PREMABASESiddhānta-kaumudī
Prakaraṇa 42 · SK 2051–2138

तद्धिताधिकारे स्वार्थिकप्रकरणम्

taddhitādhikāre svārthikaprakaraṇam · 88 sūtras · Sanskrit source — translation forthcoming
📖 Textbook (this chapter in preparation)
show
SK 2051 · A 5.3.96V
इवे प्रतिकृतौ ॥ २०५१ ॥
ive pratikṛtau
Siddhānta-kaumudī
कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥
Bālamanoramā
इवे प्रतिकृतौ - अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन्स्यादिति ।अवक्षेपणे क॑न्नित्यतस्तदनुवृत्तेरिति भावः । इवार्थौपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिर्मिता प्रतिमा प्रतिकृतिः । अआक इति । प्रतिकृतेः स्त्रीत्वेऽपिस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॑ इति पुंलिङ्गत्वम् ।
SK 2052 · A 5.3.97V
संज्ञायां च ॥ २०५२ ॥
saṃjñāyāṃ ca
Siddhānta-kaumudī
इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥
Bālamanoramā
संज्ञायां च - संज्ञायां च ।क॑निति शेषः । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः । पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम् । इव इति त्वनुवर्तत एव । तदाह — अआसदृशस्येति । अआसदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा । अआसदृशोऽयमआकसंज्ञक इति बोधः ।
SK 2053 · A 5.3.98V
लुम्मनुष्ये ॥ २०५३ ॥
lummanuṣye
Siddhānta-kaumudī
संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
Bālamanoramā
लुम्मनुष्ये - लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु 'इवेप्रतिकृतौ' इति विहतस्य प्रतिकृतित्वाऽसंभवादिति भावः । चञ्चेव मनुष्यः चञ्चेत्युदाहरणं वक्ष्यन्चञ्चाशब्दं व्याचष्टे — चञ्चा तृणमयः पुमानिति । चञ्चेति । चञ्चातुल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः । वर्ध्रिकेति । वर्ध्रि चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्ध्रिकासंज्ञक इत्यर्थः । लुपि युक्तवत्वात्स्त्रीत्वम् । वचनं तु विशेष्यवदेव,हरीतक्यादिषु व्यक्ति॑रित्युक्तेः । तेन 'चञ्चे इव मनुष्यौ' इत्यत्र चञ्चा इति न भवति ।
SK 2054 · A 5.3.99V
जीविकार्थे चापण्ये ॥ २०५४ ॥
jīvikārthe cāpaṇye
Siddhānta-kaumudī
जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥
Bālamanoramā
जीविकाऽर्थे चापण्ये - जीविकार्थे चापण्ये । पण्यं — विक्रीयमाणम् । तदाह — अविक्रीयमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत आह — देवलकानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटतामित्यर्थः । तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते । हस्तिकान्विक्रीणीते इति । जीविकार्थं हस्तितुल्यप्रतिकृतीर्विक्रीणीते इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् ।सज्ञायां चे॑तिज विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात् । पठन्ति । चाभियुक्ताः — ॒रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चात्र पण्यतया कनो लुब्दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः ।
SK 2055 · A 5.3.100V
देवपथादिभ्यश्च ॥ २०५५ ॥
devapathādibhyaśca
Siddhānta-kaumudī
कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥
Bālamanoramā
देवपथादिभ्यश्च - देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरित्यर्थः ।इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ इति । अर्चाः=प्रतिमाः । पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषुइवे प्रतिकृतौ॑विहितस्य कनो लुबित्यर्थः । 'तद्राजस्ये' ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा — शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथा — रावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि ।
SK 2056 · A 5.3.101V
वस्तेर्ढञ् ॥ २०५६ ॥
vasterḍhañ
Siddhānta-kaumudī
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥
Bālamanoramā
वस्तेर्ढञ् - वस्तेर्ढञ् । निवृत्तमिति । अस्वरितत्वादिति भावः ।संज्ञायां चे॑त्यादिपूर्वसूत्रेषु क्वापि प्रतिकृतावित्यस्याऽनिवृत्तेर्न लुब्विधिषु तेषु तदनुवृत्तिरपेक्षिता । वस्तिरिवेति ।बस्तिर्नाभेरधो द्वयो॑रित्यमरः ।
SK 2057 · A 5.3.102V
शिलाया ढः ॥ २०५७ ॥
śilāyā ḍhaḥ
Siddhānta-kaumudī
शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥
Bālamanoramā
शिलाया ढः - शिलाया ढः । इवे इत्येव । शिलेव शिलेयमिति ।दध्यादी॑ति शेषः । योगेति । 'शिलाया' इत्येको योगः । ढञित्यनुवर्तते, इवे इति च । शैलेयमिति । ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम् । 'ढः' इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः ।
SK 2058 · A 5.3.103V
शाखादिभ्यो यः ॥ २०५८ ॥
śākhādibhyo yaḥ
Siddhānta-kaumudī
शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥
Bālamanoramā
शाखाऽऽदिभ्यो यत् - शाखादिभ्यो यत् । 'य' इति त्वपपाठः । तैत्तिरीये॒मुख्यो भवती॑त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च ।
SK 2059 · A 5.3.104V
द्रव्यं च भव्ये ॥ २०५९ ॥
dravyaṃ ca bhavye
Siddhānta-kaumudī
द्वव्यमयं ब्राह्मणः ॥
Tattvabodhinī
NSP p. 328
—द्रव्यं च भव्ये । इशब्दादिवार्थे ण्यप्रत्ययो निपात्यते
Bālamanoramā
द्रव्यं च भव्ये - द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । भव्य आत्मवान् ।अभिप्रेतानामर्थानां पात्रभूतः॑ इति वृत्तिः । द्रव्यमयमिति । द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः । यद्वा द्रुः=कल्पवृक्षो ।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः । यप्रत्यये ओर्गुणः । अवादेशः ।
SK 2060 · A 5.3.105V
कुशाग्राच्छः ॥ २०६० ॥
kuśāgrācchaḥ
Siddhānta-kaumudī
कुशाग्रमिव कुशाग्रीया बुद्धिः ॥
Bālamanoramā
कुशाग्राच्छः - कुशाग्राच्छः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत्सूक्ष्मेत्यर्थः ।
SK 2061 · A 5.3.106V
समासाच्च तद्विषयात् ॥ २०६१ ॥
samāsācca tadviṣayāt
Siddhānta-kaumudī
इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥
Tattvabodhinī
NSP p. 328
—समासाच्च तद्विषयात् । तच्छब्देन प्रकृत इवार्थो निर्दिश्यते इत्याह—इवार्थविषयादिति ॥—छः स्यादिति । इवार्थे इति बोध्यम् । ‘पूगाञ्जयः—’ इत्यतः प्रागिवेत्यधिकारात् । शस्त्रीदयामेत्यादौ तु एक एव इवार्थः । स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् ॥—काकतालीय इति । प्रकृतसूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः ॥—इह काकतालेत्यादि । आगच्छतः काकस्याऽकस्मात्तालफलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमादेवदत्तवधः ॥ एवमजाया आगच्छन्त्याः कृपाणपतनाद् यथा वधः, तत्सदृशं मरणमिति फलितोऽर्थः ॥—अतर्कितोपनत इति । अचिन्तितोपनतः । यादृच्छिक इत्यर्थः
Bālamanoramā
समासाच्च तद्विषयात् - समासाच्चा । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह — इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकं, तद्विषयकादित्यर्थः । सादृस्यवदथबोधकात्समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदर्थबोधकस्तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात्समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः ।इवार्थे॑इति शेषः । 'पूगाञ्ञ्यः' इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थसमस्यमानयावत्पकात्समासादिवार्थे छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात्ताल वृक्षस्य मूलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तोऽकस्मान्निर्जनप्रदेशे क्वचिद्गतश्चोरेण हतस्तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकं, प्रत्ययार्थगतमन्यत्सादृश्यं च भासते । तथाहि — काकगमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र 'काक' शब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः ।ताल॑शब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देतवदत्तागमनं, तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोर्मिलितय#ओरेकत्रान्वयाऽभावाद्द्वन्द्वसमासो न संभवति, परस्परान्वयाऽभावेन असामर्थ्याच्च, तथापि अस्मादेव विधिबलात् 'सुप्सुपा' इति समासः । तथाच काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः । तदाह — इहेत्यादि । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविदात्समासात्काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दबूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वं, देवदत्तवधे चोरागमकृते उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकमरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह — तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्तेत्यर्थः । सदृश इत्यनन्तरं 'देवदत्तवध' इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्देतुकस्तालपतनकृत काकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवंकाकलतालीयो देवदत्तवध॑ इति समासाद्बोधः ।एतदेवाभिप्रेत्योक्तं भाष्येकाकागमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीय॑मिति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वान्न भवति, इवान्तरार्थस्य सादृश्यान्तरस्याऽप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव कृपाणपतनमिव अजाकृपाणम्, तदिव अजाकृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः, कृपाणपतनप्रयुक्ताऽजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह — अतर्कितेति ।
SK 2062 · A 5.3.107V
शर्करादिभ्योऽण् ॥ २०६२ ॥
śarkarādibhyo'ṇ
Siddhānta-kaumudī
शर्करेव शार्करम् ॥
Bālamanoramā
शर्कराऽऽदिभ्योऽण् - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।
SK 2063 · A 5.3.108V
अङ्गुल्यादिभ्यष्ठक् ॥ २०६३ ॥
aṅgulyādibhyaṣṭhak
Siddhānta-kaumudī
अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥
Bālamanoramā
अङ्गुल्यादिभ्यष्ठक् - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।
SK 2064 · A 5.3.109V
एकशालायाष्ठजन्यतरस्याम् ॥ २०६४ ॥
ekaśālāyāṣṭhajanyatarasyām
Siddhānta-kaumudī
एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥
Bālamanoramā
एकशालायाष्ठजन्यतरस्याम् - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् ।
SK 2065 · A 5.3.110V
कर्कलोहितादीकक् ॥ २०६५ ॥
karkalohitādīkak
Siddhānta-kaumudī
कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥
Bālamanoramā
कर्कलोहितादीकक् - कर्कलोहितादीकक् । कर्कः शुक्लोऽआ इति । अआउपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीकः स्फटिक इति । जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः ।
SK 2066 · A 5.3.112V
पूगाञ्ञ्योऽग्रामणीपूर्वात् ॥ २०६६ ॥
pūgāññyo'grāmaṇīpūrvāt
Siddhānta-kaumudī
इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्वज्यः । व्रातच्फञोरस्त्रियाम् SK 1100 । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥
Tattvabodhinī
NSP p. 328
—पूगाञ्जयो—स्वरूपग्रहणं तु न भवति, ‘अग्रामणीपूर्वात्’ इति वचनात् । पूर्वशब्दो ह्यवयववचनः ॥ अग्रामणीपूर्वादिति किम् । देवदत्तो ग्रामणीर्येषां ते देवदत्तकाः । ‘स एषां ग्रामणीः’ इति कन् । अत्र समुदायः पूगवचनः ॥—लौहितध्वज्य इति । लोहितः ध्वजो यस्य संघस्य स लोहितध्वजः । स एव लौहितध्वज्यः ॥—ब्रातरुफजोः—। उत्सेधजीवित्वं ब्रातस्य पूगाद्विशेषः । उत्सेधः शरीरायासः ॥—कौञ्जायन्य इति । ‘गोत्रे कुञ्जादिभ्यः’ इति च्फञ्
Bālamanoramā
