PREMABASESiddhānta-kaumudī
Prakaraṇa 22 · prose section

सर्वसमासशेषप्रकरणम्

sarvasamāsaśeṣaprakaraṇam · prose only
📖 This chapter in the textbook →
show
॥ अथ सर्वसमासशेषप्रकरणम्‌ ॥
Siddhānta-kaumudī
कृत्तद्धितसमासैकशेषसनाद्यधातुरूपाः पञ्च वृत्तयः । 'परारार्थाभिधानं वृत्तिः' । 'वृत्त्यर्थावबोधकं वाक्यः विग्रहः' स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुर्लौकिकः । प्रयोगानार्होऽसाधुरलौकिकः । यथा राज्ञः पुरुषः । राजन्‌ अस्‌ पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा । समासश्चतुर्धेति प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानमपि सह सुपा {SK 649} इति विधानात्‌ । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । 'सूपप्रति' 'उन्मत्तगङ्गम्‌' इत्याद्यव्ययीभावे 'अतिमालादौ' तत्पुरुषे, 'द्वित्राः' इत्यादिबहुव्रीहौ, 'दनोष्ठम्‌' इत्यादिद्वन्द्वे चाभावात्‌ । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम्‌ । किं च । सुपां सुपा गिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥ सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत्‌ । नाम्ना, कुम्भकारः । धातुना, कटप्रूः । अजस्रम्‌ । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा । कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । 'एहीडादयोऽन्यपदार्थे च' इति मयूरव्यंसकादौ पाठात्समासः ।

The vṛttis (complex formations) are five, in the form of: kṛt [derivatives], taddhita [derivatives], samāsa, ekaśeṣa, and dhātus [ending in] san and the rest. "A vṛtti is the expression of another meaning (parārtha-abhidhāna)." "The vigraha (analytic paraphrase) is the sentence (vākya) that makes known the meaning of the vṛtti." It is of two kinds: laukika (belonging to ordinary usage) and alaukika (not belonging to ordinary usage). The laukika [vigraha] is correct (sādhu), because it is fully formed (pariniṣṭhita). The alaukika is incorrect (asādhu), unfit for use (prayoga). For example: rājñaḥ puruṣaḥ ("the king's man") [is laukika]; rājan as puruṣa su [i.e. the stems with their sup endings, the genitive singular as and the nominative singular su, is alaukika].

A nitya-samāsa (obligatory compound) is one that has no [laukika] vigraha, or one whose vigraha is not made with its own padas (asvapada-vigraha).

That samāsa is of four kinds is a statement of what generally holds (prāyovāda), because [samāsa] is prescribed by saha supā (SK 649) also for those [compounds] that lie outside the adhikāras of avyayībhāva, tatpuruṣa, bahuvrīhi and dvandva.

The ancients' saying (pravāda) as well — "the avyayībhāva has the meaning of the prior member (pūrvapada) as predominant; the tatpuruṣa has the meaning of the subsequent member (uttarapada) as predominant; the bahuvrīhi has the meaning of another word (anyapada) as predominant; the dvandva has the meaning of both members as predominant" — is intended [only] as holding generally (prāyo 'bhiprāyaḥ), because [this] is absent in avyayībhāvas such as sūpaprati and unmattagaṅgam, in tatpuruṣas such as atimāla, in bahuvrīhis such as dvitrāḥ, and in dvandvas such as dantoṣṭham.

The karmadhāraya is a particular [kind of] tatpuruṣa; the dvigu is a particular [kind] of that [karmadhāraya]. Having many padas (anekapadatva) belongs only to dvandva and bahuvrīhi; for the tatpuruṣa it has been stated [that this occurs] only in some cases.

Moreover:

(Verse) "Of sup with sup, with tiṅ, with a nāman (nominal stem), [and] with a dhātu; then of tiṅ with tiṅ, [and of tiṅ] with a subanta — thus samāsa is to be known by the wise as of six kinds."

[sup] with sup: rājapuruṣaḥ. [sup] with tiṅ: paryabhūṣayat. [sup] with a nāman: kumbhakāraḥ. [sup] with a dhātu: kaṭaprūḥ; ajasram. tiṅ with tiṅ: pibatakhādatā; khādatamodatā. tiṅ with sup: the [action] in which [one says] "kṛnta vicakṣaṇa" ("cut, O clever one!") is kṛntavicakṣaṇā. The samāsa [in this last] is because "ehīḍādayo 'nyapadārthe ca" ("and ehīḍa and the rest, in the sense of another word's meaning") is read in the mayūravyaṃsakādi [list] (the list headed by mayūravyaṃsaka).

