । ददे ददिवहे ददिमहे । दाता । दास्यति दास्यते । ददातु — दत्तात् दत्ताम् ददतु । इति सिद्ध्वत्कृत्य देहि इत्यत्र आह - घ्वसोरिति । दत्तात् दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् ददताम् । दत्स्व ददाथाम् दद्ध्वम् । ददै ददावहै ददामहै । लङ्याह - अददादिति । अददुरिति । अददुरिति । अभ्यस्तत्वाज्जुस् । अददाः अदत्तम् । अदत्त । अददामदद्व अदद्म । विधिलिङ्याह — दद्यादिति । स्नाभ्यस्तयो॑रित्याल्लोपः । आशीर्लिङि तुएर्लिङी॑त्येत्त्वमभिप्रेत्य आह — देयादिति । दासीष्ट । लुङ्याह - अदादिति ।गातिस्थे॑ति सिचो लुगिति भावः । अदाः अदातमदात । अदामदाव अदाम । लुङ्यात्मनेपदे आह — अदितेति । अदा स् त इति स्थितेस्थाध्वोरिच्चे॑ति दाधातोरन्त्यस्य इकारः । सिचः कित्त्वं च । कित्त्वान्न गुणः ।ह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अदिषातामदिषत । अदिथाः अदिषाथामदिढ्वम् । अदिषि अदिष्विहि अदिष्महि । अदास्यत् अदास्यत् । डु धाञ् । ञित्त्वादुभयपदी । अनिट् । प्रणिदधातीति ।नेर्गदे॑ति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे श्नाभ्यस्तयो॑रित्याल्लोपे दध् तस् इति स्थिते —
SK 2501 · A 8.2.38V
दधस्तथोश्च ॥ २५०१ ॥
dadhastathośca
Siddhānta-kaumudī
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । दध्वः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ॥ अथ त्रयः स्वरितेतः ॥{$ {!1093 णिजिर्!} शौचपोषणयोः$} ॥
Tattvabodhinī
NSP p. 410–411
—दुभृस्तयोश्च । दध इति कृतद्विवचनाभ्यासकार्यो भावेव गृह्यते । न तु वक्ष्यतीति ॥—अचष्ट—द्विरुक्तस्येति ।—श्रापन्तस्य किम् । दधाति । नन्वेवं धत्त इत्यादावपि न स्यादाल्लोपस्य स्थानिवत्त्वेनाश्चषन्तलादत आह—वचनसामर्थ्यादिति ॥—णिजाम् । श्लाविति किम् । निनेज
Bālamanoramā
दधस्तथोश्च - दधस्तथोश्च । धाधातोः कृतद्वित्वस्य दधा इत्यस्य 'दधः' इति षष्ठन्तम् । 'एकाचो बशः' इत्यतो झषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोद्र्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । चकारात्स्ध्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते । तदाह — द्विरुक्तस्येत्यादिना । तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात् । ननुश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थधत्त इति । धस्य चर्त्वेन त इति भावः । दधतीति ।अदभ्यस्ता॑दित्यदादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । धत्थ इति । थकारपरकत्वाद्भष् । धत्थ । दधामि । दध्व इति । परनिमित्ताऽभावान्न भष् । दध्मः । धत्ते इति । दधाते दधते । धत्से इति । सकारपरकत्वाद्भषिति भावः । दधाथे । धद्ध्वे इति । दध् ध्वे इति स्थिते ध्वशब्दपरकत्वाद्भषिति भावः । दधे दध्वहे दध्महे । दधौ । दधे । धाता । धास्यति धास्यते । दधातु — धत्तात् दधतु । धेहीति ।ध्वसो॑रित्येत्त्वाभ्यासलोपाविति बावः । धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै । अदधात् अदधात् अधत्त । दध्यात् दधीत । धेयात् धासीष्ट । अधात् । अधितेति ।स्थाध्वोरिच्चे॑ति इत्त्व#एह्रस्वादङ्गा॑दिति सिचो लोप इति भावः । अधास्यत् अधास्यत । णिजिर्धातुः । अनिडयं णोपदेशः । इरित् । इकारस्य प्रत्येकमित्त्वाऽभावान्न नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले आत्मनेपदं भवत्येव । तस्मादयमप्युभयुपदी । एवं विजिरपि ज्ञेयः । निजां त्रयाणाम् । निजां त्रयाणाम् । निजामिति बहुवचनात्तदादीनां ग्रहणम् । 