पूगाञ्ञ्योऽग्रामणीपूर्वात् - पूगाञ्ञ्यः । इवार्थो निवृत्त इति । व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः । तद्वाचकादिति । पूगेति न स्वरूपग्रहणं, व्याख्यानात् । ग्रामणीवाचकपूर्वावयवकभिन्नात्पूगवाचकादित्यर्थः । लौहितध्वज्य इति । लोहिता ध्वजा यस्य पूगस्य स लोहितध्वजः । सएव लौहितध्वज्यः । व्रातच्फञोरस्त्रियामिति । इदं सूत्रम् ।गोत्रे कुञ्जादिभ्यः॑ इत्यत्र प्रसङ्गादुपादाय व्याख्यातम् । व्रात इति । उदाहरणसूचनमिदम् । भारोद्वहनादिशरीरायासजीवनान्नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः । कापोतपाक्य इति । कपोतान्=पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः, स एव कापोतवाक्यः । पचेः कर्तरि घञ्,चजोः कु घिण्ण्यतो॑रिति कुत्वम् । च्फञिति । उदाहरणसूचनमिदम् । कौञ्जायन्य इति । गोत्रे कुञ्जादिभ्यः॑ इति च्फञ् । आयन्नादेशः । ततः स्वार्थे अनेन ञ्यः । एवं व्राध्नायन्यः ।
SK 2067 · A 5.3.114V
आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् ॥ २०६७ ॥
āyudhajīvisaṃghāññyaḍvāhīkeṣvabrāhmaṇarājanyāt
Siddhānta-kaumudī
वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥
SK 2068 · A 5.3.115V
वृकाट्टेण्यण् ॥ २०६८ ॥
vṛkāṭṭeṇyaṇ
Siddhānta-kaumudī
आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥
Bālamanoramā
वृकाट्टेण्यण् - वृकाट्टेण्यण् । वृको नाम कश्चिदायुधजीविसङ्घः । स एव वार्केण्यः । आदिवृद्धिः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाज्जातिविशेषः प्रसिद्धः,तस्मान्नेत्यर्थः ।
SK 2069 · A 5.3.116V
दामन्यादित्रिगर्तषष्ठाच्छः ॥ २०६९ ॥
dāmanyāditrigartaṣaṣṭhācchaḥ
Siddhānta-kaumudī
दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥
Tattvabodhinī
NSP p. 328–329
—दामन्यादित्रिगर्तषष्ठात्— समाहारद्वन्द्वात्पञ्चमी ॥—त्रिगर्तपष्टेभ्य इति । येषामायुधजीविनां षडन्तर्वर्गाः । षष्ठवर्गस्तु त्रिगर्तस्तेभ्य इत्यर्थः ॥ त्रिगर्तवर्गपृष्ठकाः के इत्याकाङ्क्षायामाह—आहुस्त्रिगर्तपष्टांश्चेति । अत्र जानकयस्त्रिगर्तवर्गः । तेषु च त्रिगर्तपष्टेषु प्रथमपञ्चमौ कौण्डोपरथत्राह्मणगुप्तशब्दौ शिवाद्यणन्तौ शेषास्त्विन्ताः ॥ केचित्तु अतद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति ॥ —कौण्डोपरथीय इति । वहुवचने तु कौण्डोपरथाः दण्डकय इत्यादि ॥—पार्श्व इति । पर्शुरिति जनपदशब्दस्ततोऽपत्ये ‘ध्यञ्मगध—’ इत्यण् । वहुत्वे तद्राजलाल्लुक् । पुनः संघविवक्षायामनेनाण् । अस्याप्यणो वहुत्वे तद्राजलाल्लुक् । तदाह—पार्श्व इति । ननु पर्शुरिति यो जनपदशब्दस्तसादेवानेन स्वार्थेऽण् विधीयतामपलवाचिपर्शुशब्दात्संघविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत् । अत्राहुः । केवलः पर्शुशब्द एव जनपदवाची न लणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तु ‘ध्यञ्मगध—’ इत्यणः ‘तद्राजस्य वहुषु—’ इत्यादिना लुकि वह्वपलवाचिपर्शुशब्दादेव स्वार्थे विधीयते । स्वार्थश्चात्र संघ एव । न च पर्शुशब्दस्य संघवाचित्वं नेति शङ्क्यम् । वह्वपलवाचित्वे संघवाचिल्लौ व्यादिति न काप्यनुपपत्तिरिति ॥—यौधेय इति । युध्यतेऽसौ युधा । युधेरिगुपधलक्षणः कः । युधाया अपत्यं ‘ध्यचः’ इति ढक् । तदन्तात्संघविवक्षायामनेनाण् । तेन यौधेय इति आद्युदात्तं भवति । किं च यौधेयस्याङ्को लक्षणं वा यौधेयः । ‘संघाङ्कलक्षण—’ इत्यन्तादण् । एवं यौधेयादिषु ये ढगन्ताः शौकेयादयस्तेषु सर्वेषु प्रयोजनद्वयमूह्यम् ॥—यौधेया इति । अओ लुक् अन्तोदात्तम् । न च ‘न प्राच्यभर्गा—’ इत्यादिना निषेधः शङ्क्यः । स्त्रियामेव तन्निषेधात् ॥—आभिजित्य इति । आभिजितशब्दादणन्ताद्यन् । एवं विदधृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदधृतः । शालावतः । शैखावतादिभ्यो यन् ॥—पादशतस्य संख्यादेः—। पादशतस्य किम् । द्वौ द्वौ माषौ ददाति ॥ संख्यादेरिति किम् । पादं पादं ददाति ॥ वीप्सायामिति किम् । द्वौ पादौ ददाति ॥—अनैमित्तिकत्वार्थमिति । निमित्ते भवो नैमित्तिकः । अध्यात्मादिलाढन् ॥—तद्धितार्थ इति । यद्यपि प्रकृत्युपाधिवीप्सा । तथापि वुनो द्योत्येति तद्धितार्थो भवत्येवेति भावः ॥—ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परखलापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजतेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः ॥—अन्यत्रापि तद्दर्शनादिति । द्वौ द्वौ माषौ ददातीत्यादौ लनभिधानान्नातिप्रसङ्ग इति भावः
Bālamanoramā
दामन्यादित्रिगर्तषष्ठाच्छः - दामन्यादि । दानिरादिर्यस्य दामन्यादिः । त्रिगर्तः षष्ठो यस्य वर्गस्य स त्रिगर्तषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहार द्वन्द्वात्पञ्चमी । फलितमाह — दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्त्रिगर्तो वर्गः, तेभ्यः षड्वर्गेभ्य इति यावत् । के ते त्रिगर्तषष्ठा इत्यत आह — आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रौष्टुकिः, जालमानिः, ब्राआहृगुप्तः, जालकिरित्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः ।जालकि॑रिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौण्डोपरथब्राआहृगुप्तशब्दौ शिवाद्यणन्तौ । शेष इञन्तः । दामादिगणमुदाहरति — दामनीय इति । दामनिरेव दामनीयः । औलपीति । प्रकृतिप्रदर्शना । औलपीय इति । औलपिशब्दात्स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकीय इति । दाण्डकिशब्दात्वार्थे छः । क्रौष्टुकीयः, जालमानीयः, ब्राआहृगुप्तीयः, जालकीयः — इत्यप्युदाहार्यम् ।
Footnotes (NSP 1915 ed.)
NSP p. 329 १ जातीयरोऽपवाद इति—जातीयविधौ भेद एव प्रकार इति जयादित्यमतेऽपवाद इत्यस्य परत्वाद्दाधक इत्यर्थः । तत्राप्युभयं गृह्यते इति वामनमते तु यथाश्चतमेव ।
SK 2070 · A 5.3.117V
पर्श्वादियौधेयादिभ्योऽणञौ ॥ २०७० ॥
parśvādiyaudheyādibhyo'ṇañau
Siddhānta-kaumudī
आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥
Bālamanoramā
पर्श्वादियौधेयादिभ्यामणञौ - पर्ाआदियौधेयादि । एभ्य इति । पर्ाआदिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति । पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचकादपत्येष्वर्थेषुद्व्यञ्मगधे॑त्यण् । ततोऽपत्यसङ्घविवक्षायामनेन अणिति भावः । पर्शव इति । अपत्वसङ्गबहुत्वविवक्षायां प्रकृतस्याऽणोऽपि तद्राजत्वाल्लुक्, 'ञ्यादस्तद्राजाः' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थे 'द्व्यचः' इति ढक् । तदन्ताऽपत्यसङ्घविवक्षायामनेन अञ् । ञित्त्वमाद्युदात्तत्वफलकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायांतद्राजस्ये॑त्यञो लुक् । 'कितः' इत्यन्तोदात्तं फलम् ।
SK 2071 · A 5.3.118V
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् ॥ २०७१ ॥
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇo yañ
Siddhānta-kaumudī
अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥
Bālamanoramā
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् - अभिजिद्विदभृत् । अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत् — एषां समाहारद्वन्द्वात्पञ्चम्या लुक् । अण इति प्रत्ययत्वात्तदन्तग्रहणम् । तदाह — अभिजिदादिभ्य इति । अत्रआयुधजीविसङ्घादिति निवृत्त॑मिति वृत्तिः ।आभिजित्य इति । अभिजितोऽपत्यमाभिजितः । अपत्येऽण् । आभिजित एव आभिजित्यः । वैदभृत्य इति । विदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः । शैखावत्यैति । शिखावतोऽपत्यं शैखावतः । स एव शैखावत्यः । शामीवत्य इति ।शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः । श्रौमत्य इति । श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः । अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहेगोत्रचरणा॑दिति वुञि॒आपत्यस्य चे॑ति यलोपे 'आभिजितक' इति भवति ।अपत्याऽणन्तेभ्य एवायं यञ् । तेन आभिजितो मुहूर्त इत्यादौ न य॑ञिति भाष्ये स्पष्टम् ।
SK 2072 · A 5.3.119तद्राजसंज्ञा
ञ्यादयस्तद्राजाः ॥ २०७२ ॥
ñyādayastadrājāḥ
Siddhānta-kaumudī
पूगाञ्यः - SK 2066 इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥
Bālamanoramā
ञ्यादयस्तद्राजाः - ञ्यादयस्तद्राजाः । लोहितध्वजा इति ।पूगा॑दिति विहितस्य ञ्यस्य तद्वाजत्वाद्बहुत्वे लुक् । कपोतपाकाः कौञ्जायनाः ब्राआध्नायना इति ।व्रातच्फञो॑रिति विहितस्य ञ्यस्य लुक् । इत्यादीति । क्षौद्रक्यौ, क्षुद्रकाः ।आयुधजीवी॑ति ञ्यटो लुक् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दीमनीयौ, दामनयः, कौण्डोपरथाः इत्यादौदामन्यादित्रिगर्तषष्ठा॑दिति छस्य लुक् । पार्शवौः, पार्शव, पर्शवः, यौधेयाः इत्यत्र पर्ाआदियौधेयाद्यणञोर्लुक् । आभिजित्यः आभिजित्यौ, अभिजितः, विदभृत इत्यादौअभिजिद्विदभृ॑दित्यादिविहितस्य यञो लुगिति भावः । इति पञ्चमस्य तृतीयपादः ।
SK 2073 · A 5.4.1V
पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च ॥ २०७३ ॥
pādaśatasya saṃkhyādervīpsāyāṃ vun lopaśca
Siddhānta-kaumudī
लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् SK 414 । तद्धितार्थ SK 728 इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ।
vārttika
पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात्
(वार्तिकम्) ॥ द्विमोदकिकाम् ॥
Bālamanoramā
पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च - अथ पञ्चमस्य चतुर्थपादः-पादशतस्य । पादश्चशतं चेति समाहारद्वन्द्वाल्लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । सङ्ख्यावचकशब्दपूर्वकात्पादशब्दाच्च वीप्साविशिष्टार्थवृत्तेः स्वार्ते वुन्प्रत्ययः स्यात्, प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः । ननु वुनोऽकादेशे सतियस्येति चे॑त्येव लोपसिद्धेरिह लोपविधिव्र्यर्थ इत्यत आह — अनैमित्तिकत्वार्थमिति ।यस्येति चे॑ति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्' इति स्थानिवत्त्वापादः प॑दिति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति । नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाऽभावात्कथमिह॒तद्धितार्थ॑ इति समास इति वाच्यं, वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशति कामिति । द्वे द्वे शते ददातीति विग्रहः । पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथं, पादशतभिन्नव्यावृत्त्यर्थत्वादित्यत आह — अन्यत्रापि दर्शनादिति । तदुदाहृत्य दर्शयति — द्विमोदकिकामिति । द्वौ द्वौ मोदकौ ददातीति विग्रहः ।
SK 2074 · A 5.4.2V
दण्डव्यवसर्गयोश्च ॥ २०७४ ॥
daṇḍavyavasargayośca
Siddhānta-kaumudī
वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति ददातीत्यर्थः ॥
Tattvabodhinī
NSP p. 329
—दण्डव्यवसर्ग—। दण्डनं दण्डश्रुरादिलाद्भावे घन् । अत्राप्युदाहरणे ‘तद्धितार्थ—’ इति समासः । स्त्रीलिङ्गं च तद्धितार्थः । यद्वा प्रकृत्यर्थं एव तद्धितार्थः । स्वार्थिकलाद्भुनः ॥—द्वौ पादौ दण्डित इति । देवदत्तेन यज्ञदत्त इति शेषः । दण्डेरप्रधाने कर्मणि क्त इति यज्ञदत्त इत्यत्र प्रथमा । द्वौ पादावित्यत्र द्विपदिकामित्यत्र च द्वितीया भवति । ‘दण्डेर्प्रहणार्थं’ इति द्विकर्मकेषूक्तम् । तथा च द्विपदिकाकर्मकर्मकप्रहणविषयीभूतो यज्ञदत्त इत्यादिरर्थं इति नव्याः
Bālamanoramā
दण्डव्यवसर्गयोश्च - दण्डव्यवसर्गयोश्च । बुन्स्यादिति सङ्ख्यादेः पादशताद्दण्जव्यवसर्गयोर्गम्ययोर्वुन्स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः । दण्डनं-दण्डः=बलाकृत्य द्रव्यग्रहणम् । व्यवसर्गो-दानम् । ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अवीप्सार्थमिति । द्वौ पादौ दण्डित इति । बलाकृत्य ग्राहित इत्यर्थः ।
SK 2075 · A 5.4.3V
स्थूलादिभ्यः प्रकारवचने कन् ॥ २०७५ ॥
sthūlādibhyaḥ prakāravacane kan
Siddhānta-kaumudī
जातीयरोऽपवादः । स्थूलकः । अणुकः ।
vārttika
चञ्चद्बृहतोरुपसंख्यानम्
(वार्तिकम्) ॥ चञ्चत्कः । बृहत्कः ॥ (गणसूत्रम् -) सुराया अहौ । सुरावर्णोऽहिः सुरकः ॥
Tattvabodhinī
NSP p. 329–330