Tattvabodhinī
NSP p. 218–219
प्रसङ्गादाह—कृत्तद्धितेत्यादि ॥—पञ्च वृत्तय इति । पञ्चानां ‘वृत्तिः’ इति पूर्वाचार्याणां संज्ञा इहाप्याश्रीयत इति भावः ॥ ताल्लक्षणमाह—परार्थेति । प्रत्ययान्तर्भावेन परपदार्थान्तर्भावेन वा यो विशिष्टोऽर्थः स परार्थः । स चाभिधीयते येन तत्परार्थाभिधानम् । अत एव तिङन्तं वृत्तिर्न भवति । तत्रैकार्थीभावानभ्युपगमात् । अन्यथा ‘मृदु पचति’ इत्यादौ फले मृदुलान्वयो न स्यात् ‘सविशेषणानां वृत्तिर्न भवति, वृत्तस्य च विशेषणयोगो न’ इत्यभ्युपगमादित्येके ॥ समर्थसूत्रे कैयटस्लाह ‘परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते’ इति ॥—अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः ॥—अस्वपदेति । समस्यमानयावत्पदाघटित इत्यर्थः ॥—द्वन्द्वबहुव्रीह्योरेवेति । अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्बहुपदसमासत्वं तयोरेव संभवतीति भावः ॥—कच्चिदेवेति । ब्रह्मजात इत्यादौ ॥—नाम्नेति । प्रातिपदिकेनेत्यर्थः ॥—कुम्भकार इति । अत्र हि सुवुत्पत्तेः प्रागेवोपपदसमासः ॥—कटप्रूः । अजस्रमिति । ‘क्विब्वचिप्रच्छि’- इति वार्तिके ‘नमि-कम्पि’- इति सूत्रे च ‘कटप्रू’ ‘अजस्रं’ इति निपातनाद्धानुना समासः ॥—पिवतखादतेति । ‘आख्यातमाख्यातेन’- इति मयूरव्यंसकादौ पाठात्समासः ॥ इति सर्वसमासशेषः ॥
Bālamanoramā
अथ सर्वसमासशेषप्रकरणम् । — — — — — — — — — — अथ प्रसङ्गात्सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते — कृत्तद्धितेति । कृदन्ताः, तद्धितघटिताः, समासाः, एकशेषाः, सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह — परार्थाभिधानं वृत्तिरिति ।समर्थः पदविधि॑रिति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयवपदार्थेभ्यः । परः=अन्यो योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्चसमर्थः पदविधि॑रिति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव,सुप्सुपे॑त्यनुवर्त्त्य समासविधानात्, सुबन्तात्तद्धितोत्पत्तेः । वक्ष्यमाणत्वात् । कृतामपि केषाचित्कर्मण्य॑णिति उपपदनिमित्तकानां पदविधित्वमस्त्येव ।सुप आत्मनःक्य॑जित्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेद्र्वन्द्वविषये तद्विधानादेकार्थीभावोऽस्त्येवेति मञ्जूषादौ विस्तरः । वृत्त्यार्थवबोधकमिति । यद्यपि वृत्तावेव समुदायशक्त्याविशिष्टैकार्थप्रतिपातिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपञ्चितम्, तथापि समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानर्ह इति । व्याकरमसंस्कृतत्वाऽभावादित्यर्थः ।यथे॑त्युदाहरणप्रदर्शने । राज्ञः पुरुष इति ।लौकिकविग्रहवाक्य॑मिति शेषः । राजन्-अस्-पुरुषृसु इति ।अलौकिकविग्रहवाक्य॑मिति शेषः । अविग्रहो नित्यसमास इति । लौकिकविग्रहवाक्यरहित इत्यर्थः । समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यत्ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाऽभावाद्गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति ।प्राय॑सित्यव्ययं बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आह — अव्ययीभावेति । बहुर्भूतानामपीति ।समासाना॑मिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्यक इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चे॑त्यनन्तरं श्रुतम्-॒अभावा॑दिति पदम्-अव्यीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मतगङ्गं देशः, लोहितगङ्गं देश इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याऽभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याऽभावादित्यर्थः । 'द्वित्रा' इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याऽभावादित्यर्थः ।दन्तोष्ठ॑मित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याऽभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति ।तत्पुरुषः समानाधिकरणः कर्मधारय॑ इत्युक्तेरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः ।सङ्ख्यापूर्वो द्विगुः॑ इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः । क्वचिदेवेति । 'द्व्यह्नजात' इत्यादावित्यर्थः । इत्युक्तमिति ।भाष्यादा॑विति शेषः । किंचेति-अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां-सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्यादाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । 'राज्ञ' इत्यस्य षष्ठन्तस्य 'पुरुष' इति सुबन्तेन समासः । तिङेति । सुपां तिङेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति ।सह सुपे॑त्यत्रसहे॑ति योगविभागात्परीति सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति ।उपपदमति॑ङिति कुम्भस्येति षष्ठन्तस्य कारेति प्रातिपदिकेन समासः,गतिकारकोपपदानां कृद्भिः सह समास वचनं प्राक् सुबुत्पत्ते॑रित्युक्तेरिति भावः । धातुनेति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति । क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च॑ इति वार्तिकेन 'प्रु गतौ' इति धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यं, क्विब्विधाविह सप्तमीनिर्देशाऽभावेन उपपदत्वाऽभावात् । अथ सुपां धातुनोदाहरणान्तरमाह — अजरुआमिति ।नमिकम्पिस्म्यजसकमिहि#ंसदीपो रः॑ इति सूत्रे रप्रत्ययविधौ जस्धातुना सह नञ्समासो निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात्तिङन्तस्य तिङन्तेन समासः । तिङा सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण !कृन्त=छिन्द्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एही डादय इति । अत्र सुपां तिङेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात्समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्म्, उभयत्रापि सुप्तिङ्घटितत्वाऽविशेषादित्याहुः । अन्ये तु सुपां तिङेत्यनेन सुबन्तपूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः । *****इति बालमनोरमायाम् सर्वसमासशेषः ।
translator notes
  • textual Several evident slips in the source are translated on the intended reading and not emended: 'parārārthābhidhānaṃ' for parārthābhidhānaṃ (a doubled syllable); 'vākyaḥ vigrahaḥ' for vākyaṃ vigrahaḥ; 'bahirbhūtānam api' for bahirbhūtānām api; 'giṅā' in the verse for tiṅā (the examples that follow have 'tiṅā'); 'danoṣṭham' for dantoṣṭham (the samāhāra dvandva 'teeth and lips').
  • textual The source's 'kṛttaddhitasamāsaikaśeṣasanādyadhāturūpāḥ' has 'sanādya-dhātu', where sanādyanta-dhātu ('dhātus ending in san and the rest') is expected (compare sanādyantā dhātavaḥ, A 3.1.32). Translated as 'dhātus [ending in] san and the rest', with the ending supplied in brackets.
  • translator 'saha supā' (SK 649) is A 2.1.4. The 'mayūravyaṃsakādi [list]' is the gaṇa of mayūravyaṃsakādayaś ca (A 2.1.72, SK 754), where the gaṇasūtra ehīḍādayo 'nyapadārthe is read. The source's own form of that gaṇasūtra here carries a final 'ca'.
  • commentary BM and TB both open the section as taken up incidentally (prasaṅgāt), BM calling it a miscellany (prakīrṇaka) useful for all compounds. BM: the five are kṛdantas, formations containing a taddhita, samāsas, ekaśeṣas, and dhātus ending in san and the other affixes (sanādipratyayānta) — followed for the bracketed '[ending in]'. TB: 'vṛtti' is the earlier teachers' name for the five, adopted here.
  • commentary On 'parārthābhidhānaṃ vṛttiḥ' the commentators construe 'para' differently. BM: the definition stands in the Bhāṣya on 'samarthaḥ padavidhiḥ' (A 2.1.1); abhidhāna is lyuṭ in the instrument sense; 'para' = other (anya) than the meanings of the padas of the vigraha, i.e. the single qualified meaning (viśiṣṭaikārtha) conveyed by the collective power (samudāyaśakti) of the padas. TB: para-artha = the qualified meaning arising through the inclusion of an affix or of another word's meaning; hence a tiṅanta is not a vṛtti; it quotes Kaiyaṭa on that sūtra: the meaning of another word is expressed by a different word, as in rājapuruṣa the meaning 'man' is expressed by rāja. Corrected 2026-10-05: the English formerly read 'a meaning [that belongs] to another', taking TB/Kaiyaṭa's side; it now reads neutrally 'another meaning'.
