प्रकारे गुणवचनस्य - प्रकारे गुणवचनस्य । प्रकारशब्दः सादृश्ये वर्तते, व्याख्यानादित्यभिप्रेत्याह — सादृश्ये द्योत्य इति । गुणवचनशब्देनआकडारा॑दिति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्रन्त इतिवोतो गुणवचना॑दित्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति ।पुंवकर्मधारये॑त्यनेने॑ति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात्पुवत्कर्मधारये॑ति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपिस्त्रियाः पुंव॑दिति पुंवत्त्वादिदं सिद्धं, तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थंकर्मधारयव॑दिति वचनमिति भावः । पटुपटुरिति ।वोतो गुणवचना॑दिति ङीषभावे पुंसि च द्विर्वचने रूपम् । पटुसदृश इति । 'इत्यर्थ' इति शेषः । फलितमाह — ईषत्पटिरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति — गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः । ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्व्ये इति । अत्र वार्तिकेकर्मधारयव॑दिति न सम्बध्यते, तदुदाहरणे भाष्ये सुब्लोपाऽदर्शनादित्यभिप्रेत्योदाहरति — मूलेमूले इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति । यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमः=भयादिकृता त्वरा, तेन प्रवृत्तौ गम्यमानायां यथेष्टम्िच्छानुसारेण अनेकधाशब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्तेद्र्वे इति निवर्तते ।यथेष्ट॑मित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छब्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् ।क्रियासमभिहारे चेति । वार्तिकमिदम् । 'द्वे स्त' इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम् ।क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो॑रिति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति — लुनीहिलुनीहीत्येवायं लुनातीति । 'लूञ् छेदने' अस्मात्क्रियासमभिहारे लोट्, लोटो हिस्वौ॑ इति लोट् । तस्य हीत्यादेशः । श्नाविकरणः ।लुनीही॑त्यस्य अनेन द्विर्वचनम् ।यथाविध्यनुप्रयोगः पूर्वस्मि॑न्नित्यनुप्रयोगः । तस्माल्लडादयः । अतिशयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्याऽर्थः । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयतीत्यादि मूल एव लकारार्थप्रक्रियायां स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति ।नित्यवीप्सयो॑रिति पौनः पुन्ये द्विर्वचने सिद्धेऽपि भृशार्थे द्विर्वचनार्थमिदं वार्तिकमित्यर्थः । नन्बस्य भृशार्थ एव द्विर्वचनफलकत्वेभृशे चे॑त्येव सिद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनः पुन्ये लोटो द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा — पौनःपुन्येऽपीति । लुनीहि — लुनीहीत्यत्र पौनःपुन्ये द्विर्वचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोद्विर्वचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः' इति पौनः पुन्ये यङन्ते 'पापच्यते' इत्यादौ न द्विर्वचनमित्यन्यत्र विस्तरः । कर्मव्यतिहारे इति । क्रिया विनिमयः=कर्मव्यतिहारः, तस्मिन्गम्ये सर्वनाम्नो द्वे स्तः । ते च द्विरुक्ते पदे बहुलं समासवदित्यर्थः । अत्रबहुल॑मिति समासवदित्यत्रैवान्वेति । द्विर्वचनं तु नित्यमेव । अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम्, इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समासवत्त्वरहितमेव, इतरशब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथापरस्परोपपदाच्चे॑ति वार्तिकप्रयोगात्परशब्दस्यापि समासवत्त्वाऽभावो गम्यत इति भावः । एवंच क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यद्विर्वचनम् । द्विरुक्तयोस्तु समासवत्त्वं बहुलम् । इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं द्वित्वं बहुलग्रहणादिति स्थितिः । असमासवद्भावे इति । इदमन्यपरशब्दयोरेव, इतरशब्दस्य समावत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सु॑बिति प्रत्याहारः । सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्र विषयमिति केचित् । तदेतद्भाष्यविरुद्धं, भाष्ये द्वितीयादिविभक्तेरूदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्तीरुदाहरति — अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यमन्यौ इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतन्न कविसंमतमित्याह — अन्योन्येषामित्यादि, माघ इत्यन्तम् ।