—स्थूलादिभ्यः—। प्रकारो भेदः सादृश्यं च । उभयत्रापि यथासंभवं कन् ॥—जातीयरोऽपवाद इति । तेनायमपि तद्वदेव प्रकारवति भवति न तु प्रकारमात्रे इत्युक्तं भवति ॥—चञ्चद्वृहतोरिति । एतावपि स्थूला- दिष्वेव पठितव्याविति भावः ॥—चञ्चत्क इति । चञ्चतिश्चलनकर्मा । चञ्चत्रेव कश्चिच्चत्कः । एवं वृहद्विशेषो वृहत्कः । यद्वा अचञ्चत्रवृहन्नपि प्रभाविशेषाच्चञ्चत्रिव वृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः । वृहत्कः ॥—सुरक इति । ‘केऽणः’ इति ह्रस्वः ॥—छिन्नकमिति । ईषच्छिन्नमित्यर्थः । क्तप्रकृतिवाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्त-गतिः । सेह नास्ति
Bālamanoramā
स्थूलादिभ्यः प्रकारवचने कन् - स्थूलादिभ्यः । प्रकारो भेदः सादृश्यं च, व्याख्यानात्, तद्वति वर्तमानाद्यथायोयं कन्नित्यर्थः । जातीयरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, नतु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति । चञ्चधातुश्चलने । अचञ्चन्नपि यश्चञ्चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजनमध्यवर्ती मणिः । बृहत्क इति । अबृहन्नपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यसामविशेषो वा । सुराया अहाविति । गणसूत्रमिदम् ।॒प्रकारवचने क॑न्निति शेषः । सुराया अहावेवेति नियमार्थमिदम् । सुरक इति । 'केऽण' इति ह्रस्वः ।
SK 2076 · A 5.4.4V
अनत्यन्तगतौ क्तात् ॥ २०७६ ॥
anatyantagatau ktāt
Siddhānta-kaumudī
छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥
Bālamanoramā
अनत्यन्तगतौ क्तात् - अनत्यन्तगतौ क्तात् । अत्यन्तगतिरशेषावयवसम्बन्धः, तदभावः=अनत्यन्तगतिः, तस्यां गम्यमानायां क्तान्तात्कन्नित्यर्थः । छिन्नकमिति । किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः ।
SK 2077 · A 5.4.5V
न सामिवचने ॥ २०७७ ॥
na sāmivacane
Siddhānta-kaumudī
सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥
Tattvabodhinī
NSP p. 330
—न सामिवचने । सामि अर्थः उच्यते येन तत्सामिवचनमिति व्युत्पत्त्या वचनप्रहृणं पर्यायार्थ-मित्याह—सामिपर्याये इति ॥—सामिकृतमिति । ‘सामि’ इति समासः ॥—अर्धकृतमिति । विशेषणसमासो वहु-ब्रीहिर्वा ॥—प्रकृत्यैवेति । सामिवचनेनैवेत्यर्थः ॥—ज्ञापयतीति । अयं भावः । ‘न सामिवचने’ इत्यनेन ‘अनत्यन्त-गतौ’—इति कनो न निषेधः । सामिकृतादिभ्यस्तस्य प्राप्त्यभावात् तेभ्योऽसमासे सामिपदेनैव अनत्यन्तगतेर्योतनात् । स-मासेभ्यस्तु कान्तलाभावाच्च । न च कृद्धहणपरिभाषया समासस्य कान्तलमस्तीति शङ्क्यम् । सामिशब्दस्य गतिकारकलाभा-वात् । तस्मात् स्वार्थिक एव कन् निषिध्यत इति । इदमेव निषेधवचनं क्वचित्स्वार्थिकं कनं ज्ञापयतीति ॥—अषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति वहुब्रीहिः । अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते । ‘वहुब्रीहौ सक्थ्यक्षणोः’ इति षच् । तदन्तादनेन खः । मन्त्रो मन्त्रणम् ॥—आशितंगवीनमिति । आङ्पूर्वादश्नोतेः ‘आशितः कर्ता’ इति ज्ञापका-त्कर्तारे क्तः । प्यन्तात्कर्मणि वा । उभयथापि प्रभूतयवसमिति फलितोऽर्थः ॥—अलंकर्माण इति । अलंकर्म अलंपुर-षेति ‘पर्यादयो ग्लानाद्यर्थे चतुर्थ्या’ इति समासः ॥—अलंपुरुषीण इति । प्रतिमल्लादिः ॥—ईश्वराधीन इति । अधिशब्दः शौण्डादिरित्युक्तम् ॥—तमवादय इति । ‘अतिशायने तमप्’ इत्यादयः ॥—प्राक्कन इति । ‘अवक्षेपणे कन्’ इति विहितात् ॥—ज्यादय इति । ‘पूगाञ्ज्यो प्रामणीपूर्वात्’ इत्यादयः ॥—प्राग्बुन इति । ‘पादशतस्य सं-ख्यादेः’ इति विहितात् ॥—आमादय इति । किमेत्तिङ्व्ययघादामु—इत्यादयः ॥—प्राङ्मयट इति । ‘तत्प्रकृतव-चने मयट्’ इत्यतः प्रागित्यर्थः ॥—वृहतीजात्यन्ता इति । वृहतीशब्देन ‘वृहत्या आच्छादने’ इति विहितः कन् उपल-क्ष्यते । जात्यन्तशब्देन ‘जात्यन्ताच्च—’ इति च्छः । वहुवचननिर्देशात्पाशवादयो गृह्यन्ते । यो हि वैयाकरणपाशादिशब्दै-रर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयते इति तेऽपि तमवादिवन्नित्या एवेति स्थितमाकरे ॥ कन्छौ मुक्ला मूले वृहती-मात्रप्रयोगो जात्यन्तमात्रप्रयोगश्च कृतः, स तु अवाचकोऽप्यार्षप्रन्थानुवादकलान्न दोषाय ॥—विभाषाञ्चेर—। दिक्-चासौ स्त्री चेति दिक्स्त्री तत्र प्रतिषेधो, न तु दिशि स्त्रियां च, स्त्रीलिङ्गैकवचननिर्देशात् ॥—प्राचीनमिति । ‘अचः’ इत्यकारलोपे कृते ‘चौ’ इति दीर्घः । एवमग्रे क्वचिद्ब्रह्मम्
Bālamanoramā
न सामिवचने - न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वाऽऽह — सामिपर्याये उपपदे इति । सामिकृतमिति ।सामी॑त्यव्ययमर्धे ।सामी॑ति समासः । अर्धकृतमिति । अर्धं कृतमिति कर्मधारयः ।सामी॑त्यस्य क्रियाविशेषणत्वेन कारकत्वात्समुदायस्य क्तान्तत्वं, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेन पूर्वसूत्रविहितस्य कनोऽप्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते — अनत्यन्तगतेरिति । परिहरति — इदमेवेति ।तथापी॑ति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्रयमनत्यन्तगताविति कनः प्रतिषेधः । किं तर्हि, अत्यन्तस्वार्थिकस्य कनः । तत्र च इदमेव ज्ञापकम् । अन्यथा तद्वैयथ्र्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् ।तमबाद्यन्तात्स्वार्थे कन्वक्तव्यः॑ इति वचनेन, यावादित्वाद्वा स्वार्थे कनाबहुतरक सुकरतरकमित्यादि सिद्धमिति तदाशयः ।
SK 2078 · A 5.4.6V
बृहत्या आच्छादने ॥ २०७८ ॥
bṛhatyā ācchādane
Siddhānta-kaumudī
कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥
Bālamanoramā
बृहत्या आच्छादने - वृहत्या आच्छादने । 'कन्' इति शेषः । बृहत्येव बृहतिका=उत्तरीयं वासः । तदाह — द्वौ प्रावार इति । अमरवाक्यमिदम् । अषडक्षा । स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः ।
SK 2079 · A 5.4.7V
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः ॥ २०७९ ॥
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt khaḥ
Siddhānta-kaumudī
स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥
Bālamanoramā
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः - अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिर्युक्तिभिः क्रियमाणं निर्धारणम् । अविद्यमानानि षट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः ।बहुव्रीहौ सवथ्यक्ष्णो॑रिति षच् । तदन्तादनेन स्वार्थे खः । द्वाभ्या मेवेति ।पुरुषाभ्या॑मिति शेषः । आशिता इति । 'अश भोजने' इत्यस्मादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति ।पर्यादयो ग्लानाद्यर्थे॑ इति चतुर्थीसमासात्खः, टिलोपः अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । 'मातृभोगीण' इत्यादाविव अषडक्षीणादौ णत्वम् ।पदव्यवायेऽपी॑ति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईआराधीन इति ।यस्मादधिक॑मिति ईआरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः ।समर्थाना॑मित्यतो वाग्रहणानुवृत्त्या अस्य वैकल्पकत्वभ्रमं वारयति — नित्यो ।ञयं ख इति । उत्तरेति ।विभाषाऽञ्चे॑रित्युत्तरसूत्रेसमर्थाना॑मित्यतो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मणे इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम्, तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् । प्रसङ्गादाह — अन्येऽपीति । इष्यन्त इति ।भाष्यकृते॑ति शेषः । तमबादयः प्राक्कन इति ।अतिशायने तम॑वित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ञ्यादयः प्राग्वुन इति ।पूगाञ्ञ्योऽग्रामणीपूर्वा॑दित्यारभ्यअवक्षेपणे क॑न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्भयट इति ।किमेत्तिङव्ययघादा॑मित्यारभ्यतत्प्रकृतवचने मयट् इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तुजात्यन्ताच्छ बन्धुनी॑ति छो लक्ष्यते । बहुवचननिर्देशात्पाशबादयो ।ञपिषष्ठआ रूप्य चे॑त्यन्ता गृह्रन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्या, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आच्छादने' इतिजात्यन्ताच्छ बन्धुनी॑ति च सूत्रयोर्मध्यगतेनअषडक्षे॑ति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः ।विभाषाऽञ्चे॑रिति उत्तरसूत्रे खविधौ विभाषाग्रहणं तु तस्यापि बृहजात्यन्तरालवर्तित्वाऽविशेषान्नित्यत्वे प्राप्ते विकल्पार्थम् ।अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणा॑दिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेस्वरे स्थितम् ।
SK 2080 · A 5.4.8V
विभाषा अञ्चेरदिक्स्त्रियाम् ॥ २०८० ॥
vibhāṣā añceradikstriyām
Siddhānta-kaumudī
अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥
Tattvabodhinī
alignment inferredNSP p. 330
—प्राचीना ब्राह्मणीति । प्रकर्षेणाच्चतीति प्राचीनेत्येवं क्रि-यानिमित्तको वा देशकालनिमित्तको वा अयं शब्दो ब्राह्मण्यां वर्तते, न तु दिशीति प्रतिषेधाभावः ॥—प्राचीनमिति । प्राच्यां दिशीत्यर्थे ‘दिक्शब्देभ्यः—’ इत्यस्तातिः ‘अश्वेर्लुक्’ इति लुक् । ‘लुक्तादितलुकि’ इति ङीपो लुक् । ‘तद्धितश्चासर्व-विभक्तिः’ इत्यव्ययलात् स्त्रीलाभावः । खे तु कृते स्वभावान्नपुंसकलम्
Bālamanoramā
विभाषा अञ्चेरदिक्स्त्रियाम् - विभाषाञ्चेरदिक्स्त्रियाम् । अदिक्स्त्रियामिति कर्मधारयगर्बो नञ्तत्पुरुषः । तदाह — अदिक्स्त्रीवृत्तेरिति । प्रागिति ।अञ्चेर्लु॑गिति लुप्ताऽस्तात्यन्तमिदम् प्राचि देशे इत्यर्थे । प्राचीनमिति । खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याह्मतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाऽभावात्प्राचीना आम्रा॑, 'प्राचीना वाटी'प्राचीनं वन॑मिति भवतीत्याहुः । अर्वन्तमञ्चतीति वक्ष्यन्नर्वच्छब्दं विवृणोति — निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति ।अस्त्रिया॑मित्ये तावतैव प्राची दिगित्यत्रातिप्रसङ्घनिराशात्क तेनेति प्रश्नः । अव्याप्तिपरिहारार्थमित्याह — प्राचीना ब्राआहृणीति । नेयं दिग्रूपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति ।अदिशी॑त्येतावतैव प्राचीना ब्राआहृणीत्यत्राऽव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह — प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभ#आष्येऽयं प्रयोगः स्थितः । अत्र प्राच्यां दिशीत्यर्थे लुप्ताऽस्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वादस्त्रीति खो भवेत्येववेति भावः ।
SK 2081 · A 5.4.9V
जात्यन्ताच्छ बन्धुनि ॥ २०८१ ॥
jātyantāccha bandhuni
Siddhānta-kaumudī
ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥
Tattvabodhinī
alignment inferredNSP p. 330–331
—ब्राह्मणजातीय इति । द्योकयोरितिव ब्रावप्रधानो ब्राह्मणशब्दः, तस्य जातिशब्देन सह वहुब्रीहिः । ब्राह्मणलजात्याधारभूतः पिण्ड इत्यर्थः ॥—ब्राह्मणजाति-रिति । पृथीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा ॥—जातेर्व्यञ्जकमिति । वध्यते जातिरस्मिन्निति वन्धुः ‘शू-स्यन्निहि—’ हस्तादिना अविकरण उप्रत्ययः । रूढोऽपि वन्धुशब्द आप्तपर्यायः पुंलिङ्गोऽस्ति, तथापि स नेह गृह्यते । ‘वन्धुनि’ इति नपुंसकनिर्देशादिति भावः ॥ सस्थानेनेत्यस्यैव व्याख्यानं—तुल्येनेति
Bālamanoramā
जात्यन्ताच्छ बन्धुनि - जात्यन्ताच्छ बन्धुनि । छेति लुप्तप्रथमाकम् । जातिशब्दान्तात्प्रातिपदिकाद्बन्धुनि वर्तमानात्स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुशब्दो द्रव्यवाचीति वक्ष्यति । तथाच बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षकादिति फलितम् । ब्राआहृणजातीय इति । ब्राआहृणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राआहृणजातिः शोभनेति । ब्राआहृणत्वजातिरित्यर्थः । बद्यते ब्राआहृणत्वादिजातिव्र्यज्यतेऽस्मिन्निति बन्धु=द्रव्यम् ।शृस्वृस्निही॑त्यादिनाऽधिकरणे उप्रत्ययः । तदाह — जातेव्र्यञ्जकं द्रव्यं बन्ध्विति । आप्तपर्यायस्तु बन्धुशब्दो नेह गृह्रते,बन्धुनी॑ति नपुंसकनिर्देशादिति भावः ।
Footnotes (NSP 1915 ed.)