  • commentary BM on the vigraha: although (per the Bhāṣya on the samartha-sūtra) only the vṛtti conveys the qualified single meaning, the vigraha sentence is the group of separately used padas bearing the vibhaktis fit for the compound. 'pariniṣṭhita' = refined by grammar (vyākaraṇa-saṃskṛta); 'prayogānarha' = because not so refined. rājñaḥ puruṣaḥ is the laukika and rājan as puruṣa su the alaukika vigraha sentence. Followed for 'fully formed' and the bracketed labels.
  • commentary BM and TB: 'avigrahaḥ' = without a laukika vigraha (BM: the compound being obligatory) — followed for the bracketed '[laukika]', corrected 2026-10-05 from a bare 'no vigraha'. 'asvapada-': BM = a vigraha made with other words of the same meaning as the compounded padas; TB = one not containing all the compounded padas. Both fit 'not made with its own padas', left as it stands. BM adds that in name compounds (saṃjñā) a sentence is still used to show the member words, and the claim that such compounds are nitya is there secondary (gauṇa); recorded.
  • commentary BM: 'prāyas' is the indeclinable for 'mostly', so the fourfold claim aims at the majority; 'bahirbhūtānām api' is completed by 'samāsānām' (followed in '[compounds]'). In the next sentence 'abhāvāt', heard after 'dvandve ca', construes with each of the four: sūpaprati is uttarapada-predominant and unmattagaṅgam / lohitagaṅgaṃ deśaḥ anyapada-predominant, so neither has the prior member predominant; atimāla etc. are pūrvapada-predominant; dvitrāḥ is ubhayapada-predominant; in dantoṣṭham only the samāhāra is predominant. Followed for '[this] is absent'.
  • commentary BM: karmadhāraya is a kind of tatpuruṣa by 'tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ', dvigu a kind of karmadhāraya by 'saṃkhyāpūrvo dviguḥ' (followed for '[karmadhāraya]'); 'anekapadatva' = having two, three, four or more padas, because the 'aneka' of 'anekam anyapadārthe' carries into the dvandva rule (TB same); 'kvacid eva' = in dvyahnajāta and the like (TB's OCR: brahmajāta); 'ity uktam' = in the Bhāṣya etc.
  • commentary BM on the verse: subantas compound with a subanta, a tiṅanta, a prātipadika (TB: nāman = prātipadika) and a dhātu; 'atha' breaks off the preceding clause; tiṅantas with a tiṅanta and a subanta — six kinds. Followed for 'then'. Examples (BM; TB agrees where it comments): paryabhūṣayat — pari with the tiṅanta by splitting off 'saha' from 'saha supā' (yogavibhāga); kumbhakāraḥ — upapada compound by 'upapadam atiṅ' with the prātipadika kāra, since gati, kāraka and upapada compound with kṛts before the sup arises; kaṭaprūḥ — compound with the dhātu pru (gatau) made by nipātana in the vārttika 'kvib vacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho 'saṃprasāraṇaṃ ca', not an upapada compound; ajasram — nañ with the dhātu jas by nipātana in 'nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ'; pibatakhādatā — by the mayūravyaṃsakādi (TB: 'ākhyātam ākhyātena…' read there).
  • commentary BM ties 'ehīḍādayo 'nyapadārthe ca' to kṛntavicakṣaṇā alone, as the answer to 'how does a tiṅanta compound with a subanta here?' (the tiṅ-with-tiṅ compounds having been accounted for by the mayūravyaṃsakādi already). Corrected 2026-10-05: the English formerly read 'The samāsa [in these]'; now '[in this last]'. BM closes by recording that the sixfold count is open to question (cintya) — fivefold is proper, sup-with-tiṅ and tiṅ-with-sup both being compounds of a sup and a tiṅ — while others distinguish them by which member stands first. Recorded.
  • textual The Bālamanoramā on this prose is sk.p22.prose.b1, re-filed 2026-10-05 from sk.2628.b1 (p55), with its colophon 'iti bālamanoramāyāṃ sarvasamāsaśeṣaḥ'; the Tattvabodhinī is sk.p22.prose.t1, re-filed 2026-10-05 from sk.939.t1 (p21), with its closing 'iti sarvasamāsaśeṣaḥ'. The commentary notes above are made from both.