परस्पर॑मित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्क्य आह — कस्कादित्वादित्यादि । इतरेतरमिति । इतरः इतरावित्यादीनां द्वित्वे समासवत्त्वात्, सुपोर्लुकि समुदायात्पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानामन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेरामित्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम्, अन्योन्यं वा इमे ब्राआहृण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राआहृण्यौ कुले वा भोजयतः । इतरेतराम्, इतरेतरं वा इमे ब्राआहृण्यौ कुले वा भोजयत इत्यन्वयः । तत्रअन्या॑मित्यस्य द्वित्वे 'दलद्वये टाबभाव' इति वक्ष्यमाणतया पुंवत्त्वाट्टापो निवृत्तौ समासवत्त्वाऽभावात्सुपोरलुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वेअतो रोरप्लुता॑दित्युत्त्वे आद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तु पुंवत्तद्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंलिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राआहृणी अन्यां ब्राआहृणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राआहृण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्राऽन्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थायाः विभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे अन्योन्यामिति रूपम् । आम्भावविरहे तुक्लीबे चाद्ड्विरहः स्वमो॑रिति वक्ष्यमाणतया पुंवत्त्वादद्डादेशाऽभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वाट्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे आम्भावे च परस्परामिति रूपम् । आण्भावविरहे तु द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्पमिति रूपम् । आमभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाटापो निवृत्तौ उत्तरपदस्थविभक्तेराम्भावे समासवत्त्वात्पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । आम्भावविरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्स्य द्वित्वे पुंवत्त्वादद्डादेशविरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्तस्योदाहरणादितरविभक्तिषु आम्भावो न भवतीति प्राचीनमतमाह — अत्र केचितदिति । तेनेति । द्वितीयेतरविभक्तिषु आम्भावविरहेणेत्यर्थः । पुंवदेवेति । आम्भावविरहे सति बहुमग्रहणात्पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु आम्भावविरहात्प्रथमैकवचस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह — अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । द्वलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम्॥अथाऽत्र बहुलग्रहणानुवृत्तेः प्रयोजनकथनपरप्राचीनश्लोकमाह — दलद्वये इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्जयोः पुंवत्त्वाट्टाब्निवृत्तिरित्यर्थः । यद्यपि 'इतरेतर' मित्यत्र समासवत्त्वात्सर्वनाम्नो वृत्तिमात्रे इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धस्तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीबे इति ।अन्योन्य॑मित्यादावद्डादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथाहीति । यथेदं स्पष्टं भवति, तथा उदाहृत्य प्रदश्र्यत इत्यर्थः । ननु पूर्वदलेसर्वनाम्नो वृत्तिमात्र॑ इति पुंवत्त्वस्याऽत्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह — अन्यपरयोरिति ।समासवच्च बहुल॑मिति समासवत्त्वमितरशब्दमात्रविषयं, न त्वन्यपरहशब्दविषयमिति प्रागुक्तमित्यर्थः । ननु मास्तु समासवत्त्वं, तथापिसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्त्वं दुर्वारम्, द्विर्वचनस्य वृत्तित्वादित्याशङ्क्य निराकरोति — नच द्विर्वचनमेव वृत्तिरिति ।कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः॑ इति परिगणनादिति भावः । द्विर्वचनस्य वृत्त्यन्तर्भ#आवे बाधकमाह — यां या मिति । द्विर्वचनस्य वृत्त्यन्तर्भावेयांयां प्रियः प्रैक्षत कातराक्षी सासा ह्यिया नम्रमुखी बभूवे॑त्यत्र श्लोके यांयामित्यत्र सासेत्यत्र चसर्वनाम्नो वृत्तिमात्रे॑ इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीबे चाद्ड्विरहः॑ इत्यस्योदाहरति — अन्योन्यमिति । ननुसमासे सोरलुक् चे॑ति कथम्, अन्यपरशब्दयोः समासवत्त्वाऽभावादित्याशङ्क्य कृत्तद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति — अन्योन्यसंस,क्तमिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः । अहश्च त्रियामा चेति समाहारद्वन्द्वः । अहश्च रात्रिश्च अन्योन्येन संयुर्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः । परस्पराक्षिसादृश्यमिति । अक्ष्णा सादृस्यमक्षिसादृश्यम् । परस्परस्याऽक्षिरसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे,तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य सोर्लुक् प्राप्त इत्यर्थः । सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत्समाधेयमित्यत्र किं प्रमाणमित्यत आह — प्रकृतवार्तिकेति ।स्त्रीनपुंसकयो॑रिति प्रकृतवार्तिकेअन्योन्यमिमे ब्राआहृण्य॑विति, 'इतरेतरमिमे कुले' इति चोदाहरणात्दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमो॑रिति विज्ञायते ।स्त्रिया॑मिति सूत्रेअन्योन्यसंश्रयं त्वेत॑दिति बाष्यप्रयोगात्समासे सोरलुगिति विज्ञायत इत्यर्थः ।