NSP p. 331 १ संख्यायाः किमिति । गणने वृत्तिः संख्याशब्दानामेवेति प्रश्नः । २ तत्प्रकृतेति—तद्वर्णं वाक्यमेदेन प्राचुर्याभावेऽपि अत्यन्तस्वार्थिकमयद्यर्थम् । तेन चिन्मयं ब्रह्मेत्यादि सिद्धम् ।
SK 2082 · A 5.4.10V
स्थानान्ताद्विभाषा सस्थानेनेति चेत् ॥ २०८२ ॥
sthānāntādvibhāṣā sasthāneneti cet
Siddhānta-kaumudī
सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥
Tattvabodhinī
alignment inferredNSP p. 331
—पितृस्थानीय इति । स्थानमत्र संवन्धविशेषः पदमिति यस्य प्रसिद्धिः । पितृरिव स्थानमस्य पितृस्थानः । पितृतुल्य इत्यर्थः ॥—गोः स्थानमिति । तिष्ठन्त्यस्मिन्निति स्थानं देशः ॥ इतिकरणं विवक्षार्थम् । तेन तत्पुरुषो बहुत्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति
Bālamanoramā
स्थानान्ताद्विभाषा सस्थानेनेति चेत् - स्थानान्तात् ।संस्थानेने॑त्यस्य विवरणंतुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत् । पितृस्थानीय इति । स्थानं-पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्यत्वाऽप्रतीतेर्न च्छः ।किमेत्तिङव्यये॑त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् ।अमु च च्छन्दसी॑ति तु वैदिकप्रक्रियायां व्याख्यास्यते ।
SK 2083 · A 5.4.13V
अनुगादिनष्ठक् ॥ २०८३ ॥
anugādinaṣṭhak
Siddhānta-kaumudī
अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥
Tattvabodhinī
NSP p. 331
—अनुगादिनः—। प्रकृतिस्वरूपप्रदर्शनपरं चैतत् न त्वयं केवलः प्रयोगार्हः, ठको नित्यलादिति हरदत्तः । ‘सुप्यजातौ’—इति णिनिः
Bālamanoramā
अनुगादिनष्ठक् - अनुगादिनष्ठक् । 'स्वार्थे' इति शेषः । 'आमादयः प्राङ्भयटः' इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः । अनुगादीति । 'सुप्यजातौ' इति णिनिः । प्रकृतिप्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । आनुगादिक इति । 'नस्तद्धिते' इति टिलोपः । इह क्रमेणचः स्त्रिया॑मिति 'अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते ।
SK 2084 · A 5.4.16V
विसारिणो मत्स्ये ॥ २०८४ ॥
visāriṇo matsye
Siddhānta-kaumudī
अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥
Tattvabodhinī
NSP p. 331
—विसारिणो—। पूर्ववदिहापि णिनिः । हरदत्तस्तु ‘सुप्यजातौ’—इति णिनिरुपसर्गभिन्न एव सुप्युपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मिन्न अतएव निपातनात् णिनिरित्याह । तदयुक्तम् । ‘स बभूवोपजीविनाम्,’ ‘अनुयायिवर्गः’, ‘न वञ्चनीयाः प्रभवोऽनुजीविभिः’ इत्यादिप्रयोगानुरोधेन उपसर्गं सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाध्ययणस्य व्यर्थलात् ॥ ‘अणिनुणः’ इत्यतोऽनुवर्तनादाह—अणू स्यादिति ॥—वैसारिण इति । ‘इनण्यनपत्ये’ इति प्रकृतिभावः
Bālamanoramā
विसारिणो मत्स्ये - विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्रादण्णित्यनुवर्तते । तदाह — अण् स्यादिति । मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः । वैसारिण इति । इनण्यनपत्ये॑ इति प्रकृकतिभावाट्टिलोपो न ।
SK 2085 · A 5.4.17V
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ २०८५ ॥
saṃkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc
Siddhānta-kaumudī
अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥
Tattvabodhinī
NSP p. 331
—संख्यायाः—। अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते, तदा षट्कृत्यः प्रवृत्तौ पञ्चकृत्य इति स्यात् । अतोऽत्र विवक्षितमर्थमाह—अभ्यावृत्तिजन्मेति ॥—भूरिवारानिति । भूरिशब्दस्य लौकिकसंख्यावाचित्वेऽपि नेह ग्रहणम् । ‘बहुगण’—इति सूत्रे बहुग्रहणस्य नियमार्थलात् ‘अनियतसंख्यावाचिनां चेद्भवति बहोरेव’ इति नियमशरीरमिति मनोरमा ॥ बहुगणयोरेवेति नियमशरीरमित्यन्ये ॥ वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात् ‘कालाध्वनोः’—इति द्वितीयेति हरदत्तः । ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणलात्काल एव वर्तते इति कथमत्र प्रसङ्ग इति चेत् । अत्राहुः । कालवाचित्वेऽपि क्रियाभ्यावृत्तेरपि गम्यमानलात्प्रसङ्ग इति ॥ अभ्यावृत्तिगणने किम् । पञ्चपाकाः दश पाकाः इत्यत्र क्रियामात्रगणने माभूत् ॥ क्रियाग्रहणं किमर्थम् । यावताभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयलात्तस्याः, न द्रव्यगुणयोः । तयोस्तु सिद्धस्वभावतया शब्दाभिधानात् ॥ पुनःपुनर्दण्डः पुनःपुनः स्थूल इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयोरिति चेत् । मैवम् । उत्तरार्थं क्रियाग्रहणस्यावश्यकलात्
Bālamanoramā
संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् - संङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रेत, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह — अभ्यावृत्तिर्जन्मेति । उपसर्गवशात् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कुत्वसुचि चकार इत् । उकार उच्चारणार्थः ।तद्धितश्चाऽसर्वविभक्ति॑रित्यत्र तसिलादिषु परिगणनात्कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत् वो भुङ्क्त इति । पञ्चत्त्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । सङ्ख्यायाः किमिति । गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान्भुङ्क्ते इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु समभिव्याह्मतक्रियापर्याप्ते काले वर्तते ।कालाध्वनोरत्यन्तसंयोगे॑ इति द्वितीया । बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची । भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्रते,बहुगणवतुडति सङ्ख्ये॑त्यत्र बहुग्रहणेन तत्पर्यायस्य असङ्ख्यात्वबोधनात्, अतोऽत्र न कृत्वसुच् ।
SK 2086 · A 5.4.18V
द्वित्रिचतुर्भ्यः सुच् ॥ २०८६ ॥
dvitricaturbhyaḥ suc
Siddhānta-kaumudī
कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य SK 280 । चतुः ॥
Bālamanoramā
द्वित्रिचतुर्भ्यः सुच् - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र 'भुङ्क्ते' इत्यनुषज्यते ।
SK 2087 · A 5.4.19V
एकस्य सकृच्च ॥ २०८७ ॥
ekasya sakṛcca
Siddhānta-kaumudī
सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य SK 54 इति सुचो लोपः न तु हल्ङ्याप् - SK 252 इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
Tattvabodhinī
NSP p. 331
—एकस्य सकृच्च । अभ्यावृत्तिरिति न संबध्यते । एकशब्देन ह्येकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम् ॥ अन्यथा ‘आ दशतः संख्याः संख्येये वर्तन्ते’ इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः । एकः पाक इत्यत्र तु अनभिधानान्नेति काशिका ॥—संयोगान्तस्येति । हल्ल्यादिना सुलोप इति प्राचो ग्रन्थोऽयुक्त इत्याह—न त्विति । सुतिसीति साहचर्याद्विभक्तय एव तत्र गृह्यन्त इत्यभिप्रेत्याह—सिच इवेति
Bālamanoramā
एकस्य सकृच्च - एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे — सकृदित्यादेशः स्यादिति । सकृद्भुङ्क्ते इति । एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् ।एकत्वविशिष्टा भुजिक्रियेत्यर्थः ।स्वादु पचती॑त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । 'एको भुङ्क्ते' इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननुसंयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह — नतु हल्याङ्यबितीति । सिच इवेति ।अभैत्सी॑त्यत्रि सिचो लोपनिवृत्तयेहल्ङ्या॑वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः ।
SK 2088 · A 5.4.20V
विभाषा बहोर्धाविप्रकृष्टकाले ॥ २०८८ ॥
vibhāṣā bahordhāviprakṛṣṭakāle
Siddhānta-kaumudī
अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥
Tattvabodhinī
alignment inferredNSP p. 331
—बहुधा दिवसस्य भुङ्क्ते इति । शेषलविवक्षायां षष्ठी । ‘कृत्वोऽर्थप्रयोगे कालेऽधिकरणे’ इत्यनेन षष्ठीति हरदत्तोक्तिस्तु नादर्तव्या । शेषाभिकारवलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरणमिति प्रायुक्तनिष्कर्षविरोधादित्याहुः
Bālamanoramā
विभाषा बहोर्धाऽविप्रकृष्टकाले - विभाषा बहोर्धा । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति दिवसात्षष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः ।
SK 2089 · A 5.4.21V
तत्प्रकृतवचने मयट् ॥ २०८९ ॥
tatprakṛtavacane mayaṭ
Siddhānta-kaumudī
प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥
Tattvabodhinī
NSP p. 331–332
—तत्प्रकृत—। प्राचुर्येण प्रस्तुतमिति । यद्यपि प्रकृतशब्दः प्रस्तुतमात्रे रूढः, तथापि वचनग्रहणादयं विशेषो लभ्यते । वचनग्रहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवमर्थम् ॥—आद्ये इति । प्रथमान्तात्प्रकृते योत्ये प्रत्ययः ॥ स्वार्थिकलात्प्रकृतितो लिङ्गवचनम् । अपूपमयमित्यपि कचित्पव्यते । प्रस्तुतोऽपूपोऽपूपमयम् ॥ कचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । अस्मिन्पक्षे तद्ग्रहणं व्यर्थम् । द्वितीये त्वावश्यकं प्रथमान्तादेव प्रत्ययलाभार्थम् ॥—द्वितीये इति । अस्मिन्पक्षे उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम् । ल्युटोक्तमधिकरणं तु मयडर्थः । अतएव विशेष्यनिघ्नता तदाह—अन्नमयो यज्ञ इति । अन्नं प्रकृतमुच्यते अस्मिन्नित्यर्थः
Footnotes (NSP 1915 ed.)