'अत्र लोपः' इत्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — णिजिरित्यादिना । नेनेक्तीति । श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखण्डस्यानेन गुणे चोः कुत्वमिति भावः । अभ्यस्तत्वाददादेशं मत्वा आह — नेनिजतीति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिध्वे । नेनिजे नेनिजवहे नेनिज्महे । निनेज निनिजतुः निनिजुः । निनेजिथ निनिजथुः निनिज । निनेज निनिजिव निनिजिम । निनिजे निनिजाते निनिजिरे । निनिजिषे निनिजाथे निनिजिध्वे । निनिजे निनिजिवहे निनिजिमहे । नेक्ता । नेक्ष्यति । नेनेक्तु नेनिक्तात् नेनिक्ताम् नेनिजतु । नेनिग्धीति । अपित्त्वेन ङित्त्वान्न गुणः । हेर्धिः । नेनिक्तात् नेनिक्तम् नेनिक्त । 'आडुत्तमस्य' इति पित्त्वेन अङित्त्वाल्लघूपधगुमे प्राप्ते
SK 2502 · A 7.4.75V
निजां त्रयाणां गुणः श्लौ ॥ २५०२ ॥
nijāṃ trayāṇāṃ guṇaḥ ślau
Siddhānta-kaumudī
णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥
SK 2503 · A 7.3.87V
नाभ्यस्तस्याचि पिति सार्वधातुके ॥ २५०३ ॥
nābhyastasyāci piti sārvadhātuke
Siddhānta-kaumudī
लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ।{$ {!1094 विजिर्!} पृथग्भावे$} । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् SK 2536 इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि ।{$ {!1095 विष्लृ!} व्याप्तौ$} । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि SK 2337 इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥ अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥{$ {!1096 घृ!} क्षरणदीप्त्योः$} । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् SK 2496, बहुलं छन्दसि SK 3598 इति इत्वम् ।{$ {!1097 हृ!} प्रसह्यकरणे$} । अयं स्रुवो अभिजिहर्ति होमान् ।{$ {!1098 ऋ!} {!1099 सृ!} गतौ$} । बहुलं छन्दसि SK 3598 इत्येव सिद्धे अर्तिपिपर्त्योश्च SK 2493 इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे SK 2290 इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति - SK 2384 इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ।{$ {!1100 भस!} भर्त्सनदीप्त्योः$} । बभस्ति । घसिभसोर्हलिच SK 3550 इत्युपधालोपः । झलो झलि SK 2281 इति सलोपः । बब्धः । बप्सति ।{$ {!1101 कि!} ज्ञाने$} । चिकेति ।{$ {!1102 तुर!} त्वरणे$} । तुतोर्ति । तुतूर्तः । तुतुरति ।{$ {!1103 धिष!} शब्दे$} । दिधेष्टि । दिधिष्टः ।{$ {!1104 धन!} धान्ये$} । दधन्ति । दधन्तः । दधनति ।{$ {!1105 जन!} जनने$} । जजन्ति ॥
Tattvabodhinī
NSP p. 411
—नाभ्यस्तस्य—। अभ्यस्तस्य किम् । द्वेषाणि । अचि किम् । वेवेष्टि । पिद्ग्रहणम् ‘उतो वृद्धिर्लुङ्कि हलि’ इत्युत्तरार्थम् । सावेति किम् । निनेज ॥—वहुलं छन्दसीतीत्वमिति । एतच्च पूर्वोक्तान्वयि ॥—इयतीति । अभ्यासस्य इयङ् अभ्यासादुत्तरस्य तु गुणः ॥—इयतीति । ‘अदभ्यस्तात्’ इत्यत् ॥— अर्यादिति । ‘गुणोऽर्ति—’ इति गुणः ॥—आरदिति । ‘सर्तिशास्ति—’ इत्यङि ‘ऋद्दशोऽङि—’ इति गुणः ॥—वृद्ध्य इति । तसस्तकारस्य ‘श्लषस्तथोः—’ इति धलम् ॥—तुतूर्त्त इति । ‘हलि च’ इति दीर्घः । धन धान्ये । धान्यार्जन इत्यर्थः ॥—दधन्त इति । छान्दसलात् ‘अनुनासिकस्य—’ इति नेह दीर्घ इत्याहुः
