Prakaraṇa 40 · SK 1947–1973
तद्धिताधिकारे प्राग्दिशीयप्रकरणम्
taddhitādhikāre prāgdiśīyaprakaraṇam · 27 sūtras · Sanskrit source — translation forthcoming
SK 1948 · A 5.3.2किंसर्वनामादिप्रकृत्यधिकारः
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥ १९४८ ॥
kiṃsarvanāmabahubhyo'dvyādibhyaḥ
Siddhānta-kaumudī
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥
Bālamanoramā
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः - किंसर्वनाम । अद्व्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह — प्राग्दिशोऽधिक्रियत इति । विधेयाऽनिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम् । द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्रत्यदादीनां मिथः सहौक्तौ॑ इति किमः शेषत्वाऽर्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह — इदम इशित्यादिना ।
SK 1970 · A 5.3.22V
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ १९७० ॥
sadyaḥparutparāryaiṣamaḥparedyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ
Siddhānta-kaumudī
vārttikaसमानस्य सभावो द्यश्चाहनि
(वार्तिकम्) ॥ समानेऽहनि सद्यः ।
vārttikaपूर्वपूर्वतरयोः पर उदारीच संवत्सरे
(वार्तिकम्) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ।
vārttikaइदम इश् समसण् प्रत्यश्च संवत्सरे
(वार्तिकम्) ॥ अस्मिन्संवत्सरे ऐषमः ।
vārttikaपरस्मादेद्यव्यहनि
(वार्तिकम्) ॥ परस्मिन्नहनि परेद्यवि ।
(वार्तिकम्) ॥ अस्निन्नहनि अद्य ।
vārttikaपूर्वादिभ्योऽष्टभ्योऽहन्येद्युस्
(वार्तिकम्) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ।
vārttikaद्युश्चोभयाद्वक्तव्यः
Tattvabodhinī
NSP p. 320—सद्यः परुत्—। निपातनाद्विषयविशेषो लभ्यत इत्याह—अहनीति । सप्तम्यन्तस्याहनशब्दस्यार्थं इत्यर्थः ॥ तदर्शयति— समानेऽहीति ॥—पर उदारी चेति । पर इत्यादेशः, उदारी प्रत्ययौ
Bālamanoramā
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युर्- अन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः - सद्यःपरुत् । ॒समानस्य सभावो द्यश्चाहनी॑ति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात्सप्तम्यन्तात् द्यस्प्रत्ययः, समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । ॒पूर्वपूर्वतरयोः परादेशः उदारी च संवत्सरे॑ इत्यपि भाष्यवाक्यम् । उच्च — आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये ।॒इदम इश् समसण् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसणि णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । ॒परस्मादेद्यव्यहनी॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादेद्यविरिकारान्तः प्रत्ययः । ॒इदमोऽश्भावो द्यश्चे॑त्यपि भाष्यवाक्यम् । सप्तम्यन्तादकारान्तो द्यप्रत्ययः ।पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् चे॑त्यपि भाष्यवाक्यम् ।