NSP p. 332 देवतान्तादिति—वैधे कर्मणि लज्यमानद्रव्योद्देश्यत्वं, मधुस्तलत्वं च देवतात्वम् ।
SK 2090 · A 5.4.22समूहातिदेशः
समूहवच्च बहुषु ॥ २०९० ॥
samūhavacca bahuṣu
Siddhānta-kaumudī
सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥
Tattvabodhinī
alignment inferredNSP p. 332
—मौदकिकम् ।—शाण्डुलिकमिति । ‘अचित्तहस्तिधेनोष्ठक्’ ॥—आवसथ इति । ‘उपसर्गं वसेः’ इत्यथप्रत्ययः
Bālamanoramā
समूहवच्च बहुषु - समूहवच्च । बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्ये उदाहरति — मोदकाः प्रकृता मौदकिकमिति ।अचित्तहस्तिधेनो॑रिति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाष्कुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च । द्वितीयेऽर्ते मौदिकको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः ।
SK 2091 · A 5.4.23V
अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ २०९१ ॥
anantāvasathetihabheṣajāññyaḥ
Siddhānta-kaumudī
अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
Tattvabodhinī
alignment inferredNSP p. 332
—निपातसमुदाय इति । उपदेशपारंपर्ये वर्तते वचनाच्चाप्रातिपदिकादेव प्रत्ययः ॥—ऐतिह्यमिति । ‘इतिहाव्ययम्’ इति कोशः ॥—भेषजमिति । भिषज्यतेः कण्ड्वादियगन्तात्क्रिप् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः
Bālamanoramā
अनन्तावसथेतिहभेषजाञ्ञ्यः - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः ।
SK 2092 · A 5.4.24V
देवतान्तात्तादर्थ्ये यत् ॥ २०९२ ॥
devatāntāttādarthye yat
Siddhānta-kaumudī
तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् ॥
Tattvabodhinī
alignment inferredNSP p. 332
—पितृदेवत्यमिति । पितरश्च ता देवताश्च पितृदेवताः । पितृदेवताभ्य इदमिति विग्रहः ॥—अर्घ्यमिति । ‘मूल्ये पूजाविधावर्धः’ इत्यमरः
Bālamanoramā
देवतान्तात्तादर्थ्ये यत् - देवतान्तात्तादर्थ्ये यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः स्वार्थे चतुर्वर्णादित्वात् ष्यञित्यर्थः । देवतान्तात्प्रातिपदिकाद्यत्स्यात्प्रकृत्यार्थे वस्तुनि वाच्य इत्यर्थः ।त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या चे॑त्युक्तंसास्य देवते॑त्यत्र अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः । तदाह — पितृदेवत्यमिति । देवताशब्दस्य देवा भावः । भाष्ये तु॒पितृदेवत्यमिति न सिध्यती॑त्याक्षिप्यदिवैरेआर्यकर्मणो देवः, तस्मात्स्वार्थे त॑लिति समाहितम् । हविः प्रति पित्रादीनामीआरत्वं स्वामित्यम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याद्युद्देशेन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमर्हति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविसेषात्मकमेव भाष्यरीत्याऽपि पर्यवस्य तीत्यलम् ।
SK 2093 · A 5.4.25V
पादार्घाभ्यां च ॥ २०९३ ॥
pādārghābhyāṃ ca
Siddhānta-kaumudī
पादार्थमुदकं पाद्यम् । अर्घ्यम् ।
vārttika
नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः
(वार्तिकम्) ॥ नूत्नम् । नूतनम् । नवीनम् ।
vārttika
नश्च पुराणे प्रात् पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः
(वार्तिकम्) ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ।
vārttika
भागरूपनामभ्यो धेयः
(वार्तिकम्) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ।
vārttika
आग्नीध्रसाधारणादञ्
(वार्तिकम्) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
Tattvabodhinī
alignment inferredNSP p. 332
—पूर्वोक्ता इति । लप्तनप्खप्रत्यया इत्यर्थः ॥—आग्नीध्रमिति । ‘अग्नीधः शरणे रण् भं च’ इति शैषिकेषु व्युत्पादितं, तच्चान्तोदात्तम्, ततः स्वार्थेऽनेनान् । आद्युदात्तत्वं फलम् । फलान्तरमप्याह—स्त्रियामिति ॥—आग्नीध्रीति । शालेति विशेष्यम् ॥ समानं धारणमस्याः साधारणी । अनेकं प्रत्यविशिष्टसंवन्धो भूम्यादिः । पृषोदरादिलात्समानस्य सभावः । विभाषाप्रकरणादन्नभावे टाप् । आग्नीध्रा शाला । साधारणा भूमिः । नन्वन्नभावपक्षे समानस्य सभावेऽपि साधारण इत्येव स्यान्न लत्रादिदृद्धिरिति चेत् । अत्राहुः । ‘साधारणादन्’ इत्यत एव निपातनात्समानस्य सभावविधानाद्वा इष्टसिद्धिरिति ॥—देवतेति । तलन्तं स्त्रियाम्
Bālamanoramā
पादार्घाभ्यां च - पादार्धाभ्यां च ।तादर्थ्ये य॑दिति शेषः । अध्र्यमिति । अर्धार्थमुदकमिति विग्रहः । अर्ध — पूजा ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात्खप्रत्यये, तस्य ईनादेशे प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । त्नप्, तनप्, ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीध्रेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् — आग्नीध्रम् । ततः स्वार्थे अञि आग्नीध्रमेव । अनेकं प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अञि साधारणमित्येव । अञ्विधेः प्रयोजनमाह — स्त्रिया ङीबिति ।
SK 2094 · A 5.4.26V
अतिथेर्ञ्यः ॥ २०९४ ॥
atitherñyaḥ
Siddhānta-kaumudī
तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥
Bālamanoramā
अतिथेर्ञ्यः - अतिथेर्ञ्यः । तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुथ्र्यन्ताण्ण्यः लिङ्गातिक्रमात्स्त्रीत्वम् ।
SK 2095 · A 5.4.27V
देवात्तल् ॥ २०९५ ॥
devāttal
Siddhānta-kaumudī
देव एव देवता ॥
SK 2096 · A 5.4.28V
अवेः कः ॥ २०९६ ॥
aveḥ kaḥ
Siddhānta-kaumudī
अविरेवाविकः ॥
Bālamanoramā
अवेः कः - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।
SK 2097 · A 5.4.29V
यावादिभ्यः कन् ॥ २०९७ ॥
yāvādibhyaḥ kan
Siddhānta-kaumudī
याव एव यावकः । मणिकः ॥
Bālamanoramā
यावादिभ्यः कन् - यावादिभ्यः कन् । यावक इति । यवानामयं यावः=ओदनादिः, स एव यावकः । अलक्तवृक्षो वा यावः, स एव यावकः ।यवोऽलक्तो द्रुमामयः॑ इत्यमरः ।
SK 2098 · A 5.4.30V
लोहितान्मणौ ॥ २०९८ ॥
lohitānmaṇau
Siddhānta-kaumudī
लोहित एव मणिर्लोहितकः ॥
Bālamanoramā
लोहितान्मणौ - लोहितान्मणौ । मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । माणिक्य मयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् ।
SK 2099 · A 5.4.31V
वर्णे चानित्ये ॥ २०९९ ॥
varṇe cānitye
Siddhānta-kaumudī
लोहितकः कोपेन । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥
Tattvabodhinī
NSP p. 332
—वर्णे चानित्ये । अनित्ये किम् । लोहितं रुधिरम् । लोहिता लाक्षा ॥ अनित्यत्वमिह समानाधिकरणध्वंसप्रतियोगित्वम् । अतएव ‘रक्ते’ इत्युत्तरसूत्रं सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणासिद्धेः ॥—लोहितक इति । कोपेन लोहितो यः पुरुषस्तस्मिन्नेव क्षणाद्धर्वं कोपशान्तौ लोहितो नश्यतीति भवत्यत्रानित्यो वर्णः । ‘प्रातिपदिकात्तद्धितः’ इति पक्षस्य प्रतिपदविधानमात्रेणापवादत्वमिति पक्षस्य चाश्रयणे ‘वर्णादनुदात्तात्’ इत्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह—लिङ्गबाधनं वेति । लोहितादित्युपलक्षणम् । एतिका एनिकेत्यादेरपि संग्राह्यत्वात् । ‘सुवन्तात्तद्धिताः’ इति पक्षस्य ‘निरवकाशत्वमपवादत्वम्’ इति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु ‘वर्णादनुदात्तात्’ इत्यस्यानन्तरमेव कनः प्रवृत्तेः कन्प्रत्ययस्य पुंलिङ्गे सावकाशतया निरवकाशत्वाभावाच्च वार्तिकमिदं न कर्तव्यम् । अत एव व्याव्यवहर्णं व्यर्थमिति स्वाम्पीति रूपं प्रवलमिति च मनोरमादावुक्तमिति दिक् ॥—उपाय इति । उपायशब्दष्टकं लभते हस्तत्वं चेत्यर्थः ॥ अकस्माच्छब्दोऽत्र पठ्यते स तु दान्तो न तु तान्तः । तेन कादेशो न ‘अव्ययानां भमात्रे टिलोपः’ आकस्मिकम्
Bālamanoramā
वर्णे चानित्ये - वर्णे चाऽनित्ये । अनित्ये वर्णे विद्यमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । अमण्यर्थमिदम् । लोहितकः कोपेनेति ।देवदत्तादि॑रिति शेषः । कोपनिमित्तकं देवदत्तादेर्वौहित्यमनित्यमेव, कोपाऽभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात्, तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तते, स वर्णो नित्य इत्यभिमतमिति न दोषः । स्यादेतत् ।लोहितिकालोहितिका वा कोपेन॑ति स्त्रियां रूपद्वयमिध्यते । तत्र लोहितशब्दात्वर्णादनुदात्ता॑दिति नत्वसन्नियोगशिष्टं ङीपं परत्वात्स्यार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसन्नियोगशिष्टङीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाऽभावात् । ततश्च लोहितकशब्दात् 'अजाद्यतः' इति टापिप्रत्ययस्था॑दिति इत्त्वे लोहितिकेत्येव स्यान्नतु तत्र लोहिनिकेति । अत आह — लोहिताल्लिङ्गबाधनं वेति । वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिनीशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इति ह्रस्वे कन्नन्ताट्टपि लोहिनिकेति सिध्यति । सति तु कना ङीपो बाधे लोहिताशब्दात्कनि 'केऽणः' इत#इ ह्रस्वे टापि लोहितिकेति भवति । ननुङ्याप् प्रातिपदिका॑दित्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तादेव तद्धिता भवन्ति, नतु ङ्याब्भ्यां प्रागित्येवमर्थमित्युक्तम् । एवंच ङीपः प्राक् कनः प्रसक्तेरेवाऽभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ङ्याब्ग्रहणं न संबध्यते । न चसुबन्तात्तद्धितोत्पत्ति॑रिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचमिदं व्यर्थमिति वाच्यम्, कारककुत्सादिप्रयुक्तकार्याणां क्रमिकतया ङ्याबन्तादेव सुपि ततः कनि रूपसिद्धेर्वचनमिदं व्यर्थमिति वाच्यम्, अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः ।
SK 2100 · A 5.4.32V
रक्ते ॥ २१०० ॥
rakte
Siddhānta-kaumudī
लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥
vārttika
लिङ्गबाधनं वा इत्येव
(वार्तिकम्) ॥ लोहितिका लोहिनिका शाटी ॥
Bālamanoramā
रक्ते - रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम् ।
SK 2101 · A 5.4.33V
कालाच्च ॥ २१०१ ॥
kālācca
Siddhānta-kaumudī
वर्णे चानित्ये SK 2099 रक्ते SK 2100 इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥
Bālamanoramā
कालाच्च - कालाच्च । द्व्यमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति — कालकं मुखं वैलक्ष्येणेति । लज्जाऽसूयादिनेत्यर्थः । रक्ते उदाहरति — कालकः पट इति ।नील्यादिने॑ति शेषः ।
SK 2102 · A 5.4.34V
विनयादिभ्यष्ठक् ॥ २१०२ ॥
vinayādibhyaṣṭhak
Siddhānta-kaumudī
विनय एव वैनयिकः । सामयिकः ॥ (गणसूत्रम् -) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥
Bālamanoramā
विनयादिभ्यष्ठक् - विनयादिभ्यः । उपायाद्ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे । ठक्, प्रकृतेदर्दीर्घस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयथ्र्याद्दीर्घस्येति गम्यते । वाचो व्याह्मतार्थायाम् ।इदमस्य वक्तव्य॑मिति दूतं प्रति योऽर्थ उच्यते स व्याह्मतः,व्याह्मतोऽर्थो यस्या इति विग्रहः । तदाह — संदिष्टार्थायामिति ।
SK 2103 · A 5.4.35V
वाचो व्याहृतार्थायाम् ॥ २१०३ ॥
vāco vyāhṛtārthāyām
Siddhānta-kaumudī
संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥
Tattvabodhinī
NSP p. 332–333
—वाचो व्याहृतां—व्याहृतार्थायां किम् । मधुरा वा- ग्देवदत्तस्य ॥—वाचिकमिति । ‘अतिवर्तन्ते स्वार्थिकाः क्वचिल्लिङ्गम्’ इति नपुंसकलम् ॥—प्रज्ञ एवेति । प्रजानातीति प्रज्ञः । ‘इगुपधज्ञा’ इति कः । ततः स्वार्थेऽण् । प्राज्ञः ॥—प्राज्ञीति । ‘टिङ्खा’ इति कीप् । प्रज्ञानं प्राज्ञा । ‘आतश्चोपसर्गे’ इत्यदि टाप् । प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति । ‘प्रज्ञाश्रद्धार्चाभ्यः’ इति णः
Footnotes (NSP 1915 ed.)