Bālamanoramā
नाभ्यस्तस्याचि पिति सार्वधातुके - नाभ्यस्स्याचि । 'मिदेर्गुणः' इत्यतो गुण इति,पुगन्ते॑त्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लघूपधगुणो न स्यादिति । नेनिजानीति । नेनिजाव नेनिजाम । नेनिक्ताम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै । नेनिजामहै । लङि परस्मैपदे आह — अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्तमनेनिक्त । अनेनिजम् ।नाभ्यस्तस्ये॑ति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुङ्याह — अनिजदिति । इरित्त्वादङिति भावः । अनिक्तेति ।झलो झली॑ति सिज्लोपः । अनिक्षातामित्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षेविज इ॑डिति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । ओ विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्चरुधादिभ्यः श्न॑मिति श्नम्विकरणावपि ताविति भावः । विष्लृ व्याप्तौ इति । लृदित्, उभयपदी, अनिट् । णिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकास्य टः । सिपिषढो॑रिति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वेविष्ठ । वेविड्ढि । अविषदिति । लृदित्त्वादङिति भावः । तङि क्स इति ।शल इगुपधा॑दित्यनेनेति भावः । आ गणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वेऽभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति ।जघम्र्यग्न हविषा घृतेन॑ इति बह्वृचमन्त्रपाठः ।जघम्र्यग्न मनसा घृतेने॑ति तैत्तिरीयपाठः । अत्रेत्त्वमभ्यासस्य आह — भृञामिदिति । ननु तत्र त्रयाणामेव ग्रहणमित्यत आह- बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघ्रुः । जघर्थ जघ्रथुः जघ्र । जघार — जघर । जघ्रिव । घरिष्यति । जघर्तु — जघृतात् । जघ्रतु । जघृहि । जघराणि । अजघः अजघृतामजघरुः । अजघरमजघृव । जघृयात् । घ्रियात् । अघार्षीत् । अघरिष्यत् । ह्म इति । घृधातुवद्रूपाणि । अयं रुआउवो अभिजिहर्ति होमानिति । रुआउवे साद्यमाने याजमानो मन्त्रः । अत्रापि अभ्यासस्य इत्त्वं चान्दसमिति भावः । ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित्प्रयोगं समर्थयति — बहुलमिति । 'भृञामित्' 'अर्तिपिपत्र्योश्च'बहुलं छन्दसी॑ति सूत्रस्थितिः । तत्रबहुलं छन्दसी॑त्येव ऋधातोरित्त्वसिद्धेःअर्तिपिपत्र्योश्चेटत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चाऽत्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोःअर्तिपिपर्त्योश्चे॑त्यत्र ग्रहणम्, पिपर्तिसाहचर्याच्च, श्लवित्यस्य अभ्यासग्रहमस्य चानुवृत्तेश्चेत्यलम् । अभ्यासस्यासवर्णे इति । शपः श्लौ ऋ-तीतिस्थिते द्वित्वे उरदत्त्वं बाधित्वाअर्तिपिपत्र्योश्चे॑त्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् तीति स्थितेअभ्यासस्याऽसवर्णे॑इतीयङि इयतीति रूपमित्यर्थः । इयृत इति । पूर्ववदेव द्वित्वादि । तसोऽपित्त्वेन ङित्त्वाद्गुणनिषेध इति भावः । इय्रतीति । पर्ववदेव द्वित्वादि । अभ्यस्तत्वाददादेशः । ङित्त्वान्न गुणः । उत्तरखण्डस्य ऋकारस्य यण् रेफ इति भावः । इयर्षि इयृथः । इयर्मि इयृवः इयृमः । लिटआह - आरेति । आरिव । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इतीडिति भावः । इयर्तु इयृतात् इयृताम् इय्रतु । इयृहि — इयृतात् इयृतम् इयृतैयराणीति । आटः पित्त्वेनाऽङित्त्वान्न गुणनिषेध इति भावः । इयराव । इयराम । लङ्याह — ऐय इति । श्लौ ऋ त् इति स्थिते द्वित्वेऽभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङ्यादिलोपे रेफस्य विसर्गे इय इति स्तिते आटि वृद्धौ #ऐय इति रूपमिति भावः । न चलावस्थायाम॑डिति पक्षे आट#इ वृद्धौ रपरत्वे आर् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घे हल्ङ्यादिलोपे रेफस्य विसर्गे ऐयरुरिति । ऐयः ऐयृतम् ऐयृत ।ऐयरम् ऐयृव ऐयृम । विधिलिङ्याह — इयृयादिति । यासुटो ङित्त्वाद्गुणनिषेध इति भावः । इयृयातामित्यादि । आशीर्लिङ्याह - अर्यादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङक्षु' इति रिङ् प्राप्तः । तं बाधित्वागुणोऽर्तिसंयोगाद्यो॑रिति गुण इति भावः । लुङ्याह — आरदिति ।सर्तिशास्त्यर्तिभ्यश्चे॑त्यङिऋदृशोऽङी॑ति गुण इति भावः । आरिष्यत् । तदेवमृधातुं निरूप्य सृधातुं निरूपयति — ससर्तीति । ससृतः सरुआतीत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः अससृतामससरुः । रिउआयात् । असरत् । भस भत्र्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् तीति स्थिते द्वित्वेऽभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह — घसिभसोरिति ।घसिभसोर्हलि चे॑त्यस्यायमर्थः — छन्दसि अनयोरुपधाया लोपः स्याद्धलादावजादौ च क्ङिति परे इति । तथा च बभस् तसित्यत्र उपधालोपेझलो झली॑ति सकारलोपे तकारस्यझषस्तथो॑रिति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अतीति स्थितेघसिभसो॑रित्युपधालोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्वः बप्स्मः । बभास बप्सतुः बप्सः । बभसिथ बप्सथुः बप्स । बभास बभस बप्सिव बप्सिम । भसिता । भसिष्यति । बभस्तु — बब्धात् बब्धाम् बप्सतु । बब्धि — बब्धात् बब्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबब्धामबप्सुः । अबभः अबब्धमबब्ध । अबप्समबप्स्व । अबप्स्म । बप्स्यात् । भस्यात् । अभासीत्-अभसीत् । अभसिष्यत् । कि ज्ञाने । चिकेतीति । किधास्तोस्तिपि श्लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इतिभावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः । चिकिमः । चिकाय चिक्यतुः ।चिक्युः । चिकयिथ — चिकेथ । चिक्यिव । केता । केष्यति । चिकेतु — चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । अचिकेत् अचिकितामचिकयुः । अचिकेः । अचिकयमचिकिव । चिकियात् । कीयात् । अकैषीत् । अकेष्यत् । तुर त्वरणे इति । तुतूर्त इति ।हलि चे॑ति दीर्घः । तुतोर्षि तूतूर्थः तुतूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः तुतोरिथ । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु — तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् ।अतुतूरव । तुतूर्यात् । तूर्यात् । अतोरीत् । अतोतुतुराणि । अतुतोः अतुतूर्ताम् । अतुतुरुः । अतुतोः । अतुतुरम् । अतुतूर्व । तुतूर्यात् ।तूर्यात् । अतोतीत् । अतोरिष्यत् । धिष शब्दे । सेट् । दिधेष्टीति । श्लौ द्वित्वादौ लघुपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति.दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । दिधिषिव । धेषिता । धेषिष्यति । दिधेष्टु — दिधिष्टात् । दिधिषतु । दिधिड्ढि । दिधिषाणि । अदिधेट् अदिधिष्टामदिधिषुः । अदिधिषमदिधिष्व । दिधिष्यात् । धिष्यात् । अधेषीत् । अदेषिष्यत् । धन धान्ये इति । धान्याऽर्जने इत्यर्थः । दधन्त इति । क्षमूष् सहने इति धातोश्चक्षंसे इतिवदनुनासिकस्य क्वीति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । दधनिथ । दधनिव । धनिता । धनिष्यतु । दधन्तु — दधन्तात् दधन्ताम् दधनतु ।दधंहि.दधनानि । अदधन् अदधन्तामदधनुः । अद्धन् अदधन्तमदधन्त ।अदधनमदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् अधनीत् । अधनिष्यत् । जन जनने इति । उत्पत्तौ कर्मकः । उत्पादने सकर्मकः ।
SK 2504 · A 6.4.42V
जनसनखनां सञ्झलोः ॥ २५०४ ॥
janasanakhanāṃ sañjhaloḥ
Siddhānta-kaumudī
एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ।{$ {!1106 गा!} स्तुतौ$} । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥
Tattvabodhinī
alignment inferredNSP p. 411–412
—जनसनखनाम्—। जन जनने, जनी प्रादुर्भावे इत्युभयोरपि ग्रहणम् । झलादौ सनि सिपासति ॥—जज्ञतीति । ‘गमहन—’ इत्युपधालोपः । —जजायादिति । ‘ये विभाषा’ इति वा आलम् । एवं जायादित्यत्रापि ॥—जिगातीति । ‘वहुलं छन्दसि’ इति इत्यम् । इति जुहोलादयः ॥ सिद्धम्
Bālamanoramā
जनसनखनां सञ्झलोः - जनसन.॒विडवनो॑रितय्त आदित्यनुव्रतते । तदाह — एषामाकारोऽन्तादेश इति । सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते ।अनुदात्तोपदेशे॑त्यतो झलिक्ङितीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते । तदादिविधिः । झलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते । तदादिविधिः । झलादौ क्ङितीति लभ्यते । तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम् । तदाह — झलादौ सनि झलादौ क्ङिति चेति । सन्विशेषणं झलादाविति किम् । जिजनिषति । सिसनिषति । चिखनिषति । अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह — जज्ञतीति । जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावेगमहने॑त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावःजनसनखनां स॑नित्याश्रित्य योगविभागेन उक्तार्थसिदिंध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति ।नश्चे॑त्यनुस्वारः । जजाथः जजाथ । जजन्मि जजन्वः जजन्मः । जजानेति । जज्ञतुः । सेडयम् । जजनिथ जज्ञथुः ।जज्ञिव । जनिता । जनिष्यति । जजन्तु — जजातात् । जजाहि । जजनानि । अजजमजजाताम् । अजज्ञुः । अजजनमजजन्व । विधिलिङिये विभाषे॑ति मत्वाह — जजायात् जंजन्यादिति । अजनीत् — अजानीत् ।अजनिष्यत् । गा स्तुतौ । देवान् जिगातीति ।भृञामि॑दित्यत्रबहुलं छन्दसी॑ति वचनादभ्यासस्येत्त्वमिति भावः । जिगीत इति ।ई हल्यघो॑रिति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशेश्नाभ्यस्तयो॑रित्याल्लोपः । जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिव । गाता । गास्यति । जिगातु — जिगीतात् जिगीताम् जिगतु । जिगीहि । जिगानि । अजिगात् अजिगीतामजिगुः । अजिगाः । अजिगामजिगीव जिगीयात् । आशिषि — गेयात् । अगासीत् । अगास्यत् । इति जुहोत्यादयः ।॥ इति बालमनोरमायाम् जुहोत्यादयः॥अथ तिङन्ते कण्ड्वादयः ।