NSP p. 333 १ बह्वल्पार्थादिति—अत्राल्पशब्देन स्तोकादीनामेव ग्रहणं न तदर्थैकशब्दस्य । तत्सत्त्वे मानाभावात् । सत्त्वेऽपि तत्रार्थे तस्याप्रसिद्धतत्त्वेनात्मार्थशब्देन न सहाप्य ।
SK 2104 · A 5.4.36V
तद्युक्तात् कर्मणोऽण् ॥ २१०४ ॥
tadyuktāt karmaṇo'ṇ
Siddhānta-kaumudī
कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥
SK 2105 · A 5.4.37V
ओषधेरजातौ ॥ २१०५ ॥
oṣadherajātau
Siddhānta-kaumudī
स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥
Bālamanoramā
ओषधेरजातौ - ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् ।
SK 2106 · A 5.4.38V
प्रज्ञादिभ्यश्च ॥ २१०६ ॥
prajñādibhyaśca
Siddhānta-kaumudī
प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥
Bālamanoramā
प्रज्ञादिभ्यश्च - प्रज्ञादिभ्यश्च ।स्वार्थे॑ऽणिति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः ।इगुपधज्ञे॑ति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राज्ञीति । अण्णन्तत्वान्ङीप् । प्रज्ञाअस्यास्तीति विग्रहे तुप्रज्ञाश्रद्धार्चाभ्यः॑ इति णाऽन्ताट्टापि प्राज्ञेति रूपम् ।
SK 2107 · A 5.4.39V
मृदस्तिकन् ॥ २१०७ ॥
mṛdastikan
Siddhānta-kaumudī
मृदेव मृत्तिका ॥
Tattvabodhinī
NSP p. 333
—मृदस्तिकन् । ‘प्रखयस्थात्’ इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं, टापो लुक्यपि श्रवणार्थं च । पञ्चमिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः ॥—सस्त्रौ—। इह ‘प्रशंसायां रूपप्’ इत्यस्यानन्तरं ‘वृक्षज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि’ । ‘मृदः सस्त्रौ’ ‘तिकंश्च’ इति वक्तुमुचितम् ॥ न चैवं सस्त्राविव तिकन् प्रत्ययोऽपि प्रशंसायामेवेत्यतिप्रसङ्गः । ‘तिकंश्च’ इत्यत्र ‘प्रशंसायाम्’ इति निवृत्तमिति कल्पनायां मानाभावादिति वाच्यम् । ‘मृदः सस्तिकनः’ इति वक्तव्ये तिकनः पृथक्करणस्यैव तत्र मानलात् ॥—प्रशस्ता मृदिति । ‘मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका’ इत्यमरः
SK 2108 · A 5.4.40V
सस्नौ प्रशंसायाम् ॥ २१०८ ॥
sasnau praśaṃsāyām
Siddhānta-kaumudī
रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥
Tattvabodhinī
alignment inferredNSP p. 333
— नित्योऽयमिति । मृदित्येतावदुक्ते प्रशस्तलानवगमाद्विभाषात्र नानुवर्तते इति सस्त्रावित्ययं विधिर्नित्य एव । उत्तरसूत्रस्थान्यतरस्यांग्रहणात्तु सुतरामिति भावः
Bālamanoramā
सस्नौ प्रशंसायाम् - सस्नौ । प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति ।प्रशंसायां रूपबि॑ति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वस्तुतस्तुञ्यादयः प्राग्वुनः॑ इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः ।
SK 2109 · A 5.4.42V
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ॥ २१०९ ॥
bahvalpārthācchas kārakādanyatarasyām
Siddhānta-kaumudī
बहूनि ददाति बहुशः । अल्पानि अल्पशः ।
vārttika
बह्वल्पार्थन्मङ्गलामङ्गलवचनम्
(वार्तिकम्) ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥
Tattvabodhinī
alignment inferredNSP p. 333
—बह्वल्पार्थात्—॥—बहूनीति । बहुभ्यो ददाति बहुशः, अल्पेभ्य अल्पश इत्याद्यपि बोध्यम् ॥ बह्वल्पार्थात्किम् । गां ददाति । अश्वं ददाति ॥ अर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च । भूरिशो ददाति । त्रिशः ॥ कारकात्किम् । बहूनां स्वामी, अल्पानां स्वामी ॥—मङ्गलवचनमिति । ‘बहुशो ददात्याभ्युदयिकेषु कर्मसु । अल्पशो ददात्यनिष्टेषु’ । आभ्युदयिकेषु बहुदानम् अनिष्टेष्वल्पदानं च मङ्गलम् । तद्वैपरीत्येन दानं तु मङ्गलं न भवतीत्याशयेनाह—नेहेति ॥—अनिष्टेष्विति । भयादिनिमित्तेषु दानेषु ॥—आभ्युदयिकेष्विति । आभ्युदयप्रयोजनेष्वभ्याधेयादिषु । मूलपुस्तके तु ‘मङ्गलामङ्गलवचनम्’ इति प्रायेण पठ्यते । तत्रामङ्गलग्रहणं वृद्धेत्याहुः । प्रायिकं चैतन्मङ्गलवचनमन्यत्रापि हि दृश्यते ‘अपेतापोढमुक्तपतितापत्रस्तैरल्पशः’ इति । कारकत्वं तु समसनक्रियां प्रति पञ्चम्याः कर्मलात्तदभिधायकलाच्चाल्पशब्दस्य । तथा च व्याचक्षते । अल्पा पञ्चमी समस्यत इति । आचार्येणेति शेषः
Bālamanoramā
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् - बह्वल्पार्थादिति । वार्तिकमिदम् । मह्गलाऽमङ्गलेगम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिष्टेष्विति । भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयिकेष्विति । अभ्युदयः=श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदानम्, अनिष्टेषु अल्पदानं च मङ्गलम् । तद्विपरीतदानं त्वमङ्गलमिति भावः । अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् ।
SK 2110 · A 5.4.43V
संख्यैकवचनाच्च वीप्सायाम् ॥ २११० ॥
saṃkhyaikavacanācca vīpsāyām
Siddhānta-kaumudī
द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥
Tattvabodhinī
alignment inferredNSP p. 333–334
—परिमाणशब्दा इति । तथा चैकवचनग्रहणेन एकोऽर्थं उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्यन्त इति भावः ॥—मात्रं माषमिति । माषदातेत्युक्ते माषमाषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः ॥ एवं प्रस्थादिरपि ॥ घटादयस्तु नैवम् । घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानलात् । अत एव च प्रत्युदाहरति—घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्ति जातियोगस्यैकानेकसाधारणलात्, किं लभेदैकलसंख्यामुपाददते । एतच्च सर्वं जयादित्यमतानुसारेणोक्तम् ॥ वामनमते जातिशब्देभ्योऽपि भवत्येव । तथा च ‘जश्शसोः’ इति सूत्रे तेनोक्तम् ‘जसा सह चरितस्य शसो ग्रहणादिह न भवति । ‘कुण्डशो ददाति वनशः प्रविशति’ इति, तस्यायमाशयः—जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति ॥ अथ कथम् ‘एकैकशः पितृसंयुक्तान्’ इति द्विर्वचनशसोः सह प्रयोग इति चेत् । छन्दोवद्दृषयः कुर्वन्तीति हरदत्तः । अतएव ‘सुपः’ इति सूत्रे एकैकश इति प्राचो ग्रन्थः प्रामादिक इत्यवोचामेति मनोरमायां स्थितम् ॥ वस्तुतस्तु एकैकमेव एकैकशः । स्वार्थे शस्, न तु वीप्सायां ‘एकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वा’ इति भाष्यादिति ‘तान्येकवचन’ इत्यादिसूत्रे वक्ष्यामः ॥—द्वौ ददातीति । कथं तर्हि—‘अत्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते’ इति । न ह्यत्र वीप्सास्ति, नापि कारकलमिति चेत् । अत्राहुः । सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः ॥ तथा च समवायक्रियां प्रति कर्तृत्वं वीप्सा चास्त्येवेति ॥ एतेन ‘एकश एकवचनादिसंज्ञानि स्युः इति व्याख्यातम् । एकशब्दार्थस्यास्तिक्रियां प्रति कर्तृत्वात्
Bālamanoramā
संख्यैकवचनाच्च वीप्सायाम् - प्रतियोगे । विहितेति ।प्रतिः प्रतिनिधिप्रतिदानयो॑रिति प्रते कर्मप्रवचनीयत्वे तद्योगेप्रतिनिधिप्रतिदाने च यस्मा॑दिति पञ्चमी विहितेत्यर्थः । प्रद्यचुम्नः कृष्णतः प्रतीति । कृष्णस्य प्रतिनिधिरित्यर्थः । आद्यादिभ्य इति । अयं सार्वविभक्तिकस्तसिः । अपादाने चाऽहोयरुहोः ।अहीयरूहो॑रिति छेदः । 'हीयते' इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्यहीये॑त्यनुकरणम् । हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः । अतिग्रहा व्यथने अतिक्रम्य ग्रह इति । लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः । फलितमाह — अन्यानतिक्रम्य वर्तत इति ।व्यथ भयसंचलनयो॑रिति चलनार्थाल्ल्युटि व्यथनशब्दः । तदाह — अव्यथनमचलनमिति । क्षेपे इति । 'उदाह्यियते' इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच्च । हीयमानेति । हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह — क्षेपस्याऽविवक्षायामिति । तत्त्वकथने इत्यर्थः । षष्टआ व्याश्रये ष । नानापक्षसमाश्रयणे इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः — स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे आसन्नित्यर्थः । रोगाच्चा । रोगस्य प्रतीकारः — चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः ।
Footnotes (NSP 1915 ed.)
NSP p. 334 १ अभूततन्नाव इति—गम्यमाने इति शेषः । अभूतत्वं च प्रत्यासत्त्या तन्नावशब्दघटकतच्छब्दार्थकरणकत्वेनैव ग्राह्यम् । एवं च येन रूपेण प्रागभूतं तेन रूपेण तस्य भावे इति फलितोऽर्थः । एवं च यत्र प्रकृतिस्वरूपमेव विकाररूपतामापद्यमानं विवक्ष्यते तत्रायं प्रत्ययः ।
SK 2111 · A 5.4.44V
प्रतियोगे पञ्चम्यास्तसिः ॥ २१११ ॥
pratiyoge pañcamyāstasiḥ
Siddhānta-kaumudī
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ।
vārttika
आद्यादिभ्य उपसंख्यानम्
(वार्तिकम्) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥
Tattvabodhinī
alignment inferredNSP p. 334
—कृष्णतः प्रतीति । ‘प्रतिः प्रतिनिधिप्रतिदानयोः’ इति कर्मप्रवचनीयसंज्ञायां ‘प्रतिनिधिप्रतिदाने च यस्मात्’ इति पञ्चमी ॥—आद्यादिभ्य इति । ‘तस्यादित उदात्तमधर्वहस्तम्’ इत्येतदत्र लिङ्गम् ॥ —ग्रामत इति । एवमध्ययनात्पराजयते अध्ययनत इत्याद्यपि बोध्यम् ॥—अतिगृह्यत इति । अन्यातिक्रमेण लोकैर्गृह्यत इत्यर्थः । फलितमाह—अन्यानतिक्रम्य वर्तत इति ॥—प्रवाहिकात इति । प्रच्छर्दिकातः कुर्वित्याद्यप्युदाहरणम् । प्रवाहिका विषूचिका । प्रच्छर्दिका तु वमनव्याधिः
SK 2112 · A 5.4.45V
अपादाने चाहीयरुहोः ॥ २११२ ॥
apādāne cāhīyaruhoḥ
Siddhānta-kaumudī
अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥
SK 2113 · A 5.4.46V
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥ २११३ ॥
atigrahāvyathanakṣepeṣvakartari tṛtīyāyāḥ
Siddhānta-kaumudī
अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥
SK 2114 · A 5.4.47V
हीयमानपापयोगाच्च ॥ २११४ ॥
hīyamānapāpayogācca
Siddhānta-kaumudī
हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥
SK 2115 · A 5.4.48V
षष्ठ्या व्याश्रये ॥ २११५ ॥
ṣaṣṭhyā vyāśraye
Siddhānta-kaumudī
षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥
SK 2116 · A 5.4.49V
रोगाच्चापनयने ॥ २११६ ॥
rogāccāpanayane
Siddhānta-kaumudī
रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥
SK 2117 · A 5.4.50V
कृभ्वस्तियोगे संपद्यकर्तरि च्विः ॥ २११७ ॥
kṛbhvastiyoge saṃpadyakartari cviḥ
Siddhānta-kaumudī
।
vārttika
अभूततद्भाव इति वक्तव्यम्
(वार्तिकम्) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥
Tattvabodhinī
NSP p. 334
—कृभ्वस्तियोगे—। योग इति किम् । अशुक्लः शुक्लो जायते ॥—संपद्यकर्तरीति । संपद्यश्वासौ कर्ता चेति विग्रहः । ‘पाघ्राध्माधेट्टशः’ इति विहितः शप्रत्ययोऽस्मादेव निपातनात्संपदोऽपि भवति । दिवादित्वात् इयनिति हरदत्तः ॥—वक्तव्यमिति । वृत्तिकारस्तु ‘अभूततद्भावे’ इति सूत्रमध्ये प्रविक्षेप ॥—च्वयन्तत्वादिति । तस्य निपातत्वात् ‘स्वरादिनिपातमव्ययम्’ इत्यनेनेत्यर्थः ॥ —गर्गीभवतीति । इह यच्चन्तात् सुपि ततः चिवप्रत्यये कृते ‘आपत्यस्य च तद्धितेऽनाति’ इति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम् ॥—अरुर्मनः—॥—चिवश्चेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोगशिष्टत्वार्थः
Bālamanoramā
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः - कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवंच यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकाराऽभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम् । संपदनं — सम्पद्यः । संपूर्वकात्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वाच्छ्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम्, 'अभूततद्भावे' इति वार्तिकात्प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, अस भुवी॑ति धातुभिर्योगे सतीत्यर्थः ।च्विप्रत्यये चकार इत्, इकार उच्चारणार्थः ।
SK 2118 · A 7.4.32V
अस्य च्वौ ॥ २११८ ॥
asya cvau
Siddhānta-kaumudī
अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ।
vārttika
अव्ययस्य च्वावीत्वं नेति वाच्यम्
(वार्तिकम्) ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च अव्ययीभावश्च SK 451 इति सूत्रे भाष्ये उक्तम् ॥
Bālamanoramā
अस्य च्वौ - अस्य च्वौ । ईत्स्यादिति ।ई ध्राध्मो॑रित्यतस्तनुवृत्तेरिति भावः । वेर्लोप इति ।वैरपृक्तस्ये॑त्यनेन॑ति शेषः । च्व्यन्तत्वादव्ययत्वमिति ।ऊर्यादिच्विडाचश्चेति॑निपातत्वात्स्वरादिनिपातमित्यव्ययत्वमित्यर्थः ।तद्धितश्चासर्वविभक्ति॑रित्यत्रशस्प्रभृतयः प्राक्समासान्तेभ्यः॑ इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृञ्योगे उदाहरति — कृष्ण इति । वस्तुतोऽकृष्णः सन्वेषादिना कृष्णभावे प्राप्नोतीत्यर्थः । तं करोतीति । अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः । कृष्णीकरोतीति । अत्र वस्तुतोऽकृष्णो नटः प्रकृतिभूतः । स तावत्कृष्णभावं विकारं प्राप्नुवन्सम्पद्यमानत्वात्सम्पद्यकर्तां भवतीति तत्राऽभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः । तस्माच्च्विप्रत्ययः । चकार इत्, उकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्त्वम् ।वेरपृक्तस्ये॑ति वकारलोपः ।कृष्णी॑ति ईकारान्तमव्ययम् । ब्राहृईभवतीति । अब्राहृ ब्राहृ संपद्यमानं भवतीत्यर्थः । ब्राहृन्शब्दाच्च्विः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः । ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिर्नतु सुबन्तादिति न#इयमः । अतो न च्वेः प्रातिपदिकादुत्पत्तिः,किंतु सुबन्तादेवेति बोध्यम् । अत एव अगौर्गोः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्यएङः पदान्ता॑दिति पररूपमुदाहृतं भाष्ये सङ्गच्छत इत्यलम् । गङ्गी स्यादिति । अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतमहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रात्रिरित्यर्थः वर्तते । अदोषाभूतमहो बहुलमेघावरणान्धकाराद्दोषाभूतमित्यर्थः । दिवाभूतारात्रिरिति । दिवेत्याकारान्तमव्ययमहनीत्यर्थे इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशादहर्भूतेत्यर्थः । ननुअव्ययस्य च्वावीत्त्वं ने॑ति वार्तिकम् 'अस्य च्वौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह — एतच्चेति ।
SK 2119 · A 6.4.152V
क्यच्व्योश्च ॥ २११९ ॥
kyacvyośca
Siddhānta-kaumudī
हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥
Bālamanoramā
क्यच्व्योश्च - गार्गीभवतीति वक्ष्यन्नाह — क्यच्व्योश्च । 'अल्लोपोऽनः' इत्यस्माल्लोप इति,हलस्तद्धितस्ये॑त्यस्माद्धल इति , 'सूर्यतिष्ये' त्यतो य इति,आपत्यस्य चे॑त्यस्मादापत्यस्येति चानुवर्तते । तदाह — हलः परस्येति । गार्गीभवतीति । आगाग्र्यो गार्ग्यः संपद्यमानो भवतीत्यर्थः । यञन्ताच्च्वौ यकारस्य लोपः । वेर्लोपः । यकारस्य तुआपत्यस्य चे॑ति लोपो न सम्भवति, ईकारेण व्यवधानात् ।हलस्तद्धितस्ये॑त्यपि न सम्भवति, तस्य ईति अर्थवत्येव विधानात् । अतो वचनमिति भावः ।
SK 2120 · A 7.4.26V
च्वौ च ॥ २१२० ॥
cvau ca
Siddhānta-kaumudī
च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः SK 1234 । मात्रीकरोति ॥
Bālamanoramā
च्वौ च - अथशुचीभवती॑तिवक्ष्यन्नाह — च्वौ च । दीर्घः स्यादिति ।अकृत्सार्वधातुकयो॑रित्यतस्तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्यच्वौ चे॑ति दीर्घो नेत्यर्थः । तेन स्वस्तिस्यादित्यत्र च्वौ न दीर्घ इति भावः । तन्निरमूलमिति । भाष्यावदृष्टत्वादिति भावः । तर्हिस्वस्ति स्या॑दिति न स्यात्, दीर्घप्रसङ्गादित्यत आह — स्वस्ति स्यादिति त्विति । ननु महाविभाषया दीर्घाऽभावे स्वस्ति स्यादिति सिद्धावपि, कदाचित्स्वस्ती स्यादिति दीर्घो दुर्वार इति शङ्कते — स्वस्तीस्यादित्यपि पक्षे स्यादिति । इष्टापत्तिरित्याह — अस्त्विति ।दीर्घतदभावाभ्यां रूपद्वय॑मिति शेषः । प्रामाणिकत्वादुभयमप्यादर्तव्यमिति । भावः । ननु शिष्टानङ्गीकारात्कथं दीर्घपाठादर इत्यत आह-यदि नेष्यते इत्यादि । मातृशब्दाच्च्विप्रत्यये विशेषमाह — रीङृत #इति ।
SK 2121 · A 5.4.51V
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ २१२१ ॥
arurmanaścakṣuścetorahorajasāṃ lopaśca
Siddhānta-kaumudī
एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥
Bālamanoramā
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च - अरुर्मनश्चक्षुः ।एषामिति । अरुस्, मनस्, चक्षुस्, चेतस्, रहस्, रजस् इत्येतेषामित्यर्थः । पूर्वेणैव प्रत्ययसिद्धेस्तत्संनियोगेन अन्त्यलोप इह विधीयते । अरूकरोतीति । अनरुः अरुः सम्पद्यते, तत्करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्यच्वौ चे॑ति दीर्घः । उन्मनीकरोतीति । अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । उच्चक्षूकरोतीति । अनुच्चक्षुरुच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, दीर्घश्च । उच्चेतीकरोतीति । अनुञ्चेता उच्चेताः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्टं रहो विरहः । अविरहो विरहः संपद्यते तत्करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरजीकरोतीति । अविरजा विरजाः सम्पद्यते तं करोतीत्यर्थः । अन्त्यलोपे अस्य च्वौ ईत्त्वं च ।
SK 2122 · A 5.4.52V
विभाषा साति कार्त्स्न्ये ॥ २१२२ ॥
vibhāṣā sāti kārtsnye
Siddhānta-kaumudī
च्विविषये सातिर्वा स्यात्साकल्ये ॥
Tattvabodhinī
NSP p. 334–335
—विभाषा साति—। विभाष्यते विकल्प्यते इति विभाषा । ‘गुरोश्च हलः’ इत्यकारप्रत्ययः । ततः टाप् । न त्विदमव्ययं ‘द्वयोर्विभाषयोर्मध्ये, पयसस्तु विभाषया’ इत्यादौ विभक्तेर्दर्शनात् ॥—कृत्स्नमिति । सर्वावयवोपे- तमिलथः ॥—अग्निसाङ्गवति शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः ॥—वन्दे रमे वेति । देवान् वन्दे देवत्रा वन्दे । देवेषु रमे देवत्रारमे इत्यर्थोऽत्र पर्यवसन्नः । एवं मनुष्यान् गच्छति मनुष्यत्रा गच्छति । मनुष्येषु वसति मनुष्यत्रा वसति । पुरुषान् गच्छति पुरुषत्रा गच्छति । पुरुषेषु वसति पुरुषत्रा वसति । पुरुषशब्दो बहुपर्यायः । पुरुन् गच्छति पुरुषु वसति वा पुरुत्रा । मर्त्यान्मर्त्येषु वा मर्त्यत्रा ॥—डाचि विवक्षित इति ॥ परसप्तभ्यां लन्योन्याश्रयः स्यात् । डाचि कृते द्वित्वे सति ब्रजवरार्धता, तस्यां च सत्यां डाजिति भावः ॥—खरटखरटाकरोतीति । द्विलप-ररूपादि प्राग्वत् । ब्रजवरार्धादित्युक्ते तत्र डाच् न स्यात् । न ह्यत्रार्धं ब्राच् किं तु त्र्यच् ॥—अनेकाच इत्येवेति । ‘ब्रजवरार्धात्’ इत्यपनीयेत्यर्थः ॥—पटितीति । ‘अव्यक्तानुकरणस्यात् इतौ’ इति पररूपम् ॥ नन्वत्र करोतिना योगो दुर्लभः । इतिशब्देन व्यवधानात् । तथा चानिताविति व्यर्थमिति चेत् । अत्राहुः । इतिशब्देन करोत्यर्थगतप्रकार एव पराभृश्यते इत्येवंप्रकारेण करोतीति । तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति ॥—बीजेन सहेति ॥ ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत् । अत्राहुः । वृत्तिविषये बीजशब्दो बीजावापसहिते विलेखने वर्तते । तथा च बीजावापसहितं विलेखनं करोतीत्यर्थं इति
Bālamanoramā
विभाषा साति कार्त्स्न्ये - विभाषा साति ।साती॑ति लुप्तप्रथमाकम् । च्विविषये इति । अभूततद्भावे संपद्यकर्तरि कृभ्यस्तियोगे इत्यर्थः ।
SK 2123 · A 8.3.111V
सात्पदाद्योः ॥ २१२३ ॥
sātpadādyoḥ
Siddhānta-kaumudī
सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥
SK 2124 · A 5.4.53V
अभिविधौ सम्पदा च ॥ २१२४ ॥
abhividhau sampadā ca
Siddhānta-kaumudī
संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥
SK 2125 · A 5.4.54V
तदधीनवचने ॥ २१२५ ॥
tadadhīnavacane
Siddhānta-kaumudī
सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ॥
Bālamanoramā
तदधीनवचने - तदधीनवचे । शेषपूरणेन सूत्रं व्याचष्टे — सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः ।
SK 2126 · A 5.4.55V
देये त्रा च ॥ २१२६ ॥
deye trā ca
Siddhānta-kaumudī
तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥
Bālamanoramā
देये त्रा च - देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः ।
SK 2127 · A 5.4.56V
देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ २१२७ ॥
devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyorbahulam
Siddhānta-kaumudī
एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥
Bālamanoramā
देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् - देवमनुष्यपुरुष । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मत्र्य-इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् ।साती॑ति 'कृभ्वस्तियोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति । देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा, पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा । मत्र्यत्रा । अन्यत्रापीति । देवादिभ्योःऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनो बहुषु विषयेषु गच्छति । बहून् व्याप्नोतीत्यर्थः ।
SK 2128 · A 5.4.57V
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ॥ २१२८ ॥
avyaktānukaraṇāddvyajavarārdhādanitau ḍāc
Siddhānta-kaumudī
द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ।
vārttika
डाचि विवक्षिते द्वे बहुलम्
(वार्तिकम्) ।
vārttika
नित्यमाम्रेडिते डाचीति वक्तव्यम्
(वार्तिकम्) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥
Bālamanoramā
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् - अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णविशेषा न व्यज्यन्ते सोऽव्यक्तो ध्वनिः । तस्यानुकरणम् — अव्यक्तानुकरणम् ।द्व्यजवरार्ध॑शब्दं व्याचष्टे — द्व्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे — न्यूनमिति । द्व्यजेव अवरं=न्यूनसंख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाच्कमित्यर्थः । फलितमाह — अनेकाजिति यावदिति । तादृशमर्थमिति । अनेकाच्कमर्धं=भागो यस्य तत् — द्व्यजवरार्धम् । तस्मादित्यर्थः । कृभ्वस्तिभिर्योगे इति । मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणाच्छब्दात्कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणाड्डाटमुदाहरिष्यन्पटच्छब्दस्य द्विर्वचनमाह — डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे' इति प्रकरणेडाचि द्वे भवत इति वक्तव्य॑मित्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नाऽर्थः, तथा सति डाचि सतु पटच्छब्दस्य द्विर्वचनं, सति च द्विर्वचने अद्र्धस्याऽनेकाच्त्वाड्डाजित्यन्योन्याश्रयापत्तेः । अतो डाचि विवक्षिते इत्याश्रितम् । एवंच डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाड्डाच् सूपपादः । पटत्, पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति — नित्यमाम्रेडिते डाचीति ।एकः पूर्वपरयो॑रित्यधिकारे पररूपप्रकरणेनाम्रेडितस्यान्त्यस्य तु वे॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति । डाच् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपठत् आ करोतीति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति । द्व्यजर्दादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति । घरटत् इत्यव्यक्तानुकरणाड्डाचि द्विर्वचने पररूपे टिलोपे रूपम् ।द्व्यजर्धा॑दित्युक्ते तु अर्धभागस्य घरटदित्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः । अनेकाच इत्येवेति ।द्व्यजवरार्धा॑दित्यपनीयअव्यक्तानुकरणादनेकाचोऽनितौ डाजि॑त्येव सूत्रयितुमुचितमित्यर्थः । एवं हीति । 'अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वाड्डाच् संभवतीतिडाचि परतो द्वित्व॑मिति वक्तुं शक्यमिति भावः । पटितीति ।अव्यक्तानुकरणस्ये॑ति पररूपम् ।
SK 2129 · A 5.4.58V
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ ॥ २१२९ ॥
kṛño dvitīyatṛtīyaśambabījāt kṛṣau
Siddhānta-kaumudī
द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥
Bālamanoramā
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ - कृञो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृञ एव योगे इति । कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः । 'मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवर्तते । बहुलोक्तेरिति ।डाचि बहुलं द्वे भवतः॑ इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोमे इति । 'वर्तते' इति शेषः । बीजेन सह कर्षतीति । आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति । तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम् ।
SK 2130 · A 5.4.59V
संख्यायाश्च गुणान्तायाः ॥ २१३० ॥
saṃkhyāyāśca guṇāntāyāḥ
Siddhānta-kaumudī
कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥
Bālamanoramā
संख्यायाश्च गुणान्तायाः - सङ्ख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे — कृञो योगे इति ।
SK 2131 · A 5.4.60V
समयाच्च यापनायाम् ॥ २१३१ ॥
samayācca yāpanāyām
Siddhānta-kaumudī
कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥
Tattvabodhinī
NSP p. 335
—समयाच्च—। कालं यापयतीत्यर्थं इति । कर्तव्यस्यावसरप्राप्तिः समयस्तस्यातिक्रमणं यापना’ इति वृत्तिग्रन्थमुपादाय हरदत्त आह । ‘अद्य मे पारवश्यं, श्वः परश्वो वा अस्य समय इत्येवं बहुषु दिवसेषु य आह स एवमुच्यते’ इति
Bālamanoramā
समयाच्च यापनायाम् - समयाच्च । कृषाविति निवृत्तम् । समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह यापनायामित्याह — यापयतीति.अतिक्रान्तं करोतीत्यर्थः ।अद्येदं कर्तव्य॑मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत् ।
SK 2132 · A 5.4.61V
सपत्त्रनिष्पत्रादतिव्यथने ॥ २१३२ ॥
sapattraniṣpatrādativyathane
Siddhānta-kaumudī
सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करेति भूतलम् ॥
Tattvabodhinī
alignment inferredNSP p. 335
—सपत्रनिष्पन्नात्—॥ लक्ष्ये शराः पतन्त्यनेनेति पत्रम् । शराणां पुङ्क्तगतो बहः ॥—सपत्रं निष्पन्नं वा करोतीति । पत्राणि पर्णानि तत्सहितं तद्वहितं वेति यथासंभव-मर्थः
Bālamanoramā
सपत्त्रनिष्पत्रादतिव्यथने - सपत्र । सपत्रशब्दान्निष्पत्रशब्दाच्च अतिव्यधने डाजित्यर्थः ।व्यध ताडने॑चतुर्थान्तः । अतिक्रम्य वेधः । अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्रं=शराणां पुङ्खगतो बर्हः । भूतलमिति ।पुङ्खपर्यन्तं पुङ्खवर्जं वा शरप्रवेशनेन सपत्र॑निष्पत्र॑वा भूतलं करोतीत्यर्थः ।
SK 2133 · A 5.4.62V
निष्कुलान्निष्कोषणे ॥ २१३३ ॥
niṣkulānniṣkoṣaṇe
Siddhānta-kaumudī
निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥
Tattvabodhinī
alignment inferredNSP p. 335–336
—तिष्कुलात्—। निष्कोषणमन्तरवयवानां वहिनिष्कासनम् ॥ निष्कोषणे किम् । निष्कुलं करोति शत्रुम्— शूलात्पाके । पाके किम् । शूलं करोति कदनं, शूलमुदररोगः
Bālamanoramā
निष्कुलान्निष्कोषणे - निष्कुलान्निष्कोषणे ।डा॑जिति शेषः । निष्कोषणम् — अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गतं कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह — निर्गतमित्यादि ।
SK 2134 · A 5.4.63V
सुखप्रियादानुलोम्ये ॥ २१३४ ॥
sukhapriyādānulomye
Siddhānta-kaumudī
सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
Bālamanoramā
सुखप्रियादानुलोम्ये - सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम् । सुखाकरोति प्रियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरु॑ सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः । तदाह — अनुकूलेति ।
SK 2135 · A 5.4.64V
दुःखात् प्रातिलोम्ये ॥ २१३५ ॥
duḥkhāt prātilomye
Siddhānta-kaumudī
दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥
Bālamanoramā
दुःखात् प्रातिलोम्ये - दुःखात् ।डा॑जिति शेषः । आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् ।
SK 2136 · A 5.4.65V
शूलात् पाके ॥ २१३६ ॥
śūlāt pāke
Siddhānta-kaumudī
शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
Bālamanoramā
शूलात् पाके - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।
SK 2137 · A 5.4.66V
सत्यादशपथे ॥ २१३७ ॥
satyādaśapathe
Siddhānta-kaumudī
सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥
Tattvabodhinī
NSP p. 336
—सत्यादशपथे । सत्सु साधु सत्यम् । ‘तत्र साधुः’ इति प्राग्वितीयत्वादि प्राप्ते अत एव निपातनाद् यः । अन्तोदात्तोऽयम् । ‘सत्येनोत्तमिता भूमिः’ । ‘ऋतं च सत्यं च’ इत्यत्र तथा दर्शनात् ॥—सत्याकरोतीति । भाण्डं रत्नादिव्यजातम् ॥—क्रेतव्यमिति । मयैवेतद् प्राह्यमिति बुद्ध्या परीक्षादिना सत्यंकारव्यप्रदानेन च दृढं करोतीत्यर्थः ॥—तथ्यमिति । तथैव तथ्यम् । ‘पादार्घाभ्यां च’ इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थं यत् ॥—परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेहेंतुमणिचि ल्युडिति हरदत्तः ॥ कर्मव्यापारः फलं तस्य कर्मनिष्ठत्वात् । यथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः
Bālamanoramā
सत्यादशपथे - सत्यादशपथे ।डा॑जिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः । सत्यशब्दोऽत्र तथ्ये वर्तते ।सत्यं तथ्यमृतं सम्य॑गित्यमरः । क्रेत्वयमितीति ।एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने॑त्येवं यथाभूतार्थं वदतीत्यर्थः । सत्यंकरोति विप्र इति । शपथं करोतीत्यर्थः ।
SK 2138 · A 5.4.67V
मद्रात् परिवापणे ॥ २१३८ ॥
madrāt parivāpaṇe
Siddhānta-kaumudī
मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥
vārttika
भद्राच्चेति वक्तव्यम्
(वार्तिकम्) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥
Tattvabodhinī
alignment inferredNSP p. 336
—माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ ॥—भद्राच्चेति । भद्रादित्यर्थप्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति वोध्यम् ॥ इति तद्राजाः । इति तद्धितप्रक्रिया ॥ सर्वस्य द्वे ॥ सर्वशब्दस्य द्वे भवत इति विधिस्तु न शङ्खः । किं तु ‘नित्यवीप्सयोः’ इत्येवमादीनां विधेयकार्यिणोरनिदेशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयं तदाह—इत्यधिकृत्येति । एतदर्थरूपमधिकृत्येत्यर्थः । स्वरूपग्रहणं तु न भवति ‘नाम्नेडितस्यान्त्यस्य तु वा’ इति लिङ्गात् । स्वरूपग्रहणे हि सति द्विरुक्तसर्वशब्दस्यैव परमाम्नेडितं स्यात् । न तु द्विरुक्तस्याव्यक्तानुकरणशब्दस्य परमिति ‘नाम्नेडितस्य’-इति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं संगच्छेत् ॥ ननु ‘नित्यवीप्सयोः’ इत्यादौ ‘पदस्य’ इति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयते इति किमनेन सर्वस्येति ग्रहणेनेति चेत् । अत्राहुः । ‘स्वादिषु’ इति पदसंज्ञामादाय वृक्षाभ्यामित्यादौ प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु ‘सर्वस्य’ इति ग्रहणे ‘सर्वशब्दोऽवयवकार्त्स्यं वर्तते’ इति ‘सर्वावयवोपेतस्य द्वित्वं, न तु कश्चिदवयवो वर्ज्यते’ इत्यर्थलाभादिष्टसिद्धिरिति ॥ इह ‘द्वे’ इत्यस्य संख्येयापेक्षायां शब्दरूपे गृह्येते । शब्दानुशासनप्रस्तावात् । ‘सर्वस्य’ इति स्थानषष्ठी ॥ सोऽयं स्थाने द्विर्वचनपक्षः ॥ यदि तु उच्चारणे संख्येये, तदा स्थान्यादेशभावो न संभवति, निवृत्तिधर्मा हि स्थानी भवति, सर्वं चेत् निवृत्तं कस्योच्चारणं स्यादतः ‘सर्वस्य’ इत्यध्याहतोच्चारणशब्दापेक्षया ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । ‘सर्वं द्विरुच्चारयेत्’ इति फलितोऽर्थः । सोऽयं ‘द्विःप्रयोगो द्विर्वचनम्’ इति पक्षः ॥ ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पदत्वं स्यात् न त्वयवयोस्तंतश्च पदकार्याणि न स्युः । न चेष्टापत्तिः । ‘अपचन्नपचन्’ इत्यत्र डमुद्, ‘वृक्षान् वृक्षान्’ इत्यत्र ‘पदान्तस्य’ इति णत्वनिषेधः, ‘अग्रेऽग्रे’ इत्यत्र ‘एङः पदान्तात्’- इति पूर्वरूपत्वं च न सिध्येत् । किं चापदान्तत्वप्रयुक्तकार्याणि स्युः । तद्यथा ‘पयः पयः’ इत्यत्र ‘सोऽपदादौ’ इति सत्वं स्यात्, ‘पपीः पपीः’ इत्यत्र ‘इणः षः’ इति षत्वं स्यात् । पाशकरूपककाम्येषु’ इति वृत्तिप्रन्थमवष्टभ्य कथंचित्सत्वप्रत्यपरिहारेऽपि ‘अश्रीताश्रीत’ इत्यत्र ‘अतो गुणे’ इति पररूपं स्यादिति चेत् । अत्राहुः । यदि प्रत्यस्तमितावयवभेदः समुदाय एक एवादेशः स्यात् द्वे इति द्विवचनमनुपपन्नं स्यात्, अतो द्वे इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते तत्र स्थानिवद्भावेन समुदायस्य पदत्वं स्वत एव चावयवयोरपीति न कश्चिद्दोष इति ॥ स्यादेतत् । द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि समुदायस्य न सिध्यति । ततश्च देवदत्तः पचतिपचतीत्यादौ ‘तिङ्ङतिङः’ इति सर्वस्य पदस्य निधातो न सिध्यतीति चेत् । अत्राहुः । पचतिपचतीत्यादौ हि स एव धातुः प्रत्ययश्चात्र द्विःपक्ष्यते । ततश्च यो यस्मात् प्रत्ययो विहितस्तदादितदन्तमिति विधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते । तेनावग्रहादिः सिध्यतीति
Bālamanoramā
मद्रात् परिवापणे - मद्रात्परिवापणे ।डा॑जिचि शेषः । मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणंमुण्डनमिति । 'केशान्वपते' इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोप्ति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः । **** इति बालमनोरमायाम् तद्धितप्रक्रिया । ****अथ तद्धितेषु रक्ताद्यर्थकाः । — — — — — — — — -